शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 351–360

शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 351–360

पृष्ठ 351

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 351 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ७६३ दारपुत्रार्थे = पत्नीपुत्रनिमित्तम्, त्रिशतम् = शतत्रयम्, विद्वदर्थे— विदुषाम् = विपश्चिताम्, अर्थे = निमित्ताय, शतद्वयम् = द्विशतम्, साद्यश्वपदगार्थम् - सादिनाम् = अश्वारोहिणाम्, अश्वानाम् = घोटकानाम्, पदगानाम् = पदातीनाम्, निमित्तम्, चतुःसहस्रकम् = चत्वारिंशच्छतम्, गजोष्ट्र-वृषनालार्थम् – गजानाम् = नागानाम्, उष्ट्राणाम् = दासेरकाणाम्, वृषाणाम् = वृषभाणाम्, नालानाम् = शतघ्नीचालकानाम्, निमित्तम्, चतुःशतम् = तुरीयशतम्, व्ययी कुर्यात् = व्ययं कर्त्तव्यम्, राज्ञा = नृपेण, शेषम् = अवशिष्टम्, सार्द्धसहस्रकम् = पञ्चदशशतम्, कोशे = भाण्डागारे, स्थाप्यम् = निःक्षेप्यम् ॥ २५-२७ ॥ हिन्दी — समाहरण, दान तथा आत्मभोग के लिए प्रतिमास डेढ़ हजार, प्रति लेखक सौ रुपये, मन्त्रियों के लिए तीन सौ, स्त्री - पुत्र के लिए तीन सौ, विद्वानों के सम्मानार्थ दो सौ, अश्वारोही एवं पैदल सिपाहियों के लिए चार हजार, ऊँट, बैल तथा बन्दूकची के लिए चार

सौ रुपये प्रतिमास खर्च करे । शेष धन राजा राजकोष में सुरक्षित रख दे ॥२५-२७ ॥

लक्षमुद्राणां व्ययनियममाह – सम्भारेति । राजा मासि प्रतिमासं सम्भारार्थं निजभोगार्थञ्च सार्द्धसहस्रकं पञ्चदशशतानि इत्यर्थः १५००, लेखकार्थे लेखकानां निमित्तं शतं १००, मन्त्रार्थे मन्त्रिणां निमित्तं शतत्रयं ३००, दारपुत्रार्थे स्त्रीपुत्रनिमित्तं त्रिशतं ३००, विद्वदर्थे विदुषां सम्मानार्थे शतद्वयं २००, साद्यश्वपदगार्थं सादिनाम् अश्वारोहिणाम् अश्वानां पदगानां पदातीनाञ्च निमित्तं चतुः सहस्रकं ४०००, गजानाम् उष्ट्राणां वृषाणां नालानां नालिकाख्यास्त्रधारिणां निमित्तं चतुःशतं ४०० व्ययीकुर्य्यात् । राज्ञा शेषम् अवशिष्टं सार्द्धसहस्रकं १५०० कोशे भाण्डारे स्थाप्यम् ॥ २५-२७ ॥ प्रतिवर्षं स्ववेशार्थं सैनिकेभ्यो धनं हरेत् ॥ २८ ॥

अन्वयः – प्रतिवर्षं स्ववेशार्थं सैनिकेभ्यः धनं हरेत् ॥ २८ ॥

व्याख्या– प्रतिवर्षम् = वर्षे वर्षे, स्ववेशार्थम् = निजनिजगणवेशार्थम्, सैनिकेभ्यः = रक्षापुरुषेभ्यः, धनम् = अर्थम्, हरेत् = दद्यादिति ॥ २८ ॥

हिन्दी – प्रतिवर्ष सेना के यूनिफार्म ( गणवेश ) के लिए सैनिकों को धन देना चाहिए ॥२८ ॥

प्रतिवर्षमिति । प्रतिवर्षं वर्षे वर्षे स्ववेशार्थं निजनिजपरिच्छदार्थं सैनिकेभ्यः धनं हरेत् दद्यादित्यर्थः ॥२८ ॥

लोहसारमयश्चक्रसुगमो मञ्चकासनः ।

स्वान्दोलायितरूढस्तु मध्यमासनसारथिः ॥ २ ९ ॥

शस्त्रास्त्रसन्धार्य्युदर इष्टच्छायो मनोरमः ।

एवंविधो रथो राज्ञा रक्ष्यो नित्यं सदश्वकः ॥ ३० ॥

अन्वयः — लोहसारमयः चक्रसुगमः मञ्चकासनः स्वान्दोलायितरूढः मध्यमासनसारथिः शस्त्रास्त्रसन्धार्य्युदरः इष्टच्छायः मनोरमः तथा सदश्वकः – एवंविधः रथः राज्ञा नित्यं रक्ष्यः ॥ २ ९ -३० ॥ व्याख्या — लोहसारमयः = उत्तमलौहरचितः चक्रसुगमः — चक्रैः = रथाङ्गैः, सुगमेन = अनायासेन, गच्छति = यातीति तथोक्तः, मञ्चकासनः — मञ्चकम् = खट्वा, इव आसनम् = उपवेशनप्रकारः, यस्मिन् सः - रथः, पर्यङ्कासनयुक्तः, स्वेन = आत्मना, आन्दोलायितः = असकृत् CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 352

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 352 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७६४ शुक्रनीतिः कम्पायितः, रूढः = - आरोही, यस्मिन् तथाभूतः, मध्यमम् = मध्यस्तरीयम्, आसनम् = उपवेशनम्, यस्य तादृशः, सारथिः = रथचालकः, यस्मिन् सः, शस्त्राणि = शत्रुघ्नानि, अस्त्राणि = प्रहरणानि, च, सन्धारयतीति = स्थापयतीति, तादृशम्, उदरम् = अभ्यन्तरम्, यस्य तथोक्तः, इष्टच्छायः = मनोऽनुकूलच्छायः, मनोरमः = मनोज्ञः, तथा सदश्वकः = श्रेष्ठघोटकान्वितः, एवंविधः = एतादृशः, रथः = स्यन्दनः, राज्ञा = नृपेण, नित्यम् = सततम्, रक्ष्यः = रक्षणीयः ॥ २ ९ -३० ॥ हिन्दी — उत्कृष्ट लोहे का बना हुआ, अति सुगमता से घुमने वाले चक्के वाले, सुखपूर्वक पंलग की तरह बैठने वाली जगह वाला, जिसमें बैठने से देह स्वयं झूले की तरह हिचकोला खाये अर्थात् कमानीदार, जिसके अगले हिस्से के बीच में सारथी के बैठने की जगह हो, अनेक हथियारों से भीतरी भाग भरा पड़ा हो, अच्छे - अच्छे घोड़े जुते हों, ऐसा सुन्दर रथ राजा को हमेशा अपने पास रखना चाहिए ॥ २ ९ -३० ॥ लोहेति । शस्त्रेति । लोहसारमयः उत्कृष्टलौहनिर्मितः, चक्रसुगमः चनैः सुखेन गच्छतीति तथोक्तः, मञ्चकम् आसनं यस्मिन् सः पर्य्यङ्कासनसहितः स्वेन आत्मना आन्दोलितः रूढः आरोही यस्मिन् तथाभूतः, मध्यमम् आसनं यस्य तादृशः सारथिर्यस्मिन् सः, शस्त्राणि अस्त्राणि च सन्धारयतीति तादृशम् उदरम् अभ्यन्तरं यस्य तथोक्तः इष्टच्छायः अभिलषितच्छायः मनोरथः तथा सदश्वकः उत्कृष्टाश्वसंयुतः एवंविधः रथः राज्ञा नित्यं सततं रक्ष्यः ॥ २ ९ -३० ॥

नीलतालुर्नीलजिह्वो वक्रदन्तो ह्यदन्तकः ।

दीर्घद्वेषी क्रूरमदस्तथा पृष्ठविधूनकः ॥ ३१ ॥

दशाष्टोननखो मन्दो भूविशोधनपुच्छकः ।

एवंविधोऽनिष्टगजो विपरीतः शुभावहः ॥ ३२ ॥

अन्वयः — नीलतालुः नीलजिह्वः वक्रदन्तः वा अदन्तकः दीर्घद्वेषी क्रूरमदः तथा पृष्ठविधूनकः दशाष्टोननखः मन्दः भूविशोधनपुच्छकः एवंविधः गजः अनिष्ट: विपरीतः शुभावहः॥३१-३२ ॥ व्याख्या — नीलतालुः– कृष्णकाकुदः, नीलजिह्वः = कृष्णजिह्वः, वक्रदन्तः = कुटिलरदः, वा = अथवा, अदन्तकः = दन्तविहीनः, दीर्घद्वेषी = चिरस्थायि क्रोधः, क्रूरमदः = विशृङ्खलमदस्रावी, तथा पृष्ठविधूनकः– पृष्ठकम्पकः, दशाष्टोननखः – दशभिः अष्टाभिर्वा, ऊनाः = - हीनाः, नखाः यस्य तादृशः, मन्दः = स्थिरगमनशीलः, भूविशोधनपुच्छकः—– पुच्छेन = लाङ्गुलेन, भूमेः = पृथिव्याः, विशोधनकारी = सम्मार्जनकारी, एवंविधः = एतादृशः, गजः = हस्ती, अनिष्ट: = अमङ्गलकरः, विपरीतः = पूर्वोक्तलक्षणविरुद्धः, शुभावहः = मङ्गलदायकः ॥ ३१-३२ ॥ हिन्दी — नीले तालु और जीभ वाला, टेढ़े दाँत वाला या फिर बिना दाँत के, देर तक गुस्सा रखने वाला, अनियमित मद चुलाने वाला, पीठ हिलाने वाला, अठारह से कम नाखून वाला, मन्दगति अर्थात् धीरे - धीरे चलने वाला तथा धरती तक लटकी लम्बी पूँछ वाला हाथी अनिष्ट फल देने वाला होता है और ऊपरवर्णित लक्षणों से भिन्न लक्षण वाला हाथी शुभ फल देने वाला होता है ॥ ३१-३२ ॥ नीलेति । दशेति । नीलतालुः नीलवर्णतालुदेशः, नीलजिह्वः, वक्रदन्तः वा अदन्तकः, दीर्घद्वेषी दीर्घकालस्थायिक्रोधः, क्रूरमदः विशृङ्खलमदवर्षी पृष्ठविधूनकः पृष्ठकम्पकः, दशाष्टोननखः दशभिः अष्टाभिर्वा ऊनाः नखाः यस्य तादृशः मन्दः अल्पगामी, भूविशोधनपुच्छकः पुच्छेन भूमेर्विशोधनकारीत्यर्थः, एवंविधः गजः अनिष्टः अशुभकरः विपरीतस्तु , शुभावहः ॥ ३१-३२ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 353

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 353 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ७६५ भद्रो मन्द्रो मृगो मिश्रो गजो जात्या चतुर्विधः ॥ ३३ ॥

अन्वयः — गजः भद्रः मन्द्रः मृगः मिश्रः इति जात्या चतुर्विधः ॥ ३३ ॥

व्याख्या - गजः = हस्ती ", भद्रः = शिष्टः, मन्द्रः = मनोहरः गम्भीरो वा, मृगः = वन्यपशुः, मिश्रः = मिश्रितलक्षणयुक्तः, जात्या = जातिभेदेन, चतुर्विधः = चतुष्प्रकारको भवतीति ॥३३ ॥

हिन्दी - भद्र, मंद्र, मृग और मिश्र भेद से हाथी की चार प्रजातियाँ होती हैं ॥ ३३ ॥

भद्र इति । गजः भद्रः, मन्द्रः, मृगः, मिश्रः इति जात्या जातिभेदेन चतुर्विधः ॥३३ ॥

मध्वाभदन्तः सबलः समाङ्गो वर्त्तुलाकृतिः ।

सुमुखोऽवयवश्रेष्ठो ज्ञेयो भद्रगजः सदा ॥ ३४ ॥

अन्वयः — मध्वाभदन्तः सबलः समाङ्गः वर्तुलाकृतिः सुमुखः अवयवश्रेष्ठः सदा भद्रगजः ज्ञेयः ॥४० ॥

व्याख्या — तत्र भद्रगजस्य लक्षणमाह- मध्वाभदन्तः- मधुनः = पुष्परसस्य दुग्धस्य वा, आभा = कान्तिरिव कान्तिः, ययोः तादृशौ, दन्तौ = रदनौ, यस्य तथोक्तः, सबल: - शक्तिसम्पनः, समाङ्गः — समानि = तुल्यानि, अङ्गानि = शरीरावयवानि, यस्य सः, वर्तुलाकृतिः = गोलाकारः, सुमुखः – सुष्ठु, मुखः– आननः, यस्य तादृशः गजः, अवयवश्रेष्ठः - अवयवेषु = शरीराङ्गेषु, अन्येभ्यः गजेभ्यः श्रेष्ठः = उत्कृष्टः, सदा = सर्वदा, भद्रगजः, ज्ञेयः = बोध्यः ॥ ३४ ॥

हिन्दी— शहद अथवा दूध की तरह कान्ति से युक्त दाँतों वाला, बलवान्, समतल अंगोंवाला, गोल आकारवाला, सुन्दर मुँह वाला, उत्कृष्ट शरीरावयवों वाले हाथी को सदैव ‘ भद्रगज ' जानना चाहिए ॥ ३४ ॥

तत्र भद्रमाह- मध्वाभेति । मध्वाभदन्तः मधुनः आभा इव आभा ययोः तादृशौ दन्तौ यस्य तथोक्तः सबलः अतिबलान् समाङ्गः समानि न तु विसदृशानीत्यर्थः अङ्गानि यस्य सः, वर्तुलाकृतिः सुगोलावयवः सुमुखः तथा अवयवेषु अङ्गेषु अन्येभ्यः श्रेष्ठः गजः सदा भद्रगजः ज्ञेयः ॥ ३४ ॥

स्थूलकुक्षिः सिंहदृक् च बृहत्त्वग्गलशुण्डकः ।

मध्यमावयवो दीर्घकायो मन्द्रगजः स्मृतः ॥ ३५ ॥

अन्वय- स्थूलकुक्षिः सिंहदृक् बृहत्त्वग्गलशुण्डकः मध्यमावयवः दीर्घकायः मन्द्रगजः स्मृतः ॥ ३५ ॥

व्याख्या - स्थूलकुक्षिः = दीर्घोदरः, सिंहदृक् = वनराजदृष्टिः, बृहत्त्वग्गलशुण्डकः-बृहत्यः = विशालाः, त्वचा = चर्म, गलः = कण्ठः, शुण्डा = करश्च, यस्य तथोक्तः, मध्यमावयवः– मध्यस्तरीयशरीरावयवः, तथा दीर्घकाय: = विशालदेहः, गजः, मन्द्रगजः, स्मृतः = कथितः ॥ ३४ ॥

हिन्दी – लम्बा पेट, आँखें सिंह की तरह, चमडा मोटा, गला और सूँढ लम्बी, शरीर के अङ्ग मध्यम दर्जे के और देह विशाल, ऐसे हाथी को ' मन्द्र ' जानना चाहिए ॥ ३४ ॥

मन्द्रमाह - स्थूलेति । स्थूलकुक्षिः बृहदुदरः सिंहदृक् सिंहदृष्टिः बृहत्त्वग्गलशुण्डकः बृहत्यः त्वचः गलः शुण्डा च यस्य तथोक्तः मध्यमावयवः मध्यमशरीरः तथा दीर्घकायः गजः मन्द्रगजः स्मृतः ॥ ३५ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 354

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 354 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७६६ शुक्रनीतिः

तनुकण्ठदन्तकर्णशुण्डः स्थूलाक्ष एव हि ।

सुह्रस्वाधरमेढ्रस्तु वामनो मृगसंज्ञकः ॥ ३६ ॥

अन्वयः — तनुकण्ठदन्तकर्णशुण्डः स्थूलाक्षः सुह्रस्वाधरमेढ्रः वामनः मृगसंज्ञकः ज्ञेयः ॥३६ ॥

व्याख्या — तनुकण्ठदन्तकर्णशुण्डः = कृशकण्ठदशनश्रवणशुण्डारः, स्थूलाक्षः = नतोन्नतनयन:, सुह्रस्वाधरमेढ्रः = अतिलघु अधस्तनः ओष्ठः उपस्थश्च तथा वामनः = लघुकायः, गजः = हस्ती, मृगसंज्ञकः = मृगगजः, इति ज्ञेयः = ज्ञातव्य इति ॥ ३६ ॥

हिन्दी — जिसके गर्दन, दाँत, कान और सूँढ पतले हों; आँखें बेडौल, ओठ और लिंग बहुत छोटे तथा शरीर भी छोटा हो, उसे ' मृगगज ' कहते हैं ॥ ३६ ॥

मृगमाह— तन्विति । तनुकण्ठदन्तकर्णशुण्डः क्षुद्रकण्ठदन्तकर्णशुण्डः स्थूलाक्षः स्थूलनेत्रः सुह्रस्वाधरमेढ्रः अतिक्षुद्राधरः अतिक्षुद्रोपस्थश्च तथा वामनः खर्वकायः गजः मृगसंज्ञकः मृगगज इति ख्यातः ॥ ३६ ॥

एषां लक्ष्मैर्विमिलितो गजो मिश्र इति स्मृतः ।

भिन्नं भिन्नं प्रमाणन्तु॒ त्रयाणामपि कीर्त्तितम् ॥ ३७ ॥

अन्वयः — एषां लक्ष्मैः विमिलितः गजः मिश्र इति स्मृतः । त्रयाणामपि प्रमाणं तु भिन्नं भिन्नं कीर्त्तित्तम् ॥ ३७ ॥

व्याख्या– एषाम् = पूर्वोक्तानां त्रयाणां गजानाम्, लक्ष्मैः = लक्षणैः, विमिलितः = विशिष्टरूपेण, मिलितम् = मिश्रितम्, गजः = करी, मिश्रगजः, इति स्मृतः = कथितः, त्रयाणामपि = = भद्रादिगजानामपि, प्रमाणम् = उपपत्तिः, भिन्नं भिन्नं = पृथक् पृथक्, कीर्त्तितम् = कथितम् ॥३७ ॥

हिन्दी — इन सबों के कुछ - कुछ लक्षण जिसमें मिलते हों, उसे मिश्रगज समझना चाहिए ।

उक्त तीनों गजों के प्रमाण भी अलग - अलग बताये जा चुके हैं ॥ ३७ ॥

मिश्रमाह— एषामिति । एषां भद्रादीनां त्रयाणां लक्ष्मैः चिह्नः विमिलितः विशेषेण मिलितः गजः मिश्रः इति स्मृतः । अन्येषां त्रयाणां गजानां प्रमाणं भिन्नं भिन्नं पृथक् पृथक् कीर्त्तितम् ॥३७ ॥

गजमाने ह्यड्गुलं स्यादष्टभिस्तु यवोदरैः ।

चतुर्विंशत्यङ्गुलैस्तैः करः प्रोक्तो मनीषिभिः ॥ ३८ ॥

अन्वयः — गजमाने अष्टभिः यवोदरैः अङ्गुलं स्यात्, तैः चतुर्विंशत्यङ्गुलैः मनीषिभिः करः प्रोक्तः ॥ ३८ ॥

व्याख्या – गजमाने — गजस्य = नागस्य, माने = मापने, अष्टभिः = अष्टाभिः, यवभिः = यवोदरैः = धान्यराजान्तरैः अङ्गुलम् = अङ्गुलिमानम्, स्यात् = भवेत्, तैः = यवोदरैः, चतुर्विंशतिः = चतुरधिकविंशतिः, अङ्गुलैः = अङ्गुलिभिः, मनीषिभिः = विद्वद्भिः करः = हस्तः, प्रोक्तः = कथितः ॥३८ ॥

हिन्दी — गजों को नापने के लिए आठ जौ की एक अंगुल और चौबीस अंगुल का एक हाथ विद्वानों ने माना है ॥ ३८ ॥

गजमाने इति । गजमाने हस्तिपरिमाणे अष्टभिः यवोदरैः अङ्गुलं स्यात्, तैः चतुर्विंशत्यङ्गुलैः मनीषिभिः करः प्रोक्तः ॥ ३८ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 355

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 355 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ७६७

सप्तहस्तोन्नतिर्भद्रे ह्यष्टहस्तप्रदीर्घता ।

परिणाहो दशकर उदरस्य भवेत् सदा ॥ ३ ९ ॥

अन्वयः - भद्रे सप्तहस्ता उन्नतिः अष्टहस्तप्रदीर्घता उदरस्य परिणाहः दशकरः सदा भवेत् ॥ ३ ९ ॥ व्याख्या - भद्रे = भद्रगजे, सप्तहस्ता = सप्तहस्तपरिमिता, उन्नतिः = उच्चता भवति, अष्टहस्तप्रदीर्घता = अष्टहस्तमिताऽयामः, उदरस्य = मध्यभागस्य, परिणाहः = विस्तारः, दशकरः = दशहस्तः, सदा = सर्वदा, भवेत् = स्यात् ॥ ३ ९ ॥ हिन्दी – भद्रगज की ऊँचाई सात हाथ, लम्बाई आठ हाथ और पेट का विस्तार दश हाथ होता है ॥ ३ ९ ॥ सप्तेति । भद्रे हस्तिनि सप्तहस्ता उन्नतिः, अष्टहस्तप्रदीर्घता अष्टहस्ता: दीर्घता, उदरस्य परिणाहः विस्तारः दशकरः सदा भवेत् ॥ ३ ९ ॥

प्रमाणं मन्द्रमृगयोर्हस्तहीनं क्रमादतः ।

कथितं दैर्घ्यसाम्यन्तु मुनिभिर्भद्रमन्द्रयोः ॥ ४० ॥

अन्वयः – मन्द्रमृगयोः प्रमाणम् अतः क्रमात् हस्तहीनं तथा भद्रमन्द्रयोः दैर्घ्यसाम्यं मुनिभिः कथितम् ॥ ४० ॥

व्याख्या – मन्द्रमृगयोः– मन्द्रगजस्य मृगगजस्य च, प्रमाणम् = निदर्शनम्, अतः = अस्मात्, कारणात् क्रमात् = अनुक्रमेण, हस्तहीनम् = करैकन्यूनम्, तथा भद्रमन्द्रयोः = भद्रगजस्य मन्द्रगजस्य, च, दैर्घ्यसाम्यम् = लम्बतातुल्यम्, मुनिभिः = ऋषिभिः, कथितम् = प्रोक्तम् ॥४० ॥

हिन्दी — मन्द्र और मृग गज की ऊँचाई का प्रमाण भद्रगज से क्रमशः एक - एक हाथ छोटी होती है । किन्तु मुनियों ने भद्र और मन्द्र की लम्बाई एक जैसी बतलायी है ॥ ४० ॥

प्रमाणमिति । मन्द्रमृगयोः गजयोः प्रमाणम् अतः भद्रगजात् क्रमात् क्रमेण हस्तहीनं तथा भद्रमन्द्रयोः दैर्घ्यसाम्यं मुनिभिः कथितम् ॥ ४० ॥

बृहद्भ्रूगण्डफालस्तु धृतशीर्षगतिः सदा ।

गजः श्रेष्ठस्तु सर्वेषां शुभलक्षणसंयुतः ॥ ४१ ॥

अन्वयः — बृहद्भ्रगण्डफालः सदा धृतशीर्पगतिः शुभलक्षणसंयुतः गजः सर्वेषां श्रेष्ठः ॥४१ ॥

व्याख्या — बृहद्भ्रगण्डफालः = विशालचिल्लिकाकपोलदेशः, सदा = सर्वदा, धृतशीर्षगतिः = = उत्कृष्टगमनकारी, शुभलक्षणसंयुक्तः = माङ्गलिकलक्षणसमन्वितः, गजः = - हस्ती, सर्वेषाम् = सकलानाम्, हस्तिनाम्, श्रेष्ठः = उत्कृष्टः ॥ ४१ ॥

हिन्दी — जिस हाथी के भौंह, कपोल तथा मस्तक विशाल हो, जिसकी चाल शीघ्र गति युक्त हो, जो समस्त शुभ लक्षणों से युक्त हो, वह हाथियों में सर्वश्रेष्ठ हाथी होता है ॥ ४१ ॥

बृहदिति । बृहद्भ्रूगण्डफालः विशालभ्रूगण्डदेशः सदा धृतशीर्षगतिः गृहीतोत्कृष्टगतिः शुभलक्षणसंयुतः गजः सर्वेषां गजानां श्रेष्ठः ॥ ४१ ॥

पञ्चयवाङ्गुलेनैव वाजिमानं पृथक् स्मृतम् ॥ ४२ ॥

अन्वयः – पञ्चभिः यवैः अङ्गुलेन पृथक् वाजिमानं स्मृतम् ॥४२ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 356

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 356 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७६८ शुक्रनीतिः व्याख्या – पञ्चभिर्यवैः = पञ्चयवपरिमितैः, अङ्गुलेन = अङ्गुलियकेन करेण, पृथक् = भिन्नम्, वाजिनाम् = घोटकानाम्, मापम्, स्मृतम् = कथितम् ॥४२ ॥

हिन्दी — घोड़ों का माप हाथियों के माप से भिन्न होता है । इसमें पाँच जौ का एक हाथ होता है ॥ ४२ ॥

पञ्चेति । पञ्चभिर्यवैः अङ्गुलेन पृथक् वाजिमानम् अश्वपरिमाणं स्मृतम् ॥४२ ॥

चत्वारिंशाङ्गुलमुखो वाजी यश्चोत्तमोत्तमः ।

षट्त्रिंशदङ्गुलमुखो ह्युत्तमः परिकीर्तितः ॥ ४३ ॥

अन्वयः — यः वाजी चत्वारिंशाङ्गुलमुखः सः उत्तमोत्तमः । षट्त्रिंशदङ्गुलमुखः वाजी उत्तमः परिकीर्त्तितः ॥४३ ॥

व्याख्या — यः– यथानिर्दिष्टः, वाजी = अश्वः चत्वारिंशत् अङ्गुलानि परिमाणमस्येति तथोक्तम्, मुखम् = आननम्, यस्य तथाभूतः, सः = वाजी, उत्तमोत्तमः – उत्तमेषु = उत्कृष्टेषु, उत्तमः = उत्कृष्टः । षट्त्रिंशदङ्गुलमुखः घोटकस्तु, उत्तमः = श्रेष्ठः परिकीर्त्तितः = कथितः ॥४३ ॥

हिन्दी — जिस घोड़े का मुख चालीस अंगुलि का होता है, वह घोड़ा अति उत्कृष्ट माना जाता है और जिसका मुँह छत्तीस अंगुली का होता है, वह उत्तम कहा गया है ॥४३ ॥

चत्वारिंशेति । यः वाजी अश्वः चत्वारिंशत् अङ्गुलानि परिमाणमस्येति तथोक्तं मुखं यस्य तथाभूतः, सः उत्तमोत्तमः अत्युत्तमः । षट्त्रिंशदङ्गुलमुखः वाजी उत्तमः परिकीर्त्तितः ॥४३ ॥

द्वात्रिंशदङ्गुलमुखो मध्यमः स उदाहृतः ।

अष्टाविंशत्यङ्गुलो यो मुखे नीचः प्रकीर्त्तितः ॥ ४४ ॥

अन्वयः — द्वात्रिंशदङ्गुलमुखः यः वाजी सः मध्यमः उदाहृतः । यः मुखे अष्टाविंशत्यङ्गुलः सः नीचः प्रकीर्त्तितः ॥ ४४ ॥

व्याख्या — द्वात्रिंशदङ्गुलमुखः = द्वात्रिंशत् अङ्गुलानि परिमाणमस्येति तथोक्तम्, मुखम् = आननम्, यस्य तथाभूतः, य: वाजी = घोटकः, सः = अश्व:, मध्यमः = सामान्यः, उदाहृतः = प्रोक्तः । यश्च मुखे = आनने, अष्टाविंशत्यङ्गुलः, सः = = वाजी, नीच = अधम:, प्रकीर्त्तितः = कथितः ॥४४ ॥

हिन्दी — बत्तीस अंगुल के मुख वाला घोड़ा मध्यम दर्जे का समझा जाता है और जिस घोड़े का मुँह अट्ठाइस अंगुल का होता है, वह अधम कोटि का घोड़ा माना जाता है ॥४४ ॥

द्वात्रिंशदिति । द्वात्रिंशदङ्गुलमुखः यः वाजी सः मध्यमः उदाहृतः कथितः । यश्च मुखे अष्टाविंशत्यङ्गुलः सः नीचः प्रकीर्त्तितः ॥४४ ॥

वाजिनां मुखमानेन सर्वावयवकल्पना ।

औच्चन्तु मुखमानेन त्रिगुणं परिकीर्त्तितम् ॥ ४५ ॥

अन्वयः – वाजिनां मुखमानेन सर्वावयवकल्पना औच्चं तु मुखमानेन त्रिगुणं परिकीर्त्तितम् ॥४५ ॥

व्याख्या — वाजिनाम् = घोटकानाम्, मुखमानेन = आननमितेन, सर्वेषाम् = सकलानाम्, अवयवानाम् = अङ्गानाम्, कल्पना = विचारणा, कार्या, औच्चम् = आरोहः, तु, मुखमानेन— मुखस्य, मानेन = परिमाणेन, त्रिगुणम् = गुणत्रयम्, परिकीर्त्तितम् = कथितम् ॥ ४५ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 357

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 357 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ७६ ९ हिन्दी - घोड़ों के मुँह की माप अनुसार ही देह के अन्य अङ्गों की माप की कल्पना करनी चाहिए । मुँह के माप की तिगुनी घोड़े की उँचाई होनी चाहिए ॥ ४५ ॥

वाजिनामिति । वाजिनाम् अश्वानां मुखमानेन मुखपरिमाणेन सर्वेषाम् अन्येषाम् अवयवानां कल्पना कार्य्या इति शेषः । औच्चन्तु उच्चता तु मुखमानेन मुखपरिमाणादित्यर्थः, करणविवक्षया तृतीया, त्रिगुणं परिकीर्त्तितम् ॥४५ ॥

शिरोमणि समारभ्य पुच्छमूलान्तमेव हि ।

तृतीयांशाधिकं दैर्घ्यं मुखमानाच्चतुर्गुणम् ॥ ४६ ॥

अन्वयः — शिरोमणि समारभ्य पुच्छमूलान्तं दैर्घ्यं मुखमानात् तृतीयांशेन अधिकं चतुर्गुणम् ॥४६ ॥

व्याख्या - शिरोमणिम् = घोटकस्य लक्षणविशेषः चूडामणिः समारभ्य = प्रारभ्य, पुच्छ-मूलान्तम् = पुच्छमूलपर्यन्तम्, दैर्घ्यम् = दीर्घता, मुखामानात् —मुखस्य = आननस्य, मानात् = परिमाणात्, तृतीयांशेन = भागत्रयेण, अधिकम् = अतिरिक्तम्, चतुर्गुणम्भवति ॥ ४६ ॥

हिन्दी - घोड़े के शिर पर उगे मणिचिह्नों से लेकर पूँछ के मूल भाग तक की लम्बाई मुँह के माप की तिगुनी से अधिक चौगुनी होनी चाहिए ॥४६ ॥

शिरोमणिमिति । शिरोमणिम् अश्वानां शिरस्थचिह्नविशेषमित्यर्थः, समारभ्य पुच्छमूलान्तं पुच्छमूलपर्य्यन्तं दैर्घ्यं मुखमानात् तृतीयांशेन अधिकं युक्तं चतुर्गुणम् ॥ ४६ ॥

परिणाहस्तूदरस्य त्रिगुणस्त्र्यङ्गलाधिकः ।

साधारणमिदं मानमुच्यते विस्तरादथ ॥ ४७ ॥

अन्वयः — उदरस्य परिणाहः तु त्र्यङ्गुलाधिकः त्रिगुणः । इदं मानं साधारणम्, अथ विस्तरात् उच्यते ॥ ४७ ॥

व्याख्या — उदरस्य = तुन्दस्य, परिणाहः = विस्तारः, तु, त्र्यङ्गुलाधिकः - अङ्गुलित्रयेण, अधिकम् = अतिरिक्तम्, त्रिगुणः = गुणत्रयम्, इदम् = एतत्, मानम् = परिमाणम्, साधारणम् = सामान्यम्, कथितम्, अथ = अनन्तरम्, विस्तरात् = विस्तारात् उच्यते = कथ्यते ॥ ४७ ॥

हिन्दी — और पेट का फैलाव मुँह के माप से तीन अंगुल ज्यादा तिगुना होता है । यह घोड़ा की साधारण माप कही गई, इसके बाद विस्तारपूर्वक कहते हैं ॥ ४७ ॥

परिणाह इति । उदरस्य परिणाहः विस्तारस्तु त्र्यङ्गुलाधिकः अङ्गुलत्रयेण अधिकः युक्त त्रिगुणः । इदं मानं परिमाणं साधारणं सामान्यम् उक्तमिति शेषः, अथ विस्तरात् उच्यते कथ्यते ॥ ४७ ॥

अष्टाविंशाङ्गुलमुखं पुरस्कृत्य यथा तथा ।

शफोच्चं त्र्यङ्गुलं ज्ञेयं मणिबन्धोऽङ्गुलाधिकः ॥ ४८ ॥

अन्वयः — अष्टाविंशाङ्गुलमुखं नीचं पुरस्कृत्य यथा शफोच्चं त्र्यङ्गुलं तथा मणिबन्धः अङ्गुलाधिकः ॥४८ ॥

व्याख्या — अष्टाविंशाङ्गुलमुखम् = मुखमानमष्टाविंशत्यङ्गुलम्, यस्याश्वस्य तत्, नीचम् = अधमम्, पुरस्कृत्य = आश्रित्य शफानाम् = खुराणाम्, औच्चम् = उच्चता, त्र्यङ्गुलम् = 1 अङ्गुलित्रयम्, तथा = तेनैव प्रकारेण, मणिबन्धः = शफोपरिभागः, अङ्गुलाधिकः = अङ्गुल्येक-मेवाधिकम् अर्थात् चतुरङ्गुलं भवति ॥४८ ॥

४ ९ शु I CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 358

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 358 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७७० शुक्रनीतिः हिन्दी – यदि अट्ठाईस अंगुल मुँह के माप वाला नीचसंज्ञक घोड़ा हो तो उसके खुर की ऊँचाई तीन अंगुल की होती है और खुर से ऊपर वाले भाग अर्थात् मणिबंध की ऊँचाई इससे एक अंगुल ज्यादा अर्थात् चार अंगुल की होती है ॥ ४८ ॥

अष्टेति । अष्टाविंशाङ्गुलमुखं नीचम् अश्वमित्यर्थः, पुरस्कृत्य अवलम्ब्य यथा शफानां खुराणाम् औच्चम् औन्नत्यं त्र्यङ्गुलम् अङ्गुलत्रयमितं, तथा मणिबन्धः खुरोपरिभागः अङ्गुलाधिकः त्र्यङ्गुलः चतुरङ्गुल इत्यर्थः ॥४८ ॥

चतुर्हस्ताङ्गला जङ्घा त्र्यङ्गलं जानु कीर्त्तितम् ।

चतुर्दशाङ्गुलावूरू कूर्परॉन्तः स्मृतौ बुधैः ॥ ४ ९ ॥

अन्वयः —– जङ्घा चतुर्हस्ताङ्गुला तथा जानु त्र्यङ्गुलं कीर्त्तितम् । कूर्परान्तम् ऊरू चतुर्दशाङ्गुलौ बुधैः स्मृतौ ॥ ४ ९ ॥ व्याख्या — जङ्घा = टक्किका, चतुर्हस्ताङ्गुला = तुरीयकराङ्गुलिमिता, तथा = तेनैव रूपेण, जानु = ऊरुपर्वन्, त्र्यङ्गुलम् = अङ्गुलित्रयमितम्, कीर्त्तितम् = कथितम्, कूर्परान्तम् = कपोणिपर्यन्तम्, ऊरू = = जानुपरिभागः, चतुर्दशाङ्गुलौ, बुधैः = पण्डितैः स्मृतौ = कथितौ ॥ ४ ९ ॥ हिन्दी — जंघा अर्थात् टखने से घुटने तक का भाग चार हाथों की अंगुलि प्रमाण की, जानु अर्थात् ऊरुपर्व या घुटना तीन अंगुलि की माप का कल गया है । जानु के ऊपर के भाग से लेकर केहुनी तक चौदह अंगुलियों का पण्डितों ने कहा है ॥ ४ ९ ॥ चतुरिति । जङ्घा चतुर्हस्ताङ्गुला तथा जानु त्र्यङ्गुलम् अङ्गुलत्रयमितं कीर्त्तितम् । कूर्परान्तं कपोणिपर्य्यन्तम् ऊरू चतुर्दशाङ्गुलौ बुधैः स्मृतौ ॥ ४ ९ ॥

अष्टत्रिंशाङ्गुलं ज्ञेयं स्कन्धान्तं कूर्परादित: ।

प्रत्यगुरू मुखसमौ जङ्घोना पादमानतः ॥ ५० ॥

अन्वयः — इतः कूर्परात् स्कन्धान्तम् अष्टत्रिंशत्यङ्गुलं ज्ञेयम् । प्रत्यगूरू मुखसमौ, जङ्घा पादमानतः ऊनाः ॥ ५० ॥

व्याख्या — इतः = अस्मात् कूर्परात् प्रारभ्य, स्कन्धान्तम् = भुजमूलपर्यन्तम्, अष्टत्रिंशाङ्गुलम् =: अष्टत्रिंशाङ्खलिमितम्, ज्ञेयम् = बोध्यम्, प्रत्यगूरू = पश्चिमावूरू, मुखसमौ = मुखपरिमाण-समौ, जङ्घा = पश्चिमजङ्घा, पादमानतः = अपरजङ्घा चतुर्थमानात्, ऊना = हीना, बोध्येति ॥ ५० ॥

हिन्दी — केहुनी से लेकर कंधे तक घोड़े की ऊँचाई अड़तीस अंगुल की होती है और पीछे से दोनों ऊरू मुख के समान अट्ठाईस अंगुल प्रमाण के होते हैं । पीछे की जंघा चौथाई मान से कम की होती हैं ॥ ५० ॥

अष्टेति । इतः अस्मात् कूर्परात् आरभ्येति शेषः, स्कन्धान्तं स्कन्धपर्य्यन्तम् अष्टत्रिंशाङ्गुलम् अष्टत्रिंशाङ्गुलपरिमाणं ज्ञेयम् । प्रत्यगूरू पश्चिमावूरू मुखसमौ मुखपरिमाणसमौ अष्टाविंशाङ्गुलावित्यर्थः । जङ्घा प्रत्यग्जङ्घा इत्यर्थः, पादमानतः अपरजङ्घाः चतुर्थमानात् ऊना हीना इत्यर्थः ॥ ५० ॥

प्रोक्तोच्चता चाथ दैर्घ्यमुच्यते शास्त्रसङ्गतम् ॥५१ ॥

अन्वयः — उच्चता प्रोक्ता, अथ दैर्घ्यं शास्त्रसङ्गतम् उच्यते ॥५१ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 359

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 359 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ७७१ व्याख्या — उच्चता = अश्वस्यौन्नत्यम्, प्रोक्ता = कथिता, अथ = अनन्तरम्, दैर्घ्यम् = लम्बता, शास्त्रसङ्गतम् = शास्त्रविहितम्, उच्यते = कथ्यते ॥ ५१ ॥

हिन्दी — इस प्रकार अंगों की ऊँचाई का वर्णन किया गया, अब इनकी लम्बाई का शास्त्रसंगत वर्णन करते हैं ॥ ५१ ॥

प्रोक्तेति । उच्चता प्रोक्ता कथिता, अथ अनन्तरं दैर्घ्यम् उच्यते ॥५१ ॥

षष्ठांशेनाधिका ग्रीवा द्विगुणा सुप्रसारिता ।

मुखतश्चोच्छ्रिता सार्द्धपादहीना तु पूर्वतः ॥ ५२ ॥

अन्वयः - सुप्रसारिता प्रीवा दैर्घ्य षष्ठांशेन अधिका द्विगुणा तथा पूर्वतः सार्द्धपादहीना उच्छ्रिता ॥ ५२ ॥

व्याख्या — सुप्रसारिता = अतिविस्तृता, ग्रीवा = कन्धरः, दैर्घ्य = लम्वतायाम्, मुखतः = आननात्, षष्ठांशेन = षष्ठभागेन, अधिका = अतिरिक्तांशयुक्ता, द्विगुणा = द्विगुणिता, तथा पूर्वतः = मुखतः, सार्द्धपादहीना = अर्द्धण सहैकपादहीना = ऊना, उच्छ्रिता = उन्नता, भवतीति भावः ॥ ५२ ॥

हिन्दी — विस्तृत गर्दन की लम्बाई में मुँह की अपेक्षा छठा भाग अधिक दुगुना होता है तथा मुँह से साढ़े चौथाई भाग कम ऊँचा होता है ॥ ५२ ॥

षष्ठांशेनेति । सुप्रसारिता सुविस्तृता ग्रीवा दैर्घ्ये मुखतः मुखात् षष्ठांशेन अधिका युक्ता द्विगुणा तथा पूर्वतः मुखत इत्यर्थः सार्द्धपादहीना उच्छ्रिता उन्नता ॥५२ ॥

स्कन्धादि मुष्कमूलान्तं ग्रीवातुल्यन्तु तत्र हि ।

द्व्यंशषष्ठं त्रिकं यावत् शेषमंसं प्रकल्पयेत् ॥ ४३ ॥

अन्वयः -- तत्र स्कन्धादि मुष्कमूलान्तं ग्रीवातुल्यं त्रिकं यावत् शेषम् अंसं द्व्यंशषष्ठं प्रकल्पयेत् ॥४३ ॥

व्याख्या -तत्र = = घोटकेषु, स्कन्धादि = शिरोमूलमारभ्य, मुष्कमूलान्तम् = अण्डकोषमूल-पर्यन्तम्, ग्रीवातुल्यम् = कन्धरासदृशम्, त्रिकम् = पृष्ठवंशाधोभागम्, यावत् = समस्तम्, शेषम् = = अवशिष्टम्, अंसम् = स्कन्धम्, द्व्यंशषष्ठम् = भागद्वयं षष्ठभागतुल्यम्, प्रकल्पयेत् = चिन्तयेत् ॥ ५३ ॥

हिन्दी — घोड़ों में कन्धे से लेकर अण्डकोष के मूल भाग तक की लम्बाई गर्दन की तरह लम्बी होती है । रीढ़ के नीचले भाग तक बचे अंश कंधे की लम्बाई गर्दन के दो भाग के छठे भाग की तरह होती है ॥ ५३ ॥

स्कन्द्यादीति । तत्र अश्वेषु स्कन्धादि मुष्कमूलान्तम् अण्डकोषमूलपर्य्यन्तं ग्रीवातुल्यम् । त्रिकं पृष्ठवंशाधोभागं यावत् ' पृष्ठवंशाधरे त्रिकमित्यमरः । शेषम् अंसं स्कन्धं द्वयंशषष्ठं प्रकल्पयेत् ॥५३ ॥

मुखार्द्धं पुच्छदण्डं च शिश्न आण्डौ तदर्द्धकौ ।

कर्णः षडङ्गुलो दीर्घश्चतुःपञ्चाङ्गुलः क्वचित् ॥५४ ॥

अन्वयः – पुच्छदण्डं शिश्नश्च मुखार्द्धम्, आण्डौ तदर्द्धकौ, कर्णः षडङ्गुलः, क्वचित् दीर्घः चतुःपञ्चाङ्गुलः ॥ ५४ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 360

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 360 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७७२ शुक्रनीतिः व्याख्या – पुच्छदण्डम् = लाङ्गुलदण्डम्, शिश्नश्च = लिङ्गञ्च, मुर्खाद्धम् – मुखस्य = आननस्य, अर्द्धम् = अर्द्धभागमितम्, आण्डौ = मुष्कौ, तदर्द्धकौ, तस्य = शिश्नस्य, अर्द्धकौ = अर्द्धभागपरिमितौ, कर्णः = श्रोत्रम्, षडङ्गुलः = षडङ्गुलिपरिमितः, क्वचित् = कुत्रचित्, दीर्घः = श्रवणस्य दैर्घ्यम्, चतुःपञ्चाङ्गुलश्च = चतुरङ्गुलः वा पञ्चाङ्गुलः प्रोक्तः ॥५४ ॥

हिन्दी — घोड़े की पूँछ का डंडा और उनके लिंग की लम्बाई मुँह के लम्बाई की आधी होती है । दोनों अण्डकोषों की लम्बाई लिङ्ग के लम्बाई की आधी होती है । कान की लम्बाई छः अंगुल की होती है; कहीं - कहीं चार या पाँच अंगुल की भी कही गई है ॥५४ ॥

मुखार्द्धमिति । पुच्छदण्डं शिश्नश्च मुखार्द्धं मुखस्य अर्द्धम् अर्द्धपरिमितम् । आण्डौ अण्डौ एव स्वार्थे ष्णप्रत्ययः । अण्डकोषौ तदर्द्धांशे शिश्नार्द्धपरिमितौ । कर्णः षडङ्गुलः क्वचिद् दीर्घः कर्णस्य दैर्घ्यमित्यर्थः, चतुःपञ्चाङ्गुलः चतुरङ्गुलः पञ्चाङ्गुलश्च ॥ ५४ ॥

परिणाहः शफस्योक्तो मुखार्द्धेनाङ्गलाधिकः ।

तदर्द्धा मणिबन्धस्य जङ्घायाः परिधिः स्मृतः ॥ ५५ ॥

अन्वयः — शफस्य परिणाहः मुखार्द्धेन अङ्गुलाधिकः प्रोक्तः । मणिबन्धस्य जङ्घायाश्च परिधिः तदर्द्धः स्मृतः ॥५५ ॥

व्याख्या — शफस्य = खुरस्य, परिणाहः = विस्तारः, मुखार्द्धेनाङ्गुलाधिकः – मुखस्य = आननस्य, अर्द्धेन = अर्द्धपरिमाणेन, अङ्गुलाधिकः = एकाङ्गुलातिरिक्तः प्रोक्तः = कथितः, मणिबन्धस्य = पादमूलस्य, जङ्घायाश्च = ऊरोश्च, परिधिः = मण्डलम्, तदर्द्धं – तत् = तस्य, अर्द्धः = अर्द्धांशः, स्मृतः = कथितः ॥५५ ॥

हिन्दी - खुर का फैलाव मुँह के माप का आधा परन्तु एक अंगुल ज्यादा होता है तथा पाद - मूल और जंघा का घेरा उसका आधा होता है ॥५५ ॥

परिणाहमिति । शफस्य खुरस्य परिणाहः विस्तारः अङ्गुलाधिकः मुखार्द्धेन मुखार्द्धपरिमाणेन तुल्यः एकाङ्गुलाधिकमुखार्द्धपरिमाणतुल्यः । मणिबन्धस्य जङ्घायाश्च परिधिः वेष्टनं तदर्द्धः स्मृतः ॥ ५५ ॥

दशैकाङ्गलपरिधी रम्योरोः कीर्त्तितो बुधैः ।

पृष्ठोरुपँरिधिर्मूले त्रिः षष्ठांशो मुखेषु च ॥ ५६ ॥

अन्वयः — रम्यस्य ऊरोः दशैकाङ्गुलपरिधिः बुधैः कीर्त्तितः । पृष्ठोरुपरिधिर्मूले त्रिः मुखेषु षष्ठांशः ॥५६ ॥

व्याख्या – रम्यस्य = सुरूपस्य, ऊरोः = जङ्घायाः, दशैकाङ्गुलपरिधिः = एकादशाङ्गुलमित-वेष्टनम्, बुधैः = पण्डितैः, कीर्त्तितः– कथितः । पृष्ठस्य = पश्चिमस्य, ऊरोः = जङ्घायाः, परिधिः |: = वेष्टनं, मूले = आदौ, त्रिः = अङ्गुलित्रयमितः, मुखेषु = अप्रेषु, च = पुनः, षष्ठांशः = षष्ठभागः ॥५६ ॥

हिन्दी — पण्डितों ने सुन्दर जंघा का घेरा ग्यारह अंगुल कहा है । पिछली जंघा का घेरा मूल भाग से तीन अंगुल और आगे से छ: अंश का होता है ॥५६ ॥

दशेति । रम्यस्य रमणीयस्य ऊरोः दशैकाङ्गुलपरिधिः एकादशाङ्गुलमितः परिधिः बुधैः CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA