शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 221–230

शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 221–230

पृष्ठ 221

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 221 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६३३

अभियुक्ताश्च ये यत्र यन्निबन्धनियोजनाः ।

तत्रत्यगुणदोषाणां त एव हि विचारकाः ॥। २४ ॥

अन्वयः — आरण्याः स्वकैः सार्थिकाः सार्थिकैः सैनिकाः सैनिकैः सह कुर्युः, किञ्च ग्रामेऽपि उभयवासिभिः । यत्र ये अभियुक्ताः यन्निबन्धनियोजनाः, ते एव तत्रत्यगुणदोषाणां विचारकाः ॥ २३-२४ ॥ व्याख्या — आरण्याः = वनवासिनः स्वकैः = वनवासिभिरेव, सार्थिकाः = व्यापारिणः, व्यापारिभिरेव, सैनिकाः = सामरिकाः, सैनिकैः = सामरिकैरेव, सह व्यवहारनिर्णयम्, कुर्युः = विदध्युः, किञ्च ग्रामेऽपि, उभयवासिभिः = ग्रामारण्यनिवासिभिः । यत्र = यस्मिन् विषये, ये = पुरुष - विशेषाः, अभियुक्ताः = प्रत्यर्थिनः, यन्निबन्धनियोजनाः —–—–— यत् = यस्मिन्, निबन्धे = नियमने प्रबन्धे वा, नियोजनाः = नियुक्ताः, ते जनाः, एव, तत्रत्यानाम् = = तेषां विषयाणाम्, गुणदोषाणाम् = गुणावगुणानाम्, विचारकाः = चिन्तकाः भवन्ति ॥ २३-२४ ॥ हिन्दी —– जंगली लोग जंगलियों के द्वारा, व्यापारीसंघ अपने समूहों के द्वारा, सैनिक सैनिकों द्वारा और ग्रामीण जन ग्रामारण्य दोनों के निवासियों द्वारा ही अपने विवाद का निर्णय करायें । राजा के द्वारा जिस कार्य के लिए जो जहाँ नियुक्त किये गये हैं, वस्तुतः वे ही वहाँ के गुण और अवगुणों के वास्तविक विचारक होते हैं ॥ २३-२४ ॥ आरण्या इति । अभियुक्ता इति । आरण्याः वन्याः किरातादयः स्वकैः आरण्यैः सार्थिकाः सम्भूयकारिणः सार्थिकैः, सैनिकाः सैनिकैश्च सह कार्य्यनिर्णयं कुर्य्यरित्यर्थः, किञ्च ग्रामेऽपि उभयवासिभिः उभयैः वासिभिः निवासिभिः यत्र विषये ये अभियुक्ताः तथा यन्निबन्धनियोजनाः यदर्थनियुक्ताः ते एव तत्रत्यानां गुणदोषाणां विचारकाः भवन्तीत्यर्थः ॥ २३-२४ ॥

राजा तु धार्मिकान् सभ्यान् नियुञ्ज्यात् सुपरीक्षितान् ।

व्यवहारधुरं वोढुं ये शक्ताः पुङ्गवा इव ॥ २५ ॥

अन्व्यः ये पुङ्गवाः इव व्यवहारधुरं वोढुं शक्ताः राजा तान् धार्मिकान् सुपरीक्षितान् सभ्यान् नियुञ्ज्यात् ॥ २५ ॥

व्याख्या — ये = जनाः, पुङ्गवाः = वृषभाः मानवोत्तमाः वा, इव = यथा, व्यवहारधुरम् = कार्ययुगम्, वोढुम् = वहनकर्तुम्, शक्ताः = समर्थाः, तान् = एतादृशान्, पुरुषान्, धार्मिकान् = पुण्यात्मनः, सुपरीक्षितान् = सुष्ठुसमीक्षितान्, सभ्यान् = सांसदः, नियुञ्ज्यात् = नियुक्तं कुर्यात् ॥२५ ॥

हिन्दी — जो व्यक्ति सशक्त बैलों की तरह विवाद -निर्णय के भार को वहन करने में समर्थ हों, पूर्णरूप से समीक्षित हों, धार्मिक हों; वैसे लोगों को राजा जूरीपंच के पद पर नियुक्त करे ॥ २५ ॥

राजेति । ये जनाः पुङ्गवाः वृषभा इव व्यवहारधुरं वोढुं शक्ताः समर्थाः भवन्ति, राजा तान् धार्मिकान् सुपरीक्षितान् सभ्यान् नियुञ्ज्यात् ॥ २५ ॥

लोकवेदज्ञधर्मज्ञाः सप्त पञ्च त्रयोऽपि वा ।

यत्रोपविष्टा विप्राः स्युः सा यज्ञसदृशी सभा ॥ २६ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 222

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 222 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६३४ शुक्रनीतिः अन्वयः — यत्र सप्त पञ्च त्रयोऽपि वा लोकवेदधर्मज्ञाः विप्राः उपविष्टाः स्युः, सा सभा यज्ञसदृशी ॥ २६ ॥

व्याख्या — यत्र = यस्यां सभायाम्, सप्त = सप्तसंख्यकाः, पञ्च = पञ्चसंख्यकाः, वा = अथवा त्रयोऽपि = त्रिसंख्यकोऽपि, लोकवेदधर्मज्ञाः = लोकाचारविशेषज्ञाः, वेदवेत्तारः, धर्मस्य तत्त्वविदः,, विप्राः = ब्राह्मणाः, उपविष्टाः = स्थिताः, सा सभा = परिषद्, यज्ञसदृशी = यज्ञस्थलमिवातिशुचिः स्यात् ॥ २६ ॥

हिन्दी — जिस सभा में सात, पाँच या कम - से - कम तीन लौकिक एवं वैदिक कृत्यों के जानकार धर्मज्ञ ब्राह्मण बैठे हों, वह सभा यज्ञभूमि की तरह अतिपवित्र होती है ॥२६ ॥

लोकेति । यत्र सभायां सप्त पञ्च अपि वा अथवा त्रयः लोकवेदज्ञधर्मज्ञाः लोकाचारज्ञाः वेदज्ञाः धर्मज्ञाश्च विप्राः उपविष्टाः सा सभा यज्ञसदृशी यज्ञस्थानसमा अतिपवित्रा इत्यर्थः ॥२६ ॥

श्रोतारो वणिजस्तत्र कर्त्तव्या: सुविचक्षणाः ॥ २७ ॥

अन्वयः -तत्र सुविचक्षणाः वणिजः श्रोतारः कर्त्तव्याः ॥२७ ॥

व्याख्या – तत्र = तस्यां सभायाम्, सुविचक्षणाः = सुबुद्धिमन्तः, वणिजः = व्यापारिणः, श्रोतारः = श्रावकाः, कर्त्तव्याः = नियोक्तव्याः ॥ २७ ॥

हिन्दी — और उस सभा में श्रोता के रूप में प्रखर बुद्धिमान् वैश्यों को भी नियुक्त करना चाहिए ॥ २७ ॥

श्रोतार इति । तत्र विचारदर्शनस्थाने सुविचक्षणाः वणिजः श्रोतारः कर्त्तव्याः नियोक्तव्या इत्यर्थः, ते हि यथा स्वर्णादिपरीक्षकाः तथा कार्य्यनिर्णयस्यापि परीक्षका पचन्तीति भावः ॥२७ ॥

अनियुक्तो नियुक्तो वा धर्मज्ञो वक्तुमर्हति ।

दैवीं वाचं स वदति यः शास्त्रमुपजीवति ॥ २८ ॥

अन्वयः — धर्मज्ञः अनियुक्तः नियुक्तः वा वक्तुम् अर्हति, यः शास्त्रमुपजीवति सः दैवीं वाचं वदति ॥ २८ ॥

व्याख्या — धर्मज्ञः = धर्मवेत्ता, अनियुक्तः = अनियोजितः, वा = अथवा, नियुक्तः = नियोजितः जनः, वक्तुम् = कथितुम् अर्हति = समर्थो भवति, यतः, यः = जनः, शास्त्रम् = धर्मग्रन्थम्, उपजीवति = अनुसृत्य चलति, सः = असौ, दैवीम् = अलौकिकीम्, वाचम् = वचनम्, वदति = कथयति ॥२८ ॥

हिन्दी — धर्मशास्त्र का जानकार व्यक्ति चाहे नियुक्त हो या अनियुक्त, सभा में बोलने का उसे हक है; क्योंकि ऐसे लोग शास्त्रानुसार आचरण भी करते हैं तथा इनकी वाणी अलौकिक होती है ॥२८ ॥

अनियुक्त इति । धर्मज्ञः धर्मशास्त्रज्ञः जनः अनियुक्तः नियुक्तः वा वक्तुमर्हति, यतः यः शास्त्रम् उपजीवति शास्त्रमनुसृत्य चलतीत्यर्थः, सः दैवीं वाचं देववाणीं वदति, तद्वाक्ये असत्यतायाः असम्भवादिति भावः ॥ २८ ॥

सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् ।

अब्रुवन् विब्रुवन् वापि नरो भवति किल्विषी ॥ २ ९ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 223

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 223 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६३५ अन्वयः — सभा न प्रवेष्टव्या वा समञ्जसं वा वक्तव्यम् । अब्रुवन् वा विब्रुवन् नरः किल्विषी भवति ॥ २ ९ ॥ व्याख्या – सभा = विचारसंसदि न = नहि, प्रवेष्टव्या = प्रवेशं कर्तव्या, वा = अथवा, समञ्जसम् = न्याय्यम् उचितं वा, वक्तव्यम् = कथितम्, यदि सभायां, प्रवेशस्यावसरो मिलति । अब्रुवन् = अवदन्, वा = अथवा, विब्रुवन् = विरुद्धं ब्रुवन्, नरः, किल्विषी = पापी, भवति = अस्ति ॥ २ ९ ॥ हिन्दी — पहले तो विचार कर सभा में जाना ही नहीं चाहिए और यदि चला जाय तो जो उचित हो वह अवश्य कहे । क्योंकि सभा में जाकर भी जो न्यायसंगत नहीं बोलता, वह पापी है ॥ २ ९ ॥ सभेति । सभा विचारसभा न प्रवेष्टव्या वा, समञ्जसं सत्यं वा सत्यमेव वक्तव्यं यदि प्रविशति सभायामिति शेषः । अब्रुवन् ज्ञात्वेति शेषः, वा विब्रुवन् विरुद्धं ब्रुवनित्यर्थः, नरः किल्विषी पापी भवति ॥ २ ९ ॥

राज्ञा ये विदिताः सम्यक् कुलश्रेणिगणादयः ।

साहसस्तेयवर्ज्यानि कुर्य्युः कार्य्याणि ते नृणाम् ॥ ३० ॥

अन्वयः --- ये कुलश्रेणिगणादयः राज्ञा सम्यक् विदिताः, ते नृणां साहसस्तेयवर्ज्यानि कार्याणि कुर्युः ॥ ३० ॥

व्याख्या — ये = जनाः, कुलानि = वंशाः, श्रेणयः = पङ्क्तयः, गणादयश्च = वर्गादयश्च, राज्ञा = नृपेण, सम्यक् = सामस्त्येन, विदिताः = न्यायशीलत्वेन विज्ञाताः, ते = सर्वे, नृणाम् = मनुष्याणाम्, साहसस्तेयवर्ज्यानि = धार्ध्यचौर्यव्यतिरिक्तानि, कार्याणि = अभियोगनिर्णयादिकञ्च, कुर्युः = निष्पादयेयुरिति ॥ ३० ॥

हिन्दी —– राजा जिन्हें भलीभाँति न्यायपरायण समझता हो, ऐसे कुल, श्रेणि और गण के लोगों को चोरी - डकैती के मुकदमों को छोड़कर अन्य मुकदमों का फैसला करने को दे ॥ ३० ॥

राज्ञेति । ये कुलानि श्रेणयः गणादयश्च राज्ञा सम्यक् विदिताः, न्यायपरायणत्वेन विज्ञाताः, ते नृणां मानवानां तज्जातीयानामित्यर्थः, साहसस्तेयवर्ज्यानि दस्युताचौर्य्यव्यतिरिक्तानि कार्य्याणि कुर्य्यः ॥३० ॥

विचार्य्यं श्रेणिभिः कार्य्यं कुलैर्यन्न विचारितम् ।

गणैश्च श्रेण्यविज्ञातं गणाज्ञातं नियुक्तकैः ॥ ३१ ॥

अन्वयः — कुलैः यत् न विचारितं तत् श्रेणिभिः विचार्यम् । श्रेण्यविज्ञातं गणैश्च, गणाज्ञातं नियुक्तकैः विचार्यमिति ॥३२ ॥

व्याख्या — कुलैः = व्यापारिसङ्घैः, यत् = व्यवहारम्, न = = नहि, विचारितम् = सिद्धान्तितम् तत् = कार्याणि, श्रेणिभिः = तत्परवर्त्तिभिः, जातिभिः, विचारकैः, विचार्यम् = आलोचनीयम् । यदि श्रेणिभिः, अविज्ञातम् = अविदितम्, तर्हि, गणैश्च = तदुत्तरवर्त्तिसङ्घैश्च, विचार्यम् = अनुचिन्तनीयम्, गणाज्ञातम् – गणैः = सङ्घैः, अज्ञातम् = अनिर्णीतम्, तु, नियुक्तैः = नृपनियोजितैः प्राड्विवाकादिभिः, विचार्यम् = निर्णेतव्यम् ॥ ३१ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 224

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 224 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६३६ शुक्रनीति: हिन्दी — यदि उपयुक्त व्यापारी वर्गों द्वारा मुकदमे का फैसला न हो सके तो उसका निर्णय श्रेणियों ( पंचसमूहों ) द्वारा करवाना चाहिए । पंचों द्वारा भी उचित निर्णय यदि न हो सके तो गणों अर्थात् जूरीपंचों द्वारा फैसला करवाना चाहिए । यदि यह वर्ग भी असफल रहे तो राजा द्वारा नियुक्त जजों द्वारा फैसला करवाना चाहिए ॥३१ ॥

विचार्य्येति । कुलैः प्रथमविचारनियुक्तैः जातिविशेषैः यत् कार्य्यं न विचारितं सिद्धान्तितं, तत् श्रेणिभिः तत्परवर्त्तिभिः विचारकैः जातिविशेषैः विचार्य्यम् । श्रेणिभिः अविज्ञातम् अविदितं कार्य्यं गणैश्च तदुत्तरविचारदर्शिभिः जातिविशेषैः विचार्य्यं, गणाज्ञातं गणैरज्ञातन्तु नियुक्तकैः राजनियुक्तकैः प्राड्विवाकादिभिः विचार्य्यमित्यर्थः ॥ ३१ ॥

कुलादिभ्योऽधिकाः सभ्यास्तेभ्योऽध्यक्षोऽधिकः कृतः ।

सर्वेषामधिको राजा धर्माधर्मनियोजकः ॥। ३२ ॥

उत्तमाधममध्यानां विवादानां विचारणात् ।

उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः ॥ ३३ ॥

अन्वयः - सभ्याः कुलादिभ्यः अधिकाः, अध्यक्षः तेभ्यः अधिकः कृतः, धर्माधर्मनियोजकः राजा तु उत्तमाधममध्यानां विवादानां विचारणात् सर्वेषाम् अधिकः । यतः ईश्वरबुद्धयः बुद्धीनाम् उपरि उपरि चरन्ति ॥ ३२-३३ ॥ व्याख्या — सभ्याः = सांसदः कुलादिभ्यः = जातिभ्यः, अधिका: = प्रकृष्टाः, अध्यक्षः = विचारार्थनियुक्तप्रधानपुरुषः, तेभ्यः = सांसद्भ्यः, अधिक: = श्रेष्ठः स्मृतः = विहितः, धर्माधर्म-नियोजक –—–— धर्मश्च = नयश्च, अर्धमश्च = अनयश्च, धर्माधर्मौ, तयोः नियोजकः = नियन्ता, राजा तु, उत्तमाधममध्यानाम् — उत्तमानाम् = प्रशस्तानाम्, अधमानाम् = निकृष्टकोटीनाम्, मध्या-नाम् = सामान्यानाम्, विवादानाम् = अभियोगानाम्, विचारणात् = आलोचनात्, सर्वेषाम् = सकलानाम्, अधिकः = उत्कृष्टतमः । यतः ईश्वरबुद्धयः — ईश्वरस्य = नृपस्य, बुद्धयः = धियः, बुद्धीनाम् = सामान्यजनमतीनाम्, उपरि उपरि = उपरिष्टात्, चरन्ति = विचरन्ति ॥ ३२-३३ ॥ हिन्दी — मुकदमों के फैसले में बड़ों की अपेक्षा जूरियों का निर्णय अधिक मान्य होता है, उनसे अधिक जज का निर्णय मान्य होता है और इन सबों से अधिक नीति - अनीति के निर्णय में राजा का फैसला अधिक मान्य होता है । क्योंकि राजा उत्तम, सामान्य एवं निकृष्ट कोटि के सभी मुकदमों का निर्णायक प्रधान रूप से होता है । उसकी बुद्धि साधारण निर्णायकों की बुद्धि की अपेक्षा अधिक ऊँची होती है ॥ ३२-३३ ॥ कुलादिभ्य इति । उत्तमेति । सभ्याः विचारनियुक्ताः पुरुषाः कुलादिभ्यः अधिकाः श्रेष्ठाः, अध्यक्षः प्रधानविचारपतिः तेभ्यः सभ्येभ्यः अधिकः स्मृतः । धर्माधर्मनियोजकः धर्माधर्मनियन्ता राजा तु उत्तमाधममध्यानाम् उत्तमानाम् अधमानां मध्यमानाञ्च विवादानां विचारणात् सर्वेषाम् अधिकः श्रेष्ठतमः, यतः ईश्वरबुद्धयः प्रभूणां मतयः बुद्धीनां सामान्यजनधियाम् उपरि उपरि चरन्ति ॥३२-३३ ॥

एकं शास्त्रमधीयानो न विन्द्यात् कार्य्यनिर्णयम् ।

तस्माद् बह्वागमः कार्य्यो विवादेषूत्तमो नृपैः ॥ ३४ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 225

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 225 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६३७ अन्वयः — एकं शास्त्रम् अधीयानः कार्यनिर्णयं न विन्द्यात् । तस्मात् नृपैः विवादेषु बह्वागमः कार्यः ॥ ३४ ॥

व्याख्या – एकम् = मात्रैकम्, शास्त्रम् = धर्मग्रन्थः, अधीयानः अध्ययनं कुर्वतो जनः, कार्यनिर्णयम् = अभियोगनिश्चयः, न = नहि, विन्द्यात् = जानीयात् । तस्मात् = तेन हेतुना, नृपैः = राजभिः, विवादेषु = अभियोगेषु, बह्वागमः = अनेकशास्त्रदर्शनम्, कार्यः = स्थाप्य इति ॥३४ ॥

हिन्दी — केवल एक शास्त्र का जानकार व्यक्ति किसी विवाद का सही निर्णय नहीं दे सकता है | अतः अनेक शास्त्रों के ज्ञाता किसी सत्पुरुष को ही राजा अभियोगनिर्णायक के पद पर नियुक्त करे ॥ ३४ ॥

एकमिति । एकम् एकमात्रं शास्त्रम् अधीयानः पठन् जनः कार्य्यनिर्णयं न विन्द्यात् न जानीयात्, तस्मात् नृपैः विवादेषु विषयेषु बह्वागमः बहुशास्त्रदर्शनमित्यर्थः कार्य्यः ॥३४ ॥

स ब्रूते यं धर्मः स्यादेको वाध्यात्मचिन्तकः ॥ ३५ ॥

अन्वयः — आत्मतत्त्वचिन्तकः एकं यं ब्रूते स वा धर्मः स्यात् ॥ ३५ ॥

व्याख्या - आत्मतत्त्वचिन्तक: = आत्मज्ञानविचारकः, एकम् = एकमात्रमेव, यम् = = धर्मम्, ब्रूते = कथ्यते, स वा = = तदेव, धर्मः = अभ्युदयनिःश्रेयससाधको गुणकर्मसमूहः, स्यात् = भवेत् ॥ ३५ ॥

हिन्दी — और आत्मतत्त्व का जानकार व्यक्ति अकेले ही जो कुछ कहता है, वही धर्म माना जाता है । अर्थात् इसका निर्णय सर्वमान्य होता है ॥ ३५ ॥

स इति । यस्तु अध्यात्मचिन्तकः आत्मतत्त्वज्ञानवान्, स एक: एकाकी यं धर्मं ब्रूते स वा स एव धर्मः स्यात् ॥ ३५ ॥

एकद्वित्रिचतुर्वारं व्यवहारानुचिन्तनम् ।

कार्य्यं पृथक् पृथक् सभ्यै राज्ञा श्रेष्ठोत्तरैः सह ॥ ३६ ॥

अन्वयः –राज्ञा श्रेष्ठोत्तरैः सभ्यैः सह पृथक् पृथक् एकद्वित्रिचतुर्वारं व्यवहारानुचिन्तनं कार्यम् ॥३ ॥

व्याख्या– राज्ञा = नृपेण, श्रेष्ठोत्तरैः श्रेष्ठेषु = उत्तमेषु, उत्तरैः = प्रधानपुरुषैः, सभ्यैः = सांसद्भिः, सह = साकम्, पृथक् पृथक् = भिन्नं भिन्नम्, एकद्वित्रिचतुर्वारम् = एकवारम्, द्विवारम्, त्रिवारम्, चतुर्वारम्, व्यवहारानुचिन्तनम् — व्यवहारस्य = अभियोगस्य, अनुचिन्तनम् = विवेचनम्, कार्यम् = विधेयम् ॥ ३६ ॥

हिन्दी – राजा उत्कृष्ट सांसदों के साथ मिलकर अलग - अलग जैसा मुकदमा हो वैसा ही एक, दो, तीन या चार बार विचार कर फैसला दे ॥ ३६ ॥

एकेति । राज्ञा श्रेष्ठोत्तरैः श्रेष्ठेषु प्रधानैः सभ्यैः सह पृथक् पृथक् एकद्वित्रिचतुर्वारम् एकवारं द्विवारं त्रिवारं चतुर्वारं वा कार्य्यगौरवलाघवापेक्षयेति भावः, व्यवहारस्य अनुचिन्तनं तत्त्वनिर्णय इत्यर्थः कार्य्यम् ॥ ३६ ॥

अर्थिप्रत्यर्थिनौ सभ्यान् लेखकप्रेक्षकांश्च यः ।

धर्मवाक्यै रञ्जयति स सभास्तारतामियात् ॥ ३७ ॥

1 CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 226

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 226 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६३८ शुक्रनीतिः अन्वयः — यः अर्थिप्रत्यर्थिनौ सभ्यान् लेखकान् प्रेक्षकान् धर्मवाक्यैः रञ्जयति, स सभाः तारताम् इयात् ॥३७ ॥

व्याख्या – यः = विवादविचारकः सांसद्वा, अर्थिप्रत्यर्थिनौ = वादि - प्रतिवादिनौ, सभ्यान् = सांसदः, लेखकान् = पञ्जीकारान्, प्रेक्षकान् = दर्शकान्, च = पुनः, धर्मवाक्यैः = स्वपुण्यवचनैः रञ्जयति = परितोषयति, सः = = 1 निर्णायकः, सभाः = संसदः तारताम् = तारयति, अलुक् उपपदसमासोऽत्र, तस्य भावस्ताम्, इयात् = आप्नुयादिति ॥ ३७ ॥

हिन्दी — जो निर्णायक वादी, प्रतिवादी, सांसदों, लेखकों तथा दर्शकों को अपने धार्मिक वचनों से संतुष्ट करता है, वह सभा में सर्वश्रेष्ठता प्राप्त करता है ॥ ३७ ॥

अर्थीति । यः विचारपतिः अन्यो वा सभ्यः अर्थिप्रत्यर्थिनौ वादिप्रतिवादिनौ सभ्यान् लेखकान् प्रेक्षकान् दर्शकांश्च धर्मवाक्यैः रञ्जयति प्रीणयति सः सभास्तारतां सभाः तारयति पापात्

मोचयतीति सभास्तारः अलुक् उपपदसमासः । तस्य भावः ताम् इयात् प्राप्नुयात् ॥ ३७ ॥

नृपोऽधिकृतसभ्याश्च स्मृतिर्गणकलेखकौ ।

हेमाग्न्यम्बुस्वपुरुषाः साधनाङ्गानि वै दश ॥ ३८ ॥

अन्वयः – नृपः अधिकृतसभ्याः स्मृतिः गणकलेखकौ हेमाग्न्यम्बुस्वपुरुषाः एतानि दश साधनस्य अङ्गानि ॥ ३८ ॥

व्याख्या – नृपः = राजा, अधिकृतसभ्याः = अधिकारिणः सांसदः स्मृतिः = आर्यधर्म-शास्त्राणि अनुचिन्तनं वा, गणकः = - गणितज्ञः, लेखक: - लिपिकारः, हेम = काञ्चनम्, अग्निः = वह्निः, अम्बुम् = सलिलम्, स्वम् = धनम्, पुरुषः = सेवकः, एतानि = पूर्वोक्तानि, दश = दशसंख्यकानि, साधनस्य = व्यवहारनिर्णयस्य, अङ्गानि = अवयवानि सन्ति ॥ ३८ ॥

हिन्दी – राजा, अधिकृत सांसद्, मन्वादि स्मृति, गणितज्ञ, लेखक, सुवर्ण, आग, पानी, धन और कर्मचारी — ये दस मुकदमे के फैसले में साधन के अङ्ग हैं ॥ ३८ ॥

नृप इति । नृपः, अधिकृतसभ्याः, स्मृतिः धर्मशास्त्रं, गणकः, लेखक:, हेम काञ्चनम्, अग्निः, अम्बु जलं स्वं धनं, पुरुषः भृत्यरूपः एतानि दश साधनस्य कार्य्यनिर्वाहस्य अङ्गानि साधकानीत्यर्थः ॥ ३८ ॥

एतद्दशाङ्गकरणं यस्यामध्यास्य पार्थिवः ।

न्यायान् पश्येत् कृतमतिः सा सभाध्वरसन्निभा ॥ ३ ९ ॥

अन्वयः — कृतमतिः पार्थिवः यस्याम् एतत् दशाङ्गकरणम् अध्यास्य न्यायान् पश्येत् सा सभा अध्वरसन्निभा भवति ॥ ३ ९ ॥ व्याख्या — कृतमतिः = परिमार्जितबुद्धिः पार्थिवः = राजा, यस्याम् = विचारगोष्ठ्याम्, एतत् = पूर्ववर्णितम्, दशाङ्गकरणम् = अङ्गदशकरूपं साधनम्, अध्यास्य = समाश्रित्य, न्यायात् = नीतिपूर्वकात्, पश्येत् = विचारयेत्, सा सभा = गोष्ठी, अध्वरसन्निभा = यज्ञतुल्या भवतीति भावः ॥ ३ ९ ॥ हिन्दी — इस तरह परिमार्जित बुद्धिवाला राजा जिस सभा में ऊपर बतलाये गये ये दस साधनों का आश्रय लेकर न्यायपूर्वक मुकदमें को देखता है, वह सभा निश्चय ही यज्ञसभा की तरह पवित्र होती है ॥ ३ ९ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 227

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 227 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६३ ९ एतदिति । कृतमतिः मार्जितबुद्धिः पार्थिवश्च यस्यां सभायाम् एतत् पूर्वोक्तं दशाङ्गकरणम् अङ्गदशकरूपं साधनम् अध्यास्य आश्रित्य न्यायान् विचारान् पश्येत्, सा सभा अध्वरसन्निभा यज्ञसदृशी ॥३ ९ ॥

दशानामपि चैतेषां कर्म प्रोक्तं पृथक् पृथक् ।

वक्ताध्यक्षो नृपः शास्ता सभ्याः कार्य्यपरीक्षका: ॥ ४० ॥

अन्वयः - एतेषां दशानाञ्च पृथक् पृथक् कर्म प्रोक्तम् । अध्यक्षः वक्ता नृपः शास्ता, सभ्याः कार्यपरीक्षकाः भवन्तीति ॥४० ॥

व्याख्या— एतेषाम् = पूर्वोक्तानाम्, दशानाञ्च = दशसंख्यकानाम्, पृथक् पृथक् = भिन्नं भिन्नम्, कर्म = कृत्यम्, प्रोक्तम् = कथितम् । अध्यक्षः = विचारपतिः, वक्ता = - अभियोगप्रकाशकः, नृपः = राजा, शास्ता = शासनकर्त्ता, सभ्याः = सांसद, कार्यपरीक्षका कार्यस्य = व्यवहारस्य, परीक्षकाः = निर्णायकाः, भवन्तीति ॥४० ॥

हिन्दी — पूर्वोक्त दस साधनों के काम भी अलग - अलग है । अध्यक्ष विवाद निर्णय का प्रकाशक होता है । राजा शासन करने वाला है । सांसद निर्णय के औचित्य का परीक्षण करते ॥ ४० ॥

दशानामिति । एतेषां दशानाञ्च पृथक् पृथक् कर्म प्रोक्तम् । अध्यक्षः अधिकृतः पुरुषः वक्ता कार्य्यनिर्णयस्य प्रकाशकः, नृपः शास्ता शासकः, तथा सभ्याः कार्य्यस्य परीक्षकाः ॥४० ॥

स्मृतिर्विनिर्णयं ब्रूते जपं दानं दमं तथा ॥ ४१ ॥

अन्वयः — स्मृतिः विनिर्णयं जपं दानं दमं ब्रूते ॥ ४१ ॥

व्याख्या — स्मृतिः = धर्मसंहिता, विनिर्णयम् = अभियोगनिश्चयम्, जपम् = मुहुर्मुहुर्मन्त्रो-च्चारणम्, दानम् = उत्सर्जनम्, दमम् = आत्मसंयमः, ब्रूते = निर्दिशति ॥ ४१ ॥

हिन्दी - मन्वादि स्मृतियाँ अभियोग का निर्णय मंत्र का जप, दान तथा आत्मसंयम का उपदेश देती है ॥४१ ॥

स्मृतिरिति । स्मृतिः धर्मसंहिता विनिर्णयं कार्य्यनिश्चयं, जपं मन्त्रजपं, दानं तथा दमम् इन्द्रियादिनिग्रहं ब्रूते उपदिशति ॥ ४१ ॥

शपथार्थे हिरण्याग्नी अम्बु तृषितक्षुब्धयोः ।

गणको गणयेदर्थं लिखेन्याय्यं च लेखकः ॥। ४२ ॥

अन्वयः — शपथार्थे हिरण्याग्नी अम्बु तृषितक्षुब्धयोः गणकः अर्थं गणयेत् च लेखकः न्याय्यं लिखेत् ॥४२ ॥

व्याख्या — शपथार्थे = प्रतिज्ञाप्रयोजनाय, हिरण्यम् अग्निश्च साधनम्, अम्बु = सलिलम्, तृषितक्षुब्धयोः—– तृषार्त्तस्य = तृष्णाकुलस्य, क्षुब्धस्य च = भीतस्य च साधनम्, गणकः = गणितज्ञश्च, अर्थम् = अभियोगनिर्णयस्य शुभाशुभम्, गणयेत् = गणनां कुर्यात्, लेखकश्च-लिपिकारश्च, न्याय्यम् = न्यायोपेतं विषयम्, लिखेत् = लेखनं कुर्यात् ॥ ४२ ॥

हिन्दी — कसम खाने के लिए सोना और आग, प्यासे और डरे लोगों के लिए पानी, अभियोग के शुभाशुभ परिणामों की गिनती के लिए गणक तथा न्यायसंगत विषयों को लिखने CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 228

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 228 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६४० शुक्रनीति: के लिए लेखक साधन का अंग बनता है ॥ ४२ ॥

शपथार्थे इति । शपथार्थे दिव्यकरणार्थं हिरण्यम् अग्निश्च साधनम् अम्बु जलं तृषितक्षुब्धयोः तृष्णार्त्तस्य क्षुब्धस्य वायुरोगग्रस्तस्य साधनम् । गणकः अर्थं कार्य्यस्य शुभाशुभं गणयेत्, लेखकश्च न्याय्यं प्रकृतं विषयं लिखेत् ॥४२ ॥

शब्दाभिधानतत्त्वज्ञौ गणनाकुशलौ शुची ।

नानालिपिज्ञौ कर्त्तव्यौ राज्ञा गणकलेखकौ ॥। ४३ ॥

अन्वयः— शब्दाभिधानतत्त्वज्ञौ गणनाकुशलौ शुची नानालिपिज्ञौ गणकलेखकौ राज्ञा कर्तव्यौ ॥४३ ॥

व्याख्या – शब्दाभिधानतत्त्वज्ञौ = शब्दार्थतथ्यज्ञानवन्तौ, गणनायाम् = संख्याने, कुशलौ = = दक्षौ, शुची = पवित्रौ, नानालिपिज्ञौ = अनेकविधलेखनविशेषज्ञौ, गणकलेखकौ = गणितज्ञ-लिपिकारौ, राज्ञा =: नृपेण, कर्त्तव्यौ = नियोक्तव्यौ ॥४३ ॥

हिन्दी – शब्द और अर्थ के तत्त्वज्ञ, गिनती करने में कुशल, पवित्र तथा बहुविध लिपियों के जानकार व्यक्ति को राजा गणक एवं लिपिकार पद पर नियुक्त करे ॥ ४३ ॥

शब्देति । शब्दाभिधानतत्त्वज्ञौ शब्दतत्त्वज्ञौ अर्थतत्त्वज्ञौ चेत्यर्थः, गणनायां कुशलौ निपुणौ शुची निर्दोषौ नानालिपिज्ञौ विविधलेखनविज्ञौ गणकलेखकौ कर्त्तव्यौ नियोक्तव्यौ ॥४३ ॥

धर्मशास्त्रानुसारेण ह्यर्थशास्त्रविवेचनम् ।

यत्राधिक्रियते स्थाने धर्माधिकरणं हि तत् ॥ ४४ ॥

अन्वयः — यत्र स्थाने धर्मशास्त्रानुसारेण अर्थशास्त्रविवेचनम् अधिक्रियते तत् हि धर्माधिकरणम् ॥ ४४ ॥

व्याख्या — यत्र = यस्मिन्, स्थाने = देशे, धर्मशास्त्रानुसारेण = धर्मग्रन्थानुकूलेन, अर्थशास्त्रा-णाम् = धनप्राप्तिरक्षावृद्ध्याद्युपायदर्शकशास्त्रांणाम्, विवेचनम् = गुणदोषविचारणम्, अधिक्रियते —अधिकम् = विशिष्टम्, यथा तथा क्रियते = निष्पाद्यते, तद् हि = तदेव, धर्माधिकरणम् = प्राड्विवाकस्थलं कथ्यते ॥४४ ॥

हिन्दी – जिस स्थान में धर्मशास्त्र के अनुसार अर्थशास्त्र की विवेचना विशिष्ट रूप से की जाय, उस स्थान को न्यायालय कहते हैं ॥ ४४ ॥

धर्मेति । यत्र स्थाने धर्मशास्त्रानुसारेण अर्थशास्त्राणां विवेचनम् अधिक्रियते अधिकं यथा तथा क्रियते, तत् हि तदेव धर्माधिकरणम् ॥ ४४ ॥

व्यवहारान् दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः ।

मन्त्रज्ञैर्मन्त्रिभिश्चैव विनीतः प्रविशेत् सभाम् ॥। ४५ ॥

अन्वयः -व्यवहारान् दिदृक्षुः पार्थिवः विनीतः सन् मन्त्रज्ञैः ब्राह्मणैः मन्त्रिभिश्च सह सभां प्रविशेत् ॥४५ ॥

व्याख्या — व्यवहारान् = अभियोगान्, दिदृक्षुः = द्रष्टुमिच्छुः पार्थिवः = राजा, विनीतः सन्ं = विनम्रो भूत्वा, मन्त्रज्ञैः = मन्त्रणाकुशलैः, ब्राह्मणैः = भूदेवैः, मन्त्रिभिश्च = सचिवैश्च, सह = सार्द्धम्, सभाम् = विचारगोष्ठीम्, प्रविशेत् = प्रवेशं कुर्यात् ॥४५ ॥

. CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 229

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 229 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६४ ९ हिन्दी — मुकदमे को देखने की इच्छा रखने वाला राजा विनम्र भाव से सलाह देने में कुशल ब्राह्मणों एवं मन्त्रियों के साथ न्यायालय में प्रवेश करे ॥ ४५ ॥

व्यवहारानिति । व्यवहारान् दिदृक्षुः द्रष्टुमिच्छुः पार्थिवः विनीतः सन् मन्त्रज्ञैः मन्त्रणाकुशलैः ब्राह्मणैः मन्त्रिभिश्च सह सभां प्रविशेत् ॥ ४५ ॥

धर्मासनमधिष्ठाय कार्य्यदर्शनमारभेत् ।

पूर्वोत्तरसमो भूत्वा राजा पृच्छेद् विवादिनौ ॥ ४६ ॥

अन्वयः — राजा धर्मासनम् अधिष्ठाय कार्यदर्शनम् आरभेत् । पूर्वोत्तरसमः भूत्वा राजा विवादिनौ पृच्छेत् ॥ ४६ ॥

व्याख्या – राजा = पार्थिवः, धर्मासनम् = न्यायासनम्, अधिष्ठाय = स्थितो भूत्वा, कार्यदर्शनम् = व्यवहारावलोकनम्, आरभेत् = प्रारम्भं कुर्यात् । पूर्वोत्तरसमः– वादिप्रतिवादिषु समदर्शी भूत्वा, विवादिनौ = वादिप्रतिवादिनौ, पृच्छेत् = प्रश्नं कुर्यात् ॥ ४६ ॥

हिन्दी —–इस तरह राजा न्यायासन पर बैठकर मुकदमा देखना प्रारंभ करे । वादी एवं प्रतिवादी में समदृष्टि रखकर राजा उनसे सवाल करे ॥ ४६ ॥

धर्मासनमिति । राजा धर्मासनं विचारासनम् अधिष्ठाय कार्य्यदर्शनम् आरभेत् । पूर्वोत्तरसमः अर्थिप्रत्यर्थिषु समदर्शी भूत्वा विवादिनौ अर्थिप्रत्यर्थिनौ पृच्छेत् ॥४६ ॥

प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः ।

जातिजानपदान् धर्मान् श्रेणिधर्मांस्तथैव च ।

समीक्ष्य कुलधर्मांश्च स्वधर्मं प्रतिपालयेत् ॥ ४७ ॥

अन्वयः - प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः जातिजानपदान् धर्मान् श्रेणिधर्मान् तथैव कुलधर्मान् समीक्ष्य स्वधर्मं प्रतिपालयेत् ॥ ४७ ॥

व्याख्या – प्रत्यहम् = प्रतिदिनम्, देशदृष्टैः = लोकाचारेष्ववलोकितैः, शास्त्रदृष्टैश्च = धर्मग्रन्थेषु निरूपितैश्च, हेतुभिः = कारणैः, जातिजानपदान् = जातिगतान् दैशीयांश्च, धर्मान् = सदाचारान्, श्रेणिधर्मान् = वर्गगताचारान्, कुलधर्मान् = कौलिकसुकृतानि च, समीक्ष्य = समीक्षां कृत्वा, स्वधर्मम् = राजकृत्यम्, प्रतिपालयेत् = निर्वाहयेत् ॥ ४७ ॥

हिन्दी — हर रोज लोक और शास्त्रों में देखे गये कारणों से जाति, देश, श्रेणि और आनुवंशिक धर्मों की भलीभाँति समीक्षा कर राजा को राजधर्म का प्रतिपालन करना चाहिए ॥ ४७ ॥

प्रत्यहमिति । प्रत्यहं प्रतिदिनं देशदृष्टैः लौकिकैरित्यर्थः, शास्त्रदृष्टैः शास्त्रीयैश्च हेतुभिः जातिजानपदान् जातीयान् जानपदान् दैशिकांश्चेत्यर्थः धर्मान् श्रेणीनां धर्मान् कुलधर्मांश्च समीक्ष्य सम्यक् दृष्ट्वा स्वधर्मं राजधर्मं विचारदर्शित्वरूपं प्रतिपालयेत् ॥४७ ॥

देशजातिकुलानां च ये धर्माः प्राक् प्रवर्त्तिताः ।

तथैव ते पालनीया: प्रजा प्रक्षुभ्यतेऽन्यथा ॥ ४८ ॥

अन्वयः — देशजातिकुलानां च ये धर्माः प्राक् प्रवर्त्तिताः ते तथैव पालनीयाः । अन्यथा प्रजा प्रक्षुभ्यते ॥४८ ॥

व्याख्या — देशानाम् = स्थानविशेषाणाम्, जातीनाम् = वर्णानाम्, कुलानाम् = वंशानाम्, च, ४१ शु ० CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 230

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 230 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६४२ शुक्रनीति: ये धर्माः = आचाराः, प्राक् = पूर्वम्, प्रवर्त्तिताः = सञ्चालिताः, ते = धर्माः, तथैव = तेनैव रूपेण, पालनीयाः = सञ्चालनीयाः । अन्यथा = इतरथा, प्रजा = = जनाः, प्रक्षुभ्यते = प्रकर्षेणोद्वेगं प्राप्नुवन्ति ॥४८ ॥

हिन्दी – देश, जाति एवं कुल के जो धर्म जिस तरह पहले से प्रचलित हों, उनका उसी

रूप में पालन होना चाहिए । अन्यथा परिवर्तन से प्रजा क्षुब्ध हो जाती है ॥ ४८ ॥

देशेति । देशानां जातीनां कुलानाञ्च ये धर्माः प्राक् पूर्वं प्रवर्त्तिताः प्रचलिताः, ते तथैव पूर्ववदेव पालनीयाः रक्षणीयाः, अन्यथा तदपालने इत्यर्थः, प्रजा प्रक्षुभ्यते प्रकर्षेण क्षोभं प्राप्नोति ॥ ४८ ॥

उदूह्यते दाक्षिणात्यैर्मातुलस्य सुता द्विजैः ।

मध्यदेशे कर्मकराः शिल्पिनश्च गवाशिन: ॥ ४ ९ ॥

अन्वयः—— दाक्षिणात्यैः द्विजैः मातुलस्य सुता उदूह्यते । मध्यदेशे कर्मकराः शिल्पिनश्च गवाशिनः ॥ ४ ९ ॥ व्याख्या — दाक्षिणात्यैः = दक्षिणप्रदेशनिवासिभिः, द्विजैः = ब्राह्मणैः, मातुलस्य = मातृभ्रातु:, सुता = दुहिता, उदूह्यते = परिणीयते, मध्यदेशे = हिमाचलविन्ध्याचलकुरुक्षेत्रप्रयागमध्यस्थदेशे, मध्यप्रदेशे, कर्मकराः = लोहकराः, च = पुनः शिल्पिनः = गृहसंवेशकाः, गवाशिनः = गोमांसभक्षकाः भवन्ति ॥ ४ ९ ॥ हिन्दी – जैसे दक्षिण प्रदेश के ब्राह्मण अपनी ममेरी बहिन से शादी करते हैं तथा मध्य-प्रदेश के कुम्हार और शिल्पि गोमांस खाते हैं ॥ ४ ९ ॥ उदूह्यते इति । दाक्षिणात्यैः दक्षिणदिग्वासिभिः द्विजैः मातुलस्य सुता उदूह्यते परिणीयते, मध्यदेशे च कर्मकराः कर्माराः शिल्पिनश्च सूत्रधरादयः गवाशिनः गोखादकाः ॥४ ९ ॥

मत्स्यादाश्च नराः सर्वे व्यभिचाररताः स्त्रियः ।

उत्तरे मद्यपा नार्य्यः स्पृश्या नृणां रजस्वलाः ॥ ५० ॥

अन्वयः - उत्तरे सर्वे नराः मत्स्यादाः स्त्रियः व्यभिचाररताः, मद्यपाः तथा रजस्वलाः अपि नार्यः नृणां स्पृश्याः ( भवन्ति ) ॥५० ॥

व्याख्या — उत्तरे = देशस्योत्तराञ्चले, सर्वे = सकलाः, नराः = जनाः, मत्स्यादाः = मत्स्यभक्षकाः भवन्ति, स्त्रियः = नार्यः, व्यभिचाररताः = कुलटाः पुरुषान्तर्गामिन्यः, मद्यपाः = सुरापायिन्यश्च भवन्ति, तथा रजस्वलाः = ऋतुमत्यः, नार्यः = स्त्रियोऽपि, नृणाम् = नराणाम्, स्पृश्याः = स्पर्शयोग्याः भवन्ति ॥५० ॥

हिन्दी— देश के उत्तरी भाग में सभी लोग मछली खाते हैं, औरतें व्यभिचारिणी एवं शराबी होती हैं और निषिद्ध रजस्वला नारी का भी पुरुष स्पर्श करते हैं ॥ ५० ॥

मत्स्यादाश्चेति । उत्तरे देशे सर्वे नराः मत्स्यादाः मत्स्याशिनः स्त्रियः व्यभिचाररताः यथेच्छं पुरुषान्तरगामिन्य इत्यर्थः, मद्यपाः सुरापायिन्यः, तथा रजस्वलाः ऋतुमत्यः अपि नृणां स्पृश्याः स्पर्शनीयाः ॥ ५० ॥

खशजाताः प्रगृह्यन्ति भ्रातृभार्य्यामभर्तृकाम् ।

अनेन कर्मणा नैते प्रायश्चित्तदमार्हकाः ॥ ५१ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA