शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 101–110
शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 101–110
पृष्ठ 101
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य तृतीयं प्रकरणम्
अथ मिश्रे तृतीयन्तु राष्ट्रं वक्ष्ये समासतः ।
स्थावरं जङ्गमञ्चापि राष्ट्रशब्देन गीयते ॥ १ ॥
अन्वयः - अथ मिश्र तृतीयं राष्ट्रं समासतः वक्ष्ये । राष्ट्रशब्देन स्थावरं जङ्गमञ्चापि गीयते ॥ १ ॥
व्याख्या — अथ = अनन्तरम्, मिश्रे = अस्मिन्प्रकरणे, तृतीयम् = तृतीयाध्याये, राष्ट्रम् = जनपदम्, समासतः = - सङ्क्षेपतः, वक्ष्ये = कथयिष्यामि । अत्र राष्ट्रशब्देन = राष्ट्रपदेन, स्थावरम् = निश्चतद्रुमलतादिकम्, जङ्गमम् = गमनशीलं गोमानुषादिकम्, च, गीयते = वर्ण्यते ॥१ ॥
हिन्दी — इसके बाद इस मिले - जुले तृतीय प्रकरण में राष्ट्र का वर्णन करेंगे । राष्ट्र शब्द से यहाँ तात्पर्य जड़ - चेतन दोनों से हैं ॥१ ॥
अथेति । अथ अनन्तरं मिश्रे अध्याये तृतीयं राष्ट्रं राज्यप्रकरणं समासतः सङ्क्षेपेण वक्ष्ये कथयिष्यामि । राष्ट्रशब्देन स्थावरं स्थितिशीलं वृक्षपर्वतादि जङ्गमं गोमनुष्यादिकञ्च गीयते कथ्यते ॥ १ ॥
यस्याधीनं भवेद् यावत् तद्राष्ट्रं तस्य वै भवेत् ॥ २ ॥।
अन्वयः -यस्य यावत् राज्यम् अधीनं भवेत् तस्य तत् राष्ट्रं भवेत् ॥२ ॥
व्याख्या — यस्य = नृपस्य यावत् = यत्परिमितम्, राज्यम् = भूभागम्, अधीनम् = आज्ञानुवर्त्तिनम्, भवेत् = स्यात्, तत् = भूभागम्, राष्ट्रम् = जनपदम्, भवेत् = स्यात् ॥ २ ॥
हिन्दी — जिस राजा के अधीन जहाँ तक का जनपद होता है, उस सीमा तक उसका वह राष्ट्र कहलाता है ॥२ ॥
यस्येति । यस्य राज्ञः यावत् यत्परिमितं राज्यम् अधीनं तस्य तत् राष्ट्रं भवेत् ॥ २ ॥
कुवेरता शतगुणाधिका सर्वगुणात् ततः ।
ईशता चाधिकतरा सा नाल्पतपसः फलम् ॥ ३ ॥
अन्वयः — कुवेरता शतगुणेभ्यः अधिका, ईशता ततः सर्वगुणात् ' अधिकतरा, सा च अल्पतपसः फलं न ॥३ ॥
व्याख्या — कुवेरता = राजराजत्वम्, शतगुणेभ्यः = गुणशतेभ्योऽपि, अधिका = विशिष्टतरा, भवति, ईशता = सर्वस्वामित्वम्, तु, ततः = = ततोऽपि, सर्वगुणात् = सकलगुणसमूहात्, अधिकतरा == = श्रेष्ठतरा भवति, सा = = कुवेरता ईशता च, अल्पतपसः = तुच्छतपस्यायाः, फलम् =: परिणामम्, न = नहि, भवत्येवेति निश्चितमिति ॥ ३ ॥
हिन्दी — सर्वगुणसम्पन्न होने की अपेक्षा सौ गुना अधिक श्रेष्ठ धनकुबेर होना है । उसके 33 T. CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 102
पाठ पढ़ें पाठ छिपाएँ
शुक्रनीतिः ५१४ बाद प्रभुत्वसम्पन्न राजा होना सबसे अधिक श्रेष्ठ है, जो सामान्य तप का फल नहीं है ॥३ ॥
कुवेरतेति । कुवेरता धनपतित्वं शतगुणेभ्यः अधिका श्रेष्ठा ईशता स्वामित्वन्तु ततः सर्वगुणात् अधिकतरा श्रेष्ठतरा । सा कुवेरता ईशता च अल्पतपसः फलं न, मित्यर्थः ॥३ ॥
स दीव्यति पृथिव्यां तु नान्यो देवो यतः स्मृतः ॥ अन्वयः —– सः पृथिव्यां दीव्यति, यतः अन्यः देवः न स्मृतः ॥४ ॥
व्याख्या - सः = - असौ, धनपतिरीशश्च पृथिव्याम् = भुवि, यतः = यस्मात्कारणात्, अन्य = अपरः, देवः = प्रभुत्वसम्पन्नो जनः, तथा, कथितः ॥ ४ ॥
हिन्दी — क्योंकि वह पुरुष संसार में देवता की तरह विलास करता कोई अन्य व्यक्ति नहीं माना जाता है ॥४ ॥
स इति । सः धनस्वामी प्रभुश्च पृथिव्यां दीव्यति क्रीडति विराजते बहुतपस्यायाः फल-४ ॥ दीव्यति = विलसति, न = = नहि, स्मृतः = है, अतः उसकी तरह इत्यर्थः । अतः अन्यः जनः देवः न स्मृतः न कथितः, धनवान् प्रभुरेव देवशब्देनाभिधीयते इति भावः ॥४ ॥
यस्याश्रितो भवेल्लोकस्तद्वदाचरति प्रजा ।
भुङ्क्ते राष्ट्रफलं सम्यगतो राष्ट्रकृतं त्वघम् ॥ ५ ॥
अन्वयः — लोकः यस्य आश्रितः भवेत् प्रजा तद्वत् आचरति । अतः राष्ट्रफलं राष्ट्रकृतम् अघं सम्यक् भुङ्क्ते ॥५ ॥
व्याख्या — लोकः– जनः, यस्य = राज्ञः, आश्रितः = अवलम्बितः भवेत् = स्यात्, प्रजा = जनाः, तद्वत् = नृपतिरिव, आचरति = व्यवहरति । अतः अस्मात् कारणात्, राष्ट्रफलम्—– राष्ट्रस्य = जनपदस्य, फलम् = परिणामम्, सुखसुविधादिकम्, राष्ट्रकृतम् = जनसम्पादितम्, अघम् = पापम्, तु = पुनः सम्यक् = सुष्ठुतया, भुङ्क्ते = सुखदुःखादीनामनुभवति ॥५ ॥
हिन्दी – राजा जैसा आचरण करता है, उसकी आश्रित प्रजा भी वैसा ही आचरण करती है । अतः राजा भी प्रजाकृत पाप - पुण्य का फल दुःख या सुख का भलीभाँति अनुभव करता है ॥५ ॥
तस्येति । लोकः यस्य प्रभोः आश्रितः भवेत्, प्रजा तद्वत् प्रभुवत् प्रभुमतानुसारेणेत्यर्थः आचरति । अतः कारणात् स्वामी राष्ट्रफलं सुखादिकं राष्ट्रकृतम् अघं पापञ्च, तुशब्दश्चार्थः । सम्यक् भुङ्क्ते ॥ ५ ॥
स्वस्वधर्मपरो लोको यस्य राष्ट्रे प्रवर्त्तते ।
धर्मनीतिपरो राजा चिरं कीर्त्तिं स चाश्नुते ॥ ६ ॥
अन्वयः —- यस्य राष्ट्रे लोकः स्वस्वधर्मपरः प्रवर्त्तते, स राजा धर्मनीतिपरः चिरं कीर्तिं च अश्नुते ॥ ६ ॥
व्याख्या — यस्य = नृपस्य, राष्ट्रे = राज्ये, लोकः = प्रजा, स्वस्वधर्मपरः = स्वकीयधर्मतत्परः, प्रवर्त्तते = भवति, सः = असौ, राजा = नृपः, धर्मनीतिपरः = धर्मानुष्ठाने नीतिनिर्वाहे च तत्परो भवति, चिरम् = बहुकालपर्यन्तम्, कीर्त्तिम् = यशः, अश्नुते = उपभुङ्क्ते ॥ ६ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 103
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य तृतीयं प्रकरणम् ५१५ हिन्दी — जिस राजा के राज्य में प्रजा अपने - अपने धर्म में तत्पर रहती है, वह राजा स्वयं धर्म और नीति के मार्ग पर चलकर बहुत दिनों तक यश का उपभोग करता है ॥६ ॥
स्वेति । यस्य राष्ट्रे लोकः स्वस्वधर्म्मपरः निजनिजानुष्ठानतत्परः प्रवर्त्तते चलति, सः राजा धर्मनीतिपरः भवतीति शेषः, चिरं कीर्त्तिञ्च अश्नुते लभते ॥६ ॥
भूमौ यावद् यस्य कीर्त्तिस्तावत् स्वर्गे स तिष्ठति ॥ ७ ॥
अन्वयः - यस्य भूमौ यावत् कीर्त्तिः तिष्ठति तावत् सः स्वर्गे तिष्ठति ॥७ ॥
व्याख्या — यस्य = नृपस्य,, भूमौ = पृथिव्याम्, यावत् = यावदवधि,, कीर्त्तिः = यशः, तिष्ठति = अवतिष्ठति, तावत् = तावत्कालपर्यन्तम्, सः = असौ, स्वर्गे = देवलोके, तिष्ठति = निवसति ॥ ७ ॥
हिन्दी – धरती पर जिसकी कीर्त्ति जब तक रहती है तब तक वह स्वर्ग में निवास करता है ॥७ ॥
भूमाविति । यस्य भूमौ पृथिव्यां यावत् यावत्कालं कीर्त्तिस्तिष्ठतीति शेषः, सः तावत् तावत्कालं स्वर्गे तिष्ठति ॥ ७ ॥
अकीर्त्तिरेव नरको नान्योऽस्ति नरको दिवि ।
नरदेहाद् विना त्वन्यो देहो नरक एव सः ॥ ८ ॥
अन्वयः — अकीर्त्तिः एव नरकः, दिवि अन्यः नरकः न, नरदेहात् विना अन्यः देहः सः नरकः एव ॥ ८ ॥
व्याख्या — अकीर्त्तिः = अपयशः, एव = इति निश्चयेन, नरकः = = दुर्गतिकारणम्, दिवि = स्वर्गे, अन्यः = अपकीर्तिभिन्नः, नरकः = निरयः, न = = नास्ति, नरदेहात् = मानवशरीरात्, विना = विहाय, अन्यः = अपरः, यो देहः = या योनिः सः, तदेव नरकः = निरय एवेति ॥८ ॥
हिन्दी — अपकीर्त्ति ही नरक है, परलोक में इसके सिवा और कोई दूसरा नरक नहीं है ।
मानव देह को छोड़कर दूसरी योनि तो नरक ही है ॥८ ॥
अकीर्त्तिरिति । अकीर्त्तिः अयश एव नरकः दुर्गतिकारणं, दिवि परलोके अन्यः अपरः अकीर्त्तिभिन्न इत्यर्थः, नरकः न अस्ति । नरदेहात् विना अन्यो यो देहः, सः नरक एव ॥८ ॥
महत् पापफलं विद्यादाधिव्याधिस्वरूपकम् ।
स्वयं धर्मपरो भूत्वा धर्मे संस्थापयेत् प्रजा: ।
प्रमाणभूतं धर्मिष्ठमुपसर्पन्त्यतः प्रजाः ॥ ९ ॥
अन्वयः— आधिव्याधिस्वरूपकं महत् पापफलं विद्यात् । स्वयं धर्मपरो भूत्वा धर्मे प्रजाः संस्थापयेत् । अतः प्रजाः प्रमाणभूतं धर्मिष्ठम् उपसर्पन्ति ॥९ ॥
व्याख्या — आधिः = मानसी व्यथा, व्याधिः = दैहिकपीडा, तयोः स्वरूपकम् = तत्तद्रूपम्, महत् = प्रचण्डम्, पापस्य = किल्बिषस्य, फलम् = परिणामम्, विद्यात् = ज्ञेयात् । अतः राजा, स्वयम् = आत्मनः एव, धर्मपरः = धर्मनिष्ठः, भूत्वा = भूय, धर्मे = शुभकृत्ये, प्रजाः = जनाः, संस्थापयेत् = प्रवर्त्तयेत् । अतः = धर्मप्रर्वतनात्, प्रजाः = जनाः, प्रमाणभूतम् = निदर्शनस्वरूपं, धर्मिष्ठम् = धार्मिकं नृपम्, उपसर्पन्ति = अनुसरन्ति ॥९ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 104
पाठ पढ़ें पाठ छिपाएँ
५१६ शुक्रनीतिः हिन्दी — मानसिक पीड़ा या शारीरिक रोग किसी बड़े पाप का ही परिणाम समझना चाहिए । अतः राजा स्वयं धार्मिक होकर प्रजा को भी धर्म में स्थापित करे । इससे प्रजा भी धर्मनिष्ठ राजा को प्रमाण मानकर उसका अनुसरण करेगी ॥९ ॥
महदिति । आधिः मानसी व्यथा, व्याधिः शरीरपीडा तयोः स्वरूपकं तत्तद्रूपमित्यर्थः, महत् पापस्य फलं विद्यात्, अतः राजा स्वयं धर्म्मपरः धर्म्मनिष्ठः भूत्वा प्रजाः धर्मे संस्थापयेत् । अतः धर्म्मसंस्थापनात् प्रजाः प्रमाणभूतं निदर्शनस्वरूपं धर्मिष्ठं राजानम् उपसर्पन्ति अनुवर्त्तन्ते ॥९ ॥
देशधर्मा जातिधर्माः कुलधर्माः सनातनाः ।
मुनिप्रोक्ताश्च ये धर्माः प्राचीना नूतनाश्च ये ॥ १० ॥
ते राष्ट्रगुप्त्यै सन्धार्य्या ज्ञात्वा यत्नेन सन्नृपैः ।
धर्मसंस्थापनाद्राजा श्रियं कीर्त्ति प्रविन्दति ॥। ११ ॥
अन्वयः — सनातनाः ये देशधर्माः जातिधर्माः कुलधर्माः तथा मुनिप्रोक्ताः ये प्राचीनाः नूतनाः धर्माः सन्नृपैः ते ज्ञात्वा राष्ट्रगुप्त्यै यत्नेन सन्धार्याः । राजा धर्मसंस्थापनात् श्रियं कीर्त्तिं च प्रविन्दति ॥ १०-११ ॥ व्याख्या — सनातनाः = क्रमागतपुरातनाः, ये देशधर्माः = राष्ट्रीयधर्माः, जातिधर्माः = जातीय-धर्माः, कुलधर्माः = कुलपरम्परागतधर्माः, तथा = तेनैव प्रकारेण, मुनिप्रोक्ताः = ऋषिगणनिर्दिष्टाः, ये प्राचीनाः = पुरातनाः, नूतनाः = नवीनाः, धर्माः = अभ्युदयनिःश्रेयसगुणकर्मसमूहसाधको नियमाः, सन्नृपैः = साधुभिः राजभिः, ते = धर्माः, ज्ञात्वा = परिज्ञाय, राष्ट्रगुप्त्यै – राष्ट्रस्य = जनपदस्य, गुप्त्यै = रक्षणाय, यलेन = प्रयासपूर्वकेण, सन्धार्याः = धारणीयाः पालनीयाश्च । राजा = नृपः, धर्मसंस्थापनात् = धर्मप्रतिपालनात्, श्रियम् = लक्ष्मीम्, कीर्त्तिम् = यशश्च, प्रविन्दति = प्रकर्षेण प्राप्नोति ॥१०-११ ॥ हिन्दी — बहुत दिनों से प्रचलित देशधर्म, जातिधर्म तथा कुलधर्म एवं मुनियों के द्वारा कहे गये धर्म, नये - पुराने धर्म — इन सबों को जानकर अच्छे राजे अपने राष्ट्र की रक्षा के निमित्त प्रयासपूर्वक इनका पालन करते हैं । क्योंकि धर्म की स्थापना से ही कोई राजा लक्ष्मी और कीर्त्ति पाता है ॥१०-११ ॥ शर्मा इति । ते इति । सनातनाः चिरं प्रचलिताः ये देशधर्माः जातिधर्माः कुलधर्माः तथा मुनिभिः प्रोक्ताः कथिताः प्राचीनाः नूतनाश्च ये धर्माः नियमाः, सन्नृपैः साधुभिः राजभिः ते धर्माः ज्ञात्वा राष्ट्रस्य गुप्त्यै रक्षायै यत्नेन सन्धार्य्याः पालनीयाः । राजा धर्मसंस्थापनात् तत्तद्धर्म्म-प्रतिपालनात् श्रियं लक्ष्मीं कीर्त्तिञ्च प्रविन्दति प्रकर्षेण लभते ॥ १०-११ ॥ चतुर्धा भेदिता जातिर्बह्मणा कर्मभिः पुरा ।
तत्तत्साङ्कर्य्यासाङ्कर्य्यात् प्रतिलोमानुलोमतः ।
जात्यानन्त्यन्तु सम्प्राप्तं तद्वक्तुं नैव शक्यते ॥ १२ ॥
अन्वयः – पुरा ब्रह्मणा कर्मभिः तत्तज्जातिः चतुर्धा भेदिता । तेषां साङ्कर्यासाङ्कर्यात् तथा प्रतिलोमानुलोमतः जात्यानन्त्यम्, तत् वक्तुं नैव शक्यते ॥ १२ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 105
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य तृतीयं प्रकरणम् ५१७ व्याख्या – पुरा = प्राचीनकाले, ब्रह्मणा = वेधसा, कर्मभिः = तेषां कार्यैः, तत्तज्जातिः = तेषां तेषां जातिविशेषाणाम्, चतुर्धा = चतुःप्रकारेण, ब्राह्मणक्षत्रियवैश्यशूद्ररूपेण, भेदिता = विभाजिता, तेषान् = जातिविशेषाणाम्, साङ्कर्यासाङ्कर्यात् = अन्योन्यसम्मिश्रणासम्मिश्रणात्, तथा = = तेनैव प्रकारेण, प्रतिलोमानुलोमतः = प्रतिकूलेनावरोहक्रमेण च, जात्यानन्त्यम् —–जातीनाम् = वर्णानाम्, आनन्त्यम् = असंख्यत्वम्, तत् = समग्रम्, वक्तुम् = कथितुम्, नैव = नास्त्येव, शक्यते = शक्तुं समर्थो भवति ॥ १२ ॥
हिन्दी – पहले ब्रह्मा ने काम के अनुसार मानव की चार जातियाँ बनाईं । उनमें प्रत्येक जाति में मिश्रण होने पर उन मिश्रित जातियों का भी सांकर्य प्रतिलोभ अर्थात् पिता निम्न कुल का एवं माता उच्च कुल की तथा अनुलोम अर्थात् पिता उच्च वर्ग का एवं माता निम्न वर्ग होने से असंख्य जातियाँ हो गईं, जिनकी गिनती संभव नहीं है ॥ १२ ॥
चतुर्धेति । पुरा पूर्वकाले ब्रह्मणा कर्म्मणा तत्तज्जातिविशेषनिष्ठकार्य्येण चतुर्धा जाति: भेदिता, ब्राह्मणक्षत्रियवैश्यशूद्ररूपेण विभक्ता । तेषां तेषाञ्च साङ्कर्य्यासाङ्कर्य्यात् परस्परमिश्रणामिश्रणात् तथा प्रतिलोमानुलोमतः प्रातिलोम्येन आनुलोम्येन च जात्यानन्त्यं जातीनाम् आनन्त्यम् असङ्ख्यत्वं सम्प्राप्तं जातं, तत् वक्तुं कथयितुं नैव शक्यते ॥१२ ॥
मन्यन्ते जातिभेदं ये मनुष्याणां तु जन्मना ।
तएव हि विजानन्ति पार्थक्यं नामकर्म्मभिः ॥ १३ ॥
अन्वयः – ये जन्मना मनुष्याणां जातिभेदं मन्यन्ते, ते एव नामकर्मभिः पार्थक्यं विजानन्ति ॥ १३ ॥
व्याख्या — ये = जनाः, जन्मना = जननानुसारेण, मनुष्याणाम् = मानवानाम्, जातिभेदम्— जातीनाम् = वर्णानाम्, भेदम् = भिन्नता, मन्यन्ते = स्वीकुर्वन्ति, ते = पूर्वोक्ताः जनाः, एव = - इति निश्चयेन, नामकर्मभिः – नामभिः = अभिधानैः कर्मभिः = कार्यैः पार्थक्यम् = मानवानां भिन्नत्वम्, विजानन्ति = विन्दन्ते ॥ १३ ॥
हिन्दी – जो व्यक्ति जन्म से मनुष्य की जाति मानते हैं, वे ही नाम से या कर्म से जातिगत भेद भी मानते हैं ॥१३ ॥
मन्यन्त इति । ये जन्मना जननानुसारेण मनुष्याणां जातिभेदं मन्यन्ते, ते एव नामकर्म्मभिः नामभिः कर्मभिश्च मनुष्याणामिति शेषः पार्थक्यं विभिन्नतां विजानन्ति हि ॥ १३ ॥
जरायुजाण्डजा स्वेदोद्भिज्जा जातिः सुसङ्ग्रहात् ।
उत्तमो नीचसंसर्गाद् भवेन्नीचस्तु जन्मना ॥ १४ ॥
अन्वयः — जातिः सुसङ्ग्रहात् जरायुजाण्डजा स्वेदोद्भिज्जा । उत्तमः नीचसंसर्गात् जन्मना नीचः भवेत् ॥१४ ॥
व्याख्या — जातिः = वर्णः, सुसङ्ग्रहात् = सुसङ्क्षेपात्, जरायुजाः गर्भाशयजाताः, अण्डजाः = = खगसर्पमीनादयो जीवाः, स्वेदजाः = घर्मजाताः, तथा उद्भिज्जाः = तरुगुल्मादयः, चतुर्धा, उत्तमः: = = श्रेष्ठजातिः, नीचसंसर्गात् = अधमसम्पर्कात्, जन्मना = जननेन, नीचः = अधमः, एव भवेत् = जायेत ॥ १४ ॥
हिन्दी – प्राणियों के चार भेद हैं - जरायुज मानवादि, अण्डज पक्षी, स्वेदज जूँ, खटमल CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 106
पाठ पढ़ें पाठ छिपाएँ
शुक्रनीतिः ५१८ आदि तथा उद्भिज वृक्षादि । श्रेष्ठ जाति के लोग नीच के सम्पर्क से नीच हो जाते हैं, किन्तु नीच कुल में उत्पन्न नीच ही होते हैं ॥१४ ॥
जरायुजेति । जातिः सुसङ्ग्रहात् सुसङ्क्षेपात् जरायुजा, अण्डजा, स्वेदजा तथा उद्भिज्जा इति चतुर्धा भवतीति शेषः । उत्तमः उत्कृष्टजातिः नीचसंसर्गात् जन्मना उत्पत्त्या नीचस्तु नीच एव भवेत् ॥ १४ ॥
नीचो भवेन्नोत्तमस्तु संसर्गाद् वापि जन्मना ।
कर्म्मणोत्तमनीचत्वं कालतस्तु भवेद् गुणैः ।
विद्याकलाश्रयेणैव तन्नाम्ना जातिरुच्यते ॥ १५ ॥
अन्वयः — नीचः तु संसर्गात् जन्मना वा उत्तमः न भवेत्, कर्मणा उत्तमनीचत्वं गुणैः कालतः उत्तमनीचत्वं भवेत् । किञ्च विद्याकलाश्रयेणैव तन्नाम्ना जातिः उच्यते ॥ १५ ॥
व्याख्या – नीचस्तु = अधमस्तु, संसर्गात् = सम्पर्कात्, जन्मना = उत्पत्त्या, वा = अथवा, उत्तमः = उत्कृष्टः, न = नहि, भवेत् = स्यात् कर्मणा = कार्येण, उत्तमनीचत्वम् = उत्कर्षापकर्षभावः, तथा गुणैः = धर्मैः, कालतः = = समयानुसारेण, उत्तमः = उत्कृष्टः, नीचत्वम् = अधमत्वम्, भवेत् = जायेत । किञ्च, विद्यानाम् = बोधानाम्, कलानाम् = नृत्यसङ्गीतादीनाम्, च आश्रयेण = अवलम्बनेन, एव, तत् = विद्याकलानाम्, नाम्ना = अभिधानेन, जातिः = वर्ण:, उच्यते = कथ्यते ॥ १५ ॥
हिन्दी — जन्म से नीच वर्ण का व्यक्ति संसर्ग से उत्तम नहीं हो सकता, किन्तु कर्म से व्यक्ति तत्काल उत्तम या नीच कहलाने लगता है । विद्या और कला के अवलम्बन से भी उसके नामानुसार अनेक जातियों की कल्पना की जाती है ॥१५ ॥
नीच इति । नीचस्तु संसर्गात् जन्मना वा उत्तमः न भवेत् । कर्म्मणा कार्येण उत्तमनीचत्वम् उत्कर्षापकर्षभावः क्षिप्रमिति शेषः, तथा गुणैः विद्याविद्यादिभिस्तु कालतः कालक्रमेण उत्तमनीचत्वं भवेत् । किञ्च विद्यानां कलानां सङ्गीतादीनाञ्च आश्रयेण एव तन्नाम्ना तत्तद्विद्याकलानां नाम्ना जातिः उच्यते कथ्यते; यथा अयं दार्शनिकः, अयं नैयायिकः, अयं गायक इत्यादि ॥१५ ॥
इज्याध्ययनदानानि कर्माणि तु द्विजन्मनाम् ।
प्रतिग्रहोऽध्यापनञ्च याजनं ब्राह्मणेऽधिकम् ॥ १६ ॥
अन्वयः — द्विजन्मनाम् इज्याध्ययनदानानि कर्माणि । प्रतिग्रहः अध्यापनं याजनं च ब्राह्मणे अधिकम् ॥ १६ ॥
व्याख्या – द्विजन्मनाम् = ब्राह्मणक्षत्रियवैश्यानाम्, द्वाभ्यां जन्मसंस्काराभ्यां जायतेति द्विजः; “ ब्राह्मणक्षत्रियवैश्यानां संस्काराद्विज उच्यते ” इति प्रामाण्येन ब्राह्मणादिवर्णत्रयस्य द्विजत्वेनाभि-धानात्; इज्याध्ययनदानानि — इज्या = यागाद्यनुष्ठानम्, अध्ययनम् = पठनम्, दानम् = उत्सर्जनम्, एतानि त्रीणि कर्माणि = कृत्यानि, ब्राह्मणे = विप्रे तु प्रतिग्रहः = आदानम्, अध्यापनम् = पाठनम्, तथा याजनम् = यजमानाय पौरोहित्यम्, एतत् त्रयम्, अन्यवर्णादधिकम् = विशिष्टम्, तेन हि ब्राह्मणः षट्कर्मी भवतीति भावः ॥१६ ॥
हिन्दी – यज्ञ करना, अध्ययन करना तथा दान दैना - ये तीन कर्म द्विजन्मा अर्थात् ब्राह्मण, क्षत्रिय एवं वैश्य के लिए समानरूप से कर्त्तव्य हैं । किन्तु ब्राह्मणों के लिए तीन और अधिक · कर्म हैं— यज्ञ करना, अध्यापन और दान लेना ॥ १६ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 107
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य तृतीयं प्रकरणम् ५१ ९ इज्येति । द्विजन्मनां द्विजानां ब्राह्मणक्षत्रियवैश्यानां संस्कारात् द्विज उच्यते इति वचनेन ब्राह्मणादिवर्णत्रयस्य द्विजत्वेनाभिधानात् । इज्याध्ययनदानानि इज्या यज्ञानुष्ठानम् अध्ययनं दानञ्च एतानि त्रीणि कर्माणि । ब्राह्मणे तु प्रतिग्रहः ग्रहणम् अध्यापनं तथा याजनं परार्थे यज्ञकरणम् एतत् त्रयम् अधिकम् ॥ १६ ॥
सद्रक्षणं दुष्टनाशः स्वांशादानन्तु क्षत्रिये ।
कृषिगोगुप्तिवाणिज्यमधिकन्तु विशां स्मृतम् ॥ १७ ॥
अन्वयः — क्षत्रिये तु सद्रक्षणं दुष्टनाशः स्वांशादानम् अधिकम् । विशां कृषिगोगुप्तिवाणिज्यम् अधिकं स्मृतम् ॥ १७ ॥
व्याख्या -क्षत्रिये = राजन्ये तु सद्रक्षणम् – सताम् = साधूनाम्, रक्षणम् = गोपनम्, दुष्टनाशः — दुष्टानाम् = दुर्वृत्तानाम्, नाशः = विनाशनम्, स्वांशादानम्— [ - स्वस्य = आत्मनः, अंशस्य = लभ्यशुल्कस्य, आदानम् = स्वीकरणम्, एतत्त्रयमधिकम्, विशाम् = वैश्यानाम्, कृषिः = भूकर्षणम्, गोगुप्तिः– गवाम् = पशूनाम्, गुप्तिः = पालनम्, तथा वाणिज्यम् = व्यापारम्, चैतत्रयम्, अधिकम् = विशिष्टम्, स्मृतम् = कथितम् ॥ १७ ॥
हिन्दी – सज्जनों की रक्षा, दुष्टों का विनाश करना तथा जीविका के लिए कर ग्रहण करना— ये तीन कर्म क्षत्रियों के अधिक हैं । इसी तरह कृषि, गोपालन एवं वाणिज्य ये तीन वैश्यों के अधिक कर्म हैं ॥ १७ ॥
सद्रक्षणमिति । क्षत्रिये तु सद्रक्षणं सतां साधूनां रक्षणं, दुष्टनाशः दुष्टानां दमनं तथा स्वांशस्य राजलभ्यांशस्य आदानं ग्रहणञ्च एतत्त्रयम् अधिकम् । विशां वैश्यानान्तु कृषिः गोगुप्तिः गवां पशूनां गुप्तिः पालनं तथा वाणिज्यम् एतत्त्रयम् अधिकं स्मृतम् ॥१७ ॥
दानं सेवैव शूद्रादेर्नीचकर्म्म प्रकीर्त्तितम् ॥ १८ ॥
अन्वयः — शूद्रादेः दानं सेवा तथा नीचकर्म प्रकीर्त्तितम् ॥ १८ ॥
व्याख्या— शूद्रादेः– शूद्रस्य = वृषलस्य, आदिपदेन तत्समानजातेश्च, दानम् = = उत्सर्जनम्, सेवा = परिचर्या, तथा नीचकर्म = समाजसंरक्षणार्थं परिमार्जनादिकञ्च निकृष्टकर्म, प्रकीर्त्तितम् = कथितम् ॥ १८ ॥
हिन्दी- – दान देना, जीविका के लिए नौकरी करना एवं पथ - परिमार्जनादि निकृष्ट कर्म शूद्रों के लिए विहित कर्म कहे गये हैं ॥१८ ॥
दानमिति । शूद्रादेः शूद्रस्य तत्समानजातेश्च दानं सेवा दासवृत्तिः तथा पदसेवागृहमार्जनादिकञ्च प्रकीर्त्तितम् ॥१८ ॥
क्रियाभेदैस्तु सर्वेषां भृतिवृत्तिरनिन्दिता ।
सीरभेदैः कृषिः प्रोक्ता मन्वाद्यैर्ब्राह्मणादिषु ॥ १ ९
अन्वयः — क्रियाभेदैः तु सर्वेषां भृतिवृत्तिः अनिन्दिता । यथा मन्वाद्यैः कृषिः प्रोक्ता ॥ १ ९ ॥ नीचकर्म निकृष्टकार्य्यं ॥ सीरभेदैः ब्राह्मणादिषु व्याख्या – क्रियाभेदैः– क्रियाणाम् = व्यापाराणाम्, भेदैः = प्रकारैः, सर्वेषाम् = सकलानां ब्राह्मणादीनाम् भृतिवृत्तिः = जीवनयापनार्थं या निर्दिष्टा वृत्तिः = आजीविका, सा CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 108
पाठ पढ़ें पाठ छिपाएँ
५२० शुक्रनीति: अनिन्दिता = अनिन्दनीया । यथा मन्वाद्यैः = मनुप्रभृतिभिः मुनिभिः, सीरभेदैः– सीराणाम् = हलानाम्,, भेदैः = प्रभेदैः, ब्राह्मणादिषु = विप्रादिषु, कृषिः = हलभृतिः, प्रोक्ता = कथिता ॥ १ ९ ॥ हिन्दी — जीवन - यापन के लिए काम करने के ढंग अलग - अलग बतलाये गये हैं, जो निन्दा करने योग्य नहीं है । जैसे मनु प्रभृति स्मृतिकारों ने हल के भेद से ब्राह्मणों लिए भी कृषिकर्म को विहित माना है ॥ १ ९ ॥ क्रियेति । क्रियाणां कार्य्याणां भेदैः प्रभेदैः सर्वेषां ब्राह्मणादीनां भृतिवृत्तिः भरणार्थं निर्दिष्टा वृत्तिः जीवनोपायः अनिन्दिता । यथा मन्वाद्यैः मुनिभिः सीराणां लाङ्गलानां भेदैःविशेषैः ब्राह्मणादिषु कृषिः प्रोक्ता कथिता ॥ १ ९ ॥
ब्राह्मणैः षोडशगवं चतुरूनं यथा परैः ।
द्विगवं वान्त्यजैः सीरं दृष्ट्वा भूमार्दवं तथा ॥ २० ॥
अन्वयः — ब्राह्मणैः षोडशगवं सीरं तथा परैः चतुरूनम् । तथा अन्त्यजैः भूमार्दवं दृष्ट्वा द्विगवं सीरम् ॥२० ॥
व्याख्या – ब्राह्मणैः = क्षेत्राजीवैः विप्रैः, षोडशगवम् = षोडशभिः वृषभैः वाह्यम्, सीरम् = हलम्, तथा परैः = अन्यैः क्षत्रियवैश्यशूद्रैः क्रमशः चतुः, ऊनम् = हीनम्, यथा क्षत्रियैः द्वादशगवम्, वणिग्भिः अष्टगवम्, वृषलैश्चतुर्गवं वहनीयम् । सीरम् = हलम्, तथा अन्त्यजैः = रजकादिभिः; तद्यथा— “ रजकश्चर्मकारश्च नटो वरुड एव च । कैवर्त्तभेदभिल्लश्च सप्तैते अन्त्यजाः स्मृताः ॥ ” ( यमवचनम् ) भूमार्दवम् — भुवः पृथिव्याः, मार्दवम् = कोमलत्वम्, दृष्ट्वा = अवलोक्य, द्विगवम् = द्वाभ्यां वृषभाभ्यां वाह्यं हलं कर्त्तव्यमिति ॥ २० ॥
हिन्दी — ब्राह्मणों को एक हल पर सोलह बैल रखकर खेत जुतवाना चाहिए और क्रमशः उत्तरोत्तर चार - चार कम बैलों से अर्थात् क्षत्रियों को बारह बैल, वैश्यों को आठ बैल तथा शूद्रों को चार बैल एक हल पर रख कर खेत जुतवाना चाहिए । इसी तरह एक हल पर दो बैल अंत्यजों को रखना चाहिए । यह विभाजन धरती की कोमलता पर ध्यान में रखकर किया गया है ॥२० ॥
ब्राह्मणैरिति । ब्राह्मणैः कृषिजीविभिरिति भावः, षोडशगवं षोडशभिः गोभिः वाह्यं सीरं तथा परैः अन्यैः क्षत्रियादिभिरित्यर्थः, क्रमशः चतुरूनं क्षत्रियैः द्वादशगवं, वैश्यैः अष्टगवं, शूद्रैः चतुर्गवमित्यर्थः, सीरं तथा अन्त्यजैः चाण्डालादिभिः भूमार्दवं भुवः भूमेर्मार्दवं मृदुत्वं दृष्ट्वा द्विगवं सीरं कर्त्तव्यमिति शेषः ॥ २० ॥
ब्राह्मणेन विनान्येषां भिक्षावृत्तिर्विगर्हिता ॥ २१ ॥
अन्वयः — ब्राह्मणेन विना अन्येषां भिक्षावृत्तिः विगर्हिता ॥ २१ ॥
व्याख्या— ब्राह्मणेन = विप्रेण, विना = विहाय, अन्येषाम् = क्षत्रियादीनाम्, भिक्षावृत्तिः = याच्ञाजीविका, विगर्हिता = विशेषरूपेण निन्दितेति ॥ २१ ॥
हिन्दी — ब्राह्मणों को छोड़कर अन्य जातियों के लिए भिक्षावृत्ति विशेष रूप से निन्दित है ॥२१ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 109
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य तृतीयं प्रकरणम् ५२१ ब्राह्मणेनेति । ब्राह्मणेन विना अन्येषां क्षत्रियादीनां भिक्षावृत्तिः विगर्हिता विशेषेण निन्दिता ॥ २१ ॥
तपोविशेषैर्विविधैर्व्रतैश्च विधिचोदितैः ।
वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥ २२ ॥
अन्वयः — द्विजन्मना विविधैः विधिचोदितैः तपोविशेषैः च व्रतैः सरहस्यः वेदः कृत्स्नः अधिगन्तव्यः ॥२२ ॥
व्याख्या – द्विजन्मना = ब्राह्मणादिना, विविधैः = अनेकविधैः, विधिचोदितैः = नियमपूर्वकैः, तपोविशेषैः = नियमस्थितिभिः, च = पुनः, व्रतैः = उपोषणैः, सरहस्यः = उपनिषत्सहितः, कृत्स्नम् = = समग्रम्, वेदः = श्रुतिः, अधिगन्तव्यः = ज्ञातव्यः ॥२२ ॥
हिन्दी— ब्राह्मण, क्षत्रिय एवं वैश्यों को नियमपूर्वक अनेक तप एवं व्रतों का सम्पादन करते हुए उपनिषदों के साथ समग्र वेदों को जानना चाहिए ॥२२ ॥
तपोविशेषैरिति । द्विजन्मना द्विजेन विविधैः विधिचोदितैः विहितैः तपोविशेषैः व्रतैश्च सरहस्यः उपनिषत्सहितः समग्रः वेदः अधिगन्तव्यः वेदितव्यः ॥ २२ ॥
योऽधीतविद्यः सकलः स सर्वेषां गुरुर्भवेत् ।
न च जात्यानधीतो यो गुरुर्भवितुमर्हति ॥ २३ ॥
अन्वयः — यः अधीतविद्यः सकलः सः सर्वेषां गुरुः भवेत् । अनधीतः जात्या गुरुः भवितुं न अर्हति ॥ २३ ॥
व्याख्या - यः - पुरुषः, अधीतविद्यः सकलः = सकलासु लौकिककलासु विद्यासु च कृतपरिश्रमः, सः = एवंविधो द्विजः, गुरुः = उपदेष्टा, भवेत् = जायेत । अनधीतः = शास्त्राध्ययनरहितः, जात्या = = मात्रद्विजकुलोत्पन्नेन, गुरुः = उपदेष्टा, भवितुं, न = = नहि, अर्हति = शक्नोति ॥ २३ ॥
हिन्दी — जिस द्विज ने समस्त विद्या का अध्ययन किया है, वही गुरु हो सकता है । बिना अध्यययन किये केवल जातिमात्र से कोई गुरु नहीं बन सकता है ॥ २३ ॥
य इति । यः अधीतविद्यः तथा सकलः कलाभिः लौकिकविद्यादिभिः सहितः, स. सर्वेषां गुरुः भवेत् । यस्तु अनधीतः अकृतविद्यः सः जात्या केबलयेति शेषः, गुरुः भवितुं न अर्हति ॥ २३ ॥
विद्या ह्यनन्ताश्च कला: संख्यातुं नैव शक्यते ।
विद्या मुख्याश्च द्वात्रिंशच्चतुःषष्टिः कलाः स्मृताः ॥ २४ ॥
अन्वयः — विद्याः कलाश्च अनन्ताः हि, ताः संख्यातुं नैव शक्यते । मुख्याः विद्याः द्वात्रिंशत् कलाश्च चतुःषष्टिः स्मृताः ॥ २४ ॥
व्याख्या — विद्याः = बोधाः, कलाश्च = नृत्यगीतादिशिल्पविद्याः, अनन्ताः = अन्तहीनाः, हि = यतः, ताः = विद्याः कलाश्च, संख्यातुम् = गणनाकर्तुम्, नैव = नास्त्येव, शक्यते = अर्हति । ' शक्यते ' इति आर्षप्रयोगः । तत्र मुख्याः = प्रमुखाः, विद्याः = ज्ञानानि, द्वात्रिंशत्, तथा कलाः = शिल्पविद्याः, चतुःषष्टिः, स्मृताः = कथिताः ॥ २४ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 110
पाठ पढ़ें पाठ छिपाएँ
शुक्रनीतिः ५२२ हिन्दी — विद्या एवं कलाओं का कोई अन्त नहीं हैं, इनकी गिनती कोई नहीं कर सकता है । फिर भी बत्तीस मुख्य विद्याएँ एवं चौसठ कलाएँ मानी जाती हैं ॥२४ ॥
विद्या इति । विद्या कलाश्च अनन्ता हि ताः संख्यातुम् इयत्तया परिच्छेत्तुं नैव शक्यते शक्यन्ते आर्षोऽयं प्रयोगः । तत्र मुख्याः विद्याः द्वात्रिंशत्, तथा कलाश्च चतुःषष्टिः स्मृताः ॥२४ ॥
यद् यत् स्याद् वाचिकं सम्यक् कर्म विद्याभिसंज्ञकम् ।
शक्तो मूकोऽपि यत् कर्तुं कलासंज्ञन्तु तत् स्मृतम् ॥ २५ ॥
अन्वयः ~ यत् यत् कर्म सम्यक् वाचिकं तत्तत् विद्याभिसंज्ञकम् । यत् मूकोऽपि कर्तुं शक्तः तत्तु कलासंज्ञं स्मृतम् ॥ २५ ॥
व्याख्या — यत् यत् कर्म = यानि यानि कार्याणि, सम्यक् = सुष्ठुतया, वाचिकम् = वाचा पूर्णतया निष्पाद्यम्, तत्तत् = कर्म, विद्या = बोधः, अभिसंज्ञकः = नाम्नाख्यातम्, यत्तु, मूकोऽपि = वाणिहीनोऽपि, कर्त्तुम् = निष्पादितुम्, शक्तः = = समर्थः, तत्तु, कला = नृत्यादिकं शिल्पविद्यानाम्ना, स्मृतम् = ख्यातम् ॥ २५ ॥
हिन्दी — जो - जो काम बोल कर ठीक ढंग से पूरा किया जा सकता है, वह विद्या है और जिन्हें गूंगा व्यक्ति भी हाथ - पैरों की सहायता से कर सकता है, वह कला कहलाती है ॥२५ ॥
यदिति । यत् यत् कर्म सम्यक् सम्पूर्णरूपेण वाचिकं वाचा निष्पाद्यं, ततत् विद्याभिसंज्ञकं विद्येति नाम्ना कथितम् । यत्तु मूकोऽपि वर्णोच्चारणासमर्थोऽपि कर्तुं शक्तः ( यथा नृत्यादिकमिति भावः ), तत्तु कलासंज्ञं कलेति नाम्ना कथितम् ॥ २५ ॥
उक्तं सङ्क्षेपतो लक्ष्म विशिष्टं पृथगुच्यते ।
विद्यानाञ्च कलानाञ्च नामानि तु पृथक् पृथक् ॥ २६ ॥
अन्वयः — विद्यानाञ्च कलानाञ्च लक्ष्म सङ्क्षेपतः उक्तम्, विशिष्टं तु पृथक् उच्यते; नामानि पृथक् पृथक् सन्ति ॥ २६ ॥
व्याख्या — विद्यानाम् = ज्ञानविज्ञानानाम्, कलानाञ्च = शिल्पविद्यानाञ्च, लक्ष्म = लक्षणम्, सङ्क्षेपतः = समासेन, उक्तम् = कथितम्, विशिष्टम् = विलक्षणम्, तु पृथक् = भिन्नम्, उच्यते = कथ्यते, नामानि = अभिधानानि, पृथक् पृथक् = भिन्नं भिन्नम्, सन्तीति ॥ २६ ॥
हिन्दी — विद्या और कला के सामान्य लक्षण संक्षेप में कह दिया, अब इनके विशिष्ट लक्षण अलग बतलाते हैं; इनके अलग - अलग नाम हैं ॥ २६ ॥
उक्तमिति । विद्यानाञ्च कलानाञ्च लक्ष्म लक्षणं सङ्क्षेपतः उक्तं विशिष्टन्तु पृथक् उच्यते कथ्यते, आसां नामानि पृथक् पृथक् सन्तीति शेषः ॥२६ ॥
ऋग्यजुः साम चाथर्वा वेदा आयुर्धनुः क्रमात् ।
गान्धर्वश्चैव तन्त्राणि उपवेदाः प्रकीर्त्तिताः ॥ २७ ॥
अन्वयः — ऋक् यजुः साम अथर्वा - एते वेदाः, आयुः धनुः गान्धर्वः तन्त्राणि च क्रमेण उपवेदाः प्रकीर्त्तिताः ॥ २७ ॥
व्याख्या — ऋक् = ऋग्वेदः, यजुः = यजुर्वेदः, साम = सामवेदः, अथर्वा = अथर्ववेदः, एते = चत्वारः, क्रमेण = क्रमशः, उपवेदाः = प्रधानवेदातिरिक्ताः, एते चत्वारः गौणा वेदाः, CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA