शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 361–370
शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 361–370
पृष्ठ 361
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य सप्तमं प्रकरणम् ७७३ कीर्त्तितः । पृष्ठस्य पश्चिमस्य ऊरोः परिधिः मूले त्रिः अङ्गुलत्रयमितः, मुखेषु अप्रेषु च षष्ठांशः ॥ ५६ ॥
बहिरन्तर्धनुःखण्डसदृशाः सरभोग्रजाः ।
मणिबन्धमणेर्ज्ञेयः परिधिश्च नवाङ्गुलः ।
अन्त्यजङ्घादिपरिधिर्विज्ञेयः पूर्ववद् बुधैः ॥ ५७ ॥
अन्वयः — मणिबन्धस्य मणेः परिधिः नवाङ्गुलः च अन्त्यजङ्घादिपरिधिः पूर्ववत् बुधैः ज्ञेयः ॥५७ ॥
व्याख्या – मणिबन्धस्य = पादमूलस्य, मणिः = अश्वस्य चिह्नविशेषः, परिधिः = वेष्टनम्, नवाङ्गुलः = नवाङ्गुलिपरिमितः, तथा अन्त्यजङ्घादिपरिधिः = अन्तिमोरोर्वेष्टनम्, पूर्ववत्: -पूर्वोक्तमिव, बुधैः = विपश्चितैः, ज्ञेयः = बोध्यः ॥ ५७ ॥
हिन्दी — मणिबन्ध के मणि का घेरा नौ अंगुल का होता है तथा अन्तिम जंघा आदि का घेरा पण्डितों को पूर्व की तरह ही जानना चाहिए ॥ ५७ ॥
मणिबन्धेति । मणिबन्धस्य मणेः चिह्नविशेषस्य परिधिः नवाङ्गुलः तथा अन्त्यजङ्घादिपरिधिः पूर्ववत् प्रथमवत् बुधैः ज्ञेयः ॥५७ ॥
अथोर्वोरन्तरे चिह्नमङ्गुष्ठं पक्षमूलयोः ॥ ५८ ॥
अन्वयः – ऊर्वोः अन्तरे पक्षमूलयोः चिह्नम् अङ्गुलम् ॥५८ ॥
व्याख्या — ऊर्वोः = जङ्घयोः, अन्तरे = मध्ये, पक्षमूलयोः = पार्श्वमूलयोः, चिह्नम् = लक्ष्म, अङ्गुष्ठम् = एकाङ्गुलिप्रमाणमितमिति ॥ ५८ ॥
हिन्दी — और दोनों जङ्घाओं के बीच पार्श्वमूल का चिह्न एक अङ्गुल का होता है ॥ ५८ ॥
अथेति । ऊर्वोः अन्तरे मध्ये पार्श्वमूलयोः चिह्नम् अङ्गुलम् अङ्गुलपरिमितम् ॥५८ ॥
सार्द्धाङ्गुलं सटास्थानं ग्रीवोपरि सुविस्तृतम् ।
शिरोमॅणि समारभ्य दीर्घं स्कन्धान्तमुत्तमम् ॥ ५ ९ ॥
अन्वयः — प्रीवोपरि सुविस्तृतं शिरोमणिं समारभ्य स्कन्धान्तम् उत्तमं सटानां स्थानं सार्द्धाङ्गुलं ` दीर्घम् ॥५ ९ ॥ व्याख्या - प्रीवोपरि — ग्रीवायाः = कण्ठस्य, उपरि = उपरिष्टात्, सुविस्तृतम् = अतिप्रसृतम्, शिरोमणिम् = मस्तकस्य चिह्नविशेषं चूडामणिं वा, समारभ्य = प्रारभ्य, स्कन्धान्तम् = स्कन्धपर्यन्तम्, उत्तमम् = श्रेष्ठम्, सटानाम् = जटानाम्, स्थानम् = स्थलम्, सार्द्धाङ्गुलम् = अर्द्धेन सहितैकाङ्गुलमितम्, दीर्घः = लम्बः, बोध्यः ॥ ५ ९ ॥ हिन्दी — गर्दन के ऊपर काफी फैले हुए शिरामणि से लेकर कन्धे तक उत्तम आयाल का स्थान डेढ अंगुल लम्बा होता है ॥५ ९ ॥ सार्द्धाङ्गुलमिति । ग्रीवाया उपरि सुविस्तृतं शिरोमणि समारभ्य स्कन्धान्तं स्कन्धपर्य्यन्तम् उत्तमं सटानां जटानां स्थानं सार्द्धाङ्गुलं दीर्घः ॥५ ९ ॥
अधोगमा सटा कार्य्या हस्तमात्रायता शुभा ।
सार्द्धहस्ता द्विहस्ता वा पुच्छबालाः सुशोभनाः ॥ ६० ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 362
पाठ पढ़ें पाठ छिपाएँ
७७४ शुक्रनीतिः अन्वयः - अधोगमा हस्तमात्रायता शुभा जटा कार्या । पुच्छबालाः सार्द्धहस्ताः वा द्विहस्ताः सुशोभनाः ॥६० ॥
व्याख्या – अधोगमा = अधस्ताल्लम्बमाना, हस्तमात्रायता = हस्तैकपरिमिता दीर्घा, शुभा = मङ्गलप्रदा, जटा = सटा, कार्या = सम्पादिता । पुच्छस्य = लाङ्गुलस्य, बालाः = = केशाः, सार्द्धहस्ताः = अर्द्धेण सहितैकहस्ताः, वा = अथवा, द्विहस्ताः = करद्वयमिताः, सुशोभनाः = सुरम्या: कार्याः ॥६० ॥
हिन्दी — नीचे की ओर लटकती हुई हाथभर लम्बी सटा ( आयाल ) करनी चाहिए । साथ ही पूँछ के सुरम्य बाल डेढ़ या दो हाथ लम्बे होने चाहिए ॥६० ॥
अधोगति । अधोगमा अधोलम्बमाना हस्तमात्रायता हस्तमात्रदीर्घा शुभा जटा कार्या । पुच्छस्य बालाः केशाः सार्द्धहस्ताः वा द्विहस्ताः सुशोभनाः कार्य्या इति शेषः ॥ ६० ॥
सप्ताष्टनवदशभिरङ्गुलैः कर्णदीर्घता ।
तथा तद्विस्तृतिर्ज्ञेया त्र्यङ्गुला चतुरङ्गुला ॥ ६१ ॥
अन्वयः — कर्णस्य दीर्घता सप्ताष्टनवदशभिः अङ्गुलैः तथा तद्विस्तृतिः त्र्यङ्गुला चतुरङ्गुला वा ज्ञेया ॥६१ ॥
व्याख्या – कर्णस्य = श्रोत्रस्य, दीर्घता = आयता, सप्ताष्टनवदशभिः सप्तभिः अष्टभिः नवभिः वा दशभिः, अङ्गुलैः = अङ्गुलिमितैः भवति, तथा तत् = तस्य, कर्णस्य = श्रवणस्य, विस्तृतिः = विस्तारः, त्र्यङ्गुला = अङ्गुलित्रयमिता, वा चतुरङ्गुला भवति, ज्ञेया = बोध्या ॥६१ ॥
हिन्दी – कान की लम्बाई सात, आठ, नौ या दश अंगुल की होनी चाहिए तथा इसकी चौड़ाई तीन या चार अंगुल की होनी चाहिए ॥ ६१ ॥
सप्तेति । कर्णस्य दीर्घता सप्तभिः अष्टभिः नवभिः दशभिर्वा अङ्गुलैः भवति । तथा तस्य कर्णस्य विस्तृतिः त्र्यङ्गुला अङ्गुलत्रयमिता वा चतुरङ्गुला अङ्गुलचतुष्टयमिता ज्ञेया ॥६१ ॥
न स्थूला नापि चिपिटा ग्रीवा मयूरसन्निभा ।
ग्रीवाग्रपरिधिस्तुल्यो मुखेनाधिकमुष्टिकः ॥ ६२ ॥
अन्वयः — ग्रीवा मयूरसन्निभा न स्थूला नापि चिपिटा ग्रीवापरिधिः मुखेनाधिकमुष्टिकः तुल्यः ॥ ६२ ॥
व्याख्या – प्रीवा = अश्वस्य कण्ठः, मयूरसन्निभा = बर्हिणः सदृशी, न = नहि, स्थूला = पीना, नापि, चिपिटा = सपाटा, भवति । ग्रीवाग्रस्य = कण्ठपुरोभागस्य, परिधिः = आवेष्टनः, मुखेन = आननपरिमाणेन, तुल्यः = सदृशः, च = पुनः, अधिकमुष्टिकम् = मुष्ट्यैकातिरिक्तमिति ॥ ६२ ॥
हिन्दी — और गला न अधिक मोटा हो और न अधिक सपाट प्रत्युत मोरकण्ठ के समान होना चाहिए । इसके अगले भाग का घेरा मुख के घेरे से एक अंगुल ज्यादा होना चाहिए ॥ ६२ ॥
नेति । ग्रीवा अश्वस्येति शेषः, मयूरसन्निभा शिखिसदृशी, न स्थूला, नापि चिपिटा चिपिटाकृतिः भवतीति शेषः । ग्रीवाग्रस्य परिधिः मुखेन मुखपरिमाणेन तुल्यः अधिकमुष्टिकश्च एकमुष्ट्यधिकमुखपरिमाणतुल्य इत्यर्थः ॥६२ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 363
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य सप्तमं प्रकरणम् ७७५
ग्रीवामूलस्य परिधिर्द्विगुणो विदशाङ्गुलः ।
तृतीयांशविहीनं तु सत्क्रोडं वक्ष ईरितम् ॥ ६३ ॥
अन्वयः — प्रीवामूलस्य परिधिः विदशाङ्गुलः द्विगुणः सत्क्रोडं वक्षः तृतीयांशेन विहीनम् ईरितम् ॥ ६३ ॥
व्याख्या- — प्रीवामूलस्य = शिरोऽधोमूलस्य, परिधिः = वेष्टनम् विदशाङ्गुलः = दशाङ्गुलो हीनः, द्विगुणः = मुखस्य द्विगुणितः, तथा सत्क्रोडम् = उत्कृष्टोत्सङ्गम्, वक्षः = उरप्रदेशम्, तृतीयांशेन = तृतीयभागेन, मुखस्य विहीनम् = रहितम्, ईरितम् = कथितम् ॥ ६३ ॥
हिन्दी - गर्दन का घेरा मुँह के माप से दस अंगुल कम दूना होना चाहिए और उत्तम उत्संग वाली छाती का मान मुख - मान से तीन हिस्सा कम कहा गया है ॥ ६३ ॥
ग्रीवामूलस्येति । ग्रीवामूलस्य परिधिः विदशाङ्गुलः दशाङ्गुलः हीनः द्विगुणः मुखस्येति शेषः । तथा सत्क्रोडम् उकृष्टोत्सङ्गं वक्षः वक्षःस्थलं तृतीयांशेन विहीनं मुखस्येति शेषः, ईरितम् उक्तम् ॥ ६३ ॥
नेत्रोपरि परीणाहो मुखेनाष्टाङ्गुलाधिकः ।
नासिकोपरि नेत्राधो मुखस्य परिधिस्तु यः ।
तृतीयांशविहीनेन मुखेन सदृशो भवेत् ॥ ६४ ॥
अन्वयः - –नेत्रोपरि परीणाहः मुखेनाष्टाङ्गुलाधिकः, नासिकोपरि नेत्राधः मुखस्य यः परिधिः सः तृतीयांशविहीनेन मुखेन सदृशः भवेत् ॥ ६४ ॥
व्याख्या — नेत्रस्य = नयनस्य, उपरि = उपरिष्टात्, परीणाहः = विस्तारः, मुखेन = आननेन, सदृशः = तुल्यः, अष्टाङ्गुलः = अङ्गुल्यष्टमितः, अधिकः = अतिरिक्तः, नासिकायाः = घ्राणेन्द्रि-यस्य, उपरि, नेत्राधः = नयनस्याधोभागे, मुखस्य = आननस्य, यः परिधिः = परिवेष्टनम्, सः तृतीयां-शविहीनेन = भागत्रयरहितेन, मुखेन = आननमितेन, सदृशः = तुल्यः, भवेत् = स्यात् ॥६४ ॥
हिन्दी — आँखों के ऊपर का फैलाव मुँह के माप से आठ अंगुल अधिक होता है । नाक के ऊपर और आँखों के नीचे जो मुँह का घेरा है वह मुँह के माप के समान होता है, किन्तु तृतीयांश कम ही होता है ॥ ६४ ॥
नेत्रोपरीति । नेत्रस्य उपरि परिणाहः विस्तारः मुखेन सदृशः अष्टाङ्गुलाधिकश्च । नासिकोपरि नेत्राधः मुखस्य यः परिधिः, सः तृतीयांशविहीनेन मुखेन मुखपरिमाणेन सदृशः भवेत् ॥ ६४ ॥
द्व्यङ्गुलं नेत्रविस्तृतित्र्यङ्गला तस्य दीर्घता ।
अर्द्धाङ्गुलाधिका वापि विस्तृतिर्दीर्घताङ्गुला ॥ ६५ ॥
अन्वयः — नेत्रस्य विस्तृतिः द्व्यङ्गुलं तस्य दीर्घता त्र्यङ्गुला वापि विस्तृतिः अर्द्धाङ्गुलाधिका दीर्घता च अङ्गुला ॥ ६५ ॥
व्याख्या – नेत्रस्य = लोचनस्य, विस्तृतिः = विस्तारः, द्व्यङ्गुलम् = अङ्गुलिद्वयमितम्, तस्य = नेत्रस्य, दीर्घता = लम्बता, त्र्यङ्गुला = अङ्गुलित्रयमिता, वापि = अथवा, विस्तृतिः = विस्तारः, अर्द्धाङ्गुलाधिका = सार्द्धद्वयाङ्गुलाधिका, दीर्घता च = लम्बता च, अङ्गुला = अङ्गुल्यैकाधिकेति ज्ञेया ॥ ६५ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 364
पाठ पढ़ें पाठ छिपाएँ
७७६ शुक्रनीतिः हिन्दी — आँखों के विस्तार का मान दो अंगुल तथा उसकी लम्बाई का मान तीन अंगुल का होता है । अथवा इनका विस्तार कई अंगुल तथा लम्बाई तीन अंगुली की होनी चाहिए ॥ ६५ ॥
द्व्यङ्गुलमिति । नेत्रस्य विस्तृतिः द्व्यङ्गुलं तस्य नेत्रस्य दीर्घता त्र्यङ्गुला । वापि अथवा विस्तृतिः अर्द्धाङ्गुलाधिका, सार्द्धद्व्यङ्गुला इत्यर्थः, दौर्घता च अङ्गुला अङ्गुलाघिका त्र्यङ्गुला इत्यर्थः ॥ ६५ ॥
मुखतृतीयांशमेतदूर्वोर्मध्येऽन्तरं स्मृतम् ।
नेत्राग्रयोरन्तरं तु पञ्चमांशं मुखस्य हि ॥ ६६ ॥
अन्वयः — ऊर्वोः मध्ये एतत् अन्तरं मुखतृतीयांशं तथा नेत्राप्रयोः अन्तरं तु मुखस्य पञ्चमांशं स्मृतम् ॥ ६६ ॥
व्याख्या — ऊर्वोः = जङ्घयोः, मध्ये = अन्तराले, एतत्, अन्तरम् = भिन्नता, मुखस्य = = आननस्य, तृतीयांशं = तृतीयभागम्, तथा नेत्राप्रयोः = लोचनस्याग्रभागयोः, अन्तरम् = पार्थक्यम्, मुखस्य = आननस्य, पञ्चमांशम् = पञ्चमभागम्, स्मृतम् = कथितम् ॥ ६६ ॥
हिन्दी — जाँघों के बीच की यह भिन्नता मुँह के तृतीयांश के समान होती है तथा आँखों के दोनों अगले हिस्से का अन्तर मुँह के माप का पाँचवाँ भाग होना चाहिए । ६६ ॥ मुखेति । ऊर्वोः मध्ये एतत् अन्तरं मुखतृतीयाशं तथा नेत्रामयो: अन्तरन्तु मुखस्य पञ्चमांशं स्मृतम् ॥ ६६ ॥
कर्णयोरन्तरं तद्वत् कर्णनेत्रान्तरं तथा ।
भूस्थयोः शफयोः प्रोक्तं यदेतत् कर्णसम्मितम् ॥ ६७ ॥
अन्वयः — कर्णयोः अन्तरं तद्वत् तथा कर्णनेत्रान्तरं तथा भूस्थयोः शफयोः यत् एतत् तत् कर्णसम्मितं प्रोक्तम् ॥ ६७ ॥
व्याख्या – कर्णयोः = श्रवणयोः, अन्तरम् = दूरता, तद्वत् = तत्सदृशमेव, तथा = = तेनैव प्रकारेण, कर्णनेत्रान्तरम् = श्रवणनयनयोः पार्थक्यम्, तथा = तेनैव प्रकारेण, भूस्थयोः = भूमिस्थितयोरुभयोः, शफयोः = खुरयोः, यत् पार्थक्यम्, एतत् = अन्तरम्, तत् कर्णसम्मितम् = श्रवणपरिमाणसदृशम्, प्रोक्तम् ॥६७ ॥
हिन्दी— दोनों कानों की दूरी भी उसी तरह तथा कान और आँख की दूरी भी उसी तरह होती है । धरती पर मौजूद दोनों खुरों की जो दूरी है वह अन्तर कान के मान के समान है ॥६७ ॥
कर्णयोरिति । कर्णयोः अन्तरं तद्वत् तथा कर्णनेत्रान्तरं तथा भूस्थयोः शफयोः यत् एतत् अन्तरमित्यर्थः, तत् कर्णसम्मितं कर्णपरिमाणतुल्यं प्रोक्तम् ॥६७ ॥
मणिनेत्रप्रान्तरञ्च भ्रुवोरन्तरमेव हि ।
सक्थ्यङ्गुलं तृतीयांशं नासानेत्रान्तरं तथा ॥ ६८ ॥
अन्वयः – मणिनेत्रयोः प्रान्तरं भ्रुवोः अन्तरं तथा नासानेत्रयोः अन्तरं सक्थ्यङ्गुलं तृतीयांशम् ॥ ६८ ॥
व्याख्या — मणिनेत्रयोः = मणिलोचनयो:, प्रान्तरम् = पार्थक्यम्, भ्रुवोः = भ्रूलतयोः, अन्तरम् CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 365
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य सप्तमं प्रकरणम् ७७७ = - दूरता, तथा = तेनैव प्रकारेण, नासानेत्रयोः = नासिकाचक्षुषोः, अन्तरम् = दूरता, सक्थ्नः = ऊरोः, अङ्गुलानाम्, तृतीयांशम् = तृतीयभागम्, बोध्यम् ॥ ६ ९ ॥ हिन्दी – मणि और आँखों की दूरी, दोनों भौंहों की दूरी तथा नाक और आँख का अन्तर जाँघ के अंगुलों का तीसरा भाग मानना चाहिए ॥ ६८ ॥
मणीति । मणिनेत्रयोः प्रान्तरम् अन्तरमित्यर्थः, भुवोः अन्तरं तथा नासानेत्रयोरन्तरं सक्थ्नः ऊरोरङ्गुलानां तृतीयांशं ज्ञेयमिति शेषः ॥६८ ॥
त्रिभागपूरणं प्रोथ: सोष्ठश्च परिकीर्त्तितः ।
नासारन्ध्रान्तरं चैव तद्दैर्घ्यनवमांशकम् ॥ ६ ९ ॥
अन्वयः — सोष्ठः प्रोथः त्रिभागपूरणं परिकीर्त्तितः तथा नासारन्ध्रयोः अन्तरं तयोः दैर्घ्य-नवमांशकम् ॥ ६ ९ ॥ व्याख्या– सोष्ठः - ओष्ठेन = अधरेण, सहितः = युक्तः, सोष्ठः, प्रोक्थः = मुखस्याग्रभागः, त्रिभागपूरणम् = मुखमितस्य तृतीयांशम्, परिकीर्त्तितः = कथितः, तथा = तेनैव रूपेण, नासारन्ध्रयोः = नासिकाछिद्रयोः, अन्तरम् = अन्तरालम्, तयोः = उभयोः, दैर्घ्यस्य = दीर्घतायाः, नवमांशकम् [ = नवमभागमिति बोध्यः ॥६ ९ ॥ हिन्दी — और होठों सहित थूथन मुँह की माप के तीसरे भाग की तरह लम्बी कही गई हैं तथा दोनों नाकों के पोरों का अन्तर उन दोनों की लम्बाई की माप का नौवाँ हिस्सा होता है ॥ ६ ९ ॥ त्रिभागेति । सोष्ठः ओष्ठसहितः प्रोथः मुखाग्रभागः त्रिभागपूरणः मुखस्य तृतीयांश इत्यर्थः परिकीर्त्तितः । तथा नासारन्ध्रयोरन्तरं तयोः दैर्घ्यस्य नवमांशकं ज्ञेयमिति शेषः ॥ ६ ९ ॥
कायो नरार्द्धविस्तारस्त्रिके हृदयसम्मितः ।
चतुर्थांशं तु हृदयं बाहुमूलादधः स्मृतम् ॥ ७० ॥
अन्वयः — कायः नरार्द्धविस्तारः त्रिके हृदयसम्मितः, तु हृदयं बाहुमूलात् अधः चतुर्थांशं स्मृतम् ॥ ७० ॥
व्याख्या — कायः = देहम्, नरार्द्धविस्तारः – नरस्य = मानवस्य, अर्द्धविस्तारः = अर्द्धप्रसृतिः, त्रिके = पृष्ठवंशाधोभागे, हृदयसम्मितः = वक्षःस्थलतुल्यविस्तारः इति, तु = तथा, हृदयम् = वक्षःस्थलम्, बाहुमूलात् = भुजमूलात्, अधः = अधोभागे, चतुर्थांशम् = चतुर्थभागम्, स्मृतम् = कथितम् ॥७० ॥
हिन्दी – देह मनुष्य देह की लम्बाई का आधा और रीढ के नीचे का भाग छाती के फैलाव के समान होता है तथा हृदय बाहुमूल के नीचे एक चौथाई के बराबर होता है ॥ ७० ॥
काय इति । कायः शरीरं नरार्द्धविस्तारः मनुष्यार्द्धविस्तृतिः त्रिके पृष्ठवंशाधोभागे हृदयसम्मितः
वक्षःसदृशः विस्तार इत्यर्थः । तथा हृदयं बाहुमूलात् अधः चतुर्थांशं स्मृतम् ॥ ७० ॥
षष्ठांशमन्तरं बाह्वोर्हृत्समीपे प्रकीर्त्तितम् ।
अधरोष्ठोऽनुचिबुकं सार्द्धाङ्गुलमथोन्नतम् ॥ ७१ ॥
अन्वयः — हृत्समीपे बाह्वोः अन्तरम् षष्ठांशं प्रकीर्त्तितम् । अधरोष्ठात् अथ अनुचिबुकं सार्द्धाङ्गुलम् उन्नतम् ॥ ७१ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 366
पाठ पढ़ें पाठ छिपाएँ
७७८ शुक्रनीति: व्याख्या — हृत्समीपे = – उरः सन्निहिते, बाह्वोः = भुजयोः, अन्तरम् = दूरता, षष्ठांशम् = षष्ठभागम्, प्रकीर्त्तितम् = कथितम् । अधरोष्ठात् = रदनच्छदाधःस्तनोष्ठात्, अथ = आरभ्य, अनुचिबुकम् = हनुपर्यन्तम्, सार्द्धाङ्गुलम् = अर्द्धसहितैकाङ्गुलम्, उन्नतम् = उच्चम्, ज्ञेयमिति शेषः ॥ ७१ ॥
हिन्दी — होठ और होठ से लेकर ठुढी तक की ऊँचाई डेढ़ अंगुल होनी चाहिए तथा छाती के समीप दोनों बाहों की दूरी छठे भाग की तरह होनी चाहिए ॥ ७१ ॥
षष्ठांशमिति । हृत्समीपे वक्षःसन्निधौ बाह्वोः भुजयो: अन्तरं पष्ठांशं प्रकीर्त्तितम् । अधरोष्ठादथ अनुचिबुकं सार्द्धाङ्गुलम् उन्नतम् ॥ ७१ ॥
शोभते चोन्नतग्रीवो नतपृष्ठः सदा हयः ॥ ७२ ॥
अन्वयः — उन्नतग्रीवः नतपृष्ठः हयः सदा शोभते ॥ ७२ ॥
व्याख्या — उन्नतः– उद्गतः, ग्रीवा = कन्धरा, यस्यासौ, नतपृष्ठः = अवनतपश्चभागम्, हयः = अश्व:, सदा । = = सर्वदा, शोभते = शोभायमानो भवति ॥७२ ॥
हिन्दी — घोड़ा सदैव ऊँची गर्दन तथा नीची पीठ वाला शोभता है ॥७२ ॥
शोभते इति । उन्नतग्रीवः नतपृष्ठः हयः सदा शोभते ॥ ७२ ॥
यद्रूपं कर्त्तुमुद्युक्तस्तद् बिम्बं वीक्ष्य सर्वतः ।
अदृष्ट्वा कस्य यद्रूपं न कर्तुं क्षमते हि तत् ॥ ७३ ॥
अन्वयः — यत् रूपं कर्त्तुम् उद्युक्तः सर्वतः वीक्ष्य तबिम्बं कस्य यत् तत् अदृष्ट्वा तत् कर्त्तुं न क्षमते ॥ ७३ ॥
व्याख्या — यत् = यस्य, रूपम् = स्वरूपम्, कर्तुम् = रचयितुम्, उद्युक्तः = उद्यतः स्यात्, सर्वतः = सर्वतोभावेन, वीक्ष्य = अवलोक्य, तत् = तस्य, बिम्बम् = प्रतिकृतिम्, रचयेदिति भावः, कस्य = कस्यापि, यत् = रूपम्, तत् = आकृतिम्, अदृष्ट्वा = अनवलोक्य, तत् = तस्य, प्रतिबिम्बं कर्तुम् = विधातुम्, न = नहि, क्षमते = समर्थो भवति ॥ ७३ ॥
हिन्दी — जिसकी आकृति बनाने के लिए जो तैयार हो, वह उसे हर ओर से देखकर ही उसकी आकृति का निर्माण करे । जिसका जो रूप हो, उसे बिना देखे कोई उसकी मूर्ति बनाने में समर्थ नहीं हो सकता है ॥ ७३ ॥
यदिति । यस्य रूपम् आकृतिं कर्तुम् उद्युक्तः सर्वतः वीक्ष्य तस्य बिम्बं प्रतिकृतिं कुर्य्यादिति शेषः, कस्य कस्यापीत्यर्थः, यत् रूपं तत् अदृष्ट्वा तत् प्रतिबिम्बं कर्तुं न क्षमते कोऽपीत्यर्थः ॥ ७३ ॥
शिल्पाग्रे वाजिनं ध्यात्वा कुर्य्यादवयवानतः ।
दिशानया च विभूतेः सर्वमानानि वाजिनाम् ॥ ७४ ॥।
अन्वयः — अतः शिल्पी अग्रे वाजिनं ध्यात्वा अवयवान् कुर्यात् । अनया दिशा वाजिनां विभूतेः सर्वाणि मानानि ॥ ७४ ॥
व्याख्या — अतः = अस्मात् कारणात्, शिल्पी = चित्रकारः, अग्रे = सम्मुखे, वाजिनम् = अश्वम्,, ध्यात्वा = ध्यानं कृत्वा, अवयवान् = शरीराङ्गान् कुर्यात् । अनया दिशा = अनया रीत्या, CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 367
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य सप्तमं प्रकरणम् ७७ ९ वाजिनाम् = घोटकानाम्, विभूतेः = ऐश्वर्यस्य, सर्वाणि = सकलानि, मानानि = परिमाणानि, विधेयानि इति ॥ ७४ ॥
हिन्दी - अतः मूर्त्तिकार पहले घोड़े का ध्यान कर पीछे उसके अङ्गों का निमार्ण करे । इसी ढंग से घोड़े के सामस्त अवयवों के सभी मानों की कल्पना करे ॥ ७४ ॥
शिल्पीति । अतः अस्मात् कारणात् शिल्पी अग्रे वाजिनम् अश्वं ध्यात्वा चिन्तयित्वा अवयवान् कुर्य्यात् । अनया दिशा रीत्या वाजिनां विभूतेः विभवस्य सर्वाणि मानानि परिमाणानि कार्य्याणीति शेषः ॥ ७४ ॥
श्मश्रुहीनमुखः कान्तप्रगल्भोजुड़नासिकः ।
दीर्घोद्धतग्रीवमुखो ह्रस्वकुक्षिखुरश्रुतिः ॥ ७५ ॥
तुरप्रचण्डवेगश्च हंसमेघसमस्वनः ।
नातिक्रूरो नातिमृदुर्देवसत्त्वो मनोरमः ।
सुकान्तिगन्धवर्णश्च सद्गुणभ्रमरान्वितः ॥ ७६ ॥
अन्वयः - श्मश्रुहीनमुखः कान्तप्रगल्भोत्तुङ्गनासिकः दीर्घोद्धतग्रीवमुखः ह्रस्वकुक्षिखुरश्रुतिः तुरप्रचण्डवेगश्च हंसमेघसमस्वनः नातिक्रूरः नातिमृदुः देवसत्त्वः मनोरमः सुकान्तिगन्धवर्णश्च सद्गुणभ्रमरान्वितः ॥ ७५-७६ ॥ व्याख्या— श्मश्रुभिः = कूर्यैः, हीनम् = रहितम्, मुखम् = आननम्, यस्य तादृशः, कान्तः = मनोहरः, प्रगल्भः = चतुर:, तथा उत्तुङ्गा = उन्नता, नासिका = नासा, यस्य तथाभूतः, दीर्घा = लम्बा-यमाना, उद्धता = उग्रा विशिष्टा वा, ग्रीवा = कण्ठः यस्य तादृशम्, मुखम् = आननम्, यस्य तथोक्तः, ह्रस्वा = लघ्वी, कुक्षिः = उदरम्, खुराः = शफाः, श्रुतयः = श्रोत्राणि, यस्य सः, प्रचण्डवेगः = तीव्रगतिः, हंसस्य = मरालस्य, मेघस्य = जलदस्य, च, समस्वनः = सदृशध्वनिः, नातिक्रूरः = नातिनृशंसः, नातिमृदुः = नातिकोमलः, देवसत्त्वः = अलौकिकबलसम्पन्नः, मनोरमः = आकर्षकः, सुकान्तिगन्धवर्णः = अत्याकर्षकगन्धः, तथा वर्णः = स्वरूपः यस्य तादृशः, सद्गुणेन = = शुभगुणान्वितेन, भ्रमरस्य = आवर्त्तस्य, अन्वितः = मिलितः, तुरगः = अश्वः ॥७५-७६ ॥ हिन्दी — जिस घोड़े के मुँह पर दाढ़ी की तरह लट के बाल न हो, चेहरा आकर्षक हो, नाक सुन्दर और ऊँची हो, गर्दन और मुँह लम्बे हों, कुछ ऊपर की ओर उठे हों, पेट, खुर और कान छोटे हो, अति तीव्रगामी हो, हंस और मेघ की तरह आवाज हो, स्वभाव से न अत्यन्त क्रूर हो और न अधिक कोमल, देवताओं के घोड़ों की तरह प्रचण्ड वेगवान् एवं अतिपराक्रमी हो; ऐसा मनमोहक घोड़ा उत्तम होता है तथा इनकी कान्ति सुन्दर और अच्छे गुण एवं भौंरी भी होनी चाहिए ॥७५-७६ ॥ श्मश्रुहीनेति । तुरगेति । श्मश्रुभिः हीनं मुखं यस्य तादृशः, कान्तः सुन्दरः प्रगल्भः तथा उत्तुङ्गा उन्नता नासिका यस्य तथाभूतः दीर्घा उद्धता उत्कण्ठा ग्रीवा यस्य तादृशं मुखं यस्य तथोक्तः ह्रस्वाः कुक्षिः उदरं खुराः श्रुतयः कर्णा यस्य सः प्रचण्डवेगः, हंसस्य मेघस्य च समस्वनः तुल्यध्वनिः नातिक्रूरः, नातिमृदुः देवसत्त्वः अलौकिकबलसम्पन्नः, शोभनाः कान्ति-गन्धवर्णाः यस्य तादृशः सद्गुणेन भ्रमरेण आवर्त्तविशेषेण च अन्वितः तुरगः मनोरमः अतिहृद्यः ॥७५-७६ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 368
पाठ पढ़ें पाठ छिपाएँ
७८० शुक्रनीतिः
भ्रमरस्तु द्विधावर्त्ती वामदक्षिणभेदतः ।
पूर्णोऽपूर्णः पुनर्द्वधा दीर्घो ह्रस्वस्तथैव च ॥ ७७ ॥
अन्वयः – वामदक्षिणभेदतः द्विधावर्त्ती भ्रमरः । स तु पूर्णः अपूर्णः तथा दीर्घः ह्रस्वः चेति पुनः द्वेधा ॥ ७७ ॥
व्याख्या – वामदक्षिणभेदतः = वामवर्त्ती तथा दक्षिणवर्त्ती, भेदात् = प्रकारात्, द्विधा = द्विप्रकारः, आवर्त्तः = घोटकशरीरस्थरोमवर्तुलम्, भवति । पुनः = भूयः सः पूर्णः = पूरितः, अपूर्णः = असम्भृतः, तथा दीर्घः = विस्तृतः, ह्रस्वः = लघुश्च, द्विधा = द्विप्रकारका भवति ॥७७ ॥
हिन्दी — फिर घोड़े की देह वाली भौंरी बाँयी या दाँयी ओर घुमी होती है । यह पुनः पूर्ण या अपूर्ण तथा बड़ा या छोटा आकार के भेद से दो प्रकार का होता है ॥ ७७ ॥
भ्रमर इति । वामदक्षिणभेदतः वामांशदक्षिणांशभेदात् द्विधा द्विप्रकारः आवर्त्तः घूर्णरूपचिह्नविशेषः भ्रमरः । स तु पूर्णः अपूर्णः तथा दीर्घः ह्रस्वश्चेति पुनर्द्विधा द्विविधः ॥ ७७ ॥
स्त्रीपुंदेहे वामदक्षौ यथोक्तफलदौ क्रमात् ।
न तथा विपरीतौ तु शुभाशुभफलप्रदौ ॥ ७८ ॥
अन्वयः - वामदक्षौ स्त्रीपुंदेहे क्रमात् यथोक्तफलदौ विपरीतौ तु तथा शुभाशुभफलप्रदौ न ॥ ७८ ॥
व्याख्या – वामदक्षौ = सव्यासव्यौ, तौ = भ्रमरौ, स्त्रीपुंदेहे = अश्वायाः अश्वस्य च शरीरे, घोटिकायाः वामांशे तुरगस्य च दक्षिणांशे स्थितौ भ्रमरौ, यथोक्तौ = पूर्वकथितौ, फलदौ = परिणामप्रदौ, विपरीतौ = तद्विरुद्धौ, तथा = तेन रूपेण, शुभाशुभफलप्रदौ = कल्याणाकल्याणपरिणामप्रदौ, न भवतः, यतो हि - ' वामभागस्तु नारीणां पुंसां श्रेष्ठस्तु दक्षिणे ' इति प्रामाण्यात् ॥ ७८ ॥
हिन्दी — किन्तु ये भौंरियाँ तभी यथोक्त फल देने वाली होती हैं जब घोड़ी की बाँयी ओर तथा घोड़े की दाँई ओर घुमाव वाली हों । इसके विपरीत होने पर शुभ या अशुभ कोई फल नहीं मिलता ॥ ७८ ॥
स्त्रीति । वामदक्षौ वामांशदक्षिणांशस्थितौ तौ भ्रमरौ स्त्रीपुंदेहे क्रमात् यथोक्तफलदौ अश्वाया वामांशे अश्वस्य दक्षिणांशे स्थिताविति भावः, ' वामभागस्तु नारीणां पुंसां श्रेष्ठस्तु दक्षिण: ' इति वचनात् विपरीतौ तु तथा शुभाशुभफलप्रदौ न भवत इति शेषः ॥ ७८ ॥
नीचोर्ध्वतिर्य्यङ्मुखतः फलभेदो भवेत्तयोः ॥ ७ ९ ॥ अन्वयः — तयोः नीचोर्ध्वतिर्यङ्मुखतः फलभेदः भवेत् ॥ ७ ९ ॥ व्याख्या — तयोः = पूर्वोक्तयोः भ्रमरयोः, नीचोदूर्ध्वतिर्यङ्मुखतः – नीचमुखतः = अधोमुखतः, ऊर्ध्वमुखतः = उन्नतमुखतः, तिर्यङ्मुखतः = वक्रस्वरूपात् च, फलभेदः - फलानाम् = परिणामा-नाम्, भेदः = प्रभेदः, भवेत् = स्यात् ॥७ ९ ॥ हिन्दी — यदि ये भौंरियाँ नीची, ऊँची या टेढी झुकी हो तो तदनुसार फल में भी भेद होता है ॥ ७ ९ ॥ नीचेति । तयोः भ्रमरयोः नीचाद्र्ध्वतिर्य्यङ्मुखतः निम्नमुखतः ऊर्ध्वमुखतः तिर्य्यङ्मुखतश्च फलभेदः फलानां प्रभेदः भवेत् ॥७ ९ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 369
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य सप्तमं प्रकरणम् ७८१ शङ्खचक्रगदापद्मवेदिस्वस्तिकसन्निभः प्रासादतोरणधनुःसुपूर्णकलशाकृतिः स्वस्तिकत्रङ्मीनखड्गश्रीवत्साभ: शुभो भ्रमः ॥ ८० ॥
अन्वयः— शङ्खचक्रगदापद्मवेदिस्वस्तिकसन्निभः तथा प्रासादतोरणधनुःसुपूर्णकलशाकृतिः स्वस्तिकस्त्रङ्मीनखड्गश्रीवत्साभः भ्रमः शुभः ॥ ८० ॥
व्याख्या— शङ्खचक्रगदापद्मवेदिस्वस्तिकसन्निभः– शङ्खसदृशः कम्बुतुल्यः, चक्रसन्निभः = चक्रतुल्यः, गदासन्निभः = लौहमयशस्त्रभेदतुल्यः, पद्मसन्निभः = कमलतुल्यः, वेदिसन्निभः = वेदितुल्यः, स्वस्तिकम् = माङ्गलिकचिह्नयुक्तम्, तथा = तेनैव रूपेण, प्रासादतोरणधनुःसुपूर्ण-कलशाकृतिः —प्रासादाकृतिः = हर्म्यसदृशः, तोरणाकृतिः = बहिर्द्वाराकारः, धनुषाकृतिः, सुपूर्णकलशाकृतिः = सुपूरितकलशतुल्यः, तथा = किञ्च, स्वस्तिकस्रक् = माङ्गलिका माला, तत्समः, मीनाकृतिः = मत्स्याकारः, खड्गाकृतिः = करवालरूपः, श्रीवत्सः = विष्णुवक्षःस्थदक्षिणावर्त्तरोमा-वलिः, तत्समः, भ्रमः = आवर्त्तः, शुभः = कल्याणप्रदः ॥८० ॥
हिन्दी — घोड़ों की भौंरी शंख, चक्र, गदा, पद्म, वेदी तथा स्वस्तिक के चिह्न की किंवा महल, राजद्वार, धनुष या पूर्णकलश के आकार की होती है । स्वस्तिक, माला, तलवार तथा श्रीवत्स के समान आकार वाली भौंरी शुभ मानी जाती है ॥ ८० ॥
भ्रमरस्यास्य आकृतिभेदं शुभकरत्वञ्च दर्शयति – शङ्खेति । शङ्खचक्रगदापद्मवेदि-स्वस्तिकसन्निभः शङ्खसदृशः चक्रसदृशः गदासदृशः पद्मसदृशः वेदिसदृशः स्वस्तिकं माङ्गलिकद्रव्यभेदः तत्सदृशः तथा प्रासादतोरणधनुःसुपूर्णकलशाकृतिः हर्म्यसदृशः तोरणप्रभः धनुषा तुल्यः सुपूर्णकुम्भाकृतिः किञ्च स्वस्तिकस्रङ्मीनखड्गश्रीवत्साभः स्वस्तिकस्रक् माङ्गलिका माला, तत्समः मीनरूपः खड्गाकृतिः श्रीवत्सः मणिविशेषः, तत्समः भ्रमः भ्रमरः शुभः ॥ ८० ॥
नासिकाग्रे ललाटे च शङ्खे कण्ठे च मस्तके ।
आवर्त्तो जायते येषां ते धन्यास्तुरगोत्तमाः ॥ ८१ ॥
अन्वयः – येषां नासिकाभ्रे ललाटे शङ्खे कण्ठे च मस्तके आवर्त्तः जायते, ते तुरगोत्तमाः धन्याः ॥ ८१ ॥
व्याख्या – येषाम् = अश्वानाम्, नासिकाग्रे = नासाग्रभागे, ललाटे = भाले, शङ्खे -गण्डस्थले, कण्ठे = गलप्रदेशे, च = पुनः, मस्तके = शीर्षे, आवर्त्तः = भ्रमरी, जायते = भवति, ते = घोटकाः, तुरगोत्तमाः—– तुरगेषु = तुरङ्गमेषु, उत्तमाः = उत्कृष्टाः भवन्ति ॥ ८१ ॥
हिन्दी - जिन घोड़ों की नाक के ऊपर ललाट, कनपटी, कण्ठ या माथे में भौंरी हो, वे अन्य घोड़ों में उत्कृष्ट माने जाते हैं ॥ ८१ ॥
नासिकाग्रे इति । येषां नासिकाग्रे, ललाटे, शङ्ख ललाटास्थिन कर्णसमीपस्थास्थ्नि वा कण्ठे मस्तके च आवर्त्तः भ्रमरचिह्नं जायते ते तुरगोत्तमाः धन्याः ॥ ८१ ॥
हृदि स्कन्धे गले चैव कटिदेशे तथैव च ।
नाभौ कुक्षौ च पार्वाग्रे मध्यमाः सम्प्रकीर्त्तिताः ॥ ८२ ॥
अन्वयः — हृदि स्कन्धे गले कटिदेशे तथैव नाभौ कुक्षौ पार्वाग्रे मध्यमाः सम्प्रकीर्त्तिताः ॥८२ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 370
पाठ पढ़ें पाठ छिपाएँ
७८२ शुक्रनीति: व्याख्या — हृदि = वक्षःस्थले, स्कन्धे = भुजमूले, गले = कण्ठे, कटिदेशे = मध्याङ्गे, तथैव = तेनैव प्रकारेण, नाभौ = उदरावर्त्ते, कुक्षौ = उदरे, पार्खाग्रे = पार्श्वयोः अग्रभागे, येषाम् अश्वानाम्, आवर्त्तस्ते मध्यमाः = सामन्यस्तरीयाः घोटकाः, सम्प्रकीर्त्तिताः = कथिताः ॥८२ ॥
हिन्दी — जिन घोड़ों की छाती, कन्धा, गला, कमर, नाभि, पेट तथा बगल के अगले हिस्से में भौंरी होती हैं, वे मध्यम दर्जे के घोड़े कहे जाते हैं ॥ ८२ ॥
हृदीति । हृदि वक्षसि, स्कन्धे, गले, कटिदेशे, नाभौ, कुक्षौ पार्श्वाग्रे च येषाम् आवर्त्तः ते मध्यमाः सम्प्रकीर्त्तिताः ॥ ८२ ॥
ललाटे यस्य चावर्त्तद्वितयस्य समुद्भवः ।
मस्तके च तृतीयस्य पूर्णहर्षोऽश्व उत्तम: ॥ ८३ ॥
अन्वयः — यस्य ललाटे आवर्त्तद्वितयस्य मस्तके च तृतीयस्य समुद्भवः सः पूर्णहर्षः अश्वः उत्तमः ॥ ८३ ॥
व्याख्या — यस्य = अश्वस्य, ललाटे = भाले, आवर्त्तद्वितयस्य = भ्रमरकद्वयस्य, मस्तके: शीर्षे च, तृतीयस्य = आवर्त्तस्य, समुद्भवः = उत्पत्तिः, सः = अश्व, पूर्णहर्षः = सकलानन्दः, अश्वः = घोटकः, उत्तमः = उत्कृष्टो भवेत् ॥८३ ॥
हिन्दी — जिस घोड़े के ललाट पर दो भौरियाँ हों तथा तीसरी माथे पर हो, वह घोड़ा पूरी खुशी देने वाला उत्तम कोटि का माना जाता है ॥ ८३ ॥
ललाटे इति । यस्य ललाटे आवर्त्तद्वितयस्य मस्तके च तृतीयस्य आवर्त्तस्य समुद्भवः, सः पूर्णहर्षः पूर्णहर्षवर्द्धकत्वात् पूर्णानन्दः अश्वः उत्तमः ॥८३ ॥
पृष्ठवंशे यदावर्त्तो यस्यैकः सम्प्रजायते ।
स करोत्यश्वसङ्घातान् स्वामिनः सूर्य्यसंज्ञकः ॥ ८४ ॥।
अन्वयः — यदा यस्य पृष्ठवंशे एकः आवर्त्तः सम्प्रजायते, सः सूर्यसंज्ञकः स्वामिनः अश्वसङ्घातान् करोति ॥ ८४ ॥
व्याख्या — यदा = यत्र, यस्य = अश्वस्य, पृष्ठवंशे = कशेरुकायाम्, एकः = एकैव, आवर्त्तः = भ्रमिः, सम्प्रजायते = भवति, सः = - असौ, सूर्यसंज्ञकः = सूर्य इत्याख्यः, अश्वो भवति, सोऽश्वः स्वामिनः = प्रभोः, अश्वसङ्घातान् = घोटकसमूहान् करोति = अभिवर्द्धनं करोति ॥ ८४ ॥
हिन्दी — जिस घोड़े की रीढ़ पर एक भौंरी हो वह सूर्य नामक घोड़ा कहलाता है । यह घोड़ा अपने मालिक के घोड़ों को बढ़ाता है ॥ ८४ ॥
पृष्ठवंशे इति । यदा यस्य पृष्ठवंशे एकः आवर्त्तः सम्प्रजायते, सः सूर्य्यसंज्ञकः सूर्याख्यः अश्वः स्वामिनः अश्वसङ्घातान् अश्वसमूहान् करोति वर्द्धयति ॥ ८४ ॥
त्रयो यस्य ललाटस्था आवर्त्तास्तिर्य्यगुत्तराः ।
त्रिकूटः स परिज्ञेयो वजिवृद्धिकरः सदा ॥ ८५ ॥
अन्वयः — यस्य ललाटस्थाः त्रयः आवर्त्ताः तिर्यगुत्तराः सः त्रिकूटः सदा वाजिवृद्धिकरः ॥८५ ॥
व्याख्या - यस्य = = घोटकस्य, ललाटस्थाः = भाले स्थिताः, त्रयः, आवर्ताः = भ्रमयः, तिर्यगुत्तराः = वक्रप्रधानाः, सः = असौ वाजी, त्रिकूट: = त्रिकूटसंज्ञकः, अश्व:, सदा = सर्वदा, वाजिनाम् = घोटकानाम्, वृद्धिकरः = वर्द्धकरो भवति ॥८५ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA