शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 301–310

शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 301–310

पृष्ठ 301

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 301 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ७१३ अपहृते = नीते, सलिलम् = जलपरीक्षणम्, स्मृतम् = कथितम् ॥ २४ ९ ॥ हिन्दी – एक हजार मुद्रा का यदि अपहरण हुआ हो तो अग्निपरीक्षा, चतुर्थांश कम अर्थात् सात सौ पचीस रुपये अपहृत हो तो विषपरीक्षा, तृतीयांश हीन अर्थात् नौ सौ सड़सठ रुपये की चोरी हो तो तुला - परीक्षा तथा आधा सहस्र अर्थात् पाँच सौ के अपहण में जलपरीक्षा कही गई है ॥ २४ ९ ॥ सहस्र इति । सहस्रे अपहृते अग्निः स्मृतः । पादोने चतुर्थभागहीने सहस्रे पञ्चाशदधिकसप्तशते इत्यर्थः, अपहृते विषं स्मृतम् । त्रिभागेण ऊने तृतीयभागहीने सहस्रे अपहृते घटः प्रोक्तः । अर्द्ध पञ्चशते अपहृते तु इत्यर्थः, सलिलं स्मृतम् ॥ २४ ९ ॥

धर्माधर्मौ तदर्धे च ह्यष्टमांशे च तण्डुलाः ।

षोडशांशे च शपथा एवं दिव्यविधिः स्मृतः ॥ २५० ॥

अन्वयः — तदर्द्धे धर्माधर्मौ स्मृतौ, अष्टमांशे तण्डुलाः स्मृताः, षोडशांशे च शपथाः एवं दिव्यविधिः स्मृतः ॥ २५० ॥

व्याख्या — तदर्थे — तत् = तस्या अर्द्धसहस्रस्य, अर्द्धे = पञ्चाशदधिकशतद्वयेऽपहृते, धर्माधर्मौ, स्मृतौ = कथितौ, अष्टमांशे = पञ्चविंशत्यधिकशते, अपहृते, तण्डुलाः =: तण्डुलपरीक्षणम्, स्मृताः, षोडशांशे = सार्द्धद्विषष्टिसंज्ञके नीते सति अन्ये शपथाः, स्मृताः = कथिताः, एवम् = - अनेन प्रकारेण, दिव्यविधिः कथितः = स्मृतः ॥२५० ॥

हिन्दी — हजार का चौथा भाग अगर अपहृत हो तो धर्म - अधर्म परीक्षा, हजार का अगर आठवाँ भाग अपहृत हो तो चावल - परीक्षा तथा हजार का सोलहवाँ भाग अगर अपहृत हो तो उसे सौगन्ध खिलाना — इस प्रकार यह दिव्यविधि कहलाती है ॥२५० ॥

धर्मेति । तदर्थे पञ्चाशदधिकशतद्वये अपहृते इत्यर्थः, धर्माधर्मौ स्मृतौ अष्टमांशे पञ्चविंशत्यधिकशते अपहृते इत्यर्थः, तण्डुलाः स्मृताः । पोडशांशे सार्द्धद्विषष्टिसंख्यके अपहृते

इत्यर्थः, अन्ये शपथाः स्मृताः । एवम् उक्तरूपः दिव्यविधिः स्मृतः कथितः ॥२५० ॥

एषा संख्या निकृष्टानां मध्यानां द्विगुणा स्मृता ।

चतुर्गुणोत्तमानां च कल्पनीया परीक्षकैः ॥ २५१ ॥

अन्वयः — परीक्षकैः निकृष्टानाम् एषा संख्या, मध्यानां द्विगुणा स्मृता, उत्तमानां च चतुर्गुणा कल्पनीया ॥ २५१ ॥

व्याख्या – परीक्षकैः = विचारकैः राजपुरुषैः, निकृष्टानाम् = निम्कोटिपुरुषाणाम्, एषा = पूर्वोक्ता, संख्या = परिगणना, मध्यानाम् = मध्यमकोटिपुरुषाणाम्, एतत् पूर्वोक्ता संख्या, द्विगुणा = द्विगुणिता, स्मृता = कथिता, उत्तमानाञ्च = उत्तमकोटिजनानाम्, चतुर्गुणा, कल्पनीया = विहितव्या ॥ २५१ ॥

हिन्दी – यह संख्या निम्न दिव्य परीक्षा की है, मध्यम दर्जे की दिव्य परीक्षा में ऊपर लिखित संख्या दूनी होती है तथा उत्तम दिव्य परीक्षा में परीक्षकों द्वारा यह संख्या चौगुनी विहित होनी चाहिए ॥ २५१ ॥

एषेति । परीक्षकैः राजपुरुषैः निकृष्टानां नीचानाम् एषा उक्तरूपा संख्या, मध्यानां मानवानाम्

एतद् द्विगुणा स्मृता । उत्तमानाञ्च चतुर्गुणा कल्पनीया ॥२५१ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 302

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 302 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७१४ शुक्रनीतिः

शिरोवर्त्ती यदा न स्यात् तदा दिव्यं न दीयते ।

अभियोक्ता शिरःस्थाने दिव्येषु परिकीर्त्यते ॥ २५२ ॥

अन्वयः —– यदा अभियोक्ता शिरोवर्त्ती न स्यात् तदा दिव्यं न दीयते । अभियोक्ता दिव्येषु शिरःस्थाने परिकीर्त्यते ॥ २५२ ॥

व्याख्या — यदा = यस्मिन् काले, अभियोक्ता = वादी, शिरोवर्त्ती = सम्मुखस्थः, न = = नहि, स्यात् = भवेत्, तदा = तस्मिन् काले, दिव्यम् = दिव्यशपथम्, न = नहि, दीयते = दातव्यम् । अभियोक्ता = वादी, दिव्येषु = दीयमानेषु, शिरः स्थाने = अग्रस्थाने, परिकीर्त्यते = कथ्यते ॥२५२ ॥

हिन्दी — दिव्यशपथ लेने वाला जब तक शिर हिलाकर स्वीकृति न दे दिलानी चाहिए । अथवा जब तक वादी सामने उपस्थित न हो तब तक नहीं दिलानी चाहिए, क्योंकि दिव्य शपथ में अभियोक्ता शिरःस्थानीय शिर इति । यदा अभियोक्ता शिरोवर्त्ती अग्रवर्त्ती सम्मुखस्थितः न दीयते अभियोक्ता दिव्येषु दीयमानेष्वित्यर्थः शिरः स्थाने परिकीर्त्यते कथ्यते ॥२५२ ॥

अभियुक्ताय दातव्यं दिव्यं श्रुतिनिदर्शनात् । तब तक शपथ नहीं प्रतिवादी को शपथ है ॥ २५२ ॥

स्यात् तदा दिव्यं न शिरोवर्त्ती भवेदिति न कश्चिदभियोक्तारं दिव्येषु विनियोजयेत् ॥ २५३ ॥

अन्वयः — अभियुक्ताय श्रुतिनिदर्शनात् दिव्यं दातव्यम् । कश्चित् अभियोक्तारं दिव्येषु न विनियोजयेत् ॥ २५३ ॥

व्याख्या- - अभियुक्ताय = प्रतिवादिने, श्रुतिनिदर्शनात् = वेदनिर्देशात्, दिव्यम् = दिव्यशपथम्, दातव्यम् = प्रदातव्यम् । कश्चित् = कोऽपि जनः अभियोक्तारम् = वादिनम्, दिव्येषु = दीयमानेषु शपथेषु, न = नहि, विनियोजयेत् = प्रेरयेत् ॥ २५३ ॥

हिन्दी — वेद - निर्देशित होने के कारण दिव्यशपथ प्रतिवादी को ही दिलवाना चाहिए । अतः कोई वादी को दिव्यशपथ न दिलवाये ॥ २५३ ॥

अभियुक्तायेति । श्रुतिनिदर्शनात् वेदनिधानात् अभियुक्ताय दिव्यं दातव्यम् । कश्चित् जनः अभियोक्तारं दिव्येषु न विनियोजयेत् ॥ २५३ ॥

इच्छया त्वितरः कुर्य्यादितरो वर्त्तयेच्छिरः ॥ २५४ ॥

अन्वयः — इच्छया तु इतरः कुर्यात् तदा इतरः शिरः वर्त्तयेत् ॥ २५४ ॥

व्याख्या — इच्छया = अभियुक्तस्येच्छया, तु, इतरः = अन्यः, अभियोक्ता, कुर्यात् = दिव्यं सम्पादयेत्, तदा इतरः = स एव, शिरः = अभियोक्तृमस्तके सम्मुखे वा तिष्ठेत् ॥ २५४ ॥

हिन्दी - प्रतिवादी की इच्छा से यदि वादी दिव्यशपथ ग्रहण करे तो प्रतिवादी की उपस्थिति आवश्यक है । क्योंकि ऐसी स्थिति में वही शिरःस्थानीय होता है । २५४ ॥ इच्छयेति । इच्छया तु अभियुक्तस्येति भावः, इतरः अभियोक्ता कुर्य्यात् दिव्यमिति शेषः । तदा इतरः स एव शिरः वर्त्तयेत् अभियोक्तृशिरसि तिष्ठेदित्यर्थः ॥२५४ ॥

पार्थिवैः शङ्कितानां च निर्दिष्टानां च दस्युभिः ।

आत्मशुद्धिपराणां च दिव्यं देयं शिरो विना ॥ २५५ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 303

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 303 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ७१५ अन्वयः — दस्युभिः निर्दिष्टानाम् अतः पार्थिवैः शङ्कितानाम् आत्मशुद्धिपराणां शिरः विना दिव्यं देयम् ॥ २५५ ॥

व्याख्या — दस्युभिः = लुण्ठकैः, निर्दिष्टानाम् = सङ्केतितानाम्, अत एव, पार्थिवैः = नृपैः, शङ्कितानाम् = सन्दिग्धानाम्, आत्मशुद्धिपराणाम् – आत्मनः = स्वस्य, शुद्धिः = पवित्रीकरणम्, तस्मिन् पराणाम् = तत्पराणाम्, शिरः = कस्यापि जनस्य मस्तके स्थितम्, विना = विहाय, दिव्यम् = भास्वरं शपथम्, देयम् = दातुं योग्यमस्ति ॥ २५५ ॥

हिन्दी – राजा का जिन पर अपराधी होने का संदेह किया गया हो, अथवा डाकू आदि ने अपराध करने में जिनका नाम निर्देशित किया हो या जो स्वयं अपनी निर्दोषिता सिद्ध करना चाहते हों, उन्हें विराधी पक्ष की उपस्थिति या सिर हिलाकर स्वीकृति की कोई आवश्यकता नहीं होती है ॥२५५ ॥

पार्थिवैरिति । दस्युभिः निर्दिष्टानां दूषितत्वेन प्रदर्शितानाम् अत एव पार्थिवैः राजभिः शङ्कितानाम् आत्मशुद्धिपराणां स्वदोषक्षालनार्थिनां मानवानां शिरः कस्यापि शिरसि अवस्थानं विना दिव्यं देयम् ॥ २५५ ॥

परदाराभिशापे च ह्यगम्यागमनेषु च ।

महापातकशस्ते च दिव्यमेव न चान्यथा ॥ २५६ ॥

अन्वयः - परदाराभिशापे अगम्यागमनेषु तथा महापातकशस्ते दिव्यमेव, अन्यथा च न ॥ २५६ ॥

व्याख्या - परदाराभिशापे = परनारीगमनाभियोगे, च = पुनः, अगम्यानाम् = = दुर्गमानां नारीणाम्, गमनेषु = मैथुनेषु, तथा = तेनैव प्रकारेण, महापातकशस्ते = ब्रह्महत्यादि-महापातकाभियोगे, दिव्यमेव = पूर्वोक्तदिव्यशपथमेव, देयम्, अन्यथा = अन्यप्रकारेण, न = नहि ॥ २५६ ॥

हिन्दी – परनारीगमन का अभियोग लगने पर, अगम्या नारी के साथ गमन का अभियोग लगने पर अथवा ब्रह्महत्या जैसे जघन्य अपराध के अभियोग में ही दिव्यशपथ का प्रयोग करना चाहिए, अन्यथा नहीं ॥ २५६ ॥

परदारेति । परदाराभिशापे परस्त्रीगमनाभियोगे, अगम्यानां विमातृप्रभृतीनां गमनेषु तथा महापातकशस्ते ब्रह्महत्यादिमहापापाभियोगे च दिव्यमेव शोधनमित्यर्थः, अन्यथा न शुद्धिरित्यर्थः ॥२५६ ॥

चौर्य्याभिशङ्कायुक्तानां तप्तमाषो विधीयते ॥ अन्वयः — चौर्याभिशङ्कायुक्तानां तप्तमाषः विधीयते ॥ २५७ ॥

व्याख्या — चौर्याभिशङ्कायुक्तानाम् = स्तेयापयशप्रस्तानाम्, माषपरिमितलोहपिण्डम्, विधीयते = विधानमस्ति ॥ २५७ ॥

हिन्दी — जिस पर चोरी जैसे अभियोग का संदेह किया गया खौलते तेल में हाथ डालकर तपे लोहे के उरदों को निकालने का चौर्य्येति । चौर्य्याभिशङ्कायुक्तानां चौर्य्यापवादग्रस्तानां मानवानां परिमितलोहपिण्डं विधीयते ॥ २५७ ॥

२५७ ॥ तप्तमाषः = तापिततैलगत-हो, ऐसे अपराधी के लिए विधान है ॥ २५७ ॥

तप्तमाषः तप्ततैलगतमाष-CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 304

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 304 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७१६ शुक्रनीतिः

प्राणान्तिकविवादे तु विद्यमानेऽपि साधने ।

दिव्यमालम्बते वादी न पृच्छेत् तत्र साधनम् ॥ २५८ ॥

अन्वयः — प्राणान्तिकविवादे साधने विद्यमानेऽपि वादी दिव्यम् आलम्बते । तत्र साधनं न पृच्छेत् ॥ २५८ ॥

व्याख्या – प्राणान्तिकविवादे = प्राणघातकव्यवहारे समुपस्थिते, साधने = अपरस्मिन् उपकरणे प्रमाणे वा, विद्यमानेऽपि = उपस्थितेऽपि वादी = अभियोगी, दिव्यम् = प्रमाणम्, आलम्बते = आलम्बनं कुरुते, तत्र = तस्मिन्स्थाने, साधनम् = उपकरणं प्रमाणं वा, न = नहि, पृच्छेत् = जिज्ञासां कुर्यात् ॥ २५८ ॥

हिन्दी — प्राणसंकट उपस्थित होने वाले मुकदमे में भले ही साधन उपस्थित हो, फिर भी अभियुक्त दिव्य साधन का सहारा ले सकता है । पर वहाँ साधन के सन्दर्भ में वादी को कोई प्रश्न नहीं पूछना चाहिए ॥ २५८ ॥

प्राणान्तिकेति । प्राणान्तिकविवादे उपस्थिते इत्यर्थः, साधने अन्यस्मिन् वादी दिव्यं प्रमाणम् आलम्बते आश्रयति, तत्र साधनम् अन्यदिति भावः न

सोपधं साधनं यत्र तद्राज्ञे श्रावितं यदि ।

शोधयेत्तत्तु दिव्येन राजा धर्मासनस्थितः ॥ २५ ९ ॥

अन्वयः - यत्र साधनं सोपधं तत् यदि राज्ञे श्रावितं धर्मासनगतः शोधयेत् ॥ २५ ९ ॥ प्रमाणे विद्यमानेऽपि पृच्छेत् ॥ २५८ ॥

राजा तत् दिव्येन व्याख्या — यत्र = यस्मिन् विवादे, साधनम् = प्रमाणम्, सोपधम् = छलयुक्तम्, तच्च यदि = चेत्, राज्ञे = भूभृति, श्रावितम् = सूचितं स्यात्, तदा धर्मासनगतः = न्यायासने स्थितः, राजा = नृपः, तत् = विवादम्, दिव्येन = प्रमाणेन, शोधयेत् = विचारयेत् ॥ २५ ९ ॥ हिन्दी– यदि किसी मुकदमे में प्रमाण जाली हो और इसकी सूचना राजा को मिल जाय, तो न्याय के आसन पर बैठा राजा दिव्यशपथ के द्वारा इसकी परीक्षा करे ॥ २५ ९ ॥ सोपधमिति । यत्र साधनं प्रमाणं सोपधं कापट्यपूर्णं, तच्च यदि राज्ञे श्रावितं स्यात् तदा धर्मासनगतः राजा दिव्येन तत् शोधयेत् ॥ २५ ९ ॥

यन्नामगोत्रैर्यल्लेख्यतुल्यं लेख्यं यदा भवेत् ।

अगृहीतधने तत्र कार्य्यो दिव्येन निर्णयः ॥ २६० ॥

अन्वयः — यदा यत् लेख्यं यन्नामगोत्रैः लेख्यस्य तुल्यं भवेत्, तदा तत्र अगृहीतधने दिव्येन निर्णयः कार्यः ॥२६० ॥

व्याख्या - यदा यल्लेख्यम् = व्यवहारपत्रम्, यन्नामगोत्रैः = यथाविधिनामगोत्रैः, लेख्यस्य = तात्त्विकविवादपत्रस्य, तुल्यम् = समम्, भवेत्, तदा तत्र = तस्मिन्विवादे अभियुक्ते, अगृहीतधने – न, गृहीतम् = नीतम्, धनम् = अर्थम्, येन तस्मिन् धनाग्राहिणि वादिसकाशात्, दिव्येन = प्रमाणेन, निर्णयः = दण्डाज्ञा, कार्यः = विधेयः ॥२६० ॥

हिन्दी — रुपया न लेने के बावजूद यदि कोई नामगोत्र के साथ जाली ऋणपत्र तैयार कर दावा ठोक दे तो राजा सत्यासत्य का निर्णय दिव्यशपथ द्वारा करे ॥ २६० ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 305

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 305 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ७१७ यदिति । यदा यत् लेख्यं यन्नामगोत्रैः यथायथनामगोत्रैः लेख्यस्य तात्त्विकस्य तुल्यं भवेत् तदा तत्र अभियुक्ते अगृहीतधने धनाग्राहिणि वादिसकाशात् आत्मानम् अगृहीतधनत्वेन मन्यमाने इत्यर्थः, दिव्येन निर्णयः कार्य्यः ॥ २६० ॥

मानुषं साधनं न स्यात्तत्र दिव्यं प्रदापयेत् ।

अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे ॥ २६१ ॥

स्त्रीणां शीलाभियोगेषु सर्वार्थापह्नवेषु च ।

प्रदुष्टेषु प्रमाणेषु दिव्यैः कार्य्यं विशोधनम् ॥ २६२ ॥

अन्वयः — यत्र मानुषं साधनं न स्यात् तत्र दिव्यं प्रदापयेत् । तथा च अरण्ये निर्जने रात्रौ अन्तर्वेश्मनि साहसे स्त्रीणां शीलाभियोगेषु सर्वेषाम् अर्थानाम् अपह्नवेषु तथा प्रमाणेषु प्रदुष्टेषु च दिव्यैः विशोधनं कार्यम् ॥ २६१-२६२ ॥ व्याख्या— यत्र = यस्मिन् विवादे, मानुषम् = लौकिकम्, साधनम् = उपकरणम्, न = नहि, स्यात् = भवेत्, तत्र = तस्मिन् विवादे, दिव्यम् = दिव्यप्रमाणम्, प्रदापयेत् = प्रयच्छेत्, तथा च_अरण्ये = वने, निर्जने = जनशून्यस्थाने, रात्रौ = निशायाम्, अन्तर्वेश्मनि = गृहाभ्यन्तरे, साहसे = दस्युतायाम्, स्त्रीणाम् = नारीणाम्, शीलाभियोगेषु = चरित्रहननेषु सर्वेषाम् = सकलानाम्, अर्थानाम् = धनानाम्, अपह्नवेषु = प्रच्छादनेषु, तथा प्रमाणेषु लौकिकेषु, प्रदुष्टेषु = प्रकर्षेण दूषितेषु, दिव्यैः = शपथैः, विशोधनम् = परिष्करणम्, कार्यम् = विधेयम् ॥ २६१-२६२ ॥ हिन्दी — जहाँ पर कोई लौकिक प्रमाण न मिले वहाँ दिव्यशपथ दिलाना चाहिए । जंगल, जनशून्य स्थान, रात, घर का भीतरी भाग, डकैती प्रभृति साहसिक कर्म और स्त्रियों के आचरण — इन सबों के विषय में सम्बद्ध अभियोग में और जहाँ सम्पूर्ण अर्थ का रहस्य स्पष्ट न हो, जो कुछ प्रमाण हो वह भी दूषित हो तो वहाँ दिव्यशपथ द्वारा अपराधी की परीक्षा करनी चाहिए || २६१-२६२ ॥ मानुषमिति । स्त्रीणामिति । यत्र मानुषं साधनं लौकिकं प्रमाणं न स्यात् न विद्यते, तत्र दिव्यं प्रदापयेत् । तथा च अरण्ये, निर्जने, रात्रौ, अन्तर्वेश्मनि गृहाभ्यन्तरे, साहसे दस्युतायां स्त्रीणां शीलाभियोगेषु चरित्रदूषणेषु सर्वेषाम् अर्थानाम् अपह्नवेषु तथा प्रमाणेषु लौकिकेषु प्रदुष्टेषु प्रकर्षेण दूषितेषु च दिव्यैः विशोधनं कार्य्यम् ॥२६१-२६२ ॥

महापापाभिशापेषु निक्षेपहरणेषु च ।

दिव्यैः कार्य्यं परीक्षेत राजा सत्स्वपि साक्षिषु ॥ २६३ ॥

अन्वयः —– राजा महापापाभिशापेषु च निक्षेपहरणेषु च साक्षिषु सत्स्वपि दिव्यैः कार्यं परीक्षेत ॥ २६३ ॥

व्याख्या- राजा = नृपः, महापापाभिशापेषु = ब्रह्महत्यादिमहापातकाभियोगेषु, तथा निक्षेपाणाम् = न्यस्तधनानाम्, हरणेषु = बलान्नीतेषु च, साक्षिषु = प्रेक्षकेषु, सत्स्वपि = विद्यमानेष्वपि, दिव्यैः, कार्यम् = व्यवहारम्, परीक्षेत = परीक्षां कुर्यात् ॥ २६३ ॥

हिन्दी — राजा साक्षी के रहने के बावजूद बड़े अपराधों, धरोहर पचा जाने जैसे कुकृत्यों का निर्णय दिव्यशपथ द्वारा ही करे ॥ २६३ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 306

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 306 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७१८ शुक्रनीति: महेति । राजा महापापाभिशापेषु महापातकाभियोगेषु तथा निक्षेपाणां न्यस्तद्रव्याणां हरणेषु च साक्षिषु सत्स्वपि विद्यमानेषु अपि दिव्यैः कार्य्यं परीक्षेत ॥ २६३ ॥

प्रथमा यत्र भिद्यन्ते साक्षिणश्च तथा परे ।

परेभ्यश्च तथा चान्ये तं वादं शपथैर्नयेत् ॥ २६४ ॥

अन्वयः — यत्र प्रथमाः तथा परे परेभ्यश्च अन्ये साक्षिण: भिद्यन्ते, तत्र शपथैः तं वादं नयेत् ॥ २६४ ॥

व्याख्या — यत्र = यस्मिन् विवादे, प्रथमाः = उत्तमाः, तथा परे = मध्यमाः, तथा परेभ्यश्च = अन्येभ्यश्च, अन्ये = इतरे, साक्षिण: = प्रेक्षकाः, भिद्यन्ते = भेदं गच्छन्ति, तत्र = = तस्मिन् विवादे, शपथैः = दिव्यैः, वादम् = व्यवहारम्, नयेत् = विचारयेत् ॥ २६४ ॥

हिन्दी —– जहाँ पर उत्तम, मध्यम और निकृष्ट कोटि के गवाह दूसरों के द्वारा फोड़ लिये गये हों, वहाँ दिव्यशपथ के द्वारा अभियोग का निर्णय करना चाहिए ॥ २६४ ॥

प्रथमा इति । यत्र प्रथमाः श्रेष्ठाः तथा परे मध्यमा इत्यर्थः, तथा परेभ्यश्च अन्ये साक्षिणः भिद्यन्ते भेदं गच्छन्ति तत्र शपथैः वादं नयेत् निष्पादयेदित्यर्थः ॥ २६४ ॥

स्थावरेषु विवादेषु पूगश्रेणिगणेषु च ।

दत्तादत्तेषु भृत्यानां स्वामिनां निर्णये सत्ति ॥ २६५ ॥

विक्रयादानसम्बन्धे क्रीत्वा धनमनिच्छति ।

साक्षिभिर्लिखितेनाथ भुक्त्या चैतान् प्रसाधयेत् ॥ २६६ ॥

अन्वयः — स्थावरेषु पूगश्रेणिगणेषु भृत्यानां दत्तादत्तेषु विवादेषु स्वामिनां निर्णये विक्रयादानसम्बन्धे धनं क्रीत्वा अनिच्छति । साक्षिभिः लिखितेन तथा भुक्त्या एतान् प्रसाधयेत् ॥ २६५-२६६ ॥ व्याख्या — स्थावरेषु = अचलासु सम्पत्सु भूम्यादिषु च पूगश्रेणिगणेषु — पूगाः = जाति-विशेषस्य समुच्चयाः, श्रेणयः = समव्यवसायिसङ्घाः, गणाः = अनुचरवर्गाः, तेषु, भृत्यानाम् = सेवकानाम्, दत्तादत्तेषु = अर्पितानर्पितेषु, वेतनस्य, विवादेषु = व्यवहारेषु, स्वामिनाम् = प्रभूणाम्, निर्णये = निश्चये, केऽस्य स्वामिनः इत्येवं निश्चये, विक्रयादानसम्बन्धे — विक्रयः = कृतविक्रयः, अदाने = अनुत्सर्जने, तथा धनम् = द्रव्यम्, क्रीत्वा = मूल्येनाधिगम्य, अनिच्छति = अगृह्णाति सति, साक्षिभिः = प्रेक्षकैः, लिखितेन = लिपिबद्धकृतेन, तथा भुक्त्या = भोगेन, एतान् =: | विवादान्, प्रसाधयेत् = सम्पादयेत् ॥ २६५-२६६ ॥ हिन्दी - अचल सम्पत्ति - विषयक विवाद, पूग अर्थात् एक प्रकार की जाति का समुच्चय, श्रेणी, व्यवसायिकों के संघ, गण अर्थात् अनुचरों का समूह - विषयक विवाद एवं सेवकों के वेतन - भुगतान विषयक, किसी धन के स्वामित्व विषयक निर्णय के सम्बन्ध में, बेची गयी वस्तु को न देने सम्बन्ध में तथा वस्तु खरीद कर उसे न लेने की इच्छा के सम्बन्ध में विवाद उपस्थित होने पर गवाह, दस्तावेज एवं कब्जा के आधार पर इनका निर्णय करे ॥२६५-२६६ ॥ स्थावरेष्विति । विक्रयेति । स्थावरेषु भूम्यादिषु विषयेषु पूगश्रेणिगणेषु पूगाः जातिविशेषसङ्घाः CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 307

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 307 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ७१ ९ श्रेणयः विभिन्नजातिसङ्घाः गणाः एकविधजातिसङ्घाः तेषु, भृत्यानां दत्तादत्तेषु वेतनस्येति भावः, विवादे तथा स्वामिनां निर्णये के अस्य स्वामिनः इत्येवं निश्चये सति, विक्रयादानसम्बन्धे विक्रीय अदाने इत्यर्थः, तथा धनं द्रव्यं क्रीत्वा अनिच्छति अगृह्णति सति साक्षिभिः लिखितेन तथा भुक्त्या एतान् विवादान् प्रसाधयेत निष्पादयेत् ॥ २६५-२६६ ॥

विवाहोत्सवद्यूतेषु विवादे समुपस्थिते ।

साक्षिणः साधनं तत्र न दिव्यं न च लेख्यकम् ॥ २६७ ॥

अन्वयः - विवाहोत्सवद्यूतेषु विवादे समुपस्थिते तत्र साक्षिणः साधनं दिव्यं न लेख्यकञ्च नेति ॥ २६७ ॥

व्याख्या — विवाहे = पाणिग्रहणसंस्कारे, उत्सवे = महे, तथा, द्यूतेषु = पणनेषु, विवादे = व्यवहारे, समुपस्थिते = समागते सति, तत्र = तस्मिन् विषये, साक्षिणः = प्रेक्षकाः, साधनम् = प्रमाणम्, दिव्यम् = दिव्यशपथम् न = नास्ति, प्रमाणं, लेख्यकञ्च = लिपिबद्धपत्रञ्च, साधनम् = प्रमाणम्, न भवेत् ॥ २६७ ॥

हिन्दी – विवाह, उत्सव, एवं जुए के सम्बन्ध में विवाद उपस्थित होने पर गवाह को ही मुख्य प्रमाण के रूप में स्वीकार किया जाता है । इसमें न तो दिव्यशपथ चलता है और न लिखित प्रमाण ही माँगा जाता है ॥ २६७ ॥

विवाहेति । विवाहे उत्सवे तथा द्यूतेषु विवादे समुपस्थिते सति तत्र साक्षिणः साधनं प्रमाणं, दिव्यं न, लेख्यकञ्च न साधनमित्यर्थः ॥ २६७ ॥

द्वारमार्गक्रियाभोग्यजलवाहादिषु तथा ।

भुक्तिरेव तु गुर्वी स्यान्न दिव्यं न च साक्षिणः ॥ २६८ ॥

अन्वयः — द्वारमार्गक्रियाभोग्यजलवाहादिषु भुक्तिः एव गुर्वी स्यात्, न दिव्यं न च साक्षिणः ॥ २६८ ॥

व्याख्या — द्वारे = द्वारानुष्ठाने, मार्गे = मार्गकरणे, भोग्यानाम् = उपभोग्यानाम्, क्रमागतम्, जलवाहादिषु = जलनिः सारणादिषु, भुक्तिः = भोगः एव, गुर्वी = गम्भीरप्रमाणम्, स्यात्, दिव्यम् = शपथम्, साक्षिणश्च = प्रेक्षकादीनाञ्च प्रमाणं न भवति ॥ २६८ ॥

हिन्दी – घर का दरवाजा, निकलने की राह, पानी का निकास, अधिकृत वस्तु के सम्बन्ध में उपस्थित मुकदमे में किसका अधिकार है? यह कब्जा ही महत्त्वपूर्ण प्रमाण माना जाता है; न तो दिव्य शपथ या गवाह ही ॥ २६८ ॥

द्वारेति । द्वारमार्गक्रियाभोग्यजलवाहादिषु द्वारानुष्ठाने मार्गकरणे भोग्यानां क्रमागतं जलनि: सारणादिषु भुक्तिः भोगः एव गुर्वी प्रमाणं स्यात्, दिव्यं न साक्षिणश्च न प्रमाणमित्यर्थः ॥ २६८ ॥

यद्येको मानुषीं ब्रूयादन्यो ब्रूयात्तु दैविकीम् ।

मानुषीं तत्र गृहणीयान्न तु दैवीं क्रियां नृपः ॥ २६ ९ ॥

अन्वयः – यदि एकः मानुषीं ब्रूयात् अन्यः दैविकीं, नृपः तत्र मानुषीं क्रियां गृह्णीयात्; न तु दैवीम् ॥ २६ ९ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 308

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 308 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७२० शुक्रनीतिः व्याख्या – यदि = चेत्, एकः = वादी वा प्रतिवादी, मानुषीम् = मानवीम्, क्रियाम् = प्रमाणम्, ब्रूयात् = वदेत्, अन्यः = अपरः, दैवीं क्रियाम् = दिव्यशपथम्, ब्रूयात् = वदेत्, तदा, नृपः = राजा, तत्र = विवादे, मानुषीम् = मानवीम्, क्रियाम् = प्रमाणम्, गृह्णीयात् = स्वीकुर्यात्, न तु दैवीम् इति ॥ २६ ९ ॥ हिन्दी — वादी - प्रतिवादी में से कोई एक यदि मानवीय प्रमाण तथा दूसरा दैवी प्रमाण के बारे में कहे तो राजा को चाहिए कि वह मानवीय प्रमाण ही माने, न कि दैवी प्रमाण ॥ २६ ९ ॥ यदीति । यदि एकः जनः मानुषीं क्रियां ब्रूयात्, अन्यस्तु प्रतिवादी तु दैविकीं ब्रूयात् तत्र नृपः मानुषीं क्रियां गृह्णीयात् न तु दैवीम् ॥ २६ ९ ॥

यद्येकदेशप्राप्तापि क्रिया विद्येत मानुषी ।

सा ग्राह्या न तु पूर्णापि दैविकी वदतां नृणाम् ॥ २७० ॥

अन्वयः– यदि मानुषी क्रिया एकदेशप्राप्ताऽपि विद्येत सा ग्राह्या, न तु पूर्णापि दैविकीं वदतां नृणां न ग्राह्येति ॥२७० ॥

व्याख्या– यदि = चेत्, मानुषीम् = मानवीम्, क्रियाम् = प्रमाणम्, एकदेशप्राप्ताऽपि— एकदेशे = विवादस्यैकांशे, प्राप्ता = अधिगताऽपि विद्येत = भवेत् तदा सा = क्रिया, ग्राह्या = स्वीकार्या, पूर्णापि = सम्पूर्णांशव्याप्ताऽपि दैविकीम्, वदताम् = = निर्दिष्टताम्, नृणाम् = नराणाम्, न तु ग्राह्या = स्वीकार्या ॥२७० ॥

हिन्दी - भले ही मानुषी क्रिया विवाद के एक पक्ष की ही सम्पुष्टि करती हो, फिर भी वह स्वीकार्य है । विवाद के पूरे अंशों की सम्पुष्टि करने वाली दैवी क्रिया किसी भी स्थिति में स्वीकार्य नहीं होनी चाहिए ॥२७० ॥

यदीति । यदि मानुषी क्रिया एकदेशप्राप्तापि अभियोगस्य कियत्यपि अंशे प्राप्तापि विद्येत, तदा सा ग्राह्या । पूर्णापि दैविकी वदतां नृणां न तु ग्राह्या इत्यर्थः ॥२७० ॥

प्रमाणैर्हेतुचरितैः शपथेन नृपाज्ञया ।

वादिसम्प्रतिपत्त्या वा निर्णय: षड्विधः स्मृतः ॥ २७१ ॥

अन्वयः —— प्रमाणैः हेतुचरितैः शपथेन नृपाज्ञया वादिना सम्प्रतिपत्त्या वा षड्विधः निर्णयः स्मृतः ॥ २७१ ॥

व्याख्या – प्रमाणैः = साक्ष्यादिसाधनैः, हेतुभिः = निमित्तैः, चरितैः = आचारैः, शपथेन = सङ्कल्पेन, नृपाज्ञया – नृपस्य = राज्ञः, आज्ञया = • आदेशेन, वादिना = अभ्यर्थिना, सम्प्रतिपत्त्या = विचारेण वा, एभिः = षड्भिः, निष्पाद्यत्वात्, निर्णयः = निष्पत्तिः, षड्विधः = षट्प्रकारकः, स्मृतः = कथितः ॥ २७१ ॥

हिन्दी — गवाह या लेख जैसे प्रमाण, प्रयोजन, आचारण, सौगन्ध, राजा का हुक्म तथा वादी की इच्छा — इन छः प्रकारों से निष्पन्न होने के कारण निर्णय छः तरह के होते हैं ॥ ७०२ ॥

प्रमाणैरिति । प्रमाणैः साक्षिलेख्यादिभिः हेतुभिः कारणैः, चरितैः, आचरणैः, शपथेन, नृपाज्ञया राजादेशेन, वादिनः सम्प्रतिपत्त्या सम्मत्या वा एभिः षड्भिः निष्पाद्यत्वात् निर्णयः निष्पत्तिः षड्विधः स्मृतः ॥ २७१ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 309

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 309 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ७२१

लेख्यं यत्र न विद्येत न भुक्तिर्न च साक्षिण: ।

न च दिव्यावतारोऽस्ति प्रमाणं तत्र पार्थिवः ॥ १७२ ॥

अन्वयः— यत्र लेख्यं न भुक्तिश्च न साक्षिणश्च न विद्येत, दिव्यावतारश्च न अस्ति, तत्र पार्थिवः प्रमाणं कुर्यात् ॥२७२ ॥

व्याख्या — यत्र = यस्मिन् विवादे, लेख्यम् = लिपिबद्धप्रमाणम्, न = नास्ति, भुक्तिश्च = = भोगश्च, न = = नैव, साक्षिणः = प्रेक्षकाश्च, न विद्यते = नास्ति, दिव्यावतारश्च = दिव्य-शपथस्यावसरोऽपि, न = नास्ति, तत्र = तस्मिन् विवादे, पार्थिवः = राजा, प्रमाणम् = निदर्शनम्, कुर्यात् = स्यात् ॥ २७२ ॥

हिन्दी – जहाँ लिखित प्रमाण, कब्जा, गवाह या दिव्यशपथ - इनमें किसी का प्रमाण न दिया गया हो, वहाँ राजा का निर्णय ही प्रमाण माना जाता है ॥२७२ ॥

लेख्यमिति । यत्र लेख्यं न भुक्तिश्च न विद्यते, साक्षिणश्च न सन्ति दिव्यावतारश्च न अस्ति, तंत्र पार्थिवः राजा प्रमाणं यथाभिमतं कुर्य्यादित्यर्थः ॥ २७२ ॥

निश्चेतुं ये न शक्याः स्युर्वादाः सन्दिग्धरूपिणः ।

सीमाद्यास्तत्र नृपतिः प्रमाणं स्यात् प्रभुर्यतः ॥ २७३ ॥

अन्वयः - ये सन्दिग्धरूपिणः सीमाद्याः वादाः निश्चेतुं न शक्याः स्युः, तत्र नृपतिः प्रमाणं स्यात्; यतः सः प्रभुः ॥ २७३ ॥

व्याख्या — ये = विवादाः, सन्दिग्धरूपिणः = शङ्काभिराक्रान्ताः, सीमाद्याः = प्रान्तादि-सङ्क्रमिताः, वादाः = विवादाः, निश्चेतुम् = निर्णेतुम्, न = = नहि, शक्याः = समर्थाः, स्युः = भवेयुः, तत्र = तस्मिन् विवादे, नृपतिः = राजा एव, प्रमाणम् = निदर्शनम्, स्यात्, यतः = यस्माद्धेतोः, सः = राजा, प्रभुः सर्वेषां जनानां स्वामी भवति ॥ २७३ ॥

हिन्दी — सीमा - विवाद जैसे सन्दिग्ध मुकदमे में जिनका निश्चयपूर्वक निर्णय नहीं किया जा सके, ऐसे मामलों में राजा का निर्णय ही निष्पत्ति है; क्योंकि वह सबका स्वामी होता है । निश्चेतुमिति । ये सन्दिग्धरूपिणः सन्देहसङ्कुलाः सीमाद्याः सीमादिसङ्क्रान्ताः वादा विवादाः निश्चेतुं न शक्याः स्युः, तत्र नृपतिः प्रमाणं स्यात्, यतः सः प्रभुः ॥ २७३ ॥

स्वतन्त्रः साधयन्नर्थान् राजापि स्याच्च किल्बिषी ।

धर्मशास्त्राविरोधेन ह्यर्थशास्त्रं विचारयेत् ॥ २७४ ॥

अन्वयः — राजाऽपि स्वतन्त्रः अर्थान् साधयन् किल्बिषी स्यात्, तस्मात् धर्मशास्त्राविरोधेन अर्थशास्त्रं विचारयेत् ॥ २७४ ॥

व्याख्या — राजापि = नृपोऽपि, स्वतन्त्रः = स्वेच्छाचारी भूत्वा अर्थान् = धनानि, साधयन् = निष्पादयन्, किल्बिषी = पापी, स्यात् = भवेत्, तस्मात् = कारणात्, धर्मशास्त्राविरोधेन = धर्मग्रन्थानुसारेण, अर्थशास्त्रम् = धनप्राप्तिरक्षावृद्ध्याद्युपायदर्शकं शास्त्रम्, विचारयेत् = चिन्तयेत् ॥२७४ ॥

हिन्दी – स्वेच्छाचारी राजा भी पापी होता है । अतः धर्मशास्त्र के अनुसार ही उसे अर्थशास्त्र का अनुचिन्तन करना चाहिए ॥ २७४ ॥

४६ शू C - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 310

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 310 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७२२ शुक्रनीतिः स्वतन्त्र इति । राजापि स्वतन्त्रः स्वेच्छाचारी अर्थात् कार्य्याणि साधयन् समादधानः किल्बिषी पापी स्यात् । तस्मात् धर्मशास्त्राविरोधेन अर्थशास्त्रं विचारयेत् तथात्वे पापस्पर्शो न भवेदिति भावः ॥ २७४ ॥

राजामात्यप्रलोभेन व्यवहारस्तु दुष्यति ।

लोकोऽपि च्यवते धर्मात् कूटार्थे सम्प्रवर्त्तते ॥ २७५ ॥

अन्वयः — राजामात्यप्रलोभेन व्यवहारः दुष्यति । लोकोऽपि धर्मात् च्यवते कूटार्थे च सम्प्रवर्त्तते ॥ २७५ ॥

व्याख्या: - राज्ञः = नृपस्य, अमात्यानाञ्च = मन्त्रिणाञ्च, प्रलोभेन = प्रकर्षेण लिप्सया, व्यवहारः = आचारविचारः, दुष्यति = दूषितो भवति, लोकोऽपि = प्रजाऽपि, धर्मात् = सुकर्मणः, च्यवते = भ्रश्यति, कामाचारी भवतीत्यर्थः, कूटार्थे = कपटकृत्ये, च = पुनः सम्प्रवर्त्तते = प्रवृत्तो भवति ॥ २७५ ॥

हिन्दी – राजा और मन्त्रियों की लिप्सा के कारण मुकदमे का निर्णय कलुषित हो जाता है । प्रजा भी भ्रष्ट हो जाती है, उनका व्यवहार भी कपटपूर्ण होने लगता है ॥ २७५ ॥

राजेति । राज्ञः अमात्यानाञ्च प्रलोभेन लोभातिशयेन व्यवहारः विचारः दुष्यति सदोषो भवति, लोकोऽपि धर्मात् च्यवते भ्रश्यति यथेच्छं व्यवहरतीत्यर्थः, कूटार्थे कपटकार्य्ये सम्प्रवर्त्तते च ॥ २७५ ॥

अतिकामक्रोधलोभैर्व्यवहारः प्रवर्त्तते ।

कर्तृनथो साक्षिणश्च सभ्यान् राजानमेव च ।

व्याप्नोत्यतस्तु तन्मूलं छित्वा तं विमृशं नयेत् ॥ २७६ ॥

अन्वयः — अतिकामक्रोधलोभैः व्यवहारः प्रवर्त्तते, कर्तृन् साक्षिणः सभ्यान् राजानञ्च व्याप्नोति । अतः तन्मूलं छित्वा तं विमृशं नयेत् ॥ २७६ ॥

व्याख्या— अतिकामक्रोधलोभै: -- - अतिशयकामेन = वासनया, क्रोधातिशयेन = अतिशय-कोपेन, लोभेन = लोभातिशयेन, यदि व्यवहारः = विवाद:, प्रवर्त्तते = आचरते, तदा एव तज्ज-नितम्, पापं कर्तृन् = अधर्मकारिणः, साक्षिण: = प्रेक्षकान्, सभ्यान् = पारिषदः, राजानञ्च = नृपञ्च, व्याप्नोति = अवलम्बते । अतः = अस्मात् कारणात्, तत् = तस्य पापस्य, मूलम् = कामादीनामा-तिशय्यम्, छित्वा = विहाय, तम् = विवादम्, विमृशम् = विशिष्टविवेकम्, नयेत् = प्रापयेत् ॥२७६ ॥

हिन्दी — जब काम, क्रोध और लोभ की अधिकता से मनुष्य का व्यवहार दूषित होने लगता है तब वह फैलकर कर्ता, गवाह, पारिषद और राजा में भी व्याप्त हो जाता है । अतः राजा उसके मूल कारण कामादि को हटाकर विवाद का विवेक से पूर्ण विचार कर निर्णय करे ॥ २७६ ॥

अतीति । अतिकामक्रोधलोभैः कामातिशयेन क्रोधातिशयेन लोभातिशयेन च यदि व्यवहारः प्रवर्त्तते चलति तदा एव तज्जनितं पापं कर्तृन् पापकारिणः साक्षिणः सभ्यान् राजानञ्च व्याप्नोति आश्रयति, अतः तस्य पापस्य मूलं कामादीनाम् आतिशय्यं छित्वा निरस्य तं व्यवहारं विमृशं विशिष्टविवेकं नयेत् प्रापयेत् विचिच्य विचारयेदित्यर्थः ॥ २७६ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA