शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 311–320
शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 311–320
पृष्ठ 311
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ७२३ अनर्थं चार्थवत् कृत्वा दर्शयन्ति नृपाय ये ।
अविचिन्त्य नृपस्तथ्यं मन्यते तैर्निदर्शितम् ।
स्वयं करोति तद्वृत्तौ भुज्यतेऽष्टगुणं त्वघम् ॥ २७७ ॥
अन्वयः– ये अनर्थम् अर्थवत् कृत्वा नृपाय दर्शयन्ति, यश्च नृपः अविचिन्त्य तैः निदर्शितं तथ्यं मन्यते तथा स्वयं करोति; तैः तद्वृत्तौ अष्टगुणम् अघं भुज्यते ॥ २७७ ॥
व्याख्या - ये = सचिवाः, अनर्थम् = अयुक्तम्, अर्थवत् = अभीष्टमिव, कृत्वा = = 1 विचार्य, नृपाय = राज्ञे, दर्शयन्ति = प्रदर्शयन्ति, यश्च राजा अविचिन्त्य = विचारं विहाय, तैः = सचिवैः, निदर्शितम् = निर्देशितम्, तथ्यम् = यथार्थम्, मन्यते = अवगम्यते, तथा स्वयम् = आत्मनः, करोति = निष्पादयति, तेषां, कथनानुसारेण निष्पत्तिं ददाति, तैः = राज्ञा अमात्यैश्च, तत् = तथा, वृत्तौ = व्यवहारे च, अष्टगुणम् अधिकम्, अघम् = पापञ्च, भुज्यते = प्राप्नुते ॥ २७७ ॥
हिन्दी – जो विचारपति अनिष्ट को इष्ट की तरह मानकर राजा को दिखलाता है और उस पर बिना विचार किये राजा उसे सच मानकर उसी के अनुसार स्वयं भी व्यवहार करता है; तो वैसा करने पर उनसे आठ गुना अधिक पाप निर्णायक को लगता है ॥ २७७ ॥
अनर्थमिति । ये अमात्याः अनर्थम् अनिष्टम् अर्थवत् इष्टवत् कृत्वा नृपाय दर्शयन्ति, यश्च नृपः अविचिन्त्य अविविच्य तै: अमात्यैः निदर्शितं प्रदर्शितं तथ्यं सत्यं मन्यते तथा स्वयं करोति तेषां मतानुसारेण वादं निष्पादयति, तैः राज्ञा अमात्यैश्च तद्वृत्तौ तथा व्यवहारे सति अष्टगुणम् अघं पापं भुज्यते ॥ २७७ ॥
अधर्मतः प्रवृत्तं तं नोपेक्षेरेन् सभासदः ।
उपेक्ष्यमाणाः सनृपा नरकं यान्त्यधोमुखाः ॥ २७८ ॥
अन्वयः — सभासदः अधर्मतः प्रवृत्तं तं न उपेक्षेरन्, उपेक्ष्यमाणाः सनृपाः अधोमुखाः नरकं यान्ति व्याख्या ॥ २७८ — ॥ सभासदः– सभ्याः, अधर्मतः = अधर्मे निरतम् तम् = राजानम्, न = नहि, उपेक्षेरन् = वारयेयुः, उपेक्ष्यमाणाः = अवारयन्तः, सनृपाः = राजासहिताः, अधोमुखाः = नीचाननाः सन्, नरकम् = निरयम्, यान्ति = गच्छन्ति ॥ २७८ ॥
हिन्दी — जो विचारपति अधर्म में प्रवृत्त राजा को वैसा करने से नहीं रोकते, वे राजा के साथ ही अधोमुख होकर नरकगामी होते हैं ॥ २७८ ॥
अधर्मत इति । सभासदः अमात्यादयः अधर्मतः अधर्मे प्रवृत्तं तं नृपं न उपेक्षेरन् वारयेयुरित्यर्थः, उपेक्ष्यमाणाः अवारयन्तः सनृपाः नृपसहिताः अधोमुखाः नरकं यान्ति गच्छन्ति ॥ २७८ ॥
धिग्दण्डस्त्वथ वाग्दण्डः सभ्यायत्तौ तु तावुभौ ।
अर्थदण्डवधावुक्तौ राजायत्तावभावपि ॥ २७ ९ ॥
अन्वयः — धिग्दण्डः तथा वाग्दण्डः तौ उभौ सभ्यायत्तौ । अर्थदण्डः वधदण्डः उभावपि नृपाधीनौ उक्तौ ॥ २७ ९ ॥ दण्डः, तथा वाग्दण्ड – वाक्येन = वचसा, व्याख्या — धिग्दण्डः = त्वां धिक् इत्येवंरूपो = सांसदाम्, आयत्तौ = अधीनौ, सभ्याः अपमानस्वरूपः दण्डः, तौ उभौ = द्वावपि, सभ्यानाम् CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 312
पाठ पढ़ें पाठ छिपाएँ
७२४ शुक्रनीति: पूर्वोक्तौ दण्डौ कर्तुं शक्नुवन्ति । अर्थदण्डः = आर्थिकदण्डस्तथा वधदण्डः = मृत्युदण्डश्च, उभौ = द्वौ, अपि, नृपायत्तौ = राजाधीनौ, उक्तौ = कथितौ ॥२७ ९ ॥ हिन्दी — किसी को धिक्कार देने या डाँट - फटकार देने का अधिकार सभासदों को हैं तथा अर्थदण्ड एवं प्राणदण्ड देने का अधिकार राजा को है ॥२७ ९ ॥ धिगिति । धिग्दण्डः त्वां धिक् इत्येवं निर्भर्त्सनरूपो दण्डः तथा वाग्दण्डः वाक्येन तिरस्करणरूपः दण्डः तौ उभौ अपि सभ्यानाम् आयत्तौ अधीनौ, सभ्याः एतौ एव दण्डौ कर्तुं शक्नुवन्तीत्यर्थः । अर्थदण्डः वधदण्डश्च उभौ अपि राजायत्तौ नृपाधीनौ उक्तौ नृपः अर्थदण्डं वधदण्डं कर्त्तुं शक्नोतीत्यर्थः ॥ २७ ९ ॥
तीरितं चानुशिष्टञ्च यो मन्येत विधर्मतः ।
द्विगुणं दण्डमाधाय पुनस्तत् कार्य्यमुद्धरेत् ॥ २८० ॥
अन्वयः — यः तीरितम् अनुशिष्टं विधर्मतः मन्येत सः द्विगुणं दण्डम् आधाय पुनः तत् कार्यम् उद्धरेत् ॥ २८० ॥
व्याख्याः — यः = अभ्यर्थी, तीरितम् = निर्णीतम्, अनुशिष्टम् = आदिष्टञ्च पराजयलक्षणम्, विधर्मतः = अधर्मेण युक्तम्, मन्येत = अवगम्येत, सः = अर्थी, द्विगुणम्, दण्डम्, आधाय = दत्त्वा, पुनः = भूयः, तत् = कार्यम्, उद्धरेत् = चालयेत् ॥ २८० ॥
हिन्दी – यदि कोई विवादी यह समझे कि मुकदमे का फैसला जो हुआ है वह न्यायसंगत नहीं है, तो दूना दण्ड देकर उस मुकदमे की अपील कर सकता है ॥ २८० ॥
तीरितमिति । यः विवादी तीरितं निष्पादितम् अनुशिष्टम् आज्ञप्तञ्च पराजयलक्षणं विधर्मतः अधर्मेण युक्तमिति भावः, विशेषणे तृतीया । मन्येत, सः द्विगुणं दण्डम् आधाय दत्त्वा पुनस्तत् कार्यम् उद्धरेत् चालयेत् ॥ २८० ॥
साक्षिसभ्यावसन्नानां दूषणे दर्शनं पुनः ।
स्वचर्चावसितानां च प्रोक्तः पौनर्भवो विधिः ॥ २८१ ॥
अन्वयः — साक्षिसभ्यावसन्नानां दूषणे पुनः दर्शनं च स्वचर्चावसितानां पौनर्भवः विधिः प्रोक्तः ॥ २८१ ॥
व्याख्या – साक्षिभिः = प्रेक्षकैः, सभ्यैः = सांसद्भिः, अवसन्नानाम् = विषण्णानाम्, दूषणे = सदोषे, पुनर्दर्शनम् = पुनरावलोकनम् कर्त्तव्यः, च = पुनः स्वस्य = आत्मनः, नृपस्य, चर्चया = व्यवहारदर्शनेन, अवसितानाम् = समाप्तानाम्, पौनर्भवः विधिः = पुनरीक्षणं संशोधनञ्च, प्रोक्तः = कथितः ॥ २८१ ॥
हिन्दी — गवाह एवं विचारपतियों के द्वारा यदि किसी की हार हुई हो तो मुकदमे पर पुनः विचार किया जाता है या स्वयं विचार करने में राजा या सभासद आदि की त्रुटि हो गई हो तो भी फिर से विचार करना उचित होता है ॥ २८१ ॥
साक्षीति । साक्षिभिः सभ्यैरमात्यैश्च अवसन्नानां हारितानां दूषणे पराजयपत्रस्येति भावः, बहिष्कृते सतीत्यर्थः, पुनर्दर्शनं पुनर्विचारः कर्त्तव्य इति शेषः, किञ्चेति चार्थः, स्वस्य राज्ञश्च-र्चया ं व्यवहारदर्शनेन अवसितानां निष्पादितानाञ्च पौनर्भवः विधिः पुनर्विचार इत्यर्थः प्रोक्तः ॥२८१ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 313
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ७२५
अमात्यः प्राड्विवाको वा ये कुर्य्यः कार्य्यमन्यथा ।
तत्सर्वं नृपतिः कुर्य्यात्तान् सहस्रन्तु दण्डयेत् ॥ २८२ ॥
अन्वयः — अमात्यः प्राड्विवाकः वा ये च अन्यथा कार्यं कुर्युः, तत् सर्वं नृपतिः कार्यं कुर्यात्, तान् सहस्रं दण्डयेत् ॥२८२ ॥
व्याख्या – अमात्यः = सचिवः, प्राड्विवाकः = न्यायाधिपतिः, वा = अथवा, ये = सभ्याः, अन्यथा = इतरथा, कार्यम् = व्यवहारम् कुर्युः = विधेयुः, तत् = पूर्वोक्तम्, सर्वम् = सकलम्, नृपतिः = राजा, कार्यम् = व्यवहारम् कुर्यात् = निष्पादयेत्, तान् = सभ्यादीन्, सहस्रम् = दशशतम्, दण्डयेत् = दण्डं कुर्यात् ॥२८२ ॥
हिन्दी – यदि सभासद् या विचारपति कोई नियम विरुद्ध फैसला करे तो राजा स्वयं उस पर पुनर्विचार कर सही फैसला दे और दोषी पदाधिकारियों को हजार रुपये का जुर्माना करे ॥ २८२ ॥
अमात्य इति । अमात्यः प्राड्विवाको वा विचारपतिर्वा ये चान्ये सभ्याः कार्य्यम् अन्यथा कुर्य्यः, तत् सर्वं कार्यं नृपतिः कुर्यात् तत्त्वेन निष्पादयेत्, तांश्च अमात्यादीन् सहस्रं दण्डयेत् ॥२८२ ॥
न हि जातु विना दण्डं कश्चिन्मार्गेऽवतिष्ठते ।
सन्दर्शिते सभ्यदोषे तदुद्धृत्य नृपो नयेत् ॥ २८३ ॥
अन्वयः - दण्डं विना कश्चित् जातु मार्गे न हि अवतिष्ठते । सभ्यदोषे सन्दर्शिते नृपः तत् उद्धृत्य नयेत् ॥ २८३ ॥
व्याख्या — दण्डम् = दमनम्, विना = विहाय, कश्चित् = कोऽपि जनः जातु = कदाचित्, मार्गे: =: सत्पथि, न हि = नैव, अवतिष्ठते = स्थिरो भवति । सभ्यदोषे — सभ्यानाम् = सभासदाम्, दोषे = अवगुणे, सन्दर्शिते = सम्यग्रूपेण प्रदर्शिते, नृपः = राजा, उद्धृत्य = उपन्यस्तं कृत्वा, नयेत् = निष्पादयेत् ॥ २८३ ॥
हिन्दी — बिना दण्डभय से कोई कभी सही राह पर नहीं चलता । विवादियों द्वारा फैसले में सभासदों का दोष दिखलाये जाने पर उस दोष का निराकरण कर राजा स्वयं फैसला करे ॥२८३ ॥
नेति । दण्डं विना कश्चिदपि जनः जातु कदाचित् मार्गे सदाचाररूपे पथि न हि नैव अवतिष्ठते । सभ्यानां दोषे सन्दर्शिते सम्यक् प्रदर्शिते सति विवादिनेति शेषः, नृपः तत् दूषणम् उदधृत्य नयेत् विवादं निष्पादयेत् ॥ २८३ ॥
प्रतिज्ञाभावनाद्वादी प्राड्विवाकादिपूजनात् ।
जयपत्रस्य चादानाज्जयी लोके निगद्यते ॥ २८४ ॥
अन्वयः — वादी प्रतिज्ञाभावनात् प्राड्विवाकादिपूजनात् तथा जयपत्रस्य आदानात् लोके जयी निगद्यते ॥ २८४ ॥
व्याख्या - वादी = अभ्यर्थी, प्रतिज्ञायाः = प्रतिश्रवस्य, साध्यस्य, भावनात् = प्रमाणीकरणात्, प्राड्विवाकादीनाम् = न्यायाधीशादीनाम्, पूजनात् = प्रशंसनात्, तथा जयपत्रस्य = विजयलेख्यस्य, आदानात् = स्वीकरणात्, लोके = संसारे, जयीति, निगद्यते = निष्पाद्यते ॥ २८४ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 314
पाठ पढ़ें पाठ छिपाएँ
७२६ शुक्रनीतिः हिन्दी — वादी का दावा प्रमाणित हो जाने पर, विचारपतियों द्वारा मुकदमा प्रशंसित या अनुमोदित होने पर तथा डिग्री हासिल हो जाने पर संसार में वादी विजयी माना जाता है ॥ २८४ ॥
प्रतिज्ञेति । वादी प्रतिज्ञायाः साध्यस्य भावनात्, प्रमाणीकरणात्, प्राड्विवाकादीनां पूजनात् सत्याभियोक्तृत्वेन प्रशंसनात् तथा जयपत्रस्य आदानात् ग्रहणाच्च लोके जयीति निगद्यते कथ्यते ॥ २८४ ॥
सभ्यादिभिर्विनिर्णिक्तं विधृतं प्रतिवादिना ।
दृष्ट्वा राजा तु जयिने प्रदद्याज्जयपत्रकम् ॥ २८५ ॥
अन्वयः — राजा तु सभ्यादिभिः विनिर्णिक्तं प्रतिवादिना च विधृतं दृष्ट्वा जयिने जयपत्रकं दद्यात् ॥ २८५ ॥
व्याख्या — राजा = नृपस्तु, सभ्यादिभिः = सभासद्भिः, विनिर्णिक्तम् = विशेषेण निर्धारितम् = यथार्थरूपेणावधारितम्, प्रतिवादिना = प्रत्यर्थिना, च = पुनः, विधृतम् = विशिष्टरूपेण, धृतम् = अङ्गीकृतम्, साध्यमिति, दृष्ट्वा = अवलोक्य, जयिने = विजयिने, जयपत्रकम् = आधिकरणिकपत्रम्, प्रदद्यात् = समर्पयेत् ॥ २८५ ॥
हिन्दी — विचारपतियों ने मुकदमे की सत्यता प्रमाणित कर दी और प्रतिवादी ने उसे स्वीकार कर लिया, यह देखकर राजा मुकदमे में जिसकी जीत हुई उसे डिग्री दे दे ॥२८५ ॥
सभ्यादिभिरिति । राजा तु सभ्यादिभिः विचारनियुक्तैः विनिर्णिक्तं विशेषेण निर्द्धारितं तथ्यतया अवधारितं प्रतिवादिना च विधृतं स्वीकृतं साध्यमिति शेषः, दृष्ट्वा जयिने जयपत्रकं प्रदद्यात् ॥ २८५ ॥
अन्यथा ह्यभियोक्तारं निरुध्याद् बहुवत्सरम् ।
मिथ्याभियोगसदृशमर्हयेदभियोगिनम् ॥ २८६ ॥
अन्वयः — अन्यथा अभियोगस्य अभियोक्तारं मिथ्याभियोगसदृशं बहुवत्सरं निरुद्ध्यात् तथा अभियोगिनम् अभियुक्तम् अर्हयेत् ॥ २८६ ॥
व्याख्या — अन्यथा = असत्यपरके, अभियोगस्य = दोषारोपणस्य, अभियोक्तारम् = वादिनम्, मिथ्याभियोगसदृशम् = अतात्त्विकदोषारोपणयुक्तम्, यथा तथा, बहुवत्सरम् = अनेकवर्षपर्यन्तम्, निरुध्यात् = कारागारे निवासयेत्, अभियोगिनम्, अभियुक्तम् = प्रतिवादिनम्, अर्हयेत् = पूजयेत् ॥ २८६ ॥
हिन्दी — झूठा विवाद उपस्थित करने वाले वादी को अनेक सालों के लिए जेल के सिखचों में बन्द कर दे । जिस पर इल्जाम लगाया गया हो, उसे ससम्मान छोड़ दे ॥ २८६ ॥
अन्यथेति । अन्यथा अभियोगस्य अतात्त्विकत्वे इत्यर्थः, अभियोक्तारं मिथ्याभियोगसदृशम् अलीकाभियोगोपयुक्तं यथा तथा बहुवत्सरं निरुध्यात् कारायां वासयेत् । तथा अभियोगिनम् अभियुक्तं जनम् अर्हयेत् पूजयेत् ॥२८६ ॥
कामक्रोधौ तु संयम् ' योऽर्थान् धर्मेण पश्यति ।
प्रजास्तमनुवर्त्तन्ते समुद्रमिव सिन्धवः ॥ २८७ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 315
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ७२७ अन्वयः -- यः कामक्रोधौ संयम्य धर्मेण अर्थान् पश्यति प्रजाः सिन्धवः समुद्रमिव तम् अनुवर्त्तन्ते ॥ २८७ ॥
व्याख्या — यः = राजा, कामक्रोधौ – कामश्च = वासना च, क्रोधश्च = कोपश्च, तौ, संयम्य = आत्मनियन्त्रणं कृत्वा, धर्मेण = सुकृतिना, अर्थान् = व्यवहारान् पश्यति - = अवलोकयति, प्रजाः जनाः, सिन्धवः = नद्यः, समुद्रमिव = जलधिरिव, तम् = नृपम्, अनुवर्त्तन्ते = अनुसरन्ति ॥ २८७ ॥
हिन्दी — जो राजा काम - क्रोध को नियंत्रित कर व्यवहार का निर्णय करता है, प्रजा उसका उसी तरह अनुसरण करती है जैसे नदियाँ सागर का ॥ २८७ ॥
कामक्रोधाविति । यः कामक्रोधौ संयम्य धर्मेण अर्थान् कार्य्याणि पश्यति, प्रजाः सिन्धवः नद्यः समुद्रमिव तम् अनुवर्त्तन्ते ॥ २८७ ॥
जीवतोरस्वतन्त्रः स्याज्जरयापि समन्वितः ।
तयोरपि पिता श्रेयान् बीजप्राधान्यदर्शनात् ॥ २८८ ॥
अन्वयः — जरयाऽपि समन्वितः जीवितोः मातापित्रोः अस्वतन्त्रः भवेत् । तयोः बीजप्राधान्य-दर्शनात् पिता श्रेयान् ॥ २८८ ॥
व्याख्या — जरयाऽपि = वार्द्धक्येनापि, समन्वितः = संयुक्तः, जीवितोः = सजीवयोः, मातापित्रोः = जननीजनकयोः, अस्वतन्त्रः = अस्वच्छन्दः, पुत्रो भवेत् = स्यात् । तयोः = उभयोर्मध्ये, बीजप्राधान्यदर्शनात् — बीजस्य = वीर्यस्य, प्राधान्यदर्शनात् = उत्तमत्वावलोकनात्, पिता = जनकः, एव श्रेयान् = श्रेष्ठत्वमस्ति ॥ २८८ ॥
हिन्दी - माँ - बाप के जिन्दा रहते, बूढ़े हो जाने पर भी बेटा स्वच्छन्द होकर धन का स्वामी नहीं हो सकता है । उन दोनों में भी बीज की प्रधानता होने के कारण पिता की प्रधानता ही मान्य है ॥२८८ ॥
सम्प्रति दायप्रकरणमुद्दिशति - जीवतोरिति । जरया वार्द्धकेन समन्वितोऽपि पुत्र इति शेषः, जीवतोः मातापित्रोः अस्वतन्त्रः अस्वेच्छाचारी भवेदित्यर्थः, तयोः मातापित्रोः मध्येऽपि बीजस्य प्राधान्यदर्शनात् पिता श्रेयान् श्रेष्ठतरः ॥ २८८ ॥
अभावे बीजिनो माता तदभावे तु पूर्वजः ।
स्वातन्त्र्यं तु स्मृतं ज्येष्ठे ज्यैष्ठ्यं गुणवयः कृतम् ॥ २८ ९ ॥
अन्वयः — बीजिनः अभावे माता, तदभावे तु पूर्वजः । यतः ज्येष्ठे स्वातन्त्र्यं स्मृतम्, ज्यैष्ठ्यञ्च गुणवयः कृतम् ॥ २८ ९ ॥ व्याख्या — बीजिनः– जनकस्य, अभावे = अनस्तिवे, माता = जननी, श्रेयसी, तत् = तस्याः, अभावे = अविद्यमानत्वे, तु, पूर्वजः = अग्रजन्मा,, श्रेयः । यतः, ज्येष्ठे स्वातन्त्र्यम् =: स्वाधीनत्वम्, स्मृतम् = कथितम्, ज्यैष्ठ्यञ्च = ज्येष्ठत्वं च, गुणेन = धर्मेण, वयसा = जीवितकालेन च, उभाभ्यां श्रेष्ठत्वम् ॥ २८ ९ ॥ हिन्दी — पिता के अभाव में माता और माता के अभाव में बड़ा भाई ही श्रेष्ठ माना जाता है । श्रेष्ठता गुण और उम्र दोनों दृष्टि से मान्य है । ऐसा ही बड़ा भाई स्वतंत्र होकर धन - सम्पत्ति का स्वामी होगा, न कि केवल उम्र से बड़ा ॥ २८ ९ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 316
पाठ पढ़ें पाठ छिपाएँ
७२८ शुक्रनीतिः अभावे इति । बीजिनः पितुः अभावे माता श्रेयसी, तदभावे तस्या मातुरभावे पूर्वजः ज्येष्ठः श्रेयान्, यतः ज्येष्ठे स्वातन्त्र्यं स्वाधीनत्वं स्मृतं, ज्यैष्ठ्यञ्च ज्येष्ठत्वञ्च गुणेन वयसा च कृतं केवलं वयसा ज्यैष्ठ्यं न श्रेष्ठं गुणेन वयसा च उभाभ्यान्तु श्रेष्ठमित्यर्थः ॥२८ ९ ॥
याः सर्वाः पितृपत्न्यः स्युस्तासु वर्त्तेत मातृवत् ।
स्वसमैकेन भागेन सर्वास्ताः प्रतिपालयन् ॥ २ ९ ० ॥
अन्वयः — याः सर्वाः पितुः पल्यः स्युः, तासु मातृवत् वर्त्तेत तथा स्वसमैकेन भागेन ताः सर्वाः प्रतिपालयन् ॥२ ९ ० ॥ व्याख्या — याः: = = नार्यः, सर्वा: = सकलाः, पितुः = जनकस्य, पल्यः = विवाहिताः, स्यु = भवेयुः, तासु = स्त्रीषु, मातृवत् = स्वजननीव, वर्त्तेत = व्यवहरेत्, तथा स्वस्य = आत्मनः, समेन = तुल्येन, एकेन = एकमात्रेण, भागेन = अंशेन, ताः = सर्वाः मातरः प्रतिपालयेत् = पोषयेत् ॥ २ ९ ० ॥ हिन्दी — पिता की चाहे जितनी पत्नियाँ हो सबों को अपनी जननी की तरह ही सम्मानित करना चाहिए । अपनी तरह एक - एक हिस्से से उनका भरण - पोषण करना चाहिए ॥ २ ९ ० ॥ या इति । याः सर्वाः पितुः पन्याः स्युः, तासु मातृवत् वर्त्तेत व्यवहरेत् तथा स्वस्य आत्मनः समेन समानेन एकेन भागेन ताः सर्वाः मातृः प्रतिपालयेत् ॥२ ९ ० ॥
अस्वतन्त्राः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः ।
अस्वतन्त्रः स्मृतः शिष्य आचार्ये तु स्वतन्त्रता ॥। २ ९ १ ॥
अन्वयः — सर्वाः प्रजाः अस्वतन्त्राः, पृथिवीपतिस्तु स्वतन्त्रः । शिष्यः अस्वतन्त्रः स्मृतः, आचार्ये तु स्वतन्त्रता ॥ २ ९९ ॥ व्याख्या — सर्वाः = सकलाः प्रजाः = जनाः, अस्वतन्त्राः = पराधीनाः स्युः, तु = किन्तु, पृथिवीपतिः = नृपतिः, स्वतन्त्रः = आत्माधीनः स्यात्, शिष्यः = अन्तेवासी, अस्वतन्त्रः = पराधीनः, स्मृतः = कथितः, आचार्ये = उपाध्याये, स्वतन्त्रता = स्वाधीनता वर्त्तते ॥ २८ ९ ॥ हिन्दी — सभी पजा पराधीन हैं, केवल राजा ही स्वतंत्र होता है । शिष्य पराधीन होता है, किन्तु आचार्य में स्वतन्त्रता होती है ॥२ ९ १ ॥ अस्वतन्त्रा इति । सर्वाः प्रजाः अस्वतन्त्राः पराधीनाः, पृथिवीपतिस्तु स्वतन्त्रः स्वाधीनः । शिष्यः अस्वतन्त्रः स्मृतः, आचार्य्ये तु स्वतन्त्रता अस्तीति शेषः ॥ २ ९ १ ॥
सुतस्य सुतदाराणां वशित्वमनुशासने ।
विक्रये चैव दाने च वशित्वं न सुते पितुः ॥ २ ९ २ ॥
अन्वयः — सुतस्य सुतदाराणाम् अनुशासने वशित्वं किञ्च सुते विक्रये दाने च पितुः वशित्वं न ॥ २ ९ २ ॥ व्याख्या — सुतस्य = पुत्रस्य, सुतदाराणाम् = पुत्रवधूनाम्, अनुशासने = उपदेशे वा शासने, वशित्वम् = स्वातन्त्र्यमस्ति किञ्च सुते = पुत्रविषये, विक्रये = विपणने, दाने = समर्पणे, पितुः - जनकस्य, वशित्वम् = स्वातन्त्र्यम्, न = नास्ति ॥ २ ९ २ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 317
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ७२ ९ हिन्दी – पुत्र और पुत्रवधुओं को पिता या श्वसुर की आज्ञा मानने में पराधीनता मानी गई है | किन्तु समर्थ पुत्र के लिए वस्तु बेचने या दान देने में पिता की आज्ञा की प्रतीक्षा की आवश्यकता नहीं मानी गई है ॥ २ ९ २ ॥ सुतस्येति । सुतस्य पुत्रस्य सुतदाराणां स्नुषाणाञ्च अनुशासने उपदेशे दमने वा वशित्वं स्वातन्त्र्यम् अस्तीति शेषः, किन्तु सुते पुत्रे विषये विक्रये दाने च पितुः वशित्वं स्वातन्त्र्यं न अस्तीति शेषः ॥ २ ९ २ ॥
स्वतन्त्राः सर्व एवैते परतन्त्रेषु नित्यशः ।
अनुशिष्टौ विसर्गे वाऽविसर्गे चेश्वरा मताः ॥ २ ९ ३ ॥
अन्वयः - परतन्त्रेषु एते सर्वे एव नित्यशः स्वतन्त्राः, यतः अनु यतः अनुशिष्टौ विसर्गे वा अविसर्गे ईश्वराः मताः ॥ २ ९ ३ ॥ व्याख्या – परतन्त्रेषु = पराधीनेषु, एते सर्वे = सकलाः एव = प्रायः नित्यशः = सततम्, स्वतन्त्राः = स्वाधीनाः, यतः अनुशिष्टौ = अनुशासने जनकेन सह मन्त्रणे, विसर्गे = उत्सर्जने, अविसर्गे = अनुत्सर्जने च, ईश्वराः = स्वामिनः, मताः = प्रोक्ता ॥ २ ९ ३ ॥ हिन्दी – पराधीन होने के बावजूद ये सभी बेटे सदा स्वाधीन नहीं होते हैं, क्योंकि पिता के साथ मंत्रणा करने, देने या न देने में ये स्वाधीन माने गये हैं ॥ २ ९ ३ ॥ स्वतन्त्रा इति । परतन्त्रेषु पराधीनेषु मध्ये एते सर्वे पुत्रा एव नित्यशः सततं स्वतन्त्राः प्रायेण स्वाधीना इत्यर्थः, स्वाधीनवदाचरन्तीति भावः, यतः अनुशिष्टौ अनुशासने पित्रा सह मन्त्रणे विसर्गे दाने अविसर्गे च ईश्वराः स्वाधीनाः मताः कथिताः ॥ २ ९ ३ ॥
मणिमुक्ताप्रवालानां सर्वस्यैव पिता प्रभुः ।
स्थावरस्य तु सर्वस्य न पिता न पितामहः ॥ २ ९ ४ ॥
अन्वयः — पिता मणिमुक्तप्रवालानां प्रभुः, किन्तु सर्वस्य स्थावरस्य पिता न पितामहश्च न प्रभुः ॥ २ ९ ४ ॥ व्याख्या — पिता = जनकः, मणीनाम् = रत्नानाम्, मुक्तानाम् = प्रवालानाम्, अन्यस्य = सर्वस्यैव = चलसम्पदः, प्रभुः = स्वामी, पिता = जनकः एव, किन्तु, सर्वस्य = सकलस्य, स्थावरस्य = अचलस्य, पिता = जनकः, न = नहि, पितामहस्य च, न = = नहि, प्रभुः = स्वामित्वं वर्त्तते ॥ २ ९ ४ ॥ हिन्दी — मणि, मोती, मूंगा आदि सम्पूर्ण चल सम्पत्ति के ऊपर पिता का प्रभुत्व रहता है, किन्तु सभी अचल सम्पत्ति के ऊपर न तो पिता का और न तो पितामह का ही पूर्ण प्रभुत्व रहता है । इन पर इनका आंशिक ही प्रभुत्व रहता है ॥ २ ९ ४ ॥ मणीति । पिता मणीनां मुक्तानां प्रवालानाम् अन्यस्य सर्वस्य अस्थावरस्य इत्यर्थः, प्रभुः यथेच्छं व्यवहारक्षम इत्यर्थः किन्तु सर्वस्य स्थावरस्य पिता न पितामहश्च न प्रभुरित्यर्थः, स्थावरे पितुः स्वाधीनता नास्तीति भावः, सर्वस्येत्युपादानात् कियदंशस्थावरदानादिषु पितुः स्वाधीनतेति सूच्यते ॥ २ ९ ४ ॥
भार्या पुत्रश्च दासश्च त्रय एवाधना: स्मृता: ।
यत् ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ॥ २ ९ ५ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 318
पाठ पढ़ें पाठ छिपाएँ
७३० शुक्रनीति: अन्वयः — भार्या पुत्रः दासः एते त्रय एव अधनाः स्मृताः । ते यत् समधिगच्छन्ति तत् एते यस्य तस्य ॥ २ ९ ५ ॥ व्याख्या — भार्या = जाया, पुत्रः = सुतः, दासः = - सेवकः, एते = पूर्वपरिगणिताः, त्रयः = भार्यादयः, एव, अधनाः = प्रभुत्वहीनाः, परतन्त्राः स्मृताः = कथिताः । ते = भार्यादयः यत् = सम्पदम्, समधिगच्छन्ति = प्राप्नुवन्ति, तत् = धनम्, एते = पल्यादयः, यस्य तस्यैवास्तीति भावः ॥ २ ९ ५ ॥ ये तीनों ही क्रम से पति, पिता और मालिक के रहते द हिन्दी — पत्नी, पुत्र और नौकर से हीन होते हैं । जहाँ कहीं जो कुछ ये उपार्जित करते तक अधन अर्थात् धन अधीन के स्वामित्व हैं उन्हीं का हो जाता है । इसीलिए इन्हें अधन कहा गया है । हैं वे क्रमशः ये जिनके २ ९ ५ भार्य्या ॥ इति । भार्य्या पत्नी, पुत्रः दासः भृत्यश्च एते त्रय एव अधनाः अस्वामिनः अस्वतन्त्राः इत्यर्थः, स्मृताः उक्ताः, ते भार्य्यादयः यत् धनं समधिगच्छन्ति अर्जयन्ति, तत् धनम् एते भार्य्यादयः यस्य, तस्य भवतीति शेषः ॥ २ ९ ५ ॥
वर्त्तते यस्य यद्धस्ते तस्य स्वामी स एव न ।
अन्यस्वमन्यहस्तेषु चौर्य्याद्यैः किं न दृश्यते? ॥ २ ९ ६ ॥
अन्वयः — यत् यस्य हस्ते वर्त्तते स एव तस्य स्वामी न । चौर्याद्यैः अन्यस्वम् अन्यहस्तेषु किं न दृश्यते? ॥२ ९ ६ ॥ व्याख्या — यत् = धनम्, यस्य = जनस्य, हस्ते = करे, वर्त्तते = तिष्ठति, सः = = असौ, एवेति बलार्थकः, तस्य = धनस्य, स्वामी = प्रभुः, न = - नास्ति, तथाहि, चौर्याद्यैः = तस्करप्रभृतिभिः, अन्यस्वम् = अपरजनस्य धनम्, अन्यहस्तेषु = अपरजनानां करेषु, किमिति प्रश्ने, न = = नहि, दृश्यते = अवलोक्यते? ॥२ ९ ६ ॥
हिन्दी — जो धन जिसके हाथ में रहता है, उस धन का वही मालिक नहीं माना जाता है ।
चोरी के कारण क्या दूसरे का धन दूसरों के हाथ में नहीं देखा जाता? ॥ २ ९ ६ ॥
वर्त्तते इति । यत् धनं यस्य हस्ते वर्त्तते तिष्ठति, स एव तस्य धनस्य स्वामी न, तथाहि चौर्य्याद्यैः हेतुभिः अन्यस्वम् अपरधनम् अन्यहस्तेषु अपरजनानां तस्करादीनामित्यर्थः, हस्ते किं न दृश्यते? अपितु दृश्यत एव ॥२ ९ ६ ॥
तस्माच्छास्त्रत एव स्यात् स्वाम्यं नानुभवादपि ।
अस्यापहृतमेतेन न युक्तं वक्तुमन्यथा ॥ २ ९ ७ ॥
अन्वयः -- तस्मात् शास्त्रतः एव स्वाम्यं स्यात्, अनुभवात् अपि न । अन्यथा एतेन अस्य जनस्य अपहृतं वक्तुं न युक्तम् ॥२ ९ ७ ॥ व्याख्या — तस्मात् = - तेन हेतुना, शास्त्रत: - = धर्मग्रन्थनिर्देशानुसारेण, एव, स्वाम्यम् = प्रभुत्वम्, स्यात् = भवेत्, अनुभवात् = प्रत्यक्षदर्शनादिकारणात् अपि = चेत्, न = अस्ति । अन्यथा = इतरथा, एतेन = जनेन, अस्य = जनस्य, अपहृतम् = धनं बलादधिकृतम्, इत्थम्, वक्तुम् = वदितुम्, न = = नहि, युक्तम् = उचितं भवति ॥ २ ९ ७ ॥ हिन्दी – अतः शास्त्रानुसार ही किसी धन का कोई मालिक हो सकता है, केवल CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 319
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य पञ्चमं प्रकरणम् ७३१ अनुभव से नहीं । अन्यथा इसका धन इसने हड़प लिया, यह कहना भी उचित नहीं होता ॥ २ ९ ७ ॥ तस्मादिति । तस्मात् शास्त्रतः एव शास्त्रानुसारेणैव स्वाम्यं स्यात्, अनुभवात् प्रत्यक्ष-दर्शनादिकारणात् अपि न स्वाम्यमित्यर्थः । अन्यथा एतेन अस्य जनस्य अपहृतम् इति वक्तुं न युक्तम् अपहर्त्तुः तत्र स्वाम्यादिति भावः ॥२ ९ ७ ॥ विदितोऽर्थागमः शास्त्रे तथा वर्णः पृथक् पृथक् ।
शास्ति तच्छास्त्रधर्मं यत्म्लेच्छानामपि तत् सदा ।
पूर्वाचार्य्यैस्तु कथितं लोकानां स्थितिहेतवे ॥ २ ९ ८ ॥
अन्वयः — यथावर्णं पृथक् पृथक् अर्थागमः शास्त्रे विदितः । तस्य शास्त्रस्य यत् धर्मः तत् सदा म्लेच्छानामपि शास्ति । एतच्च लोकानामपि हेतवे पूर्वाचार्यैः तु कथितम् ॥ २ ९ ८ ॥ व्याख्या — यथावर्णम् = वर्णानुकूलेन, पृथक् पृथक् = भिन्नं भिन्नम्, अर्थागमः— अर्थस्य = धनस्य, आगमः = प्राप्तिः, शास्त्रे = धर्मग्रन्थे, विदितः = विख्यातः, तस्य = ' = पूर्वोक्तस्य, शास्त्रस्य = धर्मग्रन्थस्य, यत् = निर्धारितम्, धर्मः = कर्तव्यः, तत् = धर्मः सदा = = सर्वदा, म्लेच्छानाम् = वर्णाश्रमधर्मविहीनानामपि, शास्ति = उपदिशति, एतच्च_लोकानामपि = सर्वसाधारणजनानामपि, स्थितिहेतवे = सदाचाररक्षणाय, पूर्वाचार्यैः = पुरोवर्तिभिः विद्वद्भिः, कथितम् = निगदितम् ॥ २ ९ ८ ॥ हिन्दी — वर्णानुसार प्रत्येक जाति के लिए अलग - अलग धन कमाने का मार्ग शास्त्र में निर्दिष्ट हैं । धर्नाजन के लिए जो धर्मशास्त्र में निर्दिष्ट है वह म्लेच्छों के लिए भी मान्य है । पूर्वाचार्यों ने लोक के सदाचार की रक्षा के लिए दूसरी जगह भी ऐसा ही कहा है ॥ २ ९ ८ ॥ विदित इति । यथावर्णं वर्णानुसारेण पृथक् पृथक् अर्थागमः धनार्जनोपायः स्वामीरिक्थ क्रयेत्यादि शास्त्रे विदितः । तस्य शास्त्रस्य यत् धर्मं तत् सदा म्लेच्छानामपि शास्ति म्लेच्छानामिति कर्मणि षष्ठी । म्लेच्छा अपि तं शास्त्रमनुसृत्य अर्थागमेषु व्यवहरन्तीत्यर्थः । एतच्च लोकानां स्थितिहेतवे सदाचाररक्षणाय पूर्वाचार्यैः पूर्वपण्डितैः कथितम् ॥ २ ९ ८ ॥
समानभागिनः कार्य्याः पुत्राः स्वस्य च वै स्त्रिय: ।
स्वभागार्द्धहरा कन्या दौहित्रस्तु तदर्द्धभाक् ॥ २ ९९ ॥
अन्वयः —– स्वस्य च स्त्रियः वै पुत्राश्च समानभागिनः कार्याः । कन्या स्वभागार्द्धहरा, दौहित्रस्तु तदर्द्धभाक् ॥ २ ९९ ॥ च = आत्मनश्च, स्त्रियः = भार्याः, वै = तथा, पुत्राश्च = - सुताश्च, व्याख्या — = स्वस्य तुल्यांशिनः कार्याः । कन्या = अनूढा पुत्री, तद्भागार्द्धहरा - तत् = तस्य पुत्रस्य, समानभागिनः यः भागः = अंशः, तस्य = भागस्य, अर्द्धहराः = अर्द्धांशहरा भवति, दौहित्रस्तु = दुहितापुत्रस्तु, तदर्द्धभाक् — तस्य = कन्याप्राप्यांशस्य अर्द्धभाग्भागिनो भवति ॥ २ ९९ ॥ हिन्दी - पत्नी और पुत्र का हिस्सा सम्पत्ति में धनपति के हिस्से के बराबर होना चाहिए । अपने हिस्सा का आधा भाग अपनी अविवाहिता बेटी का होना चाहिए तथा उसके हिस्से का आधा भाग नाती का हिस्सा होना चाहिए ॥ २८ ९ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 320
पाठ पढ़ें पाठ छिपाएँ
७३२ शुक्रनीति: समानेति । स्वस्य आत्मनः पुत्राः स्त्रियश्च समानभागिनः कार्य्याः, कन्या अनूढा दुहिता तद्भागार्द्धहराः तस्य पुत्रस्य यो भागः तस्य अर्द्धहरा, दौहित्रस्तु तदर्द्धभाक् तस्य कन्याप्राप्यांशस्य अर्द्धभाक् भवेदित्यर्थः ॥ २ ९९ ॥ मृतेऽधिपेऽपि पुत्राद्या उक्तभागहराः स्मृताः ॥ ३०० अन्वयः - अधिपे मृतेऽपि पुत्राद्याः उक्तभागहराः भवन्ति ॥ ३०० ॥
व्याख्या — अधिपे = धनस्वामिनि, मृतेऽपि = उपरतेऽपि पुत्राद्याः = भागहराः = तुल्यांशिनः भवन्ति ॥३०० ॥
हिन्दी — धनपति के मर जाने पर पूर्वोक्त ढंग से धन का बटवारा करना चाहिए, ऐसा कहा गया है ॥३०० ॥
॥। सुतदारादयः, उक्त-पुत्र प्रभृति के बीच मृते इति । अधिपे स्वामिनि पितरि इत्यर्थः, मृतेऽपि पुत्राद्या पुत्रप्रभृतयः उक्तभागहराः समभागिन इत्यर्थः स्मृताः ॥३०० ॥
मात्रे दद्याच्चतुर्थांशं भगिन्यै मातुरर्द्धकम् ।
तदर्द्धं भागिनेयाय शेषं सर्वं हरेत् सुतः ॥ ३०१ ॥
अन्वयः– सुतः मात्रे चतुर्थांशं भगिन्यै मातुरर्द्धकं, तदर्द्ध भागिनेयाय, शेषं सर्वं स्वयं हरेत् ॥ ३०१ ॥, भगिन्यै =
व्याख्या — सुतः = पुत्रः, मात्रे = जनन्यै, चतुर्थांशम् = स्वचतुर्थभागस्यैकभागम् सोदरायै, मातुः = जनन्याः, अर्द्धकम् = अर्द्धांशम्, तत् = तस्याः, अर्द्धम = अर्द्धभागम्, दद्यात् = दातव्यम्, शेषम् = धनस्यावशिष्टाद्यंशम्, सर्वम् = सकलम्, स्वयम्, हरेत् = स्वीकुर्यात् ॥ ३०१ ॥
हिन्दी – बेटा माँ के लिए अपने हिस्से का चौथाई धन दे, माँ को जितना हिस्सा मिले उसका आधा हिस्सा बहिन को दे, बहिन के हिस्से का आधा भाग भागने को दे तथा शेष बचे सारे धन का अधिकारी पुत्र स्वयं हो ॥ ३०१ ॥
मात्रे इति । सुतः मात्रे चतुर्थांशं स्वचतुर्थभागैकभागं भगिन्यै मातुः अर्द्धकम् अष्टमभागैकभागमित्यर्थः, तथा भागिनेयाय तदर्द्धं षोडशभागैकभागमित्यर्थः दद्यात्, शेषम् अवशिष्टं सर्वं स्वयं हरेत् गृह्णीयात् ॥ ३०१ ॥
पुत्रो नप्ता धनं पत्नी हरेत् पुत्री च तत्सुतः ।
माता पिता च भ्राता च पूर्वालाभाच्च तत्सुतः ॥ ३०२ ॥
अन्वयः -- - पुत्रो नप्ता पत्नी पुत्री तत्सुतः माता पिता भ्राता च तथा पूर्वेषाम् अलाभात् तत् सुतः धनं हरेत् ॥ ३०२ ॥
व्याख्या — पुत्रः = आत्मजः, नप्ता = पौत्रः, पत्नी = भार्या, पुत्री = सुता, तत् = तस्याः, सुतः = पुत्रः, दौहित्रः, माता = जननी, पिता = जनकः, भ्राता = सोदरः, च = पुन:, तथा = = तेनैव प्रकारेण, पूर्वेषाम् = उक्तानाम्, अलाभात् = पुत्रादीनामभावात् तत् = तस्य, सुतः = पुत्रः, सोदरसुतः, धनम् = सम्पदम्, हरेत् = नयेत् ॥ ३०२ ॥
हिन्दी – बेटा, पोता, भार्या, बेटी, नाती, माँ, बाप और भाई क्रमशः एक के बाद दूसरा धन का अधिकारी होता है । इन सबों के अभाव में अन्त में भतीजा उत्तराधिकारी होता है ॥ ३०२ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA