शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 271–280

शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 271–280

पृष्ठ 271

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 271 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६८३ साधनम् = उपकरणम्, द्विधा = प्रकारद्वयम्, स्मृतम् = कथितम् । तद्यथा— भूतम् = = मानवीयम्, भव्यम् = दैवीम्, स्मृतम् = कथितम्, सत्यार्थस्य = यथार्थस्य, अभिधायि = प्रतिपादकं साधनम्, तत्त्वम्, कूटाद्यभिहितम् = कपटादिसमन्वितम्, साधनं, छलं स्मृतम् ॥ १६५ ॥

हिन्दी — तत्त्व तथा छल के अनुसार भूत एवं भव्य दो प्रकार के साधन कहे गये हैं ।

यथार्थ का प्रतिपादक साधन तत्त्व एवं तथा कपटयुक्त साधन छल है ॥ १६५ ॥

तत्त्वेति । तत्त्वस्य छलस्य च अनुसारित्वात् साधनं द्विविधं भूतं भव्यञ्च । सत्यार्थस्य अभिधायि प्रतिपादकं साधनं तत्त्वं, कूटाद्यभिहितं कपटादियुक्तं साधनं छलम् ॥ १६५ ॥

छलं निरस्य भूतेन व्यवहारान् नयेन्नृपः ।

युक्त्यानुमानतो नित्यं सामादिभिरुपक्रमैः ॥ १६६ ॥

अन्वयः – नृपः युक्त्या अनुमानतः च सामादिभिः उपक्रमैः छलं निरस्य भूतेन व्यवहारान् नित्यं नयेत् ॥ १६६ ॥

व्याख्या – नृपः = राजा, युक्त्या = कौशलेन, अनुमानतः = अभ्यूहनेन, सामादिभिः = सामदानादिभिः, उपक्रमैः = उपायैश्च, छलम् = कपटम्, निरस्य = परित्यज्य, भूतेन = याथार्थ्येन, व्यवहारान् = विवादान्, नित्यम् = सततं नयेत् = विचारयेदिति ॥ १६६ ॥

हिन्दी - राजा युक्ति, अनुमान तथा सामादि उपायों से छल को हटाकर यथार्थ साधनों की सहायता से सदा मुकदमें पर विचार करे ॥ १६६ ॥

छलमिति । नृपः युक्त्या अनुमानतः अनुमानेन च सामादिभिः उपक्रमैः उपायैश्च छलं निरस्य भूतेन याथार्थ्येन व्यवहारान् नित्यं सदा नयेत् पश्येदित्यर्थः ॥१६६ ॥

न कालहरणं कार्य्यं राज्ञा साधनदर्शने ।

महान् दोषो भवेत् कालाद्धर्मव्यापत्तिलक्षणः ॥ १६७ ॥

अन्वयः - राज्ञा साधनदर्शने कालहरणं न कार्यम् । कालात् धर्मव्यापत्तिलक्षणः महान् दोषः भवेत् ॥ १६७ ॥

व्याख्या– राजा = नृपेण, व्यवहारस्य = विवादस्य, दर्शने = अवलोकने, कालहरणम् = समयविनष्टम्, न = नहि, कार्यम् = विधेयम् । कालात् = समयातिपातात् कालक्षेपाद्वा, धर्मव्यापत्तिलक्षणः = धर्महानिरूपः, महान् = अतीव, दोषः = अपराधः, भवेत् = स्यादिति ॥ १६७ ॥

हिन्दी— राजा वादी - प्रतिवादी के साक्ष्यों को देखने में कालक्षेप न करे । क्योंकि ऐसा करने से धर्मतत्त्व की हानि रूप महान् अपराध होता है ॥ १६७ ॥

नेति । राज्ञा साधनदर्शने कालहरणं न कार्य्यं, कालात् कालहरणात् धर्मव्यापत्तिलक्षणः धर्महानिरूपः महान् दोषः भवेत् ॥ १६७ ॥

अर्थिप्रत्यर्थिप्रत्यक्षं साधनानि प्रदर्शयेत् ।

अप्रत्यक्षं तयोर्नैव गृहणीयात् साधनं नृपः ॥ १६८ ॥

अन्वयः — नृपः अर्थिप्रत्यर्थिप्रत्यक्षं साधनानि प्रदर्शयेत् । तयोः अप्रत्यक्षं साधनं नैव गृह्णीयात् ॥ १६८ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 272

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 272 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६८४ शुक्रनीति: व्याख्या – नृपः = राजा, अर्थिप्रत्यर्थिनोः = वादिप्रतिवादिनोः, प्रत्यक्षम् = - नयनयोः पुरतः, साधनानि = लिखिताद्युपकरणानि, प्रदर्शयेत् = दृग्गोचरं कारयेत् । तयोः = वादिप्रतिवादिनोः अप्रत्यक्षम् = असमक्षम्, साधनम् = उपकरणम्, नैव = नास्त्येव, गृह्णीयात् = स्वीकुर्यात् ॥१६८ ॥

हिन्दी — राजा वादी - प्रतिवादी दोनों के सामने ही मुकदमे के साधनों को दिलवाये । उनके परोक्ष में उन साधनों को न देखे ॥१६८ ॥

अर्थीति । नृपः अर्थिप्रत्यर्थिनो: प्रत्यक्षं साधनानि प्रदर्शयेत्, तयोः अप्रत्यक्षम् असमक्षं साधनं नैव गृह्णीयात् ॥ १६८ ॥

साधनानाञ्च ये दोषा वक्तव्यास्ते विवादिना ।

गूढास्तु प्रकटाः सभ्यैः काले शास्त्रप्रदर्शनात् ॥ १६ ९ ॥

अन्वयः — साधनानाञ्च ये दोषाः ते विवादिना वक्तव्याः । गूढास्तु सभ्यैः काले शास्त्रप्रदर्शनात् प्रकटाः ॥ १६ ९ ॥ व्याख्या – साधनानाम् = प्रमाणाद्युपकरणानाम्, ये दोषाः - दुर्गुणाः, ते = सर्वे, विवादिना = वादिना वा प्रतिवादिना, वक्तव्याः = कथितव्याः । गूढाः = प्रच्छन्नाः दोषाः, सभ्यैः = विचारनियुक्तैः राजपुरुषैः, काले = यथावसरे, शास्त्राणाम् = धर्मग्रन्थानाम्, प्रदर्शनात् = प्रकाशनात्, प्रकटाः = स्पष्टाः, यथा तथा वक्तव्याः इति ॥ १६ ९ ॥ हिन्दी — वादी या प्रतिवादी एक - दूसरे के साधनों के दोषों को खुलकर बतलाये तथा छिपे हुए साधन - दोषों को विचार के लिए नियुक्त राजपुरुषों के सामने यथासमय शास्त्र के आधार पर प्रकट रूप से कहने चाहिए ॥ १६ ९ ॥ साधनानामिति । साधनानां प्रमाणानां ये दोषाः, ते विवादिना अर्थिना प्रत्यर्थिना वा वक्तव्याः, गूढाः गुप्तास्तु दोषाः सभ्यैः विचारनियुक्तैः पुरुषैः काले विचारकाले शास्त्राणां प्रदर्शनात् प्रकटाः प्रस्फुटाः यथा तथा वक्तव्या इति शेषः ॥ १६ ९ ॥

अन्यथा दूषयन् दण्ड्यः साध्यार्थादेव हीयते ।

विमृश्य साधनं सम्यक् कुर्य्यात् कार्य्यविनिर्णयम् ॥ १७० ॥

अन्वयः — अन्यथा दूषयन् दण्ड्यः साध्यार्थात् एव हीयते । साधनं सम्यक् विमृश्य कार्यनिर्णयं कुर्यात् ॥ १७० ॥

व्याख्या — अन्यथा = अन्येन प्रकारेण, दूषयन् = दोषारोपणं कुर्वन्, दण्ड्यः = दण्डनीयो भवति, साध्यार्थात् = उपकरणहेतोः, हीयते = प्रभ्रश्यते च । तस्मात् साधनम्, सम्यक् = सुष्ठुतया, विमृश्य = अनुचिन्त्य, कार्यनिर्णयम् —कार्य्यस्यः =: व्यवहारस्य, निर्णयम् = निश्चयं कुर्यात् ॥१७० ॥

हिन्दी — वादी या प्रतिवादी शास्त्र विरुद्ध व्यर्थ किसी साधन में दोष दिखलाता है तो वह दण्डनीय होता है और जिसे सिद्ध करना चाहता है, उसे यदि प्रमणित नहीं कर पाता है तो मुकदमा खारिज कर देना चाहिए । अतः राजा प्रमाणों पर पूरा विचार कर ही मुकदमे का फैसला सुनाये ॥ १७० ॥

अन्यथेति । अन्यथा अन्येन प्रकारेण अशास्त्रमार्गेणेत्यर्थः, दूषयन् दण्ड्यः दण्डनीयः भवति, CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 273

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 273 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६८५ साध्यार्थात् साधनीयात् विषयात् हीयते प्रभ्रश्यते च । तस्मात् साधनं सम्यक् विमृश्य विविच्य कार्य्यनिर्णयं कुर्य्यात् ॥ १७० ॥

कूटसाधनकारी तु दण्ड्यः कार्य्यानुरूपतः ।

द्विगुणं कूटसाक्षी तु साक्ष्यलोपी तथैव च ॥ १७१ ॥

अन्वयः —– कूटसाधनकारी कार्यानुरूपतः दण्ड्यः । कूटसाक्षी तथैव साक्ष्यलोपी द्विगुणं दण्ड्यः ॥ १७१ ॥

व्याख्या — कूटम् = कपटम्, साधनम् = उपकरणम्, करोतीति तथोक्तः, वादी वा प्रतिवादी, कार्यस्य = व्यवहारस्य, अनुरूपात् = अनुसारात्, दण्ड्यः = दण्डनीयः । कूटसाक्षी = कपटप्रेक्षकः, तथा = तेनैव प्रकारेण, साक्ष्यलोपी = प्रमाणविनष्टा, द्विगुणम् = द्विगुणितम्, दण्ड्यः = दण्डनीयः ॥ १७१ ॥

हिन्दी — झूठा प्रमाण उपस्थित करने वाले वादी या प्रतिवादी को मुकदमे के अनुसार कम या ज्यादे दण्ड देना चाहिए । झूठी गवाही देने वाले तथा अपराध के प्रमाण को नष्ट करने वाले को उससे दूना जुर्माना या दण्ड देना चाहिए ॥ १७१ ॥

कूटेति । कूटं कपटं साधनं करोतीति तथोक्तः वादी वा प्रतिवादी कार्य्यानुरूपतः कार्य्यस्य अनुरूपात् गौरवलाघवानुसारादित्यर्थः दण्ड्यः । कूटसाक्षी तथा साक्ष्यलोपी साक्ष्यमन्यथा कुर्वन्नित्यर्थः, जनः द्विगुणं यथा तथा दण्ड्य इति शेषः ॥ १७१ ॥

अधुना लिखितं वच्मि यथावदनुपूर्वशः ।

अनुभूतस्मारकन्तु लिखितं ब्रह्मणा कृतम् ॥ १७२ ॥

अन्वयः — अधुना यथावदनुपूर्वशः लिखितं वच्मि । ब्रह्मणा अनुभूतस्मारकं लिखितं कृतम् ॥ १७२ ॥

व्याख्या– अधुना = सम्प्रति, यथावत् = यद्वत्, अनुपूर्वशः = आनुपूर्व्येण, लिखितम् = साधनम्, वच्मि = वदामि, ब्रह्मणा = विधिना, अनुभूतस्मारकम् = = ' पूर्वकृतस्मरणार्थम्, लिखितम् = लेखनविधिम्, कृतम् = रचितम् ॥ १७२ ॥

हिन्दी – इस समय मैं एक के बाद दूसरा ज्यों - के - त्यों लिखित साधन के बारे में बतलाता हूँ । ब्रह्मा ने किये गये कर्म की याद दिलाने के लिए ही लिखित साधन की रचना की है ॥ १७२ ॥

अधुनेति । अधुना सम्प्रति यथावत् अनुपूर्वशः अनुक्रमेण लिखितं साधनमित्यर्थः, वच्मि ब्रवीमि । ब्रह्मणा विधात्रा अनुभूतस्मारकं पूर्वकृतस्मरणार्थमित्यर्थः लिखितं कृतं निर्मितम् ॥१७२ ॥

राजकीयं लौकिकञ्च द्विविधं लिखितं स्मृतम् ।

स्वहस्तलिखितं वान्यहस्तेनापि विलेखितम् ।

असाक्षिमत् साक्षिमच्च सिद्धिर्देशस्थितेस्तयोः ॥ १७३ ॥

अन्वयः — लिखितं द्विविधं स्मृतं – राजकीयं लौकिकञ्च, स्वहस्तलिखतं वा अन्यहस्तेनापि विलेखितम् असाक्षिमत् साक्षिमत् देशस्थितेः तयोः सिद्धिः भवेत् ॥ १७३ ॥

व्याख्या — लिखितम् = लिपिबद्धम्, द्विविधम् = प्रकारद्वयम्, स्मृतम् = कथितम्, राजकीयम् CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 274

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 274 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६८६ शुक्रनीतिः = प्रशासकीयम्, च = पुनः, लौकिकम् = व्यावहारिकमाचारिकं वेति, तदपि द्विविधम् — स्वहस्त-लिखितम् — स्वस्य = आत्मनः, हस्तेन = करेण, लिखितम् = लिपिबद्धं कृतम्, वा = अथवा, अन्यहस्तलिखितम् — अन्यस्य = अपरस्य जनस्य, हस्तेन = करेण, लिखितम् = अङ्कितम्, विलेखितम् = विशिष्टेन लिखितम्, पुनश्च द्विविधम् – आसाक्षिमत् = प्रेक्षकहस्ताक्षरविहीनम्, च = पुनः, साक्षिमत् = प्रेक्षकहस्ताक्षरसमन्वितम्, देशस्थितेः = स्थानानुसारेण, तयोः = उभयो: साक्षिकासाक्षिकयोः, सिद्धिः = साफल्यम्, भवेदिति ॥ १७३ ॥

हिन्दी — लिखित साधन दो प्रकार के होते हैं - राजकीय एवं लौकिक और इनमें से प्रत्येक लिखित फिर अपने हाथ से या दूसरे के हाथ से लिखा होने के कारण दो प्रकार का होता है । पुनः सभी प्रकार के लेख गवाह के हस्ताक्षर सहित एवं गवाही रहित होते हैं ॥ १७३ ॥

राजकीयमिति । लिखितं द्विविधं स्मृतं राजकीयं लौकिकञ्च । तदपि द्विविधं स्वहस्तलिखितम् अन्यहस्तलिखितं वा । पुनश्च द्विविधम् असाक्षिकं साक्षिमच्च, देशस्थिते: स्थानानुसारेण उभयो: ससाक्षिकासाक्षिकयोः सिद्धिः भवेदित्यर्थः ॥ १७३ ॥

भागदानक्रियादानसंविद्दानऋणादिभिः 1

सप्तधा लौकिकं चैतत् त्रिविधं राजशासनम् ।

शासनार्थं ज्ञापनार्थं निर्णयार्थं तृतीयकम् ॥ १७४ ॥

अन्वयः — लौकिकं च एतत् भागदानक्रियादानसंविधानऋणादिभिः सप्तधा । राजशासनं तु त्रिविधम् — शासनार्थम्, ज्ञापनार्थं निर्णयार्थम् ॥१७४ ॥

व्याख्या — लौकिकम् = व्यावहारिकं लिखितं च एतत् भागैः = अंशैः, दानैः = प्रदानैः, क्रियाभिः = आचारैः, आदानैः = न्यासैः, संविद्भिः = प्रतिज्ञातैः, ऋणादिभिः = पर्युदञ्चनादिभिः, सप्तधा = सप्तप्रकारकं भवति, राजशासनन्तु, त्रिविधम्, शासनार्थम् = प्रशासनाय एकम्, ज्ञापनार्थम् = सूचनाय द्वितीयम्, तृतीयं तु निर्णयार्थम् = सिद्धान्तार्थम्, भवति ॥ १७४ ॥

हिन्दी —- बटवारा, दान, आचार, धरोहर, इकरारनामा, सेवा तथा ऋण प्रभृति — ये लौकिक लेख के सात भेद होते हैं तथा राजकीय लेख शासन के लिए, सूचना देने के लिए तथा निर्णय देने के लिए — तीन तरह के होते हैं ॥ १७४ ॥

भागेति । लौकिकञ्च लिखितम् एतत् भागदानक्रियादानसंविद्दानऋणादिभिः निमित्तभूतैः सप्तधा सप्तविधमित्यर्थः, राजशासनन्तु त्रिविधं, शासनार्थम् एकं ज्ञापनार्थं द्वितीयं, निर्णयार्थं तृतीयम् ॥ १७४ ॥

साक्षिमद्रिक्थ्यभिमतं भागपत्रं सुभक्तियुक् सिद्धिकृच्चान्यथा पित्रा कृतमप्यकृतं स्मृतम् ॥ १७५ ॥

अन्वयः — साक्षिमत् रिक्थ्यभिमतं सुभक्तियुक् भागपत्रं सिद्धिकृत्, अन्यथा पित्रा कृतमपि अकृतं स्मृतम् ॥ १७५ ॥

व्याख्या — साक्षिमत् = ससाक्षिकं, रिक्थिभिः = गोत्रजैः, अभिमतम् = सम्मतम्, सुभक्तियुक् = सुष्ठुतया विभाजितम्, भागपत्रम् = वण्टनलेख्यम्, सिद्धिकृत् = निर्णीतम्, निर्धारितं वा, अन्यथा = इतरथा, पित्रा कृतमपि = जनकेन विभाजितमपि, भागपत्रम् = • वण्टनलेख्यम्, अकृतम् = अस्वीकार्यम्, स्मृतम् = कथितम् ॥ १७५ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 275

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 275 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६८७ हिन्दी — बटवारे के दस्तावेज पर गवाही का हस्ताक्षर हो, पट्टीदारों की स्वीकृति हो, अच्छी तरह बटवारे की वस्तु का निर्णय किया गया हो, वह माननीय होता है; नहीं तो बाप का किया गया बटवारे का लेख भी अमान्य होता है ॥ १७५ ॥

साक्षिमदिति । साक्षिमत् ससाक्षिकं रिक्थिभिः दायादैः अभिमतं सुभक्तियुक् सुष्ठुरचनायुक्तं भागपत्रं वण्टनलेख्यं सिद्धिकृत्, अन्यथा अतथात्वे इत्यर्थः, पित्रा कृतमपि भागपत्रम् अकृतं स्मृतम् अग्राह्यमित्यर्थः ॥१७५ ॥

दायादाभिमतं दानक्रयविक्रयपत्रकम् ।

स्थावरस्य ग्रामपादिसाक्षिकं सिद्धिकृत् स्मृतम् ॥। १७६ ॥

अन्वयः—– स्थावरस्य दानक्रयविक्रयपत्रकं दायादाभिमतं ग्रामपादिसाक्षिकं सिद्धिकृत् स्मृतम् ॥ २७६ ॥

व्याख्या — स्थावरस्य = अचलस्य सम्पदः, दानपत्रम् = दानलेखः, क्रयपत्रम् = मूल्येन क्रीत-पदार्थलेखः, विक्रयपत्रम् = विपणनपत्रम्, च, दायादाभितम् — दायादैः = गोत्रजैः, अभिमतम् = मनोनीतम्, ग्रामपादिसाक्षिकम् = ग्रामप्रधानादिसाक्ष्यसहितम्, सिद्धिकृत् = निर्णीतपत्रम्, स्मृतम् = कथितम् ॥ १७६ ॥

हिन्दी - अचल सम्पत्ति - विषयक दानपत्र, खरीदपत्र एवं विक्रयपत्र यदि पट्टीदारों से अनुमोदित, ग्राममुखिया की गवाही हो तो माननीय है, अन्यथा अमान्य होता है ॥ १७६ ॥

दायादेति । स्थावरस्य भूम्यादेः दानविक्रयपत्रं दानपत्रं विक्रयपत्रं क्रयपत्रञ्च दायादाभिमतं दायादैः अभिमतं सम्मतं ग्रामपादिसाक्षिकं ग्रामाध्यक्षसमेतं सत् सिद्धिकृत् स्मृतम् ॥ १७६ ॥

राज्ञा स्वहस्तसंयुक्तं स्वमुद्राचिह्नितं तथा ।

राजकीयं स्मृतं लेख्यं प्रकृतिभिश्च मुद्रितम् ॥ १७७ ॥

अन्वयः— राजकीयं लेख्यं राज्ञा स्वहस्तसंयुक्तं वा स्वमुद्राचिह्नितम् अथवा प्रकृतिभिश्च मुद्रितम् ॥ १७७ ॥

व्याख्या — राजकीयम् = प्रशासकीयम्, लेख्यम् = लेखपत्रम्, राज्ञा = नृपेण, स्वहस्तसंयुक्तम् = स्वकीयहस्ताक्षरेण सहितम्, वा स्वमुद्राचिह्नितम् = राजमुद्राङ्कितम्, अथवा नृपाभिमतेन प्रकृतिभिः = राजपुरुषैः, मुद्रितम् = अङ्कितम्, स्यादिति ॥ १७७ ॥

हिन्दी - जिस लेख पर राजा का हस्ताक्षर हो अथवा राजमुद्रा अंकित हो या राजा के आदेश से मंत्रियों की मुहर लगी हो, उसे राजकीय पत्र कहते हैं ॥१७७ ॥

राज्ञेति । राजकीयं लेख्यं राज्ञा स्वहस्तसंयुक्तं स्वहस्ताक्षरितं वा स्वस्य मुद्रया चिह्नितम् अथवा राजानुमत्या प्रकृतिभिः राजपुरुषैः मुद्रितं भवतीति शेषः ॥१७७ ॥

निवेश्य कालं वर्षं च मासं पक्षं तिथिं तथा ।

वेलां प्रदेशं विषयं स्थानं जात्याकृती वयः ॥ १७८ ॥

साध्यं प्रमाणं द्रव्यं च सङ्ख्यां नाम तथात्मनः ।

राज्ञां च क्रमशो नाम निवासं साध्यनाम च ॥ १७ ९ ॥

क्रमात् पितॄणां नामानि पीडामाहर्तृदायकौ ।

क्षमालिङ्गानि चान्यानि पक्षे सङ्कीर्त्य लेखयेत् ॥ १८० ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 276

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 276 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६८८ शुक्रनीतिः अन्वयः —– पक्षे कालं वर्षं मासं पक्षं तिथिं तथा वेलां प्रदेशं विषयं स्थानं जात्या आकृती वयः साध्यं प्रमाणं संख्याम् आत्मनः नाम च तथा क्रमशः राज्ञां नाम निवासं साध्यनाम पितृणाम् आत्मनः नामानि पीडाम् आहर्तृदायकौ क्षमालिङ्गानि अन्यानि सङ्कीर्त्य लेखयेत् ॥ १७८-१८० ॥ व्याख्या — पक्षे = साध्ये, कालम् = समयम्, वर्षम् = अब्दम्, मासम् = पक्षद्वयावधिम्, पक्षम् = मासार्द्धम्, तिथिम् = दिनम्, प्रदेशम् = क्षेत्रम्, विषयम् = मण्डलम्, स्थानम् = ग्रामम्, जात्याकृती — जातिम् = वर्णम्, आकृतिम् = आकारम्, वयः = अवस्था, साध्यम् = प्रमाणम्, द्रव्यम् = धनम्, संख्याम् = अङ्कः, आत्मनः = स्वस्य, नाम = अभिधानम्, निवेश्य = उल्लिख्य, क्रमश: - = क्रमेण, राज्ञाम् = नृपाणाञ्च, नाम = अभिधानम्, निवासम् = निवासस्थानम्, साध्यनाम — साध्यस्य = विवादस्य, नाम = संज्ञा, पितृणाम् = जनकानाम्, आत्मनः = स्वस्य, राज्ञाञ्चेति शेषः, नामानि = अभिधानानि, पीडाम् = कष्टम्, अभियोगभूततथ्यम्, आहर्तृदायकौ = उपार्जकदातारौ, नाम्नी, क्षमालिङ्गानि- —क्षमायाः = = सहिष्णुतायाः, लिङ्गानि = = चिह्नानि, अन्यानि = अपराणि, आवश्यकवस्तूनि, सङ्कीर्त्य = कथयित्वा लेखयेत् = उल्लेखं कारयेत् ॥ १७८-१८० ॥ हिन्दी- -दावा में समय, साल, महीना, पक्ष, दिन, काल, प्रान्त, जिला, ग्राम, जाति, आकार, अवस्था, अभियोग, प्रमाण, धन और उनकी संख्या तथा अपना नाम लिखकर क्रमशः राजा का नाम, उनका निवासस्थान तथा साध्य का नाम, पिता- पितामह प्रभृति का नाम, अपनी पीडा, अर्जित करने वाले का नाम देने वाले का नाम, क्षमा के चिह्न तथा इनके अतिरिक्त अन्य जो कुछ आवश्यक तथ्य हों, उसका नाम कहकर लिखवा दे ॥ १७८-१८० ॥ सम्प्रति लेखनप्रकारमाह - निवेश्येत्यादि । पक्षे साध्ये कालं वर्षं मासं पक्षं तिथिं वेलां प्रदेशं विषयं स्थानं जात्याकृती जातिम् आकृतिञ्चेत्यर्थः, वयः यौवनादिकं साध्यं प्रमाणं द्रव्यं संख्याम् आत्मनः नाम च निवेश्य, तथा क्रमशः यथाक्रमं राज्ञां नाम, निवासं साध्यानाम्, पितॄणाम् आत्मनः राज्ञाञ्चेति शेषः, नामानि पीडाम् अभियोगहेतुभूतामित्यर्थः, आहर्तृदायकौ अर्जकं दातारञ्चेत्यर्थः, क्षमालिङ्गानि क्षमायाः चिह्नानि अन्यानि आवश्यकानि च सङ्कीर्त्य लेखयेत् ॥ १७८-१८० ॥

यत्रैतानि न लिख्यन्ते हीनं लेख्यं तदुच्यते ।

भिन्नक्रमं व्युत्क्रमार्थं प्रकीर्णार्थं निरर्थकम् ॥ १८१ ॥

अतीतकाललिखितं न स्यात् तत् साधनक्षमम् ।

अप्रगल्भेन च स्त्रिया बलात्कारेण यत् कृतम् ॥ १८२ ॥

अन्वयः - यत्र एतानि न लिख्यन्ते तत् हीनं लेख्यम् उच्यते । यत् भिन्नक्रमं व्युत्क्रमार्थं, प्रकीणार्थं निरर्थकं वा अतीतकाललिखितं; यच्च अप्रगल्भेन स्त्रिया बलात्कारेण कृतं, तत् साधनक्षमं न स्यात् ॥ १८१-१८२ ॥ व्याख्या - यत्र = = यस्मिन्लेखे, एतानि = पूर्वोक्तानि, न = नहि, लिख्यन्ते, तत् = लेख्यम्, हीनम् = प्रमाणशून्यम्, निकृष्टम्, उच्यते = कथ्यते । यत् = लेखम्, भिन्नक्रमम् = क्रमभङ्गान्वितम्, व्युत्क्रमार्थम् = विपरीतार्थम्, प्रकीर्णार्थम् = विश्लिष्टार्थम्, निरर्थकम् = अर्थशून्यं, वा, CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 277

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 277 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६८ ९ अतीतकाललिखितम् = कालान्तरे लिखितम्, यच्च, अप्रगल्भेन = अकुशलेन, वा, स्त्रियाः = नारीजनेन, अथवा बलात्कारेण = बलपूर्वकेण, कृतम् = लिखितम्, तत् = लेखम्, साधनक्षमम् = प्रामाणिकम्, तथ्ययुक्तं वा, न = नहि, स्यात् = भवेत् ॥ १८१-१८२ ॥ हिन्दी — जिस लेख में ऊपरलिखित बातों का उल्लेख न हो, वह अप्रामाणिक या हीन होता है । जो लेख सिलसिलेवार न लिखा गया हो या उलटे अर्थ को बतलाने वाला हो या बिखरे अर्थ को बतलाने वाला हो, निरर्थक हो, कालान्तर का लिखा हो वह लेख प्रामाणिक नहीं माना जाता है । जो लेख अप्रबुद्ध व्यक्ति का लिखा हो या किसी और का लिखा हो अथवा जबर्दस्ती लिखवाया गया हो, वह लेख भी अप्रामाणिक माना जाता है ॥ १८१-१८२ ॥ यत्रेति । अतीतेति । यत्र एतानि उक्तानि न लिख्यन्ते तत् लेख्यं हीनम् अप्रमाणमित्यर्थः, उच्यते । यत् भिन्नकर्म क्रमभङ्गयुतं व्युत्क्रमार्थं विपरीतार्थं प्रकीणार्थं विक्षिप्तप्रतिपाद्यं निरर्थकम् अर्थशून्यं वा अतीतकाललिखितं कालान्तरे लिखितं यच्च अप्रगल्भेन त्यर्थः, वा स्त्रिया स्त्रीलोकेन अथवा बलात्कारेण कृतं लिखितं तत् लेख्यं न स्यात् ॥ १८१-१८२ ॥

सद्भिर्लेख्यैः साक्षिभिश्च भोगैर्दिव्यैः प्रमाणताम् ।

व्यवहारे नरो याति चेहामुत्राश्नुते सुखम् ॥

अन्वयः I नरः सद्भिः लेख्यैः साक्षिभिः भोगैः दिव्यैः प्रमाणतां याति सुखम् अश्नुते ॥ १८३ ॥

अचतुरेण निर्बोधेने-साधनक्षमं प्रामाणिकं १८३ ॥ । एवम् इह अमुत्र च व्याख्या – नरः = पुरुषः, सद्भिः = दोषशून्यैः, लेख्यैः = साध्यैः, साक्षिभिः = प्रत्यक्षदर्शकैः, भोगैः = उपभोगैः, दिव्यैः = घटादिभिश्च, व्यवहारे प्रमाणताम्, याति = प्राप्नोति, इह = संसारे, अमुत्र = परलोके च, सुखम् = आनन्दम्, अश्नुते = भुङ्क्ते ॥ १८३ ॥

हिन्दी — कोई भी आदमी निर्दोष लिखित प्रमाणों से गवाही के द्वारा किसी सम्पत्ति पर कब्जा होने से, दिव्य प्रमाणों से व्यावहारिकता में प्रमाण प्राप्त करता है, ऐसा व्यक्ति ही संसार तथा संसार से परे सुख भोगता है ॥ १८३ ॥

सद्भिरिति । नरः सद्भिः निर्दोषैः लेख्यैः साक्षिभिः भोगैश्च तथा दिव्यैः घटादिभिश्च व्यवहारे प्रमाणतां याति प्राप्नोति, इह अस्मिन् लोके अमुत्र परलोके च सुखम् अश्नुते ॥ १८३ ॥

स्वेतरः कार्य्यविज्ञानी यः स साक्षी त्वनेकधा ।

दृष्टार्थश्च श्रुतार्थश्च कृतश्चैवाकृतो द्विधा ॥

अन्वयः — यः स्वेतरः कार्यविज्ञानी सः साक्षी, स तु अनेकधा, दृष्टार्थः कृतः अकृतश्चेति द्विविधः ॥ १८४ ॥

व्याख्या– यः = नरः, स्वेतर. - स्वस्य = आत्मनः, इतरः = भिन्नो जनः, कार्यवेत्ता, भवति, सः = = असौ, साक्षी = प्रेक्षको भवति, सः = = साक्षी, तु भवन्ति, दृष्टार्थः = प्रत्यक्षद्रष्टा, श्रुतार्थश्च = श्रोता च, द्विविधः, सः तु समुपस्थितः, अकृतश्च = नृपेणाहूतः द्विविधः ॥ १८४ ॥

१८४ ॥। श्रुतार्थश्च द्विधा, पुनः तस्य कार्यविज्ञानी = अनेकधा = बहुविधा पुनः कृतः =: वादिना VX ST CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 278

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 278 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६ ९ ० शुक्रनीतिः हिन्दी – जो अपना सम्बन्धी न हो पर मुकदमे की जानकारी रखता हो, वह गवाह मानने लायक होता है । गवाह अनेक तरह के होते हैं— कोई प्रत्यक्षदर्शी होता है तो कोई केवल सुनने वाला ही होता है । फिर ये दो तरह के होते हैं - एक वह जो वादी द्वारा उपस्थित किया जाता है, उसे ‘ कृति ' कहते हैं । दूसरा वह जिसे राजा बुलवाता है, वह अकृत कहलाता है ॥ १८४ ॥

स्वेतर इति । यः स्वेतरः स्वस्मात् आत्मनः इतरः अन्यः सन् कार्य्यविज्ञानी कार्य्यज्ञानवान् भवति सः साक्षी, स तु अनेकधा, दृष्टार्थः श्रुतार्थश्चेति द्विविधः, स पुनः कृतः अकृतश्चेति द्विविधः ॥ १८४ ॥

अर्थिप्रत्यर्थिसान्निध्यादनुभूतं तु प्राग् यथा ।

दर्शनै: श्रवणैर्येन स साक्षी तुल्यवाग् यदि ॥ १८५ ॥

अन्वयः — येन प्राक् अर्थिप्रत्यर्थिसान्निध्यात् दर्शनैःश्रवणैः वा यथा अनुभूतं सः यदि तुल्यवाग् तदा साक्षी भवति ॥ १८५ ॥

व्याख्या — येन = जनेन, प्राक् = पूर्वम्, अर्थिप्रत्यर्थिसान्निध्यात् = वादिप्रतिवादिसामीप्यात्, दर्शनैः = अवलोकनैः, श्रवणैः = आकर्णनैः, वा = अथवा, यथा अनुभूतम् = अनुभवगम्यम्, सः = असौ, यदि, तुल्यवाक् = समानकथनम्, भवति, तदा साक्षी = प्रेक्षको भवति ॥ १८५ ॥

हिन्दी — वादी या प्रतिवादी के पास रहने से जैसा पहले देखने या सुनने से मुकदमे के बारे में अनुभव हुआ हो और उसी के अनुरूप कहने वाला हो तो उसे ही गवाही कहते हैं ॥१८५ ॥

अर्थीति । येन प्राक् पूर्वम् अर्थिप्रत्यर्थिसान्निध्यात् वादिप्रतिवादिसकाशात् दर्शनैः श्रवणैर्वा यथा अनुभूतम् अनुभवविषयीकृतं सः यदि तुल्यवाक् अविरुद्धवाक् भवति तदा साक्षी भवति ॥ १८५ ॥

यस्य नोपहता बुद्धिः स्मृतिः श्रोत्रं च नित्यशः ।

सुदीर्घेणापि कालेन स वै साक्षित्वमर्हति ॥ १८६ ॥

अन्वयः — यस्य बुद्धिः स्मृतिः श्रोत्रं च सुदीर्घेणापि न उपहता ( भवति ) सः वै नित्यशः साक्षित्वं भवेत् ॥१८६ ॥

व्याख्या — यस्य = जनस्य, बुद्धि = मतिः, स्मृतिः = स्मरणशक्तिः, श्रोत्रम् = श्रवणशक्तिश्च, सुदीर्घेणापि = बहुकालात्ययेनापि, न = नहि, उपहता = विनष्टा भवति, सः = असौ, वै = इति निश्चयेन, नित्यशः = सततम्, साक्षित्वम् = प्रेक्षकत्वम्, अर्हति = योग्यो भवति ॥१८६ ॥

हिन्दी — बहुत समय बीत जाने के बावजूद जिसकी बुद्धि, स्मरणशक्ति और सुनने की क्षीणन हुई हो, वही व्यक्ति सचमुच गवाही देने योग्य होता है ॥ १८६ ॥

यस्येति । यस्य बुद्धिः स्मृति: श्रोत्रञ्च सुदीर्घेणापि बहुनापि कालेन न उपहता न विलुप्ता भवति, स वै स एव नित्यशः सततं साक्षित्वम् अर्हति ॥ १८६ ॥

अनुभूतः सत्यवाग्यः सैव साक्षित्वमर्हति ।

उभयानुमतः साक्षी भवत्येकोऽपि धर्मवित् ॥ १८७ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 279

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 279 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ६ ९ १ अन्वयः — यः अनुभूतः सत्यवाक् स एव साक्षित्वम् अर्हति यश्च धर्मवित् उभयानुमतः सः एकोऽपि साक्षी भवति ॥ १८७ ॥

व्याख्या — यः = जनः, अनुभूतः = साक्षात् ज्ञातः, सत्यवाक् = सत्यवचनवादी, स एव, साक्षित्वम् = साक्षिता, अर्हति = योग्यो भवति, यश्च = यो हि जनः, धर्मविद् = धार्मिकः, उभयानुमतः = अर्थिप्रत्यर्थिभ्यां सम्मतः, सः = असौ, एकोऽपि = एकेनैवोभयपक्षस्य, साक्षी = प्रेक्षकः भवति ॥ १६७ ॥

हिन्दी – मुकदमे का जिसने अनुभव किया है तथा सत्यवादी है, वही गवाह बनने योग्य होता है और कोई धर्मात्मा अकेले ही वादी और प्रतिवादी दोनों के लिए गवाही के रूप में मान्य हाता ॥ १८७ ॥

अनुभूत इति । यः अनुभूतः अनुभवशक्तिसम्पन्नस्तथा सत्यवाक् सैव स एव ( सन्धिरार्षः ) साक्षित्वम् अर्हति । यश्च धर्मवित् धार्मिकः उभयानुमतः वादिप्रतिवादिभ्यां सम्मतः स एकोऽपि साक्षी भवति ॥ १८७ ॥

यथाजाति यथावर्णं सर्वे सर्वेषु साक्षिणः ।

गृहिणो न पराधीना: सूरयश्चाप्रवासिनः ॥ १८८ ॥

अन्वयः — यथाजाति यथावर्णं सर्वे सर्वेषु साक्षिणः गृहिणः न पराधीना सूरयश्च अप्रवासिनः साक्षिणः भवन्ति ॥ १८८ ॥

व्याख्या — यथाजाति = जात्यनुरूपेण, यथावर्णम् = वर्णानुसारेण, सर्वे = सकलाः, सर्वेषु = सकलेषु, साक्षिणः = प्रेक्षकाः, गृहिणः = गृहस्थाः, न = नहि, पराधीनाः = परतन्त्राः, सूरयश्च = विद्वांसः, तथा अप्रवासिनः जनाः, साक्षिण: = प्रेक्षकाः भवन्तीति ॥ १८८ ॥

हिन्दी – जाति और वर्ण के अनुसार सभी जाति में सभी जाति के लोग गवाह बन सकते हैं । गृहस्थ, किसी के अधीन न रहने वाले, विद्वान्, परदेश में नहीं रहने वाले लोग गवाह हो सकते हैं ॥ १८८ ॥

यथेति । यथाजाति जात्यनुसारेण यथावर्णं वर्णानुसारेण सर्वेषु विषयेषु सर्वे गृहिणः सर्वे गृहस्थाः न पराधीनाः स्वाधीना इत्यर्थः, सूरयः विद्वांसः तथा अप्रवासिनः जनाः साक्षिणः भवन्तीति शेषः ॥ १८८ ॥

युवानः साक्षिणः कार्य्याः स्त्रियः स्त्रीषु च कीर्त्तिताः ॥ १८ ९ ॥ अन्वयः — युवानः साक्षिणः कार्याः च स्त्रीषु स्त्रियः कीर्त्तिताः ॥ १८ ९ ॥ व्याख्या — युवानः = तरुणाः, न तु वृद्धाः च = पुनः, स्त्रीषु = नारीविषयेषु, स्त्रियः = कथिताः ॥१८ ९ ॥ हिन्दी – युवा व्यक्ति ही गवाह बनाने को ही गवाही देनी चाहिए ॥ १८ ९ ॥ युवान इति । युवानः न तु बालका वा साक्षिण्य इत्यर्थः कीर्त्तिताः ॥ १८ ९ ॥ बालकाश्च, साक्षिण: = प्रेक्षकाः, कार्याः = विधेयाः, नार्यः एव, साक्षिण्यः = प्रेक्षिकाः, कीर्त्तिताः = योग्य होते हैं तथा औरतों के मुकदमे में औरतों वृद्धा इत्यर्थः, साक्षिणः, तथा स्त्रीषु विषयेषु स्त्रियः CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 280

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 280 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६ ९ २ शुक्रनीतिः

साहसेषु च सर्वेषु स्तेयसङ्ग्रहणेषु च ।

वाग्दण्डयोश्च पारुष्ये न परीक्षेत साक्षिणः ॥ १ ९ ० ॥

अन्वयः — साहसेषु सर्वेषु स्तेयसङ्ग्रहणेषु तथा वाग्दण्डयोश्च पारुष्ये साक्षिणः न परीक्षेत ॥ १ ९ ० ॥ व्याख्या — साहसेषु = कुकृत्येषु, सर्वेषु = सकलेषु, स्तेयसङ्ग्रहणेषु = चौर्यादिजघन्यकृत्येषु, तथा वाग्दण्डयोः = वाचस्तथा दण्डस्य, च, पारुष्ये = कार्कश्ये, साक्षिणः = प्रेक्षकाः, न = = नहि, परीक्षेत = परीक्षणं कुर्यात् ॥ १ ९ ० ॥ हिन्दी — डकैती, चोरी, बलात्कार या अपहरण, कठोर वचन तथा कठोर दण्ड जैसे जघन्य अपराधों में गवाही का विशेष परीक्षण नहीं होता । क्योंकि ऐसे मुकदमे में कोई भी गवाह बन सकता है ॥ १ ९ ० ॥ साहसेष्विति । सर्वेषु साहसेषु दस्युव्यवहारेषु स्तेयसङ्ग्रहणेषु चौर्येषु बलात्कारेषु च तथा वाग्दण्डयोः पारुष्ये साक्षिणः न परीक्षेत ये केचन साक्षिणो भवन्तीति भावः ॥ १ ९ ० ॥

बालोऽज्ञानादसत्यात् स्त्री पापाभ्यासाच्च कूटकृत् ।

विब्रूयाद् बान्धवः स्नेहाद्वैरनिर्य्यातनादरिः ॥ १ ९ १ ॥

अभिमानाच्च लोभाच्च विजातिश्च शठस्तथा ।

उपजीवनसङ्कोचाद्भृत्यश्चैते ह्यसाक्षिणः ।

नार्थसम्बन्धिनो विद्यायौनसम्बन्धिनोऽपि न ॥ १ ९ २ ॥

अन्वयः — बालः अज्ञानात्, स्त्री असत्यात्, कूटकृत् पापाभ्यासात्, बान्धवः स्नेहात्, अरिः वैरनिर्यातनात्, विजातिः अभिमानात्, शठः लोभात् तथा भृत्यः उपजीवनसङ्कोचात् विब्रूयात् । तस्मात् एते असाक्षिणः किञ्च अर्थसम्बन्धिनः विद्यायौनसम्बन्धिनोऽपि नेति ॥ १ ९१-१९ २ ॥ व्याख्या — बालः = बालकः, अज्ञानात् = ज्ञानहीनत्वात्, स्त्री = नारी, असत्यात् = मिथ्या-वादनाभ्यासात्, कूटकृत् = मायिकः, पापाभ्यासात् – पापस्य = अधर्मस्य, अभ्यासात् = सततानु-शीलनातः बान्धवः– सम्बन्धिनः, स्नेहात् = प्रेम्णः, अरिः = रिपुः, वैरनिर्यातनात् = शत्रुत्व-निष्कासनात्, विजातिः = अपकृष्टजातिः, अभिमानात् = स्वदर्पात्, शठः = = धूर्त्तः, लोभात् = लिप्सायाः, तथा भृत्यः = सेवकः, उपजीवनसङ्कोचात् —–उपजीवनस्य = जीविकायाः, सङ्कोचात् -विनाशभयात्, विब्रूयात् = विरुद्धं विपरीतं वा वदेत् । तस्मात् हेतोः, एते = पूर्वोक्ताः सर्वे, असाक्षिणः = साक्षित्वं नार्हन्ति, किञ्च अर्थसम्बन्धिनः- अर्थेन = धनेन, सम्बन्धवन्तः = संसर्गवन्तः, न = नहि, तथा विद्यायौनसम्बन्धिनः– विद्यासम्बन्धिनः- सहाध्यायिनः, यौनसम्बन्धिनः = जामात्रादयः, न = = नहि, साक्षिणः = प्रेक्षकाः, भवन्ति ॥ १ ९१-१९ २ ॥ हिन्दी — बालक अज्ञानी होने के कारण, झूठ बोलने के अभ्यास के कारण औरत, जालसाजी करने के कारण जालसाज, स्नेह के कारण सम्बन्धी, शत्रुता साधने के कारण शत्रु, संमान - वृद्धि के दंभ से हीन जाति के लोग तथा नौकरी छूट जाने के डर से नौकर विरुद्ध बोल सकते हैं । अतः ये गवाह बनने योग्य नहीं होते और किसी तरह धन से जुडे लोग या सहपाठी और जमाई जैसे सम्बन्धी जन भी गवाह नहीं हो सकते हैं ॥ १ ९१-१९ २ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA