मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 801–810
मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 801–810
पृष्ठ 801
पाठ पढ़ें पाठ छिपाएँ
परिशिष्ट
विधेः प्राथमिकादस्माद् द्वितीये द्विगुणं भवेत् ।
तृतीये त्रिगुणं चैव चतुर्थे नास्ति निष्कृतिः ॥
शोधयेत्तं च छन्देन विदयद्धनिकं नृपे ।
स राज्ञर्णचतुर्भागं दाप्यं तस्य च तद्धनम् ॥
श्राद्धेन यः कुरुते सङ्गतानि न देवयानेन पथा स याति ।
तस्मात्प्रमाणमुभयं प्रमाणैः प्रापितं भुवि ॥
श्वशुरयोश्च भगिन्यां च मातुलान्यां च मातुले ॥
संदिग्धेषु तु कार्येषु द्वयोर्विवदमानयोः ।
व्यक्तदर्शनम् ॥
दृष्टश्रुतानुभूतत्वात्साक्षिभ्यो
सत्यमेव परं दानं सत्यमेव परं तपः ।
सत्यमेव परो धर्भो लोकोत्तरमिति स्थितिः ॥
सत्ये देवा: समुद्दिष्टा मनुष्यास्त्वनृतं स्मृतम् ।
इहैव तस्य देवत्व यस्य सत्ये स्थिता मतिः ॥
कर्म श्राद्धादिकं चैव तथा मन्वन्तरादिषु ॥
सिद्धमन्नं भक्तजनैरानीतं यन्मठं प्रति ।
उपपात्रं तदित्याहुर्मुनयो मोक्षकाङ्क्षिणः ॥
आषाढीमवधिं कृत्वा पञ्चमं पक्षमाश्रिताः ।
काङ्क्षन्ति पितरः क्लिष्टा अन्नमप्यन्वहं जलम् ॥
तस्मात्तत्रैव दातव्यं दत्तमन्यत्र निष्फलम् ।
आषाढीमवधिं कृत्वा यः पक्षः पञ्चमो भवेत् ॥
तत्र श्राद्धं प्रकुर्वीत कन्यास्थोऽर्को भवेन्न वा ।
न प्रातर्न प्रदोषश्च सन्ध्याकालोतिकालो हि ।
मुख्याभावेऽनुकल्पश्च सर्वस्मिन्कर्मणि स्मृतिः ॥
नभस्यस्यापरः पक्षो यत्र कन्यां व्रजेद्रविः ।
स महालयसंज्ञः स्याद्गजच्छायाह्वयस्तथा ॥
पित्रोरुपशमे स्त्रीणां मूढानां तु P कथं भवेत् ।
त्रिरात्रेणैव शुद्धिः स्यादित्याह भगवान्यमः ॥
पीत्वा योऽशनमश्नीयात्पात्रे दत्तमगर्हितम् ।
भार्याभृतकदासेभ्य उच्छिष्टे शेषयेत्ततः ॥
महानद्यन्तरं यत्र गिरिर्वा व्यवधायकः । वाची यत्र विभिद्यन्ते तद्देशान्तरमुच्यते ॥ ७५ ९
पृष्ठ 802
पाठ पढ़ें पाठ छिपाएँ
७६० मनुस्मृतिः
यदि तस्मिन् दाप्यमाने भवेन्मोषे तु संशयः ।
मुषितः शपथं दाप्यो बन्धुभिर्वापि साधयेत् ॥
सप्तहस्तेन दण्डेन त्रिंशद्दण्डनिवर्तनम् ।
तान्येव दश गोचर्म दाता पापैः प्रमुच्यते ॥
श्राद्ध- कौमुदी में उद्धृत-अङ्गादङ्गात्सम्भवति पुत्रवत् दुहिता नृणाम् ।
तस्यामात्मनि तिष्ठन्त्यां कथमन्या हरेद्धनम् ॥
दैवे कर्मणि पैत्रे च पञ्चमेऽहनि शुध्यति ॥
प्रायश्चित्त - मयूख में उद्धृत—
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
स्नात्वा पीत्वा च हुत्वा च कृमिदष्टः शुचिर्भवेत् ॥
अटव्यामटमानस्य ब्राह्मणस्य विशेषतः ।
प्रनष्टसलिले देशे कथं शुद्धिविधीयते ॥
अपो दृष्ट्वैव विप्रस्तु कुर्याच्चैव सचैलकम् ।
गायत्र्याष्टशतं जाप्यं स्नानमेतत्समाचरेत् ॥
असत्प्रतिग्रहीतारस्तथैवायाज्ययाजकाः नक्षत्रैर्जीव यश्च सोऽन्धकारं प्रपद्यते ॥
त्रिरात्रं वाप्युपवसेत्त्र्यहं त्रिः पर्वणी भवेत् ।
तथैवाम्भसि मग्नस्तु त्रिः पठेदघमर्षणम् ॥
पतत्यर्धं शरीरस्य भार्या यस्य सुरां पिबेत् ।
पतितार्धशरीरस्य निष्कृतिर्न विधीयते ॥
यदह्ना कुरुते पापं कर्मणा मनसा गिरा ।
आसीनः पश्चिमां संध्यां प्राणायामैर्निहन्ति तैः ॥
यो यस्य हिंस्याद् द्रव्याणि ज्ञानतोऽज्ञानतोऽपि वा ।
एतस्योत्पादयेत्तुष्टिं राज्ञा दद्याच्च तत्समम् ॥
पतितान्त्यश्वपाकेन संसृष्टा चेद्रजस्वला । तान्याहानि व्यतिक्रम्य प्रायश्चितं प्रथमेऽह्नि त्रिरात्रं स्याद् द्वितीये अहोरात्रं तृतीयेऽह्नि चतुर्थे समाचरेत् ॥
द्व्यहमेव तु ।
नक्तमेव च ॥।
उदितं तु विजानीयात्तत्र होमं प्रकल्पयेत् ॥ लेखामात्रस्तु दृश्येत रश्मिभिस्तु समन्वितः ।
पृष्ठ 803
पाठ पढ़ें पाठ छिपाएँ
परिशिष्ट नितान्तसिद्धि में उद्धृत— अलाभे भिन्नकालानां नान्दीश्राद्धत्र्यं
बुधः ।
अविद्वान् प्रतिगृह्णानो भस्मीभवति दारुवद् ॥
अत्यन्तं वर्जयेद् वर्जयेद् गेहमित्येवं मनुखवीत् ।
असम्बन्धा भवेन्मातु पिण्डेनैवोदकेन वा ।
सा विवाह्या द्विजातीनां त्रिगोत्रान्तरिता च या ॥
अस्वर्ग्या ह्याहुति: सा याच्छूद्रसम्पर्कदूषिता । ब्रह्मचर्यं चरेद्वापि दशरात्राच्छ्रनिमृते प्रविशेद्वा हुताशनम् ॥
मासाच्छूद्रे भवेच्छुचिः ।
द्वाभ्यां तु पतिते गेहमन्त्यो मासचतुष्टयम् ॥
श्वशूद्रपतिताश्चान्त्या
मृताश्चेद् द्विजमन्दिरे ।
शौचं तत्र प्रवक्ष्यामि मनुना भाषितं यथा ॥
समानोदकभावस्तु जन्मनामस्मृतेरेके तत्परं निवर्तेताचतुर्दश । गोत्रमुच्यते । अग्नीनाधाय विधिवद् व्रात्यस्तोमेन वा यजेत् । अथैन्द्राग्नेन पशुना गिरिं गत्वा च तत्र तु ।
अमृतं मृतमाकर्ण्य कृतं यस्यौर्ध्वदैहिकम् ।
प्रायश्चित्तमसौ स्मार्तं कृत्वाग्नीनादधीत च ॥
इष्टिमायुष्मती कुर्यादीप्सितांश्च क्रतूंस्ततः ॥
अर्धरात्रादधस्ताच्चेत्सङ्क्रान्तिग्रहणं तदा । उपाकर्म न कुर्वीत परतश्चेन्न दोषभाक् ॥ एकभ्रातृजयोरेकवत्सरे पुरुषस्त्रियोः । न समानक्रियां कुर्यान्मातृभेदे विधीयते ॥
क्लींबाद्या नोदकं कुर्युः स्तेना व्रात्या विधर्मिणः ।
गर्भश्चैव सुराप्यश्चैव योषितः ॥
जीवन्यदि समागच्छेद् घृतकुम्भे निमज्य च ।
उद्धृत्य स्नापयित्वास्य जातकर्मादि कारयेत् ॥
तैलाभ्यङ्गो नार्कवारे न भौमे नो संक्रान्तौ वैधृतौ विष्टिषष्ठ्योः । पर्वस्वष्टभ्यां च नेष्टः स इष्ट: प्रोक्तान्मुक्त्वा वासरे सूर्यसूनोः ॥ ७६१
पृष्ठ 804
पाठ पढ़ें पाठ छिपाएँ
७६२ मनुस्मृतिः
दशाहस्यान्तरे यस्य गङ्गातोयेऽस्थि मज्जति ।
गया ( ङ्गा ) यां मरणं यादृक् तादृक् फलमवाप्नुयात् ॥
द्वादशाहव्रतं चर्यात्त्रिरात्रमथवास्य तु ।
स्नात्वोद्वहेत तां भार्यामन्यां वा तदभावतः ॥
द्वादशेऽहनि विप्राणामाशौचान्ते च भूभुजाम् ।
वैश्यानां तु त्रिपक्षादावथवा स्यात्सपिण्डनम् ॥
निमन्त्र्य विप्रास्तदहर्वर्जयेन्मैथुनं क्षुरम् ।
प्रमत्तानां च स्वाध्यायं क्रोधं शोकं तथानृतम् ॥
पिता पितामहो भ्राता ज्ञातयो गोत्रजाग्रजाः ।
उपानयेऽधिकारी स्यात्पूर्वाभावे परः परः ॥
मृन्मयं दारुजं पात्रमयःपात्रं च यद्भवेत् ।
राजनं दैविके कार्ये शिल्पपात्रं च वर्जयेत् ॥
सप्तम्यां भानुवारे च मातापित्रोर्मृतेऽहनि । तिलैर्यस्तर्पणं कुर्यात्स भवेत्पितृघातकः ।
स्थापितां चैव मर्यादामुभयोर्ग्रामयोस्तथा ।
अतिक्रामन्ति ते पापास्ते दण्ड्या द्विशतं दमम् ॥
स्नुषास्वस्त्रीयतत्पुत्रा ज्ञातिसम्बन्धिबान्धवाः ।
पुत्रभावे तु कुर्वीरन् सपिण्डान्तं यथाविधि ॥
श्राद्धं करिष्यन् कृत्वा वा भुक्त्वा वापि निमन्त्रितः ।
उपोष्य च तथा भुक्त्वा नोपेयाच्च ऋतावपि ॥
चत्वारो ब्राह्मणस्याद्याः शस्ता गान्धर्वराक्षसौ ।
राज्ञस्तथासुरो वैश्ये शूद्रे चान्त्यस्तु गर्हितः ॥
तस्य त्रिरात्रमाशौचं द्वितीये त्वस्थिसञ्चयः ।
तृतीये तूदकं कृत्वा चचुर्थे श्राद्धमाचरेत् ॥
दद्यात्त्रिभ्यः परेभ्यस्तु जीवेच्चेत्रितयं यदि ।
आशौचे च व्यतिक्रान्ते नामकर्म विधीयते ॥
यदा तु नैव कश्चित्स्यात्कन्या राजानमाव्रजेत् ॥
वसवः पितरो ज्ञेया रुद्रा ज्ञेयाः पितामहाः ।
प्रपितामहास्तथादित्या श्रुतिरेषा सनातनी ॥
मातापित्रोरुपाध्यायाचार्ययोरौर्ध्वदेहिकम् कुर्वन्मातामहस्यापि व्रती न भ्रश्यते व्रतात् ॥
पृष्ठ 805
पाठ पढ़ें पाठ छिपाएँ
वृद्धः आत्मानं परिशिष्ट शौचमृते लुप्तप्रत्याख्यातभिषक्क्रियः । घातयेद्यस्तु भृग्वग्न्यनशनाम्बुभिः ॥ सर्वायासविनिर्मुक्तैः कामक्रोधविवर्जितैः । भवितव्यं भवद्भिर्नः श्वोभूते श्राद्धकर्मणि ॥ प्रायश्चित - विवेक में उद्धृत-दुःस्वप्ने दुर्जनस्पर्शे स्नानमात्रं विधीयते ॥ अधस्तात्तु प्रहर्त्तव्यं नोत्तमाङ्गे
कदाचन ।
अतोऽन्यथा हि प्रहरंश्चौरस्याप्नोति किल्बिषम् ॥
क्रव्यादांस्तु मृगान् हत्वा धेनुं दद्यात् पयस्विनीम् ।
अक्रव्यादान् वत्सतरीमुष्ट्रं हत्वा च कृष्णलम् ॥
गवार्थं ब्राह्मणार्थं वा
प्राणत्यागोऽनुपस्कृतः ।
स्त्रीबालाभ्युपपत्तौ च बाह्यानां शुद्धिकारणम् ॥
चीर्णव्रतानपि सदा कृतनिर्णेजकांश्चैव न
कृतघ्नसहितानिमान् ।
जुगुप्सेत कर्हिचित् ॥
तयोरपि पिता श्रेयान् बीजप्राधान्यदर्शनात् ।
पुत्रः शिष्यस्तथा भार्या दासी दासस्तु पञ्चमः ।
प्राप्तापराधास्ताड्याः स्यू रज्वा वेणुदलेन वा ॥
यस्तयोरन्नमश्नाति स कुण्डाश्युच्यते बुधे: ।
ते सदा हव्यकव्यानि नाशयन्ति प्रदायिनाम् ॥
स्त्रियार्जितानि वित्तानि उपजीवन्ति ये नराः ।
तेऽपि कूर्मपुटे घोरे पच्यन्ते दीर्घजीविनः ॥
हीनादादेयमादौ स्यात्तदलाभे समादपि ।
असम्भवे त्वाददीत विशिष्ट्वादपि धर्मिकात् ॥
वी ० रा ० प्र ० में उद्धृत-दैवमानुषसद्भावे नार्या गर्भः प्रसिध्यति ।
पुंसा सत्यपि संयोगे दैवाभावे न सिध्यति ॥
अध्यक्षान् विविधान् कुर्यात्तत्र तत्र विपश्चितः ।
तेऽस्य सर्वाण्यवेक्षेरन् नृणां कार्याणि कुर्वताम् ॥
उदकं यच्च पक्वान्नं यो दर्व्या दातुमिच्छति ।
स भ्रूणहा सुरापश्च स स्तेयो गुरुतल्पगः ॥
७६३
पृष्ठ 806
पाठ पढ़ें पाठ छिपाएँ
मनुस्मृतिः
काकतालीयवद् दैवाद् दृष्ट्वापि विधिमग्रतः ।
न पौरुषादृते तेन निधिना युज्यते पुमान् ॥
केचित्पुरुषकारेण केचिद्दैवेन कर्मणा ।
उभाभ्यां केचिदिच्छन्ति फलं कुशलबुद्धयः ॥
ज्ञात्वाऽपराधं देशं च कालं बलमथापि वा ।
वय: कर्म च वित्तं च दण्डं दण्ड्येषु पातयेत् ॥
दैवमानुषसम्पन्ना यात्रा सर्वार्थसाधिका ।
तस्यामतिशयेद्दैवं वर्तते पौरुषं समम् ॥
धिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा ।
योज्या व्यस्ताः समस्ता वाऽप्यपराधवशादिमे ॥
न हि दैवमुदासीनं कदाचिदपि मानवम् ।
अर्थानर्थफलं नेह संयुनक्त्यवशं हि तत् ॥
पुण्यात्षड्भागमादत्ते न्यायेन परिपालयन् ।
अधर्मादपि षड्भागो भवत्यस्य ह्यरक्षतः ॥
यो हृत्वा गोसहस्राणि नृपो दद्यादरक्षिता ।
स शब्दमात्रफलभाग्राद्वा भवति तस्करः ॥
विश्वासयेच्चापि परं तत्वभूतेन हेतुना । समाहर्तॄन् प्रकुर्वीत
धर्मशास्त्रार्थनिश्चितान् ।
कुलीनान् वित्तसम्पन्नान् समर्थान् कोशवृद्धये ॥
सांवत्सरिकमाप्तैश्च राष्ट्रदाहरयेद्बलिम् । स्यादाश्रयपरो लोके वर्तेत पितृवन्नृषु ॥
वि ० भ ० में उद्धृत-आरुह्य संशयं यत्र प्रसभं कर्म कुर्वते ।
तस्मिन् कर्मणि तुष्टेन प्रसादः स्वामिना कृत: ॥
ऋणमस्मिन् सन्नयत्यमृतत्वं च विदन्ति (? ) ।
तेन चानृणतां याति पितॄणां जीवतां सुखम् ॥
ऋतुस्नाता तु या भार्या भर्तारं नोपगच्छति ।
तां ग्राममध्ये विख्याप्य भ्रूणघ्नीं विनिवासयेत् ॥
तत्र लब्धं तु यत् किञ्चिद्धनं शौर्येण तद्भवेत् ।
ध्वजाहृतं भवेद्यच्च विभाज्यं नैव तत्स्मृतम् ॥
दानात्प्रभृति या तु स्याद्यावदायुः पतिव्रता ।
सा भर्तृलोकमाप्नोति यथैवारुधन्ती तथा ॥
पृष्ठ 807
पाठ पढ़ें पाठ छिपाएँ
परिशिष्ट धर्मार्थं ब्राह्मणे दानं यशोऽर्थे तदनर्थकम् । ब्रह्मदायागतां भूमिं भरणं पोष्यवर्गस्य हरेयुर्ब्राह्मणीसुताः ॥ प्रशस्तं स्वर्गसाधनम् । नरकः पीडने चास्य तस्माद्यत्नेन तं भरेत् ।
यल्लब्धं लाभकाले तु स्वजात्या कन्यया सह ।
कन्यागतं तु तद्विद्याच्छुद्धं वृद्धिकरं स्मृतम् ॥
ये जाता येऽप्यजाताश्च ये च गर्भं व्यवस्थिताः ।
वृत्तिं तेऽपि हि काङ्क्षन्ति वृत्तिलोपो विगर्हितः ॥
विरोधे तु मिथस्तेषां व्यवहारो न सिध्यति । एकोदरे जीवति तु सापत्नो न लभेद्धनम् । स्थावरेऽप्येवमेव स्यात्तदभावे लभते वै
स्वच्छन्दगा च या नारी तस्यास्त्यागो विधीयते ।
न च स्त्रीवधं कुर्यान्नचैवाङ्गविकर्तनम् ॥
संग्रामादाहृतं यत्तु विद्राव्य द्विषतां बलम् ।
स्वाम्यर्थे जीवितं त्वक्त्वा तद् ध्वजाहृतमुच्यते ॥
सर्वत्रादायकं राजा अदायकं तु ब्रह्मस्वं न चैव स्त्रीवधं स्वच्छन्दव्यभिचारिण्या
हरेद ब्रह्मस्ववर्जितम् ।
श्रोत्रियेभ्यः प्रदापयेत् ॥
कुर्यान्नचैवाङ्गविकर्तनम् ॥
विवस्वांस्त्यागमब्रवीत् ।
न वधं न च वैरूप्यं बन्धं स्त्रीणां विवर्जयेत् ॥
दशदात्रेण या वार्ता यत्र न श्रूयतेऽथवा ।
गुरोः शिष्ये पितुः पुत्रे दम्पत्योः स्वामिभृत्ययोः ॥
भवेद्यदि
देशनामनदीभेदान्निकटेऽपि ।
तत्तु देशान्तरं प्रोक्तं स्वयमेव स्वयम्भुवा ॥
षाण्मासिकेऽपि काले तु भ्रान्तिः सञ्जायते नृणाम् ।
धात्राक्षराणि (? ) स्पष्टानि यत्रारूढान्यतः पुरा ॥
हे ० प ० ख ० में उद्धृत—
अधिकः कुलमित्रं च गोपालो दासनापितौ ।
ते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ॥
असपिण्डक्रियाकर्म द्विजातैः संस्थितस्य तु ।
अदैवं भोजयेच्छ्राद्धं पिण्डमेकं तु कारयेत् ॥
७६५
पृष्ठ 808
पाठ पढ़ें पाठ छिपाएँ
७६६ मनुस्मृतिः
इह जन्मकृतं पापमन्मजन्यकृतं च यत् ।
अङ्गारकचतुर्दश्यां तर्पयंस्तद्व्यपोहति ॥
औपासनाग्नौ कुर्वीत गृह्यं कर्म यथाविधि ।
पञ्चयज्ञान्नपक्तिश्च यच्चान्यद् गृहकृत्यकम् ॥
कुंर्वन् प्रतिपदि श्राद्धं सरूपान् लभते सुतान् ।
कन्यकां तु द्वितीयायां तृतीयायां तु बन्दिनः ॥
दद्यादहरहः श्राद्धमन्नाद्येनोदकेन वा । पयोमूलफलैर्वापि पितृभ्यः प्रीतिमाहरन् ॥ परपूर्वापतिं धीरा वदन्ति दिधिषूपतिम् । द्विजोऽग्रे दिधिषूश्चैव यस्य सैव कुटुम्बिनी ॥
पिण्डान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते ।
वासरस्तु तृतीयेशे नातिसन्ध्यासमीपतः ॥
प्रक्लृप्ते कामकार्ये च नानध्याया स्मृतास्तथा । देवतार्चनमन्त्राणां प्रणवव्याहृतीनाञ्च नानध्यायः स्मृतस्तथा ॥
सावित्र्या: शिरसस्तदा ।
नित्ये नैमित्तिके कार्ये व्रते यज्ञे क्रतौ तथा ॥
यस्तु भक्षयते मांसं विधिं हित्वा पिशाचवत् ।
स लोकेऽप्रियतां याति व्याधिभिश्चैव पीड्यते ॥
कृत्यसारसमुच्चय में उद्धृत-अश्वयुक् कृष्णपक्षे तु श्राद्धं देयं दिने दिने । ऋक्थगात्रे जनयितुर्न हरेत्कृत्रिमः
सुतः ।
ऋक्थगोत्रानुगः पिण्डो व्यपैति ददतः स्वधाम् ॥
गायत्रीं यो न जानाति ज्ञात्वा नैव उपासते ।
नामधारकविप्रोऽसौ न विप्रो वृषलो हि सः ॥
दिवा सूर्यांशुभिः शुद्धं रात्रौ नक्षत्रमारुतैः ।
सन्ध्ययोरप्युभाम्यां च पवित्रं सर्वदा जलम् ॥
नानुतिष्ठति यो पूर्वां नोपास्ते यश्च पश्चिमाम् ।
स शूद्रवद्बहिः कार्यः सर्वस्माद्विप्रकर्मणः ॥
परितुष्टेन भावेन पात्रमासाद्य शक्तितः ।
यत्किञ्चिदपि दातव्यं याचते नानुसूयया ॥
पृष्ठ 809
पाठ पढ़ें पाठ छिपाएँ
परिशिष्ट शिवलिङ्गसमीपस्थं यत्तोयं पुरतः
स्थितम् ।
शिवगङ्गेति तत्प्रोक्तं तत्र स्नात्वा दिवं व्रजेत् ॥
संस्कृतायां तु भार्यायां स्वयमुत्पादयेत्तु यम् ।
तमौरसं विजानीयात्पुत्रं प्रथमकल्पितम् ॥
स्मृत्वोङ्कारं च सावित्रीं निबघ्नीयाच्छिखां ततः ।
श्रा ० हे ० में उद्धृत-यश्च व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम् ।
यश्च वेत्तयात्मकैवल्यं पङ्क्तिपावनपावनाः ॥
यां काञ्चित्सरितं प्राप्य कृष्णपक्षे चतुर्दशी ।
यमुनाया विशेषेण ब्राह्मणो नियतेन्द्रियः ॥
श्रवणाश्विधनिष्ठार्द्रा तागदैवतमस्तके | यद्यमा रविवारेण व्यातीपातः स उच्यते ॥
हिरण्यं वैश्वदेवे तु दद्याद्वै दक्षिणां बुधः ।
पित्रे तु रजतं देयं शक्त्या भूमिगवादिकम् ॥
दत्तक - मीमांसा में उद्धृत-अपुत्रेण सुतः कार्यो यादृक् तादृक प्रयत्नतः ।
पिण्डोदकक्रियाहेतोर्नामसङ्कीर्तनाय च ॥
अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम् । पुरुषार्थ चिन्तामणि में उद्धृत-एकपिण्डीकृतानां तु पृथक्त्वं नोपपद्यते । सपिण्डीकरणादूर्ध्वमृते कृते यदब्दाद्धर्मः कृष्णचतुर्दशीम् ॥
स्यात्स त्रेतायामृतुत्रये ।
द्वापरे तु त्रिपक्षेण कलावह्ना तु तद्भवेत् ॥
चतुर्दश्यष्टमी दर्शः पौर्णमास्यर्कसङ्क्रमः ।
एषु स्त्रीतैलमांसानि दन्तकाष्ठे च वर्जयेत् ॥
चतुर्दश्यष्टमी पर्वप्रतिपत्स्वेव सर्वदा ।
दुर्मेधसामनध्यायास्त्वन्तरागमनेषु च ॥
तत्र विस्मृतिशीलानां बहुवेदप्रपाठिनाम् ।
चतुर्दश्यष्टमीपर्वप्रतिपद्वर्जितेषु च ॥
वेदाङ्गन्यायमीमांसाधर्मशास्त्राणि चाभ्यसेत् ॥ ७६७
पृष्ठ 810
पाठ पढ़ें पाठ छिपाएँ
मनुस्मृतिः
न द्व्यहव्यापिनी चेत्स्यान्मृताहे तु यदा तिथिः ।
पूर्वविद्धैव कर्तव्या त्रिमुहूर्ता भवेद्यदा ॥
पापांशकगते चन्द्रे अरिनीचस्थितेऽपि वा ।
अनध्याये चोपनीतः पुन संस्कारमर्हति ॥
पुष्पालङ्कारवस्त्राणि गन्धधूपानुलेपनम् । उपवासे न दुष्यन्ति दन्तधावनमञ्जनम् ।
पूर्वाह्णो दैविकं श्राद्धमपराह्णे तु पार्वणम् ।
एकोद्दिष्टं तु मध्याह्ने प्रातर्वृद्धिनिमित्तकम् ॥
मांसाशने पञ्चदशी तैलाभ्यङ्गे चतुर्दशी ।
अष्टमी ग्राम्यधर्मेषु ज्वलन्तमपि पातयेत् ॥
षण्ढान्धबधिरादीनां विवाहोऽस्ति यथोचितम् ।
विवाहासम्भवे तेषां कनिष्ठो विवहेत्तदा ॥
सर्वदेशेषु पूर्वाह्णे मुख्यं स्याच्योपनायनम् ।
मध्याह्ने महध्यमं प्रोक्तमपराह्णे च गर्हितम् ॥।
यम - संहिता में उद्धृत-आहृतामन्यशौचार्थं वालुकां पांशुरूपिणम् ।
न मार्गान्न श्मशानाच्च नाऽऽदद्यात्कुड्यतः क्वचित् ॥
काषायं पाचयित्वा तु श्रोणिस्थानेषु च त्रिषु ।
प्रव्रजेत्तु परं स्थानं पारिव्रज्यमनुत्तमम् ॥
हस्तौ तु संयतौ कार्यौ जानुभ्यामुपरि स्थितौ ।
संहृत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः ॥
दानतत्त्व - विवेक में उद्धृत-इतरेण निधौं लब्धे राजा षष्ठांशमाहरेत् ।
अनिवेदितविज्ञाता दाप्यस्तं दण्डमेव च ॥
राजा लब्ध्वा निधिं दद्याद् द्विजेभ्योऽर्थं द्विजः पुनः ।
विद्वानशेषमादद्यात्स सर्वस्य प्रभुर्यतः ॥
श्रा ० - म ० में उद्धृत-कृच्छ्रद्वादशरात्रेण मुच्यते
कर्मणस्ततः ।
तावद्विद्वान्नैव दद्यान्न याचेन्न च दापयेत् ॥
मुन्यन्नं ब्राह्मणस्योक्तं मांसं क्षत्रियवैश्ययोः ।
मधुप्रधानं वैश्यस्य सर्वेषां चाविरोधि यत् ॥