शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 281–290
शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 281–290
पृष्ठ 281
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६ ९ ३ बाल इत्यादि । बालः शिशुः अज्ञानात्, स्त्री असत्यात्, कूटकृत् कपटकारी पापाभ्यासात् पापानुष्ठानसातत्यात्, बान्धवः स्नेहात्, अरिः शत्रुः वैरनिर्य्यातनात्, विजातिः अपकृष्टजातिः अभिमानात् आत्मनः मानवर्द्धनप्रत्याशायोगादित्यर्थः, शठः लोभात्, तथा भृत्यः उपजीवनसङ्कोचात् उपजीवनस्य जीविकायाः सङ्कोचो भवेदिति भयादित्यर्थः, विब्रूयात् विरुद्धं वदेत्, तस्मात् एते बालादयः असाक्षिणः साक्षित्वं नार्हन्तीत्यर्थः किञ्च अर्थसम्बन्धिनः अर्थेन सम्बन्धवन्तः न, तथा विद्यायौनसम्बन्धिनः सहाध्यायिनः जामात्रादयश्चेत्यर्थः न साक्षिणो भवन्तीत्यर्थः ॥। १ ९१-१९ २ ॥
श्रेण्यादिषु च वर्गेषु कश्चिच्चेद् द्वेष्यतामियात् ।
तस्य तेभ्यो न साक्ष्यं स्याद्वेष्टारः सर्व एव ते ॥ १ ९ ३ ॥
अन्वयः - श्रेण्यादिषु वर्गेषु चेत् कश्चित् द्वेष्यताम् इयात् तदा तेभ्यः तस्य साक्ष्यं न स्यात् । ते सर्वे एव द्वेष्टारः ॥१ ९ ३ ॥ व्याख्या — श्रेण्यादिषु = जातिविशेषेषु, वर्गेषु = समूहेषु, च चेत् = यदि, कश्चित् = कोऽपि जनः, द्वेष्यताम् = वैरित्वम्, इयात् = इच्छेत् तदा तेभ्यः = श्रेण्यादिभ्यः वर्गेभ्यश्च, समीपात्, तस्य = जनस्य, साक्ष्यम् = प्रेक्षकत्वम्, न = = नहि, स्यात् = भवेत् । ते सर्वे एव जनाः, द्वेष्टारः = विद्वेषिणो भवन्तीति ॥ १ ९ ३ ॥ हिन्दी — कारीगरों के समूह में यदि किसी एक व्यक्ति को विद्वेष हो जाय तो उस समूह से किसी को गवाह नहीं मानना चाहिए । क्योंकि एकता के कारण वे सभी विद्वेषी हो जाते हैं ॥ १ ९ ३ ॥ श्रेण्यादिषु इति । श्रेण्यादिषु जातिविशेषेषु वर्गेषु गणेषु सम्प्रदायविशेषेषु च मध्ये चेत् यदि कश्चित् जनः द्वेष्यतां शत्रुताम् इयात् तदा तेभ्यः श्रेण्यादिभ्यः वर्गेभ्यश्च सकाशात् तस्य विद्वेषिणः जनस्य साक्ष्यं न स्यात् । यस्मात् ते सर्व एक द्वेष्टारः विद्वेषिणः भवन्तीति शेषः ॥१ ९ ३ ॥
न कालहरणं कार्य्यं राज्ञा साक्षिप्रभाषणे ।
अर्थिप्रत्यर्थिसान्निध्ये साध्यार्थेऽपि च सन्निधौ ॥ १ ९ ४ ॥
प्रत्यक्षं वादयेत् साक्ष्यं न परोक्षं कथञ्चन ।
नाङ्गीकरोति यः साक्ष्यं दण्ड्यः स्याद्देशितो यदि ॥ १ ९ ५ ॥
अन्वयः — राज्ञा अर्थिप्रत्यर्थिसान्निध्ये साक्षिप्रभाषणे सन्निधौ साध्यार्थे कालहरणं न कार्यम् । प्रत्यक्षं साक्ष्यं वादयेत् कथञ्चन परोक्षं न । यश्च देशितः यदि साक्ष्यं न अङ्गीकरोति स दण्ड्यः स्यात् ॥ १ ९४-१९ ५ ॥ व्याख्या – राज्ञा = नृपेण, अर्थिप्रत्यर्थिनोः = वादिप्रतिवादिनोः, सान्निध्ये = सामीप्ये, साक्षिप्रभाषणे — साक्षिणाम् = प्रेक्षकानाम्, प्रभाषणे = प्रकर्षेण वचने, तथा सन्निधौ = सामीप्ये, तयोः समक्षम्, साध्यार्थे = साधनीयप्रयोजनेऽपि, कालहरणम् = कालक्षेपम्, न = = नहि, कार्यम् = विधेयम् । किञ्च प्रत्यक्षम् = तयोः वादिप्रतिवादिनोः समक्षम्, साक्ष्यम् = - साक्षित्वम्, वादयेत् = वादितुं प्रेरयेत्, कश्चन = = कोऽपि, परोक्षे = अनुपस्थितौ न वादयेत् । यश्च = पुरुषश्च, देशितोऽपि = नृपेणादिष्टोऽपि, साक्ष्यम् = साक्षित्वम्, न = = नहि, अङ्गीकरोति = = स्वीकरोति, सः पुरुषः, दण्ड्यः = दण्डनीयः, स्यात् = भवेत् ॥ १ ९४-१९ ५ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 282
पाठ पढ़ें पाठ छिपाएँ
हिन्दी वादीप कासवासी की उपाधिर्तित में गवाह गवारी लेने में राजा को सु कार्यकारी की र देदेना स्वीत सन्निधौ त्वयोः उपतमत्वर्यः साध्वार्थे साधनीये अर्थ लिमयेऽपि बलवान कार्यम् । किन अत्यक्षम् उभयोः समक्षं साक्ष्यं मादयेत् कथन करोवन यादवदित्यर्थः । चरा देदेशितः यदि आदिशोऽपीत्यर्थः साक्ष्यं न अङ्गीकरोति सः बम्बरःर १ ९४-१९ ५ ॥॥॥
ज्या साक्षाचैव निर्दिष्टो नाहूतो नैव देशितः ।
ब्रूयात् मिथ्येति तथ्यं वा दण्ड्यः सोऽपि नराधमः । १ ९ ६ ॥
अन्वयः – यः साक्षात् नैव निर्दिष्टः न आहूतः नैव देशितः, सः मिथ्या वा तथ्य ब्रूयात्, सदा सः अपि नराधमः दण्ड्यः ॥ १ ९ ६ ॥ व्याख्या - य: = पुरुषः, साक्षात् = विचारपतिसम्मुखे, नैव = नास्त्येव, निर्दिष्टः = साक्षित्वेनो-पस्थापितः, न = नहि, राज्ञा, आहूतः = आकारितः, न च देशितः = आदिष्टः, सः = एवंविधो जनः, मिथ्या = असत्यम्, वा = अथवा, तथ्यम् = सत्यम्, ब्रूयात् = वदेत्, सदा सोऽपि, नराधमः = नीचपुरुषः, दण्ड्यः = दण्डनीयो भवति ॥ १ ९ ६ ॥ हिन्दी - जो व्यक्ति विचारपति के सामने गवाही देने के लिए उपस्थित न किया गया हो, उसे न बुलाया गया हो तथा न वह राजा से आदेशित हो; ऐसा नराधम व्यक्ति चाहे सच कहे या झूठ दण्डनीय होता है ॥ १ ९ ६ ॥ य इति । यः साक्षात् विचारकसन्निधाने इत्यर्थः, निर्दिष्ट: साक्षित्वेन प्रदर्शित इत्यर्थः, न आहूतः न देशितः आदिष्टश्च न, स चेत् मिथ्या वा तथ्यं ब्रूयात् सदा सः अपि नराधमः दण्ड्यः दण्डनीयो भवतीत्यर्थः ॥ १ ९ ६ ॥
द्वैधे बहूनां वचनं समेषु गुणिनां वचः ।
तत्राधिकगुणानां च गृहणीयाद्वचनं सदा ॥ ९९ ७ ॥
अन्वयः - द्वैधे बहूनां वचनं समेषु गुणिनां वचः अधिकगुणानां वचनं सदा गृह्णीयात् ॥१ ९ ७ ॥ व्याख्या– द्वैधे = संशये, बहूनाम् = अनेकानाम्, वचनम् = कथनम्, समेषु = समानेषु तुल्येषु वा, मध्ये, गुणिनाम् = गुणवताम्, वचः, तत्राऽपि = सर्वेषु गुणिषु, अधिकगुणानाम् = सर्वाधिकगुणवताम्, वचनम् = कथनम्, सदा = = सर्वदा, गृह्णीयात् = ग्रहणं कुर्यात् ॥ १ ९ ७ ॥ हिन्दी — अनेक गवाहों के विभिन्न कथनों के कारण यदि निर्णय लेने में संदेह पैदा हो तो बहुसंख्यक की बातों की मान्यता होनी चाहिए । यदि समान संख्यावालों में विभिन्नता हो तो जिधर गुणीजन अधिक हो उधर की बातें माननी चाहिए । यदि गुणियों की बातों में भी भेद हो तो सर्वाधिक गुणवानों की बातें मान्य होनी चाहिए ॥१ ९ ७ ॥ द्वैधे इति । द्वैधे साक्षिणां वचनेषु अनैक्यवशात् संशये सतीत्यर्थः, बहूनां वचनं, समेषु तुल्येषु समसंख्येषु भिन्नवचनेष्वित्यर्थः, मध्ये गुणिनां गुणवतां वचः, तत्रापि सर्वेषु गुणिष्वित्यर्थः, CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 283
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य पञ्चमं प्रकरणम् अधिकगुणानां वचनं सदा गृह्णीयात् ॥१ ९ ७ ॥
यत्रानियुक्तोऽपीक्षेत शृणुयाद्वापि किञ्चन ।
पृष्टस्तत्रापि सो ब्रूयाद् यथादृष्टं यथाश्रुतम् ॥ १ ९ ८ ॥
अन्वयः– यत्र अनियुक्तोऽपि यदि किञ्चन ईक्षेत वा शृणुयात्, तत्र सः यथाश्रुतं ब्रूयात् ॥ १ ९ ८ ॥ व्याख्या — यत्र = यस्मिन् विषये अनियुक्तोऽपि = नियोजनरहितोऽपि, ६ ९ ५ पृष्टः सन् यथादृष्टं कोऽपि जनः यदि, किञ्चित् = किमपि, ईक्षेत = पश्येत्, वा = अथवा, शृणुयात् = श्रवणं कुर्यात्, तत्र = तस्मिन् विषये, सः = जनः, पृष्टः = जिज्ञासितः, सन्, यथादृष्टम् = यद्वदालोकितम्, यथाश्रुतम् = = यादृशमाकर्णितम्, तथैव ब्रूयात् = वदेत् ॥ १ ९ ८ ॥ हिन्दी — कोई व्यक्ति बिना नियुक्ति के भी यदि कुछ देखे या सुने तो उस विषय में पूछे जाने पर वह जैसा देखा या सुना हो, वैसा ही कहे ॥ १ ९ ८ ॥ यत्रेति । यत्र अनियुक्तोऽपि जन: यदि किञ्चन ईक्षेत वा शृणुयात् तत्र सः पृष्टः सन् यथादृष्टं यथाश्रुतं ब्रूयात् ॥ १ ९ ८ ॥
विभिन्नकाले यज्ज्ञातं साक्षिभिश्चांशतः पृथक् ।
एकैकं वादयेत्तत्र विधिरेष सनातनः ॥ १ ९९ ॥
अन्वयः — विभिन्नकाले साक्षिभिः अंशतः पृथक् यत् ज्ञातं तत् एकैकं वादयेत् । तत्र एष विधिः सनातनः ॥ १ ९९ ॥ व्याख्या — विभिन्नकाले = अनेकसमये, साक्षिभिः = प्रेक्षकैः, अंशतः = खण्डतः, तत् ज्ञातम् = अवगतम्, तत् = सर्वम्, एकैकम् = एकैकशः, वादयेत् = वाचयेत्, एषः विधिः = रीतिः, सनातनः पुरातनः इति ॥ १ ९९ ॥ हिन्दी – जहाँ विभिन्न समयों में विभिन्न गवाहों ने मुकदमे के विभिन्न विषयों की जानकारी दी है, उसे जानने के लिए प्रत्येक की गवाही लेनी चाहिए । वहाँ यही सनातन रीति है ॥ १ ९९ ॥ विभिन्नकाले इति । विभिन्नकाले पृथक् पृथक् समये साक्षिभिः अंशतः पृथक् पृथक् यत् ज्ञातं, तत् एकैकं वादयेत् वाचयेत् । तत्र एषः विधिः एकैकवादनरूपः सनातनः चिरप्रचलित ॥ १ ९९ ॥
स्वभावोक्तं वचस्तेषां गृहणीयान्न बलात् क्वचित् ।
उक्ते तु साक्षिणा साक्ष्ये न प्रष्टव्यं पुनः पुनः ॥ २०० ॥
अन्वयः — तेषां स्वभावोक्तं वचः गृह्णीयात्, बलात् क्वचित् न । साक्षिणा साक्ष्ये उक्ते पुनः पुनः न प्रष्टव्यम् ॥ २०० ॥
व्याख्या — तेषाम् = प्रेक्षकानाम्, स्वभावोक्तम् = स्वाभाविकरूपेण कथितम्, वचः = वचनम्, गृह्णीयात् = ग्रहणं कुर्यात्, बलात् = बलपूर्वकेन, क्वचित् = कदाचित्, न = नहि, गृह्णीयात् । साक्षिणा = प्रेक्षकेन, साक्ष्ये = साक्षित्वे, उक्ते = कथिते, पुनः पुनः = वारं वारम्, न = नहि, प्रष्टव्यम् = जिज्ञासितव्यम् ॥ २०० ॥
हिन्दी — गवाहों के स्वाभाविक ढंग से कहे गये वचन ही स्वीकार करने चाहिए । किसी CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 284
पाठ पढ़ें पाठ छिपाएँ
६ ९ ६ शुक्रनीतिः के दबाव में कही गई बातों को कभी न माने । गवाह एक बार यदि अपना बयान दे चुका हो तो फिर बार - बार उससे पूछना नहीं चाहिए ॥ २०० ॥
स्वभावोक्तमिति । तेषां साक्षिणां स्वभावोक्तं स्वाभाविकं वचः गृह्णीयात् बलात् बलमाश्रित्य इत्यर्थः, क्वचित् कदाचित् न गृह्णीयादित्यर्थः । साक्षिणा च साक्ष्ये उक्ते सति पुनः पुनः न प्रष्टव्यं तं साक्षिणं प्रतीति शेषः ॥ २०० ॥
आहूय साक्षिणः पृच्छेन्नियम्य शपथैर्भृशम् ।
पौराणैः सत्यवचनधर्ममाहात्म्यकीर्त्तनैः ।
अनृतस्यातिदोषैश्च भृशमुत्त्रासयेच्छनैः ॥ २०१ ॥
अन्वयः —– साक्षिणः आहूय शपथैः भृशं नियम्य पृच्छेत् । पौराणैः सत्यवचनधर्ममा-हात्म्यकीर्त्तनैः अनृतस्य अतिदोषैः भृशं शनैः उत्त्रासयेत् ॥२०१ ॥
व्याख्या — साक्षिणः = प्रेक्षकान्, आहूय = आह्वानं कृत्वा, शपथैः = प्रतिज्ञावचनैः, भृशम् = अत्यर्थम्, नियम्य = आयत्तीकृत्य, पृच्छेत् = पृच्छां कुर्यात् । पौराणैः = पुराणोक्तवचनैः, सत्यवचन-धर्ममाहात्म्यकीर्त्तनैः — सत्यवचनरूपधर्मस्य = ऋतकधनस्वरूपस्य धर्मस्य, माहात्म्यकीर्त्तनैः-महिम्नगुणकथनैः, अनृतस्य = मिथ्याकथनस्य, अतिदोषैः = बहुदोषकीर्त्तनैः, भृशम् = अत्यर्थम्, शनैः = मन्दं - मन्दम्, उत्त्रासयेत् = भयाक्रान्तं कुर्यात् ॥ २०१ ॥
हिन्दी — गवाहों को बुलाकर खाश ढंग से उन्हें सौगन्ध खिलाकर पुराणों में वर्णित सत्यवचन रूपी धर्म के माहात्म्य का वर्णन कर पूछे । फिर झूठ बोलने में अत्यन्त पाप होता है, इसी की पुष्टि पुराणों से कर उसे धीरे - धीरे इस अपकर्म का भय दिलाये ॥ २०१ ॥
आहूयेति । साक्षिणः आहूय शपथे भृशम् अत्यर्थं नियम्य आयत्तीकृत्य पृच्छेत् तथा पौराणैः पुराणोक्तैः सत्यवचनरूपधर्मस्य माहात्म्यकीर्त्तनैः, अनृतस्य असत्यस्य अतिदौषैः अतिदोषकीर्त्तनैश्च वक्ष्यमाणैरिति शेषः, भृशम् अत्यर्थं शनैः मन्दं मन्दम् उत्त्रासयेत् ॥२०१ ॥
देशे काले कथं कस्मात् किं दृष्टं वा श्रुतं त्वया ।
लिखितं लेखितं यत् तद् वद सत्यं तदेव हि ॥ २०२ ॥
अन्वयः — देशे काले कथं कस्मात् त्वया किं दृष्टं श्रुतं यच्च लिखितं लेखितं तत् तत् सत्यं वद ॥ २०२ ॥
व्याख्या — देशे = कस्मिन् स्थानविशेषे, काले = कस्मिन् समये, कथम = केन प्रकारेण, कस्माद्धेतोः, त्वया किं दृष्टम् = अवलोकितम्, वा = अथवा, श्रुतम् = आकर्णितम्, यच्च, लिखितम् = लिपिबद्धं कृतम्, लेखितम्, तत् तत्, सत्यम् = ऋतम्, वद = कथय ॥ २०२ ॥
हिन्दी — तुमने कहाँ, किस समय, कैसे, किस वजह से, क्या देखा और क्या सुना? जो लिखा गया या लिखवाया गया वह सच - सच बतलाओ? ॥ २०२ ॥
पृच्छाप्रकारमाह — देशे इति । देशे कस्मिन् स्थाने, काले कस्मिन् समये, कथं केन प्रकारेण कस्मात् हेतोः त्वया किं दृष्टं वा श्रुतं यच्च लिखितं लेखितञ्च तत् तत् सत्यं वद हिशब्दः अवधारणार्थः ॥ २०२ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 285
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६ ९ ७
सत्यं साक्ष्यं ब्रुवन् साक्षी लोकानाप्नोति पुष्कलान् ।
इह चानुत्तमां कीर्त्तिं वागेषा ब्रह्मपूजिता ॥ २०३ ॥
अन्वयः — साक्षी सत्यं साक्ष्यं ब्रुवन् पुष्कलान् लोकान् इह च अनुत्तमां कीर्त्तिम् आप्नोति । एषा वाक् ब्रह्मपूजिता ॥ २०३ ॥
व्याख्या– साक्षी = प्रेक्षकः, सत्यम् = ऋतम्, साक्ष्यम् = साक्षित्वम्, ब्रुवन् = वदन्, पुष्कलान् = = विपुलान् महतः वा, लोकान्, इह च = अस्मिन् संसारे च, अनुत्तमाम् = उत्कृष्टतराम्, कीर्त्तिम् = यशः, आप्नोति = प्राप्नोति । एषा वाक् = वाणी, ब्रह्मणा = विधिना, पूजिता = प्रशंसिते ॥२०३ ॥
हिन्दी — जो गवाह सच्ची गवाही देता है उसे उत्तम लोक की प्राप्ति होती है तथा इस संसार में वह उत्कृष्ट यशस्वी होता है । उसकी वाणी की विधाता भी प्रशंसा करते हैं ॥ २०३ ॥
सत्यमिति । साक्षी सत्यं साक्ष्यं ब्रुवन् पुष्कलान् महतः लोकान्, इह च अनुत्तमां कीर्त्तिम् आप्नोति एषा वाक् ब्रह्मपूजिता ब्रह्मणा प्रशंसिता ॥ २०३ ॥
सत्येन पूयते साक्षी धर्मः सत्येन वर्द्धते ।
तस्मात् सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः ॥ २०४ ॥
अन्वयः - साक्षी सत्येन पूयते, धर्मः सत्येन वर्द्धते । तस्मात् सर्ववर्णेषु साक्षिभिः सत्यं हि वक्तव्यम् ॥ २०४ ॥
व्याख्या - साक्षी = प्रेक्षकः, सत्येन = अवितथेन, पूयते = पवित्रो भवति, धर्म: 1 पुण्यः सत्येन = तत्त्वेन, वर्द्धते = एधते । तस्माद्धेतोः, सर्ववर्णेषु = सकलजातिषु, साक्षिभिः = प्रेक्षकैः, सत्यम् = यथार्थमेव, वक्तव्यम् = कथनीयमिति ॥२०४ ॥
हिन्दी — सच बोलने से गवाह पवित्र हो जाता है, सच कहने से धर्म बढ़ता है । अतः सभी वर्णों के गवाहों को सच ही बोलना चाहिए ॥ २०४ ॥
सत्येनेति । साक्षी सत्येन पूयते पवित्रो भवति, धर्मः सत्येन सत्यकथनेन वर्द्धते । तस्मात् सर्ववर्णेषु साक्षिभिः सत्यं हि सत्यमेव वक्तव्यम् ॥ २०४ ॥
आत्मैव ह्यात्मनः साक्षी गतिरात्मैव ह्यात्मनः ।
मावसंस्थाः स्वमात्मानं नृणां साक्षित्वमुत्तमम् ॥ २०५ ॥
अन्वयः— आत्मा एव आत्मनः साक्षी, आत्मा एव आत्मनः गतिः । तस्मात् स्वं नृणाम् उत्तमं साक्षित्वम् आत्मानं मा अवसंस्थाः ॥ २०५ ॥
व्याख्या— आत्मा एव = शरीरस्थः साक्षी पुरुष एव, आत्मनः = स्वस्य, साक्षी = प्रेक्षकः, आत्मा = जीवः, एव, आत्मनः = जीवस्य, गतिः = आश्रयः । तस्मात् स्वम् = आत्मानम्, नृणाम् = अभियोगमापन्नानाम्, उत्तमम् = श्रेष्ठम्, साक्षिणम्, तस्मात्, आत्मानम् = अन्तःस्थ-परमपुरुषम्, मा = = नहि, अवमंस्थाः = अवमानितं कार्षीः ॥२०५ ॥
हिन्दी — मनुष्य की अपनी आत्मा ही उसकी गवाही है, वही उसकी गति है; इसलिए मानव का उत्तम साक्षी ( गवाह ) उसकी आत्मा है । अतः इसका तिरस्कार मत करो । अर्थात् अपनी आत्मा की आवाज सुनो या पहचानो ॥ २०५ ॥
आत्मैवेति । आत्मा एव अन्तर्यामी पुरुष एव आत्मनः जीवस्य साक्षी पापपुण्यकर्मणां द्रष्टा, CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 286
पाठ पढ़ें पाठ छिपाएँ
६ ९ ८ शुक्रनीतिः आत्मा एव आत्मनः गतिः आश्रयः, तस्मात् त्वं नृणाम् अभियोगमापन्नानाम् उत्तमं साक्षिणम् आत्मानं मा अवमंस्थाः अवमानितं मा कार्षीरित्यर्थः ॥ २०५ ॥
मन्यते वै पापकारी न कश्चित् पश्यतीति माम् ।
तांश्च देवाः प्रपश्यन्ति तथा ह्यन्तरपूरुषः ॥ २०६ ॥
अन्वयः — पापकारी कश्चित् मां न पश्यतीति मन्यते वै, देवाः तथा अन्तरपूरुषः तांश्च प्रपश्यन्ति ॥ २०६ ॥
व्याख्या – पापकारी = पापात्मा, कश्चित् = कोऽपि जनः, माम् = पापिनम्, न = • नहि, पश्यति = अवलोकयति, इति मन्यते = बुद्ध्यते, वै = इति निश्चयेन, किञ्च, देवाः = देवताः, तथा अन्तरपूरुषः = अन्तर्यामी, तान् = साक्षिणः, प्रपश्यन्ति = अवलोकयन्ति ॥ २०६ । हिन्दी — पापी यह समझता है कि कोई पाप करते समय मुझे नहीं देखा रहा है, किन्तु उसका यह समझना ठीक नहीं है । क्योंकि उसे देवता लोग और उसकी अन्तरात्मा सब कुछ देख रही है ॥२०६ ॥
मन्यते इति । पापकारी जनः कश्चित् मां न पश्यतीति मन्यते वैशब्दोऽवधारणार्थः । देवाः तथा अन्तरपूरुषः अन्तर्यामी तान् साक्षिणः प्रपश्यन्ति ॥ २०६ ॥
सुकृतं यत् त्वया किञ्चित् जन्मान्तरशतैः कृतम् ।
तत् सर्वं तस्य जानीहि यं पराजयसे मृषा ।
समा च तत्पापं शतजन्मकृतं सदा ॥ २०७ ॥
साक्षिणं श्रावयेदेव सभायामरहोगतम् ॥ २०८ ॥
अन्वयः – त्वया जन्मान्तरशतैः यत्किञ्चित् सुकृतं कृतं, तत् सर्वं यं मृषा पराजयसे तस्य जानीहि, किञ्च शतजन्मकृतं तत्पापं सदा समाप्नोषि । एवं सभायाम् अरहोगतं साक्षिणं श्रावयेत् ॥ २०७-२०८ ॥ व्याख्या — त्वया = भवता, जन्मान्तरशतैः = शतान्यपरजन्मनि, यत्किञ्चित् = यत्किमपि, सुकृतम् = पुण्यम्, कृतम् = अनुष्ठितम्, तत् सर्वम् = सकलम्, यम् = व्यक्तिविशेषम्, मृषा = असत्येन, पराजयसे = पराजितं कुरुषे, तस्य जनस्य भवेत्, किञ्च, शतजन्मकृतम् = जन्मान्तर-शतमर्जितम्, तत्पापम् = तत्कृतं पापम्, तस्य पराजेतुमभीष्टस्य जनस्य पापम्, सदा = = सर्वदा, समाप्नोषि = लभसे च । एवं प्रकारेण, सभायाम् = विचारसमितौ, अरहोगतम् = सकलजनसमक्ष-वर्त्तिनम्, साक्षिणम् = प्रेक्षकम्, श्रावयेत् ॥ २०७ -२०८ ॥ हिन्दी - सैंकड़ों जन्म में तुमने जो पुण्य अर्जित किया है, वह उसका हो जायेगा, जिसे तुमने झूठ बोलकर पराजित किया है तथा उस पराजित व्यक्ति के सैंकड़ों जन्म के संचित पाप तुम्हारे हो जायेंगे, इसे जान लो । इस तरह भरी सभा में सबके सामने गवाही देने वाले व्यक्ति को अवश्य सुना दे ॥ २०७-२०८ ॥ सुकृतमिति । समाप्नोषीति । त्वया जन्मान्तरशतैः यत् किञ्चित् सुकृतं कृतं तत् सर्वं, यं मृषा असत्यवचनेन पराजयसे तस्य भवेदिति शेषः, जानीहि बुध्यस्व । किञ्च शतजन्मकृतं तत्पापं तस्य पराजेतुमिष्टस्य जनस्य पापं सदा समाप्नोषि लभसे च, एवम्प्रकारेण सभायाम् अरहोगतं CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 287
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६ ९९ सर्वसमक्षवर्त्तिनं साक्षिणं श्रावयेत् ॥ २०७-२०८ ॥
दद्याद्देशानुरूपं तु कालं साधनदर्शने ।
उपाधिं वा समीक्ष्यैव दैवराजकृतं सदा ॥ २० ९ ॥
अन्वयः — राजा देशानुरूपं वा दैवराजकृतम् उपाधिं समीक्ष्य साधनदर्शने कालं दद्यात् ॥२० ९ ॥ व्याख्या – राजा, देशानुरूपम् = स्थानविशेषानुसारम्, वा = अथवा, दैवराजकृतम्— दैवकृतम् = भाग्यानुष्ठितम्, राजकृतम् = नृपकृतम्, वा, उपाधिम् = उपद्रवः, समीक्ष्य = अनुचिन्त्य, साधनदर्शने = प्रमाणावलोकने, कालम् = समयम्, दद्यात् = प्रयच्छेत् ॥ २० ९ ॥ हिन्दी – देश के अनुरूप तथा राजा एवं दैव कृत उपद्रवों को ठीक से विचार कर प्रमाण दिखलाने का समय दे ॥ २० ९ ॥ दद्यादिति । राजा सदा देशानुरूपं स्थानोपयुक्तं वा दैवराजकृतम् उपाधिं निमित्तं समीक्ष्य विविच्य साधनदर्शने प्रमाणप्रदर्शने कालं समयं दद्यात् ॥२० ९ ॥
विनष्टे लिखिते राजा साक्षिभोगैर्विचारयेत् ।
लेखसाक्षिविनाशे तु सद्भोगादेव चिन्तयेत् ॥ २१० ॥
अन्वयः – लिखिते विनष्टे राजा साक्षिभिः भोगैश्च विचारयेत् । लेखसाक्षिविनाशे तु सद्भोगादेव चिन्तयेत् ॥२१० ॥
व्याख्या — लिखिते = – लिपिबद्धप्रमाणे, विनष्टे = निर्मूलिते सति, राजा = नृपः, साक्षिभिः = प्रेक्षकैः, भोगैश्च = प्रमाणैश्च, विचारयेत् = चिन्तयेत् । तथा लेखस्य – लिखितप्रमाणस्य, साक्षिणश्च = प्रेक्षकस्य च, विनाशे = विनष्टे सति, सद्भोगात् = उत्तमात् भोगादेव, चिन्तयेत् = विचारयेत् ॥२१० ॥
हिन्दी - लिखित प्रमाण नष्ट हो जाने पर गवाही एवं कब्जे पर विचार करना चाहिए । जहाँ लेख और गवाह दोनों विनष्ट हो गये हों, वहाँ निश्चित कब्जा देखकर ही विचार करना चाहिए ॥ २१० ॥
विनष्टे इति । लिखिते लेख्ये प्रमाणे विनष्टे सति राजा साक्षिभिः भोगैश्च प्रमाणैः विचारयेत् । तथा लेखस्य साक्षिणश्च विनाशे सति सद्भोगात् उत्तमात् अक्षुण्णादित्यर्थः भोगात् एव चिन्तयेत् विचारयेत् ॥२१० ॥
सद्भोगाभावतः साक्षिलेखतो विमृशेत् सदा ।
केवलेन च भोगेन लेखेनापि च साक्षिभिः ॥
अन्वयः — सद्भोगाभावतः सदा साक्षिलेखतः विमृशेत् । किञ्च साक्षिभिश्च विमृशेत् ॥२११ ॥
व्याख्या — सद्भोगाभावतः = श्रेष्ठस्वामित्वाभावे, सदा = = सर्वदा, = प्रेक्षकैः, लेख्यैः = लिखितविषयैः, विमृशेत् = विचारयेत् । केवलेन २११ ॥ केवलेन भोगेन लेखेन साक्षिलेखत: - साक्षिभिः = एकमात्रेण, भोगेन = स्वामित्वेन, केवलेन लेखेन = लिखितविषयेण वा, केवलैः, साक्षिभिश्च = प्रेक्षकैश्च, विमृशेत् = विचारयेत् ॥ २११ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 288
पाठ पढ़ें पाठ छिपाएँ
७०० शुक्रनीतिः हिन्दी – उत्तम स्वामित्व के अभाव में गवाह या लिखित प्रमाण के आधार पर विचार करना चाहिए । केवल स्वामित्व, दस्तावेज या केवल गवाही के आधार पर विचार करना चाहिए ॥ २११ ॥
सद्भोगाभावत इति । सद्भोगाभावतः उत्तमभोगाभावे सतीत्यर्थः, सदा साक्षिलेखतः साक्षिभिः लेख्यैश्च विमृशेत् विचारयेत् । किञ्च केवलेन भोगेन, केवलेन लेखेन वा केवलैः साक्षिभिश्च विमृशेत् ॥ २११ ॥
कार्य्यं न चिन्तयेद्राजा लोकदेशादिधर्मतः ॥ २१२ ॥
अन्वयः - लोकदेशादिधर्मतः राजा कार्यं न चिन्तयेत् ॥२१२ ॥
व्याख्या— लोकदेशादिधर्मतः — लोकम् = जनम्, अर्थात् अयं हि श्रेष्ठो वा निकृष्टो जनः इत्थं विचार्य, देशादिम् = अयं हि महान् देशो वा हीनदेशः एवं सञ्चित्य, धर्मञ्च = अयं हि स्वधर्मः वा परधर्म इति विविच्य, कार्यम् = व्यवहारम्, राजा = नृपः, न = = नहि, चिन्तयेत् = विचारयेत् ॥२१२ ॥
हिन्दी — यह बड़ा आदमी है और यह छोटा, यह उत्तम देश है और यह अधम अथवा यह स्वधर्म है और यह परधर्म, ऐसा सोचकर राजा मुकदमे का फैसला न करे ॥ २१२ ॥
कार्य्यमिति लोकदेशादिधर्मतः लोकं देशादिं स्थानप्रभृतिं धर्मञ्च अनुरुध्य इत्यर्थः, यवर्थे पञ्चमी । अयं महान् वा निकृष्टः अयम् उत्कृष्टो देशः वा नीचदेशः अयं परधर्मः वा नीचधर्म इत्येवं विविच्य इत्यर्थः, कार्य्यं न चिन्तयेत् न विचारयेत् इत्यर्थः ॥२१२ ॥
कुशला लेख्यबिम्बानि कुर्वन्ति कुटिलाः सदा ।
तस्मान्न लेख्यसामर्थ्यात् सिद्धिरैकान्तिकी मता ॥ २१३ ॥
अन्वयः — कुशलाः कुटिलाः सदा लेख्यबिम्बानि कुर्वन्ति । तस्मात् लेख्यस्य सामर्थ्यात् ऐकान्तिकी सिद्धिः न मता ॥२१३ ॥
व्याख्या — कुशलाः = दक्षा:, कुटिलाः = दुष्टाः, सदा = सर्वदा, लेख्यबिम्बानि = अनुरूपाणि लेख्यानि कुर्वन्ति = निष्पादयन्ति तस्मात् = कारणात्, लेख्यस्य = लिपिबद्धविषयस्य, सामर्थ्यात् = शक्त्याः, ऐकान्तिकी = सम्पन्ना, सिद्धिः = सफलता, न = नहि, मता = सम्मता इति ॥ २१३ ॥
हिन्दी — चतुर जालसाज किसी दस्तावेज की हूबहू नकल कर लेते हैं । अतः केवल लेख के आधार पर फैसला करना पूर्णरूप से उचित नहीं कहा गया है ॥२१३ ॥
कुशला इति । कुशलाः निपुणाः कुटिलाः दुर्जनाः सदा लेख्यबिम्बानि अनुरूपाणि लेख्यानि कुर्वन्ति । तस्मात् लेख्यस्य सामर्थ्यात् बलात् ऐकान्तिकी सिद्धिः न मता ॥२१३ ॥
स्नेहलोभभयक्रोधैः कूटसाक्षित्वशङ्कया ।
केवलैः साक्षिभिर्नैव कार्य्यं सिध्यति सर्वदा ॥ २१४ ॥
अन्वयः — स्नेहलोभभयक्रोधैः तथा कूटसाक्षित्वशङ्कया केवलैः साक्षिभिः सर्वदा कार्यं नैव सिद्ध्यति ॥२१४ ॥
व्याख्या- – स्नेहेन = रागेण, लोभेन = लिप्सया, क्रोधेन = कोपेन, तथा CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 289
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ७०१ कूटसाक्षित्वशङ्कया = मिथ्यासाक्ष्यसन्देहेन, केवलैः = मात्रैः, साक्षिभिः = प्रेक्षकैः, सदा = = सर्वदा, कार्यम् = = व्यवहारः,, नैव = नास्त्येव, सिद्ध्यति = सफलतां याति ॥ २१४ ॥
हिन्दी — प्रीति, लालच, डर या गुस्से में आकर मनुष्य झूठी गवाही दे सकता है, इस आशंका से केवल गवाही के आधार पर सदा मुकदमे का उचित फैसला नहीं किया जा सकता ॥ २१४ ॥
स्नेहेति । स्नेहेन, लोभेन, भयेन, क्रोधेन च तथा कूटसाक्षित्वशङ्कया केवलैः साक्षिभिः सर्वदा कार्य्यं नैव सिध्यति ॥२१४ ॥
अस्वामिकं स्वामिकं वा भुङ्क्ते यद् बलदर्पतः ।
इति शङ्कितभोगैर्न कार्य्यं सिध्यति केवलैः ॥ २१५ ॥
अन्वयः — यत् बलदर्पतः अस्वामिकं स्वामिकं वा भुङ्क्ते, इति शङ्कितभोगैः केवलैः कार्यं न सिध्यति ॥ २१५ ॥
व्याख्या — यत् = यस्मात्, लोकः, बलर्दपतः—– बलात् = शक्त्याः, दर्पात् = अभिमानात् गर्वाद्वा, अस्वामिकम् = दायादरहितम्, स्वामिकम् = सस्वामिकम्, वा = अथवा, भुङ्क्ते: उपभोगं कुरुते, इति = इत्थम्, शङ्कितभोगैः = सन्दिग्धैः भोगैः केवलैः, कार्यम् = व्यवहारः, न = नहि, सिध्यति = साफल्यं भवति ॥ २१५ ॥
हिन्दी - अपनी ताकत के घमण्ड में आकर मनुष्य चाहे अपनी वस्तु हो या पराई, उस पर जबर्दस्ती अधिकार जमा कर स्वामित्व कायम कर लेता है; ऐसी स्थिति में स्वामित्व के संदेह में केवल वस्तु पर कब्जा के आधार पर मुकदमे का फैसला उचित नहीं होता ॥ २१५ ॥
अस्वामिकमिति । यत् यस्मात् लोकः बलदर्पतः बलात् दर्पाच्च अस्वामिकं सस्वामिकमित्यर्थः, वा भुङ्क्ते, इति शङ्कितभोगैः इत्थं शङ्कायुक्तैः केवलैः भोगैरित्यर्थः कार्य्यं न सिध्यति ॥ २१५ ॥
शङ्कितव्यवहारेषु शङ्कयेदन्यथा न हि ।
अन्यथा शङ्कितान् सभ्यान् दण्डयेच्चोरवन्नृपः ॥ २१६ ॥
अन्वयः – नृपः शङ्कितव्यवहारेषु शङ्कयेत्, अन्यथा न हि । अन्यथा शङ्कितान् सभ्यान् चोरवत् दण्डयेत् ॥२१६ ॥
व्याख्या – नृपः = राजा, शङ्कितव्यवहारेषु = सन्दिग्धकार्येषु, शङ्कयेत् = शङ्कां कुर्यात्, अन्यथा = इतरथा, न हि = नैव कुर्यात् । अन्यथा = अन्यप्रकारेण, शङ्कितान् = सन्दिग्धान्, सभ्यान् = सभासदः, चोरवत् = तस्कर इव, दण्डयेत् = दमनं कुर्यात् ॥ २१६ ॥
हिन्दी — जिस मुकदमे में उचित संदेह एक बार प्रकट किया जा विपरीत सन्देह नहीं करना चाहिए । दूसरे ढंग से संदेह पैदा करने वाले चोर की तरह दण्ड दे ॥ २१६ ॥
शङ्कितेति । नृपः शङ्कितव्यवहारेषु शङ्कायुक्तेषु व्यवहारेषु शङ्कयेत् शङ्कयेदित्यर्थः । अन्यथा शङ्कितान् सभ्यान् चोरवत् दण्डयेत् ॥२१६ ॥
अन्यथा शङ्कनान्नित्यमनवस्था प्रजायते ।
लोको विभिद्यते धर्मो व्यवहारश्च हीयते ॥ २१७
चुका है, उसमें पुनः सभासदों को राजा अन्यथा न हि नैव ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 290
पाठ पढ़ें पाठ छिपाएँ
७०२ शुक्रनीतिः अन्वयः — अन्यथा शङ्कनात् नित्यम् अनवस्था प्रजायते, लोकः विभिद्यते, धर्मः व्यवहारश्च हीयते ॥२१७ ॥
व्याख्या — अन्यथा = इतरथा, शङ्खनात् = सन्देहात्, नित्यम् = निरन्तरम्, अनवस्था = अव्यवस्था, प्रजायते = उत्पन्नो भवति, लोकः = जनः, विभिद्यते = भेदं गच्छति, धर्मः = आचार;, व्यवहारश्च = कार्यश्च हीयते = हीनो भवति ॥२१७ ॥
हिन्दी — विपरीत सन्देह करने से व्यवहार में अनवस्था उत्पन्न होती है, निरर्थक फैसले में देर होती है, इससे लोकधर्म नष्ट होता है और व्यवहार भी हीन हो जाता है ॥ २१७ ॥
अन्यथेति । अन्यथा शङ्खनात् नित्यं सततम् अनवस्था अस्थितिः प्रजायते, लोकः विभिद्यते भेदं गच्छति, धर्मः व्यवहाश्च हीयते विच्युतो भवति ॥२१७ ॥
सागमो दीर्घकालश्च निराक्रोशो निरन्तरः ।
प्रत्यर्थिसन्निधानश्च भुक्तो भोगः प्रमाणवत् ॥ २१८ ॥
अन्वयः — आगमः दीर्घकालश्च निराक्रोशः निरन्तरः प्रत्यर्थिसन्निधानश्च भुक्तः भोगः प्रमाणवत् ॥ २१८ ॥
व्याख्या — आगमः– आगमनं प्राप्तिर्वा, दीर्घकालश्च = चिरकालिकः, निराक्रोशः = अन्याक्षेपरहितः, निरन्तर = क्रमागतः, प्रत्यर्थिसन्निधानः = प्रतिवादिसन्निहितश्च, भुक्तः = उपभुक्तः, भोगः = स्वामित्वम्, प्रमाणवत् = प्रमाण इवेति ॥२१८ ॥
हिन्दी — लेख सहित बहुत दिनों से कब्जा प्रामाणिक होता है । यदि मालिक का अपनी वस्तु से विलगाव हो गया या उसने उस वस्तु का त्याग ही कर दिया हो और प्रतिवादी उसका पार्श्ववर्त्ती हो तो उसका अधिकार वहाँ प्रमाणित माना गया है ॥२१८ ॥
सागम इति । सागमः आगमेन प्रतिग्रहक्रयादिरूपेण अर्जनेन सहितः, दीर्घकालः बहुकालिकः निराक्रोशः अन्याक्रोशरहितः निरन्तरः क्रमागतः प्रत्यर्थिसन्निधानः प्रतिवादिसन्निहितश्च भुक्तः भोगः प्रमाणवत् प्रमाणतुल्यः ॥२१८ ॥
सम्भोगं कीर्त्तयेद्यस्तु केवलं नागमं क्वचित् ।
भोगच्छलापदेशेन विज्ञेयः स तु तस्करः ॥ २१ ९ ॥
अन्वयः — यस्तु केवलं सम्भोगं कीर्त्तयेत् क्वचित् आगमं न, सः तु भोगच्छलापदेशेन तस्करः विज्ञेयः ॥२१ ९ ॥ व्याख्या — यः– जनः, केवलम् = मात्रम्, सम्भोगम् = सम्यगधिकारम्, कीर्त्तयेत् = कथयेत्, क्वचित् = कदाचित्, आगमम् = आगमनम्, न = नहि, सः = = असौ तु, भोगच्छलापदेशेन = स्वामित्वरूपकपटाश्रयेण, तस्करः = - चौरः, विज्ञेयः = विशेषरूपेण ज्ञातव्यः इति ॥ २१ ९ ॥ हिन्दी — जो केवल भलीभाँति अपना कब्जा ही दिखलाता है, कोई अभिलेख नहीं, वह कब्जा बलपूर्वक कहा जाता है और कब्जा करने वाला चोर की तरह दण्डनीय होता है ॥ २१ ९ ॥ सम्भोगमिति । यस्तु केवलं सम्भोगं कीर्त्तयेत् क्वचित् कदाचित् आगमं न, स तु भोगच्छलापदेशेन भोगरूपच्छलावलम्बेन तस्करः चौर: विज्ञेयः ॥२१ ९ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA