शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 171–180
शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 171–180
पृष्ठ 171
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ५८३ अन्वयः— हिरण्यकशिपुः वृत्रः हिरण्याक्षः रावणः कुम्भकर्णः नमुचिः निशुम्भः शुम्भः माहिषः तथा रक्तबीजकः एते षोडशतालाः स्युः । बालाः पञ्चतालाः तथा कुमारकाः षट्तालाः स्मृताः ॥ ८७-८८ ॥ व्याख्या – हिरण्यकशिपुः = हिरण्याक्षभ्राता, प्रह्लादस्य पिता दैत्यविशेषः, वृत्रः = वृत्रासुरः, हिरण्याक्षः = हिरण्यकशिपोः भ्राता, रावणः = लङ्काधिपतिः, कुम्भकर्णः = रावणभ्राता, नमुचिः = दैत्यविशेषः, निशुम्भः = शुम्भस्य भ्राता, शुम्भः = निशुम्भस्य भ्राता, माहिषः = महिषासुरः, तथा रक्तबीजकः = असुरविशेषः, एते = दानवमूर्त्तिभेदाः, षोडशतालाः = षोडशतालमिताः समुन्नताः, स्युः = भवेयुरिति । बालाः = = शिशुप्रतिमाः 1, पञ्चतालाः = पञ्चतालमितोच्चाः, तथा कुमारकाः = शैशवातिक्रान्ताः प्रतिमाः, षट्तालाः = षट्तालमितोच्चाः, स्मृताः = कथिताः ॥ ८७-८८ ॥ हिन्दी — हिरण्यकशिपु, वृत्रासुर, हिरण्याक्ष, रावण, कुम्भकर्ण, नमुचि, निशुम्भ, शुम्भ, महिषासुर तथा रक्तबीज — इन सभी असुरों की प्रतिमाएँ सोलह ताल ऊँची होती हैं । बालभाव की प्रतिमा पाँच ताल ऊँची तथा कुमारभाव की प्रतिमा छः ताल ऊँची बनानी चाहिए ॥ ८७-८८ ॥ हिरण्येति । हिरण्यकशिपुः, वृत्रः, हिरण्याक्षः, रावणः, कुम्भकर्णः, नमुचिः, निशुम्भः, शुम्भः, माहिषः महिषासुरः तथा रक्तबीजकः एते असुरमूर्त्तिभेदाः षोडशतालाः स्युः । किञ्च बालाः शिशुमूर्त्तयः पञ्चतालाः तथा कुमारकाः शैशवातिक्रान्ताः अतरुणाश्च मूर्त्तयः षट्तालाः स्मृताः ॥ ८७-८८ ॥
दशताला कृतयुगे त्रेतायां नवतालिका ।
अष्टताला द्वापरे तु सप्तताला कलौ स्मृता ॥ ८ ९ ॥
अन्वयः — कृतयुगे दशताला, त्रेतायां नवतालिका, द्वापरे अष्टताला, कलौ तु सप्तताला स्मृता ॥ ८ ९ ॥ व्याख्या — कृतयुगे = सत्ययुगे, देवमूर्त्तिः, दशताला = दशतालपरिमितोच्चा, त्रेतायाम् = त्रेतायुगे, देवमूर्त्तिः, नवतालिका = नवतालपरिमितोच्चा, द्वापरे = द्वापरयुगे, अष्टताला = अष्टतालपरिमितोच्चा मूर्त्तिः, कलौ = कलियुगे, सप्तताला = सप्ततालोच्चा मूर्त्तिः स्युरिति ॥८ ९ ॥ हिन्दी - सत्ययुग में दश ताल ऊँची प्रतिमा, त्रेता में नौ ताल, द्वापर में आठ ताल, कलियुग में सात ताल ऊँची प्रतिमा बनाने का विधान है ॥ ८ ९ ॥ अथ सामान्येन मूर्त्तिभेदं निरूपयति — दशेति । कृतयुगे सत्ये मूर्त्तिः दशताला, त्रेतायां नवतालिका, द्वापरे अष्टताला, कलौ सप्तताला स्मृता ॥ ८ ९ ॥
नवतालप्रमाणे तु मुखं तालिमितं स्मृतम् ।
चतुरङ्गुलं ललाटं स्यादधो नासा तथैव च॥९ ० ॥
अन्वयः – नवतालप्रमाणे मुखं तालिमितं स्मृतम् । ललाटं चतुरङ्गुलं, तदधः नासा तथैव स्यात् ॥ ९ ० ॥ व्याख्या – नवतालप्रमाणे = नवतालपरिमितं, प्रतिमानिर्माणे, मुखम् = आननम्, तालिमितम् = एकतालप्रमाणम्, स्मृतम् = कथितम् । ललाटम् = भालम्, चतुरङ्गुलम् = तुरीयाङ्गुलि-परिमितम्, तत् = तस्य, अधः = अधोभागे, नासा = नासिका, तथैव = पूर्वरूपेणैव चतुरङ्गुलेति यावत् ॥९ ० ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 172
पाठ पढ़ें पाठ छिपाएँ
५८४ शुक्रनीतिः हिन्दी – यदि नौ ताल ऊँची प्रतिमा हो तो उसका मुख एकताल, उसका ललाट चार अंगुल तथा उसके नीचे नाक तक का भाग दो अंगुल का होना चाहिए ॥ ९ ० ॥ नवेति । नवतालप्रमाणे नवतालपरिमितमूर्त्तिनिर्माणे इत्यर्थः, मुखं तालिमितम् एकतालपरिमितं स्मृतं, ललाटं चतुरङ्गुलं, तदधः नासा तथैव चतुरङ्गुला इत्यर्थः स्यात् ॥९ ० ॥
नासिकाधश्च हन्वन्तं चतुरङ्गुलमीरितम् ।
चतुरङ्गुला भवेद् ग्रीवा तालेन हृदयं पुनः ॥ ९ १ ॥
अन्वयः – नासिकाधश्च हन्वन्तं चतुरङ्गुलम् ईरितम् । ग्रीवा च चतुरङ्गुला भवेत्, पुनः हृदयं तालेन ॥ ९ १ ॥ व्याख्या – नासिकाधश्च – नासिकायाः = घ्राणस्य, अधः = निम्नभागे, च = पुनः, हन्वन्तम् = कपोलद्वयपरमुखभागपर्यन्तम्, चतुरङ्गुलम् = चतुरङ्गुलिमितम्, ईरितम् = कथितम् । च = पुनः, ग्रीवा = कण्ठः, चतुरङ्गुला = चतुरङ्गुलिप्रमाणमेव, भवेत्, पुनः = भूयः, हृदयम् = वक्षःस्थलम्, तालेन = तालपरिमाणेन स्यादिति ॥ ९ १ ॥ हिन्दी — नाक के नीचे ठुड्डी तक का भाग चार अंगुल का बनाना चाहिए । फिर चार अंगुल का कंठ तथा एकताल का हृदय होना चाहिए ॥ ९ १ ॥ नासिकाध इति । नासिकाया अधः निम्ने च हन्वन्तं हनुपर्य्यन्तं चतुरङ्गुलम् ईरितम् उक्तम् । ग्रीवा च चतुरङ्गुला भवेत्, हृदयं पुनः वक्षःस्थलन्तु तालेन परिमाणेन भवेदिति शेषः॥९ १ ॥
नाभिस्तस्मादधः कार्य्या तालेनैकेन शोभिता ।
नाभ्यधश्च भवेन्मेङ्गं भागेनैकेन वा पुनः ॥ ९ २ ॥
अन्वयः — तस्मादधः एकेन तालेन शोभिता नाभिः कार्या । नाभेः अधः एकेन भागेन मेढूं भवेत् ॥९ २ ॥ व्याख्या— तस्मात् = वक्षःस्थलात्, अधः = निम्नभागे, एकेन = मात्रैकेन, तालेन = तालप्रमाणेन, शोभिता = भूषिता, नाभिः = उदरावर्त्तः कार्या = विधेया । नाभेः = तुन्दिकायाः, अधः = = अधोभागे, एकेन भागेन = अनुरूपांशेन, मेढ्रम् = लिङ्गम्, भवेत् = स्यात् ॥ ९ २ ॥ हिन्दी — छाती के नीचे एकताल की दूरी पर सुन्दर नाभि का निर्माण करना चाहिए और नाभिकुंड से नीचे लिंग पर्यन्त एक ताल की दूरी होनी चाहिए॥९ २ ॥ नाभिरिति । तस्मात् हृदयात् अधः एकेन तालेन शोभिता शोभना नाभिः कार्य्या । नाभेः अधश्च एकेन भागेन केनचित् अनुरूपेण अंशेन इत्यर्थः मेढूं लिङ्गं भवेत् ॥९ २ ॥
द्वितालौ ह्यायतावूरू जानुनी चतुरङ्गुले ।
जङ्घे ऊरुसमे कार्य्ये गुल्फाधश्चतुरङ्गुलम् ॥ ९ ३ ॥
अन्वयः – ऊरू द्वितालौ आयतौ चतुरङ्गुले जानुनी जङ्घे ऊरुसमे कार्ये, गुल्फाधः चतुरङ्गुलम् ॥९ ३ ॥ व्याख्या — ऊरू = सक्थिनी, जानूपरिभागौ, द्वितालौ = तालद्वयपरिमितौ, आयतौ = दीर्घौ, - जानुनी = ऊरुपर्वणी, चतुरङ्गुले = तुरीयाङ्गुलिप्रमाणे, जङ्घे = टक्किके च, ऊरुसमे = ऊरुतुल्ये CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 173
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ५८५ कार्ये, गुल्फयोश्च = घुटिकयोश्च, अधः = निम्नभागे, चतुरङ्गुलम् - = अङ्गुलिचतुष्टयपरिमितम्, सम्पाद्यमिति ॥ ९ ३ ॥ हिन्दी — दो ताल लम्बी दोनों जाँघें, चार अंगुल परिमित दोनों घुटने, जंघे की तरह ही दोनों घुटने और एडी के ऊपर की गाँठ को चार अंगुल परिमित बनाना चाहिए ॥९ ३ ॥ द्वितालाविति । ऊरू द्वितालौ तालद्वयपरिमितौ आयतौ दीर्घौ, जानुनी च चतुरङ्गुले, जङ्घे च ऊरुसमे कार्य्ये । गुल्फयोश्च अधः चतुरङ्गुलम् अङ्गुलचतुष्टयपरिमितं कार्य्यमिति शेषः॥९ ३ ॥ नवतालात्मकमिदमूर्ध्वमानं बुधैः स्मृतम्॥९ ४ ॥ अन्वयः — इदं नवतालात्मकं बुधैः ऊर्ध्वमानं स्मृतम् ॥ ९ ४ ॥ व्याख्या — इदम् = एतत्, नवतालात्मकम् = नवतालपरिमितम्, बुधैः पण्डितैः, ऊर्ध्वमानम् = प्रतिमायाः उच्चता, स्मृतम् = कथितम् ॥ ९ ४ ॥ हिन्दी — इस तरह शास्त्रज्ञों ने नौ ताल ऊँची प्रतिमा का विभागपूर्वक वर्णन किया है ॥९ ४ ॥ नवेति । इदं नवतालात्मकं बुधैः पण्डितैः ऊर्ध्वमानं दैर्घ्यपरिमाणं स्मृतम्॥९ ४ ॥
शिखावधि तु केशान्तं त्र्यङ्गुलं सर्वमानतः ।
दिशानया च विभजेत् सप्ताष्टदशतालिकम् ॥ ९ ५ ॥
अन्वयः — सर्वमानतः शिखावधि केशान्तं त्र्यङ्गुलम् । अनया दिशा सप्ताष्टदशतालिकं विभजेत् ॥९ ५ ॥ व्याख्या — सर्वमानतः — सर्वस्मिन् = समग्रे, मानतः परिमाणे, शिखावधि =: जुटिका-पर्यन्तम्, केशान्तम् = कचपर्यन्तम्, त्र्यङ्गुलम् = अङ्गुलित्रयमानम् । अनया दिशा = अनेन मार्गेण, नवतालप्रमाणोक्तरीत्या, सप्ताष्टदशतालिकम् = सप्ततालपरिमितम्, अष्टतालमितम्, दशताल-प्रमाणञ्च, विभजेत् = त्रैराशिकविधिना विभागं कुर्यात् ॥९ ५ ॥ हिन्दी - प्रतिमा चाहे जिस माप की हो, सभी मापों में चोटी तक केशों का मान तीन अंगुल ही होना चाहिए । इस तरह सात, आठ और दस ताल ऊँची प्रतिमा का अंग - विभाजन त्रैराशिक नियम से करना चाहिए ॥ ९ ५ ॥ शिखावधीति । सर्वमानतः सर्वस्मिन् परिमाणे शिखावधि केशान्तं परिमाणं त्र्यङ्गुलम् अङ्गुलत्रयं ज्ञेयमिति शेषः । अनया दिशा नवतालप्रमाणोक्तया रीत्या इत्यर्थः, सप्ताष्टदशतालिकं सप्ततालप्रमाणम् अष्टतालप्रमाणं दशतालप्रमाणञ्च विभजेत् त्रैराशिकक्रमेण विभक्तं कुर्य्यादित्यर्थः॥९ ५ ॥
चतुस्तालात्मकौ बाहू ह्यङ्गल्यन्तावुदाहृतौ ।
स्कन्धादिकूर्परान्तं च विंशत्यङ्गलमुत्तमम् ॥ ९ ६ ॥
अन्वयः — अङ्गुल्यन्तौ बाहू चतुस्तालात्मकौ उदाहृतौ । स्कन्धादिकूर्परान्तं विंशत्यङ्गुलम् उत्तमम् ॥९ ६ ॥ व्याख्या — अङ्गुल्यन्तौ = अङ्गुलिपर्यन्तम्, चतुस्तालात्मकौ = तालतुरीयपरिमितौ, उदाहृतौ = कथितौ । स्कन्धादिकूर्परान्तम् = भुजमूलात् कूर्परपर्यन्तम्, विंशत्यङ्गुलम् = विंशतिअङ्गुलि-परिमाणम्, उत्तमम् = उत्कृष्टं भवति ॥ ९ ६ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 174
पाठ पढ़ें पाठ छिपाएँ
५८६ शुक्रनीति: हिन्दी - कंधे से लेकर अंगुली तक दोनों बाहों की लम्बाई चार ताल कही गई है । कंधे से केहुनी तक की लम्बाई बीस अंगुल बतलाई गई है ॥ ९ ६ ॥ चतुरिति । अङ्गुल्यन्तौ अङ्गुलिपर्य्यन्तौ बाहू चतुस्तालात्मकौ तालचतुष्टयपरिमितौ उदाहृतौ कथितौ । स्कन्धादि कूर्परान्तं कफोणिपर्य्यतं विंशत्यङ्गुलं विंशत्या अङ्गुलैः परिमितम् उत्तमं ज्ञेयमिति अध्याहार्य्यम् ॥९ ६ ॥
त्रयोदशाङ्गुलं चाधः कक्षायाः कूर्परान्तकम् ।
अष्टाविंशत्यङ्गुलस्तु मध्यमान्तः करः स्मृतः ॥ ९ ७ ॥
अन्वयः —– कक्षायाः अधः कूर्परान्तकं त्रयोदशाङ्गलं मध्यमान्तः अष्टाविंशत्यङ्गुलः करः स्मृतः॥९ ७ ॥ व्याख्या— कक्षायाः = = भुजकोटरात्, अधः = अधोभागे, कूर्परान्तकम् = कूर्परपर्यन्तम्, त्रयोदशाङ्गुलम् = त्रयोदशभिः अङ्गुलैः परिमाणं भवेदिति, तथा मध्यमान्तः = मध्यमाऽङ्गुलिपर्यन्तः, अष्टाविंशात्यङ्गुलैः, मितम्, करः = हस्तः, स्मृतः = कथितः इति ॥९ ७ ॥ हिन्दी — काँख से लेकर केहुनी तक की लम्बाई तेरह अंगुल होनी चाहिए । केहुनी से लेकर मध्यमा अंगुली तक हाथ की लम्बाई अट्ठाईस अंगुल होनी चाहिए ॥ ९ ७ ॥ त्रयोदशेति । कक्षायाः अधः कूर्परान्तकं कफोणिपर्य्यन्तं त्रयोदशाङ्गुलं त्रयोदशभिरङ्गुलैः परिमितं स्यादित्यर्थः, तथा मध्यमान्तः मध्यामाङ्गुलिपर्य्यन्तः अष्टाविंशत्या अङ्गुलैः परिमितः करः स्मृतः॥९ ७ ॥
सप्ताङ्गुलं करतलं मध्या पञ्चाङ्गुला मता ।
सार्द्धत्रयाङ्गुलोऽङ्गुष्ठस्तर्जनीमूलपर्वभाक् ॥ ९ ८ ॥
पर्वद्वयात्मकोऽन्यासां पर्वाणि त्रीणि त्रीणि तु ।
अर्द्धाङ्गुलेनाङ्गुलेन हीनानामा च तर्जनी ।
कनिष्ठिकानामिकातोऽङ्गुलोना च प्रकीर्त्तिता ॥ ९९ ॥
अन्वयः — करतलं सप्ताङ्गुलं मध्या पञ्चाङ्गुला मता । अङ्गुष्ठः सार्द्धत्रयाङ्गुलः तर्जनीमूलपर्वभाक् पर्वद्वयात्मकः अन्यासां त्रीणि त्रीणि पर्वाणि भवन्ति । अनामा अर्द्धाङ्गुलॆन च तर्जनी अङ्गुलेन हीना तथा कनिष्ठिका अङ्गुलोना प्रकीर्त्तिता ॥ ९ ८ - ९९ ॥ व्याख्या — करतलम् = हस्ततलं प्रहस्तो वा, सप्ताङ्गुलम् – सप्तभिः = ऋषिभिः, अङ्गुलैः = करशाखाभिः परिमितम्, मध्या = मध्यमा, अङ्गुलिः, पञ्चाङ्गुला = पञ्चभिः अङ्गुलैः मिता, अङ्गुष्ठः = वृद्धाङ्गुलिः सार्द्धत्रयाङ्गुलः – सार्द्धेन = अर्द्धेन सह अङ्गुलत्रयेण परिमितः, तर्जन्या = अङ्गुष्ठ- समीपाङ्गुल्या, मूलपर्वभाक् = प्रथमपर्वपर्यन्तोन्नतः, पर्वद्वयात्मकः = अङ्गुलिप्रन्थद्वितययुक्तः, भवेत्, अन्यासाम् = तर्जनीप्रभृतीनाम्, त्रीणि त्रीणि, पर्वाणि = ग्रन्थानि, भवन्ति, अनामा = अनामिकाङ्गुलिः, अर्द्धाङ्गुलेन = अर्द्धाङ्गुलपरिमितेन, तर्जनी = प्रदेशिनी, अङ्गुलेन = करशाखया, हीना = न्यूना, मध्यमाया इति । तथा कनिष्ठिका = कनीनी अङ्गुलिस्तु, अनामिकातः = उपकनिष्ठिकाया अङ्गुलोना = एकाङ्गुलेन हीना, प्रकीर्त्तिता = कथिता ॥ ९ ८ - ९९ ॥ हिन्दी – उनमें हथेली सात अंगुल की और मध्यमा अंगुली पाँच अंगुल लम्बी मानी गई CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 175
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ५८७ है । अंगूठे की लम्बाई साढ़े तीन अंगुल और तर्जनी के मूल भाग तक पहुँचाने वाली एवं दो पोर वाली होनी चाहिए और अन्य सभी अंगुलियों में तीन पोर होने चाहिए । मध्यमा अंगुली से आधी अंगुली छोटी अर्थात् साढ़े तीन अंगुल लम्बी अनामिका अंगुली और एक अंगुल छोटी तर्जनी अंगुली होनी चाहिए ॥ ९ ८ - ९९ ॥ सप्ताङ्गुलमिति । पर्वद्वयात्मक इति । करतलं सप्ताङ्गुलं सप्तभिरङ्गुलैः परिमितं, मध्या मध्यमा अङ्गुलिः पञ्चाङ्गुला पञ्चभिः अङ्गुलैः परिमिता, अङ्गुष्ठः सार्द्धत्रयाङ्गुलः सार्द्धेन अङ्गुलत्रयेण परिमितः, तर्जन्या मूलपर्वभाक् प्रथमपर्वपर्य्यन्तोन्नतः पर्वद्वयात्मकः पर्वद्वितययुक्तः भवेदिति शेषः । अन्यासां तर्जनीप्रभृतीनां त्रीणि त्रीणि पर्वाणि भवन्ति । अनामा अनामिका अङ्गुलिः अर्द्धाङ्गुलेन, तर्जनी अङ्गुलेन हीना मध्यमाया इति शेषः । तथा कनिष्ठिका कनिष्ठा अङ्गुलिस्तु अनामिकातः अनामायाः अङ्गुलोना एकाङ्गुलहीना प्रकीर्त्तिता ॥९ ८ - ९९ ॥ चतुर्दशाङ्गुलौ पादौ ह्यङ्गुष्ठो द्व्यङ्गुलो मतः ।
सार्द्धद्वयाङ्गलोऽङ्गुष्ठस्तन्मिता वा प्रदेशिनी ।
प्रदेशिनी द्व्यङ्गुला तु सार्द्धाङ्गुलमथेतराः ॥ १०० ॥
अन्वयः — पादौ चतुर्दशाङ्गुलौ । तत्र अङ्गुष्ठः द्व्यङ्गुलः मतः, गुल्फः सार्द्धद्वयाङ्गुलः प्रदेशिनी तन्मिता वा द्व्यङ्गुला, इतराः सार्द्धाङ्गुलम् ॥१०० ॥
व्याख्या – पादौ = चरणौ, चतुर्दशाङ्गुलौ = चतुरधिकदशाङ्गुलिपरिमितौ, तत्र, अङ्गुष्ठः = वृद्धाङ्गुलिः, द्व्यङ्गुलः = अङ्गुलिद्वयपरिमितः, मतः = कथितः अङ्गुष्ठः = गुल्फः सार्द्धद्वया-ङ्गुलः = अर्द्धेण सहितमङ्गुलिद्वयपरिमितः, प्रदेशिनी = तर्जनी, तन्मिता = सार्द्धद्वितयाङ्गुलपरिमिता, वा = अथवा, द्व्यङ्गुला = अङ्गुलिद्वितयपरिमिता, इतराः = मध्यमादयः, सार्द्धाङ्गुलम् = अर्द्धेण सहैकाङ्गुलपरिमितेति ॥ १०० ॥
हिन्दी – चौदह अंगुल लम्बे दोनों पैर होने चाहिए | उनमें अगुंठा दो अंगुल लम्बा और तर्जनी भी दो अंगुल प्रमाण की अथवा अँगूठा और तर्जनी ढाई अंगुल प्रमाण की तथा अन्य अंगुलियाँ डेढ़ - दो अंगुल प्रमाण की होनी चाहिए ॥१०० ॥
चतुर्दशाङ्गुलाविति । पादौ चतुर्दशाङ्गुलौ चतुर्दशाङ्गुलपरिमितौ तत्र अङ्गुष्ठः द्व्यङ्गुलः अङ्गुलद्वयपरिमितः मतः कथितः । गुल्फः सार्द्धद्वयाङ्गुलः सार्द्धद्वितयाङ्गुलपरिमितः । प्रदेशिनी तर्जनी तन्मिता सार्द्धद्वितयाङ्गुलपरिमिता वा द्व्यङ्गुला अङ्गुलद्वयपरिमिता । इतराः मध्यमादयः सार्द्धाङ्गुलं सार्द्धाङ्गुलपरिमिता इत्यर्थः ॥१०० ॥
शिरोज्झितौ पाणिपादौ गूढगुल्फौ प्रकीर्त्तितौ ॥ १०१ ॥
अन्वयः — पाणिपादौ शिरोज्झितौ तथा गुल्फौ गूढ़ौ प्रकीर्त्तिर्तौ ॥१०१ ॥
व्याख्या – पाणिपादौ = करचरणौ शिराभिः = धमनीभि: ( Vein ), उज्झितौ = रहितौ, तथा गुल्फौ = घुण्टकौ, गूढौ = प्रच्छन्नौ, प्रकीर्त्तितौ = कथितौ ॥१०१ ॥
हिन्दी — हाथ और पैरों का निर्माण ऐसा होना चाहिए जिनमें नसें और गाँठें न दीख पड़ें ॥१०१ ॥
शिरोज्झितौ इति । पाणिपादौ शिराभिः उज्झितौ विरहितौ तथा गुल्फौ गूढौ अप्रकाशी प्रकीर्त्तितौ कथितौ ॥१०१ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 176
पाठ पढ़ें पाठ छिपाएँ
५८८ शुक्रनीतिः
तद्विज्ञैः प्रस्तुता ये ये मूर्त्तेरवयवाः सदा ।
न हीना नाधिका मानात् ते ते ज्ञेयाः सुशोभनाः ॥ १०२ ॥
अन्वयः — ये ये मूर्त्तेः अवयवाः सदा तद्विज्ञैः प्रस्तुताः ते ते मानात् न हीनाः नाधिकाः सुशोभनाः ज्ञेयाः ॥१०२ ॥
व्याख्या – ये ये = यानि यानि, मूर्तेः -- प्रतिमायाः, अवयवाः = अङ्गानि, सदा =: नित्यम् 1, तत् = तेषाम्, विदैः = विज्ञैः, प्रस्तुताः = निर्मिताः, ते ते मानात् = परिमाणात्, न = =: नहि, हीनाः = न्यूनाः, न = नहि, अधिकाः = विशेषाः, प्रत्युत अनुरूपाः, अत एव सुशोभनाः = आकर्षकाः, ज्ञेयाः = बोध्याः ॥ १०२ ॥
हिन्दी – अच्छे मूर्त्तिकार के द्वारा निर्मित मूर्ति के जो - जो अवयव हों वे सब यदि शास्त्रोक्त मान से न कम और न ज्यादे हों, तभी उसे अत्यन्त सुन्दर मानना चाहिए ॥ १०२ ॥
तद्विज्ञैरिति । ये ये मूर्त्तेः अवयवाः अङ्गानि सदा तद्विज्ञैः मूर्त्यभिज्ञैः प्रस्तुताः प्रशंसिताः, ते ते मानात् परिमाणात् न हीना अन्यूना इत्यर्थः, तथा नाधिकाः अनधिकाः अनुरूपा इत्यर्थः, अत एव सुशोभनाः ज्ञेयाः ॥ १०२ ॥
न स्थूला न कृशा वापि सर्वे सर्वमनोरमाः ॥ १०३ ॥
अन्वयः — किञ्च सर्वे न स्थूलाः तथा न कृशाश्चेत् सर्वमनोरमाः भवन्ति ॥ ०३ ॥
व्याख्या — किञ्च, सर्वे = सकलाङ्गानि, न = नहि, स्थूलाः = तुन्दिलाः, तथा = - तेनैव प्रकारेण, न = नहि, कृशाः = दुर्बलाः, चेत् = भवेत्, तदा सर्वमनोरमाः = सर्वेषां हृदयहारिणी भवन्ति ॥ हिन्दी — और प्रतिमा के सभी अवयव यदि न अधिक मोटे हों और न अधिक पतले, तभी हर तरह से उन्हें सुन्दर मानना चाहिए ॥ १०३ ॥
नेति । किञ्च सर्वे अवयवाः न स्थूलाः तथा न कृशाश्चेत् तथा सर्वमनोरमाः भवन्तीति शेषः ॥ १०३ ॥
सर्वाङ्गैः सर्वरम्यो हि कश्चिल्लक्षे प्रजायते ।
शास्त्रमानेन यो रम्यः स रम्यो नान्य एव हि ॥। १०४ ॥
अन्वयः — कश्चित् लक्षे सर्वाङ्गैः सर्वरम्यः हि प्रजायते, किञ्च शास्त्रमानेन यः रम्यः अन्यः न हि ॥१०४ ॥
व्याख्या — कश्चित् = कोऽपि मूर्त्तिभेदः, लक्षे = लक्षसंख्यकावधिमिते, सर्वाङ्गैः = सर्वतो-भावेन, रम्यः = मनोरमः, प्रजायते = भवत्येव, हि = यतः, शास्त्रमानेन, = शास्त्रमितेन, यः = या मूर्त्तिः, रम्यः = = आकर्षकः, स एव = तदेव, रम्यः = सुन्दरम्, अन्यः = शास्त्रमानविरहितः, न हि = नैव मनोरमो भवति ॥ १०४ ॥
हिन्दी — लाखों में कोई एक प्रतिमा ही सबके लिए सर्वाङ्गसुन्दर बनती है, परन्तु शास्त्र-विधान की दृष्टि से जो सुन्दर है वही सुन्दर है; अन्य नहीं ॥१०४ ॥
सर्वाङ्गैरिति । कश्चित् मूर्त्तिभेदः लक्षे लक्षसंख्यकावधिमिते सर्वाङ्गैः सर्वेषां रम्यः मनोरमः प्रजायते हि भवत्येव, किन्तु शास्त्रमानेन शास्त्रपरिमाणेन यः रम्यः, स एव रम्यः, अन्यः शास्त्राप्रमाणेन न हि नैव रम्य इत्यर्थः ॥ १०४ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 177
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ५८ ९ एकेषामेव तद्रम्यं लग्नं यत्र च यस्य हृत् ॥ १०५ ॥
अन्वयः — यत्र च यस्य हृत् लग्नं तत् रम्यम् इति एकेषामेव ॥ १०५ ॥
व्याख्या — च = पुनः, यत्र = यस्यां प्रतिमायाम्, यस्य = जनस्य, हृत् = चित्तम्, लग्नम् = आसक्तम्, तत् = सैव प्रतिमा, तस्मै मनोहरा, इति एकेषाम् = केषांश्चित् जनानां मते ॥ १०५ ॥
हिन्दी — कुछ लोगों के विचार में जिसका मन जिस प्रतिमा में लग गया, वही उसके लिए सुन्दर है ॥ १०५ ॥
शास्त्रेति । शास्त्रमानविहीनं शास्त्रीयपरिमाणविरुद्धं यत् प्रतिबिम्बं तत् विपश्चितां विदुषाम् अरम्यं न मनोरममित्यर्थः । यत्र च यस्य हृत् हृदयं लग्नं तत् रम्यम् इति एकेषां केषाञ्चित् मतमिति शेषः ॥ १०५ ॥
शास्त्रमानविहीनं यदरम्यं तद्विपश्चिताम् ।
अष्टाङ्गुलं ललाटं स्यात् तावन्मात्रौ भ्रुवौ मतौ ॥ १०६ ॥
अन्वयः — शास्त्रमानविहीनं यत् विपश्चितां तत् अरम्यम् । ललाटम् अष्टाङ्गुलं स्यात्, भ्रुवौ तावन्मात्रौ मतौ ॥ १०६ ॥
व्याख्या— शास्त्रमानविहीनम् — शास्त्रस्य = धर्मग्रन्थस्य, यन्मानम् = = 1 परिमाणम्, तेषां विहीनम् = रहितम्, यत् = या मूर्त्तिः, विपश्चिताम् = विदुषाम्, तत् = प्रतिमा, अरम्यम् = अमनोरमा । ललाटम्, तस्याः प्रमाणितायाः मूर्तेः, अष्टाङ्गुलम् = अङ्गुल्याष्टपरिमितम्, स्यात् = भवेत्, भ्रुवौ = चिल्लिके, तावन्मात्रौ – = अष्टाङ्गुलिपरिमाणौ मतौ ॥ १०६ ॥
हिन्दी — किन्तु विद्वानों की दृष्टि में जो शास्त्रीय मान के विरुद्ध प्रतिमा बनी है, वही असुन्दर है । वैसे मूर्त्ति का ललाट आठ अंगुल चौड़ा तथा दोनों भौहें मिलाकर उतनी ही होनी चाहिए ॥ १०६ ॥
अष्टाङ्गुलमिति । ललाटम् अष्टाङ्गुलम् अष्टाङ्गुलपरिमितं स्यात् । भ्रुवौ च तावन्मात्रे अष्टाङ्गुलपरिमाणे मते ॥१०६ ॥
अर्द्धाङ्गुला भ्रुवोर्लेखा मध्ये धनुरिवायता ।
नेत्रे चॅ त्र्यङ्गुलायामे द्व्यङ्गुले विस्तृते शुभे ॥१०७ ॥
अन्वयः — भ्रुवोः लेखा अर्द्धाङ्गुलमध्ये धनुरिवायता । नेत्रे च त्र्यङ्गुलायामे द्व्यङ्गुले विस्तृते शुभे ॥ १०७ ॥
व्याख्या- ' -भुवोः = भूलतयोः, लेखा = रेखा, मध्ये = मध्यभागे, अर्द्धाङ्गुला = अङ्गुलार्ध-परिमिता, तथा धनुरिव = धनुषाकारमिव, आयता = विस्तृता । नेत्रे = नयने, च, त्र्यङ्गुलायामे अङ्गुलत्रयपरिमितविस्तारे, तथा विस्तृते = दीर्घे च, द्व्यङ्गुले = अङ्गुलिद्वयपरिमितविस्तारे, शुभे = मङ्गलदे च भवति ॥ १०७ ॥
हिन्दी —– दोनों भौंहों की चौडाई आधा अंगुलं और बीच में धनुष की तरह कुछ ऊपर उठी हुई होनी चाहिए । आँखों की लम्बाई तीन अंगुल और चौड़ाई दो अंगुल तथा देखने में सुन्दर प्रतीत हों ॥१०७ ॥
अर्द्धाङ्गुलेति । भ्रुवोः लेखा रेखा मध्ये अर्द्धाङ्गुला अङ्गुलार्द्धपरिमिता तथा धनुरिव आयता CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 178
पाठ पढ़ें पाठ छिपाएँ
५ ९ ० शुक्रनीतिः विस्तृता । नेत्रे च द्व्यङ्गुलायामे अङ्गुलद्वयदीर्घे तथा विस्तृते विस्तारे च द्व्यङ्गुले अङ्गुलद्वयमिते शुभे शोभने च कार्य्ये इति शेषः ॥ १०७ ॥
तारका तत्तृतीयांशा नेत्रयोः कृष्णरूपिणी ।
द्व्यङ्गुलं तु भ्रुवोर्मध्यं नासामूलमथाङ्गुलम् ॥ १०८ ॥
अन्वयः — नेत्रयोः तारका कृष्णरूपिणी तत्तृतीयांशा, भ्रुवोर्मध्यं तु द्व्यङ्गुलं, नासामूलञ्च अथाङ्गुलम् व्याख्या ॥१०८ — नेत्रयोः– ॥ नयनयोः, तारका = - कनीनिका, कृष्णरूपिणी = असितवर्णा, तत्तृतीयांशः – तत् = तस्य नेत्रस्य, तृतीयांशः = तृतीयभागपरिमिता, कार्या, भुवोः = चिल्लिकयोः, मध्यं तु = मध्यभागं तु, द्व्यङ्गुलम् = अङ्गुलद्वयपरिमितम्, नासामूलञ्च = नासिकायाः मूलभागम्, मूलांशम्, अङ्गुलम् = एकाङ्गुलपरिमितं विधेयमिति भावः ॥१० ९ ॥ हिन्दी — दोनों आँखों की काली पुतलियाँ आँखों के तीसरे भाग पर होनी चाहिए और दोनों भौंहों के बीच का भाग दो अंगुल चौड़ा तथा नाक का मूल भाग एक अंगुल चौड़ा होना चाहिए ॥ १० ९ ॥ तारकेति । नेत्रयोः तारका कृष्णरूपिणी कृष्णवर्णा तत्तृतीयांशा तस्य नेत्रस्य तृतीयांशपरिमिता कार्य्या इति शेषः । भ्रुवोः मध्यन्तु द्व्यङ्गुलं अङ्गुलद्वयपरिमितम् । नासामूलञ्च अङ्गुलम् एकाङ्गुलमितं कार्य्यमिति शेषः ॥ १०८ ॥
नासाग्रविस्तरं तद्वद् द्व्यङ्गुलं तद्विलद्वयम् ।
शुकनासाकृतिर्नासा पुष्पवद् द्विविधा शुभा ॥ १० ९ ॥
अन्वयः — नासाग्रविस्तरं द्व्यङ्गुलं तद्वत् तद्विलद्वयं नासा शुकनासाकृतिः पुष्पवद् द्विविधा शुभा ॥ १० ९ ॥, व्याख्या – नासाग्रविस्तरम् = नासिकायाः प्रसारम्, विस्तारमित्यत्रार्षत्वान्नपुंसकत्वमिति द्व्यङ्गुलम् = अङ्गुलिद्वयपरिमितम्, तद्वत् = तेनैव प्रकारेण, तत् = तस्य, विलद्वयम् = छिद्रद्वयम्, तथा, नासा = नासिका, शुकनासाकृतिः = कीरनासिकास्वरूपमिव, वा, पुष्पवत् = कुसुमदलमिव, द्विधा = खण्डद्वये विभक्ता, शुभा = मङ्गलप्रदेति ॥ १० ९ ॥ हिन्दी — नाक के अगले हिस्से का फैलाव दो अंगुल तथा उनके छेदों का विस्तार भी उतना ही होना चाहिए । सुग्गे की नाक की तरह थोड़ी टेढ़ी या सीधी दो में से किसी एक तरह की नाक की बनावट होनी चाहिए ॥१० ९ ॥ नासेति । नासाग्रस्य विस्तरं ( क्लीबत्वमार्षं बोध्यं ) द्व्यङ्गुलं तद्वत् तथा तस्य विलद्वयञ्च द्व्यङ्गुलमित्यर्थः । नासा नासिका शुकस्य पक्षिणः नासाकृतिः पुष्पवत् पुष्पाकृतिश्च इति द्विविधा शुभाशुभकरी ॥ १० ९ ॥ निष्पावसदृशं नासापुटयुग्मं सुशोभनम् ॥ ११० ॥
अन्वयः -निष्पावसदृशं नासापुटयुग्मं सुशोभनम् ॥ ११० ॥
व्याख्या — निष्पावसदृशम्—– निष्पावेण = वस्तुविशेषेण, सदृशम् = तुल्यम्, नासापुटयोः = नासिकाछिद्रयोः, युग्मम् = द्वयम्, सुशोभनम् = अतिसुन्दरम् ॥ ११० ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 179
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ५ ९ १ हिन्दी — दोनों नासापुट निष्पाव ( द्रव्य - विशेष ) की तरह अत्यन्त सुन्दर बनाना चाहिए ॥११० ॥
निष्पावेति । निष्पावेण शस्यविशेषेण सदृशं नासापुटयोः युग्मं द्वयं सुशोभनम् अतिसुन्दरम् ॥ ११० ॥
कर्णौ च भ्रूसमौ ज्ञेयौ दीर्घौ च चतुरङ्गुलौ ।
कर्णाली त्र्यङ्गुला स्यात् स्थूला चार्द्धाङ्गुला मँता ॥ १११ ॥
अन्वयः — कर्णौ भ्रूसमौ दीर्घौ च चतुरङ्गुलौ ज्ञेयौ । कर्णपाली त्र्यङ्गुला स्यात्, स्थूला च अर्द्धाङ्गुला मता ॥१११ ॥
व्याख्या – कर्णौ = श्रवणेन्द्रियौ, भूसमौ = भूतुल्यौ, दीर्घौ = आयतौ, च = पुनः, चतुरङ्गुलौ = अङ्गुलचतुष्टयपरिमितौ, ज्ञेयौ = बोध्यौ । कर्णपाली = श्रवणायतनम्, त्र्यङ्गुला = अङ्गुलत्रयपरिमिता, स्यात् = भवेत्, तथा स्थूला = स्थूलतायाम्, अर्द्धाङ्गुला = अङ्गुल्यार्द्धपरिमिता, मता = कथिता ॥ १११ ॥ ं
हिन्दी — दोनों कान भी भौंहों के समान ही चार - चार अंगुल लम्बे होने चाहिए । कर्णपाली तीन अंगुल लम्बी और आधी अंगुल मोटी होनी चाहिए ॥१११ ॥
कर्णाविति । कर्णौ श्रूसमौ भ्रूभ्यां सदृशौ दीर्घौ चतुरङ्गुलौ च स्याताम् । कर्णपाली कर्णायतनं त्र्यङ्गुला अङ्गुलत्रयपरिमिता स्यात् तथा स्थौल्ये स्थूलतायाम् अर्द्धाङ्गुला मता ॥१११ ॥
नासावंशस्त्र्यङ्गुलस्तु श्लक्ष्णः सार्द्धाङ्गुलोन्नतः ॥ ११२ ॥
अन्वयः — नासावंशः त्र्यङ्गुलः सार्द्धाङ्गुलोन्नतः श्लक्ष्णः ॥ ११२ ॥
व्याख्या — नासावंशः = नासिकादण्डः, त्र्यङ्गुलः = अङ्गुलित्रयं परिमितम्, सार्द्धाङ्गुलोन्नतः = अर्द्धाङ्गुलपरिमितम्, उन्नतम्, श्लक्ष्णः = चिक्कणः स्यात् = भवेत् ॥ ११२ ॥
हिन्दी- - नाक की पोर तीन अंगुल लम्बी, डेढ़ अंगुल ऊँची तथा चिकनी होनी चाहिए ॥ ११२ ॥
नासेति । नासावंशः नासिकादण्डः त्र्यङ्गुलः अङ्गुलत्रयपरिमितः सार्द्धाङ्गुलोन्नतः श्लक्ष्ण-श्चिक्कणश्च स्यात् ॥ ११२ ॥
ग्रीवामूलाच्च स्कन्धान्तमष्टाङ्गुलमुदाहृतम् ।
बाह्वन्तरं द्वितालं स्यात् तालमात्रं स्तनान्तरम् ॥ ११३ ॥
अन्वयः — ग्रीवामूलात् स्कन्धान्तम् अष्टाङ्गुलम् उदाहृतम् । बाह्वन्तरं द्वितालं स्यात्, स्तनान्तरं तालमात्रम् ॥ ११३ ॥
व्याख्या — प्रीवामूलात् = कन्धरब्रध्नात्, स्कन्धान्तम् = भुजमूलपर्यन्तम्, अष्टाङ्गुलम् = अङ्गुलाष्टकपरिमितम्, अवकाशमुदाहृतम् = कथितम् । किञ्च बाह्वन्तरम् — बाह्वोः = भुजयोः, अन्तरम् = दूरता, द्वितलम् = तालद्वयपरिमितम्, स्यात् = भवेत्, स्तनान्तरम् – स्तनयोः = कुचयोः, अन्तरम् = पार्थक्यम्, तालमात्रम् = एकतालमेव, स्यात् = भवेत् ॥ ११३ ॥
हिन्दी — गर्दन की जड़ से कंधे तक की दूरी आठ अंगुल होनी चाहिए । दोनों बाँहों के बीच अर्थात् छाती की चौड़ाई दो ताल होनी चाहिए । दोनों स्तनों के बीच की दूरी एक ताल होनी चाहिए ॥ ११३ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 180
पाठ पढ़ें पाठ छिपाएँ
५ ९ २ शुक्रनीतिः ग्रीवेति । ग्रीवामूलात् स्कन्धान्तं स्कन्धपर्य्यन्तम् अष्टाङ्गुलम् उदाहृतं भुजयोरन्तरं वक्ष इत्यर्थः, द्वितालं तालद्वयपरिमितं तथा स्तनयोरन्तरं एकतालपरिमितं स्यात् ॥११३ ॥
षोडशाङ्गलमात्रं तु कर्णयोरन्तरं स्मृतम् ।
कर्णहन्वँग्रान्तरं तु सदैवाष्टाङ्गुलं मतम् ॥११४ ॥
अन्वयः — कर्णयोरन्तरं षोडशाङ्गुलमात्रं स्मृतम् । कर्णहन्वग्रान्तरं सदैव कथितम् । किञ्च बाह्वोः मध्यभागः तालमात्रम् अष्टाङ्गुलं मतम् ॥११४ ॥
व्याख्या — कर्णयोः = उभयोः श्रवणयोः, अन्तरम् = पार्थक्यम्, षोडशाङ्गुलमा = षोडशाङ्गुलप्रमाणमेव, स्मृतम् = कथितम् । किञ्च कर्णस्य = श्रोत्रेन्द्रियस्य, हनोः = चिबुकयोः, अग्रस्य = अग्रभागस्य च, अन्तरम् = अन्तरालम्, सदैव = सर्वत्र सर्वदैव, अष्टाङ्गुलम् = अङ्गुलाष्टकपरिमितम्, मतम् = प्रोक्तम् ॥ ११४ ॥
हिन्दी —– एक कान से दूसरे कान की दूरी सोलह अंगुल होनी चाहिए और कान से ठुड्डी की दूरी सदैव आठ अंगुल होनी चाहिए ॥ ११४ ॥
षोडशेति । कर्णयोरन्तरं मध्यभागः षोडशाङ्गुलमात्रं स्मृतम् । किञ्च कर्णस्य हनोरमस्य च अन्तरं सदैव अष्टाङ्गुलम् अङ्गुलाष्टकपरिमितं मतम् ॥११४ ॥
नासाकर्णान्तरं तद्वत् तदर्द्धं कर्णनेत्रयोः ।
मुखं तालतृतीयांशमोष्ठावर्द्धाङ्गुलौ मतौ ॥ ११५ ॥
अन्वयः — नासाकर्णान्तरं तद्वत् । कर्णनेत्रयोः तदर्द्धं मुखं बालतृतीयांशम् । ओष्ठौ तु अर्द्धाङ्गुलम् ॥ ११५ ॥
व्याख्या — नासाकर्णयोः– नासिकाश्रवणयोः, अन्तरम् = पार्थक्यम्, तद्वत् = पूर्वव-देवाष्टाङ्गुलम्, कर्णनेत्रयोः = श्रवणनयनयोः, तत् = तस्य, अर्द्धम् = अर्द्धभागमर्थाच्चतुरङ्गुलम्, मुखम् = आननम्, तालस्य = = पूर्वोक्तपरिमाणस्य, तृतेयांशम् = तृतीयभागमेव, ओष्ठौ = अधरौ, अर्द्धाङ्गुलौ = अङ्गुलेरर्द्धभागमेव, मतम् = प्रोक्तम् ॥ ११५ ॥
हिन्दी – नाक और कान के बीच की दूरी उसी तरह आठ अंगुल होनी चाहिए । इसी तरह कान से आँख की दूरी उससे आधा चार अंगुल होनी चाहिए । मुँह की चौडाई एक ताल माप का तीसरा भाग होना चाहिए । दोनों ओठों की दूरी आधा अंगुल होनी चाहिए ॥ ११५ ॥
नासेति । नासाकर्णयोरन्तरं तद्वत् अष्टाङ्गुलमित्यर्थः । कर्णनेत्रयोस्तु अन्तरं तदर्द्धं चतुरङ्गुल-मित्यर्थः । मुखं तालस्य उक्तस्य परिमाणस्य तृतीयांशम् । ओष्ठौ तु अर्द्धाङ्गुलौ मतौ ॥ ११५ ॥
द्वात्रिंशदङ्गुलः प्रोक्तः परिधिर्मस्तकस्य च ।
दशाडुलाँ विस्तृतिस्तद् द्वादशाङ्गलदीर्घता ॥ ११६ ॥
अन्वयः — मस्तकस्य परिधिः द्वात्रिंशदङ्गुलः प्रोक्तः । तद्द्द्विस्तृतिः दशाङ्गुला, द्वादशाङ्गुलदीर्घता स्यात् ॥ ११६ ॥
व्याख्या – मस्तकस्य = मस्तिष्कस्य, परिधिः = परिवेशः, द्वात्रिंशदङ्गुलः = द्वात्रिंशंदङ्गुल-परिमितः, प्रोक्तः = कथितः । तत् = तस्य मस्तकस्य, विस्तृतिः = विस्तारः, दशाङ्गुला = अङ्गुलदशपरिमिता, द्वादशाङ्गुलदीर्घता = तस्य दैर्घ्यं द्वादशाङ्गुलपरिमितम्, स्यादिति ॥ ११६ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA