शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 141–150

शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 141–150

पृष्ठ 141

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 141 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ५५३ वर्त्तयन्त्यन्यथा दण्ड्या या वर्णाश्रमजातय: ॥ ३ ॥

अन्वयः - याः वर्णाश्रमजातयः अन्यथा वर्त्तयन्ति ताः दण्ड्याः ॥३ ॥

व्याख्या — याः– ये जनाः, वर्णानाम् = ब्राह्मणादीनाम्, आश्रमाणाम् = ब्रह्मचर्याद्याश्रमाणाम्, जातयः = जनसमूहाः, अन्यथा = इतरथा, वर्त्तयन्ति = व्यवहरन्ति ताः = जातयः, दण्ड्याः = दण्डनीया नृपेणेति शेषः ॥ ३ ॥

हिन्दी – जो लोग जिस वर्ण या आश्रम के हैं, यदि उस वर्ण या आश्रमीय धर्म के विरुद्ध आचरण करते हैं तो वे दण्डनीय होते हैं ॥ ३ ॥

वर्त्तयन्तीति । याः वर्णानां ब्राह्मणादीनाम् आश्रमाणाञ्च जातयः अन्यथा अन्येन प्रकारेण शास्त्रबाह्यमार्गेणेत्यर्थः, वर्त्तयन्ति ताः दण्ड्याः राज्ञेति शेषः ॥ ३ ॥

कुलान्यकुलतां यान्ति ह्यकुलानि कुलीनताम् ।

यदि राज्ञोपेक्षितानि दण्डतोऽशिक्षितानि च ॥४ ॥

अन्वयः – यदि राज्ञा उपेक्षितानि च दण्डतः अशिक्षितानि कुलानि अकुलताम् अकुलानि कुलीनतां यान्ति ॥ ४ ॥

व्याख्या– यदि = चेत्, राज्ञा = = नृपेण, उपेक्षितानि = अवहेलितानि, च = पुनः, दण्डतः = दण्डेन, अशिक्षितानि = शिक्षारहितानि, तदा कुलानि = समुन्नतवंशाः, अकुलताम् = - अकुलीनत्वम्, अकुलानि = कुलहीनानि, कुलीनताम् = उच्चकुलत्वम्, यान्ति = प्राप्नुवन्ति । एवं सति सर्वे नैजं कौलाचारं विहाय स्वेच्छाचारिणो भवन्ति ॥ ४ ॥

हिन्दी —– यदि राजा उपेक्षा करे, दण्डस्वरूप अशिक्षित रखे तो अभिजात अनभिजात एवं अकुलीन कुलीन बन जायेंगे; समाज उच्छृंखल एवं स्वेच्छाचारी बन जायेगा ॥ ४ ॥

कुलानीति । यदि राज्ञा उपेक्षितानि तथा दण्डतः दण्डेन अशिक्षितानि, तदा कुलानि अकुलतां तथा अकुलानि कुलीनतां यान्ति प्राप्नुवन्ति सर्वे यथेच्छचारिणो भवन्तीत्यर्थः ॥ ४ ॥

जपं तपस्तीर्थसेवां प्रव्रज्यां मन्त्रसाधनम् ।

देवपूजां नैव कुर्य्यात् स्त्रीशूद्रस्तु पतिं विना ।

न विद्यते पृथक् स्त्रीणां त्रिवर्गविधिसाधनम् ॥ ५ ॥

अन्वयः -- स्त्रीशूद्रस्तु जपं तपः तीर्थसेवां प्रव्रज्यां मन्त्रसाधनं देवपूजां नैव कुर्यात् । स्त्रीणां पतिं विना पृथक् त्रिवर्गाणां साधनं न विद्यते ॥ ५ ॥

व्याख्या — स्त्री = नारी, च = पुनः, शूद्रः = वृषलः, जपम् = मुहुर्मुहुर्मन्त्रजपनम्, तपः = नियमस्थितिः तीर्थसेवाम् = पुण्यक्षेत्रे भ्रमणम्, प्रव्रज्याम् = वैराग्यम्, मन्त्रसाधनम् = अभिचारानुष्ठानम्, देवपूजां = देवताऽऽराधनम्, नैव = नास्त्येव, कुर्यात् = विधेयात् । स्त्रीणाम् = नारीणाम्, पतिम् = पतिसेवाम्, विना = विहाय, पृथक् = अन्यत्, त्रिवर्गाणाम् = धर्मार्थकाम, नाम्, साधनम् = अनुष्ठानम्, न = नहि, विद्यते = अस्ति ॥५ ॥

हिन्दी - स्त्री तथा शूद्र को स्वामी की सेवा छोड़कर जप, तप, तीर्थाटन, मंत्रसाधन, संन्यास एवं देवपूजा नहीं करनी चाहिए । स्त्रियों के लिए पति की सेवा छोड़कर अन्य कोई धर्म, अर्थ और काम की सिद्धि के लिए साधन नहीं है ॥५ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 142

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 142 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५५४ शुक्रनीतिः जपमिति । तुशब्दश्चार्थः । स्त्री शूद्रस्तु शूद्रश्च जपं तपः तपस्यां तीर्थसेवां प्रव्रज्यां संन्यासं मन्त्रसाधनं तथा देवपूजां नैव कुर्य्यात् । किञ्च स्त्रीणां पतिं पतिसेवां विना पृथक् अन्यत् त्रिवर्गाणां धर्मार्थकामानां साधनं न विद्यते ॥ ५ ॥

पत्युः पूर्वं समुत्थाय देहशुद्धिं विधाय च ।

उत्थाप्य शयनीयानि कृत्वा वेश्मविशोधनम् ॥ ६ ॥

मार्जनैर्लेपनैः प्राप्य सानलं यवसाङ्गणम् ।

शोधयेद् यज्ञपात्राणि स्निग्धान्युष्णेन वारिणा ॥ ७ ॥

प्रोक्षणीयानि तान्येव यथास्थाने प्रकल्पयेत् ।

शोषयित्वा तु पात्राणि पूरयित्वा तु धारयेत् ॥ ८ ॥

अन्वयः —स्त्री पत्युः पूर्वं समुत्थाय देहशुद्धिं विधाय शयनीयानि उत्थाप्य मार्जनैः लेपनैश्च वेश्मविशोधनं कृत्वा सानलं यवसाङ्गणं प्राप्य यज्ञपात्राणि शोधयेत् । तानि च स्निग्धानि उष्णेन वारिणा प्रोक्षणीयानि यथास्थाने प्रकल्पयेत् । तानि शोषयित्वा पात्राणि पूरयित्वा तु धारयेत् ॥ ६-८ ॥ व्याख्या — स्त्री = पत्नी, पत्युः = भर्तुः, पूर्वम् = प्रथमम् समुत्थाय = सुसज्जीभूत्वा, देहशुद्धिम् = मूत्रपुरीषोत्सर्गं मुखप्रक्षालनादिकञ्च, विधाय = कृत्वा, शयनीयानि = शय्योपकरणानि, 1 उत्थाप्य = उन्नयनं कृत्वा, मार्जनैः = प्रक्षालनैः, लेपनैः = उपनाहनैश्च, वेश्मनः = गेहस्य, विशोधनम् = परिष्करणम्, कृत्वा = सम्पाद्य, तथा सानलम् = वह्निसमायुक्तम्, यवसाङ्गणम् = तृणाच्छादितचत्वरम्, प्राप्य = गत्वा, यज्ञपात्राणि = यागभाजनानि, शोधयेत् = परिष्कुर्यात् । तानि च = यज्ञपात्राणि च, स्निग्धानि = घृततैलयुक्तानि, पुनः, उष्णेन = तप्तेन, वारिणा = जलेन, प्रोक्षणीयानि कृत्वा = निर्धर्षणं विधाय, यथास्थाने = यथोचितस्थले, प्रकल्पयेत् = स्थापयेत् । किञ्च तानि = यज्ञपात्राणि, शोषयित्वा = शुष्कतां विधाय पुनः, पूरयित्वा = घृतादीनां पूर्णं कृत्वा, धारयेत् = विहितस्थाने स्थापयेत् ॥ ६-८ ॥ हिन्दी - पत्नी को पति से पहले बिछावन छोड़ देना चाहिए । नित्यक्रिया से निवृत्त होकर बिस्तर उठा देना चाहिए । फिर जिस घर में रहे उसकी सफाई करनी चाहिए । फिर उस आँगन की सफाई करनी चाहिए, जिसमें आग जल रही हो और घास - फूस बिखरे हों । फिर घी से चिकने बने यज्ञपात्रों को गर्म पानी से धो - पोंछ कर, सुखाकर उन्हें यथास्थान रख दे । रखने के पूर्व उन पात्रों को घी तथा यज्ञ के अन्य उपकरणों से भर दे ॥६-८ ॥ पत्युरिति । मार्जनैरिति । प्रोक्षणीयानीति । स्त्रीति प्रकरणादध्याहार्य्यम् । स्त्री पत्युः स्वामिनः पूर्वं समुत्थाय शय्याया इति शेषः, देहशुद्धिं मुखप्रक्षालनादिकं विधाय कृत्वा, शयनीयानि शय्याः उत्थाप्य, मार्जनैः लेपनैश्च वेश्मनः गृहस्य विशोधनं कृत्वा तथा सानलम् अग्नियुक्तं यवसाङ्गणं घाससहितचत्वरभूमिं प्राप्य यज्ञपात्राणि शोधयेत् । तानि च स्निग्धानि तैलयुक्तानि पुनः उष्णेन वारिणा प्रोक्षणीयानि कृत्वा यथास्थाने प्रकल्पयेत् स्थापयेत् । किञ्च तानि पात्राणि शोषयित्वा शुष्कीकृत्य पुनः पूरयित्वा धारयेत् यथास्थानं रक्षेत् ॥ ६-८ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 143

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 143 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ५५५

महानसस्य पात्राणि बहिः प्रक्ष्याल्य सर्वशः ।

मृद्भिस्तु शोधयेच्चुल्ली तत्राग्नि सेन्धनं न्यसेत् ॥ ९ ॥

अन्वयः - महानसस्य सर्वशः पात्राणि बहिः प्रक्षाल्य मृद्भिः चुल्लीं शोधयेत् । तत्र सेन्धनम् अग्निं न्यसेत्॥९ ॥

व्याख्या — महानसस्य = पाकशालायाः, सर्वशः = सकलानि, पात्राणि = भाजनानि, बहिः = बाह्यप्रदेशे, प्रक्षाल्य = परिमार्ज्य, मृद्भिः = मृत्तिकाभिः, चुल्लीम् = अदिकाम्, शोधयेत् = संशुद्धिं कुर्यात् । तत्र = - तस्मिन् गृहे, सेन्धनम् = ईन्धनसहितम्, अग्निम् = वह्निम्, न्यसेत् = स्थापयेत्॥९ ॥

हिन्दी —– इसके बाद रसोईघर के बरतनों को बाहर निकाल कर चारों तरफ से माँज - धोकर तथा मिट्टी से चुल्हा एवं रसोईघर लीप - पोतकर वहाँ पर आग और जलावन रख दे॥९ ॥

महानसस्येति । महानसस्य रन्धनागारस्य सर्वशः सर्वाणि पात्राणि बहिः बाह्यदेशे प्रक्षाल्य मृद्भिः मृत्तिकाभिः चुल्लीं शोधयेत् । ततः तत्र चुल्ल्या सेन्धनं काष्ठसहितम् अग्निं न्यसेत् ॥९ ॥

स्मृत्वा नियोगपात्राणि रसान्नद्रविणानि च ।

कृतपूर्वाह्णकृत्येयं श्वशुरावभिवादयेत् ॥ १० ॥

अन्वयः — कृतपूर्वाह्णकृत्या इयं नियोगपात्राणि रसान्नद्रविणानि च स्मृत्वा श्वशुरौ अभिवादयेत् ॥१० ॥

व्याख्या — अनया रीत्या, कृतपूर्वाह्णकृत्या = त्रिधाविभक्तदिवसस्य प्रथमभागस्य निष्पादितकृत्या, इयम् = एषा नारी, नियोगपात्राणि = व्यावहारिकभाण्डानि, रसान् = आस्वाद्यवस्तूनि, अन्नानि = भक्ष्यपदार्थाः, द्रविणानि = धनानि च, स्मृत्वा = एतेषामनुचिन्तनं कृत्वा, श्वशुरौ = श्वश्रूं श्वशुरश्च, अभिवादयेत् = प्रणमेत् ॥१० ॥

हिन्दी – उस दिन काम में आने वाले बरतनों, रसों, अन्न तथा धन का ख्याल करके ही उसकी व्यवस्था करे । इस तरह दिन के पहले भाग के काम समाप्त कर स्त्री अपने सास- श्वशुर के पास पहुँच कर उन्हें प्रणाम करे ॥ १० ॥

स्मृत्वेति । इत्थं कृतपूर्वाह्णकृत्या सम्पादितप्रात: कृत्या इयं स्त्रीनियोगपात्राणि व्यावहारिकभाजनानि, रसान् पेयद्रव्याणि अन्नानि द्रविणानि धनानि च स्मृत्वा यथायथं कार्य्योपयोगित्वेन चिन्तयित्वा श्वशुरौ श्वश्रूं श्वशुरञ्च अभिवादयेत् प्रणमेत् ॥ १० ॥

ताभ्यां भर्त्रा पितृभ्यां वा भ्रातृमातुलबान्धवैः ।

वस्त्रालङ्काररत्नानि प्रदत्तान्येव धारयेत् ॥ ११ ॥

अन्वयः — ताभ्यां भर्त्रा पितृभ्यां वा भ्रातृमातुलबान्धवैः प्रदत्तानि वस्त्रालङ्काररत्नानि धारयेत् ॥ ११ ॥

व्याख्या — ताभ्याम् = श्वश्रु- श्वशुराभ्याम्, भर्त्रा = पत्या, पितृभ्याम् = मात्रा च पित्रा च, वा = अथवा, भ्रातृमातुलबान्धवैः – भ्रातृभिः = सोदरैः, मातुलैः = पितृश्यालैः, बान्धवैश्च = ज्ञातिभिश्च, प्रदत्तानि = अर्पितानि, वस्त्रालङ्काररत्नानि – वस्त्राणि = वासांसि, अलङ्काराणि = आभूषणानि, रत्नानि = माणिक्यानि, च, धारयेत् = धारणङ्कुर्यात् ॥ ११ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 144

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 144 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

शुक्रनीतिः ५५६ हिन्दी- - वह नारी अपने सास - ससुर, पति, माँ, बाप, भाई, मामा या सगे - सम्बन्धियों द्वारा प्रदत्त कपड़े, जेवर या कीमती रत्न पहनें ॥ ११ ॥

ताभ्यामिति । ताभ्यां श्वश्रूश्वशुराभ्यां भर्त्रा स्वामिना पितृभ्यां मातापितृभ्यां भ्रातृमातुलबान्धवैश्च प्रदत्तानि वस्त्राणि अलङ्कारान् रत्नानि च धारयेत् ॥११ ॥

मनोवाक्कर्मभिः शुद्धा पतिदेशानुवर्त्तिनी ।

छायेवानुगता स्वच्छा सखीव हितकर्मसु ।

दासीव दिष्टकार्य्येषु भार्य्या भर्तुः सदा भवेत् ॥ १२ ॥

अन्वयः – भार्या मनोवाक्कर्मभिः शुद्धा स्वच्छा पतिदेशानुवर्तिनी, भर्तुः छाया इव अनुगता, हितकर्मसु सखी इव सदा दिष्टकार्येषु दासी इव भवेत् ॥१२ ॥

व्याख्या — भार्या = पत्नी, मनसा = चित्तेन, वाचा = कथनेन, कर्मणा = कार्येण, च, शुद्धा = = पवित्रा, स्वच्छा = निर्मला, पत्युः = भर्तुः, देशानुवर्त्तिनी = आज्ञाकारिणी, भर्तुः पत्युः, छाया = प्रतिकृतिः, इव = यथा, अनुगता = अनुसारिणी, हितकर्मसु = लाभप्रदकृत्येषु, सखी = सहचरी, इव = यथा, सदा = सर्वदा, दिष्टकार्येषु = निर्दिष्टकर्मसु दासी = किङ्करी, इव = यथा, भवेत् = स्यात् ॥ १२ ॥

हिन्दी – मन, वचन और कर्म से पवित्र रहकर पति की आज्ञा के अनुसार चलने वाली, छाया की भाँति अनुगमन करने वाली, लाभप्रद कार्यों में मित्र की तरह सहयोगी बनकर तथा बतलाये गये काम में दासी की तरह सदा स्त्री को पति के निकट रहना चाहिए ॥ १२ ॥

मन इति । भार्य्या मनसा वाचा कर्मणा च शुद्धा पवित्रा स्वच्छा निर्मला, पत्युः देशानुवर्त्तिनी आज्ञापरा, भर्त्तुः छाया इव अनुगता सङ्गिनी हितकर्मसु सखी इव सदा दिष्टकार्येषु निर्दिष्टकर्मसु दासी इव भवेत् ॥ १२ ॥

ततोऽन्नसाधनं कृत्वा पतये विनिवेद्य सा ।

वैश्वदेवोद्धृतैरन्नैर्भोजनीयांश्च भोजयेत् ॥ १३ ॥

अन्वयः – ततः सा अन्नसाधनं कृत्वा पतये विनिवेद्य वैश्वदेवोद्धृतैः अन्नैः भोजनीयान् भोजयेत् ॥ १३ ॥

व्याख्या — ततः = पाकसम्पादनानन्तरम्, सा = = नारी, अन्नसाधनम् = रन्धनम्, कृत्वा = सम्पाद्य, पतये = भर्त्रे, विनिवेद्य = विशेषरूपेण भोजयित्वा, वैश्वदेवोद्धृतैः = बलिवैश्वदेवेभ्यः, उद्घृतैः = अवशिष्टैः, अन्नैः = पक्वान्नैः, भोजनीयान् = श्वशुरादीनन्यजनान्, भोजयेत् = भोजनं दद्यात् ॥ १३ ॥

हिन्दी — इसके बाद वह नारी भोजन बनाकर पति के सामने रखकर बलिवैश्वदेव से बचे अन्न से भोजन करने योग्य व्यक्ति को भोजन कराये ॥१३ ॥

तत इति । ततः अभिवादनानन्तरं सा अन्नसाधनं रन्धनमित्यर्थः, कृत्वा पतये विनिवेद्य दत्त्वा वैश्वदेवोद्धृतैः वैश्वदेवबलिप्रदानानन्तरम् उद्धृतैः अन्नैः भोजनीयान् श्वशुरादीन् भोजयेत् ॥ १३ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 145

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 145 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ५५७

पतिं च तदनुज्ञाता शिष्टमन्नाद्यमात्मना ।

भुक्त्वा नयेदहःशेषं सदायव्ययचिन्तया ॥ १४ ॥

अन्वयः - पतिञ्च तदनुज्ञाता आत्मना शिष्टम् अन्नाद्यं भुक्त्वा सदा आयव्ययचिन्तया अहःशेषं नयेत् ॥१४ ॥

व्याख्या - पतिञ्च = निजस्वामिनं भोजयित्वा ततस्तेन, अनुज्ञाता = अनुमतिप्राप्ता, आत्मना = स्वयम्, शिष्टम् = अवशिष्टम्, अन्नाद्यम् = भक्ष्यपदार्थम्, भुक्त्वा = भोजनं कृत्वा, सदा = सततम्, आयव्ययानाम् = धनागमनिर्गमानाम्, चिन्तया = अनुचिन्तनेन, अहःशेषम् = अवशिष्टदिनम् नयेत् = यापयेत् ॥ १४ ॥

हिन्दी — और स्वामी को भोजन कराने के बाद उसकी अनुमति से बचा हुआ भोजन स्वयं ग्रहण करे । भोजनोपरान्त दिन के बचे समय में अनुपल अपनी आमदनी और अपने खर्च पर विचार करे ॥ १४ ॥

पतिमिति । पतिञ्च भोजयेदिति पूर्वेण सम्बन्धः । ततः तेन पत्या अनुज्ञाता आत्मना स्वयं शेषम् अवशिष्टम् अन्नाद्यं भुक्त्वा सदा आयव्ययानां चिन्तया अहः शेषम् अपराह्णभागं नयेत् ॥१४ ॥

पुनः सायं पुनः प्रातर्गृहशुद्धिं विधाय च ।

कृतान्नसाधना साध्वी सभृत्यं भोजयेत् पतिम् ॥ १५ ॥

अन्वयः — साध्वी पुनः सायं पुनः प्रातः गृहशुद्धिं विधाय कृतान्नसाधना सभृत्यं पतिं भोजयेत् ॥ १५ ॥

व्याख्या — साध्वी = सच्चरित्रा सा नारी, पुनः = भूयः, सायं = सन्ध्याकाले, पुनः = पौनः पुन्येन, प्रातः = ' पूर्वाह्णकृत्यमिव, गृहशुद्धिम् – गृहस्य = सदनस्य, शुद्धिम् = परिमार्जनम्, विधाय = सम्पाद्य, कृतान्नसाधना — कृता = निष्पादिता, अन्नस्य = भोज्यपदार्थस्य, साधना = रन्धना, यया तया, सभृत्यम् = सेवकैः सहितम्, पतिम् = स्वामिनम्, भोजयेत् = भोजनं प्रयच्छेत् ॥१५ ॥

हिन्दी — फिर शाम को सुबह की तरह दुबारा घर की सफाई कर, भोजन तैयार कर वह साध्वी नारी अपने पति को अन्य घरेलू सेवकों के साथ भोजन कराये ॥ १५ ॥

पुनरिति । साध्वी स्त्री पुनः सायं, पुनः प्रातः गृहशुद्धिं विधाय कृतान्नसाधना कृतरन्धना सती सभृत्यं भरणीयवर्गसहितं पतिं भोजयेत् ॥ १५ ॥

नातितृप्ता स्वयं भुक्त्वा गृहनीतिं विधाय च ।

आस्तृत्य साधु शयनं ततः परिचरेत् पतिम् ॥ १६ ॥

अन्वयः — ततः स्वयं भुक्त्वा नातितृप्ता गृहनीतिं विधाय शयनम् आस्तृत्य पतिं साधु परिचरेत् ॥ १६ ॥

व्याख्या — ततः = तत्पश्चात्, स्वयम् = आत्मना, भुक्त्वा = भोजनं कृत्वा, नातितृप्ता — न = नहि, अतितृप्ता = गरिष्ठ भोजना, भवेत्, गृहनीतिम् - गृहस्य = सदनस्य, नीतिम् = अवशिष्टकार्यम्, विधाय = कृत्वा, शयनम् = संवेशनम्, आस्तृत्य = विस्तरणं विधाय पतिम् = स्वामिनम्, साधु = सुष्ठुरूपेण, परिचरेत् = परिचर्यां कुर्यात् ॥ १६ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA ·

पृष्ठ 146

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 146 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५५८ शुक्रनीति: हिन्दी — इसके बाद वह नारी स्वयं हलका भोजन कर पहले घर के बचे - खुचे कामों को समाप्त कर बिछावन बिछाकर पति को सुलाकर उसकी परिचर्या प्रारम्भ करे ॥ १६ ॥

नेति । ततः स्वयं भुक्त्वा नातितृप्ता नातिप्रचुरभोजना इत्यर्थः, सती गृहनीतिं गृहस्य शेषकार्य्यं विधाय, शयनं शय्याम् आस्तृत्य पातयित्वा पतिं साधु सम्यक् परिचरेत् सेवेत ॥ १६ ॥

सुप्ते पत्यौ तदध्यास्य स्वयं तद्गतमानसाः ।

अनग्ना चाप्रमत्ता च निष्कामा च जितेन्द्रिया ॥ १७ ॥

अन्वयः - पत्यौ सुप्ते तद्गतमानसा तत् अध्यास्य अनग्ना अप्रमत्ता निष्कामा जितेन्द्रिया च शयीत ॥ १७ ॥

व्याख्या– पत्यौ = भर्तरि, सुप्ते = निद्रिते सति तद्गतमानसा = स्वामिगतहृदया, तत् = शयनम्, अध्यास्य = विस्तृर्य, अनग्ना = अविवसना, अप्रमत्ता = अमदोन्मत्ता, निष्कामा = कामनारहिता, जितेन्द्रिया = शान्ता च, शयीत = शयनं कुर्यादिति शेषः ॥ १७ ॥

हिन्दी – पति के सो जाने पर उसमें अपने मन को लगाते हुए, नंगी न होते हुए, बिना मन्दोन्मत्त बने, निष्काम भाव से अपनी इन्द्रियों को वश में रखते हुए स्वयं भी सो जाय ॥ १७ ॥

सुप्ते इति । पत्यौ सुप्ते निद्रिते सति तद्गतमानसा भर्तृगतचित्ता सती तत् शयनम् अध्यास्य अनग्ना अविवसना अप्रमत्ता अवहिता निष्कामा निराकाङ्क्षा जितेन्द्रिया च शयीत इति शेषः ॥ १७ ॥

नोच्चैर्वदेन्न परुषं न बह्वाहूतिमप्रियम् ।

न केनचिच्च विवदेदप्रलापविवादिनी ॥ १८ ॥

अन्वयः - - उच्चैः न, परुषं न, बह्वाहूतम् अप्रियं केनचित् न विवदेत् । अप्रलापविवादिनी न ॥ १८ ॥

व्याख्या — उच्चैः = तारस्वरैः न = न वदेत्, परुषम् = कठोरवचनम्, न = न वदेत्, बहवः = अनेकशः, कस्यचिज्जनस्य, आहूतयः = आह्वानानि, यत्र तादृशीं वाचं न, तथा अप्रियम् = अरुचिकरम्, न = = नहि, वदेत्, केनचिदपि, न = = नहि, विवदेत् = विवादं कुर्यात्, कृतेऽपि विवादे, अप्रलापम् – नास्ति प्रलापः = निरर्थकवचः, यस्मिन् तत् यथा तथा, विवादिनी = कलहकारिणी, न भवेदिति ॥१८ ॥

हिन्दी — ऊँची आवाज में बात न करे, कड़वी बोली न बोले, किसी को लगातार जोर-जोर से न बुलावे, किसी को अप्रिय बात न कहे तथा किसी के साथ कलह न करे । अगर झगड़ा हो ही जाय तो उस झगड़े में निरर्थक बकवास न करे ॥ १८ ॥

नेति । उच्चैः न, परुषं कर्कशं न, बहवः आहूतय: आह्वानानि यत्र तादृशीं वाचं न, तथा अप्रियं न वदेत् । किञ्चेति चार्थः । किञ्च केनचित् न विवदेत् विवादे कर्त्तव्ये च नास्ति प्रलापः अनर्थकं वचः यस्मिन् तद् यथा तथा विवादिनी न भवेदिति शेषः ॥ १८ ॥

न चास्य व्ययशीला स्यान्न धर्मार्थविरोधिनी ।

प्रमादोन्मादरोषेर्ष्यावचनान्यतिनिन्दिताम् ॥ १ ९ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 147

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 147 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ५५ ९ पैशुन्यहिंसाविषयमोहाहङ्कारदर्पताम् नास्तिक्यसाहसस्तेयदम्भान् साध्वी विवर्जयेत् ॥ २० ॥

अन्वयः - अस्य व्ययशीला न धर्मार्थविरोधिनी च न स्यात् । साध्वी प्रमादोन्मादरोषेर्ष्या-वचनानि अतिनिन्दितां विवर्जयेत् ॥ १ ९ -२० ॥ व्याख्या– अस्य = भर्तुः, पुण्यस्य, अर्थस्य = धनस्य च किञ्च साध्वी = सच्चरित्रा रोषस्य = क्रोधस्य, ईर्ष्यायाः = पैशुन्यम् = परोक्षपरीवादत्वम्, पैशुन्यहिंसाविषयमोहाहङ्कारदर्पतां नास्तिक्यसाहसस्तेयदम्भान् व्ययशीला = अमितव्ययशालिनी, न = नहि, भवेत्, धर्मस्य = तयोः विरोधिनी = विसंवादिनी च, न = नहि, स्यात् = भवेत् । नारी, प्रमादस्य = अनवधानस्य, उन्मादस्य = चित्तविभ्रमस्य, असूयायाः, वचनानि = कथनानि, अतिनिन्दिताम् = अतिगर्हिताम्, हिंसाम् = घातनम् विषयमोहम् = कामलोलुपता अर्थोन्मादं वा, अहङ्कारम् = गर्वम्, दर्पताम् = उद्धतताम् नास्तिक्यम् = नास्तिकता, साहसम् = धौष्र्घ्यम्, स्तेयम् = चौर्यम्, दम्भम् = कापट्यञ्च, विवर्जयेत् = परित्यजेत् ॥ १ ९ -२० ॥ हिन्दी – पति की कमाई पर अधिक खर्चीली न हो, पति के धर्म- धनार्जन सम्बन्धी कामों का कभी विरोध न करे । सच्चरित्रा नारी कभी असावधान न रहे । क्रोध और ईर्ष्या प्रकट करने वाली बातें मुँह से कभी न निकालें । अतिनिन्दित, चुगलखोरी, हिंसा, विषयों के प्रति मोह, अहङ्कार, अपनी श्रेष्ठता, नास्तिकता, धृष्टता, चोरी और दम्भ – इन्हें छोड़ देना चाहिए ॥ १ ९ -२० ॥ न चेति । पैशुन्येति । अस्य स्वामिनः व्ययशीला अतिव्ययकारिणीत्यर्थः न, धर्मार्थयोः विरोधिनी विरुद्धचारिणी च न स्यात् । किञ्च साध्वी स्त्री प्रमादस्य अनवधानतायाः उन्मादस्य रोपस्य ईर्ष्यायाश्च वचनानि, अतिनिन्दितां पैशुन्यहिंसाविषयमोहाहङ्कारदर्पतां पैशुन्यं कापट्यं, हिंसां विद्वेषं, विपयमोहं धनमदम्, अहङ्कारं दर्पताम् आत्मगौरवञ्चेत्यर्थः, तथा नास्तिक्यं, साहसं, स्तेयं चौर्य्यं दम्भञ्च विवर्जयेत् त्यजेत् ॥१ ९ -२० ॥

एवं परिचरन्ती सा पतिं परमदैवतम् ।

यशस्यमिह यात्येव परत्रैषा सलोकताम् ॥ २१ ॥

अन्वयः — एवं परमदैवतं पतिं परिचरन्ती सा यशस्यं परत्र सलोकताम् एषा याति एव ॥ २१ ॥

व्याख्या — एवम् = अनया रीत्या सेवमाना, सा = = नारी, परमदैवतम् = उत्कृष्टाराध्यरूपं, पतिम् = स्वामिनम्, परिचरन्ती = सेवमाना, इह = संसारे, यशस्यम् = कीर्तिम्, परत्र = परलोके, सलोकताम् = पत्या सह परलोकम्, प्राप्नोति = लभते, एव ॥ २१ ॥

हिन्दी — इस तरह अपने पति को ही परम देवता मानकर उसकी सेवा - सुश्रूषा करने वाली साध्वी नारी संसार में तो यश पाती ही है, मरणोपरान्त पति के साथ परलोक भी पाती है ॥२१ ॥

एवमिति । सा एपा नारी एवम्प्रकारेण परमदैवतं परमदेवतास्वरूपं पतिं परिचरन्ती शुश्रूषमाणा इह अस्मिन् लोके यशस्यं यश एव यशस्यं सुख्यातिमित्यर्थः, स्वार्थे ष्ण्यप्रत्ययः । परत्र च परलोके सलोकतां पत्युरिति शेषः, पतिलोकमित्यर्थः प्राप्नोति एव ॥२१ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 148

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 148 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

शुक्रनीतिः ५६०

योषितो नित्यकर्मोक्तं नैमित्तिकमथोच्यते ।

रजसो दर्शनादेषा सर्वमेव परित्यजेत् ॥ २२ ॥।

अन्वयः — योषितः नित्यकर्म उक्तम्, अथ नैमित्तिकम् उच्यते । एषा रजसः दर्शनात् सर्वमेव परित्यजेत् व्याख्या ॥ २२ — योषितः ॥ = साध्वीस्त्रियाः, नित्यकर्म = दैनन्दिनकार्यम्, उक्तम् = कथितम्, अथ = तदनन्तरम्, नैमित्तिकं कर्म = निमित्तजन्यकृत्यम्, उच्यते = कथ्यते । एषा = नारी, रजसः दर्शनात् = आत्मनः रजस्वलात्वमवलोक्य, सर्वमेव = पूर्वनिर्दिष्टं सकलमेव कार्यम्, परित्यजेत् = विवर्जयेत् हिन्दी ॥२२ — साध्वी ॥ नारियों के नित्यकर्म का निर्देश कर अब उनके नैमित्तिक कर्मों का वर्णन करते हैं । यह नारी रजोदर्शन के दिन से पूर्वनिर्दिष्ट सभी कार्यों का परित्याग कर दे ॥२२ ॥

योषित इति । योषितः नार्य्याः नित्यकर्म उक्तम्, अथ अनन्तरं नैमित्तिकं कर्म उच्यते । एषा नारी रजसः दर्शनात् आत्मनः रजस्वलात्वं दृष्ट्वेत्यर्थः, सर्वमेव कार्य्यं पूर्वोक्तं परित्यजेत् ॥ २२ ॥

सर्वैरलक्षिता शीघ्रं लज्जितान्तर्गृहे वसेत् ।

एकाम्बरा कृशा दीना स्नानालङ्कारवर्जिता ॥ २३ ॥

अन्वयः — सर्वैः अलक्षिता एकाम्बरा कृशा दीना स्नानालङ्कारवर्जिता लज्जिता शीघ्रम् अन्तर्गृहे वसेत् ॥ २३ ॥

व्याख्या- -सर्वैः सकलैः जनैः, अलक्षिता = अनवलोकिता, एकाम्बरा = एकमात्रवस्त्र-धारिणी, कृशा = क्षामा, दीना = खिन्ना, स्नानालङ्कारवर्जिता – स्नानेन = अवगाहनेन, अलङ्कारेण = आभूषणेन, वर्जिता = रहिता, लज्जिता = त्रपिता, शीघ्रम् = त्वरितम्, अन्तर्गृहे = गृहमध्य-वर्त्तिकक्षे, वसेत् = निवसेत् ॥ २३ ॥

हिन्दी — सबकी नजर बचाकर शर्मीली, घर के भीतरी भाग के किसी कमरे में रहे । इस स्थिति में वह एकवस्त्रा, क्षामा तथा खिन्न रहते हुए स्नान और साज - श्रृंगार रहित होकर रहे ॥२३ ॥

सर्वैरिति । सर्वैः जनैः अलक्षिता अदृष्टा, एकाम्बरा एकवसना कृशा दीना कातरा स्नानेन अलङ्कारेण च वर्जिता अस्नाता अनलङ्कारा चेत्यर्थः, तथा लज्जिता सती शीघ्रम् अन्तर्गृहे गृहमध्ये वसेत् ॥ २३ ॥

स्वपेद्भूमावप्रमत्ता क्षपेदेवमहस्त्रयम् ।

स्नायीत सा त्रिरात्र्यन्ते सचेलाभ्युदिते रवौ ॥ २४ ॥

अन्वयः — अप्रमत्ता भूमौ स्वपेत्, एवम् अहस्त्रयं क्षपेत् । सा त्रिरात्र्यन्ते रवौ अभ्युदिते सचेला स्नायीत ॥ २४ ॥

व्याख्या — अप्रमत्ता = अमदोन्मत्ता, भूमौ = पृथिव्याम्, स्वपेत् = शयनं कुर्यात्, एवम् = अनेन प्रकारेण, अहस्त्रयम् = दिनत्रयम्, क्षपेत् = यापयेत् । सा = रजस्वला, त्रिरात्र्यन्ते = त्रिरात्रिं व्यतीत्य, रवौ = सूर्ये, अभ्युदिते = समुदिते सति, सचेला = सवस्त्रा, स्नायीत = स्नानं कुर्यात् ॥ २४ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 149

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 149 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ५६१ हिन्दी — इस तरह सावधानी से धरती पर सोकर तीन रात बिताकर चौथे दिन सूर्योदय के बाद अपने सभी वस्त्रों के साथ स्नान करे ॥ २४ ॥

स्वपेदिति । किञ्च अप्रमत्ता प्रमादरहिता सती भूमौ स्वपेत् । एवम्प्रकारेण अहस्त्रयं दिनत्रयं क्षपेत् यापयेत् । अथ सा त्रिरात्र्यन्ते रात्रित्रयावसाने रवौ सूर्य्ये अभ्युदिते सति सचेला वस्त्रसहिता स्नायीत स्नानं कुर्य्यात् ॥ २४ ॥

विलोक्य भर्तृवदनं शुद्धा भवति धर्म्मतः ।

कृतशौचा पुनः कर्म्म पूर्ववच्च समाचरेत् ॥ २५ ॥

अन्वयः — भर्तृवदनं विलोक्य धर्मतः शुद्धा भवति । पुनः कृतशौचा पूर्ववत् कर्म समाचरेत् ॥ २५ ॥

व्याख्या — तत्पश्चात्, भर्तृवदनम् = पत्याननम्, विलोक्य = दृष्ट्वा, धर्मतः = पुण्येन, शुद्धा = पवित्रा, भवति = जायते । पुनश्च = भूयश्च, कृतशौचा = सम्पादितशुचिकर्म, पूर्ववत् = यथापूर्वम्, कर्म = नित्यकृत्यम्, समाचरेत् = अनुष्ठानं कुर्यात् ॥ २५ ॥

हिन्दी — इसके बाद पति का मुख देखकर वह पुण्यकर्म करने योग्य हो जाती है । फिर पवित्र होने के बाद वह अपना नित्यकर्म पहले जैसे ही प्रारंभ कर दे ॥ २५ ॥

विलोक्येति । ततः भर्त्तुः वदनं विलोक्य दृष्ट्वा धर्मेण शुद्धा पवित्रा भवति । पुनश्च कृतशौचा शुद्धिमती सती पूर्ववत् कर्म समाचरेत् ॥ २५ ॥

द्विजस्त्रीणामयं धर्म्म: प्रायोऽन्यासामपीष्यते 1 कृषिपण्यादिपुङ्कृत्ये भवेयुस्ताः प्रसाधिकाः ॥ २६ ॥

अन्वयः— द्विजस्त्रीणाम् अयं धर्मः अन्यासाम् अपि प्रायः इष्यते । ताः कृषिपण्यादिपुंकृत्येषु प्रसाधिकाः भवेयुः ॥२६ ॥

व्याख्या— द्विजस्त्रीणाम् — द्विजातानाम् = ब्राह्मणादीनाम्, स्त्रीणाम् = नारीणाम्, अयम् = एषः, धर्मः = पुण्यकर्म, अन्यासाम् = द्विजन्मेतराणामपरजातिस्त्रीणाम्, अपि = चेत्, प्रायः = बाहुल्येन, इष्यते = उचितमस्ति, ताः = शूद्रादीनां स्त्रियः, कृषिपण्यादिषु = हलभृत्यापणिकादिषु, पुंकृत्येषु = पुरुषकृत्येषु, प्रसाधिकाः = सहयोगिनी, भवेयुंः = स्युरिति ॥ २६ ॥

हिन्दी – ये कर्म ब्राह्मण, क्षत्रिय एवं वैश्यों की पत्नियों के लिए विहित हैं । इनसे भिन्न औरतों के लिए भी प्रायः यही कर्म विहित हैं । एतदतिरिक्त वे औरतें कृषि और बाजारी जैसे पुरुषकर्म में भी सहयोगिनी होना चाहिए ॥ २६ ॥

द्विजस्त्रीणामिति । द्विजस्त्रीणां ब्राह्मणक्षत्रियवैश्यस्त्रीणाम् अयं धर्मः अपरजातिस्त्रीणाम् अपि प्रायः बाहुल्येन इष्यते । ताः शूद्रादीनां स्त्रियम् इत्यर्थः, कृषिपण्यादिषु पुंकृत्येषु पुरुषकार्येषु प्रसाधिकाः सहकारिण्यः भवेयुः ॥२६ ॥

सङ्गीतैर्मधुरालापैः स्वायत्तस्तु पतिर्यथा ।

भवेत् तथाऽऽचरेयुर्वै मायाभिः कामकेलिभिः ॥ २७ ॥

अन्वयः — पतिः यथा स्वायत्तः भवेत् तथा सङ्गीतैः मधुरालापैः मायाभिः कामकेलिभिः वै आचरेयुः ॥ २७ ॥

३६. CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 150

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 150 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५६२ शुक्रनीतिः व्याख्या — पतिः = स्वामी, यथा = येन प्रकारेण, स्वायत्तः = स्वाधीनः भवेत् = स्यात्, तथा = तेन रूपेण, सङ्गीतैः = गायनैः, मधुरैः = मनोहरैः, आलापैः = वार्त्तालापैः मायाभिः = मोहकस्वरूपाभिः, कामकेलिभिश्च = सुरतप्रसङ्गैश्च, वै = इति निश्चयेन, आचरेयुः = आचरणं कुर्युः ॥२७ — ॥ पति जिस तरह अपने अधीन हो, इसके लिए नारी को प्रयत्नशील होना हिन्दी । गीत गाकर, मीठी बातें बोलकर, आकर्षक भावभङ्गिमा या कामक्रीड़ा से उसे वश में चाहिए लाना चाहिए ॥ २७ ॥ स्वायत्तः स्वाधीनः भवेत्, सङ्गीतैः मधुरैः आलापै: मायाभिः

सङ्गीतैरिति । पतिः यथा येन प्रकारेण तथा आचरेयुः ॥। २७ ॥ स्नेहरूपाभिः मोहनप्रकाराभिरित्यर्थः, कामकेलिभिः सुरतप्रसङ्गैश्च

मृते भर्तरि सङ्गच्छेद् भर्त्तुर्वा पालयेद् व्रतम् ।

परवेश्मरुचिर्न स्याद् ब्रह्मचर्य्ये स्थिता सती ॥ २८ ॥

अन्वयः — भर्तरि मृते सति सङ्गच्छेत् वा भर्तुः व्रतं पालयेत् । ब्रह्मचर्ये स्थिता सती परवेश्मरुचिः न स्यात् ॥ २८ – ॥ भर्त्तरि = पत्यौ, मृते सती = उपरते सती, सङ्गच्छेत् = सहैव गमनं कुर्यात्, वा = अथवा व्याख्या , भर्त्तुः = पत्युः, व्रतम् = नियमम्, गार्हस्थ्यं संरक्षेत्, किञ्च ब्रह्मचर्ये = नियमपालने स्थिता सती, परवेश्मरुचिः— परेषाम् = अन्येषाम्, वेश्मनि = गृहे, रुचिः = निवासाभिरुचिः, न = नहि, स्यात् = भवेत् ॥ २८ ॥ अथवा वैधव्यावस्था में

हिन्दी – पति के मरने पर उसे सती हो जाना चाहिए गार्हस्थ्य धर्म का पालन करते हुए ब्रह्मचारिणी बनी रहे तथा कभी दूसरों के घर में निवास न करे ॥ मृते २८ इति ॥ । भर्त्तरि मृते सति सङ्गच्छेत् सहगमनं कुर्य्यात् पत्या सहेति शेषः, वा अथवा भर्तुः व्रतं गार्हस्थ्यं नियमं पालयेत् । किञ्च ब्रह्मचर्य्ये स्थिता सती परवेश्मरुचिः परगृहवासिनी न स्यात् ॥ २८ ॥

मण्डनं वर्जयेन्नित्यं तथा प्रोषितभर्तृका ।

देवताराधनपरा तिष्ठेद् भर्तृहिते रता ।

धारयेन्मङ्गलार्थानि किञ्चिदाभरणानि च ॥ २ ९ ॥

अन्वयः — प्रोषितभर्तृका नित्यं मण्डनं वर्जयेत् तथा देवताराधनपरा भर्तृहिते रता च तिष्ठेत् । किञ्च मङ्गलार्थानि किञ्चित् आभरणानि धारयेत् ॥ २ ९ ॥ व्याख्या — प्रोषितभर्तृका = प्रवासितपतिका, नित्यम् = प्रतिदिनम्, मण्डनम् = अलङ्करणम्, वर्जयेत् = त्यजेत्, तथा देवतानाम् = देवानाम्, आराधने = पूजने, रता = तत्परा, भर्त्तुः = पत्युः, हिते = लाभे, रता = निरता च, तिष्ठेत् = स्थिता भवेत् । किञ्च मङ्गलार्थानि = अभीष्टसिद्ध्यर्थानि, किञ्चित् = स्वल्पानि, आभरणानि = आभूषणानि, धारयेत् = धारणं कुर्यात् ॥ २ ९ ॥ हिन्दी — जिसका पति परदेश चला गया हो, वह नारी आभूषण प्रभृति शृंगार करना बन्द कर दे । पति की मंगलकामना से देवाराधन में तत्पर रहे और सधवासूचक मंगलार्थ कुछ आभूषण ग्रहण करे ॥ २ ९ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA