शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 91–100

शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 91–100

पृष्ठ 91

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 91 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य द्वितीयं प्रकरणम् ५०३ व्याख्या - भुवि = संसारे, यत् यत् = यत्किञ्चिद्वस्तु, अप्रतिमम् = अतुल्यम्, स्यात् = भवेत्, तत्तद् = तद्वस्तु, रत्नभूतम् = रत्नस्वरूपं भवति । अतः यथादेशम् = देशानुसारेण, यथाकालम् = कालानुसारेण, सर्वस्य = सकलस्य, वस्तुनः, मूल्यम् = अर्घः, कल्पयेत् = निर्धारयेत् ॥ १०६ ॥

हिन्दी – संसार में जो भी वस्तु अतुलनीय है, वह रत्नस्वरूप है । अत: उनकी कीमत देश और काल के अनुसार ही निर्धारित करनी चाहिए ॥ १०६ ॥

रत्नभूतमिति । भुवि पृथिव्यां यत् यत् वस्तु अप्रतिमम् असदृशम् असाधारणमित्यर्थः, तत् तत् रत्नभूतं रत्नस्वरूपम् । अतः यथादेशं देशानुसारेण यथाकालं कालानुसारेण सर्वस्य रत्नभूतस्य वस्तुनः मूल्यं कल्पयेत् ॥ १०६ ॥

न मूल्यं गुणहीनस्य व्यवहाराक्षमस्य च ।

नीचमध्योत्तमत्वन्तु सर्वस्मिन् मूल्यकल्पने ।

चिन्तनीयं बुधैर्लोकाद् वस्तुजातस्य सर्वदा ॥। १०७ ॥

अन्वयः — गुणहीनस्य च व्यवहाराक्षमस्य मूल्यं न । किञ्च बुधैः सर्वस्मिन् मूल्यकल्पने लोकात् वस्तुजातस्य नीचमध्योत्तमत्वं सर्वदा चिन्तनीयम् ॥१०७ ॥

व्याख्या - गुणहीनस्य = निर्गुणस्य, च = पुनः, व्यवहाराक्षमस्य - व्यवहारे = लोकाचारे, अक्ष-मस्य = असमर्थस्य, वस्तुनः = वस्तुजातस्य, मूल्यम् = अर्घः न = न किमपि भवति । किञ्च बुधैः = विज्ञैः, सर्वस्मिन् = अखिलवस्तुनि, मूल्यकल्पने = मूल्यनिर्धारणे, लोकात् = लोकव्यवहारात्, वस्तुजातस्य = विभिन्नपदार्थस्य, नीचमध्योत्तमत्वम् – नीचत्वम् = अधमत्वम्, मध्यमत्वम् = सामान्यत्वम्, उत्तमत्वम् = उत्कृष्टत्वम्, सर्वदा = सदा, चिन्तनीयम् = - विचारणीयम् ॥ १०७ ॥

हिंन्दी — गुणहीन एवं व्यवहार में अयोग्य वस्तु की कीमत कुछ भी नहीं होती है । बुद्धिमान् व्यक्ति लोक - परम्परा के अनुसार समस्त वस्तुओं की अधमता, सामान्यता एवं उत्कृष्टता समझ कर ही उसका मूल्य निर्धारित करते हैं ॥ १०७ ॥

नेति । गुणहीनस्य व्यवहाराक्षमस्य कार्य्यायोग्यस्य वस्तुनः मूल्यं नास्ति, किञ्च बुधैः विद्वद्भिः सर्वस्मिन् मूल्यकल्पने लोकात् लोकपरम्परातः वस्तुजातस्य समस्तस्य वस्तुनः नीचमध्योत्तमत्वम् अधमत्वं मध्यमत्वम् उत्तमत्वञ्च सर्वदा चिन्तनीयम् ॥ १०७ ॥

विक्रेतृक्रेतृतो राजभागः शुल्कमुदाहृतम् ।

शुल्कदेशा हट्टमार्गाः करसीमाः प्रकीर्त्तिताः ॥ १०८ ॥

अन्वयः — विक्रेतृक्रेतृतः राजभागः शुल्कम् उदाहृतम् । शुल्कदेशाः हट्टमार्गाः करसीमाः प्रकीर्तिताः ॥ १०८ ॥

व्याख्या — विक्रेतुः = विक्रयिकस्य, क्रेतुः = क्रयिकस्य, समीपात्, राजभाग: - राज्ञः = नृपस्य, भागः = - अंशः, शुल्कम् = घट्टपथादीनां करः, उदाहृतम् = कथितम् । शुल्कदेशाः = करग्रहण-स्थलानि, हट्टमार्गाः = आपणपन्थाः, करसीमा: करस्य = शुल्कस्य, सीमा = प्रान्तः पर्यन्तो वेति । शुल्कशब्दोऽत्रोभयलिङ्गी वर्तते, तथाप्यत्र नपुंसकत्वं विधेयप्राधान्यानुरोधादेव ॥ १०८ ॥

हिन्दी — खरीद - बिक्री करने वाले से राजा जो अपना कर वसूल करता है, उसे ' शुल्क ’ कहते हैं । बाजार की राह में चुंगी या टैक्स वसूले जाते हैं तथा जहाँ चुंगी वसूली जाती है, उन्हें करसीमा या चुंगीघर कहते हैं ॥ १०८ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 92

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 92 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५०४ शुक्रनीतिः विक्रेत्रिति । विक्रेतुः क्रेतुश्च सकाशात् राजभागः राजप्राप्यांशः शुल्कम् उदाहृतं कथितं विधेयप्राधान्यात् नपुंसकत्वं ज्ञेयम् । शुल्कदेशाः शुल्कग्रहणस्थानानि हट्टमार्गाः व्यवसायस्थानानि करसीमाः करस्य शुल्कस्य सीमाः निर्दिष्टा अवधयश्च प्रकीर्त्तिताः ॥ १०८ ॥

वस्तुजातस्यैकवारं शुल्कं ग्राह्यं प्रयत्नतः ।

क्वच्चिन्नैवासकृच्छुल्कं राष्ट्रे ग्राह्यं नृपैश्छलात् ॥ १० ९ ॥

अन्वयः — नृपैः वस्तुजातस्य प्रयत्नतः च एकवारं शुल्कं प्राह्यम् । क्वचित् राष्ट्रे छलात् असकृत् शुल्कं नैव ग्राह्यम् ॥१० ९ ॥ व्याख्या – नृपैः = राजभिः, वस्तुजातस्य = पदार्थसमूहस्य, प्रयत्नतः = प्रयासपूर्वकेण च, एकवारम् = सकृदेव, शुल्कम् = करम्, प्राह्यम् = ग्रहीतव्यम् । क्वचित् = कुत्रापि, राष्ट्रे = जनपदे, छलात् = कपटमाश्रित्य, असकृत् = वारं वारम्, शुल्कम् = करम्, नैव = नेयमिति ॥ १० ९ ॥ हिन्दी - राजा को चाहिए कि हर वस्तु पर प्रयत्नपूर्वक एक बार ही राज्य में राजा कभी भी छल से एक ही वस्तु पर दुहरी चुंगी न लगाये वस्तुजातस्येति । नृपैः वस्तुजातस्य वस्तुसमूहस्य प्रयत्नतः प्रयत्नेन ग्राह्यं, क्वचित् राष्ट्रे छलात् छलमाश्रित्येति यावत्, असकृत् वारं ग्राह्यम् ॥ १० ९ ॥

द्वात्रिंशांशं हरेद्राजा विक्रेतुः क्रेतुरेव वा ।

विंशांशं वा षोडशांशं शुल्कं मूल्याविरोधकम् ॥

नास्त्येव, ग्राह्यम् = ' चुंगी लगाये । अपने ॥१० ९ ॥ च एकवारं शुल्कं वारं शुल्कं नैव ११० ॥ अन्वयः — राजा विक्रेतुः क्रेतुः वा मूल्याविरोधकं यथा तथा द्वात्रिंशांशं विंशांशं वा षोडशांशं शुल्कं हरेत् ॥ ११० ॥

व्याख्या– राजा = नृपः, विक्रेतुः = विपणितुः, वा = अथवा, क्रेतुः = ग्राहकस्य, समीपात्, मूल्याविरोधकम् — मूल्यस्य = अर्घस्य, अविरोधकम् = अप्रतिकूलम्, यथा तथा, द्वात्रिंशांशम् = द्वयाधिकत्रिंशत्, अंशम् = भागम्, विंशांशम् = विंशतिभागम्, वा = अथवा, षोडशांशम् = षोडशभागम्, शुल्कम् = करम्, हरेत् = स्वीकुर्यात् ॥ ११० ॥

हिन्दी — राजा बेचने या खरीदने वालों से किसी वस्तु की कीमत का बत्तीसवाँ भाग कर के रूप में स्वीकार करे अथवा मूलधन को छोड़कर लाभ का बीसवाँ या सोलहवाँ भाग कर स्वीकार करे ॥ ११० ॥

द्वात्रिंशांशमिति । राजा विक्रेतुः क्रेतुः वा सकाशात् मूल्याविरोधकं मूल्याविरुद्धं यथा तथा द्वात्रिंशांशं विंशांशं षोडशांशं वा शुल्कं हरेत् गृह्णीयात् । विकल्पश्चैषः द्रव्यस्य मूल्यस्य च तारतम्यानुसारेण वेदितव्यः ॥११० ॥

न हीनसममूल्याद्धि शुल्कं विक्रेतृतो हरेत् ।

लाभं दृष्ट्वा हरेच्छुल्कं क्रेतृतश्च सदा नृपः ॥ १११ ॥

अन्वयः — विक्रेतृतः हीनसममूल्यात् शुल्कं न हरेत् । नृपः लाभं दृष्ट्वा क्रेतृतश्च सदा शुल्कं हरेत् ॥ १११ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 93

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 93 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य द्वितीयं प्रकरणम् ५०५ व्याख्या — विक्रेतृतः = विपणितुः सकाशात् हीनसममूल्यात् — हीनात् = क्रयमूल्यतः अल्पतरात्, समात् = क्रयमूल्यतुल्यात्, हि = इति निश्चयेन, शुल्कम् = करम्, न = नहि, हरेत् = नयेत्, गृह्णीयादित्यर्थः । नृपः = राजा, लाभम् = अधिगमनम्, दृष्ट्वा = अवलोक्य, क्रेतृतश्च = ग्राहकसकाशात्, सदा = सर्वदा, शुल्कम् = करम्, हरेत् = गृह्णीयात् ॥ १११ ॥

हिन्दी – किसी बेचने वाले को यदि किसी वस्तु की कीमत मूल धन से कम या उतना ही लेना पड़े तो उस वस्तु पर चुंगी नहीं वसूले । कम पैसे लगाकर अधिक लाभ कमाने वाले से राजा सदा चुंगी वसूल करे ॥१११ ॥

नेति । विक्रेतृतः विक्रेतुः सकाशात् हीनात् क्रयमूल्यतः न्यूनात् समात् तुल्याच्च शुल्कं न हरेत् हि नैव गृह्णीयादित्यर्थः । नृपः लाभम् अल्पमूल्येन अधिकद्रव्यलाभं सकाशाच्च सदा शुल्कं हरेत् ॥ १११ ॥

बहुमध्याल्पफलितां भुवं मानमितां सदा ।

ज्ञात्वा पूर्वं भागमिच्छुः पश्चाद्भागं विकल्पयेत् ॥

अन्वयः — सदा भागमिच्छुः पूर्वं बहुमध्याल्पफलितां मानमितां भुवं विकल्पयेत् ॥११२ ॥

व्याख्या — सदा = सर्वदा, भागमिच्छुः = करांशग्रहणाभिलाषी नृपः, दृष्ट्वा क्रेतृतश्च क्रेतुः ११२ ॥ ज्ञात्वा पश्चात् भागं पूर्वम् = प्रथमम्, बहु-मध्याल्पफलिताम् — बहुफलाम् = अधिकपरिणामप्रदाम्, मध्यफलाम् = सामान्यलाभदाम्, अल्प-फलाम् = न्यूनपरिणामप्रदाम्, मानमिताम् = फलेन कृतमानाम्, भुवम् = स्थानम्, ज्ञात्वा = अवबुध्य, पश्चात् = तत्पश्चात्, भागम् = करांशम्, विकल्पयेत् = विचिन्तयेत् ॥ ११२ ॥

हिन्दी – मालगुजारी चाहने वाला राजा सदा धरती का पैमाइश करवा कर पहले उसकी अधिक, साधारण या कम उपज की जानकारी लेकर पीछे उसकी मालगुजारी तय करे ॥ ११२ ॥

बह्विति । सदा भागमिच्छुः शुल्कभागाकाङ्क्षी राजा पूर्वं प्रथमं बहुफलां मध्यफलां वा अल्पफलां मानमितां परिमाणेन कृतमानां भुवं भूमिं ज्ञात्वा पश्चात् भागं शुल्कस्येति शेषः, विकल्पयेत् विशेषेण निर्दिशेत् ॥ ११२ ॥

हरेच्च कर्षकाद्भागं यथा नष्टो भवेन्न सः ।

मालाकार इव ग्राह्यो भागो नाङ्गारकारवत् ॥ ११३ ॥

अन्वयः — यथा सः नष्टः न भवेत् कर्षकात् ( तथा ) भागं हरेत् । मालाकार इव अङ्गारकारवत् भागः न ग्राह्यः ॥ ११३ ॥

व्याख्या — यथा = येन प्रकारेण, सः = करदाता, नष्टः = विनष्टः, न = नहि, भवेत् = स्यात्, कर्षकात् = कृषकात्, तथा, भागम् = करम्, हरेत् = ग्रहणं कुर्यात् । मालाकारः = उद्यानपालः, इव = यथा, अङ्गारकारवत् = दग्धकाष्ठखण्डनिर्मातेव, भागः = करांशः, न = नहि, ग्राह्यः = स्वीकर्त्तव्यम् ॥ ११३ ॥

हिन्दी — किसानों से मालगुजारी उतनी ही वसूल की जाय जितने से वह क्षतिग्रस्त न हो सके । माली की तरह संग्रह करना चाहिए, न कि कोयला बनाने वाले की तरह ॥ ११३ ॥

हरेदिति । यथा सः भूशुल्कदाता नष्टः क्षतिग्रस्तः न भवेत् कर्षकात् कृषीबलात् तथा भागं CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 94

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 94 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५०६ शुक्रनीतिः

हरेत् । मालाकार इव माली यथा तरुलताभ्यः अल्पम् अल्पं पुष्पं चिनोति तथेति भावः ।

अङ्गारकारवत् अङ्गारकारेण तुल्यं यथा तथा भाग: शुल्करूपांशः न ग्राह्यः ॥ ११३ ॥

बहुमध्याल्पफलतस्तारतभ्यं विमृश्य च ।

राजभागादिव्ययतो द्विगुणं लभ्यते यतः ।

कृषिकृत्यन्तु तच्छ्रेष्ठं तन्यूनं दुःखदं नृणाम् ॥। ११४ ॥

अन्वयः — बहुमध्याल्पफलतः तारतम्यं विमृश्य यतः राजभागादिव्ययतः द्विगुणं लभ्यते, तत्तु कृषिकृत्यं श्रेष्ठम्, तत् न्यूनं नृणां दुःखदम् ॥ ११४ ॥

व्याख्या— बहुमध्याल्पफलतः — बहुफलतः = अत्यधिकोत्पादनानुसारेण, मध्यफलतः = सामान्यकृषिफलानुसारेण, अल्पफलतः = - न्यूनशस्योत्पादनानुसारेण, तारतम्यम् =: न्यूनाधिकत्वम्, विमृश्य = विचार्य, यतः = यस्मात्कारणात् कृषिकर्मणः, राजभागादिव्ययतः – राजभागादीनाम् = नृपदेयभूमिकरादीनाम्, व्ययतः = विनियोगात्, द्विगुणम् = द्विगुणितम्, कृषिफलम्, लभ्यतेः प्राप्यते, तत्तु = तदेव, कृषिकृत्यम् = कृषिफलम्, श्रेष्ठम् = उत्कृष्टम्, तत् = तस्मात्, न्यूनम् = अल्पतरम्, नृणाम् = नराणाम्, दुःखदम् = कष्टकरम् भवतीति भावः ॥११४ ॥

हिन्दी — अधिक, सामान्य और कम पैदावार की कमी - बेशी के हिसाब से तरतीब सोचकर तदनुसार मालगुजारी लेनी चाहिए । खेत पर दी गई मालगुजारी एवं उत्पादन पर लागत खर्च काट कर जिस खेती में लागत से दूना लाभ हो, वह उत्तम होती है तथा लागत से कम आमदनी वाली खेती किसानों के लिए दुःखद होती है ॥११४ ॥

बह्विति । बहुमध्याल्पफलतः बहुफलानुसारेण मध्यफलानुसारेण अल्पफलानुसारेण च तारतम्यं भूमेर्गुणागुणमित्यर्थः, विमृश्य विविच्य यतः कृषिकृत्यात् कृषिकार्य्यात् राजभागादिव्ययतः राजदेयशुल्कादीनां व्ययात् द्विगुणं लभ्यते तत् तु तदेव कृषिकृत्यं श्रेष्ठं, तस्मात् न्यूनं यत्किञ्चिल्लाभकरमित्यर्थः, कृषिकृत्यं नृणां दुःखदं दुःखदायकम् ॥११४ ॥

तडागवापिकाकूपमातृकाद्देवमातृकात् 1 देशान्नदीमातृकात् तु राजानुक्रमतः सदा ॥ ११५ ॥

तृतीयांशं चतुर्थांशमर्द्धांशन्तु हरेत् फलम् ।

षष्ठांशमूषरात् तद्वत् पाषाणादिसमाकुलात् ॥ ११६ ॥

अन्वयः — राजा सदा तडागवापिकाकूपमातृकात् देवमातृकात् नदीमातृकात् देशात् तृतीयांशं, चतुर्थांशं तथा अर्द्धांशम् अनुक्रमतः तद्वत् ऊषरात् वा पाषाणादिसमाकुलात् देशाच्च षष्ठांशं फलं हरेत् ॥ ११५-११६ ॥ व्याख्या -- राजा = नृपः, सदा = • सर्वदा, तडागवापिकाकूपमातृकात् = कासारदीर्घिकाकूप-सलिलैः, सिञ्चितकृषेः, देवमातृकात् = मेघजलसिञ्चितकृषेः, नदीमातृकात् = शैलिनीसिञ्चित-कृषेश्च, देशात् = क्षेत्रात्, तृतीयांशम् = तृतीयभागम्, चतुर्थांशम् = तुरीयभागम्, अर्द्धांशम् = अर्द्धभागम्, वा, अनुक्रमतः = यथाक्रमेण, तद्वत् = तथैव, ऊषरात् = अनुर्वरात्, वा, पाषाणादिसमा-कुलात् = पाषाणशकलाच्छादितात्, देशाच्च = क्षेत्राच्च, षष्ठांशम् = षष्ठभागम्, फलम् = शस्यम्, हरेत् = गृह्णीयात् ॥ ११५-११६ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 95

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 95 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य द्वितीयं प्रकरणम् ५०७ हिन्दी — राजा क्रमानुसार हमेशा तालाब, बावड़ी या कुँए से सींचे जाने वाले खेतों की उपज का तीसरा हिस्सा, वर्षा के द्वारा सिंचाई होने वाले खेतों की उपज का चौथा भाग तथा नदी से सिंचाई होने वाले खेतों की उपज का आधा हिस्सा और बंजर या पथरीली धरती की उपज का छठा हिस्सा मालगुजारी के रूप में ग्रहण करे ॥ ११५-११६ ॥ तडागेति । तृतीयांशमिति । राजा सदा तडागवापिकाकूपमातृकात् सरोवरदीर्घिकाकूपजलैः सम्पाद्यकृषेः देवमातृकात् वृष्टिजलसम्पाद्यकृषेरित्यर्थः, नदीमातृकात् नदीजलैः सम्पाद्यकृषेश्च देशात् तृतीयांशं चतुर्थांशं तथा अर्द्धशम् अनुक्रमतः यथाक्रमेण तद्वत् तथा ऊपरात् अनुर्वरात् वा पाषाणादिसमाकुलात् प्रस्तरप्रधानात् देशाच्च षष्ठांशं फलं हरेत् ॥११५-११६ ॥

राजभागस्तु रजतशतकर्षमितो यत: ।

कर्षकाल्लभ्यते तस्मै विंशांशमुत्सृजेन्नृपः ॥ ११७ ॥

अन्वयः — यतः कर्षकात् रजतशतकर्षमितः राजभागः लभ्यते, नृपः तस्मै विंशांशम् उत्सृजेत् ॥ ११७ ॥

व्याख्या— यतः = - यस्माद्धेतोः कर्षकात् = कृषकात्, रजतशतकर्षमितः — रजतानाम् = रुप्याणाम्, शतकर्षमितः = शतरजतमुद्रापरिमितः, राजभागः = राजस्वः, लभ्यते = प्राप्यते, नृपः = राजा, तस्मै = क्षेत्रिणे, विंशांशम् = विंशतितमम्भागम्, तम्, उत्सृजेत् = दद्यात् ॥ ११७ ॥

हिन्दी — जिस किसान से राजा को मालगुजारी के रूप में चाँदी के सौ सिक्के मिलते हों, उनमें से उसे उसका बीसवाँ भाग दे देना चाहिए ॥ ११७ ॥

राजभाग इति । यतः कर्षकात् कृषीबलात् रजतानां शतकर्षमितः शतरजतकर्षपरिमितः राजभागः लभ्यते, नृपः तस्मै कर्षकाय विंशांशं स्वप्राप्यात् विंशतिभागैकभागम् उत्सृजेत् त्यजेत् ॥ ११७ ॥

स्वर्णादर्द्धं च रजतात् तृतीयांशञ्च ताम्रतः ।

चतुर्थांशन्तु षष्ठांशं लोहाद् वङ्गाच्च सीसकात् ॥ ११८ ॥

रत्नार्द्धं चैव क्षारार्द्धं खनिजाद् व्ययशेषतः ।

लाभाधिक्यं कर्षकादेर्यथा दृष्ट्वा हरेत् फलम् ।

त्रिधा वा पञ्चधा कृत्वा सप्तधा दशधापि वा ॥ ११ ९ ॥

अन्वयः — खनिजात् व्ययशेषतः स्वर्णात् अर्द्धं रजतात् तृतीयांशं ताम्रतः चतुर्थांशं लोहात् वङ्गात् सीसकात् च षष्ठांशं रत्नानाम् अर्द्धं क्षाराणाम् अर्द्ध कर्षकादेः लाभाधिक्यं दृष्ट्वा त्रिधा पञ्चधा सप्तधा वा दशधा कृत्वा यथा फलं हरेत् ॥ ११८-११९ ॥ व्याख्या — खनिजात् = आकरजपदार्थात्, व्ययशेषतः = विनियोगावशिष्टात्, स्वर्णात् = कनकात्, अर्द्धम् = अर्द्धांशम्, रजतात् = रौप्यात्, तृतीयांशम् = तृतीयभागम्, ताम्रतः = मुनिपित्तलात्, चतुर्थांशम् = तुरीयभागः, लोहात् = अयस्कात्, वङ्गात् = त्रपुषात्, सीसकात् = सीसपत्रकात्, च = पुनः, षष्ठांशम् = षष्ठभागम्, रत्नानाम् = मणीनाम्, अर्द्धम् = अर्द्धभागम्, क्षाराणाम् = लवणानाम्, अर्द्धम् = अर्द्धभागम्, कर्षकादेः = क्षेत्राजीवादेः, लाभाधिक्यम् = प्राप्तिबाहुल्यम्, दृष्ट्वा = विचार्य, त्रिधा = त्रिभागम्, पञ्चधा = = पञ्चमांशम्, सप्तधा = CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 96

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 96 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५०८ शुक्रनीतिः सप्तमांशम्, वा = अथवा, दशधा = दशभागम्, कृत्वा = सम्पाद्य, यथा = तदनुरूपम्, फलम् = शुल्कम्, हरेत् = गृह्णीयात् ॥ ११८-१९ ॥ हिन्दी — खर्च काटकर खान से निकलने वाले सोने का आधा हिस्सा, चाँदी की एक तिहाई, ताँबा से एक चौथाई, लोहे, राँगे और सीसे से छठा भाग, रत्नों एवं क्षारीय द्रव्यों से आधा भाग तथा किसानों के लाभ की अधिकता को देखते हुए तदनुसार उनका तीसरा, पाँचवाँ, सातवा या दसवाँ भाग राजस्व के रूप में ग्रहण करना चाहिए ॥ ११८-११९ ॥ स्वर्णादिति । रत्नार्द्धमिति । व्ययशेषत इति सर्वत्र सम्बध्यते । खनिजात् व्ययशेषतः व्ययावशिष्टात् स्वर्णात् अर्द्धं रजतात् तृतीयांशं, ताम्रतः ताम्रात् चतुर्थांशं, लोहात् वङ्गात् सीसकाच्च षष्ठांशं, रत्नानां हीरकादीनाम् अर्द्ध क्षाराणां लवणानाञ्च अर्द्ध तथा कर्षकादेः लाभाधिक्यं दृष्ट्वा विविच्येत्यर्थः, त्रिधा पञ्चधा सप्तधा वा दशधा कृत्वा यथा यथोपयुक्तं फलं हरेत् राजेति शेषः ॥ १८-१९ ॥ तृणकाष्ठादिहरकाद् विंशत्यंशं हरेत् फलम् ।

अजाविगोमहिष्याश्ववृद्धितोऽष्टांशमाहरेत् ।

महिष्यजाविगोदुग्धात् षोडशांशं हरेन्नृपः ॥ १२० ॥

अन्वयः – नृपः तृणकाष्ठादिहरकात् विंशत्यंशं फलं हरेत् । अजाविगोमहिष्याश्ववृद्धितः अष्टमांशं हरेत् । तथा महिष्यजाविगोदुग्धात् षोडशांशं हरेत् ॥१२० ॥

व्याख्या – नृपः = राजा, तृणकाष्ठादिहरकात् = तृणदारु- आहरणकर्तुः जनात्, विंशत्यंशम् = विंशांशम्, फलम् = करम्, हरेत् = ग्रहणं कुर्यात । अजानाम् = छागानाम्, अवीनाम् = मेषाणाम्, गवाम् = धेनूनाम्, महिषीणाम् = बहुक्षीराणाम्, अश्वानाम् = घोटकानाम्, वृद्धितः = वृद्धेः, अष्टांशम् = अष्टमभागम्, हरेत् = आहरेत् । तथा महिषीणाम् = बहुक्षीराणाम्, अजानाम् = छागीनाम्, अवीनाम् = मेषीणाम्, गवाञ्च = धेनूनाञ्च, दुग्धात् = पयसः षोडशांशम् = षोडशं भागम्, हरेत् = राजस्वरूपेण गृह्णीयात् ॥ १२० ॥

हिन्दी — घसियारे तथा लकड़हारों की आमदनी का बीसवाँ भाग कर के रूप में वसूल करना चाहिए । भेंड, बकरी, गायें, भैंसें और घोड़ों की वृद्धि पर उनका आठवाँ भाग कर के रूप में राजा ग्रहण करे । भैंस, बकरी और गाय के दूध में से सोलहवाँ भाग कर ग्रहण करे ॥ १२० ॥

तृणेति । नृपः तृणकाष्ठादिहरकात् तृणकाष्ठानाम् आहरणकारिणः जनात् विंशत्यंशं फलं हरेत् । अजानां छागानाम् अवीनां मेषाणां गवां महिषीणाम् अश्वानाञ्च वृद्धितः वृद्धेः अष्टांशम् अष्टमं भागं हरेत् । तथा महिषीणाम् अजानां छागीनाम् अवीनां मेषीणां गवाञ्च दुग्धात् षोडशांशं हरेत् ॥ १२० ॥

कारुशिल्पिगणात् पक्षे दैनिकं कर्म कारयेत् ।

तस्य वृद्ध्यै तडागं वा वापिकां कृत्रिमां नदीम् ॥। १२१ ॥

कुर्वन्त्यन्यत् तद्विधं वा कर्षन्त्यभिनवां भुवम् ।

तद्व्ययद्विगुणं यावन्न तेभ्यो भागमाहरेत् ॥ १२२ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 97

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 97 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य द्वितीयं प्रकरणम् ५० ९ अन्वयः — कारुशिल्पिगणात् पक्षे दैनिकं कर्म कारयेत् । ये च तस्य वृद्ध्यै तडागं वापिकां वा कृत्रिमां नदीम् अथवा अन्यत् तद्विधं कुर्वन्ति, अभिनवां भुवं कर्षन्ति, यावत् तद्व्ययात् द्विगुणं तावत् तेभ्यः भागं न आहरेत् ॥१२१-१२२ ॥ व्याख्या — कारुगणान् = कर्मकारसमूहान् शिल्पिगणांश्च = शिल्पकुशलांश्च, पक्षे = मासार्द्धे, दैनिकम् = एकाह्निकसाध्यम्, कर्म = तस्य कृत्यम्, कारयेत् = साधयेत्, तदेव तेषां राजस्वमिति भावः । ये = जनाः, तस्य = नृपस्य, वृद्ध्यै = अभ्युदयाय, तडागम् = सरोवरम्, वापिकाम् = दीर्घिकाम्, वा = अथवा, कृत्रिमाम् = अनैसर्गिकाम्, नदीम् = तटिनीम्, कुल्याम् इति भावः, अथवा अन्यत् = अपरम्, तद्विधम् = तत्प्रकारकम्, कर्म = कृत्यम्, कुर्वन्ति = सम्पादयन्ति, तथा ये च अभिनवाम् = प्रत्यग्राम्, भुवम् = पृथिवीम्, कर्षन्ति = कृषिकर्म कुर्वन्ति, यावत् = यावत्कालपर्यन्तम्, तत् = तस्य कर्मणः, व्ययात् = विनियोगात्, द्विगुणम् = द्विगुणितम्, लाभं न प्राप्यते, तावत् तेभ्यः = शिल्पिगणेभ्यः, भागम् = राजदेयशुल्कम्, न = नहि, आहरेत् = आहरणं कुर्यात् ॥ १२१-१२२ ॥ हिन्दी — बढई एवं शिल्पियों से कर के रूप में पन्द्रह दिनों में एक दिन मुफ्त काम लेना चाहिए । राज्य की उन्नति के लिए जो तालाब, बावड़ी, नहर या ऐसे ही कुछ और काम करते हैं, उनसे तथा जो नई धरती जोत कर आबाद करते हैं; उनसे जब तक लागत - खर्च काट कर दूना लाभ न हो तब तक राजस्व वसूल नहीं करना चाहिए ॥ १२१-१२२ ॥ कार्विति । कुर्वन्तीति ॥ कारुगणान् शिल्पिगणांश्च पक्षे पञ्चदशदिनाभ्यन्तरे दैनिकम् एकदिनसाध्यं कर्म्म कारयेत्, एतदेव तेषां राजभागदानमिति भावः । ये च तस्य राज्ञः वृद्ध्यै राज्योन्नत्यै तडागं वापिकां दीर्घिकां वा कृत्रिमां नदीम् अथवा अन्यत् तद्विधं तद्रूपं कर्म्म कुर्वन्ति, ये च अभिनवां नवोत्थितां भुवं कर्षन्ति कर्षणेन उर्वरां कुर्वन्तीत्यर्थः यावत् तद्व्ययात् तस्य कर्मणः व्ययात् द्विगुणं लभ्यते इति शेषः, तावत् तेभ्यः कर्म्मकरेभ्यः भागं राजांशं न आहरेत्, द्विगुणातिरिक्ते तु आहरेदेवेत्यर्थः ॥ १२१-१२२ ॥

भुवि भागं भृतिं शुल्कं वृद्धिमुत्कोचकं करम् ।

सद्य एव हरेत् सर्वं न तु कालविलम्बनैः ॥ १२३ ॥

अन्वयः — भुवि भागं भृतिं शुल्कं वृद्धिम् उत्कोचकं करं सर्वं सद्यः एव हरेत्, कालविल्म्बनैः न तु ॥ १२३ ॥

व्याख्या - भुवि = संसारे, भागम् = अंशम्, भृतिम् = वेतनम्, शुल्कम् = करम्, वृद्धिम् = कुसीदम्, उत्कोचकम् = उपायनम्, करम् = राजस्वम्, एतत् सर्वम् = सकलम्, सद्यः एव = तत्काल एव, हरेत् = स्वीकुर्यात्, कालविलम्बनैः = अत्यधिकविलम्बनैः, न = नहि, कुर्यादिति ॥ १२३ ॥

हिन्दी — अपनी जमीन का हिस्सा, वेतन, चुंगी, व्याज, घूस और मालगुजारी — इन्हें शीघ्र ले लेना चाहिए, इनमें देर करना उचित नहीं है ॥ १२३ ॥

भुवीति । भुवि पृथिव्यां भागं भृतिं वेतनं शुल्कं वृद्धिं कुसीदम् उत्कोचकं भागविहित-कार्य्यकरणोत्साहदानार्थं देयं धनं तथा करं राजस्वम् एतत् सर्वं सद्य एव हरेत् कालविलम्बनैः न तु नैव ॥ १२३ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 98

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 98 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

शुक्रनीति: ५१०

दद्यात् प्रतिकर्षकाय भागपत्रं स्वचिह्नितम् ।

नियम्य ग्रामभूभागमेकस्माद् धनिकाद्धरेत् ॥ १२४ ॥

गृहीत्वा तत्प्रतिभुवं धनं प्राक् तत्समं तु वा ।

विभागशो गृहीत्वापि मासि मासि ऋतौ ऋतौ ॥ १२५ ॥

अन्वयः — प्रतिकर्षकाय स्वचिह्नितं भागपत्रं दद्यात् । वा ग्रामभूभागं नियम्य एकस्मात् धनिकात् हरेत् । तत्प्रतिभुवं गृहीत्वा वा तत्समं धनं प्राक् मासि मासि ऋतौ ऋतौ विभागशः हरेत् ॥ १२४-१२५ ॥ व्याख्या – प्रतिकर्षकाय = प्रत्येकं क्षेत्राजीवाय, स्वचिह्नितम् – स्वस्य = आत्मनः, चिह्नितम् = - मुद्रयाऽङ्कितम्, भागपत्रम् = शुल्कप्राप्तिपत्रम्, दद्यात् = देयात्, वा = अथवा, ग्रामभूभागम्— ग्रामस्य = निवसथस्य, भूभागम् = क्षेत्रखण्डम्, नियम्य = निर्धार्य, एकस्मात् धनिकात् = धनवतो जनात्, तत् = तस्य धनिनः, प्रतिभुवम् = लग्नकम्, गृहीत्वा = नीत्वा, वा = अथवा, तत्समम् = तत्तुल्येन, धनम् = अर्थम्, प्राक् = पूर्वम्, गृहीत्वाऽपि, मासि मासि = प्रतिमासम्, ऋतौ ऋतौ = प्रतिद्विमासात्मकं कालम्, विभागशः = विभागक्रमेण राजस्वम्, हरेत् = स्वीकुर्यात् ॥१२४-१२५ ॥ हिन्दी —–राजा हर किसान को मालगुजारी पाने की रसीद लिखकर उस पर अपनी मुहर लगाकर उसे दे दे । अथवा गाँव की पूरी जमीन की मालगुजारी नियत कर उसी गाँव के किसी धनी व्यक्ति से सारी मालगुजारी एक साथ वसूल करे और उस धनी व्यक्ति को वहाँ के किसानों का जामिनदार बना दे । वह जामिनदार हर महीने या हर ऋतु में सबसे अलग - अलग मालगुजारी वसूल कर राजा को एक साथ दे ॥ १२४-१२५ ॥ दद्यादिति । गृहीत्वेति । प्रतिकर्षकाय प्रत्येकं कृषिकारिणे इत्यर्थः; स्वचिह्नितं स्वाक्षरितं भागस्य राजांशस्य पत्रं लेख्यं दद्यात् । वा अथवा ग्रामभूभागं नियम्य निरूप्य निर्धार्य्य इत्यर्थः, एकस्मात् धनिकात् धनवतः जनात् तस्य धनिकस्य प्रतिभुवं प्रतिरूपं गृहीत्वा वा तत्समं राजदेयधनसमानं धनं प्राक् लेख्यदानात् पूर्वं गृहीत्वा किंवा मासि मासि प्रतिमासम् ऋतौ ऋतौ प्रतिद्विमासं विभागशः विभागक्रमेण उक्तं ग्रामभुवो भागं राजस्वमित्यर्थः, हरेत् गृह्णीयात् ॥ १२४-१२५ ॥

षोडशद्वादशदशाष्टांशतो वाधिकारिणः ।

स्वांशात् षष्ठांशभागेन ग्रामपान् सन्नियोजयेत् ॥ १२६ ॥

अन्वयः — षोडशद्वादशदशाष्टांशतः स्वांशात् षष्ठांशभागेन ग्रामपान् अधिकारिणः वा सन्नियोजयेत् ॥ १२६ ॥

व्याख्या- ग्रामात् राजस्वरूपेण प्राप्तधनस्य, षोडशांशात् = दशाधिकषड्भागात्, ' द्वादशांशात् = द्वयाधिकदशभागात्, दशांशात् = दशभागात्, अष्टांशात् = अष्टमभागात्, स्वांशात् — स्वस्य = आत्मनः राज्ञः, अंशात् = भागात्, षष्ठांशभागेन, यथायथषष्ठभागरूपेण वेतनेन, ग्रामपान् = ग्रामपालकान्, अधिकारिणः = समाहर्त्तारः, योजयेत् ॥ १२६ ॥

हिन्दी — योग्यतानुसार सोलहवाँ, बारहवाँ, दसवाँ या आठवाँ भाग, जो राजा को मिलने वाला कर या मालगुजारी हो; उसका छठा भाग वेतन के रूप में देकर राजा ग्रामपाल या समाहर्त्ता की नियुक्ति करे ॥ १२६ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 99

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 99 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य द्वितीयं प्रकरणम् ५११ षोडशेति । षोडशांशात् द्वादशांशात् दशांशात् अष्टांशाच्च स्वांशात् राजप्राप्यांशात् षष्ठांशभागेन यथायथषष्ठभागरूपेण वेतनेन ग्रामपान् ग्रामपालकान् अधिकारिणः भृत्यान् वा सन्नियोजयेत् ॥ १२६ ॥

गवादिदुग्धान्नफलं कुटुम्बार्थाद्धरेन्नृपः ।

उपभोगे धान्यवस्त्रं क्रेतृतो नाहरेत् फलम् ॥ १२७ ॥

अन्वयः – नृपः कुटुम्बार्थात् गवादिदुग्धात् फलं न हरेत् । उपभोगे धान्यवस्त्रं क्रेतृतः फलं न आहरेत् ॥ १२७ ॥

व्याख्या – नृपः = राजा, कुटुम्बार्थात् = परिवारपालनार्थात्, गवादीनाम् = धेनुप्रभृतीनाम्, दुग्धात् = पयसः फलम् = राजस्वम्, न = = नहि, हरेत् = गृह्णीयात् । उपभोगे = आत्मव्यवहारे, धान्यन् = अन्नम्, वस्त्रञ्च = वसनञ्च, क्रेतृतः = क्रेतुः ग्राहकात् वा, फलम् = करम्, न = = नहि, आहरेत् = गृह्णीयात् ॥१२६ ॥

हिन्दी — अपने पारिवाररिक उपभोग के लिए संचित गाय, भैंस आदि के दूध पर राजा कर न लगाये और न तो अपने उपभोग के लिए खरीदे गये अन्न - वस्त्र पर कर लगाये ॥ १२७ ॥

गवादीति । नृपः कुटुम्बार्थात् परिवारभरणार्थात् गवादीनां दुग्धात् फलं करं न हरेत् । तथा उपभोगे स्वव्यवहारार्थं न तु व्यवसायार्थमित्यर्थः । धान्यं वस्त्रञ्च क्रेतृतः क्रेतुः सकाशात् फलं शुल्कं न आहरेत् ॥ १२७ ॥

वार्द्धषिकाच्च कौसीदाद् द्वात्रिंशांशं हरेन्नृपः ।

गृहाद्याधारभूशुल्कं कृष्टभूमेरिवाहरेत् ॥ १२८ ॥

अन्वयः — नृपः वार्द्धषिकात् कौसीदात् द्वात्रिंशांशं हरेत् । कृष्टभूमेरिव गृहाद्याधारभूशुल्कम् आहरेत् ॥ १२८ ॥

व्याख्या – नृपः = राजा, वार्द्धषिकात् = वृद्ध्याजीवात्, कौसीदात् = वृद्ध्या ऋणदातुः सकाशात्, द्वात्रिंशांशम् = द्वयाधिकत्रिंशद्भागम्, हरेत् = गृह्णीयात् । कृष्टभूमेः = कर्षणभूमेः, इव = तुल्यम्, गृहादीनाम् = भवनादीनाम्, आधारभुवः = निवासभूम्याः, शुल्कम् = करम्, आहरेत् = ग्रहणं कुर्यात् ॥ १२८ ॥

हिन्दी – व्यापारियों और सूदखोरों से लाभांश का बत्तीसवाँ भाग कर के रूप में राजा को लेना चाहिए । इसी तरह जोतने की जमीन की तरह ही वासभूमि की भी मालगुजारी लेनी चाहिए ॥ १२८ ॥

वार्द्धषिकादिति । नृपः वार्धुषिकात् वृद्धिजीविन: कौसीदात् ऋणदातुः सकाशात् त्रिंशांशं करं हरेत् । तथा कृष्टभूमेरिव गृहादीनाम् आधारभुवः वासभूम्याः शुल्कं हरेत् ॥ १२८ ॥

तथा चापणिकेभ्यस्तु पण्यभूशुल्कमाहरेत् ।

मार्गसंस्काररक्षार्थं मार्गगेभ्यो हरेत् फलम् ॥ १२ ९ ॥

अन्वयः — राजा आपणिकेभ्यः पण्यभूशुल्कम् आहरेत् तथा मार्गगेभ्यः मार्गसंस्काररक्षार्थं फलं हरेत् ॥ १२ ९ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 100

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 100 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५१२ शुक्रनीतिः व्याख्या – राजा, आपणिकेभ्यः = वणिग्भिः, पण्यभूशुल्कम् = विक्रयभूमिकरम्, आहरेत् = गृह्णीयात्, तथा मार्गगेभ्यः = पथिकेभ्यः, मार्गसंस्काररक्षार्थम् = पथपरिष्कारार्थं संरक्षणार्थञ्च, फलम् = शुल्कम्, हरेत् = स्वीकुर्यात् ॥ १२ ९ ॥ हिन्दी — दूकानदारों से दूकान की भूमि सहित कर लेना चाहिए तथा पथ की सफाई और संरक्षण के लिए यात्रियों से भी कर वसूल करना चाहिए ॥१२ ९ ॥

तथेति । राजा अपिणिकेभ्यः विपणिजीविभ्यः पण्यभूशुल्कं विक्रयस्थानशुल्कम् आहरेत् ।

तथा मार्गगेभ्यः पथिकेभ्यः मार्गसंस्काररक्षार्थं फलं शुल्कं हरेत् ॥ १२ ९ ॥

सर्वतः फलभुग्भूत्वा दासवत् स्यात्तु रक्षणे ।

इति कोशप्रकरणं समासात् कथितं किल ॥ १३० ॥

इति शुक्रनीतौ चतुर्थाध्यायस्य कोशनिरूपणं नाम द्वितीयं प्रकरणम् । अन्वयः - राजा सर्वतः रक्षणे दासवत् फलभुक् स्यात् । इति समासात् कोशप्रकरणं किल कथितम् ॥ १३० ॥

व्याख्या — राजा सर्वतः सकलजनसमूहात्, रक्षणे = संरक्षणार्थम्, दासवत् = सेवक इव, फलभुक् = राजस्वरूपवेतनभोगी, स्यात् = भवेत् । इति = इत्थम् समासात् = = सङ्क्षेपात्, कोशप्रकरणम्, किल = निश्चितम्, कथितम् = अस्मिन् प्रकरणे वर्णितम् ॥ १३० ॥

हिन्दी - राजा सबसे कर लेकर दास की तरह उस धन की रक्षा करे । इस तरह संक्षेप में कोश- प्रकरण का वर्णन किया गया ॥ १३० ॥

इस प्रकार शुक्रनीति में चतुर्थ अध्याय में ' कोशनिरूपण ' नामक द्वितीय प्रकरण की ‘ विमला ' संस्कृत - हिन्दी व्याख्या समाप्त हुई । सर्वत इति । राजा सर्वतः सर्वस्मात् जनात् रक्षणे रक्षणार्थं दासवत् भृत्यवत् फलभुक् राजस्वरूपवेतनभोगी स्यात् । इति अनेन प्रकारेण समासात् सङ्क्षेपात् कोशप्रकरणं किल निश्चितं कथितम् ॥१३० ॥

इति श्रीजीवानन्दविद्यासागरविरचिता चतुर्थाध्यायस्य द्वितीयप्रकरणव्याख्या समाप्ता । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA