मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 781–790

मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 781–790

पृष्ठ 781

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 781 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता यथा - यथा वयोऽतिक्रामति तथा तथा भोजनकालं जह्यात् । ७०१ चतुर्थमप्यष्टमावधिकतयाऽऽश्रयेत् । त्रीण्यहोरात्राण्यतीत्य चतुर्थेऽहनि सायं भुञ्जानो-ऽष्टमकालिको भवति । भोजनस्य प्रकृतत्वात्तद्विषयश्चतुर्थकालसम्बन्धः प्रतीयते ॥१९ ॥

हिन्दी - ( वानप्रस्थी ) यथाशक्ति अन्न को लाकर सायंकाल ( रात्रि में ), या दिन में अथवा एक दिन पूरा उपवासकर दूसरे दिन सायंकाल, या तीन रात उपवासकर चौथे दिन सायंकाल भोजन करे ॥ १ ९ ॥ विमर्श — इसमें से तृतीय और चतुर्थ पक्ष को क्रमशः ‘ चतुर्थकालिक और अष्टमकालिक ' कहते हैं । किसी - किसी व्याख्याकार ने उक्त दोनों शब्दों का अर्थ क्रमशः दिन का चतुर्थ और अष्टम प्रहर किया है, किन्तु वह सर्वथा हेय है ।

चान्द्रायणविधानैर्वा शुक्लकृष्णे च वर्तयेत् ।

पक्षान्तयोर्वाऽप्यश्नीयाद्यवागूं क्वथितां सकृत् ॥ २० ॥

भाष्य--पक्षान्तौ पूर्णमास्यमावास्ये । अत्र श्रितां यवागूमश्रीयात् । सकृदिति सायं प्रातर्वा ॥२० ॥

हिन्दी – अथवा शुक्ल तथा कृष्णपक्ष में चान्द्रायण के नियम ( ११।२१६ ) से भोजन करे, अथवा अमावस्या तथा पूर्णिमा को दिन या रात्रि में केवल एक बार पकाई हुई यवागू का भोजन करे ॥२० ॥

[ यतः पत्रं समादद्यान्न ततः पुष्पमाहरेत् । यतः पुष्पं समादद्यान्न ततः फलमाहरेत् ॥ २ ॥ ]

[ हिन्दी — जिस लता या वृक्ष आदि से पत्ता ले; उसी से फूल न ले, तथा जिससे फूल ले, उसी से फल नहीं ले, अर्थात् पत्ता, फूल और फल अलग - अलग वृक्ष या लता आदि से ग्रहण करे || २ || ] पुष्पमूलफलैर्वाऽपि

केवलैर्वर्तयेत्सदा ।

कालपक्वैः स्वयं शीर्णैर्वैखानसमते स्थितः ॥ २१ ॥

भाष्य — कालपक्कैः । पनसादीनां अग्निनाऽपि पाक; क्रियते तन्निषेधार्थम् । तदग्नि-पक्कं गृहस्थस्यानिषिद्धम् । वैखानसं नाम शास्त्रम्, यत्र वानप्रस्थस्य धर्मा विहिताः तेषां मते स्थितः । अन्या-मपि तच्छास्त्रोक्तां चर्यां शिक्षेत ॥२१ ॥

हिन्दी – अथवा वैखानस ( वानप्रस्थ ) आश्रम में रहने वाला ( वानप्रस्थी यती ) सर्वदा केवल समय पर पके स्वयं गिरे हुए फूल तथा मूल और फलों से ही जीवन निर्वाह करे ॥२१ ॥

पृष्ठ 782

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 782 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७०२ मनुस्मृतिः भूमि पर लेटना आदि-' ' [ [ षष्ठः

भूमौ विपरिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम् ।

स्थानासनाभ्यां विहरेत्सवनेषूपयन्नपः ॥ २२ ॥

भाष्य — विपरिवर्तनं केवलायां भूमावेकेन पार्श्वेन निषद्य पुनः पार्श्वान्तरेणाव-स्थानम् । आहारविहारकालौ वर्जयित्वा एवं वर्तेत, नोपविशेन्न च क्रमेत् । न शय्यायां नासने न भित्तौ निषीदेदित्यर्थः । प्रपदैः पादाग्रैर्वा तिष्ठेत् । स्थानासनाभ्यां च दिने । रात्रौ तु केवलस्थण्डिलशायितां वक्ष्यति । सवनेषु प्रातर्मध्यन्दिनापराह्णेषु उपयन्नप इति च । असम्भवे नद्यादीनामुद्धृतोद-केनापि स्नानं दर्शयति ( ६ । २६ ) ॥२२ ॥

-हिन्दी – भूमि पर लेटे तथा टहले या पैर के अगले भाग ( चौत्र ) पर दिन में कुछ समय तक खड़ा रहे या बैठा रहे ( बीच - बीच में टहले नहीं अर्थात् घूमे - फिरे नहीं ) और प्रात: काल, मध्याह्नकाल तथा सायंकाल में ( तीन बार ) स्नान करे ॥ २२ ॥

विमर्श — भूमि पर लेटने आदि का विधान आवश्यक स्नान एवं भोजन के अतिरिक्त समय के लिये है । अथवा महर्षियाज्ञवल्क के ' कथनानुसार रात में सोने तथा दिन में खड़ा रहने या टहलने का विधान है ।

ऋतु के अनुसार दिनचर्या-ग्रीष्मे पञ्चतपास्तु स्याद्वर्षास्वभ्रावकाशिकः ।

आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः ॥२३ ॥

भाष्य – पञ्चभिरात्मानं तापयेत् । चतसृषु दिक्षु अग्नीन्त्सन्निधाप्य मध्ये तिष्ठेदु-परिष्टादादित्यतापं सेवेत । प्रावृष्यभ्राण्येवावकाश आश्रयः, यस्मिन्देशे देवो वर्षति तं प्रदेशमाश्रयेद्वर्षनिवा-रणार्थं छत्रवस्त्रादि न गृह्णीयात् ।

हेमन्ते । शीतोपलक्षणार्थम् । एतेन शिशिरेऽप्येष एव विधिः आर्द्रवासस्त्वम् ।

क्रमशः क्रमेण ॥२३ ॥

हिन्दी - अपनी तपस्या को बढ़ाता हुआ ( वानप्रस्थी यदि ) ग्रीष्म १. तदुक्तम्— ' शुचिर्भूमौ स्वपेद्रात्रौ दिवाा सम्प्रपदैर्नयेत् । में पञ्चाग्नि ऋतु स्नानासनविहारैर्वा योगाभ्यासेन वा तदा ॥ इति । ( या ० स्मृ ०३।५१ )

पृष्ठ 783

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 783 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ७०३ ले, वर्षा ऋतु में खुले मैदान में रहे ( छाये हुए मकान का आश्रय या छाया आदि को पानी बरसते रहने पर भी न ले ) और शीत ( हेमन्त ऋतु में गीला कपड़ा धारण करे || २३ || त्रिकाल- देवर्षि - पितृ - तर्पण तथा स्वदेह - शोषण– उपस्पृशंस्त्रिषवणं पितॄन्देवांश्च तर्पयेत् । तपश्चरंश्चोतरं

भाष्य - उपस्पर्शनं स्नानम् ।

शोषयेद्देहमात्मनः ॥ २४ ॥

अन्यदपि ऊर्ध्वबाह्लादि मासोपवासद्वादशरात्रादि तपः । उग्रतरं प्रकृष्टतरं शरीर-पीडाजननं कुर्वन् शोषयेच्छरीरम् ॥२४ ॥

हिन्दी – तीनों समय ( प्रात:, मध्याह्न और सायं ) स्नान करता हुआ देवताओं, ऋषियों तथा पितरों का तर्पण करे और कठोर तपस्या करता हुआ अपने शरीर को सुखा दे ( क्षीण कर दे ) ॥२४ ॥

विमर्श — ' यमवचनानुसार पाक्षिक या मासिक उपवास रूप कठोर तपस्या करता हुआ वानप्रस्थी यति अपने शरीर को क्षीण कर दे ।

अग्निहोत्र की समाप्ति-अग्नीनात्मनि वैतानांत्समारोप्य यथाविधि ।

अनग्निरनिकेतः स्यान्मुनिर्मूलफलाशनः ॥ २५ ॥

भाष्य — विताने भवा वैतानाः श्रौताः । तान्समारोपयेद्भस्मपानादिविधानेन । आत्मनि समारोपणविधिश्च श्रवणकादवगन्तव्यः । चिरकालं यदा तपश्चरितं भवति, सप्तत्यवस्थां वयः प्राप्तं, तदा वानप्रस्थ एव सन्‘अनग्निरनिकेतः ’ पर्णकुटीं निवासार्थं । क्व तर्ह्यासीत । उपरिष्टाद्वक्ष्यति जह्यात् “ वृक्षमूलनिकेतन ” इति ( ६।२६ ) । ‘ मुनि: ’ ‘ स्यादिति ’ संबध्यते । तेनायमर्थ उक्तो भवति — वाङ्नियमं कुर्यादिति ।

मौनव्रतधारी नियतवागुच्यते लोके ।

मूलफलाशनः । अन्यान्ननिवृत्त्यर्थमेतत् । नीवारादीन्यारण्यान्यपि नाश्नीयात् ॥२५ ॥

हिन्दी — वानप्रस्थाश्रम के नियमानुसार वैतानिक अग्नि को आत्मा में रखकर ( उस अग्नि के भस्म आदि को पीकर ) वन में भी अग्नि और गृह का त्यागकर केवल मूल ( कन्द आदि ) तथा फल को खावे ( नीवार आदि पवित्र मुन्यन्न का भी त्याग कर दे ) ॥ २५ ॥

१. “ यथोक्तं यमेन— ‘ पक्षोपवासिनः केचित्केचिन्मासोपवासिनः । ” इति । ( म ० मु ० )

पृष्ठ 784

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 784 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७०४ मनुस्मृतिः [ षष्ठः विमर्श — यह अग्नि त्याग तथा गृहत्याग छः मास के बाद ही वानप्रस्थाश्रमी करे, ऐसा वसिष्ठ का मत है ।

पेड़ के नीचे भूमि पर शयन-अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः ।

शरणेष्वममश्चैव वृक्षमूलनिकेतनः ॥ २६ ॥

भाष्य — सुखप्रयोजनेषु वस्तुषु प्रयत्नं न कुर्यात् । आतपपीडितः छायां नोपसर्पेत् । शीतार्दितो नाग्निं समिन्धीत । यदि तु दैवोपपादितादित्यतापादिना शीतादिदुःखनिवृत्ति-र्भवतीत्यत्रैव दुःखापनोदः क्रियते, न निषिध्यते । वर्षादिकालादन्यत्रैतद्विधीयते । तत्र प्रतिपन्नस्य धर्मस्य विधानात् । अथवा व्याधितस्तस्यौषधप्रयत्नो निवार्यते । व्याधिनिवृत्तिरपि ' सुखं ' उच्यते । अतस्तन्निवृत्त्यर्थं यत्नं न कुर्यात् । धराशयः केवलैस्तृणैराच्छादिते स्थण्डिले शयीत । शरणेष्वाश्रयेषु गृहवृक्षमूलादिषु ममकारमात्मीयाभिनिवेशं न कुर्यात् । वृक्षमूलानि निकेतनं गृहस्थानीयं कुर्यात् । तदसम्भवे शिलातलगुहादयोऽपि विहिताः ॥२६ ॥

हिन्दी— ( वानप्रस्थाश्रमी ) सुख - साधक - साधनों में उद्योग छोड़कर ब्रह्मचारी, भूमि पर सोने वाला, निवास स्थान में ममत्वरहित हो पेड़ों के मूल ( पेड़ों के नीचे का स्थान ) को घर समझकर निवास करे ॥२६ ॥

भिक्षाचरण—

तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् ।

गृहमेधिषु चान्येषु द्विजेषु वनवासिषु ॥ २७ ॥

भाष्य- —पञ्चम्यर्थे सप्तमी । तापसेभ्यः फलमूलासम्भवे भैक्षमाहरेत् । गृहमेधिभ्यो

गृहस्थेभ्यो वा वनवासिभ्यः ।

यान्त्रिकं यावता सौहित्यं भवति ॥२७ ॥

असम्भवे हिन्दी – ( फल मूल के सर्वथा असम्भव हो जाने पर वानप्रस्थाश्रमी ) जीवननिर्वाह के लिये केवल तपस्वी वानप्रस्थाश्रमियों के यहाँ भिक्षाग्रहण करे और उनका भी अभाव होने पर वन में निवास करने वाले अन्य गृहस्थ द्विजों से भिक्षा ग्रहण करे ।

पृष्ठ 785

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 785 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता

ग्रामादाहृत्य वाऽश्रीयादष्टौ ग्रासान्वने वसन् ।

प्रतिगृह्य पुढेनैव पाणिना शकलेन वा ॥ २८ ॥

७०५

भाष्य — ग्रासग्रहणान्न मूलफलभिक्षैव, ग्राम्यान्नाशनमन्यासम्भवेऽनेनानुज्ञातम् ।

गृहीत्वा पुटेनैव पाणिना भाजनरहितेन । शकलेन शरावाद्येकदेशखण्डेन ॥२८ ॥

हिन्दी- — उन वनवासी गृहस्थी का भी अभाव होने पर वन में ही निवास करता हुआ ( वानप्रस्थी तपस्वी ) ग्राम से पत्रों में या सकोरों के खण्डों में अथवा हाथ में ही भिक्षा को लाकर केवल आठ ग्रास भोजन करे ॥ २८ ॥

वेद का स्वाध्याय-एताश्चान्याश्च सेवेत दीक्षा विप्रो वने वसन् ।

विविधाश्चौपनिषदीरात्मसंसिद्धये श्रुतीः ॥ २ ९ ।

भाष्य - एता दीक्षा नियमानन्यांश्चान्तर्जलस्थानचक्षुर्निमीलनादिकं सेवेत । श्रुतीरौपनिषदीः रहस्याधिकारपठितानिं वेदवाक्यानि अधीयीत चिन्तयेद्भावयेच्च

' आत्मसंसिद्धये ' । ब्रह्मप्राप्त्यर्थं वा उपासना उक्ताः ।

विविधा इत्यनुवादः ॥२९ ॥

हिन्दी - वन में निवास करता हुआ ( वानप्रस्थी ) ब्राह्मण इन नियमों को तथा स्वशास्त्रोक्त नियमों को सेवन करे और आत्मसिद्धि ( ब्रह्मप्राप्ति ) के लिए उपनिषदों तथा वेदों में कथित विविध वचनों का अभ्यास करे ॥२ ९ ॥

ऋषिभिर्ब्राह्मणैश्चैव गृहस्थैरेव सेविता ।

विद्यातपोविवृद्ध्यर्थं शरीरस्य च शुद्धये ॥ ३० ॥

भाष्य- -अविशेषेणोक्ता अन्याश्च सेवेत । शाक्यपाशुपतादिदीक्षादिसेवनमपि प्राप्तं तन्निषेधति । ऋषिभिर्महाभारते संतप्यमानाद्यैः सेविता वर्ण्यन्ते । ब्राह्मणैश्च गृहस्थैर्याः सेविताः । तदुक्तम् “ उत्तरेषां चैतदविरोधीति ' ( गौतमीये ३ । ९ ) ।

विद्या आत्मैकत्वविज्ञानम्, तच्छ्रुतिसेवनेन वृद्धिं नयेत् दृढीकुर्यात् ।

शरीरस्य च शुद्धये आहारनियमदीक्षाः सेवेत ॥ ३० ॥

हिन्दी — क्योंकि ब्रह्मज्ञानी ऋषियों, ब्राह्मणों और गृहस्थों ने विद्या ( ब्रह्म - विषयक अद्वैत ज्ञान ) और तपस्या ( धर्म ) की वृद्धि के लिए ही इन ( उपनिषदों और वेदों ) का सेवन ( अभ्यास ) किया है ॥३० ॥

पृष्ठ 786

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 786 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७०६ मनुस्मृतिः महाप्रस्थान-अपराजितां वा ss स्थाय व्रजेद्दिशमजिह्मगः आ निपाताच्छरीरस्य युक्तो वार्यनिलाशनः ॥ ३१ ॥

[ [ षष्ठः भाष्य — प्राच्या उदीच्याश्च दिशोरन्तरालमपराजिता दिक् लोकेष्वैशानीत्युच्यते । दिशमास्थाय! चेतसि निधाय ' एषा मया गन्तव्येति ' ततस्तामेव व्रजेत् । अजिह्मगः अकुटिलगामी । श्वभ्रनदीस्रोतांसि न परिहरेत् । आ निपाताच्छरीरस्य युक्तो वार्यनिलाशनः । प्राच्या उदीच्याश्च गमनविधिरयम् । यावन्न पतति तावद्वायुभक्षोऽम्बुभक्षश्च स्यात् । युक्तः योगशास्त्रैरात्मानं युक्त्वा । तदेतन्महाप्रस्थानमुच्यते ॥३१ ॥

हिन्दी — अचिकित्सित रोग आदि के उत्पन्न होने पर सरल बुद्धि वाला ( वान-प्रस्थयति ) केवल जल और वायु के आहार पर रहता हुआ शरीर के पतन ( मरण ) होने तक दक्षिण दिशा की ओर चले ॥ ३१ ॥

उक्त नियम पालन से ब्रह्म प्राप्ति-आसां महर्षिचर्याणां त्यक्त्वाऽन्यतमया तनुम् ।

वीतशोकभयो विप्रो ब्रह्मलोके महीयते ॥ ३२ ॥

भाष्य – पूर्वोक्तानि तपांसि महाप्रस्थानं चानन्तरोक्तं महर्षिचर्या । आसामन्यत-मया नदीप्रवेशेन भृगुप्रपतनेनाग्निप्रवेशेनाहारनिवृत्त्या वा शरीरं त्यजेत् । अस्य फलं वीतशोकभयस्य ब्रह्मलोकप्राप्तिः । नरकादिदुःखानुभवः ‘ शोकः ’ । ‘ भयं ’ नरकं गमिष्यामीति । तदस्य व्येति । अव्यवधानेनैव, नार्चिरादिक्रमेण, ब्रह्म-लोकं प्राप्नोति । इह स्थानविशेषो ‘ ब्रह्मलोक: ', स्वर्गादपि निरतिशयस्तत्र महीयते पूज्यमान आस्ते । न तु ब्रह्मणः स्वाराज्यं प्राप्नोति, लोकग्रहणात् । चतुर्थे ह्याश्रमे मोक्षं वक्ष्यति । न केवलकर्मकृतो मोक्ष इत्याहुः ननु चास्याप्युक्तं “ विविधाश्चौपनिषदीरात्मसंसिद्धये श्रुतीरिति ” । आत्मसंसिद्धिश्च आत्मोपासनतया तद्भावापत्तिः । न ह्यन्यः संसिद्धिशब्दस्यार्थ उपपद्यते । औपनिषदीषु श्रुतिषु तद्भाव्यं योगिनामात्मानं " ब्रह्मसंस्थोऽमृतत्वमेतीति ” च । ' अथ सायुज्यं गच्छतीत्यादि ' । अथोच्यते— “ अन्या अपि तपःसिद्धयः श्रूयन्ते । ' स यदि पितृलोककामो भवति ' इत्यादि संकल्पितार्थोपपादिता सार्ष्टिता सालोक्यं च पुरुषस्य भविष्यति । न

पृष्ठ 787

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 787 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ७०७ पुनर्मोक्ष इति ’ ” । तदयुक्तं विशेषाभावात् । यथैव परिमितफलासूपासनास्वधिक्रियते एवम-मृतत्वप्राप्तावपि । न क्वचिच्छूयते परिव्राजकेनैवोपासनान्यद्वैतविषयाणि कर्तव्यानि । ‘ ननु च “ त्रयो धर्मस्कन्धाः ” इत्युपक्रम्य “ यज्ञोऽध्ययनं दानम् ” इत्यनेन गृहस्थ-धर्मा उक्ता: । तप एवेत्यनेन वानप्रस्थ: । ब्रह्मचार्याचार्यकुलवासीत्यनेन नैष्ठिकः । ब्रह्मसंस्थ इत्यनेन परिव्राजकः । एतेषां त्रयाणां पुण्यलोका उक्ताः । पारिशेष्यादेत-द्व्यतिरिक्तस्यामृतत्वम् ' । नैवम् । ब्रह्मणि संतिष्ठते प्रयतते तत्परस्य ब्रह्मसंस्थस्य यौगिकत्वादस्य शब्दस्य । ‘ ननु च यदि सर्वेषामधिकारस्तदैतावदेव वक्तव्यं ब्रह्मसंस्थोऽमृतत्वमेतीति ' । नैवम् । आश्रमाणां स्वविधिवाक्यावगतं फलं संपत्क्षयिणः पुण्यलोका भवन्तीति ब्रह्मसंस्थस्य तदाश्रमावस्थितस्यैवामृतत्वमपुनरावृत्तिलक्षणं विधीयते । “ ननु चाद्वैतरूपं ब्रह्मेत्यात्मविदः । स च निवृत्तकर्माख्यः । आश्रमाश्च प्रवृत्तमार्गाख्याः क्रियाकारकफलभेदानुष्ठानात्मकाः । तत्राद्वैतात्मविज्ञाने समानभेदाश्रयाणि च गृहस्थाद्य-ग्निहोत्रकर्मादीनीति परस्परविरोधः । " अत्रोच्यते । समानमेतत् पारिव्राज्येऽपि यमनियमानामिष्टत्वात्ते च भेदाश्रयाः । अथाप्युच्यते ‘ कर्मसंन्यासिनो निवृत्तिमार्गावस्थायिनो नैव केचिच्छास्त्रार्थविधयः सन्ति ' । नायं शास्त्रार्थः । अहंकारममकारत्याग एवं संन्यासो वक्ष्यते, नाशेषशास्त्रार्थत्यागः । तस्यापि क्षुधाद्युपहतस्य भिक्षादौ प्रवर्तमानस्यास्त्येव क्रियाकारकसम्बन्धः । तत्र लौकिके दृष्टार्थभेदे प्रवर्तमानस्य अद्वैतात्मविज्ञानभावनमविरुद्धम् । शास्त्रीये त्वग्निहोत्रादौ विरोधादिति को युक्तकार्येवं वदेत् । अथोच्यते— “ क्षुधाद्युपहतस्याप्यद्वैतत्यागो विरोधिना भोजनेन तावत्काल एव । यथाऽन्धतमसि चलितस्य गच्छतः कण्टकप्रदेशे पादन्यासः सवितरि पुनरुदिते लब्धप्रकाशस्य पुनर्न्याय्यमेवाध्वन्यस्याकण्टकेऽवस्थानम् । तथा क्षुधाद्युपघाते विच्छिन्नात्मविज्ञानस्य क्षण-मालोकस्थानीयायां क्षुन्निवृत्तौ पुनर्दृढसंस्कारवशादद्वैत एवावस्थानमिति । ” तत्तापसेऽप्यविरुद्धम् । गृहस्थस्यापि पुत्रदारादितदुपासनमविरुद्धम् । “ बहुव्यापारतस्तु भेदसात्म्यतां गतस्य कुतोऽद्वैतसंस्कारोत्पत्तिः ” । उक्तं च गृहस्थधर्मेषु “ एकाकी चिन्तयेदिति ” ( अ ० ४ श्लो ० २५८ ) । तथा “ पुत्रे सर्वं समासज्येति ” ( अ ० ४ श्लो ० २५७ ) । “ ननु च ‘ तस्मादुह न पुरायुषः स्वःकामी प्रेयात् ' इति श्रुतिः । तत्र कुतो वान-प्रस्थस्य शरीरत्यागः । न हि सा श्रुतिर्वानप्रस्थादन्यत्रानया स्मृत्या विषय उपस्थापयितुं

पृष्ठ 788

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 788 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७०८ मनुस्मृतिः शक्यते । बलीयसी हि श्रुतिः । सा च स्मृत्यनुरोधेन न संकोचमर्हति ” । [ षष्ठः उच्यते— जरसा विशीर्णस्यानिष्टसंदर्शनादिना वा विदिते प्रत्यासन्ने मृत्यौ मुमूर्षतो न श्रुतिविरोधः । एवं हि तत्र श्रूयते । “ न पुरायुष " इति । अवस्थाविशेषे ह्यनभिप्रेते मरणे एतावदेवावक्ष्यत् “ न स्वः कामी प्रेयादिति ” । अरिष्टोपदेशश्चोपनिषत्स्वेवमर्थ-वान्भवति । यस्य त्वेतन्निमित्तं मरणं नास्ति ॥३२ ॥

हिन्दी — पूर्वोक्त महर्षि - पालित नियमों में से किसी एक का पालन करता हुआ शोक तथा भय से रहित ब्राह्मण शरीर त्यागकर ब्रह्मलोक में पूजित होता ( मोक्ष को प्राप्त करता ) है ॥३२ ॥

परिब्राजक ( संन्यास ) काल-वनेषु च विहृत्यैवं तृतीयं भागमायुषः ।

चतुर्थमायुषो भागं त्यक्त्वा सङ्गान्परिव्रजेत् ॥ ३३ ॥

भाष्य - इतः प्रभृति चतुर्थाश्रममतिः । तृतीयं भागमिति । कञ्चित्कालं स्थित्वेत्यर्थः । यावता कालेन तपः सुतप्तं भवति विषयाभिलाषश्च सर्वो निवृत्तः । न हि मुख्यतृतीय आयुषो भाग एवानेन शक्यो ज्ञातुम् । न हि वर्षशतापेक्षाऽऽश्रमाणां, यत्तो वलीपलितापत्योत्पत्ती तृतीयाश्रमप्रतिपत्तौ काल उक्तः । न च सर्वस्य पञ्चाशद्वर्षदेशीयस्य तदुत्पद्यते । उक्तं चान्यत्र “ तपसि ऋद्धे परिव्रजेदिति ’ ’ । “ ननु च यथाऽन्येषामाश्रमाणां कालो विवृतो ग्रहणान्तं ब्रह्मचर्यं, वलीपलिताद्यवधि गार्हस्थ्यम्, नैवमिह कश्चित्परिच्छेदहेतुरस्ति । यदि यथाश्रुतं ' तृतीयो भागः ' समाश्रियेत, यच्च ‘ तपसि ऋद्ध ' इति, तत्रापि कालापेक्षा युक्तैव । न ज्ञायते कियता तपसा ऋद्धिर्भवति । अतः कालपरिच्छेदो वचनार्हः ” । उक्तमत्र न शतवर्षापेक्षया तृतीयायुर्भागनिश्चयः संभवति । उक्तश्च काल: - ‘ कायपाके प्रव्रज्या प्रतिपत्तव्या ' । यावता तपसा यावति च वयसि पुनर्मदवृद्धिर्नाशंक्यते तदा परिव्रजेत् । विहृत्यासित्वा यथोक्तं विधिमनुष्ठायेति यावत् । संगत्यागश्च ममताऽपरिग्रहः एकारामता ॥३३ ॥

हिन्दी – अपनी वय के तीसरे भाग को इस प्रकार ( तपश्चर्यादि के द्वारा ) वन में बिताकर वय के चौथे भाग में सब विषय - सङ्गों का त्यागकर संन्यासाश्रम का पालन करना चाहिए || ३३ |

पृष्ठ 789

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 789 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ७० ९ विमर्श - यह पक्ष जिसका वानप्रस्थाश्रम में मरण नहीं हो उसके लिए है I । किसी भी प्राणी के वय का निश्चित काल किसी को ज्ञात नहीं रहता । अत: यहाँ पर वय का तीसरा भाग ‘ तृतीयं भागमायुषः ' से ' वानप्रस्थाश्रम में तप आदि के द्वारा राग - द्वेष आदि के क्षय होने का समय - विशेष समझना चाहिये, इसी वास्ते ' शङ्ख ' तथा ‘ लिखित’१ ने वनवास के बाद शान्त एवं क्षीण अवस्था वाले को संन्यास लेने को कहा है । ब्रह्मचर्यादि के क्रम से ही संन्यास ग्रहण —

आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः ।

भिक्षाबलिपरिश्रान्तः प्रव्रजन् प्रेत्य वर्धते ॥ ३४ ॥

भाष्य- - समुच्चयपक्षमुपोद्वलयति आश्रमादाश्रममिति । गृहस्थाश्रमाद्वानप्रस्थाश्रमं गत्वा हुतहोम उभयोरप्याश्रमयोर्यदा जितेन्द्रियस्तदा परिव्रजेत् । प्रेत्य वर्धते मृत्वा

विभूत्यतिशयं प्राप्नोति ।

भिक्षाबलिदानेन परिश्रान्तः चिरम् । आश्रमधर्मानुवादोऽयम् ॥३४ ॥

हिन्दी – एक आश्रम से दूसरे आश्रम में ( ब्रह्मचर्याश्रम से गृहस्थाश्रम में और गृहस्थाश्रम से वानप्रस्थाश्रम में ) आकर यथाशक्ति हवनकर जितेन्द्रीय रहता हुआ, भिक्षाचरण एवं बलिकर्म से श्रान्त ( थका ) हुआ द्विज विषयाशक्ति का त्याग करता ( संन्यास लेता ) हुआ मरकर ब्रह्मभूत हो अतिसिद्धि ( मुक्तिरूप अतिशयित सिद्धि ) को प्राप्त करता है ॥ ३४ ॥

देवर्षि - पितृ ऋण से मुक्त होने पर ही संन्यास ग्रहण—

ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।

अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः ॥ ३५ ॥

भाष्य — अपाकरणं ऋणसंशुद्धिः । मनो मोक्षे निवेशयेत् । मोक्षशब्देन प्रव्रज्याश्रमो लक्ष्यते । तत्र प्राधान्येन मोक्षैक-फलतोच्यते । न तथाऽन्येष्वाश्रमेषु । अतो ' मोक्षः ' परिव्रज्या ॥३५ ॥

कानि पुनस्तानि त्रीणि ऋणान्यत आह— हिन्दी — तीन ऋणों ( देव ऋण, ऋषि ऋण और पितृ - ऋण ) को पूरा करके ही मन को मोक्ष में लगाये ( संन्यास ग्रहण करे ), उन तीन ऋणों को पूरा किये बिना ( उनसे बिना छुटकारा पाये ) मोक्ष का सेवन ( संन्यास का ग्रहण ) करने वाला नरक को जाता है ॥३५ ॥

१. अत एव शङ्खलिखितौ ' वनवासादूर्ध्वं शान्तस्य परिगतवयसः परिव्राज्यम् । ' इत्याचख्यतुः इति । ( म ० मु ० ) मनु I- 49

पृष्ठ 790

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 790 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७१० मनुस्मृति: [ षष्ठः विमर्श — ‘ यदि त्वात्यन्तिकं वासं - ( २।२४३ - २४४ ) श्लोकोक्त पक्ष को न मानकर प्रत्येक आश्रम को सेवन करने वालों के लिए प्रकृतवचन द्वारा देव, ऋषि और पितरों के ऋण से क्रमशः यज्ञ, वेदस्वाध्याय और पुत्रोत्पादन द्वारा मुक्त होकर ही संन्यासाश्रम में प्रवेश करना चाहिये । ' उत्पन्न होते ही ब्राह्मण ( द्विजमात्र ) तीन ऋणों से युक्त हो जाता है, ऐसा सुना जाता है ।

अधीत्य विधिवद्वेदान्पुत्रांश्चोत्पाद्य धर्मतः ।

इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥ ३६ ॥

भाष्य – “ त्रिभिर्ऋणैर्ऋणवाञ्जायते यज्ञेन देवेभ्यः प्रजया पितृभ्यः स्वाध्याये-नर्षिभ्यः ” इति श्रुत्यनुवादिनी स्मृतिरियम् । " ननु च ' गृही भूत्वा प्रव्रजेदथवेतरथा ब्रह्मचर्यादेव प्रव्रजेत् ' इति जाबालश्रुतिः ” । उच्यते । उत्पत्तिमात्रमाश्रित्योक्तमुदाहरति । तत्रेदं विरुध्यते “ अनुत्पाद्य तथा प्रजामिति ” । “ यद्येषा श्रुतिरस्ति किंतर्हि ’ ” । इदमुच्यते । प्रत्यक्षविधानाद्गार्हस्थ्यस्येति । प्रव्रजेदिति — तेन तु प्रव्रजितेनेमानि कर्माणि कर्तव्यान्यनया वेतिकर्तव्यतयेत्येतन्नास्ति । गृहस्थस्य त्वग्निहोत्रादीनि साङ्ग-कलापान्याम्नातानीत्येतदभिप्रायमेतत् । ये त्वेतां श्रुतिमदृष्ट्वा स्मार्ता एव नैष्ठिकादयस्ते च गृहस्थाश्रमेण प्रत्यक्षश्रुतिविधानेन बाध्यन्ते । ये च क्लीबाद्यनधिकृतविषयतया स्मृतिवाक्यानामर्थवत्तां वर्णयन्ति तेषामभिप्रायं न विद्मः । यदि तावत्— “ आज्यावेक्षणविष्णुक्रमाद्यङ्गाशक्तौ श्रौतेषु नाधिक्रियते, यतस्तथाविधाङ्गयुक्तं कर्म य: संपादयितुं समर्थस्तं प्रत्यधिकारश्रुतीनामर्थवत्त्वे जाते न तदसमर्थमपि कुर्वीत’– इति 1 । यद्येवं स्मार्तेष्वपि नैष्ठिकस्य गुर्वर्थमुदकुम्भाद्याहरणं भैक्षपरिचरणम्, – पारिव्राज्येऽपि ' न द्वितीयामपि रात्रिं ग्रामे वसेदिति'- -: पंग्वन्धयोः कुत स्मार्तकर्मक्रमाधिकारः । उपनयनं चैषामस्ति लिङ्गम् । तत् एषां विवाहार्थनं “ यद्यर्थिता तु दारैरिति ’ ” ( ९ ।२०३ ) । यद्यप्युपनयनमादित्यदर्शनमग्निप्रदक्षिणं परीत्येति च विहितम्, यतो नानुपनीतस्य विवाहसम्भवो व्रात्यत्वात्, अतो यावच्छक्यं गुरुशुश्रूषणं विगुणमपि ब्रह्मचर्यमेवमस्ति । क्लीबस्य तु प्रकृतेरनुपनेयतैव । स च पतितश्च न क्वचिदधिकृतः । तस्मादनधिकृतविषयं पारिव्राज्यं नैष्ठिकता चेति न मनः परितोषमादधाति । सत्यं उदितहोमनिन्दावद्भविष्यति । समुच्चयपक्षमाश्रित्य ‘ अनपाकृत्येति ’ निन्दा-१. ‘ “ जायमानो वै ब्राह्मणस्त्रिभिर्ऋणैर्ऋणवान् जायते, यज्ञेन देवेभ्यः प्रजया पितृभ्यः स्वाध्यायेन ऋषिभ्यः इति श्रूयते । इति ( म ० मु ० ) ।