मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 801–810
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 801–810
पृष्ठ 801
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ७२१ को पाने वाला ) भी संन्यासी बंध जाता है । ( आदर - सत्कार के साथ भिक्षा देने वाले व्यक्ति में ममत्व होने से उस संन्यासी को पुनः संसार में जन्म लेना पड़ता है ) ॥५८ ॥
इन्द्रिय - निग्रह —
अल्पान्नाभ्यवहारेण रहः स्थानासनेन च ।
ह्रियमाणानि विषयैरिन्द्रियाणि निवर्तयेत् ॥ ५ ९ ॥
भाष्य - रहो निर्जनो देशस्तत्र स्थानासने कर्तव्ये । एकारामतायाः फलमिन्द्रियजयोऽनेन प्रदर्श्यते । अथवा निष्कुतूहलताऽनेनोच्यते । यत्र बहवो जनसंघाताः स्त्रीपुंसात्मका विचित्राभरणा दृश्यन्ते न तत्र क्षणमपि तिष्ठेत् ॥५ ९ ॥ हिन्दी – ( सन्यासी ) विषयों की ओर आकृष्ट होती हुई इन्द्रियों को थोड़ा भोजन और एकान्त वास के द्वारा रोके ( वश में करे ) ॥५९ ॥
इन्द्रिय - निग्रह आदि से मोक्षलाभ-इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च ।
अहिंसया च भूतानाममृतत्वाय कल्पते ॥ ६० ॥
भाष्य – निरोधः स्वविषयप्रवृत्तिप्रतिबन्धः । अमृतत्वाय कल्पते अमृतत्वाय समर्थो योग्यो भवतीत्यर्थः । यथा आत्मज्ञानमेव-मेतदपीति दर्शयति ॥६० ॥
हिन्दी — ( संन्यासी ) इन्द्रियों को अपने - अपने विषयों से रोकने से, राग और द्वेष के त्याग से और प्राणियों की अहिंसा ( किसी प्रकार भी पीड़ा न पहुँचाने ) से मुक्ति के योग्य होता है ॥६० ॥
इन्द्रिय - निरोधक विषय वैराग्य के लिये संसारचिन्तन-अवेक्षेत गतीर्नृणां कर्मदोषसमुद्भवाः । निरये चैव पतनं यातनाश्च यमक्षये ॥ ६१ ॥
भाष्य – परमार्थभावनाप्रसंख्यानमिदमुच्यते दुःखात्मकसंसारस्वरूपनिरूपणम् । कथं नामायं प्रव्रज्याभैक्षचर्यादिशरीरक्लेशं सुहृत्स्वजनपुत्रदारधनविभवत्यागदुःखहेतुं परिणमय्य विरोधतः स्वच्छन्दतश्चाविगुणमनुष्ठास्यति । मनुष्याणां गतयो दुःखबहुलाः, कर्मदोषेभ्यः प्रतिषिद्धसेवनेभ्यो हिंसास्तेयपारदा-र्यपारुष्यपैशुनानिष्टसंकल्पादिभ्यः समुद्भवन्ति । इहैव जीवलोके दारिद्रव्याधिपरिभवाद्वा वैकल्यादयो गतयः फलोपभोगादयः ।
पृष्ठ 802
पाठ पढ़ें पाठ छिपाएँ
७२२ मनुस्मृतिः
अमुत्र निरये नरके पतनं मूत्रपुरीषाद्यमेध्यस्थाने कृमिकीटादिजन्म ।
यमगृहे च यातनाः कुम्भीपाकादयः ॥६१ ॥
तथेदमपरमवेक्ष्यम् । [ षष्ठः हिन्दी – ( शास्त्रविहित का त्याग और शास्त्रनिन्दित का आचरण रूप ) कर्मों के दोष से उत्पन्न मनुष्यों की तिर्यग्योनि आदि गतियों को, नरक में गिरने को तथा यमलोक की कठोर यातनाओं को विचार करे ॥ ६१ ॥
विप्रयोगं प्रियैश्चैव संयोगं च तथाऽप्रियैः ।
जरया चाभिभवनं व्याधिभिश्चोपपीडनम् ॥ ६२ ॥
भाष्य - अवेक्षेतेति क्रियापदसंभवात् द्वितीया । प्रियाः पुत्रादयो बान्धवास्तैर्वियोगोऽप्राप्तकाले मृतैः । अप्रियैः शत्रुभिः संयोगः संग्रामादिभिः संयोगः । गण्डक जरया । चतुर्थे वयस्यवस्थाविशेषो जरा, तयाऽभिभवनं शरीराकारनाशः, अशक्तिः, इन्द्रियवैकल्यम्, कासश्वासादिव्याधिबाहुल्यम्, सर्वेषामकाम्यता, उपहास्यतेत्यादि-भिर्जराभिभवः ' । व्याधिभिः प्रागपि जरस उपपीडनं केषांचित् ॥६२ ॥
हिन्दी — प्रिय ( मित्र, पुत्र, स्त्री आदि ) से वियोग, अप्रियों ( शत्रु, हिंसक जीव, रोग, शोक आदि नहीं चाहे गये ) से संयोग ( साथ ) होने, बुढ़ापे से आक्रांत होने और रोगों से * T I IN T * पीड़ित होने का विचार करे ॥६२ ॥
अथ महती तृष्णा एवंस्थितस्यापि भवति । एवं तर्हि इदमप्रतीकारं अनिच्छतो-ऽप्युत्पद्यते—
देहादुत्क्रमणं चास्मात्पुनर्गर्भे च संभवम् ।
योनिकोटिसहस्रेषु सृतीश्चास्यान्तरात्मनः ॥ ६३ ॥
भाष्य – प्राणानामुत्क्रमणमन्तर्विच्छेदः । दुःसहा च सा पीडा । गर्भे च संभवः । तत्र नानाविधं दुःखं इन्द्रियाणामनुद्भेदात्तमोरूपता कुक्षिस्थस्य मातृसंबंधिनाऽऽहारेण अतिशीतोष्णेन हीनातिमात्रेण वैद्योक्ता पीडा । योनिकोटिसहस्रेषु सृती: सरणानि प्राप्तास्तिर्यक्प्रेतकृमिकीटपतङ्गश्वाद्या: क्षेत्रज्ञस्य । “ ननु च विभुरन्तरात्मेष्यते नित्यश्च । तस्य सकलजगद्व्यापिनः कुत उत्क्रमणम्, क्व च योनिसरणम् । संभवोऽपि गर्भे नित्यस्यानुपपन्नः ” । उच्यते । अस्ति केषांचिद्दर्शनम् — यथाऽयमन्तः शरीरमंगुष्ठमात्रः पुरुषस्तिष्ठति,
पृष्ठ 803
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ७२३ तन्मात्रमनोबुद्ध्यहंकारात्मकः स यावत्संसारमेति धर्मः, तस्य चोपचितस्य चैतन्यशक्ति-राविर्भवति । अतस्तदीयधर्मा अन्तरात्मन उपचर्यन्ते । अथवा तस्य भावार्था ये प्राणादय-स्तेषूत्क्रामत्सु स उत्क्रामतीत्युच्यते । एवं ‘ संभवोऽपि ' द्रष्टव्यः ।
पुनश्चैतद्द्वादशे वक्ष्यामः । किं बहुना ॥६३ ॥
हिन्दी - इस शरीर से जीवात्मा को बाहर निकालने ( मरने ), फिर गर्भ में उत्पन्न होने और इस अन्तरात्मा का हजारों करोड़ ( शृगाल, कीट, पतंग, अत्यन्त नीच ) योनियों में पैदा होने का चिन्तन करे ॥६३ ॥
अधर्म से दुःख तथा धर्म से सुख की उत्पत्ति—
अधर्मप्रभवं चैव दुःखयोगं शरीरिणाम् ।
धमार्थप्रभवं चैव सुखसंयोगमक्षयम् ॥ ६४ ॥
भाष्य — अधर्मात्प्रभव उत्पत्तिः दुःखेन यो योगः पीडानुभव: । काल धर्म उक्तलक्षणो यः पदार्थः, ततः सुखेनाक्षयेन संयोगः । एतदप्यवेक्ष्यम् । पारि-व्राज्यं च मुख्यो धर्म इत्यभिप्रायः ॥६४ ॥
हिन्दी — शरीरधारियों ( जीवों ) के अधर्म से उत्पन्न ( दु: ख - सम्बन्ध को धर्मकारणक ब्रह्मप्राप्ति रूप प्रयोजन से अक्षय सुख के सम्बन्ध का चिन्तन करे ) ॥ ६४ ॥
ब्रह्म की सूक्ष्मता तथा उत्तमादि शरीर में उत्पत्ति—
सूक्ष्मतां चान्ववेक्षेत योगेन परमात्मनः ।
देहेषु चैवोपपत्तिमुत्तमेष्वधमेषु च ॥ ६५ ॥
भाष्य- –योगश्चित्तवृत्तिस्थैर्यं यथा पतञ्जलिना दर्शितम् ( १।२ ) । तेनात्मन: क्षेत्रज्ञस्य सूक्ष्मतामन्ववेक्षेत | शरीरादौ प्राणादौ वा नात्मबुद्धिः कर्तव्याः किं तर्हि योगजेन ज्ञानातिशयेन सर्वेभ्य एतेभ्योऽन्तर्बहिस्तत्त्वेभ्यो व्यतिरिक्तो बोद्धव्य इत्येवंपरमेतत् । न तु स्थूलादिविकल्पा आत्मनः सन्ति । यथा चोत्तमेषु देवादिशरीरेष्वस्योपपत्तिः, शरीराधिष्ठातृतया फलोपभोगः सर्वगत-स्यापि सतः, एवमधमेषु तिर्यक्प्रेतपिशाचादिषु । एकत्वपक्षे परमात्मविभूतय एव क्षेत्रज्ञा इति स्थितिः । अतः परमात्मनो गतीर-न्ववेक्षेतेत्युक्तम् ॥६५ ॥
हिन्दी —योग ( विषयों से चित्त - व्यापार को रोकना ) से परमात्मा की सूक्ष्मता ( सर्वव्यापकता ) का और उत्तम, मध्यम तथा नीच शरीर में ( अपने कर्मों को भोगने के
पृष्ठ 804
पाठ पढ़ें पाठ छिपाएँ
७२४ लिए ) उत्पत्ति का चिन्तन करे ॥ ६५ ॥
मनुस्मृतिः
चिह्न - विशेष को धर्मकारणत्व का अभाव-भूषितोऽपि चरेद्धर्मं यत्रतत्राश्रमे रतः ।
समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥ ६६ ॥
[ षष्ठः भाष्य— भूषितः कुसुमकटकाद्याभरणैः । धर्मः परिब्राजकस्य यद्विहितमात्मोपा-सनादि तद्यत्नतश्चरेत् । यस्मिन्नाश्रमे यो विहितस्तं चरेत् । न त्रिदण्डादिलिङ्गधारणमात्राद्यतिमात्मानं मन्येत । अपि तु समः सर्वेषु भूतेषु स्यात् । रागद्वेषलोभान्यत्नतः परिहरेदिति तात्पर्यम् । न लिङ्गत्यागेन भूषणाभ्यनु-ज्ञानम् ॥६६ ॥
हिन्दी — जिस किसी भी आश्रम में रत रहता हुआ ( उसके कुछ विरुद्ध आचरण करने से ) दोषयुक्त होता हुआ भी सब जीवों में ( ब्रह्मबुद्धि रखने के कारण ) समान दृष्टि होकर धर्म का आचरण करे; क्योंकि ( कोई ) चिह्न – विशेष धर्म का कारण नहीं होता है ॥६६ ॥
उक्त विषय में उदाहरण-फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् ।
न नामग्रहणादेव तस्य वारि प्रसीदति ॥ ६७ ॥
भाष्य — कलुषितमुदकं कतकवृक्षफले निक्षिप्ते प्रसीदति स्वच्छशुद्धरूपतामापद्यते । किंतु न तस्य फलस्य नामग्रहणेन तन्निर्मलीभवति, अपि त्वनुष्ठानमपेक्षते । एवं लिङ्गधारणं फलनामस्थानीयम् । न तावन्मात्रात्सिद्धिर्यावदेकारामतोपासनसर्वसमतादिधर्मो नानुष्ठितः । पूर्वशेषार्थवादः ॥६७ ॥
हिन्दी — यद्यपि निर्मली का फल पानी को स्वच्छ करने वाला है, किन्तु उसके नाममात्र लेने से पानी स्वच्छ नहीं होता । ( इसी प्रकार केवल किसी धर्म के चिह्न धारण करने से और धर्म का पालन नहीं करने से धर्म नहीं होता ) ॥ ६७ ॥।
संरक्षणार्थं जन्तूनां रात्रावहनि वा सदा ।
शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ॥ ६८ ॥
भाष्य — यदुक्तं “ दृष्टिपूतं न्यसेदिति ” तस्य प्रयोजनप्रदर्शनश्लोकोऽयम् । शरीरस्यात्ययेऽपि शरीरपीडायामपि सत्यां रात्रावहनि वा तृणास्तरणे शयनार्थ-मास्तीर्णेऽपि शरीरनिषङ्गोऽनवेक्ष्यादृष्ट्वा न कर्तव्यः । अस्मिन्व्यतिक्रमे प्रायश्चित्तम् ।
पृष्ठ 805
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ७२५ अथवाऽत्यन्तसूक्ष्माः केचन क्षुद्रजन्तवो ये सर्वे शरीरावयवसंवलनमात्रेणैव नश्यन्ति तदर्थमिदम् ॥६८ ॥
हिन्दी – शरीर के पीड़ित होने पर भी रात में या दिन में लिए सर्वदा भूमि को देखकर चले ॥६८ ॥
सब जीवों की रक्षा के विमर्श - पहले ( ४।४६ ) केश, हड्डी, थूक- खकार आदि से दूषित भूमि से बचकर चलने के लिए कह आये हैं और यहाँ पर पैर के नीचे चींटी या अन्य कोई भी छोटा जीव न मर जाय, अतः भूमि को देखकर चलने का विधान है 1 क्षुद्र जीवों की हत्या का प्रायश्चित्त-अह्ना रात्र्या च याञ्जन्तून्हिनस्त्यज्ञानतो यतिः । तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षडाचरेत् ॥ ६ ९ ॥ भाष्य — जन्तून् क्षुद्रजन्तूनिति द्रष्टव्यम् । तेषां हिंसाया यत्पापं तद्विशुद्ध्यर्थमिति सम्बन्धः॥६९ । हिन्दी — संन्यासी अज्ञान से जिन जीवों को दिन - रात में मारता है, उनकी ( हत्या से उत्पन्न पाप ) की शुद्धि के लिए स्नान कर छः प्राणायाम करे ॥६९ ॥
प्राणायाम की प्रशंसा-प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत्कृताः । व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः ॥७० ॥
भाष्य— ब्राह्मणशब्देन जातिधर्मतामाह । न परिव्राजकस्यैव विधिरयम् । त्रयोऽपि । त्रिभ्य ऊर्ध्वं फलाधिक्यम्, त्रयस्त्ववश्यं कर्तव्याः । व्याहृतयः “ ओंकारपूर्विका " इत्यत्र या उक्ता: । प्रणव ओंकारः । तैर्युक्ताः । प्राणा-यामकाल एवद्ध्यातव्यम् । एते त्रिविधाः कुम्भकरेचकपूरकाख्याः । तत्र च मुख्यस्य नासिक्यस्य च वायोर्बहिर्निष्क्रमणनिरोधेन कुम्भकपूरकाख्याः, अनुच्छ्वसतो बहिर्नैर-न्तर्येण वायोरुत्सर्गेण रेचको भवति । अवधिर्द्वितीयाध्याये निदर्शितः । यदि वा तपसा पुनर्यावता कालेन न पीडोपजायते ॥७० ॥
हिन्दी – व्याहृति और प्रणव से युक्त विधिपूर्वक किये गये तीन प्राणायाम को भी १. ' प्राणायामश्च'–
‘ सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामः सः उच्यते ॥
इति वसिष्ठोक्त्यात्र द्रष्टव्य इति । ( म. मु ० ) । मनु I- 50
पृष्ठ 806
पाठ पढ़ें पाठ छिपाएँ
७२६ मनुस्मृतिः [ [ षष्ठः ब्राह्मण के लिए अतिश्रेष्ठ तप समझना चाहिए ॥७० ॥
विमर्श — सात व्याहृति तथा दस प्रणव से और सशिरस्क गायत्री से युक्त पूरक ( मन्त्र को पढ़ते हुए...... नाक से ऊपर को खींचा गया श्वास ), कुम्भक ( मन्त्र पढ़ते हुए श्वास को रोकना ) और रेचक ' ( मन्त्र पढ़ते हुए.... नाक से छोड़ा गया श्वास ) विधि से प्राणायाम करने का विधान है । ६ से अधिक करने पर अधिक पाप का क्षय होता है ।
दह्यन्ते ध्यायमानानां धातूनां हि यथा मलाः ।
तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥ ७१ ॥
भाष्य — धातवः सुवर्णादय:, तेषां ध्यायमानानां सुवर्णमेवावशिष्यते । तथेन्द्रियाणां विषयदर्शने यौ प्रीतिपरितापौ जायेते तयोर्यत्पापं तस्य दाहः प्राणनिरोधात् । प्रीतिपरितापोत्पत्तिर्मुमुक्षोर्निषिद्धा । सा तु शरीरिणः त्यक्तसंगस्यापि यादृच्छिक-रूपशब्दाद्युपनतौ कयाचिन्मात्रया वस्तुसामर्थ्येन नियतेन्द्रियस्याप्युपजायते । अतस्तद्दोष-निवृत्त्यर्थाः प्राणायामाः ॥७१ ॥
हिन्दी — जिस प्रकार सोना - चाँदी आदि धातु की मैल आग में धौंकने ( तपाने ) से जल जाती है, उसी प्रकार प्राणवायु के रोकने ( प्राणायाम करने ) से इन्द्रियों के दोष नष्ट हो जाते हैं ॥७१ ॥
प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् ।
प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् ॥ ७२ ॥
भाष्य – प्राणायामैरित्येतत्पूर्वश्लोकेन दर्शितम् । अपरे त्वाहुः— दोषा रागादयस्तान्दहेत् । कथं प्राणायामैर्दग्धुमेते शक्यन्ते । युक्तः पापस्य तैर्दाहः । अदृष्टा च तस्योत्पत्तिः शास्त्रलक्षणम्, तथा निवृत्तिरपि । रागादयस्तु प्रत्यक्षवेद्याः । तेषां च निवर्त्यनिवर्तकभावः प्रत्यक्षादिवेद्य एव युक्तो भवितुम्, न शास्त्रीयः । यदि शास्त्रमेवं वदेद्विरमणशीलं निवर्त-येदिति, किंप्रमाणं भवेत् । तस्माद्रागादिनिमित्तमशुभाचरणं दोषशब्देनोच्यते । तस्य कार्यदाहाद्दाहः । स्वरूपतो हि स्वरसत एव कर्मणां क्षणिकत्वान्नाशः । एष एव च दाहः, न त्वन्यस्येव भस्मीभावः । एवं च पूर्वश्लोकार्थानुवादः । धारणाभिश्च । “ ननु च किल्बिषं ' पापं ' ' दोष'श्च तदेव । तत्रैतावद्वक्तव्यं १. तथा योगियाज्ञवल्क्यः— ‘ नासिकोत्कृष्ट उच्छ्वासो ध्मातः पूरक उच्यते । कुम्भको निश्चउश्वासो मुच्यमानस्तु रेचकः ॥ ' इति ( म ० मु ० )
पृष्ठ 807
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ७२७ प्राणायामैर्धारणाभिश्च दोषान्दहेत् । किं किल्बिषमित्यनेन? किल्बिषमिति वाऽस्तु, किं दोषग्रहणेन '? उच्यते । दोषग्रहणमवश्यं कर्तव्यम्, विशिष्टस्य पापस्य प्राणायामैर्दाहो यथा विज्ञायेत, न सर्वस्येति । दोषशब्देन हि रागादय उच्यन्ते । अतस्तन्निमित्त एव पापे उपचारो यथोक्तः । " एवं तर्हि तदेव क्रियतां किं किल्बिषमित्यनेन '? पादपूरणार्थमित्यदोषः । तत्रोत्पन्नस्य पापस्य प्राणायामा दहना उच्यन्ते । धारणास्तु दोषानुत्पत्तिमेव कुर्वन्ति । “ काः पुनरेता धारणाः ”? शमयमादिभिर्नियमाद्विषयदर्शनाभिलाषेण प्रकृष्यमाणं मनो धार्यते, तत्रैव स्थाने नियम्यते । ताश्च विषयगतदोषभावना " अस्थिस्थूणा " इत्याद्याः । कान्तिलावण्यतारुण्य-संस्थानसौष्ठवादयः स्त्रीषु दृश्यमाना अभिलाषहेतवः । ते च सविकल्पं प्रत्यक्षग्राह्याः । विकल्पांश्च मनोधारा: । अतो विकल्पान्तरैर्मूत्रपुरीषपूर्णं नामेति ' तस्मिन्विषयगतदोषभावे, ‘ कटककर्पटान्वितं स्त्रीद्रव्यं नाम ' ' अधिकं प्राणिनो यत्प्रयत्नतः परिहर्तव्यमभिलषन्ति ', ‘ याऽप्येषा सुखलेशभ्रान्ति: सा क्षणभङ्गिनी, तदासेवनेन घोरा दीर्घकालाश्च यमयातना’-इत्यादिभिः शक्यन्ते निरोद्धुम् । एतदेव तत्प्रसंख्यानमुच्यते । एवं भोजनादिष्वपि भाव-यितव्यम् । ‘ यदेतच्छर्कराघृतपूरहैयङ्गवीनपायसादि, यच्च भैक्षं कदन्नादिभिः सममेत-च्छरीरधारणफलतया विशेषाभावात् कस्यचित्प्रकृतेर्जिह्वाग्रे क्षणलवमात्रवर्तमानस्य विशेषो यः सविशेषतया प्रतिभासते, गन्धर्वनगरप्रख्योऽयं क्षणिकावभासः ' इति । एवमन्यत्रापि स्पर्शदोषो भावयितव्य इत्येवमुपदिशति । अन्ये त्वाहुः । कौष्ठस्य वायोर्मुखनासिकासंचारिणः शरीरैकदेशान्तर्हृदयाकाशाद-भ्यासवशतो धारणं धारणा । " ननु च प्राणायामेभ्य एतासां धारणानां को भेदः ” । बाहुललाटादावपि यथेच्छं व्याहृत्यादिध्यानसहितं ' धारणा ', ' प्राणायामा ' रेचने-नाधिक्रियन्त इति विशेषः । अन्ये तु “ मैत्रीमुदिता करुणा उपेक्षा एता धारणा " इति मन्यन्ते ( योग सू ० १।३३ ) ।
" मैत्री कृपा मुदोपेक्षा सर्वप्राणिष्ववस्थिता ।
ब्रह्मलोकं नयन्त्याशुध्यातारं धारणास्त्विमाः ” ॥
तत्र ' मैत्री ' द्वेषाभाव:, न तु सुहृत्स्नेहः, तस्य बन्धात्मकत्वात् । ' कृपा ' करुणा चित्त-धर्म:, दुःखितजनदर्शनेन ‘ कथमयमस्माद्दुःखादुह्रियेदिति ' समुद्धरणकामना । न त्वहिंसानु-ग्रहयोरनारम्भ इत्युक्तम् । अत एवेदमुच्यते, चित्तधर्मोऽयमभ्यसितव्यः । ' मुदिता ' शोक-
पृष्ठ 808
पाठ पढ़ें पाठ छिपाएँ
७२८ मनुस्मृतिः [ षष्ठः व्यावृत्तिर्व्याध्यादिनिमित्ते दुःखे नरकादिभयजे वा, न तु हर्षः, तस्य रागहेतुत्वात् । ' उपेक्षा ' विषये, अनुग्राहकेषु उपघातेषु च ' प्रसिद्धैव ' । मनसो वाऽन्तर्हृदयाकाशे ब्रह्मचिन्तापरतया निश्चलता ‘ धारणा ’ । प्रत्याहारेण संसर्गम् । इन्द्रियाणां विषयैः सह सम्बन्धः तत्र प्रवृत्तिः संसर्गः, तन्दहेत्प्रत्याहारः । ततोऽपसरणमिन्द्रियाणां प्रतिबन्धकरणं वा । आश्चर्यरूपेण न कटक दौ रूपवत्स्त्रीसन्दर्शने वा स्थगयितव्ये चक्षुषी, अन्यत्र वा दृष्टिरुपनेया । एवं सर्वेन्द्रियेषु । एवं च समाधानं योगिनोऽप्रतिबद्धं भवति । ध्यानेनानीश्वरान् गुणान् । गुणान्त्सत्वरजस्तमांसि । ते चानीश्वराः परतन्त्राः चेतनाधीनमूर्तयः । पुरुषस्यानतस्य सुखादिरहितस्य योऽभिमानो ' ऽहं सुख्यहं दुःखीति ’ निर्गुणस्य गुणमन्यताभिमानस्य, गुणपुरुषविवेकध्यानेन दग्धव्य: । ' चिद्रूपः पुरुषो निर्गुणः गुणमयी प्रकृति'रित्येवं गुणपुरुषविवेकः, कर्तव्यः ॥७२ ॥
स कथं कर्तव्यः? ध्यानेन किं पुनर्थ्येयमत आह-हिन्दी — प्राणायामों से रोग आदि दोषों को, परमात्मा में मन को लगाने से पापों को, विषयों से इन्द्रियों को रोककर विषय- संसर्गों को और ध्यान से ईश्वर - भिन्न काम, क्रोध लोभादि गुणों को जलावे नष्ट करे ॥७२ ॥
ध्यान योग से आत्मदर्शन-उच्चावचेषु भूतेषु दुर्ज्ञेयामकृतात्मभिः ।
ध्यानयोगेन संपश्येद्गतिमस्यान्तरात्मनः ॥७३ ॥
भाष्य – अन्तरात्माऽन्तर्यामी पुरुषस्तस्य गतिः स्वरूपं यथावद्विज्ञेयम् । सुखदुःखाभिमानो न केवलं मनुष्यजन्मनि, किंतर्हि उच्चावचेषु नानाविधेषु भूतेषु तिर्यक्प्रेतपिशाचादिष्वहं ममेति प्रत्ययोऽविद्याकृतो निवर्त्यः । अथवा “ कथमयं विभुरन्तरिक्षाज्ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यः सर्वकामः सर्वरसः सर्वगन्धः सर्वस्पर्श ” इदमभ्यस्यतो विजिघत्सोर्विपिपासोरेवंविधेऽपि सुखे दुःखे शरीरस्य शरीरेष्वसर्वभोगतया सोहं नाम— अहो कर्मणां माहात्म्यम्, यदयं सर्वात्मकः स्वतन्त्रः परतन्त्रीक्रियते कर्मभिः, नैतानि करिष्ये दुष्टस्वामिस्थानीयानि – भृतक इव कर्माणि प्रतिपालयिष्ये । यथा भृतकः कश्चित्स्वामिनं निबन्धेनाराधयितुं प्रविष्टः सन् यं मन्यते ‘ यावद्दुराधर्ष इव नो दण्डशीलस्तर्जनापर: पुरुषभाषी, नैनं भूयः परिचरिष्यामि, यन्मयाऽस्मात्किंचिद्भृत्यादि गृहीतं तदेवास्य कर्मकरणेन शोधयामि ' एवं ध्यायन्नासीत । ' कृतानां कर्मणां फलोपभोगेनान्तं यास्यामि, अन्यानि च न करिष्यामीत्येवमादि ' ध्येयम् । तथा ‘ किमेते क्षेत्रज्ञाः परमात्मनो विभूतय उत स्वतन्त्राः- — नैवंपरमात्मनोऽन्यः कश्चिद-
पृष्ठ 809
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता स्तीति ' वेदान्तनिषेवणादिना निश्चित्य ध्यातव्यम् । ७२ ९ अन्ये पुनराहुः । ध्यानं च योगश्च ‘ ध्यानयोगं ' तेन ' अन्तरात्मनः गतिं संपश्येत् ’ ' निरूप्योपासीत गतिं ध्यानेन योगेन च । अथवा ध्यानार्थो योग: चित्तस्थैर्यं तत्कृत्वा ' आत्मनो गतिं संपश्येत् ' उपासनाभि-रनपायामृतादिगुणविशिष्टं वेदान्ताभिहितरूपं निष्कल्मषमभिमुखीकुर्यात् । अकृता असंस्कृताः शास्त्रेणाऽत्मानो यैस्तैर्न शक्यं ज्ञातुम् ॥७३ ॥
हिन्दी — इस अन्तरात्मा ( जीव ) की ऊँचे - नीचे ( देव - पशु आदि ) योनियों में शास्त्र से असंस्कृत बुद्धि वाले व्यक्तियों के द्वारा दुर्ज्ञेय गति को परमात्मा ध्यान के अभ्यास से देखे । ( इस प्रकार के अविद्या, काम्य तथा निषिद्ध कर्मों से ये गतियाँ मिलती हैं, यह जानकर ब्रह्मज्ञान से युक्त हो जावे ) ॥७३ ॥
ब्रह्मसाक्षात्कार से मुक्ति तथा तद्भाव से संसार प्राप्ति-सम्यग्दर्शनसम्पन्नः कर्मभिर्न निबध्यते । दर्शनेन विहीनस्तु संसारं प्रतिपद्यते ॥७४ ॥
भाष्य — अनन्तरस्य विधेः फलमाह । सभ्यग्दर्शनमनन्तरोक्तमात्मनो यथार्थज्ञानं, तेन संपन्नः कृतसाक्षात्कारः । कर्मर्भिर्न निबध्यते । संसारं नानुवर्तते । कृतानां कर्मणां भोगेन क्षयादन्येषामकरणात् । न पुनरनेन केवलात् ज्ञानान्मोक्ष उक्तो भवति । दर्शनेनाऽऽध्यात्मिकेन वेदान्तोप-दिष्टेन यो विरहितः केवलकर्मकारी स संसारमेति || ७४ || हिन्दी – ब्रह्म के साक्षात्कार से युक्त मनुष्य कर्मों से बाँधा नहीं जाता ( जन्म-जरामरणादि दुखः पाने के लिए संसार में जन्म नहीं लेता अर्थात् मुक्त हो जाता है ) और ब्रह्मसाक्षात्कार से रहित मनुष्य संसार को प्राप्त करता ( संसार में बार - बार जन्म ग्रहण करता ) है ॥७४ ॥
मुक्ति के साधक कर्म-अहिंसयेन्द्रियासङ्गैवैदिकैश्चैव कर्मभिः ।
तपसश्चरणैश्चोग्रैः साधयन्तीह तत्पदम् ॥ ७५ ॥
भाष्य — इदं तु ज्ञानकर्मणोः समुच्चयान्मोक्ष इति श्लोकद्वयं ज्ञापकम् । पूर्वेण ज्ञानमुक्तमनेन कर्माण्युच्यन्ते । “ कानि पुनर्वैदिकानि कर्माणि येषां फलं तत्पदं प्राप्नोतीत्युच्यते । यानि तावत्का-म्यानि तेषां स्वविधिवाक्ये श्रुतमेव स्वर्गादि फलम् । तद्व्यतिरेकेण फलान्तरकल्पनाया-
पृष्ठ 810
पाठ पढ़ें पाठ छिपाएँ
७३० मनुस्मृतिः [ षष्ठ: मतिप्रसङ्गः ’ । संकीर्णफलताश्रयणं वाऽनर्थकं स्यात् । तावता च वाक्यार्थस्य समाप्ते-र्विध्यनपेक्षिततत्पदप्राप्तिलक्षणफलेन कथं सम्बन्धः । श्रुतेनैवान्वयिना विध्यर्थसम्पन्नेऽ-न्यत् विधिर्नापेक्षते । ” अत्रोच्यते I । अस्त्येवात्र वाक्यान्तरं ' यज्ञेन तदाप्नोतीति ' रहस्याधिकारे । ततश्च संयोगपृथक्त्वात्फलद्वयं युक्तम् । अतश्च सर्वेषामेव काम्यानामविच्छिन्नफलयोगिता परमपद-प्राप्त्यर्थता च न विरोत्स्यते । तत्र च यागद्वयेन प्रयोगभेदेन स्वर्गापवर्गौ भवतः । न चात्र यज्ञविशेषः श्रुतो येन नित्यानामेतत्फलं स्यान्न काम्यानाम् । अथोच्येत— “ नित्येष्वश्रुतत्वात्फलावच्छेदस्याविरोधात्तद्विषयता युक्ता, न काम्येषु । तावतैव यज्ञेनेत्यस्य सर्वविषयत्वलाभादिति चेत् ” । किमत्र फलश्रवणेन? कर्तव्यतानिष्ठानि च वैदिकानि वाक्यानि । सा च कर्तव्य-ताऽन्तरेण वैदिकं फलपदं यावज्जीवादिपदैरवगमितेति । तत्रापि फलसम्बन्धो नापेक्षित एव । कल्प्यमानोऽधिकत्वान्नैकार्थ्यं यायात् । अतो यज्ञेनेति वाक्यमप्रतिष्ठमानं विविक्ते विषये सर्वं यज्ञशब्दवाच्यं नित्यं काम्यं च गोचरयति । न चैतत्फलं काम्यानाम्, अपवर्गकाम इत्यश्रुतत्वात् । एतदभिप्रायमेवोक्तं “ कामात्मता न प्रशस्तेति ” ( २।२ ) । महाभारतेऽपि ( गीता २।४७ ) " मा कर्मफलहेतुर्भूर्मा ते संगोऽस्त्वकर्मणि ” इति । अतश्च भेदग्राहपरिवेष्टितान्त: करणस्य तृष्णाविद्यावतोऽनिर्मुक्ताहंकारममकारस्या-भिसंहितपरिमितफलप्राप्तिः । इतरस्य त्वनभिसंधायफलविशेषचोदितत्वात्कर्तव्यमिति-बुद्ध्या वर्तमानस्यापरिमितनिरतिशयानन्दरूपब्रह्मावाप्तिः । न चैतच्चोदनीयम्— “ एकसप्तशतं क्रतवो यावन्तो वा तेषां सर्वेषामनुष्ठानस्या-शक्यत्वादनारभ्योपदेशता स्यादिति ” । यतो दर्शनसम्पत्त्यैवात्रानुष्ठानसम्पत्तिः । अत एवोक्तं “ सम्यग्दर्शनसम्पन्न ” इति ( श्लो ० ७४ ) । सर्वे च क्रतवो दर्शनसम्पादनीयाः । तथा चोक्तं " ज्ञानेनैवापरे विप्रायजन्ते ” इति । अथवा यांल्लोकानेतीत्यवच्छेदनिर्देशः, स्वर्गकामः पुत्रकाम इति । अतीतानादिभेदग्रहवासितान्तरात्मानो दृष्टफललोभेनासत्येनैव प्रधाने पुरुषार्थे प्रवर्तन्ते । यथा बालः पुष्ट्यर्थे औषधे ' शिखा ते वर्धिष्यत ' इत्यसत्ययैव शिखावृद्ध्या प्रवर्त्यत इति केचित् । अपरं मतम् । नित्यान्यत्र कर्माण्यभिप्रेतानि । तान्यक्रियमाणानि प्रत्यवायहेतुतया प्रतिबन्धकानि । अतस्तैरनुष्ठीयमानैरसति प्रतिबन्धे उक्तं वैदिकैश्चैव कर्मभिरिति, यद्यपि तानि न मोक्षार्थतया चोदितानि ।