शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 181–190
शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 181–190
पृष्ठ 181
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ५ ९ ३ हिन्दी — शिर की परिधि बत्तीस अंगुल होनी चाहिए । मस्तक की चौड़ाई दस अंगुल तथा लम्बाई बारह अंगुल होनी चाहिए ॥ ११६ ॥
द्वात्रिंशदिति । मस्तकस्य परिधिः वेष्टनमित्यर्थः, द्वात्रिंशदङ्गुलः प्रोक्तः कथितः । तदित्यव्ययं, तत् तस्य मस्तकस्येत्यर्थः, विस्तृतिः विस्तारः दशाङ्गुला द्वादशाङ्गुलदीर्घता च दीर्घे द्वादशाङ्गुलता इत्यर्थः, स्यादिति शेषः ॥ ११६ ॥
ग्रीवामूलस्य परिधिर्द्वाविंशत्यङ्गलात्मकः ।
हृन्मध्यपरिधिर्ज्ञेयश्चतुःपञ्चाशदङ्गुलः ॥ ११७ ॥
अन्वयः — प्रीवामूलस्य परिधिः द्वाविंशत्यङ्गुलात्मकः । हृन्मध्यस्य परिधिः चतुःपञ्चाशदङ्गुलः ज्ञेयः ॥ ११७ ॥
व्याख्या — प्रीवामूलस्य = कण्ठाधारस्य, परिधिः = परिवेशः, द्वाविंशतिः अङ्गुलाः, आत्मानः, यस्यार्थात् द्वाविंशत्यङ्गुलपरिमितः । हृन्मध्यस्य = वक्षोमध्यस्य, परिधिः = परिणाहः, चतुः-पञ्चाशदङ्गुलः = चतुःपञ्चाशदङ्गुलपरिमितः, ज्ञेयः = बोध्यः ॥११७ ॥
हिन्दी - गर्दन के जड़ की परिधि बाईस अंगुल होनी चाहिए । छाती के मध्य भाग की परिधि चौवन अंगुल होनी चाहिए ॥११७ ॥
ग्रीवेति । ग्रीवामूलस्य परिधिः द्वाविंशतिः अङ्गुलाः आत्मान: यस्य तथोक्तः द्वाविंशत्यङ्गुलपरिमित इत्यर्थः । हृन्मध्यस्य वक्षोमध्यस्येत्यर्थः, परिधिः चतुःपञ्चाशदङ्गुलपरिमित इत्यर्थः ॥११७ ॥
हीनाङ्गलचतुस्तालपरिधिर्हृदयस्य च ।
आस्तनात् पृष्ठदेशान्ता पृथुता द्वादशाङ्गुला ॥ ११८ ॥
अन्वयः — हृदयस्य परिधिः हीनाङ्गुलचतुस्तालः । आस्तनात् पृष्ठदेशान्ता पृथुता द्वादशाङ्गुला ॥११८ ॥
व्याख्या — हृदयस्य = चित्तस्य, परिधिः = मण्डलम्, हीनाङ्गुलचतुस्तालः = एकाङ्गुल-रहिततालचतुष्टयपरिमितः । किञ्च आस्तनात् = स्तनावधि, पृष्ठदेशान्ता = पृष्ठदेशपर्यन्ता, पृथुता = स्थूलता, द्वादशाङ्गुला = द्वादशाङ्गुलपरिमिता, स्यात् = भवेत् ॥ ११८ ॥
हिन्दी – छाती का घेरा एक अंगुल कम चार तालपरिमित होना चाहिए । छाती से लेकर पीठ तक की मोटाई बारह अंगुल होनी चाहिए ॥११८ ॥
हीनेति । हृदयस्य परिधिः हीनाङ्गुलचतुस्तालः एकाङ्गुलहीनतालचतुष्टयपरिमित इत्यर्थः । किञ्च आस्तनात् स्तनावधि पृष्ठदेशान्ता पृष्ठपर्य्यन्ता पृथुता स्थूलता द्वादशाङ्गुला द्वादशाङ्गुलपरिमिता स्यादित्यर्थः ॥११८ ॥
सार्द्धत्रितालपरिधि: कट्याश्च द्व्यङ्गुलाधिकः ।
चतुरङ्गुल उत्सेधो विस्तारः स्यात् षडङ्गुलः ॥ ११ ९ ॥
अन्वयः — कट्याश्च सार्द्धत्रितालपरिधिः द्व्यङ्गुलाधिकः । उत्सेधः विस्तारः षडङ्गुलः स्यात् ॥ ११ ९ ॥, व्याख्या – कट्याश्च = काञ्चीपदस्य च सार्द्धत्रितालपरिधिः = अर्द्धसहिततालत्रयमितः ३८ शु ० CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 182
पाठ पढ़ें पाठ छिपाएँ
५ ९ ४ शुक्रनीतिः परिधिः = वेष्टनम्, द्व्यङ्गुलाधिकः = अङ्गुलद्वयाधिकः, उत्सेधः = उच्चता, चतुरङ्गुलः = अङ्गुल-चतुष्टयमितः, तथा विस्तारः = दीर्घता, षडङ्गुलः = अङ्गुलषट्कमितः, स्यात् = भवेत् ॥ ११ ९ ॥ हिन्दी — कमर का घेरा दो अंगुल अधिक तीन ताल माप का होना चाहिए । उसकी ऊँचाई चार अंगुल और फैलाव छ: अंगुल होना चाहिए ॥ ११ ९ ॥ सार्द्धेति । कट्यश्च सार्द्धत्रितालपरिधिः अर्द्धसहिततालत्रयमितः परिधिः द्व्यङ्गुलाधिकः अङ्गुलद्वयाधिकः, उत्सेधः उच्छ्रायः चतुरङ्गुलः अङ्गुलचतुष्टयमितः तथा विस्तारः षडङ्गुलः अङ्गुलषट्कमितः स्यात् ॥ ११ ९ ॥
पश्चाद्भागे नितम्बस्य स्त्रीणामङ्गलतोऽधिकः ।
बाह्वग्रमूलपरिधिः घोडशाष्टादशाङ्गुलः ॥ १२० ॥
अन्वयः — स्त्रीणां नितम्बस्य पश्चाद्भागे परिधिः अङ्गुलतोऽधिकः । बाह्वप्रमूलपरिधिः षोडशाङ्गुलः अष्टादशाङ्गुलः स्यात् ॥ १२० ॥
व्याख्या — स्त्रीणाम् = देवीप्रतिमानाम्, नितम्बस्य = कटिप्रोथस्य, पश्चाद्भागे = पृष्ठस्याङ्गे, परिधिः = मण्डलम्, अङ्गुलतः = एकाङ्गुलेन, अधिकः = विशेषः सार्द्धत्रितालपरिमितः, पुरुषमूर्तीनान्तु सार्द्धत्रिताल एवेति । बाह्वोः = भुजयोः, अग्रमूलस्य - अग्रस्य = अग्रभागस्य, मूलस्य = आरम्भिकभागस्य च, परिधिः = आवेष्टनम् क्रमात् षोडशाङ्गुलपरिमितः, अष्टादशाङ्गुलपरिमितश्च भवति ॥ १२० ॥
हिन्दी— देवीप्रतिमा के नितम्ब के पिछले हिस्से में प्रतिमा की अपेक्षा परिधि एक अंगुल अधिक साढे तीन ताल की होनी चाहिए । देवीप्रतिमा की बाँहों के अगले भाग का घेरा सोलह अंगुल तथा बाँहों के मूल भाग का घेरा अठारह अंगुल होना चाहिए ॥ १२० ॥
पश्चादिति । स्त्रीणां देवीमूर्त्तीनां नितम्बस्य पश्चाद्भागे परिधिः अङ्गुलतः एकाङ्गुलेन अधिकः सार्द्धत्रितालपरिमितः पुम्मूर्त्तीिनान्तु सार्द्धत्रिताल एव इत्यर्थः । बाहोः अप्रस्य मूलस्य च परिधिः क्रमात् षोडशाङ्गुलः अष्टादशाङ्गुलश्च भवति ॥ १२० ॥
हस्तमूलाग्रपरिधिश्चतुर्दशदशाङ्गुलः पञ्चाङ्गुला पादकरतलयोर्विस्तृतिः स्मृता ॥ १२१ ॥
अन्वयः — हस्तमूलाम्रपरिधिः चतुर्दशदशाङ्गुलः । पादकरतलयोः विस्तृतिः पञ्चाङ्गुला स्मृता ॥ १२१ ॥
व्याख्या — हस्तस्य = करस्य, मूले = प्रारम्भिकभागे, अग्रे = अग्रिमांशे च, परिधिः = वेष्टनम्, क्रमात् चतुर्दशाङ्गुलः = चतुर्दशाङ्गुलपरिमितः, दशाङ्गुलश्च = दशाङ्गुलपरिमितश्च भवति । पादकरतलयोः = चरणहस्ततलयोः, विस्तृतिः = विततिः, पञ्चाङ्गुला = अङ्गुलिपञ्चात्मिका, स्मृता = -कथिता ॥ १२१ ॥
हिन्दी – बाँहों की जड़ भाग का घेरा चौदह अंगुल तथा हाथों के आगे का घेरा दस अंगुल का होना चाहिए । तलवा और हथेली का फैलाव पाँच अंगुल होना चाहिए ॥ १२१ ॥
हस्तेति । हस्तस्य मूले अग्रे च परिधिः क्रमात् चतुर्दशाङ्गुलः दशाङ्गुलश्च भवति । पादकरतलयोः चरणस्य करतलस्य च विस्तृतिः विस्तारः पञ्चाङ्गुला अङ्गुलपञ्चकपरिमिता स्मृता ॥ १२१ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 183
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य चतुर्थं प्रकरणम्
ऊरुमूलस्य परिधिर्द्वात्रिंशदङ्गुलात्मकः ।
ऊनविंशत्यङ्गुलः स्यादूर्वग्रपरिधिः स्मृतः ॥ १२२
अन्वयः — ऊरुमूलस्य परिधिः द्वात्रिंशदङ्गुलात्मकः । ऊर्वोः अग्रयोः स्यात् ॥ १२२ ॥
व्याख्या — ऊरुमूलस्य = जङ्घामूलस्य, परिधिः = वेष्टनम्, ५ ९ ५ ॥ परिधिः ऊनविंशत्यङ्गुलः द्वात्रिंशदङ्गुलात्मकः = द्वात्रिंशदङ्गुलिपरिमितः, स्यात् । ऊर्वोः = जङ्घयोः, अप्रयोः = अग्रभागयोः, परिधिः = मण्डलम्, ऊनविंशत्यङ्गुलः = ऊनविंशत्यङ्गुलात्मको भवति ॥१२२ ॥
हिन्दी — ऊरु के मूल भाग का घेरा बत्तीस अंगुल का तथा उसके अगले हिस्से का घेरा उन्नीस अंगुल का होना चाहिए ॥ १२२ ॥
ऊरुमूलस्येति । ऊरुमूलस्य परिधिः द्वात्रिंशदङ्गुलात्मकः द्वात्रिंशदङ्गुलपरिमितः । ऊर्वोः अग्रयोः परिधिः ऊनविंशत्यङ्गुलः स्यात् ॥ १२२ ॥
जङ्घामूलाग्रपरिधिः षोडशद्वादशाङ्गुलः ।
मध्यमामूलपरिधिर्विज्ञेयश्चतुरङ्गुलः ॥ १२३ ॥
अन्वयः — जङ्घामूलायपरिधिः षोडशद्वादशाङ्गुलः । मध्यमामूलपरिधिः चतुरङ्गुलः विज्ञेयः ॥ १२३ ॥
व्याख्या — जङ्घामूलस्य = जानुब्रध्नस्य, अप्रस्य = अग्रभागस्य च, परिधिः = वेष्टनम्, क्रमात् षोडशाङ्गुलः = अङ्गुलिषोडशपरिमितः, तथा द्वादशाङ्गुलः = द्वादशाङ्गुलात्मको भवति । मध्यमायाः =: मध्यमाङ्गुल्याः, मूलस्य = ब्रध्नस्य, परिधिः = परिवेशः, चतुरङ्गुलः = चतुरङ्गुलात्मकः, विज्ञेयः = ज्ञातव्य इति ॥ १२३ ॥
हिन्दी — जाँघों के मूलभाग का घेरा सोलह अंगुल एवं अगले हिस्से का घेरा बारह अंगुल होना चाहिए । मध्यमा - अंगुलि के मूलभाग की परिधि चार अंगुल की होनी चाहिए ॥ १२३ ॥
जङ्घेति । जङ्घायाः मूलस्य अग्रस्य च परिधिः क्रमात् षोडशाङ्गुलः द्वादशाङ्गुलश्च भवति । मध्यमायाः अङ्गुल्याः मूलपरिधिः चतुरङ्गुलः विज्ञेयः ॥ १२३ ॥
तर्जन्यनामिकामूलपरिधिः सार्द्धत्र्यङ्गलः ।
कनिष्ठिकायाः परिधिर्मूले त्र्यङ्गुल एव हि ॥ १२४ ॥
अन्वयः — तर्जन्याः अनामिकायाः च मूलपरिधिः सार्द्धत्र्यङ्गुलः । कनिष्ठिकायाः मूले परिधिः त्र्यङ्गुलः एव हि ॥ १२४ ॥
व्याख्या— तर्जन्याः = प्रदेशिन्याः, अनामिकायाश्च = उपकनिष्ठिकायाश्च, मूलस्य = मूल-भागस्य, परिधिः = परिवेष्टनम्, सार्द्धत्र्यङ्गुलः = अर्द्धेण सहितमङ्गुलित्रयात्मकः स्यात्, कनिष्ठि-कायाः = कनीन्याः, मूले = मूलभागे, परिधिः = वेष्टनम्, त्र्यङ्गुलः = अङ्गुलित्रयपरिमितिः, एव = इति निश्चयेन, हि ॥ १२४ ॥
हिन्दी - तर्जनी और अनामिका अंगुली के मूल भाग का घेरा साढ़े तीन अंगुल का होना चाहिए । किन्तु कनिष्ठा अंगुलि के मूल भाग की परिधि तीन ही अंगुल की होनी चाहिए ॥ १२४ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 184
पाठ पढ़ें पाठ छिपाएँ
५ ९ ६ शुक्रनीतिः तर्जनीति । तर्जन्याः अनामिकायाश्च मूलपरिधिः सार्द्धत्र्यङ्गुलः अर्द्धसहिताङ्गुलत्रयपरिमितः । कनिष्ठिकायाः मूले परिधिः त्र्यङ्गुलः अङ्गुलत्रितयमित एव, हिशब्दः पादपूरणार्थः ॥ १२४ ॥
स्वमूलपरिधेः पादहीनोऽग्रे परिधिः स्मृतः ।
हस्तपादाङ्गुष्ठयोश्च चतुःपञ्चाङ्गुलं क्रमात् ॥ १२५ ॥
अन्वयः — स्वमूलपरिधेः पादहीनोऽग्रे परिधिः स्मृतः । हस्तपादाङ्गुष्ठयोः च क्रमात् चतु-पञ्चाङ्गुलम् ॥ १२५ ॥
व्याख्या – स्वमूलपरिधेः – स्वस्य = आत्मनः, मूले = मूलभागे, या परिधिः = परिवेष्टनम्, उक्तः, अग्रे तस्य, पादहीनः = चतुर्थांशन्यूनः परिधिः = मण्डलम्, स्मृतः = कथितः । हस्त-पादाङ्गुष्ठयोः — हस्ताङ्गुष्ठस्य = कराङ्गुष्ठस्य, च = पुनः, पादाङ्गुष्ठस्य = चरणाङ्गुष्ठस्य च, परिधेः = वेष्टनस्य, मानम्, क्रमात् चतुःपञ्चाङ्गुलम् = चतुरङ्गुलं पञ्चाङ्गुलञ्चेति ॥ १२५ ॥
हिन्दी — और प्रत्येक अंगुलियों के अपने - अपने मूलभाग की परिधियों की अपेक्षा अगले हिस्से का घेरा माप में एक चौथाई कम होता है । जैसे मध्यमा के मूल भाग की परिधि चार अंगुल की है तो उसके अग्रभाग की परिधि चतुर्थांशहीन अर्थात् तीन अंगुल की होती है । इसी तरह दूसरी अंगुलियों के लिए भी व्यवस्था है । हाथ तथा पैर के अंगुठे की परिधि क्रमशः चार और पाँच अंगुल की होनी चाहिए ॥१२५ ॥
स्वेति । स्वस्य मूले यः परिधिः उक्त इति शेषः, अग्रे तस्येति शेषः, पादहीनः चतुर्थांशन्यूनः परिधिः स्मृतः, एतच्च अनुक्ताग्रपरिधेरिति बोध्यम् । हस्तपादाङ्गुष्ठयोः हस्ताङ्गुष्ठस्य पादाङ्गुष्ठस्य च परिधेर्मानं क्रमात् चतुःपञ्चाङ्गुलं चतुरङ्गुलं पञ्चाङ्गुलञ्चेत्यर्थः ॥१२५ ॥
पादाङ्गुलीनां परिधिस्त्र्यङ्गलः समुदाहृतः ।
मण्डलं स्तनयोर्नाभेः सार्द्धाङ्गुलमथाङ्गुलम् ॥ १२६ ॥
अन्वयः — पादाङ्गुलीनां परिधिः त्र्यङ्गुलः समुदाहृतः । स्तनयोः नाभेश्च मण्डलं सार्द्धाङ्गुलम् एकाङ्गुलम् ॥ १२६ ॥
व्याख्या— पादाङ्गुलीनाम् = अङ्गुष्ठस्य पूर्वमुक्तत्वात् तद्व्यतिरिक्तानां चरणाङ्गुलीनाम्, परिधिः = वेष्टनम्, त्र्यङ्गुलः = अङ्गुलित्रयपरिमितम्, समुदाहृतः = कथितः । स्तनयोः = कुचयोः, नाभेश्च = उदरावर्त्तस्य च, मण्डलम् = वेष्टनम्, सार्द्धाङ्गुलम् = अर्द्धेण सहितमङ्गुल्येकपरिमितम्, विज्ञेयमिति ॥ १२६ ॥
हिन्दी— पैरों की अन्य अंगुलियों की परिधि तीन अंगुल की होनी चाहिए । स्तनों का घेरा डेढ़ अंगुल तथा नाभि का घेरा एक अंगुल का होना चाहिए ॥१२६ ॥
पादाङ्गुलीनामिति । पादाङ्गुलीनाम् अङ्गुष्ठव्यतिरिक्तानामित्यर्थः अङ्गुष्ठस्य पूर्वमुक्तत्वादिति भावः,, परिधिः त्र्यङ्गुलः अङ्गुलत्रयमितः समुदाहृतः । स्तनयोः नाभेश्च मण्डलं परिधिः सार्द्धाङ्गुलम् अर्द्धसहितैकाङ्गुलम् अङ्गुलम् एकाङ्गुलपरिमितञ्च क्रमात् विज्ञेयमिति शेषः ॥१२६ ॥
सर्वाङ्गानां यथाशोभि पाटवं परिकल्पयेत् ।
नोर्ध्वदृष्टिमधोदृष्टिं मीलिताक्षीं प्रकल्पयेत् ।
नोग्रदृष्टिन्तु प्रतिमां प्रसन्नाक्षीं विचिन्तयेत् ॥ १२७ ॥।
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 185
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ५ ९ ७ अन्वयः — यथाशोभि तथा सर्वाङ्गानां पाटवं परिकल्पयेत् । ऊर्ध्वदृष्टिम् अधोदृष्टिं मीलिताक्षीं न प्रकल्पयेत् । उग्रदृष्टिं न प्रसन्नाक्षीं प्रतिमां प्रकल्पयेत् ॥१२७ ॥
व्याख्या — यथाशोभि — यथा = येन प्रकारेण, शोभी = शोभते, तथा सर्वाङ्गानाम् = सकलावयवानाम्, पाटवम् = कौशलम्, परिकल्पयेत् = कल्पनां कुर्यात् । तथा ऊर्ध्वदृष्टिम् = उपर्यवलोकनम्, अधोदृष्टिम् = अधस्तादृग्पातः, मीलिताक्षीम् = निमीलितनयनाम्, न = नहि, प्रकल्पयेत् = रचयेत् । उग्रदृष्टिम् = प्रचण्डाक्षीम्, न = नहि, प्रत्युत प्रसन्नाक्षीम् = निर्मलनयनाम्, प्रतिमाम् = मूर्त्तिम्, प्रकल्पयेत् = रचयेत् ॥ १२७ ॥
हिन्दी — ऊपर या नीचे दृष्टिवाली, मुँदी आँखों वाली, भयानक आँखों वाली प्रतिमा नहीं बनानी चाहिए, प्रत्युत प्रसन्ननयना मूर्त्ति बनानी चाहिए ॥१२७ ॥
सर्वाङ्गानामिति । यथाशोभि यथा शोभते इत्यर्थः, तथा सर्वाङ्गानां पाटवं सौष्ठवं परिकल्पयेत् । तथा ऊर्ध्वदृष्टिम् अधोदृष्टिं वा मीलिताक्षीं मुद्रितनयनां मूर्तिमिति शेषः, न प्रकल्पयेत् । किञ्च उग्रदृष्टिं भीषणाक्षीं प्रतिमां प्रसन्नाक्षीं प्रसन्ननयनां न विचिन्तयेत् ॥१२७ ॥
प्रतिमायास्तृतीयांशमर्द्धांशं तत् सुपीठकम् ॥। १२८ ॥ अन्वयः — प्रतिमायाः तत् सुपीठकं तृतीयांशम् अर्द्धांशं वा ॥१२८ ॥
व्याख्या — प्रतिमायाः = प्रकल्पितमूर्तेः, तत् = प्रख्यातम्, सुपीठकम् — सु = सुष्ठु, पीठकम् = आसनम्, तृतीयांशम् = मूर्त्तेरायामस्य भागत्रयपरिमितम्, वा, अर्द्धांशम् = भागार्द्धम्, रचयेत् ॥ १२८ ॥
हिन्दी — प्रतिमा का एक सुन्दर आसन होना चाहिए । आसन का मान प्रतिमा के मान का तृतीयांश या आधा होना चाहिए ॥१२८ ॥
प्रतिमाया इति । प्रतिमायाः तत् प्रसिद्धमित्यर्थः, सुपीठकं शोभनं पीठम् आसनमित्यर्थः, तृतीयांशम् अर्द्धांशं वा यादृशी प्रतिमा तत्तृतीयांशं वा इत्यर्थः, कल्पयेदिति पूर्वेणान्वयः ॥१२८ ॥
द्विगुणं त्रिगुणं द्वारं प्रतिमायाश्चतुर्गुणम् ।
एकद्वित्रिचतुर्हस्तं पीठं देवालयस्य च ॥ १२ ९ ॥
अन्वयः — देवालयस्य द्वारं प्रतिमायाः द्विगुणं त्रिगुणं वा चतुर्गुणम् । पीठञ्च एकद्वित्रिचतुर्हस्तं कल्पनीयम् ॥ १२ ९ ॥ व्याख्या — देवालयस्य = देवमन्दिरस्य, द्वारम् = अररं प्रतिहारं वा, प्रतिमायाः = मूर्त्तेः, द्विगुणम् = द्विगुणितम्, त्रिगुणम् = त्रिगुणितम्, वा चतुर्गुणं = चतुर्गुणितम्, निर्मातव्यम् । पीठञ्च = आसनञ्च, एकद्वित्रिचतुर्हस्तम् = एकहस्तम्, द्विहस्तम्, त्रिहस्तम्, चतुर्हस्तं वा, मूर्तिभेदेनासनभेदमपि कथनीयम् ॥१२ ९ ॥ हिन्दी — देवमन्दिर का द्वार प्रतिमा के मान से दूना, तिगुना या चौगुना बड़ा बनाना चाहिए और तदनुसार प्रतिमा का आसन एक, दो, तीन या चार हाथ का बनाना चाहिए ॥ १२ ९ ॥ द्विगुणमिति । देवालयस्य द्वारं प्रतिमायाः द्विगुणं त्रिगुणं वा चतुर्गुणं कर्त्तव्यमिति शेषः । पीठञ्च एकद्वित्रिचतुर्हस्तम् एकहस्तं द्विहस्तं त्रिहस्तं चतुर्हस्तं वा प्रतिमाभेदेन कल्पनीयमिति शेषः ॥१२ ९ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 186
पाठ पढ़ें पाठ छिपाएँ
५ ९ ८ शुक्रनीतिः पीठतस्तु समुच्छ्रायो भित्तेर्दशकराधिकः ।
द्वारात् तु द्विगुणोच्छ्रायः प्रसादस्योर्ध्वभूमिभाक् ।
शिखरं चोच्छ्रायसमं द्विगुणं त्रिगुणं तु वा ॥ १३० ॥
अन्वयः – भित्तेः समुच्छ्रायः पीठतः दशकराधिकः । प्रासादस्य द्वारात् द्विगुणोच्छ्रायः ऊर्ध्वभूमिभाक् शिखरम् उच्छ्रायेण समं द्विगुणं त्रिगुणं वा कल्पयेत् ॥ १३० ॥
व्याख्या – भित्तेः = देवालयस्य कुड्यस्य, समुच्छ्रायः = उच्चता, पीठतः = धरातलात्, दशकराधिकः = दशहस्तविशेषः, कार्यः । प्रासादस्य = देवालयस्य, द्वारात् = = प्रतीहारात् द्विगुणोच्छ्रायः = द्विगुणितमौन्नत्यम्, ऊर्ध्वभूमिभाक् = उपरितनगामी स्यात् किञ्च शिखरम् = प्रासादस्योच्चतमो भागः, उच्छ्रायेण = औन्नत्येन, समम् = तुल्यम् अनुरूपं वा, द्विगुणम् = द्विगुणितम्, त्रिगुणम् = त्रिगुणितम्, वा रचयेत् ॥ १३० ॥
हिन्दी - मन्दिर की दीवारों की ऊँचाई धरातल से दस हाथ अधिक करनी चाहिए । देवालय के ऊपर की भूमि दरवाजे से दूनी ऊँची होनी चाहिए और देवालय का शिखर ऊँचाई के अनुसार दूना या तिगुना होना चाहिए ॥ १३० ॥
पीठत इति । भित्तेः देवगृहस्येति शेषः, समुच्छ्रायः औन्नत्यं पीठतः पीठात् दशकराधिकः दशहस्ताधिकः कार्य्य इति शेषः । प्रासादस्य द्वारात् द्विगुणोच्छ्रायः द्विगुणमौन्नत्यम् ऊद्र्ध्वभूमिभाक् उपरितनगामी स्यात् । किञ्च शिखरं प्रासादस्येति शेषः, उच्छ्रायेण समं सदृशम् अनुरूपमित्यर्थः, द्विगुणं त्रिगुणं वा कल्पयेदिति शेषः ॥१३० ॥
एकभूमिं समारभ्य सपादशतभूमिकम् ।
प्रसादं कारयेच्छक्त्या ह्यष्टास्त्रं पद्मसन्निभम् ।
चतुर्दिङ्मण्डपं वापि चतुःशालं समन्ततः ॥ १३१ ॥
अन्वयः - एक भूमिं समारभ्य सपादशतभूमिकम् अष्टास्रम् पद्मसन्निभं चतुर्दिक् मण्डपं समन्ततः चतुःशालं वा प्रासादं शक्त्या कारयेत् ॥ १३१ ॥
व्याख्या — एकभूमिम् = कोष्ठैकम्, समारभ्य = प्रारभ्य, सपादशत भूमिकम् = पादाधिक-शतकोष्ठपर्यन्तम्, अष्टास्रम् = अष्टकोणम्, पद्मसन्निभम् = कमलमिव, चतुर्दिक् = समन्ततः, मण्डपम् = लघुगृहसमन्वितम्, समन्ततः = = सर्वतः, चतुःशालम् = गृहचतुष्टयसमन्वितम्, वा = अथवा, प्रसादम् = भव्यमन्दिरम्, शक्त्या = सामर्थ्यानुसारेण, कारयेत् = निर्माणं कुर्यात् ॥ १३१ ॥
हिन्दी — एक मंजिला से लेकर सवा सौ मंजिले तक का अठपहला, कमलदल के समान चारों ओर मण्डपों या महलों से घिरे भव्य मन्दिर का निर्माण यथाशक्ति करवाना चाहिए ॥ १३१ ॥
एकभूमिमिति । एकभूमिम् एकां भूमिं समारभ्य सपादशतभूमिकं पादाधिकशतभूमिपर्य्यन्तम् अष्टास्रम् अष्टकोणं पद्मसन्निभं पद्माकारं चतुर्दिङ्मण्डपं चतुर्दिग्वर्त्तिगृहसमन्वितं समन्ततः चतुःशालं गृहचतुष्टययुक्तं वा प्रासादं शक्त्या शक्त्यनुसारेण कारयेत् ॥ १३१ ॥
सहस्त्रस्तम्भसंयुक्तश्चोत्तमोऽन्यः समोऽधमः ॥ १३२ ॥
अन्वयः — सहस्रस्तम्भसंयुक्तः उत्तमः, अन्यः समः, अन्यः अधमः ॥१३२ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 187
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ५ ९९ व्याख्या — सहस्रेण = दशशतेन, स्तम्भेन = उपस्तम्भेन, संयुक्तः = समन्वितः, प्रासादः, उत्तमः = उत्कृष्टः, अन्यः = ततोऽल्पम्, समम् = सामान्यम्, ततोऽपि न्यूनः अधमः = निकृष्टो भवति ॥ १३२ ॥
हिन्दी —– हजार खम्भों वाला मन्दिर उत्कृष्ट तथा उससे कम खंभों वाला सामान्य तथा उससे भी कम खम्भे वाला प्रासाद निकृष्ट कोटि का होता है ॥ १३२ ॥
सहस्त्रेति । सहस्रस्तम्भेन संयुक्तः प्रासादः उत्तमः, ततो न्यूनः समः मध्यमः, ततोऽपि न्यूनः अधमः ॥ १३२ ॥
प्रासादे मण्डपे वापि शिखरं यदि कल्प्यते ।
स्तम्भास्तत्र न कर्त्तव्या भित्तिस्तत्र सुखप्रदा ॥ १३३ ॥
अन्वयः - प्रासादे मण्डपे वापि यदि शिखरं कल्प्यते, तदा तत्र स्तम्भाः न कर्त्तव्याः, तत्र भित्तिरेव सुखप्रदा ॥ १३३ ॥
व्याख्या – प्रासादे = भव्यमन्दिरे, मण्डपे = भवने, वा = अथवा, यदि = चेत्, शिखरम् = भवनस्योच्चतमो भागः, कल्प्यते, तदा तत्र = = तस्मिन् भवने, स्तम्भाः = स्थूलाः, न कर्त्तव्याः, तत्र भित्तिरेव, सुखप्रदा = कल्याणदा भवति ॥ १३३ ॥
हिन्दी — जिस मंदिर य मण्डप पर कंगूरे बनवाना हो तो वहाँ पर खम्भे नहीं लगवाना चाहिए, क्योंकि वहाँ तो दीवार ही सुखप्रद होती है है ॥ । १३३ ॥ प्रासादे इति । प्रासादे मण्डपे वापि यदि शिखरं कल्प्यते, तदा तत्र स्तम्भाः न कर्त्तव्याः, तत्र भित्तिरेव सुखप्रदा शोभना इत्यर्थः ॥१३३ ॥
प्रासादमध्यविस्तारः प्रतिमायाः समन्ततः ।
षाड्गुणोऽष्टगुणो वापि पुरतो वा सुविस्तरः ॥ १३४ ॥
अन्वयः — प्रासादमध्यसमन्ततः विस्तारः प्रतिमायाः षड्गुणः अष्टगुणो वा पुरतः सुविस्तरः ॥ १३४ ॥
व्याख्या – प्रासादमध्यस्य = मन्दिराभ्यन्तरभागस्य, समन्ततः = सर्वतः, विस्तारः = विस्तृतिः, प्रतिमायाः = देवमूर्तेः, षड्गुणः = षड्गुणितः, अष्टगुणः = अष्टगुणितः, वा = अथवा, कल्प्यः, पुरतः = प्रतिमायाः अग्रतः, सुविस्तरः- समधिकप्रसारो विचार्यः ॥१३४ ॥
हिन्दी – मन्दिर के भीतरी भाग का फैलाव चारों ओर प्रतिमा से छः गुना या आठ गुना अधिक होना चाहिए और मूर्ति से आगे सर्वाधिक विस्तार होना चाहिए ॥ १३४ ॥
प्रासादेति । प्रासादमध्यस्य प्रासादाभ्यन्तरभागस्य समन्ततः विस्तारः प्रतिमायाः षड्गुणः अष्टगुणो वा, पुरतः अग्रतस्तु प्रतिमाया इति शेषः, विस्तारः सुविस्तारः समधिकः कल्प्य इति शेषः ॥ १३४ ॥
वाहनं मूर्त्तिसदृशं सार्द्धं वा द्विगुणं स्मृतम् ।
यत्र नोक्तं देवताया रूपं तत्र चतुर्भुजम् ॥ १३५ ॥
अन्वयः — वाहनं मूर्त्तिसदृशं सार्द्धं वा द्विगुणं स्मृतम् । यत्र देवतायाः रूपं न उक्तं तत्र चतुभुर्जं ज्ञेयम् ॥१३५ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 188
पाठ पढ़ें पाठ छिपाएँ
६०० शुक्रनीतिः व्याख्या – वाहनम् = देवतायाः अध्यारोहणम्, मूर्त्तिसदृशम् = प्रतिमातुल्यम्, सार्द्धम् = अर्द्धेण सहैकम्, वा = अथवा, द्विगुणम् = द्विगुणितम्, त्रिगुणम् = त्रिगुणितम्, वा = अथवा, स्मृतम् = कथितम् । यत्र = = यस्मिन् मन्दिरे, देवतायाः = प्रतिष्ठितमूर्त्तेः, रूपम् = आकारम्, न = नहि, उक्तम् = प्रोक्तम्, तत्र = - तस्मिन् मन्दिरे, चतुर्भुजम्, ज्ञेयम् = बोध्यम् ॥ १३५ ॥
हिन्दी – देवता या देवी का वाहन उनकी मूर्ति के अनुरूप डेढ़ गुना या दुगुना बड़ा होना चाहिए । जहाँ देव - विग्रह में बाँहों का उल्लेख न हों, वहाँ चार बाँहों वाली मूर्त्ति स्थापित करनी चाहिए ॥ १३५ ॥
वाहनमिति । वाहनं देवताया इति शेषः, मूर्त्तिसदृशं सार्द्धं अर्द्धसहितं वा द्विगुणं मूर्त्तेरिति शेषः, स्मृतं कथितम् । यत्र देवतायाः रूपं न उक्तं तत्र चतुर्भुजं ज्ञेयमिति शेषः ॥१३५ ॥
अभयं च वरं दद्याद् यत्र नोक्तं यदायुधम् ।
अधः करे तूर्ध्वकरे शङ्खं चक्रं तथाङ्कुशम् ॥ १३६ ॥
पाशं वा डमरुं शूलं कमलं कलसं स्रुवम् ।
लड्डुकं मातुलुङ्गं वीणां मालां च पुस्तकम् ॥ १३७ ॥
अन्वयः — यत्र यत् आयुधं न उक्तं तत्र अधःकरे अभयं वरञ्च, ऊर्ध्वकरे शङ्खं चक्रम् अङ्कुशं पाशं डमरुं शूलं कमलं कलसं स्रुवं लड्डुकं मातुलुङ्गं वीणां माला वा पुस्तकम् ॥ १३६-१३७ ॥ व्याख्या — यत्र = यस्मिन् स्थाने, यत् = यस्य देवस्य, आयुधम् = प्रहरणम्, न = नहि, उक्तम् = कथितम्, तत्र = तस्मिन् स्थाने, अधःकरे = निम्नहस्ते, अभयम् = निर्भयम्, च = पुनः, वरम् = वरदम्, ऊर्ध्वकरे = उपरिहस्ते, शङ्खम् = कम्बुम्, चक्रम् = अस्त्रभेदः, अङ्कुशम् = सृणिः, पाशम् = वागुराख्यशस्त्रभेदः, डमरुम् = गुटिकाद्वययुक्तो वाद्यभेदः, शूलम् = त्रिशूलम्, कमलम् = पद्मम्, कलसम् = घटः, स्रुवम् = यागावयवविशेषः, लड्डुकम् = मोदकः, मातुलुङ्गम्, वीणा = वल्लकी, मालाम् = स्रक्, वा पुस्तकम्, यथामति दद्यात् ॥ १३६-१३७ ॥ हिन्दी —–जहाँ देवता के अस्त्र - शस्त्र का उल्लेख न हो, वहाँ पर नीचे के हाथों में क्रमशः अभय तथा मुद्रा का अंकन करना चाहिए और ऊपर के हाथों में शंख, चक्र, अंकुश, पाश, डमरु, शूल, कमल, कलश, स्रुवा, लड्डू, मातुलुङ्ग, वीणा, माला और पुस्तक का अंकन करना चाहिए ॥ १३६-१३७ ॥ अभयमिति । पाशमिति । यत्र यस्य देवस्य आयुधम् अस्त्रं न उक्तं, तत्र अधःकरे अभयं वरञ्च यथाक्रमेण, ऊर्ध्वकरे तु शङ्खं चक्रम् अङ्कुशं पाशं डमरुं शूलं कमलं कलसं स्रुवं यज्ञाङ्गविशेषं, लड्डुकं, मातुलुङ्गं, वीणां, माला वा पुस्तकं यथारुचि दद्यात् ॥ १३६-१३७ ॥
मुखानां यत्र बाहुल्यं तत्र पङ्क्त्या निवेशनम् ।
तत् पृथग्ग्रीवमुकुटसुमुखं स्वक्षिकर्णयुक् ॥ १३८ ॥
अन्वयः — यत्र मुखानां बाहुल्यं तत्र पङ्क्त्या निवेशनम् । तत् पृथग्ग्रीवमुकुटसुमुखं स्वक्षिकर्णयुक् ॥ १३८ ॥
व्याख्या – यत्र = यस्मिन्मूर्ती, मुखानाम् = आननानाम्, बाहुल्यम् = आधिक्यम्, तत्र = तस्यां प्रतिमायाम्, पङ्क्त्या = श्रेणीक्रमेण, निवेशनम् = स्थापनम् । तत् = तदाननम्, पृथक् = CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 189
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ६०१ भिन्नं भिन्नम्, ग्रीवम् = कण्ठम्, मुकुटम् = किरीटम्, सुमुखम् = प्रसन्नवदनम्, स्वक्षिकर्णयुक् = सुलोचनश्रवणान्वितम्, कार्यम् ॥१३८ ॥
हिन्दी — जिस प्रतिमा में बहुत सारे मुख बनाने हों, वहाँ उन्हें श्रेणीबद्ध बनाना चाहिए । उनके कण्ठ, मुकुट, मुख, आँखें और कानों का भिन्न - भिन्न निर्माण सुन्दर ढंग से होना चाहिए ॥ १३८ ॥
मुखानामिति । यत्र मुखानां बाहुल्यं बहुमुखमित्यर्थः, तत्र पङ्क्त्या श्रेणीक्रमेण निवेशनं मुखानामिति कार्य्यमिति च शेषः । तत् प्रत्येकं मुखमित्यर्थः, पृथग्ग्रीवमुकुटं पृथग्ग्रीवं पृथमुकुटं सुमुखं सुप्रसन्नवदनं स्वक्षिकर्णयुक् शोभननयनकर्णयुतं कार्य्यमिति शेषः ॥१३८ ॥
भुजानां यत्र बाहुल्यं न तत्र स्कन्धभेदनम् ॥ १३ ९ ॥ अन्वयः -यत्र भुजानां बाहुल्यं तत्र स्कन्धभेदनं न कुर्यात् ॥ १३ ९ ॥ व्याख्या— यत्र = यस्यां प्रतिमायाम्, भुजानाम् = बाहूनाम्, बाहुल्यम् = आधिक्यम्, तत्र = तस्मिन्, स्कन्धस्य = कण्ठस्य, भेदनम् = बाहुल्यम्, नहि, कार्यम् ॥ १३ ९ ॥ हिन्दी - जिस मूर्त्ति में अनेक बाँहें बनानी हों वहाँ कन्धों की अधिकता नहीं होनी चाहिए ॥ १३ ९ ॥ भुजानामिति । यत्र भुजानां बाहुल्यं बहुभुजमूर्त्तिरित्यर्थः, तत्र मूर्तौ स्कन्धयोः भेदनं बाहुल्यं न कार्य्यम् ॥ १३ ९ ॥
कूर्परोर्ध्वन्तु सूक्ष्माणि चिपिटानि दृढानि च ।
भुजमूलानि कार्य्याणि पक्षमूलानि वै यथा ॥ १४० ॥
अन्वयः — कूर्परोर्ध्वन्तु भुजमूलानि यथा पक्षमूलानि तथा सूक्ष्माणि चिपिटानि दृढानि कार्याणि ॥ १४० ॥
व्याख्या— कूर्परस्य = कफोणे, ऊर्ध्वन्तु = उपरिभागे तु भुजमूलानि = बाहुकूपानि, यथा, पक्षयोः = पार्श्वयोः, मूलानि, तथा = = तेनैव प्रकारेण, सूक्ष्माणि = गहनानि, चिपिटानि = सपाटानि, दृढानि = सबलानि, कार्याणि = निर्मातव्यानि ॥ १४० ॥
हिन्दी — केहुनी के ऊपर बाँहों की जड़ दोनों बगलों के मूल भाग की तरह सूक्ष्म, चिपटे तथा मजबूत बनानी चाहिए ॥ १४० ॥
कूर्परोर्ध्वमिति । कूर्परस्य कफोणेः ऊर्ध्वन्तु भुजमूलानि यथा पक्षयोः पार्श्वयोः मूलानि, तथा सूक्ष्माणि चिपिटानि दृढानि च कार्य्याणि ॥ १४० ॥
ब्रह्मणस्तु चतुर्दिक्षु मुखानां विनियोजनम् ॥ १४१ ॥
अन्वयः — ब्रह्मणस्तु मुखानां चतुर्दिक्षु विनियोजनम् ॥१४१ ॥
व्याख्या — ब्रह्मणस्तु = सृष्टिकर्तुस्तु, मुखानाम् = आननानाम्, चतुर्दिक्षु = चतुर्णां दिक्षु, विनियोजनम् = स्थापनम्, कुर्यात् ॥ १४१ ॥
हिन्दी - ब्रह्मा की मूर्ति में चारों ओर एक - एक मुख का निर्माण करना चाहिए ॥१४१ ॥
ब्रह्मण इति । ब्रह्मणस्तु मुखानां चतुर्णां विनियोजनं विनिवेशनं चतुर्दिक्षु कर्त्तव्यं न तु पङ्क्तिक्रमेणेत्यर्थः ॥१४१ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 190
पाठ पढ़ें पाठ छिपाएँ
६०२ शुक्रनीतिः
हयग्रीवो वराहश्च नृसिंहश्च गणेश्वरः ।
मुखैर्विना नराकारो नृसिंहश्च नखैर्विना ॥ १४२ ॥
अन्वयः — हयग्रीवः वराहः नृसिंहः गणेश्वरश्च मुखैः विना नराकारः कार्यः । तथा च नृसिंहः नखैश्च विना नराकारः कार्यः ॥१४२ ॥
व्याख्या — हयग्रीवः– अश्वकण्ठः, वराहः = शूकरमुखम्, नृसिंहः = सिंहमुखम्, गणेश्वरः = गजाननम्, मुखैः = आननैः, विना = विहाय, नराकारः = मनुष्याकृतिः, कार्यः = कर्त्तव्यः । तथा नृसिंहः = नरसिंहस्य मूर्त्तिः, नखैः = नखरैः, विना = विहाय, नराकारः = मानवाकारः, कार्यः = निर्मातव्यः इति ॥ १४२ ॥
हिन्दी — हयग्रीव, वराह, नृसिंह और गणेश्वर – इन चार देवताओं की मूर्त्तियों में मुँह छोड़कर शेष अंगों का निर्माण मानवाकार होना चाहिए । नरसिंह की मूर्ति को भी नखों को छोड़कर मानवाकार बनानी चाहिए ॥ १४२ ॥
हयग्रीव इति । हयग्रीवः वराहः नृसिंहः गणेश्वरश्च मुखैर्विना नराकारः मानवाकृतिः कार्य्यः, तथा च हयग्रीवस्य मुखम् अश्वस्येव, वराहस्य मुखं शूकरस्येव, नृसिंहस्य मुखं सिंहस्येव, गणेश्वरस्य मुखं हस्तिन इवेति बोध्यम् । नृसिंहः नखैश्च विना नराकारः सिंहस्येवेति भावः ॥१४२ ॥
तिष्ठतीं सूपविष्टां वा स्वासने वाहनस्थिताम् ।
प्रतिमामिष्टदेवस्य कारयेदुक्तलक्षणाम् ॥
हीनश्मश्रुनिमेषां च सदा षोडशवार्षिकीम् ।
दिव्याभरणवस्त्राढ्यां दिव्यवर्णक्रियां सदा ।
वस्त्रैरापादगूढां च दिव्यालङ्कारभूषिताम् ॥
कार्य्यः नृसिंहस्य नखाः १४३ ॥ १४४ ॥ अन्वयः – स्वासने तिष्ठतीं सूपविष्टां वाहनस्थितां हीनश्मश्रुनिमेषां सदा षोडशवार्षिकीं दिव्याभरणवस्त्राढ्यां दिव्यवर्णक्रियां वस्त्रैरापादगूढां दिव्यालङ्कारभूषिताम् उक्तलक्षणाम् इष्टदेवस्य प्रतिमां कारयेत्॥१४३-१४४ ॥ व्याख्या – स्वासने — स्वस्य = आत्मनः आसने = उपवेशने, तिष्ठतीम् = विराजतीम्, सूप-विष्टाम् = सुखेनोपविशन्तीं वा, वाहने = आरोहणे, सिंहादौ स्थिताम् = आरूढाम्, हीनश्मश्रुनिमेषाम् = श्मश्रुरहितां निर्निमेषाम्, सदा = - सर्वदा, षोडशवार्षिकीम् = तरुणीरूपाम्, दिव्याभरणवस्त्राढ्याम् — दिव्यैः = स्वर्गीयैः, आभरणैः = आभूषणैः, वस्त्राढ्यैः = वसनप्रभृतिभिः, समन्विताम् = संयुक्ताम्, दिव्यवर्णक्रियाम् - दिव्या = स्वर्गीया, वर्णाः = आकृतयः, क्रियाश्च यस्याः ताम्, वस्त्रैः = वसनैः, आपादगूढाम् = चरणपर्यन्तप्रच्छन्नाम्, तथा दिव्यालङ्कारशोभिताम् अलौकिकाभरणभूषिताम्, उक्तलक्षणाम्,, देवीप्रतिमां कारयेत् = रचयेत् ॥ १४३ ॥
हिन्दी — अपने आसन पर विराजती अथवा सुखपूर्वक बैठी हुई अथवा वाहन पर स्थित दाढ़ी - मूँछ रहित, पलक न झपकाने वाली, सदा षोडशी, दिव्य आभूषण एवं वस्त्रों वाली, दिव्यवर्ण एवं क्रिया वाली, वस्त्रों से पैर तक ढकी हुई, दिव्य अंलकारों से भूषित, पूर्वोक्त लक्षणों से युक्त अपने इष्टदेव या देवी की प्रतिमा बनवानी चाहिए ॥। १४३-१४४ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA