शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 131–140

शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 131–140

पृष्ठ 131

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 131 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य तृतीयं प्रकरणम् ५४३ व्याख्या – मल्लानाम् = बाहुयोद्धृणाम्, अशस्त्रम् = आयुधरहितम्, यत् बाहुयुद्धम् = मल्लयुद्धम्, तत = तस्मिन् युद्धे, मुष्टिभिः = मुष्टिप्रहारैः स्मृतम् = कथितम् । तत्र = = तस्मिन् युद्धे, मृतस्य: = हतस्य, तस्य = = वीरस्य, स्वर्गः = अपरलोकः, यशश्च = कीर्त्तिश्चापि, इह = संसारे, न = नहि, विद्यते = भवतीति ॥ ७७ ॥

हिन्दी — बिना हथियार चलाये मुक्के से जहाँ युद्ध होता है, उसे मल्लयुद्ध कहते हैं । इस युद्ध में मरने वालों को न तो स्वर्ग मिलता है और न संसार में यश ही मिलता है ॥ ७७ ॥

बाहुयुद्धमिति । मल्लानां वीराणाम् अशस्त्रं शस्त्राघातरहितं यत् बाहुयुद्धं तत् मुष्टिभिः मुष्टिप्रहारैः स्मृतं कथितं, तत्र मृतस्य तस्य वीरस्य स्वर्गः तथा यशश्च इह न विद्यते ॥ ७७ ॥

बलदर्पविनाशान्तं नियुद्धं यशसे रिपोः ।

न कस्यासीद्धि कुर्य्याद् वै प्राणान्तं बाहुयुद्धकम् ॥ ७८ ॥

अन्वयः— रिपोः बलदर्पविनाशान्तं नियुद्धं कस्य यशसे न आसीत् हि । अपितु प्राणान्तं बाहुयुद्धकं हि कुर्यात् ॥ ७८ ॥

व्याख्या - रिपोः = अरेः, बलदर्पयोः = सामर्थ्यगवयोः, विनाशान्तम् = विनाशपर्यन्तम्, नियुद्धम् = बाहुयुद्धम्, कस्य = कस्यापि जनस्य, यशसे = कीर्त्तये, न = - नहि, आसीत्, हीति निश्चयेन, अपितु सकलसमाजहेतवे भवति, अतः प्राणान्तम् = प्राणान्तपर्यन्तम्, बाहुयुद्धम् = मुष्टिप्रहारम्, वै = इति निश्चयेन, कुर्यात् = विदध्यात् ॥ ७८ ॥

हिन्दी – शत्रु की शक्ति और दर्प नाश के लिए प्राणनाश तक युद्ध चलना चाहिए । यह बाहुयुद्ध किसी व्यक्ति - विशेष के यश हेतु नहीं है । अतः जब तक दुश्मन की जान न निकल जाय तब तक इस युद्ध को चलते रहना चाहिए ॥ ७८ ॥

बलेति । रिपोः शत्रोः बलदर्पयोः विनाशान्तं विनाशावधिकं नियुद्धं कस्य यशसे न आसीत्? हि निश्चितम् । अपितु सर्वस्यैव यशसे इत्यर्थः, अतः प्राणान्तं बाहुयुद्धकं वैशब्दोऽवधारणार्थः ॥ ७८ ॥

कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुसङ्कटैः ।

सन्निपातावघातैश्च प्रमादोन्मथनैस्तथा ।

कृतं निपीडनं ज्ञेयं तन्मुक्तिस्तु प्रतिक्रिया ॥ ७ ९

कलाभिलक्षिते देशे यन्त्राद्यस्त्रनिपातनम् ।

वाद्यसङ्केततो व्यूहरचनादि कला स्मृता ॥ ८०

कुर्य्यात् वै कुर्य्यादेव ॥। ॥ अन्वयः — कृतप्रतिकृतैः चित्रैः सुसङ्कटैः बाहुभिः सन्निपातावघातैश्च तथा प्रमादोन्मथनैः यत्कृतं तन्निपीडनं ज्ञेयम् । तन्मुक्तिस्तु प्रतिक्रिया सा कला । अभिलक्षिते देशे यन्त्राद्यस्त्रनिपातनं तथा वाद्यसङ्केततः व्यूहरचनादि कला स्मृता ॥७ ९ -८० ॥ व्याख्या — कृतैः = बाहुभ्यां प्रहरणैः प्रतिकृतैः = शत्रुकृतप्रहारावरोधनैः, चित्रैश्च = विविधैश्च, सुसङ्कटैः = - अतिभीषणप्रहरणैः, बाहुभिः = बाहुप्रहारैः सन्निपातैः = शत्रोरुपरि सम्यक्पातनैः, अवघातैः = प्रहारै:, तथा प्रमादे = स्तोकमपि सावधानताऽभावे, उन्मथनैः = पेषणैः, CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 132

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 132 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

शुक्रनीति: ५४४ , तत् = कर्म, निपीडनम् = सन्तापनं वा अर्दनम्, ज्ञेयम् = बोध्यम् । यत्कृतम् = यदनुष्ठितम्, प्रतिक्रिया = प्रतिकारः, सा = एवंविधा क्रिया, कला तत् = तस्मात्, मुक्तिस्तु = अतिक्रमस्तु = अभीप्सिते, देशे = स्थानविशेषे, यन्त्रादीनाम् = ज्ञेया । किञ्च, अभिलक्षिते तथा अस्त्राणाम् = प्रहरणानाम्, निपातनम् = प्रहरणम्, तथा वाद्यानाम् = प्रहारकयुद्धयन्त्रादीनाम् , सङ्केततः = सङ्केतेन, व्यूहरचनादि = सैन्यसंरचनादि, कला, स्मृता = वादनयन्त्राणाम् कथिता ॥७ — ९ -८० बाँहों ॥ से वार करना, अपने पर किये गये वारों से बचना, पैंतरे बदल कर बाँहों हिन्दी करना, बाँहों से भीषण प्रहार करना, शत्रु पर लगातार टूट पड़ना, हाथों से ही उसे चोट से पहुँचाना वार तथा थोड़ा भी असावधान होने पर दुश्मन को हाथों से मसल डालना – ऐसे बाहुयुद्ध को ‘ निपीड़न ' कहा जाता है । ऐसे आक्रमणों से अपने को बचा लेना ' प्रतिक्रिया ' कहलाती है । इसे मल्लयुद्ध कहते हैं, यह भी एक कला है । लक्ष्यस्थान पर निशाना साधकर युद्धयंत्र या हथियार चलाना भी एक कला है । जुझाऊ बाजे के इशारे पर सैन्य संरचना भी एक कला है ॥ ७ ९ -८० ॥ कृतेति । कलेति । कृतैः प्रतिकृतैः चित्रैः विविधैः सुसङ्कटैः अतिभीषणैः बाहुभिः बाहुप्रहारैरित्यर्थः, सन्निपातैः सम्यक् पातनैः शत्रोरुपरीति शेषः, अवघातैः आघातैः तथा प्रमादे अनवधानतायां शत्रोरिति शेषः, उन्मथनैः मर्दनैः यत् कृतं तत् निपीडनं निःशेषेण पीडनं ज्ञेयं, तस्मात् मुक्तिस्तु अतिक्रमस्तु प्रतिक्रिया प्रतिकारः सा कला । किञ्च अभिलक्षिते लक्ष्यीकृते देशे यन्त्रादीनां युद्धयन्त्रादीनाम् अस्त्राणाञ्च निपातनं तथा वाद्यानां सङ्केततः इङ्गितेन व्यूहरचनादि सैन्यरचनादि कला स्मृता ॥७ ९ -८० ॥

गजाश्वरथगत्या तु युद्धसंयोजनं कला ।

कलापञ्चकमेतद्धि धनुर्वेदागमे स्थितम् ॥ ८१ ॥

अन्वयः – गजाश्वरथगत्या युद्धसंयोजनं कला । एतत् कलापञ्चकं हि धनुर्वेदागमे स्थितम् ॥८१ ॥

व्याख्या — गजानाम् = हस्तिनाम्, अश्वानाम् = घोटकानाम्, रथानाञ्च = स्यन्दनानाञ्च, गत्या = गतिविशेषेण, युद्धसंयोजनम् = रणनीतिनिर्धारणम्, कला = कलाख्येति । एतत् = पूर्वोक्तं सकलम्, कलापञ्चकम् = एषा पञ्चविधा कला, हि: = यतः, धनुर्वेदागमे = धनुर्वेदशास्त्रे, स्थितम् = वर्णितमस्ति ॥ ८१ ॥

हिन्दी — हाथी, घोड़े और रथ की चाल पर ध्यान रखते हुए रणनीति का निर्धारण करना भी एक कला है । ये पाँच कलाएँ धनुर्वेदशास्त्र में वर्णित हैं ॥८१ ॥

गजेति । गजानाम् अश्वानां रथानाञ्च गत्या गमनवैशष्टियेन युद्धसंयोजनं सङ्ग्रामायोजनं कला । एतत् कलापञ्चकं धनुर्वेदागमे धनुर्वेदशास्त्रे स्थितं हि हिशब्दोऽवधारणार्थः ॥ ८१ ॥

विविधासनमुद्राभिर्देवतातोषणं कला ।

सारथ्यं च गजाश्वादेर्गतिशिक्षा कला स्मृता ॥ ८२ ॥

अन्वयः — विविधासनमुद्राभिः देवतातोषणं कला । सारथ्यं गजाश्वादेः च गतिशिक्षा कला स्मृता ॥ ८२ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 133

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 133 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य तृतीयं प्रकरणम् ५४५ व्याख्या — विविधेन = अनेकप्रकारकेण, आसनेन = उपवेशनाधारेण, मुद्राभिः = शरीरा-वयवविन्यासैः, देवतानाम् = सुराणाम्, तोषणम् = प्रीणनम्, कला । तथा सारथ्यम् = रथसञ्चालनम्, “ गजानाम् = करिणाम्, अश्वानाञ्च = हयानाञ्च, गतिशिक्षा = सञ्चालनबोधः, च, कला स्मृता = कथिता ॥ ८२ ॥

हिन्दी — अनेक प्रकार के आसनों और मुद्राओं से देवताओं को प्रसन्न करना भी एक कला है तथा रथ हाँकना और हाथी - घोड़े को चाल सिखाना भी कला है ॥ ८२ ॥ *

विविधेति । विविधेन आसनेन उपवेशनेन मुद्राभिः हस्तादीनां रचनाविशेषैश्च देवतानां सन्तोषणं प्रीणनं कला । तथा सारथ्यं सूतकार्य्यं गजानाम् अश्वानाञ्च गतिशिक्षा च कला स्मृता ॥ ८२ ॥

मृत्तिकाकाष्ठपाषाणधातुभाण्डादिसत्क्रिया ।

पृथक् कलाचतुष्कं तु चित्राद्यालेखनं कला ॥ ८३ ॥

अन्वयः - मृत्तिकाकाष्ठपाषाणधातुभाण्डादिसत्क्रिया कला, चित्राद्यालेखनं कला । एतत् कलाचतुष्कं तु पृथक् उक्तम् ॥ ८३ ॥

व्याख्या - मृत्तिकानां = मृदानाम्, काष्ठानाम् = दारूणाम्, पाषाणानाम् = प्रस्तराणाम्, धातूनाञ्च = खनिजानाञ्च, ये भाण्डादयः = पात्रादयः, सत्क्रिया = सुष्ठुरूपेण तेषां रचना, तत् कलेति, तथा चित्रादीनाम् = आलेख्यादीनाम्, आलेखनम् = चित्राङ्कनम्, कला । एतत् = = पूर्वोक्तम्, चतुष्कम् = चतुःप्रकारकम्, कला, पृथक् = अन्यत् उक्तम् ॥ ८३ ॥

हिन्दी — मिट्टी, काठ, पत्थर और धातु के बर्तन आदि को सुन्दर ढंग से बनाना भी कला

है तथा चित्र बनाना भी कला ही है । ये अलग से चार कलाएँ हैं ॥ ८३ ॥

मृत्तिकेति । मृत्तिकानां काष्ठानां पाषाणानां धातूनाञ्च ये भाण्डादयः तेषां सत्क्रिया सुनिर्माणं कला । तथा चित्रादीनाम् आलेखनं सम्यक् लेखनं कला । एतत् कलाचतुष्कं पृथक् उक्तमिति शेषः ॥ ८३ ॥

तडागवापीप्रासादसमभूमिक्रिया कला ।

घट्याद्यनेकयन्त्राणां वाद्यानान्तु कृतिः कला ॥ ८४ ॥।

अन्वयः — तडागवापीप्रासादसमभूमिक्रिया कला । तथा घट्याद्यनेकयन्त्राणां वाद्यानां तु कृतिः कला ॥ ८४ ॥

व्याख्या- तडागानाम् = = सरोवराणाम्, वापीनाम् = वापिकानाम्, प्रासादानाम् = राजभवनानाम्, समभूमीनाञ्च भूम्याः = पृथिव्याः समानीकरणस्य क्रिया कलेति, तथा घट्यादीनाम् = समयनिरूपकादीनाम्, अनेकेषाम् = विविधानाम्, यन्त्राणाम्, वाद्यानाम् = वादनयन्त्राणाञ्च, कृतिः = क्रिया, कलेति ॥ ८४ ॥।

हिन्दी - तालाब, बावड़ी, राजभवन तथा धरती को समतल बनाने की क्रिया भी एक कला है । घड़ी बनाने की क्रिया भी एक कला ही है और विविध बाजे बनाना भी कला ही है ॥८४ ॥

तडागेति । तडागानां सरसां वापीनां दीर्घिकाणां प्रासादानां हर्म्याणां समभूमीनाञ्च क्रिया करणं कला । तथा घट्यादीनां समयनिरूपकादीनाम् अनेकेषां विविधानां यन्त्राणां वाद्यानाञ्च कृतिः निर्माणं कला ॥ ८४ ॥

३५ शु. CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 134

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 134 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

शुक्रनीतिः ५४६

हीनमध्यादिसंयोगवर्णाद्यै रञ्जनं कला ।

जलवाय्वग्निसंयोगनिरोधैश्च क्रिया कला ॥ ८५ ॥

अन्वयः — हीनमध्यादिसंयोगवर्णाद्यैः रञ्जनं कला । जलवाय्वग्निसंयोगनिरोधैः क्रिया कला ॥ ८५ ॥, संयोगाः = संश्लेषाः येषाम् तैः वर्णाद्यैः =

व्याख्या — हीनमध्यादयः = मन्दमध्यादिकाः रागाद्यैः, रञ्जनम् = चित्राङ्कनमपि, कला । तथा जलानाम् = सलिलानाम्, वायूनाम् = पवनानाम्, अग्नीनाञ्च = वह्नीनाञ्च, संयोगैः = सम्मिश्रणैः, निरोधैश्च = अवरोधैश्च, या क्रिया = वाष्पीययन्त्रेण कृत्यसम्पादनमपि कला एवेति ॥ ८५ ॥ है

हिन्दी — हलका, गाढ़ा या सामान्य रंग मिला कर कपड़े रंगने का काम भी कला तथा आग, पानी और हवा के संयोग और निरोध से वाष्पयंत्र द्वारा काम करना भी कला ॥ ८५ ॥ अल्पमध्योत्तमाः संयोगाः येषां तैः वर्णाद्यैः रञ्जनं वस्त्रादीनामिति शेषः

हीनेति । हीनमध्यादयः कला । तथा जलानां वायूनाम् अग्नीनाञ्च संयोगैः निरोधैश्च या क्रिया वाष्पीयन्त्रेण कार्य्यकरणं सा कला ॥ ८५ ॥

नौकारथादियानानां कृतिज्ञानं कला स्मृता ।

सूत्रादिरज्जुकरणविज्ञानन्तु कला स्मृता ॥ ८६ ॥

अन्वयः – नौकारथादियानानां कृतिज्ञानं कला स्मृता । सूत्रादिरज्जुकरणविज्ञानं तु कला स्मृता व्याख्या ॥ ८६ ॥ – नौकानाम् = तरणीनाम्, रथानाम् = स्यन्दनानाम्, यानादीनाम् = शकटादीनाम्,

| कृतौ | = = रचनायाम्, ज्ञानम् = बोधः, कला, स्मृता = कथिता । तथा सूत्रादीनाम् = तन्त्वादीनाम्, रज्जूनाञ्च = दाम्नाञ्च, करणे = निर्माणे, ज्ञानम् = बोधः, कला, स्मृता = कथिता ॥८६ ॥

हिन्दी – नाव, रथ और सवारी गाड़ी बनाने के ज्ञान को भी कला कहते हैं तथा धागे या वस्तुओं से रस्सी बनाने के ज्ञान को भी कला कहते हैं ॥८६ ॥

नौकति । नौकानां रथानां यानादीनां शकटादीनाञ्च कृतौ निर्माणे ज्ञानं कला स्मृता । तथा सूत्रादीनां रज्जूनाञ्च करणे विज्ञानं विशेषेण ज्ञानं कला स्मृता ॥८६ ॥

अनेकतन्तुसंयोगैः पटबन्धः कला स्मृता ।

वेधादिसदसज्ज्ञानं रत्नानाञ्च कला स्मृता ॥ ८७ ॥

अन्वयः — अनेकतन्तुसंयोगैः पटबन्धः कला स्मृता । रत्नानाञ्च वेधादिसदसज्ज्ञानं कला स्मृता ॥ ८७ ॥

व्याख्या — अनेकेषाम् = विविधानाम्, तन्तूनाम् = सूत्राणाम्, संयोगैः = सम्मिश्रणैः, पटबन्धः —पटानाम् = वस्त्राणाम्, बन्धः = वयनमपि, कला, स्मृता = ख्यातेति । रत्नानाम् = मणीनाम्, वेधादिषु = छिद्रादिषु, सदसज्ज्ञानम् = उत्कृष्टापकृष्टत्वबोधः, कला, स्मृता = कथिता ॥ ८७ ॥

हिन्दी — अनेक रंग के धागों को मिलाकर कपड़ा बुनना भी एक कला है । रत्नों में छेद करना तथा उसके अच्छे और बुरे की जानकारी भी कला ही है ॥ ८७ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 135

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 135 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य तृतीयं प्रकरणम् ५४७ अनेकेति । अनेकेषां तन्तूनां सूत्राणां संयोगैः पटबन्धः वस्त्रवयनं कला स्मृता । तथा रत्नानां वेधादिषु छिद्रादिषु सदसज्ज्ञानम् उत्कर्षापकर्षज्ञानं कला स्मृता ॥८७ ॥

स्वर्णादीनान्तु याथात्म्यविज्ञानञ्च कला स्मृता ।

कृत्रिमस्वर्णरत्नादिक्रियाज्ञानं कला स्मृता ॥ ८८ ॥

अन्वयः – स्वर्णादीनां याथात्म्यविज्ञानं कला स्मृता । कृत्रिमस्वर्णरत्नादिक्रियाज्ञानं कला स्मृता ॥ ८८ ॥

व्याख्या — स्वर्णादीनाम् = कनकप्रभृतीनाम्, याथात्म्यस्य = यथार्थस्वरूपस्य, विज्ञानम् = विशिष्टज्ञानम्, कला, स्मृता = कथिता । तथा कृत्रिमाणाम् = अनैसर्गिकानाम्, स्वर्णरत्नादीनाम् = सुवर्णमाणिक्यादीनाम्, क्रियाज्ञानम् = रचनाकौशलम्, कला, स्मृता = कथिता ॥ ८८ ॥

हिन्दी —– सुवर्णादि धातुओं की परख भी कला है । नकली सोना और रत्न भी बनाना एक कला है ॥ ८८ ॥

स्वर्णादीनामिति । स्वर्णादीनां याथात्म्यस्य यथास्वरूपस्य विज्ञानं विशेषेण ज्ञानं कला स्मृता । तथा कृत्रिमाणां स्वर्णरत्नादीनां क्रियाज्ञानं करणविज्ञानं कला स्मृता ॥ ८८ ॥

स्वर्णाद्यलङ्कारकृतिः कला लेपादिसत्कृतिः ।

मार्दवादिक्रियाज्ञानं चर्मणान्तु कला स्मृता ॥ ८ ९ ॥

अन्वयः — स्वर्णाद्यलङ्कारकृति: लेपादिसत्कृतिः कला । चर्मणां मार्दवादिक्रियाज्ञानं कला स्मृता ॥ ८ ९ ॥ व्याख्या – स्वर्णादीनाम् = सुवर्णप्रभृतीनां धातूनाम् अलङ्कारकृतिः = आभूषणनिर्माणम्, लेपादिसत्कृतिः = तदुपरिप्रलेपनकृत्यम्, कला । चर्मणाम् = अजिनानाम्, मार्दवादीनाम् = कोमलीकरणादीनाम्, क्रिया = कृति: ( The art of converting row ride in to Leather or weather tannig ), ज्ञानम् = बोधः, कला, स्मृता = कथिता ॥८ ९ ॥ हिन्दी — सोने - चाँदी के जेवर बनाना उन पर सोने का पानी चढ़ाना भी कला है । चमड़े को सिझाकर कोमल बनाना ( Leather Tanning ) भी एक कला है ॥८ ९ ॥ स्वर्णेति । स्वर्णादीनाम् अलङ्कारकृतिः अलङ्कारनिर्माणं लेपादिसत्कृतिः प्रलेपाद्यनुष्ठानञ्च कला । चर्मणां मार्दवादीनां क्रियायां ज्ञानं कला स्मृता ॥८ ९ ॥

पशुचर्माङ्गनिर्हारक्रियाज्ञानं कला स्मृता ।

दुग्धदोहादिविज्ञानं घृतान्तन्तु कला स्मृता ॥९ ० ॥

अन्वयः— पशुचर्मणाम् अङ्गेभ्यः निर्हारस्य क्रियायां ज्ञानं कला । दुग्धदोहादीनां घृतान्तं विज्ञानं कला स्मृता ॥९ ० ॥ व्याख्या— पशुचर्मणाम् = अजिनानाम्, अङ्गेभ्यः = पशुशरीरावयवेभ्यः, निर्हारस्य = निष्कासनस्य, क्रियायाम् = कृतौ, ज्ञानम् = बोधः, कला, स्मृता = कथिता । दुग्धदोहादीनाम् = गवादिदुग्धदोहनादीनाम्, घृतान्तम् = दुग्धात् घृतनिष्कासनपर्यन्तम्, विज्ञानम् = विशिष्टज्ञानम्, कला, स्मृता = कथितेति ॥९ ० ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 136

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 136 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५४८ शुक्रनीतिः हिन्दी — पशु की देह से चमड़ी उतारने की रीति को भी कला कहते हैं । दूध दुहने से घी निकालने तक की क्रिया भी एक कला ही है ॥९ ० ॥ पश्विति । पशुचर्मणाम् अङ्गेभ्यः पशूनामिति भावः, निर्हारस्य निष्कासनस्य क्रियायां ज्ञानं कला स्मृता । दुग्धदोहादीनां पशुदोहनादीनां घृतान्तं घृतसम्पादनपर्य्यन्तं विज्ञानं कला स्मृता ॥९ ० ॥

सीवने कञ्चकादीनां विज्ञानन्तु कलात्मकम् ।

बाह्वादिभिश्च तरणं कलासंज्ञं जले स्मृतम् ॥ ९ १ ॥

अन्वयः — कञ्चुकादीनां सीवने विज्ञानं कलात्मकं जले बाह्वादिभिः तरणं कलासंज्ञं स्मृतम् ॥ ९ १ ॥ व्याख्या — कञ्चुकादीनाम् = लम्बाङ्गिकादीनाम्, सीवने = सूचीकर्मणि, विज्ञानम् = विशिष्ट-ज्ञानम्, कलात्मकम् = कलासंज्ञकम्, तथा, जने = सलिले, बाह्वादिभिः = दोर्दण्डादिभिः, तरणम् = सन्तरणम्, कलासंज्ञम् = कलानाम, इति, स्मृतम् = कथितम् ॥ ९ १ ॥ हिन्दी — पहनावे के वस्त्र सीना भी कला है और पानी में बाँहों के सहारे तैरना भी कला है ॥९ १ ॥ सीवने इति । कञ्चुकादीनां गात्राच्छादनीभूतानां सीवने स्यूतीकरणे विज्ञानं कलात्मकं कलेति प्रसिद्धम् । बाह्वादिभिश्च जले बाहुप्रभृतिभिः तरणं सन्तरणं कलासंज्ञं स्मृतम् ॥ ९ १ ॥

मार्जने गृहभाण्डादेर्विज्ञानन्तु कला स्मृता ।

वस्त्रसम्मार्जनञ्चैव क्षुरकर्म कलेभे ॥ ९ २ ॥

अन्वयः — गृहभाण्डादेः मार्जने विज्ञानं तु कला स्मृता । वस्त्रसम्मार्जनं क्षुरकर्म च उभे हि कले ॥९ २ ॥ व्याख्या — गृहाणाम् = सदनानाम्, भाण्डादेः = प्रयुक्तपात्रादेः, मार्जने = परिष्करणे, यद्विज्ञानम् = विशिष्टज्ञानम् तु, कला, स्मृता = कथिता । वस्त्रसम्मार्जनम् = वसनादिप्रक्षालनम्, तथा, क्षुरकर्म = केशकर्त्तनादिकम्, च एते, उभे = द्वे, हीति निश्चयेन, कलेति बोध्यम्॥९ २ ॥ हिन्दी — धातु - निर्मित घरेलू बरतन - बासन की सफाई कला है । वस्त्रों की सफाई और बाल बनाने की क्रिया- ये दोनों कला हैं ॥ ९ २ ॥ मार्जने इति । गृहभाण्डादेः गृहतैजसपात्रादेः मार्जने शोधने विज्ञानं कला स्मृता । वस्त्राणां सम्मार्जनं सम्यक् शोधनं तथा क्षुरकर्म्म एते उभे कले ॥९ २ ॥

तिलमांसादिस्नेहानां कला निष्कासने कृतिः ।

सीराद्याकर्षणे ज्ञानं वृक्षाद्यारोहणे कला ॥ ९ ३ ॥

अन्वयः – तिलमांसादिस्नेहानां निष्कासने कृतिः सीराद्याकर्षणे ज्ञानं वृक्षाद्यारोहणे कला ॥ ९ ३ ॥ व्याख्या – तिलानाम् = जटुलानाम्, मांसादीनाम् = पिशितादीनाम्, च ये स्नेहाः = तैलानि, तेषाम्, निष्कासने = बहिष्करणे, या कृतिः = क्रिया, सापि कला । किञ्च सीरादीनाम् = गोदारणादीनाम्, आकर्षणे = आलेखने, वृक्षादीनाम् = तरूणाम्, आरोहणे = उपरिगमने, यत् ज्ञानम् = बोधः, सा कलेति ॥९ ३ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 137

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 137 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य तृतीयं प्रकरणम् ५४ ९ हिन्दी — तिल और मांस से तेल निकालने की क्रिया भी कला है । हल चलाना और पेड़ पर चढना भी एक कला है ॥९ ३ ॥ तिलेति । तिलानां मांसादीनाञ्च ये स्नेहाः तैलानि तेषां निष्कासने बहिष्करणे कृतिः कला । किञ्च सीरादीनां लाङ्गलादीनाम् आकर्षणे तथा वृक्षादीनाम् आरोहणे ज्ञानं कला ॥९ ३ ॥

मनोऽनुकूलसेवायाः कृतिज्ञानं कला स्मृता ।

वेणुतृणादिपात्राणां कृतिज्ञानं कला स्मृता ॥ ९ ४ ॥

अन्वयः -- -मनोऽनुकूलसेवायाः कृतौ ज्ञानं कला स्मृता । तथा वेणुतृणादिपात्राणां कृतिज्ञानं कला स्मृता ॥ ९ ४ ॥ व्याख्या - –मनोऽनुकूलायाः I = चित्तानुसारिण्याः, सेवायाः = परिचर्यायाः, कृतौ = निष्पादने, ज्ञानम् = बोधः, कलेति । तथा वेणूनाम् = वंशानाम्, तृणादीनाञ्च = घासादीनाञ्च, यानि पात्राणि तेषां कृतौ = करणे, ज्ञानम्, कला स्मृता = कथिता ॥ ९ ४ ॥ हिन्दी – मनोनुकूल सेवा करने की क्रिया जानना भी कला है । बाँस एवं घास की टोकरी बनाना भी कला ही है ॥ ९ ४ ॥ मन इति । मनोऽनुकूलायाः चित्तानुसारिण्याः सेवायाः परिचर्य्यायाः कृतौ अनुष्ठाने ज्ञानं कला स्मृता । तथा वेणूनां वंशानां तृणादीनाञ्च यानि पात्राणि तेषां कृतौ करणे ज्ञानं कला स्मृता ॥ ९ ४ ॥

काचपात्रादिकरणविज्ञानन्तु कला स्मृता ।

संसेचनं संहरणं जलानां तु कला स्मृता ॥ ९ ५ ॥

अन्वयः — काचपात्रादीनां करणे विज्ञानं कला स्मृता । तथा जलानां संसेचनं संहरणं कला स्मृता ॥ ९ ५ ॥ व्याख्या — काचपात्रादीनां = स्फटिकभाजनादीनां, करणे = निर्माणे, विज्ञानम् = विशिष्ट-ज्ञानम्, कला_स्मृता = कथिता । तथा जलानाम् = सलिलानाम्, संसेचनम् = सम्यगभ्युक्षणम्, संहरणम् = सङ्कोचनम्, ‘ कला ' स्मृता = कथिता ॥ ९ ५ ॥ हिन्दी — सीसे के बरतन बनाने की क्रिया भी कला है । पानी से सिंचाई करना, उसे रोकना या निकालना भी कला ही है ॥ ९ ५ ॥ काचेति । काचपात्रादीनां करणे विज्ञानं कला स्मृता । तथा जलानां संसेचनं सम्यक् सेचनं संहरणञ्च कला स्मृता ॥ ९ ५ ॥

लोहाभिसारशस्त्रास्त्रकृतिज्ञानं कला स्मृता ।

गजाश्ववृषभोष्ट्राणां पल्याणादिक्रिया कला ॥ ९ ६ ॥

अन्वयः — लोहाभिसारशस्त्रास्त्रकृतिज्ञानं कला । गजाश्ववृषभोष्ट्राणां पल्याणादिक्रिया कला ॥ ९ ६ ॥ व्याख्या— लोहाः = अयस्काः, अभिसाराः = उपादानानि येषां तादृशानाम्, शस्त्राणाम् = आयुधानाम्, अस्त्राणाम् = प्रहरणानाम्, कृतौ = करणे, ज्ञानम् = बोधः, कला, स्मृता = कथिता । तथा गजानाम् = हस्तिनाम्, अश्वानाम् = हयानाम्, वृषभानाम् = बलीवर्दाणाम्, उष्ट्राणाम् = दीर्घ-वक्रग्रीवानाम्, पल्याणादीनाम् = पृष्ठास्तरणविशेषाणाम्, क्रिया = कृतिः, च कलेति ॥९ ६ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 138

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 138 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५५० शुक्रनीति: हिन्दी — लोहे के हथियार बनाने की क्रिया भी कला है । हाथी, घोड़े, बैल और ऊँटों के पीठ पर रखने की गद्दी बनाना भी कला है॥९ ६ ॥ लोहेति । लोहाः अभिसाराः उपादानानि येषां तादृशानां शस्त्राणाम् अस्त्राणाञ्च कृतौ ज्ञानं कला स्मृता । तथा गजानाम् अश्वानां वृषभाणाम् उष्ट्राणाञ्च पल्याणादीनां पृष्ठास्तरणविशेषाणां क्रिया अनुष्ठानं कला ॥९ ६ ॥

शिशोः संरक्षणे ज्ञानं धारणे क्रीडने कला ।

सुयुक्तताडनज्ञानमपराधिजने कला ॥ ९ ७ ॥

अन्वयः —– शिशोः संरक्षणे क्रीडने च ज्ञानं कला । तथा अपराधिजने सुयुक्तताडनज्ञानं कला ॥ ९ ७ ॥ व्याख्या — शिशोः = बालकस्य, संरक्षणे = रक्षाकरणे, क्रीडने = खेलने च, यत् ज्ञानम् = बोधः, सोऽपि कला, तथा अपराधिजने = दोषीजने, सुयुक्तम् = यथोपयुक्तम्, ताडनम् = हननं, तस्योचितं ज्ञानम् = बोधः, अपि कला भवति ॥ ९ ७ ॥ हिन्दी — बच्चों का पालन, गोद लेना या खेलाना भी एक कला है । अपराधियों की सही ढंग से पीटाई की जानकारी भी कला है ॥ ९ ७ ॥ शिशोरिति । शिशोः बालकस्य संरक्षणे क्रीडने च ज्ञानं कला । तथा अपराधिजने सुयुक्तं यथोपयुक्तं यत् ताडनं दण्डनं तस्य ज्ञानं कला ॥९ ७ ॥

नानादेशीयवर्णानां सुसम्यग् लेखने कला ।

ताम्बूलरक्षादिकृतिविज्ञानन्तु कला स्मृता ॥ ९ ८ ॥

अन्वयः — नानादेशीयवर्णानां सुसम्यग् लेखने कला । तथा ताम्बूलरक्षादिकृतिविज्ञानं कला स्मृता ॥ ९ ८ ॥ व्याख्या – नानादेशीयानाम् = विविधजनपदीयानाम्, वर्णानाम् = अक्षराणाम्, सुसम्यक् = सुष्ठुतया, लेखनम् = अङ्कनम्, कला भवति । तथा ताम्बूलानाम् = नागवल्लीदलानाम्, रक्षादौ = संरक्षणे, या कृतिः = क्रिया, तस्य विज्ञानम् = विशिष्टज्ञानम्, कला स्मृता = कथितेति ॥९ ८ ॥ हिन्दी — अनेक देश की लिपि को सुन्दर ढंग से लिख लेना भी कला है । पान फेरने की क्रिया का ज्ञान भी कला है ॥ ९ ८ ॥ नानेति । नानादेशीयानां वर्णानाम् अक्षराणां सुसम्यक् लेखनं कला । तथा ताम्बूलानां रक्षादौ या कृतिः तस्या विज्ञानं कला स्मृता ॥ ९ ८ ॥

आदानमाशुकारित्वं प्रतिदानं चिरक्रिया ।

कलासु द्वौ गुणौ ज्ञेयौ द्वे कले परिकीर्त्तिते ॥ ९९ ॥

अन्वयः —– कलासु आशुकारित्वम् आदानं, चिरक्रिया प्रतिदानं द्वौ गुणौ ज्ञेयौ, द्वे कले परिकीर्त्तिते ॥९९ ॥

व्याख्या — कलासु = पूर्वोक्तासु विविधासु कलासु, आशुकारित्वं = शीघ्रकारित्वम्, आदानम् = स्वीकरणम्, चिरक्रिया = विलम्बेन कार्यकारित्वम्, प्रतिदानम् = प्रत्यर्पणम्, कलासु एतौ द्वौ, गुणौ = धर्मों, ज्ञेयौ = ज्ञातव्यौ, तस्मात् द्वे = उभे, कले, परिकीर्त्तिते = कथिते ॥९९ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 139

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 139 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य तृतीयं प्रकरणम् ५५१ हिन्दी — कला - सम्पादन में शीघ्रता ' आदान ' कहलाता है और ' विलम्ब ' प्रतिदान कहलाता है । अथवा किसी के ग्रहण करने में शीघ्रता तथा देने में विलम्ब करना यद्यपि ये दोनों गुण हैं तथापि भिन्न - भिन्न दो कलाएँ मानी जाती हैं ॥ ९९ ॥

आदानमिति । कलासु आशुकारित्वम् आदानं, चिरक्रिया प्रतिदानम् । कलासु एतौ द्वौ गुणौ ज्ञेयौ, तस्मात् द्वे कले परिकीर्त्तिते ॥९९ ॥

चतुः षष्टिकला ह्येताः सङ्क्षेपेण निदर्शिताः ।

यां यां कलां समाश्रित्य निपुणो यो हि मानवः ।

नैपुण्यकरणे सम्यक् तां तां कुर्य्यात् स एव हि ॥ १०० ॥

इति शुक्रनीतौ चतुर्थाध्यायस्य राष्ट्रे आद्यं विद्याकलानिरूपणं नाम तृतीयं प्रकरणम् । अन्वयः — एताः चतुःषष्टिकलाः सङ्क्षेपेण निदर्शिताः । यः मानवः यां यां कलां समाश्रित्य निपुणः हि स एव हि सम्यक् नैपुण्यकरणे तां तां कुर्यात् ॥१०० ॥

व्याख्या— एताः = = पूर्वोक्ताः, चतुःषष्टिः = चतुरधिकषष्टिः, कलाः = शिल्पविद्याः, सङ्क्षेपेण = समासेन, निदर्शिताः = कथिताः । यो मानवः = यो हि पुरुषः, यां यां कलाम् = यां यां शिल्पविद्याम्, आश्रित्य = अवलम्ब्य निपुणः = कुशलः, हि = निश्चितम्, सः = - असौ, एव हि सम्यक् = सुष्ठुतया, नैपुण्यकरणे = कुशलताप्राप्त्यर्थम्, तां तां कलाम् = = शिल्पविद्याम् 1, कुर्यात् = सर्वथा अभ्यसेत् ॥ १०० ॥

हिन्दी — संक्षेप में चौसठ कलाएँ कही गई हैं । इनमें जिन कलाओं का आश्रय लेकर मनुष्य निपुणता प्राप्त करता है, उसे उन्हीं कलाओं का सदा अभ्यास कर उनमें दक्षता प्राप्त करनी चाहिए ॥ १०० ॥

इस प्रकार शुक्रनीति में चतुर्थ अध्याय में ' विद्याकलानिरूपण ' नामक तृतीय प्रकरण की ' विमला ' संस्कृत - हिन्दी व्याख्या समाप्त हुई । चतुरिति । एताः चतुःषष्टिः कलाः सङ्क्षेपेण निदर्शिताः । यः मानवः यां यां कलां समाश्रित्य निपुणः हि निश्चितं स एव हि सम्यक् सर्वथा नैपुण्यकरणे सुष्ठुकरणे तां तां कलां कुर्य्यात् ॥ १०० ॥

इति श्रीजीवानन्दविद्यासागरविरचिता चतुर्थाध्यायस्य तृतीयप्रकरणव्याख्या समाप्ता । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 140

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 140 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिः क्रमात् ।

चत्वार आश्रमश्चैते ब्राह्मणस्य सदैव हि ।

अन्येषामन्त्यहीनाश्च क्षत्रविट्शूद्रकर्मणाम् ॥ १ ॥

अन्वयः — ब्रह्मचारी, गृहस्थ, वानप्रस्थः तथा यतिः एते चत्वारः आश्रमाः ब्राह्मणस्य सदैव हि । अन्येषां क्षत्रविट्शूद्रकर्मणाञ्च अन्त्येन हीनाः वेदितव्याः ॥१ ॥

व्याख्या— ब्रह्मचारी = प्रथमाश्रमिन् व्रतिंश्च, गृहस्थः = ज्येष्ठाश्रमिन् गृहमेधिश्च, वानप्रस्थः = तृतीयाश्रमः, तथा यतिः = चतुर्थाश्रमी वा संन्यासिन्, एते = पूर्वोक्ताः चत्वारः आश्रमाः, मनुष्यायुषः चत्वारो विभागास्तद्यथा - ब्रह्मचर्यगृहस्थवानप्रस्थसंन्यासाश्रमाः, ब्राह्मणस्य = विप्रस्य, सदैव = सर्वदैव, हिशब्दोऽत्र पादपूर्त्यर्थमेव । अन्येषाम् = ब्राह्मणेतराणाम्, क्षत्रियाणाम् = राजन्यानाम्, विशाम् = वणिजाम्, शूद्राणाञ्च = वृषलाणाञ्च, अन्त्येन = संन्यासाश्रमेण, हीना: -रहिताः, आश्रमाः वेदितव्या इति ॥ १ ॥

हिन्दी — बह्मचर्य, गृहस्थ, वानप्रस्थ एवं संन्यास – ये चारों आश्रम सदैव क्रमशः ब्राह्मणों के लिए होते हैं । इनमें अन्तिम संन्यास को छोड़कर शेष तीन आश्रम ब्राह्मणेतर क्षत्रिय, वैश्य एवं शूद्रों के लिए भी होते हैं ॥ १ ॥

ब्रह्मचारीति । ब्रह्मचारी, गृहस्थ, वानप्रस्थः तथा यतिः, एते चत्वारः आश्रमाः ब्राह्मणस्य सदैव, हिशब्दः पादपूरणार्थः । अन्येषां क्षत्रियाणां विशां शूद्राणाञ्च अन्त्येन यत्याश्रमेण हीनाः त्रयः ब्रह्मचर्य्यादयः आश्रमाः वेदितव्या इति शेषः ॥ १ ॥

विद्यार्थं ब्रह्मचारी स्यात् सर्वेषां पालने गृही ।

वानप्रस्थः सन्दमने संन्यासी मोक्षसाधने ॥ २ ॥

अन्वयः - विद्यार्थं ब्रह्मचारी, सर्वेषां पालने गृही, सन्दमने वानप्रस्थः, मोक्षसाधने संन्यासी स्यात् ॥ २ ॥

व्याख्या — विद्यार्थम् = ज्ञानोपार्जनाय, ब्रह्मचारी = व्रती, सर्वेषाम् = सकलानां जनानाम्, पालने = भरणपोषणार्थम्, गृही = गृहस्थः, सन्दमने = इन्द्रियनिग्रहार्थम्, वानप्रस्थः = - वैखानसः, मोक्षसाधने = मुक्तिलाभाय, संन्यासी = परिव्राजकः, स्यात् = भवेत् ॥ २ ॥

हिन्दी — विद्याध्ययन के लिए ब्रह्मचारी, सबों के भरण - पोषण हेतु गृहस्थ, आत्मसंयम एवं इन्द्रियदमन के लिए वानप्रस्थ तथा मुक्ति के लिए संन्यासी बनना चाहिए ॥ २ ॥

विद्यार्थमिति । विद्यार्थं विद्योपार्जनार्थं ब्रह्मचारी, सर्वेषां पालने पालनार्थमित्यर्थः गृही, सन्दमने सम्यक् इन्द्रियदमनार्थं वानप्रस्थः, तथा मोक्षसाधने मुक्तिलाभार्थं संन्यासी स्यात् ॥ २ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA