शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 231–240

शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 231–240

पृष्ठ 231

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 231 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६४३ अन्वयः - खशजाताः अभर्तृकां भ्रातृभार्यां प्रगृह्यन्ति । अनेन कर्मणा एते प्रायश्चित्तदमार्हकाः न भवन्ति ॥ ५१ ॥

व्याख्या– खशजाताः = ' खश ' जातिविशेषोत्पन्नाः जनाः, अभर्त्तृकाम् = विधवाम्, भ्रातृभार्याम् = सोदरपत्नीम्, प्रगृह्यन्ति = पाणिग्रहणं कुर्वन्ति । अनेन = एतेन पूर्वोक्तेन, कर्मणा = कृत्येन, खशाः, न प्रायश्चित्तम् = पापविशुद्धिकरणम्, नापि, दमम् = दण्डम्, नृपेण अर्हन्ति = प्राप्तुं शक्नुवन्ति ॥ ५१ ॥

हिन्दी – खश जाति के लोग अपने भाई की विधवा से विवाह करते हैं । ऐसे पूर्वोक्त निषिद्ध कर्म करने के बावजूद ये राजा के द्वारा न तो प्रायश्चित्त करवाये जाते हैं और न दण्डित ही होते हैं ॥ ५१ ॥

खशेति । खशजाताः खशजातीयाः नरा अभर्तृकां विधवां भ्रातृभार्य्यं प्रगृह्यन्ति परिणयन्ति । अनेन कर्मणा भ्रातृभार्य्यापरिणयेन एते खशाः न प्रायश्चित्तदमार्हकाः न प्रायश्चित्तं नापि दमं दण्डम् अर्हन्तीत्यर्थः ॥५१ ॥

येषां परम्पराप्राप्ताः पूर्वजैरप्यनुष्ठिताः ।

त एव तैर्न दुष्येयुराचारान्नेतरस्य तु ॥ ५२ ॥

अन्वयः – येषां ये परम्पराप्राप्ताः पूर्वजैरप्यनुष्ठिताः, ते तैः इतरस्य आचारान् न दुष्येयुः ॥५२ ॥

व्याख्या – येषाम् = जनानाम्, कुलानां स्थानविशेषाणाञ्च, ये = धर्माः, परम्पराप्राप्ताः = पूर्वप्रचलिता धर्माः, पूर्वजैः = पूर्वपुरुषैः, अनुष्ठिताः = आचरिताः, = = धर्माः, तैः = जनैः, तथै-वानुष्ठेयाः, अत्र इतरस्य = अन्यजनस्य, आचारान् = सदाचारान्, न = नहि, दुष्येयुः, दूषितान् कुर्युः ॥५२ ॥

हिन्दी — जिस जाति अथवा कुल के लोगों का जो भी परम्परागत धर्म हों, उन्हें उसी का अनुपालन करना चाहिए । अतः राजे एक - दूसरे के धर्म को दूषित न होने दें । यहीं उनका कर्त्तव्य हैं ॥ ५२ ॥

येषमिति । येषां जातीयानां देशानाञ्च कुलानाञ्च ये परम्पराप्राप्ताः चिरं प्रचलिताः धर्माः पूर्वजैः पूर्वपुरुषैः अनुष्ठिताः, ते धर्माः तैः तथैव अनुष्ठेया इति पूरयित्वा व्याख्येयम्, अतः इतरस्य अपरस्य आचारान् न दुष्येयुः न दूषितान् कुर्य्युरित्यर्थः, राजान इति शेषः ॥५२ ॥

परस्त्रीधनसंलुब्धा मद्यासक्तरताः कलौ ।

विज्ञानलवदुर्दग्धाः प्रायः श्रीसंयुताश्च ये ॥ ५३ ॥

तन्त्रकर्मरता वेदविमुखाः स्युः सदैव हि ।

महादण्डेन चैतेषां कुर्य्यात् संसाधनं नृपः ॥ ५४ ॥

अन्वयः — कलौ ये श्रीसंयुताः प्रायः ते सदैव परस्त्रीधनसंलुब्धाः मद्यासक्तरताः विज्ञानलव-दुर्दग्धाः तन्त्रकर्मरताः वेदविमुखाः स्युः, नृपः महादण्डेन एतेषां संसाधनं कुर्यात् ॥ ५३-५४ ॥ व्याख्या — कलौ = कलियुगे, ये = जनाः, श्रीसंयुताः = लक्ष्मीवन्तः, ते = जनाः, प्रायः = बहुधा, सदैव = सर्वदैव, परस्त्रीधनसंलुब्धाः – परस्त्रीषु = परनारीषु, परधनेषु = अन्यजनार्थेषु, च, संलुब्धा: — सम्यक् प्रकारेण लुब्धाः = गृध्नवः, मद्यासक्तरताः = - सुरापाने निरताः, CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 232

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 232 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६४४ शुक्रनीतिः विज्ञानलवदुर्दग्धाः – विज्ञानस्य = ज्ञानस्य, लवेन = लेशेन, दुर्दग्धाः = अतीवगर्विताः, तन्त्रकर्मरताः – तन्त्रकर्मणि = तान्त्रिककृत्येषु, रताः = = र सदैवासक्ताः, तथा वेदविमुखाः = वैदिकधर्मपराङ्मुखाः, स्युः = भवेयुः, नृपः = राजा, महादण्डेन = महान् चासौ दण्डः महादण्डस्तेन, एतेषाम् = पूर्वोक्तानां जनानाम्, संसाधनम् = सुष्ठुतया दमनं कुर्यात् = विधेयात् ॥ ५३ ॥

हिन्दी — कलियुग में जो धनवान् हैं वे प्रायः दूसरों के धन और औरत के लोभी होते हैं, शराबी होते हैं, थोड़े ज्ञान में भी अपने को महाज्ञानी समझते हैं, तान्त्रिक अनुष्ठान में संलग्न रहते हैं तथा वैदिक धर्म से विमुख होते हैं । राजा ऐसे लोगों का महादण्ड से दमन करे ॥५३-५४ ॥ परस्त्रीति । तन्त्रेति । कलौ ये श्रीसंयुताः श्रीमन्तः, ते प्राय: बाहुल्येन सदा परस्त्रीधनसंलुब्धाः परस्त्रीषु परधनेषु च सम्यक् लुब्धाः, मद्यासक्तरताः सुरापानसक्ताः, विज्ञानलवेन ज्ञानलेशेन दुर्दग्धाः गर्विताः, तन्त्रकर्मणि तन्त्रोक्तकार्येषु रताः, तथा वेदविमुखाः वेदबाह्यधर्मावलम्बिनः स्युः भवेयुः । नृपः महादण्डेन एतेषां संसाधनं सम्यक् दण्डं कुर्य्यात् ॥५३-५४ ॥

न्यायान् पश्येत्तु मध्याह्ने पूर्वाहणे स्मृतिदर्शनम् ।

मनुष्यमारणे स्तेये साहसेऽत्ययिके सदा ॥ ५५ ॥

न कालनियमस्तत्र सद्य एव विवेचनम् ॥ ५६ ॥

अन्वयः — मध्याह्ने न्यायान् पश्येत्, पूर्वाह्णे स्मृतिदर्शनम् । मनुष्यमारणे स्तेये साहसे अत्ययिके च सदा तत्र कालनियमः न, सद्यः एवं विवेचनम् ॥ ५५-५६ ॥ व्याख्या – मध्याह्ने = दिवसस्य मध्यभागे, न्यायान् = अपराधानुरूपविचारान् पश्येत् = अवलोकयेत्, पूर्वाह्णे = त्रिधाविभक्तस्य दिवसस्य पूर्वभागे, स्मृतिदर्शनम् - स्मृतीनाम् = धर्मसंहितानाम्, दर्शनम् = पर्यालोचनम् कुर्यात् । मनुष्यमारणे = नरहत्यायाम्, स्तेये = चौर्ये, साहसे = दस्युकर्मणि, अत्ययिके = विनाशजनके व्यापारे च, सदा = सततम्, विचारणीयम् । तत्र = तस्मिन् कर्मणि, कालनियमः = समयप्रतिबन्धः न = नास्ति, अस्मिन्कर्मणि, सद्यः एव = तत्काल एव, विवेचनम् = पर्यालोचनम्, कर्त्तव्य इति ॥५५-५६ ॥ हिन्दी - राजा दोपहर दिन में मुकदमों को देखे, पूर्वाह्ण ( दोपहर के पहले ) में धर्मसंहिता का अनुचिन्तन करे । किन्तु, खून, चोरी, डकैती या कोई अत्यधिक विनाशजनक मुकदमे को देखने में समय का कोई प्रतिबंध नहीं होना चाहिए; प्रत्युत इसकी सुनवाई तत्क्षण होनी चाहिए ॥ ५५-५६ ॥ न्यायानिति । नेति । मध्याह्ने न्यायान् विचारान् पश्येत् पूर्वाह्णे स्मृतिदर्शनं स्मृतीनां धर्मशास्त्राणां दर्शनं पर्य्यालोचनं कुर्य्यात् । मनुष्यमारणे नरहत्यायां, स्तेये चौर्य्ये, साहसे दस्युकर्मणि, अत्ययिके नाशजनके अन्यस्मिन् व्यापारे च सदा पूर्वाह्णे सायाह्णे वा पश्येत् । तत्र कालनियमः नास्ति, सद्य एव विवेचनं विचारः कर्त्तव्य इति धर्मासनगतं दृष्ट्वा राजानं मन्त्रिभिः सह गच्छेन्निवेद्यमानं यत् प्रतिरुद्धमधर्मतः यथासत्यं चिन्तयित्वा लिखित्वा च समाहितः नत्वा च प्राञ्जलिः प्रह्वो ह्यर्थी कार्य्यं निवेदयेत् CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA रात्रौ इत्यर्थः, न्यायान् शेषः॥५५-५६ ॥ ॥। ५७ ॥

॥ ५८ ॥

पृष्ठ 233

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 233 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६४५ अन्वयः— धर्मासनगतं मन्त्रिभिः सह राजानं दृष्ट्वा अर्थी गच्छेत् । तत्र प्रतिरुद्धमधर्मतः यत् निवेद्यमानं यथासत्यं चिन्तयित्वा समाहितः, लिखित्वा च नत्वा प्राञ्जलिः प्रह्वः कार्यं निवेदयेत् ॥ ५७-५८ ॥ व्याख्या — धर्मासनगतम् = न्यायासनासीनम्, मन्त्रिभिः सचिवैः सह परिवृतम्, राजानम् = नृपम्, दृष्ट्वा = अवलोक्य, अर्थी = प्रार्थी, वादी वा गच्छेत् = समीपं व्रजेत् । तत्र सन्निधिं गत्वा च, अधर्मतः = अधर्मात् प्रतिरुद्धम् = प्रातिकूल्यम् यत् = वस्तु, निवेद्यमानम् = प्रार्थनीयम्, तत् = अभियोगम्, यथासत्यम् = सत्यानुकूलम्, चिन्तयित्वा = विचारयित्वा, समाहितः = अवहितचित्ताः, लिखित्वा = लिपिबद्धं कृत्वा, च = पुनः, प्राञ्जलिः कृताञ्जलिः, तथा प्रह्वः = विनम्रो भूत्वा, कार्यम् = अभियोगम्, निवेदयेत् = प्रार्थयेत् ॥ ५७-५८ ॥ हिन्दी – न्याय के आसन पर मंत्रियों से घिरे राजा को बैठे देखकर प्रार्थी उनके पास जाये । पास जाकर अधर्म रहित जो कुछ निवेदन करना हो, उसे यथार्थ रूप से विचार कर, सावधान मन होकर, लिखित रूप से हाथ जोड़कर विनत भाव से दावा दाखिल करे ॥ ५७-५८ ॥ धर्मासनगतमिति । यथेति । धर्मासनगतं विचारासनोपविष्टं मन्त्रिभिः सह परिवृतं राजानं दृष्ट्वा अर्थी गच्छेत् तत् सन्निधिमिति शेषः, गत्वा च अधर्मतः अधर्मात् प्रतिरुद्धं निवृत्तम् अधर्मरहितमित्यर्थः, निवेद्यमानं यत् वस्तु, तत् यथासत्यं चिन्तयित्वा समाहितः अवहितमनाः लिखिवा च नत्वा च प्राञ्जलिः कृताञ्जलिः तथा प्रह्वः नम्रः सन् कार्य्यं निवेदयेत् ॥ ५७-५८ ॥

यथार्हमेनमभ्यर्च्य ब्राह्मणैः सह पार्थिवः ।

सान्त्वेन प्रशमय्यादौ स्वधर्मं प्रतिपादयेत् ॥ ५ ९ ॥

अन्वयः — पार्थिवः ब्राह्मणैः सह एनं यथार्हम् अभ्यर्च्य सान्त्वेन आदौ प्रशमय्य स्वधर्मं प्रतिपादयेत् ॥ ५ ९ ॥ व्याख्या— पार्थवः = राजा, ब्राह्मणैः = विप्रैः सह = साकम्, एनम् = अभ्यर्थिनम्, यथार्हम् = यथायोग्यम्, अभ्यर्च्य = सम्मान्य, सान्त्वेन = सान्त्वनाप्रदानेन, आदौ = प्रथमम्, प्रशमय्य = आश्वासनं दत्वा, स्वधर्मम् = राजधर्मम्, प्रतिपादयेत् = निष्पादयेत् ॥ ५ ९ ॥ हिन्दी - ब्राह्मणों के साथ राजा उस प्रार्थी का यथोचित सम्मान कर सर्वप्रथम उसे आश्वासन देकर मुकदमा देखना प्रारंभ करे ॥ ५ ९ ॥ यथार्हमिति । पार्थिवः ब्राह्मणैः सभ्यैः सह एनम् अर्थिनं यथार्हं सान्त्वेन सान्त्ववादेन आदौ प्रशमय्य प्रबोध्य आश्वास्य इत्यर्थः, काले कार्य्यार्थिनं पृच्छेत् प्रणतं पुरतः किं कार्य्यं का च ते पीडा मा भैषीब्रूहि अन्वयः — काले प्रणतं पुरतः स्थितं कार्यार्थिनं पृच्छेत् — हे का? मा भैषीः, वद ॥ ६० ॥

व्याख्या — काले = यथावसरे, प्रणतम् = विनतम् पुरतः = यथायोग्यम् अभ्यर्च्य सम्मान्य स्वधर्मं प्रतिपादयेत् ॥५ ९ ॥

स्थितम् ।

मानव! ॥ ६० ॥

मानव! किं कार्यं ते पीडा च अग्रे, स्थितम् = समुपस्थितम्, कार्यार्थिनम् = अभियोगिनम्, पृच्छेत् — हे मानव! किमिति प्रश्ने, कार्यम् = अभियोगम्, ते = तव, पीडा = कष्टम्, का? मा भैषीः = भयं मा कुरु, ब्रूहि = कथय ॥ ६० ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 234

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 234 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६४६ शुक्रनीतिः हिन्दी — विनम्र भाव से सामने खड़े उस अभियोगी से राजा पूछे — हे भले आदमी! तुम्हें क्या काम है? क्या कष्ट है? डरो मत, मुझसे कहो ॥ ६० ॥

काले इति । काले यथासमये प्रणतं पुरतः अग्रतः स्थितं कार्य्यार्थिनं पृच्छेत्, हे मानव! किं कार्य्यं ते तव पीडा च का, मा भैषीः, ब्रूहि वद ॥ ६० ॥

केन कस्मिन् कदा कस्मात् पीडितोऽसि दुरात्मना ।

एवं पृष्ट्वा स्वभावोक्तं तस्य संशृणुयाद् वचः ॥ ६१ ॥

अन्वयः — कस्मिन् कदा केन दुरात्मना कस्मात् पीडितोऽसि? एवं पृष्ट्वा तस्य स्वभावोक्तं वचः संशृणुयात् ॥६१ ॥

व्याख्या — कस्मिन् = स्थाने, कदा = कस्मिन् समये, केन = जनेन, दुरात्मना = दुष्टेन, कस्मात् = कारणात्, पीडितोऽसि = क्लेशितोऽसि एवम् = अनेन प्रकारेण, पृष्ट्वा = अनुयुज्य, तस्य = = अभियोगिनः, स्वभावोक्तम् = सहजोक्तम् वचः = वचनम्, संशृणुयात् = सम्यक् प्रकारेणाकर्णयेत् ॥६१ ॥

हिन्दी —तुम्हें किस दुष्ट ने कहाँ, किस समय और क्यों पीड़ा पहुँचाई है? इस तरह पूछकर उसकी सहज बातें सुने ॥ ६१ ॥

केनेति । कस्मिन् स्थाने कदा कस्मिन् समये केन दुरात्मना कस्मात् कारणात् पीडितोऽसि, एवं पृष्ट्वा तस्य वादिनः स्वभावोक्तं न तु काल्पनिकमित्यर्थः, वचः वचनं संशृणुयात् ॥ ६१ ॥

प्रसिद्धलिपिभाषाभिस्तदुक्तं लेखको लिखेत् ॥ ६२ ॥

अन्वयः — लेखकः तदुक्तं प्रसिद्धलिपिभाषाभिः लिखेत् ॥ ६२ ॥

व्याख्या — लेखकः = लिपिकारः, तत् = अभियोगिनः, उक्तम् = निवेदितम्, प्रसिद्धाभिः = प्रचलिताभिः, लिपिभिः = अक्षरैः, भाषाभिः = गिराभिः लिखेत् = लेखनं कुर्यात् ॥६२ ॥

' हिन्दी — और लेखक उसकी कही बातों को उस समय की प्रचलित लिपि और भाषा में लिखे ॥६२ ॥

प्रसिद्धेति । लेखकः तदुक्तं तेन वादिना उक्तं कथितं प्रसिद्धाभिः चलिताभिः लिपिभिः अक्षरैः भाषाभिश्च लिखेत् ॥ ६२ ॥

अन्यदुक्तं लिखेदन्यद्योऽर्थिप्रत्यर्थिनां वचः ।

' चौरवत् शासयेद्राजा लेखकं द्रागतन्द्रितः ॥ ६३ ॥

अन्वयः — यः अर्थिप्रत्यर्थिनाम् अन्यत् उक्तं वचः अन्यत् लिखेत्, राजा अतन्द्रितः सन् ं तं द्राक् चौरवत् शासयेत् ॥ ६३ ॥

व्याख्या- यः = = लिपिकारः, अर्थिनाम् = वादिनाम्, प्रत्यर्थिनाम् = प्रतिवादिनाम्, अन्यत् उक्तम् = कथितम्, वचः = वचनम्, अन्यत् = भिन्नरूपेण, लिखेत् = लिपिबद्धं कुर्यात्, राजा = नृपः, अतन्द्रितः = अनलसो भूत्वा, तम् = लेखकम्, द्राक् = झटिति, चौरवत् = तस्कर इव, शासयेत् = दमयेत् ॥ ६३ ॥

हिन्दी – यदि कोई लेखक वादी - प्रतिवादी की कही हुई बातों को जैसा वह कहे, उससे भिन्न लिखे, तो राजा तत्परता के साथ उस लेखक को चोर की तरह दण्ड दे ॥६३ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 235

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 235 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६४७ अन्यदुक्तमिति । यः लेखकः अर्थिनां प्रत्यर्थिनाञ्च अन्यत् उक्तं वचः वाक्यम् अन्यत् अन्यथेत्यर्थः, लिखेत्, राजा अतन्द्रितः अनलसः क्षिप्रकारीत्यर्थः, सन् तं लेखकं द्राक् झटिति चौरवत् शासयेत् दण्डयेत् ॥ ६३ ॥

लिखितं तादृशं सभ्या न विब्रूयुः कदाचन ।

बलाद् गृह्णन्ति लिखितं दण्डयेत् तांस्तु चौरवत् ॥ ६४ ॥

अन्वयः — सभ्याश्च तादृशं लिखितं कदाचन न विब्रूयुः । यदि बलात् गृह्णन्ति तांस्तु चौरवत् दण्डयेत् ॥६४ ॥

व्याख्या – सभ्याश्च = सांसदश्च, तादृशम् = पूर्वोक्तमिव, लिखितम् = अङ्कितम्, कदाचन = कदापि, न = नहि, विब्रूयुः = अनुमोदेरन् । यदि ते तादृशं लिखितम्, बलात् = हठात्, गृह्णन्ति = ग्रहणं कुर्वन्ति तान् = सभ्यान् तु चौरवत् = तस्कर इव, दण्डयेत् = दण्डं दद्यात् ॥६४ ॥

हिन्दी - सांसद भी उक्त रीति से लिखे गये बयान का अनुमोदन न करे । यदि वे अपने अधिकार के बल पर वैसा करे तो राजा उन्हें चोर की तरह दण्ड दे ॥६४ ॥

लिखितमिति । सभ्याश्च तादृशं लिखितं कदाचन न विब्रूयुः न अनुमोदेरन्नित्यर्थः, यदि ते सभ्याः तादृशं लिखितं बलात् बलमाश्रित्य इत्यर्थः, गृह्णन्ति तांस्तु तांश्च चौरवत् दण्डयेत् ॥ ६४ ॥

प्राड्विवाको नृपाभावे पृच्छेदेवं सभागतम् ॥ ६५ ॥

अन्वयः — प्राड्विवाकः नृपस्य अभावे सभागतम् एवं पृच्छेत् ॥ ६५ ॥

व्याख्या – प्राड्विवाकः = विचारपतिः, नृपस्य = राज्ञः, अभावे = अनुपस्थितौ, सभागतम् = सभायां सभागतमभ्यर्थिनम्, एवम् = पूर्वोक्तमिव पृच्छेत् = जिज्ञासां कुर्यात् ॥ ६५ ॥

हिन्दी - राजा की अनुपस्थिति में विचारपति न्यायालय में उपस्थित अभ्यर्थी से उसी प्रकार पूछे ॥६५ ॥

प्राड्विवाक इति । प्राड्विवाकः विचारपतिः नृपस्य अभावे सभागतम् अर्थिनम् एवं पूर्ववत् पृच्छेत् ॥ ६५ ॥

वादिनौ पृच्छति प्राड् वा विवाको विविनक्त्यतः ।

विचारयति सभ्यैर्वा धर्माधर्मान् विवक्ति वा ॥ ६६ ॥

अन्वयः – वादिनौ पृच्छति प्राड् वा विविनक्ति इति विवाकः । अतः सः वा सभ्यैः सह धर्माधर्मान् विचारयति वा विवक्ति ॥ ६६ ॥

व्याख्या — वादिनौ = वादिप्रतिवादिनौ, पृच्छति = जिज्ञासयतीति प्राड् विविनक्ति = विचारयतीति विवाकः अर्थात् विशिष्टो वाको यस्येति विवाकः = न्यायाधीशः, सः वा = स एव, वा नृपाभावे, सभ्यैः = सांसद्भिः सह, धर्माधर्मान् = कर्त्तव्याकर्तव्यान्, विचारयति = चिन्तयति, वा विवक्ति = विशेषरूपेण वदतीति ॥ ६६ ॥

हिन्दी — वह वादी - प्रतिवादी से पूछता है, अतः प्राड् कहलाता है और विचार करता है अतः विवाक कहलाता है । अतः दोनों मिलकर प्राड्विवाक कहलाता है और वही न्यायाधीश CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 236

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 236 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६४८ शुक्रनीतिः सांसदों से मिलकर धर्माधर्म का विचार करते हुए अपना निर्णय देता है ॥६६ ॥

वादिनाविति । वादिनौ अर्थिप्रत्यर्थिनौ पृच्छतीति प्राड्, विविनक्ति विचारयतीति विवाकः, अतः असौ विचारपतिः प्राड्विवाक इत्यर्थः । सः वा स एव राजाभावे इत्यर्थः, सभ्यैः सह धर्माधर्मान् विचारयति वा विवक्ति विशेषेण वदति ॥ ६६ ॥

सभायां ये हिता योग्याः सभ्यास्ते चापि साधवः ॥ ६७ ॥

अन्वयः — सभायां ये हिताः योग्याः साधवः सभ्याः ते चापि पश्येयुरिति ॥ ६७ ॥

व्याख्या — सभायाम् = न्यायालये, ये = जनाः, हिताः = हितेच्छुकाः, योग्याः = कार्यनिपुणाः, साधवः = सत्पुरुषाः, सभ्याः = सभासदः, ते चापि विवादं पश्येयुरिति ॥६७ ॥

हिन्दी — न्यायालय में जो व्यक्ति विचारवान् तथा कार्यचतुर एवं सज्जन हों, उन्हें सभासद बनाना चाहिए ॥ ६७ ॥

सभायामिति । सभायां ये हिताः योग्याः कर्मदक्षाः साधवः सुजनाः पश्येयुरिति शेषः ॥ ६७ ॥

स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः I आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ॥ ६८ ॥

अन्वयः — स्मृत्याचारव्यपेतेन मार्गेण परैः आधर्षितः चेत् राज्ञे व्यवहारपदम् ॥ ६८ ॥

सभ्याः, ते च कार्य्यं आवेदयति तत् हि व्याख्या — स्मृत्याः = धर्मसंहितायाः, आचारः = सत्पुरुषानुष्ठितव्यवहारः, तत् = तस्य, व्यपेतेन = विपरीतेन, मार्गेण = पथा, परैः = अन्यैः, आधर्षितः = व्यथितो जनः, चेत् = यदि, राज्ञे = नृपाय, आवेदयति = प्रार्थयति, तत् = आवेदनम्, हि = निश्चयेन, व्यवहारपदम् = विवादस्थानम्, भवति ॥ ६८ ॥

हिन्दी — धर्मसंहिता में वर्णित आचरण के विपरीत राह पकड़कर यदि कोई किसी को सताता है तो उसके विरुद्ध न्यायालय में राजा के पास जो दावा पेश करता है, उसे ' व्यवहारपद ' अर्थात् मुकदमा दायर करना कहते हैं ॥ ६८ ॥

स्मृतीति । स्मृतिः धर्मशास्त्रम् आचारः सज्जनानुष्ठितः व्यवहारः तद्व्यपेतेन तद्विरुद्धेन मार्गेण पथा कार्य्येणेत्यर्थः, परैः अन्यैः आधर्षितः पीडितः जनः चेत् यदि राज्ञे आवेदयति तत् आवेदनं व्यवहारपदं विवादस्थानं हि हिशब्दोऽवधारणार्थः ॥ ६८ ॥

नोत्पादयेत् स्वयं कार्य्यं राजा नाप्यस्य पूरुषः ।

न रागेण न लोभेन न क्रोधेन ग्रसेन्नृपः ।

परैरप्रापितानर्थान्न चापि स्वमनीषया ॥ ६ ९ ॥

अन्वयः – राजा स्वयं न अस्य पूरुषोऽपि न कार्यम् उत्पादयेत् । किञ्च नृपः रागेण न लोभेन न क्रोधेन च न प्रसेत्, परैः अप्रापितान् अर्थान् स्वमनीषया न उत्पादयेत् ॥ ६ ९ ॥ व्याख्या — राजा = नृपः, स्वयम् = आत्मनैव, न = नहि, अस्य = एतस्य नृपस्य, पूरुषोऽपि = राजसेवकोऽपि न = नहि, कार्यम् = विवादम्, उत्पादयेत् = घटयेत् । किञ्च, नृपः: = राजा, रागेण = प्रेम्णा, न = नहि, लोभेन = लिप्सया, न = नहि, क्रोधेन = कोपेन च, CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 237

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 237 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६४ ९ न = = नहि, प्रसेत् = कमपि पीडयेत् । अन्यच्च परैः = अन्यैः, अर्थिप्रत्यर्थिभिः, अप्रापितान् = अनावेदितान्, अर्थान् = व्यवहाराणि, स्वमनीपया - स्वस्य = आत्मनः, मनीषया = बुद्ध्या, न = नहि, उत्पादयेत् = घटयेदिति ॥ ६ ९ ॥ हिन्दी — राजा या राजपुरुष स्वयं कोई मुकदमा न्यायालय में दायर न करे । राजा प्रेम, लोभ या क्रोध के वशीभूत होकर किसी को न सताये तथा वादी - प्रतिवादी के बिना ही स्वयं अपनी बुद्धि की उपज के कारण कोई मुकदमा न्यायालय में दायर न करे ॥ ६ ९ ॥ नोत्पादयेदिति । राजा स्वयं न, अस्य राज्ञः पुरुषोऽपि न कार्य्यम् उत्पादयेत् विवादं न घटयेदित्यर्थः । किञ्च नृपः रागेण कस्मिन्नपि अनुरागेण न, लोभेन न, क्रोधेन च न प्रसेत् पीडयेत् कमपीति शेषः । अपरञ्च परैः अर्थिप्रत्यर्थिप्रभृतिभिः अप्रापितान् अनावेदितान् अर्थान् कार्य्याणि स्वमनीषया निजबुद्ध्या न उत्पादयेदिति शेषः ॥ ६ ९ ॥ छलानि चापराधांश्च पदानि नृपतेस्तथा ।

स्वयमेतानि गृहणीयान्नृपस्त्वावेदकैर्विना ।

सूचकस्तोभकाभ्यां वा श्रुत्वा चैतानि तत्त्वतः ॥ ७० ॥

अन्वयः — नृपः आवेदकैः विना स्वयं छलानि अपराधान् तथा नृपतेः स्वस्य पदानि तथा सूचकस्तोभकाभ्यां श्रुत्वा एतानि तत्त्वतः गृह्णीयात् ॥७० ॥

व्याख्या – नृपः = राजा, आवेदकैः = अभ्यर्थिभिः, विना = अभावे, स्वयम् = आत्मनः एव, छलानि = कपटानि, अपराधान् = दोषान्, तथा नृपतेः = राज्ञः, स्वस्य = आत्मनः, पदानि = विवादस्थानानि, तथा सूचकस्तोभकाभ्याम् = गुप्तचरगूढपुरुषाभ्याम्, श्रुत्वा = आकर्ण्य, एतानि = पूर्वोक्तानि, तत्त्वतः = = याथार्थ्येन, गृह्णीयात् = स्वीकुर्यात् ॥ ७० ॥

हिन्दी - किसी के द्वारा मुकदमा दायर किये बिना भी राजा खुद आगे कहे जाने वाले छल, अपराध एवं विवादस्थल - इन्हें गुप्तचर एवं मुखबिरों से सुनकर इनके बारे में सही जानकारी लेकर स्वयं मुकदमा दायर करे ॥ ७१ ॥

छलानीति । नृपः आवेदकैः निवेदकैः विना निवेदनमन्तरेणेत्यर्थः, स्वयं छलानि अपराधान् तथा नृपतेः स्वस्य पदानि विवादस्थानानि, तथा सूचकस्तोभकाभ्यां श्रुत्वा एतानि तदुक्तानि तत्त्वतः याथार्थ्येन गृह्णीयात् ॥७० ॥

शास्त्रेणानिन्दितस्त्वर्थी नापि राज्ञा प्रचोदितः ।

आवेदयति यत् पूर्वं स्तोभकः स उदाहृतः ॥ ७१ ॥

अन्वयः — यः शास्त्रेण अनिन्दितः तथा राज्ञा प्रचोदितः न किन्तु पूर्वम् आवेदयति, सः अर्थी स्तोभकः उदाहृतः ॥ ७१ ॥

व्याख्या- - यः = पुरुषः, शास्त्रेण = धर्मग्रन्थेन, अनिन्दितः = निन्दारहितः, तथा = तेनैव प्रकारेण, राज्ञा = नृपेण, प्रचोदितश्च = प्रेरितश्च, न = =: नहि, किन्तु, पूर्वम् = प्राक्, आवेदयति = प्रार्थयति, सः = • असौ, अर्थी, स्तोभकम्, उदाहृतः = कथितः ॥७१ ॥

हिन्दी – जो शास्त्र में निन्दित न हो, राजा ने उसे आवेदन प्रस्तुत करने के लिए प्रेरित न किया हो, यदि वह पहले ही आकर राजा से निवेदित करता है, उसे स्तोभ कहते हैं ॥७१ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 238

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 238 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६५० शुक्रनीतिः स्तोभकं लक्षयति — शास्त्रेणेति । यः शास्त्रेण अनिन्दितः तथा राज्ञा प्रचोदितश्च न, किन्तु पूर्वम् आवेदयति ज्ञापयति सः अर्थी स्तोभक उदाहृतः ख्यातः ॥७१ ॥

नृपेण विनियुक्तो यः परदोषानुवीक्षणे ।

नृपं संसूचयेज्ज्ञात्वा सूचकः स उदाहृतः ॥ ७२ ॥

अन्वयः– यः परदोषानुवीक्षणे नृपेण विनियुक्तः सन् नृपं संसूचयेत्, सः सूचकः उदाहृतः ॥ ७२ ॥

व्याख्या — यः = पुरुषः, परदोषानुवीक्षणे = अन्यापराधनिरीक्षणे, नृपेण = राज्ञा, विनियुक्तः = = विशेषरूपेण नियुक्तः, सन्, नृपम् = राजानम्, संसूचयेत् = सम्यक् प्रकारेण निवेदयेत्, सः = - असौ, सूचकः = गुप्तचरः, उदाहृतः = ख्यातः ॥७२ ॥

हिन्दी — राजा जिसे दूसरों के अपराध की जानकारी के लिए नियुक्त करता है और वह सारी सूचनाएँ इकठ्ठी कर राजा के सामने प्रस्तुत करता है, उसे संसूचक अर्थात् गुप्तचर कहते हैं ॥ ७२ ॥

सूचकं लक्षयति – नृपेणेति । यः परदोषानुवीक्षणे परदोषदर्शनार्थं नृपेण राज्ञा विनियुक्तः सन् नृपं संसूचयेत्नृपसमीपे परदोषान् प्रकाशयेत् स सूचकः उदाहृतः ॥७२

पथिभङ्गी पराक्षेपी प्राकारोपरि लड्डुकः ।

निपानस्य विनाशी च तथा चायतनस्य च ॥

परिखापूरकश्चैव राजच्छिद्रप्रकाशकः ।

अन्तःपुरं वासगृहं भाण्डागारं महानसम् ॥

प्रविशत्यनियुक्तो यो भोजनञ्च निरीक्षते ।

विण्मूत्रश्लेष्मवातानां क्षेप्ता कामान्नृपाग्रतः ॥

पर्य्यङ्कासनबन्धी चाप्यग्रस्थानविरोधकः ।

नृपातिरिक्तवेशश्च विधृत: प्रविशेत्तु यः ॥

यश्चापद्वारेण विशेदवेलायां तथैव च ।

शय्यासने पादुके च शयनासनरोहणे ॥

राजन्यासन्नशयने यस्तिष्ठति समीपतः ।

राज्ञो विद्विष्टसेवी चाप्यदत्तविहितासनः ॥

अन्यवस्त्राभरणयोः स्वर्णस्य परिधायकः ।

स्वयंग्राहेण ताम्बूलं गृहीत्वा भक्षयेत्तु यः ॥

अनियुक्तप्रभाषी च नृपाक्रोशक एव च ।

एकवासास्तथाभ्यक्तो मुक्तकेशोऽवकुण्ठितः ॥

विचित्रिताङ्गः स्रग्वी च परिधानविधूनकः ।

शिरः प्रच्छादकश्चैव छिद्रान्वेषणतत्परः ॥

७३ ॥

७४ ॥

७५ ॥

७६ ॥

७७ ॥

७८ ॥

७ ९ ॥।

८० ॥

८१ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 239

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 239 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६५१ आसङ्गी मुक्तवेशश्च घ्राणकर्णाक्षिदर्शकः ।

दन्तोल्लेखनकश्चैव कर्णनासाविशोधकः ।

राज्ञः समीपे पञ्चाशच्छलान्येतानि सन्ति हि ॥। ८२ ॥

अन्वयः - पथिभङ्गी पराक्षेपी प्राकारोपरि लङ्घकः निपानस्य विनाशी च आयतनस्य विनाशी परिखापूरकः राजछिद्रप्रकाशक: यश्च अनियुक्तः अन्तःपुरं वासगृहं भाण्डागारं महानसं प्रविशति; यश्च भोजनं निरीक्षते, विण्मूत्रश्लेष्मवातानां कामात् क्षेप्ता नृपस्य अग्रतः पर्यङ्कासनबन्धी अग्रस्थानविरोधकः नृपातिरिक्तवेशश्च तथा यः विधृतः प्रविशेत्, यश्चापद्वारेण तथा अवेलायां विशेत् शय्यासने तथा पादुके शयनासनरोहणे यश्च आसन्नशयने राजनि समीपतः तिष्ठति, राज्ञः विद्विष्टसेवी अदत्तविहितासनः अन्यवस्त्राभरणयोः स्वर्णस्य च परिधायकः, यश्च स्वयंप्राहेण ताम्बूलं गृहीत्वा भक्षयेत्, अनियुक्तप्रभाषी च नृपाक्रोशकः एकवासाः अभ्यक्तः मुक्तकेशः अवकुण्ठितः विचित्रिताङ्गः स्रग्वी परिधानविधूनकः शिरःप्रच्छादकः छिद्रान्वेषणतत्परः आसङ्गी मुक्तवेशश्च घ्राणकर्णाक्षिदर्शकः दन्तोल्लेखनकः कर्णनासाविशोधकः – राज्ञः समीपे एतानि पञ्चाशत् छलानि सन्ति ॥ ७३-८२ ॥ व्याख्या — पथिभङ्गी = मार्गावरोधकः, परस्य = अन्यजनस्य, आक्षेपी = दोषारोपणकारी, प्राकारस्य = प्राचीरस्य, उपरि = उपरिष्टात्, लङ्घकः = लङ्घनकारी, निपानस्य = पयः शालायाः, तथा आयतनस्य = निवासस्य, विनाशकः, परिखाणाम् = खातानाम्, नगरवेष्टनीभूतानां जलाधाराणाञ्च, पूरकः = मुक्तिकादिभिः भरणकारी, राज्ञः = नृपस्य छिद्रस्य = दोषस्य, प्रकाशकः = स्थापकः, यश्च = यो हि नरः, अनियुक्तः = अननुमतः सन् अन्तःपुरम् = अवरोधः, वासगृहम् = निवाससदनम्, भाण्डागारम् = धान्यकोशः निधानं वेति, महानसम् = पाकशालाम्, प्रविशति = प्रवेशं करोति, यश्च = पुरुषविशेषः, भोजनम् = भक्ष्यम्, निरीक्षते = अवलोक्यते, विण्मूत्रश्लेष्मवातानाम् = मलमूत्रकफानाम् अधोवातानाञ्च, कामात् = स्वेच्छापूर्वकात्, क्षेप्ता = प्रयोक्ता, नृपस्य = राज्ञः, अग्रतः = = सम्मुखे स्, पर्यङ्कासनबन्धी = वीरासनोपविष्टः, अप्रस्थानस्य = नृपसम्मुखावस्थानस्य विरोधकारी, नृपातिरिक्तवेशः = पार्थिवाधिकवेशधरः, तथा च यः = पुरुषः, विधृतः = विशेषेण धारितः, प्रविशेत् = प्रवेशं कुर्यात्, यश्चापद्वारेण = मुख्यद्वारविपरीतमार्गेण, तथा_अवेलायाम् = असमये, विशेत् = परगृहं प्रविशेत्, शय्यासने — शय्यायाम् = पर्यङ्के, आसने - = उपवेशने च, तथा पादुके = पादुकायाम् = चरणरक्षिकायाम्, पादुके इत्यत्र नपुंसकलिङ्ग-निर्देशः, आर्षत्वात्; शयनासनरोहणे – शयने = शय्याम्, आसने = उपवेशने, चरणस्पर्शे, अननुमत्यैव तत्तत्कारीति, यश्च आसन्नशयने = शय्यायामारोहणे, राज्ञि = राजनि, समीपतः = तस्य सन्निधौ तिष्ठति, राज्ञः = नृपस्य विद्विष्टसेवी = शत्रुसेवकः, अदत्तविहितासनः —- अदत्तम् = अविसृष्टम्, विहितम् = गृहीतम्, आसनम् = उपवेशनम्, येन तथोक्तः, अन्यस्य = अपरजनस्य, वस्त्राभरणयोः = वसनभूषणयोः, स्वर्णस्य = कनकस्य च परिधायकः = धारणकर्त्ता, यश्च स्वयम् = आत्मनैव, ग्राहेण = बलेन, परकीयताम्बूलम् = नागवल्लीदलम्, गृहीत्वा = नीत्वा, भक्षयेत् = खादयेत्, अनियुक्तः सन् = नियोजनरहितोऽपि, प्रभाषी - प्रकर्षेण, भाषी = वक्ता, नृपाक्रोशकः — नृपस्य = राज्ञः, आक्रोशकः = निन्दकः, एकवासाः = एकमात्रवस्त्रधारकः, अभ्यक्तः = तैलाक्तशरीरम्, मुक्तकेशः = अबद्धशिरः, अवकुण्ठितः = कातरः, भीरुश्च, विचित्रिताङ्गः— विशेषेण चित्रितः = शवलितः, अङ्गम् = शरीरम्, यस्य सः, स्रग्वी = मालाधारी, परिधानस्य: = CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 240

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 240 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६५२ शुक्रनीति: परिधेयवस्त्रस्य, विधूनकः = कम्पकः, शिरःप्रच्छादकः = अवगुण्ठितः, छिद्रान्वेषणतत्परः = परदोषदर्शने निरतः, आसङ्गी = व्यसनासक्तः, मुक्तवेशः = परित्यक्तपरिच्छदः घ्राणकर्णाक्षिदर्शकः = नासिकाश्रोत्रनयनप्रदर्शनकारी, तथा दन्तोल्लेखनकः – दन्तानाम्, दशनानाम्, उल्लेखनकः = खनकः, तथा कर्णनासाविशोधकः = श्रवणघ्राणपरिशोधनकारी, राज्ञः = = नृपस्य, समीपे = पार्श्वे, एतानि = पूर्वोक्तानि पञ्चाशत्, छलानि = दोषाः, सन्ति ॥७३-८२ ॥ हिन्दी- १. राह रोकने वाला, २. दूसरे को अनादर करने वाला, ३. चहारदीवारी फाँदने वाला, ४. प्याऊ को गंदा करने वाला, ५. निवासस्थान को नष्ट करने वाला, ६. खाई को पाटने वाला, ७. राजा के दुर्गुण को बतलाने वाला, ८. बिना पूछे अन्तःपुर में घुस जाना, ९. बिना पूछे ही किसी के निवासगृह में घुसने वाला, १०. भण्डारघर में घूसने वाला, ११. रसोईघर में झाँकने वाला, १२. भोजन करते समय किसी को एकटक निहारने वाला, १३. जानबूझ कर विष्टा, १४. पेशाब, १५. कफ एवं १६. हवा छोड़ने वाला, १७. राजा के सामने वीरासन में अकड़ कर बैठने वाला, १८. राजा के बैठने के आगे की जगह छेकनेवाला, १ ९. राजा से अधिक भड़कीली पोशाक पहन कर राजा के सामने आने वाला, २० बिना तैनाती, खाशकर पकड़ा कर राजा के सामने आने वाला, २१. किसी के घर में सामने का दरवाजा छोड़कर पिछली राह घुसने वाला, २२. असमय किसी के घर जाने वाला, २३. अनकहे किसी के बिछावन पर सोने वाला, २४. बिना कहे किसी के आसन पर बैठने वाला, २५. बिना पूछे किसी के खड़ाऊँ अथवा जूते पहनने वाला, २६. राजा को सोने के लिए पलंग पर पहुँच जाने के बाद भी उनके सामने ठहरने वाला, २७. राजा के दुश्मन की सेवा करने वाला, २८. बिना कहे किसी के घर ठहर जाने वाला, २ ९. अनकहे किसी के कपड़े, ३०.. जेवर या ३१., सोना लेने वाला, ३२. जबरदस्ती दूसरों के पान का बीड़ा चबाने वाला, ३३. बिना कहे भाषण देने वाला, ३४. राजा की निन्दा करने वाला, ३५. केवल एक वस्त्र पहन कर राजा के सामने जाने वाला, ३६. देह में तेल लगा कर जाने वाला, ३७. केश खोलकर सामने आने वाला, ३८. मुँह ढककर या भयभीत होकर सामने आने वाला, ३ ९. अङ्गों को विचित्र बनाकर सामने आने वाला, ४०. माला पहनकर जाने वाला, ४१. पहने हुए कपड़े को हिलाने वाला, ४२.शिर . को ढकने वाला, ४३. दूसरों के दोषों को ढूंढने वाला, ४४. शराब आदि पीने वाला, ४५. वेशभूषा का परित्याग करने वाला, ४६. अपनी नाक, ४७. अपने कान तथा ४८. अपनी आँखों का प्रदर्शन करने वाला, ४ ९. दाँतों को कुरेदने वाला और ५०. कान का मैल तथा नाक से नकटी निकालने वाला — राजा के सामने ये पचास छल ( दोष ) माने जाते हैं ॥७३-८२ ॥ सम्प्रति पञ्चाशच्छलान्याह - पथीत्यादि । पथिभङ्गी रथ्याभङ्गकरः १, पराक्षेपी परस्य अन्यस्य आक्षेपकारी अवमाननाकरः २, प्राकारस्य उपरि लङ्घक: प्राचीरलङ्घनकारी ३, निपानस्य पानशालायाः तथा आयतनस्य आवासस्य विनाशी नाशकः ४-५, परिखाणां नगरवेष्टनीभूतजलाधारस्य पूरकः मृत्तिकाक्षेपादिति शेषः ६, राज्ञः छिद्रस्य दोषस्य प्रकाशकः ७, यश्च अनियुक्तः अननुमतः सन् अन्तःपुरं वासगृहं भाण्डागारं धनगृहं वा महानसं रन्धनशालां प्रविशति ८ - ११, यश्च भोजनं निरीक्षते भोजनदर्शनस्य निषिद्धत्वादिति भावः १२, विण्मूत्रश्लेष्मवातानां विष्ठामूत्रश्लेष्मणाम् अधोवातानाञ्च कामात् क्षेप्ता प्रयोप्ता १३-१६, नृपस्य अग्रतः समक्षं पर्य्यङ्कासनबन्धी वीरासनोपविष्टः १७, अग्रस्थानस्य सम्मुखावस्थानस्य विरोधकारी १८, नृपातिरिक्तवेशः CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA