शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 381–390

शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 381–390

पृष्ठ 381

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 381 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ७ ९ ३ मिश्रवर्णः नानावर्णः, तदा जयमङ्गलः जयमङ्गलसाधकः भवति । तत्रापि एकवर्णः अथ च सुन्दरः यदि स्यात् तदा पूज्यः ॥ १११ ॥

कृष्णपादो हरिर्निन्द्यस्तथा श्वेतैकपादपि ।

रूक्षो धूसरवर्णश्च गर्दभाभोऽपि निन्दितः ॥ ११२ ॥

अन्वयः —— कृष्णपादः श्वेतैकपाद् अपि हरिः निन्द्यः, किञ्च रूक्षः धूसरवर्णः गर्दभाभः अपि निन्दितः ॥ ११२ ॥

व्याख्या — कृष्णपादः = श्यामवर्णचरणः, तथा श्वेतैकपात् = अश्वस्यैकचरणस्तु शुक्लवर्णः, तथा रूक्षवर्णः = अनाकर्षकवर्णः, धूसरवर्णः = आपाण्डुवर्णः, गर्दभाभः = रासभतुल्यवर्णः, अपि = चेत्, निन्दितः = गर्हितः ॥११२ ॥

हिन्दी — जिस घोड़े के पैर काले हों अथवा एक ही पैर सफेद हो और रंग बेढ़ंग या गदहे की तरह धूसर वर्ण का हो तो वह बड़ा ही निन्दनीय होता है ॥ ११२ ॥

कृष्णपाद इति । कृष्णपादः कृष्णवर्णचरणः तथा श्वेतैकपात् श्वेतवर्णैकचरणः अपि हरिः अश्वः निन्द्यः । किञ्च रूक्षवर्णः धूसरवर्णः तथा गर्दभाभः गर्दभसदृशवर्णः अपि निन्दितः ॥ ११२ ॥

कृष्णतालुः कृष्णजिह्वः कृष्णोष्ठश्च विनिन्दितः ।

सर्वतः कृष्णवर्णो यः पुच्छे श्वेतः स निन्दितः ॥ ११३ ॥

अन्वयः — कृष्णतालुः कृष्णजिह्वः कृष्णोष्ठश्च विनिन्दितः । यः सर्वतः कृष्णवर्णः पुच्छे श्वेतः सः निन्दितः ॥ ११३ ॥

व्याख्या — कृष्णतालुः– श्यामवर्णकाकुदम्, कृष्णजिह्वः = श्यामरसनः, तथा कृष्णोष्ठः = श्यामवर्णोष्ठः, विनिन्दितः = गर्हितः, यः = अश्वः सर्वतः = सकलशरीरावयवतः, कृष्णवर्णः = श्यामवर्णः, किञ्च, पुच्छे = लाङ्गुले, श्वेतः = शुभ्रवर्णः, सः = असौ, निन्दितः = गर्हितः ॥ ११३ ॥

हिन्दी — जिस घोड़े के तालु, जीभ और होठ काले हों तथा समस्त देह काली हो, किन्तु पूँछ सफेद हो तो वह निन्दित होता है ॥ ११३ ॥

कृष्णतालुरिति । कृष्णतालुः कृष्णवर्णतालुदेशः कृष्णजिह्नः कृष्णवर्णरसनः तथा कृष्णोष्ठश्च विनिन्दितः । यश्च सर्वतः सर्वस्मिन् अवयवे निन्दितः ॥ ११३ ॥

उच्चैःपदन्यासगतिर्द्विपव्याघ्रगतिश्च यः मयूरहंसतित्तिरपारावतगतिश्च यः मृगोष्ट्रवानरगतिः पूज्यो वृषगतिर्हयः ॥ अन्वयः — यः उच्चैःपदन्यासगतिः यश्च द्विपव्याघ्रगतिः मृगोष्ट्वानरगतिः वृषगतिः हयः पूज्यः ॥ ११४ ॥

कृष्णवर्णः किन्तु पुच्छे श्वेतः, सः ॥ ११४ ॥ यश्च मयूरहंसतित्तिरपारावतगतिः व्याख्या — यः– अश्वः, उच्चैः = उन्नतैः, पदानाम् = चरणानाम्, न्यासः = निधानम्, यत्र तादृशी गतिर्यस्य तथोक्तः, यश्च = अश्वः, द्विपस्य = गजस्य, व्याघ्रस्य = = शार्दूलस्य, च इव गतिर्यस्य तथाभूतः, तथा मयूरस्य = कलापिनः, वावर्षामदस्य, हंसस्य = मरालस्य, पारावतस्य = कपोतस्य, इव गतिर्यस्य, किञ्च यः = अश्व, मृगस्य = हरिणस्य, उष्ट्रस्य = क्रमेलकस्य, CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 382

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 382 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७ ९ ४ शुक्रनीतिः वानरस्य = मर्कटस्य, गतिर्यस्य तादृशः, तथा वृषस्य = बलीवर्दस्येव गतिर्यस्य तथाभूतः, हयः - = वाजी, पूज्यः = पूजनीयो भवति ॥ ११४ ॥

हिन्दी — जो घोड़ा ऊँचा पैर उठा कर चलता हो या जिसकी चाल हाथी, सिंह, मयूर, हंस, तीतर, कबूतर, हिरण, ऊँट या बैल की तरह हो, वह घोड़ा पूजनीय होता है ॥ ११४ ॥

उच्चैरिति । यः उच्चैः पादानां न्यासा यत्र तादृशी गतिर्यस्य तथोक्तः, यश्च द्विपस्य हस्तिनः व्याघ्रस्य च इव गतिर्यस्य तथाभूतः, तथा मयूरस्य हंसस्य पारावतस्य इव गतिर्यस्य सः किञ्च यः मृगस्य उष्ट्रस्य वानरस्येव गतिर्यस्य तादृशः तथा वृषस्येव गतिर्यस्य तथाभूतः हयः अश्वः पूज्यः ॥ ११४ ॥

अतिभुक्तोऽतिपीतोऽपि यया सादी न पीड्यते ।

श्रेष्ठा गतिस्तु सा ज्ञेया स श्रेष्ठस्तुरगो मतः ॥ ११५ ॥

अन्वयः — सादी अतिभुक्तः तथा अतिपीतः अपि यया न पीड्यते सा गतिस्तु श्रेष्ठा ज्ञेया, सः तुरगस्तु श्रेष्ठः मतः ॥ ११५ ॥

व्याख्या — सादी = अश्वारोही, अतिभुक्तः = अतिजग्धः भक्षितो वा, अतिपीतः = कृताधिक-पानम्, अपि = चेत्, यया = गत्या, न = - नहि, पीड्यते = क्लिश्यते, सा = पूर्वोक्ता, गतिः = गमनम् तु = किन्तु, श्रेष्ठा = उत्कृष्टा, ज्ञेया = बोध्या, सः = - तादृग्गुणविशेषेण विभूषितः, तुरगः = घोटकः, श्रेष्ठः = घोटकेषूत्कृष्टः, मतः = ख्यातः ॥ ११५ ॥

हिन्दी – घोडे की वही चाल अच्छी चाल मानी जाती है जिससे काफी खा - पीकर भी सवारी करने पर भी सवार को किसी तरह की पीड़ा महसूस न हो और ऐसी ही चाला वाला घोड़ा उत्कृष्ट माना जाता है ॥ ११५ ॥

अतिभुक्त इति । सादी आरोही अतिभुक्तः अधिकाहारः तथा अतिपीतः अत्यधिकपानकारी अपि यया गत्या न पीड्यते क्लिश्यते सा गतिस्तु गमनमेव श्रेष्ठा ज्ञेया सः तादृशगतिशीलः तुरगः श्रेष्ठः मतः ॥ ११५ ॥

सुश्वेतभालतिलको विद्धो वर्णान्तरेण च ।

स वाजी दलभञ्जी तु यस्य सैवातिनिन्दितः ॥ ११६ ॥

अन्वयः - यः सुश्वेतभालतिलकः यस्य सः वर्णान्तरेण विद्धः तथा दलभञ्जी सः च अतिनिन्दितः ॥ ११६ ॥

व्याख्या – सः = वाजी, सुश्वेतम् [ = = सुष्ठुतया शुक्लवर्णम्, भाले = ललाटे, तिलकम् = चिह्नविशेषः, यस्य सः वर्णान्तरेण = सितातिरिक्तेन वर्णेन, विद्धः = मिश्रितः, तथा दलानाम् = घोटकवर्णानाम्, भञ्जी = भञ्जकः, सः किञ्च, यस्य च = जनस्य च, सः = अश्वः अस्ति, अतिनिन्दितः = अत्यन्तगर्हितो भवति, अत्र सैवेति आर्पप्रयोगः ॥ ११५ ॥

हिन्दी — जिस घोड़े के माथे पर सफेद तिलक अन्य रंगो से मिले हो, वह घोड़ा दलभंजी कहलाता है । वह घोड़ा और उसका मालिक दोनों निन्दित माने जाते हैं ॥ ११५ ॥

सुश्वेतेति । यः वाजी सुश्वेतं भाले तिलकं तिलकाकारचिह्नविशेषः यस्य सः वर्णान्तरेण श्वेतातिरिक्तेन वर्णेन विद्धः युक्तः तथा दलभञ्जी दलानाम् अश्वीयानां भङ्गकारकः सः किञ्च

यस्य च सः वाजी अस्ति स च अतिनिन्दितः । सैवेति सन्धिरार्षः ॥ ११६ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 383

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 383 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ७ ९ ५

संहन्याद्वर्णजान् दोषान् स्निग्धवर्णो भवेद् यदि ।

बलाधिकश्च सुगतिर्महान् सर्वाङ्गसुन्दरः ॥ ११७ ॥

अन्वयः - यदि स्निग्धवर्णः बलाधिकः सुगतिः महान् सर्वाङ्गसुन्दरः च भवेत्, वर्णजान् दोषान् संहन्यात् ॥ ११७ ॥

व्याख्या– यदि = चेत्, वाजी, स्निग्धवर्ण: = मसृणवर्णकः, बलाधिकः = महाबलः, सुगतिः = सुष्ठुगमनशीलः, महान् = उन्नतः, तथा सर्वाङ्गेषु = सकलावयवेषु, सुन्दरः = कान्तः, भवेत् = स्यात्, तदा वर्णजान् = विपरीतवर्णोत्पन्नान्, दोषान् = दुर्गुणान्, संहन्यात् = सम्यक् प्रकारेण विनष्टं कुर्यात् ॥ ११७ ॥

हिन्दी – घोड़ा यदि शक्तिशाली, अच्छी चाल वाला, ऊँचे कद का सर्वाङ्गसुन्दर भसृण वर्ण का हो तो रंग से उत्पन्न होने वाले समस्त दोषों को नष्ट कर देता है ॥ ११७ ॥

संहन्यादिति । यदि अश्वः स्निग्धवर्णः बलाधिकः सुगतिः महान् तथा सर्वाङ्गेषु सुन्दरः भवेत् तदा वर्णजान् विरुद्धवर्णजातान् दोषान् संहन्यात् नाशयेत् ॥ ११७ ॥

नातिक्रूरः सदा पूज्यो भ्रमाद्यैरपि दूषितः ॥ ११८ ॥

अन्वयः - भ्रमाद्यैः दूषितोऽपि नातिक्रूरः सदा पूज्यः ॥ ११८ ॥

व्याख्या – भ्रमाद्यैः = आवर्त्तचिह्नः, दूषितोऽपि = कलुषितोऽपि, नातिक्रूरः = सुदर्शन:, अश्व:, सदा = सर्वदा, पूज्यः = श्लाघ्यो भवति ॥११८ ॥

हिन्दी — कोई घोड़ा यदि सुदर्शन हो बदमाश न हो तो भौंरी के दोष से कलुषित रहने के बावजूद वह सदा श्लाघ्य होता है ॥ ११८ ॥

नेति । भ्रमाद्यैः आवर्त्ताद्यैः चिह्नः दूषितोऽपि नातिक्रूरः सौम्यदर्शनः अश्वः सदा पूज्यः ॥ ११८ ॥

वाजिनामत्यवहनात् सुदोषाः सम्भवन्ति हि ।

कृशो व्याधिपरीताङ्गो जायतेऽत्यन्तवाहनात् ॥ ११ ९ ॥

अन्वयः — अत्यवहनात् वाजिनां सुदोषाः सम्भवन्ति, अत्यन्तवाहनात् कृशः व्याधिपरीताङ्गः जायते ॥ ११ ९ ॥ व्याख्या — अत्यवहनात् = अत्यधिकवहनाभावे, वाजिनाम् = अश्वानाम्, सुदोषाः = अत्यधिकदोषाः, निश्चितम् भवन्ति = जायन्ते, किञ्च, अत्यन्तवाहनात् = अत्यधिकवहनादपि, कृशः = दुर्बलः, तथा व्याधिपरीताङ्गः = रुग्णशरीरञ्च जायते = भवतीति ॥११ ९ ॥ हिन्दी — यदि घोड़े अच्छे हों और अधिकतर सवारी न की जाय तो वे बिगड़ जाते हैं और अधिक सवारी करने से भी दुबले तथा रोगी हो जाते हैं । अतः क्षमतानुसार उन्हें सवारी में लेना चाहिए ॥ ११ ९ ॥ वाजिनामिति । अत्यवहनात् अतिशयेन अवाहनात् वहनाभावात् वाजिनां सुदोषाः हि निश्चितं सम्भवन्ति । किञ्च अत्यन्तवहनात् कृशः व्याधिपरीताङ्गः रुग्णदेहश्च जायते ॥ ११ ९ ॥

अवाहितो भवेन्मन्दः सर्वकर्मसु निन्दितः ।

अपोषितो भवेत् क्षीणो रोगी चात्यन्तपोषणात् ॥ १२० ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 384

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 384 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७ ९ ६ शुक्रनीतिः अन्वयः — अवाहितः मन्दः सर्वकर्मसुं निन्दितः भवेत् । अपोषितः क्षीणः च अत्यन्तपोषणात् रोगी भवति ॥ १२० ॥

व्याख्या — अवाहितः — न = नहि, वाहितः = स्थानान्तरे चालितः सन् मन्दः = निस्तेजस्को भवति, सर्वकर्मसु — सर्वेषु = सकलेषु, कर्मसु = कृत्येषु, निन्दितः = कुत्सितः, भवेत् = स्यात्, किञ्च, अपोषितः = पौष्टिकभोजनाभावे, क्षीणः = दुर्बलः, तथा अत्यन्तपोषणात् = अत्यधिकाहारप्रदानात् रोगी = रुग्णः, भवेत् = स्यात् ॥ १२० ॥

हिन्दी — और बिना सवारी के भी घोड़ा सुस्त हो जाता है तथा बिना पौष्टिक आहार के कमजोर हो जाता है और अधिक पौष्टिक आहार देकर सवारी नहीं करने से भी घोड़ा रोगी हो जाता है ॥ १२० ॥

अवाहित इति । अवाहितः एकान्तं न वाहितः मन्दः जडः, सर्वकर्मसु निन्दितश्च भवेत् । किञ्च अपोषितः अपालितः क्षीण: दुर्बलः कृश इत्यर्थः, तथा अत्यन्तपोषणात् अत्याहारदानात् रोगी भवेत् ॥ १२० ॥

सुगतिर्दुर्गतिर्नित्यं शिक्षकस्य गुणागुणैः ॥ १२१ ॥

अन्वयः – शिक्षकस्य गुणागुणैः नित्यं सुगतिः दुर्गतिश्च भवेत् ॥ १२१ ॥

व्याख्या – वाजी, शिक्षकस्य = प्रशिक्षणदातुः, गुणागुणैः = गुणदोषैः, नित्यम् = निरन्तरम्, सुगतिः– शोभनं गतिः = गमनम्, यस्यासौ, दुर्गतिः = मन्दगमनम् भवेत् ॥ १२१ ॥

हिन्दी - घोड़े की चाल अच्छी या बुरी होने का कारण उसका प्रशिक्षक होता है । क्योंकि हमेशा वह जैसी चाल सिखलाता है वैसे ही वह चलता है ॥ १२१ ॥

सुगतिरिति । अश्वः शिक्षकस्य गुणागुणैः गुणदोषैः नित्यं सततं सुगतिः सुन्दरगमनः दुर्गतिः मन्दगमनश्च भवेत् ॥ १२१ ॥

जान्वधश्चलपादः स्यादृजुकाय: स्थिरासनः ।

तुलाधृतखलीनः स्यात् काले देशे सुशिक्षकः ॥ १२२ ॥

अन्वयः — यः जान्वधः चलपादः ऋजुकायः स्थिरासनः काले देशे तुलाधृतखलीनः सुशिक्षकः स्यात् ॥ १२२ ॥

व्याख्या — यः जान्वोः = वाजिनः, ऊरुपर्वणः, अधः = = नीचैः, चलौ = चञ्चलौ, पादौ = चरणौ, यस्य सः, ऋजुकायः = कोमलशरीरः, तथा स्थिरम् = अचलम्, आसनम् = उपवेशनम्, यस्य तादृशः, स्यात् = भवेत्, तथा काले = समये, देशे = स्थानविशेषे, तुलया = = सादृश्येन, धृतम् = गृहीतम्, खलीनम् = अश्वताडनी, येन तादृशः स्यात्, सः सुशिक्षकः = सुन्दरवाजिविनेता स्यात् ॥ १२२ ॥

हिन्दी — घोड़े को चाल सिखाने वाला सवार घुटनों से नीचे पैर को हिलाते हुए देह को ढीला छोड़कर सीधा स्थिर आसन से बैठ कर संतुलित लगाम को थामे ॥ १२२ ॥

जान्विति । यः जान्वोः अश्वस्येति भावः, अधः निम्नदेशे चलौ पादौ यस्य सः ऋजुपादः सरलशरीरः तथा स्थिरं निश्चलम् आसनं यस्य तादृशः स्यात् तथा काले समये देशे स्थानभेदे तुलया साम्येन धृतं खलीनं कविका येन तादृशः स्यात् सः सुशिक्षकः ॥ १२२ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 385

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 385 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ७ ९ ७

मृदुना नातितीक्ष्णेन कशाघातेन ताडयेत् ।

ताडयेन्मध्यघातेन स्थाने स्वश्वं सुशिक्षकः ॥ १२३ ॥

अन्वयः — सुशिक्षकः मृदुना नातितीक्ष्णेन कशाघातेन ताडयेत् । मध्यघातेन नातिमृदुना स्थाने स्वश्वं ताडयेत् ॥ १२३ ॥

व्याख्या– सुशिक्षकः = सुवाजिविनेता, मृदुना = कोमलेन, नातितीक्ष्णेन = नातिकठोरेण, कशाघातेन = कशया ताडनेन, स्वश्वम् = शोभनं वाजिनम्, ताडयेत् = ताडनं कुर्यात्, किञ्च मध्यघातेन = मध्यप्रहारेण, स्थाने = मर्मादिरहितशरीरावयवे, स्वश्वम् = शोभनं घोटकम्, ताडयेत् = प्रहारं कुर्यात् ॥ १२३ ॥

हिन्दी — समय और स्थान के अनुसार न अतिकोमल और न अतिकठोर चाबुक से घोड़े को मार कर चाल सिखलाये । सुन्दर सिखलाने वाला घोड़े के मार्मिक अङ्ग को छोड़कर चाबुक की हलकी चोट से चाल सिखलाये ॥ १२३ ॥

मृदुनेति । सुशिक्षक: मुदुना कोमलेन नातितीक्ष्णेन कशाघातेन स्वश्वं शोभनम् अश्वं ताडयेत् । किञ्च मध्यघातेन नातिमृदुना नातिक्रूरेण च प्रहारेण इत्यर्थः, स्थाने मर्मादिव्यतिरिक्ते अवयवे इत्यर्थः स्वश्वं ताडयेत् ॥१२३ ॥

हेषिते कक्षयोर्हन्यात् स्खलिते पक्षयोस्तथा ।

भीते कर्णान्तरे चैव ग्रीवासून्मार्गगामिनि ॥ १२४ ॥

अन्वयः - हेषिते कक्षयोः तथा स्खलिते पक्षयोः भीते कर्णान्तरे च उन्मार्गगामिनि ग्रीवासु हन्यात् ॥ १२४ ॥

व्याख्या – हेषिते = हेषिते, शब्दविशेषं कृते सति, कक्षयोः पादमूलयोः, तथा, स्खलिते = पतिते वा विचलिते, पक्षयोः = कुक्षयोः, भीते = भयाक्रान्ते, कर्णान्तरे = श्रोत्रयोर्मध्ये, च = पुनः, उन्मार्गगामिनि = कुपथागामिनि, ग्रीवासु = गलप्रदेशेषु हन्यात् = प्रहारं कुर्यात् ॥ १२४ ॥

हिन्दी — ज्यादा हिनहिनाने पर पादमूल में, फिसलने पर दोनों बगलों में, भड़कने पर दोनों कानों के बीच तथा बेराह चलने पर कन्धे पर मारना चाहिए ॥ १२४ ॥

हेषिते इति । हेषिते हेषा अश्वस्य शब्दविशेषः सा अस्य जाता इति हेषितः तस्मिन् इतोऽस्य जाते इति इतच्प्रत्ययः । हेषाशब्दं कुर्वति सति कक्षयोः स्खलिते पादस्खलने पक्षयोः पार्श्वयोः, भीते सति कर्णान्तरे कर्णमध्ये, तथा उन्मार्गगामिनि कुपथगे सति ग्रीवासु हन्यात् प्रहरेत् ॥ १२४ ॥

कुपिते बाहुमध्ये च भ्रान्तचित्ते तथोदरे ।

अश्वः सन्ताड्यते प्राज्ञैर्नान्यस्थानेषु कर्हिचित् ॥१२५ ॥

अन्वयः — कुपिते बाहुमध्ये च भ्रान्तचित्ते उदरे अश्वः सन्ताड्यते, प्राज्ञैः कर्हिचित् अन्यस्थानेषु नेति ॥ १२५ ॥

व्याख्या – कुपितं = क्रुद्धे सति, बाहुमध्ये = अग्रिमचरणयोर्मध्ये, च = पुनः, भ्रान्तचित्ते = प्रमदितमनसि, उदरे = कुक्षौ, सन्ताड्यते = सम्यक् प्रकारेण हन्यते, प्राज्ञैः = बुद्धिमद्भिः, कर्हिचित् = = कदाचित्, अन्यस्थानेषु = उपरिवर्णितस्थानव्यतिरिक्तेषु, नेति = न ताडयेत् ॥ १२५ ॥

हिन्दी — दोनों अगले पैरों को उठा कर खड़े होने पर अगले पैरों के बीच में और भ्रान्तचित्त होने पर पेट में बुद्धिमान् सवार मारे । इससे भिन्न स्थानों में कभी भी न मारे ॥ १२५ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 386

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 386 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७ ९ ८ शुक्रनीतिः कुपिते इति । प्राज्ञैः विज्ञैः जनैः कुपिते सति बाहुमध्ये तथा भ्रान्तचित्ते उद्भ्रान्तचेतसि सति उदरे अश्वः सन्ताड्यते सम्यक् आहन्यते, कर्हिचित् कदाचित् अन्यस्थानेषु न ॥ १२५ ॥

अथवा हेषिते स्कन्धे स्खलिते जघनान्तरम् ।

भीते वक्ष: स्थलं हन्याद् वक्त्रमुन्मार्गगामिनि ।

कुपिते पुच्छसङ्घाते भ्रान्ते जानुद्वयं तथा ॥ १२६ ॥

अन्वयः — अथवा हेषिते स्कन्धे स्खलिते जघनान्तरं भीते वक्षःस्थलम् उन्मार्गगामिनि वक्त्रं कुपिते पुच्छसङ्घातं तथा भ्रान्ते जानुद्वयं हन्यात् ॥ १२६ ॥

व्याख्या — अथवा = वा, हेषिते = हेषा, वाजिनः शब्दविशेषः, सा अस्य जाता इति हेषितः, तस्मिन् ‘ इतोऽस्य जाते ' इत्यनेन इतच्प्रत्ययः, तेन हेषिते सति, स्कन्धे = ग्रीवायाम्, स्खलिते = विचलिते सति, जघनान्तरम् = नितम्बमध्यम्, भीते = भयाक्रान्ते, सति, वक्षःस्थलम् = ऊरुप्रदेशम्, उन्मार्गगामिनि = कुमार्गगामिनि, वक्त्रं = मुखम्, कुपिते = क्रुद्धे सति, पुच्छसङ्घातम् = पुच्छे हननं वा पुच्छसमूहम्, तथा भ्रान्ते = उद्भ्रान्ते सति जानुद्वयम् = ऊरुपर्वणी, हन्यात् = ताडयेत् ॥ १२६ ॥

हिन्दी — अथवा अधिक हिनहिनाने पर कन्धे में, फिसलने पर जाँघों के बीच, डरने पर छाती में, गलत राह पकड़ने पर मुँह में, गुस्साने पर दुम में तथा चित्तभ्रमित होने पर दोनों जानुओं के बीच में प्रहार करे ॥ १२६ ॥

अथवेति । अथवा किंवा हेषिते सति स्कन्धे स्खलिते सति जघनान्तरं जघनमध्यं, भीते सति वक्षःस्थलम्, उन्मार्गगामिनि सति वक्त्रं मुखं कुपिते सति पुच्छसङ्घातं, तथा भ्रान्ते जानुद्वयं हन्यात् ॥ १२६ ॥

नासकृत् ताडयेदश्वमकाले च विदेशके ।

अकालस्थानघातेन वाजिदोषान् वितन्वते ॥ १२७ ॥

अन्वयः — अकाले विदेशके असकृत् अश्वं न ताडयेत् । अकालस्थानघातेन वाजिदोषान् वितन्वते ॥ १२७ ॥

व्याख्या — अकाले = असमये, विदेशके = अस्थाने, असकृत् = वारंवारम्, अश्वम् = घोटकम्, न = नहि, ताडयेत् = प्रहारं कुर्यात् । यतः, अकालस्थानघातेन = असमयस्थानप्रहारेण, वाजिदोषान् = अश्वदुर्गुणान्, वितन्वते = विस्तारं कुर्वन्ति ॥१२७ ॥

हिन्दी - घोड़े को बार - बार असमय कुठांव में नहीं मारना चाहिए, क्योंकि ऐसा करने से घोड़े में दुर्गुणों की वृद्धि होती है ॥१२७ ॥

नेति । अकाले असमये विदेशके अस्थाने च असकृत् पुनः पुनः अश्वं न ताडयेत् यतः अकालस्थानघातेन असमयस्थानप्रहारेण वाजिदोषान् वितन्वते विस्तारयन्ति जनयन्ति इत्यर्थः ॥१२७ ॥

तावद् भवन्ति ते दोषा यावज्जीवत्यसौ हयः ।

दुष्टं दण्डेनाभिभवेन्नारोहेद्दण्डवर्जितः ॥ १२८ ॥

अन्वयः — यावत् असौ हयः जीवति तावत् ते दोषाः भवन्ति । दुष्टं दण्डेन अभिभवेत्, दण्डवर्जितः न आरोहेत् ॥ १२८ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 387

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 387 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ७ ९९ व्याख्या — यावत् = यावत्कालपर्यन्तम्, असौ = सः, हयः = वाजी, जीवति = जीवनं धारयति, तावत् = तावत्कालपर्यन्तम्, ते = पूर्वोक्ताः, दोषाः = दुर्गुणाः, भवन्ति = सन्त्येव । दुष्टम् = क्रूरं घोटकम्, दण्डेन = प्रहारेण, अभिभवेत् = वशं नयेत्, तथा दण्डवर्जितः = आघातरहितः, अश्वम्, न = = नहि, आरोहेत् = आरोहणं कुर्यात् ॥१२८ ॥

हिन्दी - और वे दोष घोड़े में तब तक बने रहते हैं जब तक वह घोड़ा जिन्दा रहता है । दुष्ट घोड़े को मार - मारकर वशवर्त्ती बना ले, बिना दण्ड दिये दुष्ट घोड़े पर सवार नहीं होना चाहिए ॥ १२८ ॥

तावदिति । यावत् असौ हयः अश्वः जीवति तावत् ते दोषाः वाजिदोषाः भवन्ति । दुष्टम् अश्वं दण्डेन अभिभवेत् तथा दण्डवर्जितः कशारहितः न आरोहेत् ॥ १२८ ॥

गच्छेत् षोडशमात्राभिरुत्तमोऽश्वो धनुःशतम् ।

यथा यथा न्यूनगतिरश्वो हीनस्तथा तथा ॥ १२ ९ ॥

अन्वयः - उत्तमोऽश्वः षोडशमात्राभिः धनुःशतं गच्छेत् । अश्वः यथा यथा न्यूनगतिः तथा तथा हीनः भवेत् ॥ १२ ९ ॥ व्याख्या — उत्तमः = उत्कृष्टः, अश्वः = हयः, षोडशमात्राभिः = पूर्णमानैः, धनुःशतम् = चतुः-शतहस्तम्, गच्छेत् = गमयेत् । अश्वः, यथा यथा = येन प्रकारेण, न्यूनगतिः = हीनगमनम्, तथा तथा = तेनैव प्रकारेण, हीनः = अधमः, भवेत् = स्यात् ॥ १२ ९ ॥ हिन्दी — उत्तम घोड़ा सोलह मात्रा का उच्चारण करते - करते चार सौ हाथ की दूरी तय कर लेता है । इस अनुपात में उसकी गति जैसे - जैस कम होती है उसी अनुपात में वह घोड़ा हीन होता है ॥१२ ९ ॥ गच्छेदिति । उत्तमः अश्वः षोडशमात्राभिः पूर्णमानैरित्यर्थः, धनुःशतं चतुःशतहस्तं गच्छेत् एकप्रयत्नेनेति भावः । अश्वः यथा यथा न्यूनगतिः, तथा तथा हीनः भवेत् ॥ १२ ९ ॥

सहस्रचापप्रमितं मण्डलं गतिशिक्षणे ।

उत्तमं वाजिनो मध्यं नीचमर्द्ध तदर्द्धकम् ॥ १३० ॥

अन्वयः — वाजिनः गतिशिक्षणे सहस्रचापप्रमितं मण्डलम् उत्तमम्, तदर्द्ध मध्यं, तदर्द्धकं नीचम् ॥ १३० ॥

व्याख्या —- वाजिनः– हयस्य, गतिशिक्षणे = गमनशिक्षायाम्, सहस्रचापप्रमितम् = चतु-सहस्रहस्तमितम्, मण्डलम् = भ्रमणाय गोलाकारम्, उत्तमम् = उत्कृष्टम्, अर्द्धम् = पञ्चशतहस्तपरिमितम्, मध्यमम् = मध्यमानम्, तदर्द्धम् = पञ्चाशदधिकशतद्वयहस्तम्, नीचम् = अधमम् ॥ १३० ॥

हिन्दी - चाल सिखाने में घोड़े के लिए एक मण्डल का प्रमाण चार हजार हाथ का होता है, जो उत्तम कहलाता है । उसका आधा पाँच सौ हाथ का मण्डल मध्यम दर्जे के घोड़े के लिए होता है और उसका आधा दो सौ पचास हाथ का मण्डल अधम माना गया है ॥ १३० ॥

सहस्रेति । वाजिनः अश्वस्य गतिशिक्षणे गतिशिक्षायां सहस्रचापप्रमितं चतु सहस्रहस्तमितं : मण्डलं मण्डलाकारेण भ्रमणम् उत्तमं श्रेष्ठम् अर्द्ध पञ्चशतहस्तमितं मध्यम्, तदर्द्धकं पञ्चाशदधिकशतद्वयहस्तं नीचम् ॥ १३० ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 388

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 388 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८०० शुक्रनीति: अल्पं शतधनुः प्रोक्तमत्यल्पं च तदर्द्धकम् ॥ १३१ ॥।

अन्वयः - शतधनुः अल्पं तथा तदर्द्धकम् अत्यल्पं प्रोक्तम् ॥१३१ ॥

व्याख्या — शतधनुः = चतुःशतहस्तमितम्, मण्डलम्, अल्पम् = लघुः, तदर्द्धकम् = पञ्चाशदधिकशतद्वयमितम्, अत्यल्पम् = अतितुच्छम्, प्रोक्तम् = कथितम् ॥ १३१ ॥

हिन्दी — और चार सौ हाथ का मण्डल छोटा तथा उसका आधा अतितुच्छ होता है ॥१३१ ॥

अल्पमिति । शतधनुः चतुःशतहस्तमितं मण्डलमिति शेषः, अल्पं तथा तदर्द्धकं द्विशतहस्तमितम् अत्यल्पं प्रोक्तम् ॥१३१ ॥

शतयोजनगन्ता स्याद् दिनैकेन यथा हयः ।

गतिं संवर्द्धयेन्नित्यं तथा मण्डलविक्रमैः ॥ १३२ ॥

अन्वयः — हयः यथा दिनैकेन शतयोजनगन्ता स्यात्, नित्यं मण्डलविक्रमैः तथा गतिं संवर्द्धयेत् ॥१३२ ॥

व्याख्या — हयः = वाजी, यथा = येन प्रकारेण, दिनैकेन = एकेनैव दिवसेन, शतयोजनगन्ता = योजनशतं गन्तुं समर्थः, स्यात् = ' भवेत्, नित्यम् = प्रतिदिनम्, मण्डलविक्रमैः - मण्डलस्य = गोलाकारभ्रमणस्य, विक्रमैः = शौर्यैः, तथा = तदनुकूला, गतिम् = वेगम्, संवर्द्धयेत् = एधेत, संवर्द्धनं कुर्यात् वेति ॥१३२ ॥

हिन्दी — घोड़ा एक दिन में सौ याजन अर्थात् दो सौ कोस की दूरी तय करे; इसके लिए उसे प्रतिदिन मैदान में चक्कर लगवाकर उसके दौड़ने की शक्ति बढानी चाहिए ॥१३२ ॥

शतेति । हयः अश्वः यथा दिनैकेन एकेन दिनेन शतयोजनगन्ता स्यात्, नित्यं सततं मण्डलविक्रमैः मण्डलाकारभ्रमणैः तथा गतिं संवर्द्धयेत् ॥ १३२ ॥

सायं प्रातश्च हेमन्ते शिशिरे कुसुमागमे ।

सायं ग्रीष्मे तु शरदि प्रातरश्वं वहेत् सदा ॥ १३३ ॥

अन्वयः - हेमन्ते शिशिरे कुसुमागमे च सायं प्रातश्च ग्रीष्मे तु सायं शरदि तु प्रातः अश्वं सदा वहेत् ॥१३३ ॥

व्याख्या – हेमन्ते = हिमागमे ऋतौ, शिशिरे = शीतऋतौ, कुसुमागमे = वसन्तर्ती, सायम् = सन्ध्याकाले, च = पुनः, प्रातः = प्रभाते, ग्रीष्मे = निदाघकाले तु, सायम् = सन्ध्यासमये, शरदि = वर्षावसानकाले, तु, प्रातः = प्रभातवेलायाम्, सदा = सर्वदा, अश्वम् = घोटकम्, वहेत् = प्रशिक्षयेत् ॥ १३३ ॥

हिन्दी — हेमन्त, शिशिर तथा वसन्त ऋतु में शाम - सुबह, ग्रीष्म ऋतु में सायंकाल तथा शरद् ऋतु में प्रात: काल सदा घोड़े को शिक्षा देनी चाहिए ॥१३३ ॥

सायमिति । हेमन्ते, शिशिरे, कुसुमागमे वसन्ते च सायं प्रातश्च, ग्रीष्मे तु सायं शरदि तु प्रातः, सदा सर्वस्मिन् दिने अश्वं वहेत् ॥ १३३ ॥

वर्षासु न वहेदीषत्तथा विषमभूमिषु ॥ १३४ ॥

अन्वयः — वर्षासु तथा विषमभूमिषु ईषत् न वहेत् ॥ १३४ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 389

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 389 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् व्याख्या – वर्षासु = वर्षाऋतौ, तथा = पुनः, विषमभूमिषु = अल्पमपि, न = = नहि, वहेत् = अश्वं चालयेदिति ॥ १३४ ॥

हिन्दी - वर्षा ऋतु में तथा विषम भूमि में घोड़े को थोड़ा भी वर्षास्विति । वर्षासु तथा विषमभूमिषु उन्नतानतप्रदेशेषु ईषत् शेषः ॥ १३४ ॥

सुगत्याग्निर्बलं दाढर्क्यमारोग्यं वर्द्धते हरेः ॥ अन्वयः - सुगत्या हरेः अग्निः बलं दार्यम् आरोर्ग्यम् वर्द्धते ८०१ उच्चावच्चस्थानेषु, ईषद् = नहीं दौड़ाना चाहिए ॥ १३४ ॥

अल्पमपि न वहेत् अश्वमिति १३५ ॥ ॥१३५ ॥

व्याख्या – सुगत्या = सुष्ठुगमनेन, अग्नेः = जठराग्नेः, बलम् = शक्तिम्, दार्यम् = स्थैर्यम्, आरोग्यम् = नैरुज्यम्, च, वर्द्धते = वृद्धिं गच्छति ॥ १३५ ॥

हिन्दी – घाड़े की सुन्दर चाल से उसकी पाचन शक्ति, शरीर की दृढता और आरोग्य की वृद्धि होती है ॥१३५ ॥

सुगत्येति । सुगत्या शोभनेन गमनेन हरेः अश्वस्य अग्निः, बलं दाढर्घं शरीरकाठिन्यञ्च वर्द्धते ॥ १३५ ॥

भारमार्गपरिश्रान्तं शनैश्चङ्क्रामयेद्धयम् ।

स्नेहं सम्पाययेत् पश्चाच्छर्करासक्तुमिश्रितम् ॥ १३६ ॥

अन्वयः — भारमार्गपरिश्रान्तं हयं शनैः चङ्क्रामयेत्, पश्चात् शर्करासक्तुमिश्रितं स्नेहं सम्पाययेत् ॥१३६ ॥

व्याख्या – भारेण = भारवहनेन, तथा मार्गेण = अध्वगमनेन च परिश्रान्तम् = क्लान्तम्, हयम् = घोटकम्, शनैः = मन्दं मन्दम्, चङ्कामयेत् = भ्रामयेत्, पश्चात् = तदनन्तरम्, शर्करा = गुडचूर्णम्, सक्तुमिश्रितम् — सक्तुभिश्च मिश्रितम् = संसृष्टः, स्नेहम् = तैलभेदं घृतं वा, सम्पाययेत् = पाययेत् ॥ १३६ ॥

हिन्दी - भार ढोने तथा राह चलने से थके घोड़े को पहले धीरे - धीरे टहलाये, फिर उसे शक्कर और सत्तू मिलाकर घी पिलाये ॥१३६ ॥

भारेति । भारेण मार्गेण अध्वगमनेन च परिश्रान्तं हयम् अश्वं शनैः मन्दं मन्दं चङ्क्रामयेत् पुनः पुनः भ्रामयेत् पश्चात् चङ्क्रमणानन्तरं शर्कराभिः सक्तुभिश्च मिश्रितं स्नेहं तैलभेदं सम्पाययेत् ॥ १३६ ॥

हरिमन्थांश्च माषांश्च भक्षणार्थं मकुष्ठकान् ।

शुष्कानार्द्राश्च मांसानि सुस्विन्नानि प्रदापयेत् ॥ १३७ ॥

अन्वयः — भक्षणार्थं हरिमन्थान् माषान् मकुष्ठकान् शुष्कान् आर्द्रान् सुस्विन्नानि मांसानि प्रदापयेत् ॥ १३७ ॥

व्याख्या – भक्षणार्थम् = भोजनाय, हरिमन्थान् = चणकान्, माषान् = कुरुविन्दान्, मकुष्ठ-कान् = वन्यमुद्गान्, शुष्कान् = विरसान्, आर्द्रान् = क्लिन्नान्, सुस्विन्नानि = सुपक्वानि, मांसानि च, प्रदापयेत् = दद्यात् ॥ १३७ ॥

हिन्दी — और घोड़े को खाने के लिए चने, उडद तथा मोठ अर्थात् वनमूंग सूखे पानी भिंगोया हुआ दे और ठीक से पके मांस भी खिलाये ॥ १३७ ॥

५१ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 390

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 390 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८०२ शुक्रनीतिः हरीति । किञ्चेति चार्थः भक्षणार्थं हरिमन्थान् चणकान् माषान् मकुष्ठकान् वन्यमुद्गान् शुष्कान् आर्द्रान् आर्द्रकान् सुस्विन्नानि सुपक्वानि मांसानि च प्रदापयेत् ॥ १३६ ॥

यद्यत्र स्खलितं गात्रं तत्र दण्डं न पातयेत् ।

नावतारितपल्याणं हयं मार्गसमागतम् ।

दत्त्वा गुडं सलवणं बलसंरक्षणाय च ॥ १३८ ॥

अन्वयः – यदि अत्रापि स्खलितं गात्रं तत्र दण्डं न पातयेत् । अवतारितपल्याणं मार्गसमागतं हयं बलसंरक्षणाय सलवणं गुडं दत्त्वा न प्रहरेत् ॥ १३८ ॥

व्याख्या – यदि = चेत्, अत्राऽपि = चिकित्सितेऽपि, गात्रम् = शरीरम् स्खलितम् = पतितम्, तत्र = तस्मिन्स्थाने, दण्डम् = अश्वताडनीम्, न = नहि, पातयेत् = निपातयेत्, अवतारितम् = नामितम्, पल्याणम् = पर्याणम्, यस्य तथोक्तम्, मार्गसमागतम् = समागतस्य दूरवर्त्मनः, हयम् = घोटकम्, तथा बलसंरक्षणाय = शक्तिसंवर्द्धनाय, सलवणम् = लवणसहितम्, गुडम् = शर्कराम्, दत्त्वा कशाघातं न कुर्यात् ॥१३८ ॥

हिन्दी – यदि घोड़े को किसी अङ्ग में मोच लग जाय तो उस जगह चाबुक नहीं मारना चाहिए । राह चलकर आये थके घोड़े की पीठ से बिना जीन उतारे उसकी ताकत बढ़ाने के लिए उसे नमक मिला कर गुड़ पिलाना चाहिए ॥ १३८ ॥

यदीति । यदि अपिरत्राध्याहार्य्यः अत्रापि चिकित्सतेऽपीत्यर्थः, मात्रं स्खलितं श्लथीभूतम् अस्ति, तदा तत्र दण्डं न पातयेत् । किञ्च अवतारितं नामितं पल्याणं पृष्ठास्तरणं यस्य तथोक्तं मार्गसमागतं पथः समायातं हयं तथा बलसंरक्षणाय सलवणं गुडं दत्त्वा न प्रहरेदिति शेषः ॥१३८ ॥

गतस्वेदस्य शान्तस्य सुरूपमुपतिष्ठतः ।

मुक्तपृष्ठादिबन्धस्य खलीनमवतारयेत् ॥ १३ ९ ॥

अन्वयः — गतस्वेदस्य शान्तस्य सुरूपम् उपतिष्ठतः मुक्तपृष्ठादिबन्धस्य खलीनं अवतारयेत् ॥ १३ ९ ॥ व्याख्या — गतस्वेदस्य = विगतघर्मस्य, शान्तस्य = स्वस्थचित्तस्य, सुरूपम् = स्वाभाविका-वस्थायाम्, उपतिष्ठतः = स्थितस्य, मुक्तपृष्ठादिबन्धस्य = पल्ययनमुक्तपृष्ठस्य, अश्वस्य, खलीनम् = अवक्षेपणीम्, अवतारयेत् = उन्मोचयेत् ॥ १३ ९ ॥ हिन्दी — जब घोड़े का पसीना सूख जाय और घोड़ा शान्त होकर अपनी स्वाभाविक स्थिति में आ जाय तब उसकी पीठ से जीन खोलकर मुँह से लगाम निकाल ले ॥ १३ ९ ॥ गतस्वेदस्येति । गतस्वेदस्य विगतघर्मस्य शान्तस्य सुरूपं शोभनं यथा तथा उपतिष्ठतः स्थितस्य मुष्कपृष्ठादिषु बन्धो यस्य तादृशस्य अश्वस्य खलीलं कविकाम् अवतारयेत् भ्रंशयेत् ॥१३ ९ ॥

मर्दयित्वा तु गात्राणि पांशुमध्ये विवर्त्तयेत् ।

स्नानपानावगाहैश्च ततः सम्यक् प्रपोषयेत् ॥ १४० ॥

अन्वयः — गात्राणि मर्दयित्वा पांशुमध्ये विवर्त्तयेत् । ततः स्नानपानावगाहैः च सम्यक् प्रपोषयेत् ॥ १४० ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA