मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 771–780
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 771–780
पृष्ठ 771
पाठ पढ़ें पाठ छिपाएँ
॥ अथ षष्ठोऽध्यायः ॥
वानप्रस्थाश्रम में प्रवेश-एवं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः ।
वने वसेत्तु नियतो यथावद्विजितेन्द्रियः ॥ १ ॥
भाष्य — गृहोपलक्षित आश्रमो गृहाश्रमः । ‘ गृहाः ’ दारा: । तत्र स्थित्वा तमनुष्ठाय वने वसेदिति विधिः । स्थित्वेति क्त्वाप्रत्ययेन पौर्वकाल्यं गार्हस्थ्यस्य वनवासाद्दर्शयति । क्रमेणाश्रमः कर्तव्यः । कृतगार्हस्थ्यो वनवासेऽधिक्रियते । समुच्चयपक्षमाश्रित्यैतदुक्तम् । अन्यथाऽविप्लुतब्रह्मचर्यादपि वनवासो विद्यत इत्येतदपि वक्ष्यते । विजितेन्द्रियः पक्ककषायः क्षीणराग इत्यर्थः ।
एवं विधिवत् यथावदितिपदानि वृत्तपूरणानि । तानि प्राक्तत्र तत्र व्याख्यातानि ।
एतावद्विधीयते । गार्हस्थ्यं कृत्वा वनवास आश्रयितव्यः ॥ १ ॥
हिन्दी — ब्रह्मचर्याश्रम के बाद समावर्तन संस्कार को प्राप्त स्नातक द्विज इस प्रकार ( पञ्चमाध्यायोक्त ) विधिपूर्वक गृहस्थाश्रम में रहकर आगे ( इसी षष्ठ अध्याय में कथित ) नियम से जितेन्द्रिय होकर वन में निवास करे ॥ १ ॥
[ अतः परं प्रवक्ष्यामि धर्म वैखानसाश्रमम् । वन्यमूलफलानां च विधिं ग्रहणमोक्षणे ॥ १ ॥ ]
हिन्दी — इसके आगे वानप्रस्थाश्रम के धर्म और वन्य ( जंगली ) कन्दों तथा फलों के ग्रहण एवं त्याग करने की विधि कहूँगा ॥१ ॥
वानप्रस्थाश्रम काल-गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः ।
अपत्यस्यैव चापत्यं तदाऽऽरण्यं समाश्रयेत् ॥ २ ॥
भाष्य - यदुक्तं त्यक्तविषयोपभोगगर्धोऽधिक्रियत इति तदेव दर्शयति । वली त्वक्शैथिल्यम् । पलितं केशपाण्डुर्यम् । अपत्यस्यापत्यं पुत्रस्य पुत्र इत्याहुः ।
पृष्ठ 772
पाठ पढ़ें पाठ छिपाएँ
६ ९ २ मनुस्मृतिः [ षष्ठः सत्यपि दुहितुरपत्ये दौहित्रे पुत्रस्यापि कन्यायां जातायां नैवं विधिमिच्छन्ति शिष्टाः । अन्ये तु शिर: पालित्यं पौत्रोत्पत्तिं च वयोविशेषलक्षणार्थमाहुः यस्य कथंचित्पालित्यं न भवेत्सोऽपि वार्धक्ये वनं समाश्रयेत् । यथैव ' जातपुत्रः कृष्णकेशस्तु ' आधानेऽधिक्रियते,
एवं जातपौत्रः पलितशिराः । तदापि पुत्रजन्म कृष्णकेशता च वयोविशेषोपलक्षणार्थमेव ।
‘ नातिशीघ्रं नातिचिरम् ’ इत्यर्थस्योपलक्षणत्वे तु प्रमाणं वक्तव्यम् ॥२ ॥
हिन्दी — जब गृहस्थाश्रमी बली ( अपने शरीर के चमड़े को सिकुड़ा हुआ ) पके हुए बाल तथा अपने पुत्र के पुत्र ( पौत्र ) को देख ले, तब वन का आश्रय, ( वानप्रस्थाश्रम में प्रवेश ) करे ॥२ ॥
सस्त्रीक अथवा अस्त्रीक वानप्रस्थाश्रम ग्रहण-सन्त्यज्य ग्राम्यमाहारं सर्वं चैव परिच्छदम् । पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा ॥ ३ ॥
भाष्य — व्रीहियवमयमन्नं ततः प्रभृति नाश्नीयादित्येतत् ' संत्यज्येति ' उच्यते । तदुक्तं ‘ मूलाशीत्यादि ’ । परिच्छदः गवाश्ववस्त्रासनशय्यादिः । यदि भार्याया इच्छा तदा सहगमनम्, अन्यथा एकाकिनः । अन्ये तु तरुणीं निक्षिप्य वृद्धया सहेति वर्णयन्ति । सत्यां भार्यायामयं विधिः, पुत्रेषु निक्षेपः वनगमनं वा । असत्यामपि मृतायां वन-वास आपस्तम्बादिभिः स्मर्यते " पुनराधान ” इत्यत्र । यस्येन्द्रियचापल्यं नास्ति स वान-प्रस्थः । इतरः पुनर्दारान्परिगृह्णीयादिति व्यवस्था || ३ ॥ हिन्दी — ग्राम्य आहार ( धान, यव आदि ग्राम सम्बन्धी भोजन ) तथा परिच्छद ( गौ, घोड़ा, हाथी, शय्या आदि गृह- सम्पत्ति ) को छोड़कर वन में जाने की इच्छा नहीं करने वाली अपनी पत्नी को पुत्रों के उत्तरदायित्व ( देख - रेख ) में सौंपकर तथा वन में साथ जाने की इच्छा करने वाली अपनी पत्नी को साथ में लेकर वन को जावे ॥३ ॥
अग्निहोत्र के साथ वानप्रस्थाश्रम ग्रहण-अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम् । ग्रामादरण्यं निष्क्रम्य निवसेन्नियतेन्द्रियः ॥४ ॥
भाष्य — अग्नय एवाग्निहोत्रशब्देनोक्ताः । श्रौतानग्नीन्त्समादाय गृहीत्वा गृह्यं च
अग्निहोत्रपरिच्छदं स्रुक्नुवादि ।
ग्राम्यस्य परिच्छदस्य त्यागविधानादग्निसंबद्धस्य प्रतिप्रसवोऽयम् ॥४ ॥
पृष्ठ 773
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ६ ९ ३ हिन्दी — श्रौत तथा आवसथ अग्नि और स्रुक्स्रुवा आदि तत्सम्बन्धी सामग्री लेकर ग्राम से बाहर वन में जाकर जितेन्द्रिय होकर रहे ॥ ४ ॥
वन्य- अन्य - फलादि से पञ्चमहायज्ञ करना -मुन्यन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा । महायज्ञान्निर्वपेद्विधिपूर्वकम् ॥ ५ ॥
भाष्य – एतानेव ये गृहस्थस्य विहिताः । निर्वपेदनुतिष्ठेत् । विधिपूर्वकमित्यनु-वादः श्लोकपूरणार्थः ॥५ ॥
हिन्दी — पवित्र अनेकविध मुन्यन्न ( नीवार आदि ) अथवा शाक, मूल और फल आदि से पूर्वोक्त ( ३।७० ) पञ्चमहायज्ञों को विधिपूर्वक करता रहे ॥ ५ ॥
मृगचर्म, चीर तथा जटादि का धारण-वसीत चर्म चीरं वा सायं स्नायात्प्रगे तथा ।
जटाश्च बिभृयान्नित्यं श्मश्रुलोमनखानि च ॥ ६ ॥
भाष्य — चर्म गोमृगादीनाम् । चीरं वस्त्रखण्डम् । सायं दिवसावसानसमयः । प्रगे चाह्नः प्रथमोदये । एवं सायं स्नानविधानाद्रात्रौ भोजनमस्याहुः, भुक्ते स्नानप्रतिषेधात् । तदयुक्तमित्यन्ये । यत: स्नातकव्रत'मतः स्नानमाचरेत् भुक्त्वे'ति । महाभारते तु पुरुषमात्रधर्मतया स्मर्यते ।
त्रैकालिकमप्यस्य स्नानं भविष्यति वैकल्पिकम् ।
जटाश्मश्रुलोमनखानि न कर्तयेत् ॥६ ॥
हिन्दी – मृग आदि का चर्म या पेड़ों का वल्कल धारण करे, सायंकाल तथा प्रात: काल स्नान करे और सर्वदा जटा, दाढ़ी, मूँछ एवं नख को धारण करे ( क्षौर कर्म न करावे ) ॥६ ॥
पञ्चमहायज्ञ तथा अतिथिसत्कार— यद्भक्षः स्यात्ततो दद्याद्बलिं भिक्षां च शक्तितः । अम्मूलफलभिक्षाभिरर्चयेदाश्रमागतम् ॥७ ॥
भाष्य- — मुन्यन्नैरित्युक्तम् । तानि च नीवारादीनि वन्यानि धान्यानि तथा शाकादीनि वन्यान्येव । अन्नशब्दो बाहुल्येन धान्यविकारे भक्तसक्तुपिष्टादौ प्रयुज्यते । ततः शाकादीनां सत्यपि मुन्यन्नत्वे पृथगुपादानम् । मुनयस्तापसास्तेषामन्नानि मुन्यन्नानि । अग्नौ पाकधर्मान्महायज्ञान्निर्वपेत् । मनु I- 48
पृष्ठ 774
पाठ पढ़ें पाठ छिपाएँ
६ ९ ४ मनुस्मृति: [ षष्ठः यदा कालपक्वफलाशी तदा न निर्वपेदित्याशङ्कायामाह । यद्भक्षः स्यात् । यदेव भक्षयेत्तदेव पिष्टादि यथासामर्थ्यं दद्यात् । बलिं अनग्निहोत्रं इन्द्रायेन्द्रपुरुषेत्यादि यद्विहितम् । अग्नौ त्वस्मिन्पक्षे होमो नास्ति । तदयुक्तम् । बलिशब्दस्य चेज्यामात्रवचनत्वादग्नावनग्नौ च तुल्यमेतत् । अथाप्ययं पक्षः स्याद्यदेव भक्षयेत्तदेव, अग्नावेव, पक्वेनाग्नौ होम: कर्तव्यस्तथापि तावन्मात्रप्रयोजनं शाकादि पक्ष्यति, स्वयं कालपक्वं भोक्ष्यते । सर्वथा कालपक्काशिनोऽप्यस्ति वैश्वदेवोऽग्नावेव । अबादिभिर्द्वन्द्वोऽयम् । अद्भिर्मूलफलैः भिक्षया च नीवारादिनाऽचर्ययेदाश्रमागतं पान्थम् ॥७ ॥
हिन्दी — जो भोज्य पदार्थ ( ६।५– • मुन्यन्न तथा शाक - मूल - फलादि ) हो, उसी से बलि ( बलिवैश्वदेवादि पञ्चमहायज्ञ कर्म ) करे, भिक्षा दे और जल, कन्द तथा फलों की भिक्षा देकर आये हुए अतिथियों का सत्कार करे ॥ ७ ॥
वानप्रस्थ के अन्य सामान्य नियम-स्वाध्याये नित्ययुक्तः स्याद्दान्तो मैत्रः समाहितः । दाता नित्यमनादाता सर्वभूतानुकम्पकः ॥८ ॥
भाष्य — आश्रमबुद्ध्या स्वाध्यायादीनां निवृत्तिमाशङ्कमान आश्रमान्तरत्वादस्यानि-वृत्त्यर्थमाह । नित्ययुक्तः । न यथा गार्हस्थ्ये । तत्र हि गृहचेष्टार्था अपि व्यापाराः सन्ति, तेष्वनुष्ठीयमानेषु नास्ति स्वाध्यायः । दान्तो दमयुक्तः मदवर्जितः । मैत्रः मित्रकर्मप्रधानः प्रियहितभाषी । सन्निहितस्य चित्तानुकूलनपरः स समाहितः । नासम्बद्धं नाप्राकरणिकं बहु पराधीनो-ऽपि ब्रूयात् । दाता अपां मूलभिक्षाणां च । अनादाता पथ्यौषधाद्यर्थमाश्रमान्तरादागतं न याचेत । पि कारुणिकत्वे न परार्थमन्यं सर्वभूतानुकम्पकः । अनुकम्पा कारुण्यम् । सत्यपि याचेत ॥८ ॥
हिन्दी - सर्वदा वेदाभ्यास में लगा रहे; ठंडा - गर्म, सुख - दुःख, मान - अपमान आदि द्वन्द्वों को सहन करे; सबसे मित्रभाव रखे, मन को वश में रखे, दानशील बने, दान न ले और सब जीवों पर दया करे ॥ ८ ॥
वैतानिकं च जुहुयादग्निहोत्रं यथाविधि ।
दर्शमस्कन्दयन्पर्व पौर्णमासं च योगतः ॥ ९ ॥
पृष्ठ 775
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा’हिन्दीटीकासहिता ६ ९ ५ भाष्य- ‘ वितानो ’ विहारस्तत्र भवं वैतानिकम् । त्रेताग्निविषयं कर्म श्रौतम् । तज्जुहुयात्कुर्यात् । ' अग्निहोत्र ' शब्दो यवाग्वादौ होमसाधने द्रव्ये वर्तते, न कर्मनामधेयम् । ततश्च तज्जुहुयादाहवनीयेऽग्निहोत्रादिभिर्जुहोतीत्यर्थ उपपत्रः प्रथमपक्षेऽग्निहोत्रशब्दो जुहोतिना-ऽभिन्नार्थः । " ननु च ' पुत्रेषु भार्यां निक्षिप्येति ' पक्षान्तरमुक्तम् । तत्र कथं तया विना श्रौतेष्व-धिकारः? ’ ” ‘ प्रोषितस्य यथेति चेत् । तथा प्रोषितो वा यजमानः संविधानाद्दूरस्थोऽप्यधि-क्रियते संविधाने, एवं भवति कर्त्ता; तद्वत्पत्न्यपि वनं प्रतिष्ठमानमनुज्ञास्यति, न सहा-धिकारो विरोत्स्यत ' इति । तदपि वार्तम् । दैवान्मानुषाद्वा प्रतिबलात्कथञ्चित्प्रवासोपपत्तेः युक्तमीदृशमनुष्ठानं, न स्वेच्छया । सत्यां शक्तौ बहूनि चाङ्गानि परिलुप्येरन् । दर्शपौर्ण-मासयोः “ वेदोऽसि वित्तिरसि ' इत्यादि पत्नीं वाचयेदित्युक्तम्, तद्धीयेत । अथोच्येत— ‘ सहप्रस्थानपक्षे विधिरयं भविष्यतीति ' एतदपि न । विशेषस्याश्रुतत्वात् । निक्षेपपक्षे चाग्नीनां प्रातिपत्त्यन्तरमनाम्नातम् । किञ्च सहत्वपक्षेऽपीदं विरुध्यते । “ वासन्तशारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहतैः । पुरोडाशांश्चरूंश्चैव विधिवन्निर्वपेत्पृथक् ॥ ” इति ( श्लो ० ११ ) । आरण्यानि मुन्यन्नानि नीवारादीन्यभिप्रेतानि । ग्राम्यस्य परिच्छदस्य त्यागविधानात् । व्रीह्यादिभिश्च वेदे पुरोडाशा विहितास्ते च ग्राम्याः । न च स्मृतिश्रुतिषु उत्पन्नन्यायेन व्रीहिशास्त्रविधिन्यायेन वा केनचिन्मेध्येनारण्येनान्नेन प्रयोगः परिसमाप्येत निक्षेपे । ते च भार्यया दुरुपपादाः । कथं यावज्जीवश्रुतौ सत्यामग्नीनां त्यागो भार्याया वा । तस्मादा-श्रमान्तरविधानं वैतानिकानां च कर्मणामनुष्ठानं च संवदेत् । कर्तव्योऽत्र यत्नः । केचिदाहुः । वैतानिकशब्दः स्मार्तेष्वेव कर्मसु स्तुत्या प्रयुक्तः । न च स्मार्तेषु व्रीह्यादि नियमशास्त्रमस्ति । तत्र ह्याम्नायते ( रामायणे अयोध्याकाण्डे ) — “ यदन्नः पुरुषो राजंस्तदन्नास्तस्य देवताः ” इति । अतश्च मुन्यन्नैरनुष्ठानमविरुद्धं भवेत् व्रीह्यादिशास्त्र-विरोधः परिहृतः स्यात् । " सहाधिकारस्तत्रापि विद्यते । तस्य कः परिहारः उभयोः स्मार्त-त्वादस्यामवस्थायां बाधिष्यते । यत्तु श्रौतवचनं “ पत्न्या सह यष्टव्यमिति ” तच्छ्रौतेष्वेव । अथवा नैवायं विधिर्गृहस्थाग्नेः किं तर्हि ' श्रावणिकेनाग्निमाधायेति गौतमेन पठितम्, इहापि वक्ष्यति “ वैखानसमते स्थित ' इति ( ६।२१ ) । तस्माच्छास्त्रविहितानि कर्मान्त-राण्येवैतानि । दर्शपूर्णमासादयस्तु शब्दाः भक्त्या तत्र प्रयुक्ताः । अतस्तत्र तदाधानमभार्यस्यैव ।
पृष्ठ 776
पाठ पढ़ें पाठ छिपाएँ
६ ९ ६ मनुस्मृतिः [ षष्ठः गार्हस्थ्योपात्तानां प्रतिपत्तिरुक्ता “ अग्नीनात्मनि वैतानानिति " ( ६ । २५ ) । यत्तु यावज्जीवश्रुतौ सत्यां कथमग्नीनां त्याग इति — एतच्चातुराश्रम्यानुक्रमण-प्रकरणे निरूपयिष्यते । अन्ये पुनराहुः । होमो ग्राम्यानामन्नानां प्रतिषिद्धः, न तु देवताद्यर्थ उपयोगः । ननु च “ यजमानपञ्चमा इडां भक्षयन्तीति " तत्रापि विद्यते भक्षः । सत्यम् । स तु शास्त्रीयो न लौकिकः । लौकिकस्य च प्रतिषेधः ' संत्यज्येति ' । ग्रामप्रवेशश्च तस्य तदर्थो न विरुध्यते । तथा वक्ष्यति " ग्रामादाहृत्य वाऽश्नीयादिति ” ( ६ । २८ ) । तदेतदसत् । ‘ मुन्यन्नैरिति ’ विधानात् । तदेवं श्रावणिकेनाग्निमाधायेत्यादि सर्वमुपपन्नम् । तथाहि ‘ “ अग्निहोत्रं समादायेति ” पठ्यते ( ६ । ४ ), न तु संत्यज्येति । समारोपणमपि मुमूर्षोस्तप्ततपसो वक्ष्यते प्रथमप्रवासे । न च तुरायणादिशब्दानां श्रावणिकाग्निविषयत्वे कथञ्चिदुपपत्तिः । मृतभार्यस्य तदाधानं वाचनिकं भविष्यति । यदा वा ब्रह्मचर्यादेव वन-वासमिच्छेत्तदा श्रावणिकाधानम् । तस्मादाहिताग्नेः सहाग्नि वनप्रस्थानं सभार्यस्य । तत्र च यथाविधि व्रीह्यादिना श्रौतकर्मानुष्ठानम् । व्रीह्यादीनामपि मुन्यन्नता कथञ्चिदुपपाद्या । व्रीहियवावपि पवित्रम् । भार्यानिक्षेपश्चानाहिताग्नेः कथंचित्स्मार्तेऽग्नौ गतिः । उभयोः स्मार्तत्वात् । यस्य च द्वे भार्ये जाते एकया चाग्नयो नीतास्तस्य द्वितीयां भार्यां निक्षिप्येति वचनम् । अस्कन्दयन् । स्कन्दनं विध्यतिक्रम:, यथाविहितमनुष्ठानस्यासंपादनम् । एतच्च पादपूरणम् । योगत इत्येतदपि । योगत अस्कन्दयन् युक्त्याऽविनाशयन् । युक्ति-र्विधिरेव ॥९ ॥
हिन्दी — दर्श ( अमावस्या ), पौर्णमास ( पूर्णिमा - सम्बन्धी ) पर्वों को यथा समय त्याग नहीं करता हुआ ( वानप्रस्थाश्रमी ) विधिपूर्वक वैतानिक अग्निहोत्र करता रहे || ९ || विमर्श - गार्हपत्य कुण्डस्थ अग्नि का आहवनीय तथा दक्षिणाग्निकुण्डों में स्थापन न करना ' वितान ' कहलाता है, उसमें किया गया हवन ' वैतानिक ’ है ।
दर्शेष्ट्याग्रयणं ' चैव चातुर्मास्यानि चाहरेत् ।
तुरायणं च क्रमशो दाक्षस्यायनमेव च ॥१० ॥
१. पाठभेद — अर्शेष्ट्याग्रयणम् ।
पृष्ठ 777
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ६ ९ ७ भाष्य — दर्शेष्टिश्च आग्रयणं चेति समाहारद्वन्द्वः । चातुर्मास्यतुरायणदाक्षायणाः
श्रौतकर्मविशेषवचनाः ।
नित्या एव तुरायणादयः केषांचित् ॥१० ॥
हिन्दी – नक्षत्रयाग, आग्रहायण ( नव - सस्य ) याग, चातुर्मास्य याग, उत्तरायण याग और दक्षिणायन याग को श्रौतस्मार्त विधि से क्रमशः करे ॥ १० ॥
विमर्श— किसी - किसी व्याख्याकार का मत है कि — प्रकृत श्लोकोक्त दर्श-पौर्णमास्य आदि याग विधान वानप्रस्थ के लिए स्तुतिपरक हैं, अनुष्ठानपरक नहीं; क्योंकि ये ( दर्श - पौर्णमासादि याग कर्म ) ग्राम्य ब्रीहि आदि से ही साध्य हैं; स्मृतिवचन श्रौताङ्ग का बाधक भी नहीं हो सकता; क्योंकि अग्रिम ( ६।११ ) वचन में मुन्यन्न नीवार आदि के वानप्रस्थविषयक होने से स्पष्टतया कही गयी चरुपुरोडाश आदि विधि का बाध करना अनुचित है । गोविन्दराज के मतानुसार वन्य ब्रीहि आदि से ही किसी प्रकार इन यागों को करना चाहिये ।
वासन्तशारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहृतैः ।
पुरोडाशांश्चरूंश्चैव विधिवन्निर्वपेत्पृथक् ॥ ११ ॥
भाष्य — यदा मुन्यन्नैरिति न पूर्वेण संबध्यते, तदा नास्ति चोद्यं “ वैतानिकानि कथं व्रीह्यादिचोदितानि क्रियेरन् ” । अत्र चरुपुरोडाशा वैखानसशास्त्रोक्ता एव वेदितव्याः । वसन्ते जायन्ते पच्यन्ते वा वासन्तानि । एवं शारदैर्मेध्यैरित्यनुवादः । स्वय-माहृतैः । प्रतिग्रहादीनि वृत्तिकर्माणि निषिध्यन्ते । स्मार्तानामुक्तानां कर्मणामनुष्ठानार्थं पुन-र्हृत्यादिनापहरणम् । विधिवत्पृथगितिपूरणे ॥११ ॥
हिन्दी – वसन्त तथा शरद् ऋतु में पैदा हुए एवं स्वयं लाये गये पवित्र मुन्यन्नों से पुरोडाश तथा चरु को शास्त्रानुसार ( उक्त कार्य की सिद्धि के लिए ) अलग - अलग तैयार करे ॥११ ॥
देवताभ्यस्तु तद्धुत्वा वन्यं मेध्यतरं हविः ।
शेषमात्मनि युञ्जीत लवणं च स्वयं कृतम् ॥ १२ ॥
भाष्य - पर्वसु यद्देवताभ्यो दत्तं तच्छिष्टमेव भक्षयेन्न शाकमूलफलादि । शेष-मात्मनि युञ्जीत आत्मनिमित्तमुपयोजयेत्, आत्मार्थं शरीरस्थित्यर्थमित्यर्थः । स्वयं कृतं च लवणं न सैन्धवादि निषेवेत ॥ १२ ॥
हिन्दी - वन में उत्पन्न अत्यन्त पवित्र उस हविष्यान्न से देवों के उद्देश्य से हवनकर बचे हुये अन्न को भोजन करे तथा स्वयं बनाये हुए लवण ( क्षार मिट्टी से बनाये गये नमक ) को काम में लावे ॥१२ ॥
पृष्ठ 778
पाठ पढ़ें पाठ छिपाएँ
६ ९ ८ मनुस्मृतिः [ [ षष्ठः
स्थलजौदकशाकानि पुष्पमूलफलानि च ।
मेध्यवृक्षोद्भवान्यद्यात्स्नेहांश्च फलसंभवान् ॥ १३ ॥
भाष्य -- स्थलजानि उदकजानि अद्यात् । तथा पुष्पमूलफलानि च ॥ १३ ॥
हिन्दी – भूमि तथा जल में उत्पन्न शाक को, वृक्षों के पवित्र पुष्प, मूल तथा फल को और फलों से बने स्नेह को भोजन करे ॥१३ ॥
मधु मांसादि का त्याग—
वर्जयेन्मधुमांसं च भौमानि कवकानि च ।
भूस्तृणं शिग्रुकं चैव श्लेष्मातकफलानि च ॥ १४ ॥
फि भाष्य – भौमानि कवकानि । कवकशब्दः प्राग्व्याख्यातः छत्राकशब्दपर्यायः ( ५।१ ९ ) । तानि च कवकानि भूमौ जायन्ते वृक्षकोटरादावपि I । अतो विशेषणार्थं भौम-ग्रहणम् । “ समाचारविरोधो गृहस्थधर्मेषु चाविशेषेण कवकानां प्रतिषेधः । वानप्रस्थस्य च नियमातिशयो युक्तः ” । तस्माद्भौमानीति स्वतंत्रपदम् । तत्र गोजिह्विका नाम कश्चित्पदार्थो वनेचराणां प्रसिद्धस्तद्विषयं बोद्धव्यम् । न तु यत्किंचिद्भुविजातमात्रस्य । कवकानां प्रतिषिद्धत्वात्पुनःप्रतिषेधो भूस्तृणादीनां तत्समप्रायश्चित्तार्थः । भूस्तृण-शिग्रुकशब्दौ शाकविशेषवचनौ वाहीकेषु प्रसिद्धौ || १४ || हिन्दी - मधु ( शहद ), मांस, पृथ्वी में उत्पन्न छत्राक; भूस्तृण ( मालव देश में प्रसिद्ध जल में उत्पन्न होने वाला शाक- विशेष ), शिग्रुक ( सहिजन ) और लसोड़े का फल का त्याग करे ( इन्हें नहीं खावे ) ॥ १४ ॥
विमर्श – छत्राक वर्षा ऋतु में भूमि या पेड़ों के खोखले स्थानों में उत्पन्न होता है, इसका आकार छाते के समान तथा रंग सफेद लिये कुछ धूम्रवर्ण होता है । गोविन्दराज का मत है कि पृथ्वी पर उत्पन्न छत्राक का त्याग करना चाहिये, पेड़ों के खोखले में उत्पन्न छत्राक का नहीं, किन्तु वह कथन- ' छत्राकं...... ' ( ५।१ ९ ) श्लोक द्वारा सामान्यत: ( सर्वविध ) छत्राक का निषेध गृहस्थाश्रमी के लिए किया है, तो वानप्रस्थ के लिए वार्क्ष ( वृक्ष के खोखले में उत्पन्न ) छत्राक को भक्ष्य मानना ठीक नहीं है तथा भूमि में या वृक्ष पर उत्पन्न छत्राक खाने वालों को ब्रह्मवादियों में निन्दित एवं ब्रह्मघातक समझना चाहिये ' इस यमवचन द्वारा द्विविध छत्राक का स्पष्ट रूप से निषेध करने से १. यमस्तु — ' भूमिजं वृक्षजं वापि छत्राकं भक्षयन्त ये । ब्रह्मघ्नांस्तान् विजानीयाद् ब्रह्मवादिषु गर्हितान् ॥ ( म ० मु ० ) कि
पृष्ठ 779
पाठ पढ़ें पाठ छिपाएँ
अअध्यायः ] लिये हैI न ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ६ ९९ पूर्वसञ्चित अन्नादि का त्याग— केनचित् । फालकृष्टमश्रीयादुत्सृष्टमपि न ग्रामजातान्यार्तोऽपि पुष्पाणि च फलानि च ॥ १६ ॥
भाष्य — आरण्यस्यापि फालकृष्टस्य प्रतिषेधः । ग्रामजातान्यफालकृष्टान्यपि “ संत्यज्य ग्राम्यमाहारम् ” इत्यनेन प्रतिषेधः पुष्पफलानां क्रियते नोपयोगः । ग्राम्याणां देवताभ्यर्चनादौ पुष्पफलानां निषेधः । आर्तोऽपि अन्यासंभवेऽप्यवश्यकर्तव्यत्वाद्देवताद्यर्चनस्य प्रतिनिधिपक्षेऽपि नोपादेयमित्यर्थः । अपिशब्दो भिन्नक्रमो द्रष्टव्यः - ' पुष्पाण्यपि नोपादेयानि किं पुन-र्धान्यानि ’ ॥१६ ॥
हिन्दी - वन में भी हल से जुती हुई भूमि में उत्पन्न ( किसान आदि के द्वारा ) छोड़े गये भी व्रीह्यादि अन्न को तथा ग्राम में ( बिना हल से जुती हुई भूमि में भी ) उत्पन्न मूल व्वानप्रस्थों के लिए भी छत्राक त्याज्य ही है । मेधातिथि का मत है कि— ' भौमानि ' ( भूमि म्में उत्पन्न ) शब्द ‘ कविकानि ' का विशेषण नहीं है, अपितु स्वतंत्र पद है और उसका अर्थ “ वनचरों का भक्ष्य ‘ गोजिह्वा ' नामक पदार्थ ' है, वानप्रस्थों के लिये उसी का त्याग कहा गया है । किन्तु अनेक कोषों में ' भौम ' शब्द का ' गोजिह्वा ' अर्थ नहीं मिलने से उक्त मत ' भी अमान्य है । ' पञ्चम अध्याय में द्विजमात्र के लिए निषेध करने पर भी यहाँ पर समान प्रायश्चित्त बतलाने के लिए पुनः निषेध किया है ' यह कुल्लूकभट्ट का मत है ।
त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसंचितम् ।
जीर्णानि चैव वासांसि शाकमूलफलानि च ॥ १५ ॥
भाष्य — ‘ षण्मासनिचय ' – ' समानिचय ' पक्षयोराश्वयुजे त्यागः । “ ननु मुन्यन्नं तावदेव संचेयं यत्कर्मपर्याप्तम् । तत्र नैवाधिकमस्ति । कस्य त्यागः? ” उच्यते । न शक्या तुला ग्रहीतुमर्जनकाले । अतो यत्किंचिदवशिष्टमस्ति तस्याश्व-युजे त्यागः ।
जीर्णानि चैव वासांसि । अजीर्णानां नास्ति त्यागः ॥१५ ॥
हिन्दी — पूर्वसञ्चित मुन्यन्न ( नीवार आदि ) पुराने वस्त्र ( वल्कल, चीर आदि ) और शाक, कन्द एवं फल का आश्विन मास में त्याग कर दे ॥ १५ ॥
विमर्श- यह विधि वर्ष भरके लिए सञ्चय करने वाले ( ६।१८ ) वानप्रस्थ के हल जोतने से उत्पन्न अन्न तथा ग्राम्य मूल- फल का त्याग—
पृष्ठ 780
पाठ पढ़ें पाठ छिपाएँ
७०० मनुस्मृतिः ( कन्द ) और फल को ( भूख से ) पीड़ित होकर भी न खावे ॥ १६ ॥
अग्निपक्व भोजी आदि का विधान-अग्निपक्वाशनो वा स्यात्कालपक्व भुगेव वा ।
अश्मकुट्टो भवेद्वाऽपि दन्तोलूखलिकोऽपि वा ॥ १७ ॥
भाष्य— अग्निना पक्कं शाकौदनादि, तदशनं यस्य सोऽग्निपक्वाशनः । काले स्वयमेव यत्पक्वं तदेव भुञ्जीत वार्दं फलम् । [ षष्ठः अथवा धान्यानामेव नीवारादीनां निष्पिष्येदं भक्षणम् । अश्मभिः पाषाणैः कुट्टयित्वा पिष्टरूपं कृत्वा भुञ्जीत । यद्वा यदृतूपपन्नं वृन्तकादिभिर्बहिस्तुषकपाटकं तदश्मभिरपनीय कवाटमन्त: फलं भक्षयेत् । दन्ता उलूखलं अस्य दन्तोलूखनिकः । दन्तैस्तुषकवाटमपनीय भक्षयेत् । असत्यपि संस्कारे स न कर्तव्यः । यदि वा पूर्ववदशनविशेषोपलक्षणम्— ' तादृशमश्नीयाद्यदस्य दन्ता एव उलूखलकार्यमवघातं संपादयन्ति ॥ १७ ॥
हिन्दी— ( वानप्रस्थी ) अग्नि में पकाये हुए अन्नादि को खाने वाला बने, अथवा स्वनियत समय पर पकने वाले ( फल आदि ) पदार्थों को खाने वाला बने, अथवा अश्मकुट्ट ( पत्थर से अन्नादि फोड़ या कूट - पीसकर खाने वाला ) बने, अथवा दन्तोलूखलिक ( सब भक्ष्य पदार्थों को दाँतों से ही चबाकर खाने वाला ) बने ॥ १७ ॥
अन्नादि के सञ्चय का प्रमाण-सद्यः प्रक्षालको वा स्यान्माससंचयिकोऽपि वा ।
षण्मासनिचयो वा स्यात्समानिचय एव वा ॥१८ ॥
भाष्य- -यत्पूर्वमशनमुक्तं तदैकाहिकभोजनपर्याप्तमेवार्जयेत् । मासोपयोगी वा सञ्चयो मासपर्याप्तः सञ्चयो ‘ माससञ्चय: ' । सोऽस्यास्तीति ठन् कर्तव्यः । यदि वा माससञ्चयक इति बहुव्रीहिसमासोऽत्र कर्तव्यः, ' भासपर्याप्तः सञ्चयोऽस्येति ' एवमुत्तरयोरपि ॥१८ ॥
खाने योग्य हिन्दी— ( वानप्रस्थी ) एक दिन, एक मास, छः मास या एक वर्ष तक खाने नीवार आदि मुन्यन्न का संग्रह करे ॥ १८ ॥
भोजन का समय -नक्तं चान्नं समश्नीयाद्दिवा वाऽऽहृत्य शक्तितः ।
चतुर्थकालिको वा स्यात्स्याद्वाऽप्यष्टमकालिकः ॥ १ ९ ॥
भाष्य — द्विर्भोजनस्य पुरुषार्थतया विहितत्वादन्यतरस्मिन्काले निवृत्तिर्विधीयते ।