शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 391–400

शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 391–400

पृष्ठ 391

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 391 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८०३ व्याख्या — गात्राणि = शरीराणि, मर्दयित्वा = मर्दनं कृत्वा, पांशुमध्ये = धूलिमध्ये, विववर्तयेत् = सहसा विलुण्ठयेत्, ततः = तत्पश्चात्, स्नानपानावगाहैः- स्नानेन = आप्लवेन, पानेन = पीत्या, च = पुनः, अवगाहनेन = जले प्रविश्य विलोडनेन, सम्यक् = सुष्ठुतया, प्रपोषयेत् = पालयेत् ॥ १४० ॥

हिन्दी — और घोड़े को खरहरा कर के धूल में लोटने को छोड़ दे । फिर उसे बहलाकर, पानी पिला कर और पानी मैं तैराकर तरोताजा कर दे ॥ १४० ॥

मर्दयित्वेति । अथ गात्राणि मर्दयित्वा पांशुमध्ये धूलिमध्ये विवर्त्तयेत् उद्गण्ठयेत् ततः अनन्तरं स्नानपानावगाहैः स्नानेन पानेन अवगाहनेन च सम्यक् पोषयेत् पुष्टिं नयेत् ॥ १४० ॥

सर्वदोषहरोऽश्वानां जङ्गलयोः रसः ।

शक्त्या सम्पाययेत् क्षीरं घृतं वा वारि सक्तुकम् ॥। १४१ ॥

अन्वयः— मद्यजङ्गलयोः रसः सर्वदोषहरः शक्त्या क्षीरं घृतं वा वारि सक्तुकं सम्पाययेत् ॥ १४१ ॥

व्याख्या – मद्यजङ्गलयोः – मद्यस्य = मदिरायाः, जङ्गलस्य =: वन्यजीवानां मांसस्य, रसः = सारः, सर्वदोषहरः — सर्वेषाम् = सकलानाम्, दोषाणाम् = रक्तपित्तादिविकाराणाम्, हरः = विनाशकः, शक्त्या = = सामर्थ्यानुसारेण, क्षीरम् = दुग्धम्, घृतम् = आज्यम्, वा = अथवा, वारि = जलम्, सक्तुकम् = सक्तुयुतम्, सम्पाययेत् = सम्यक् प्रकारेण पानं कारयेत् ॥१४ ॥

हिन्दी - घोड़ों के लिए शराब तथा जंगली जीवों के मांस का रस पिलाना हर तरह के दोषों को मिटाने वाला है । अपनी शक्ति के अनुसार दूध, घी या पानी में सत्तू घोलकर पिलाना चाहिए ॥ १४१ ॥

सर्वेति । मद्यजङ्गलयोः सुरायाः जङ्गलस्य मांसस्य च रसः सर्वेषां दोषाणां हरः नाशकः शान्तिकर इत्यर्थः । किञ्च शक्त्या शक्त्यनुसारेण क्षीरं दुग्धं घृतं वा ससक्तुकं सक्तुसहितं वारि वा सम्पाययेत् ॥ १४१ ॥

अन्नं भुक्त्वा जलं पीत्वा तत्क्षणाद्वाहितो हयः ।

उत्पद्यन्ते तदाश्वानां कासश्वासादिका गदाः ॥ १४२ ॥

अन्वयः — अन्नं भुक्त्वा जलं पीत्वा हयः तत्क्षणात् वाहितः तदा अश्वानां कासश्वासादिकाः गदाः उत्पद्यन्ते ॥ १४२ ॥

व्याख्या — अन्नम् = भक्ष्यपदार्थम्, भुक्त्वा = खादित्वा, जलम् = सलिलम्, पीत्वा = पानं कृत्वा, हयः = = वाजी, तत्क्षणात् = तस्मादेव कालात्, वाहितः = आरोहितः, चेत्, तदा, अश्वानाम् = घोटकानाम्, कासश्वासादिकाः = एतदाख्याः, गदाः = = रोगाः, उत्पद्यन्ते = उत्पन्ना भवन्ति ॥१४२ ॥

हिन्दी - यदि दाना खिलाने के बाद पानी पिला कर उसी समय घोड़े पर सवारी की जाय तो उससे घोड़े को खाँशी और दमे की बीमारी हो जाती है ॥ १४२ ॥

अन्नमिति । अन्नं भुक्त्वा जलं पीत्वा स्थित इति शेषः, हयः अश्वः तत्क्षणात् वाहितः भवति चेत् तदा अश्वस्य कासश्वासादिकाः गदाः रोगाः उत्पद्यन्ते ॥ १४२ ॥

यवाश्च चणका: श्रेष्ठा मध्या माषा मकुष्ठकाः ।

नीचा मसूरा मुद्गाश्च भोजनार्थं तु वाजिनः ॥ १४३ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 392

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 392 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८०४ शुक्रनीतिः अन्वयः — वाजिनः भोजनार्थं यवाः चणकाः श्रेष्ठाः, माषाः मकुष्ठकाः मध्याः, मसूराः मुद्गाश्च नीचाः भवन्ति ॥ १४३ ॥

व्याख्या — वाजिनः = घोटकस्य, भोजनार्थम् = भक्षणाय, यवाः = प्रवेटाः, चणकाश्च, श्रेष्ठाः- : - उत्तमाः, माषाः = कुरुविन्दाः, मकुष्ठकाः = वन्यमुद्गाः, मध्याः = मध्यमस्तरीयाः, मसूराः = मसूरकाः, मुद्गाश्च, नीचाः = अधमाः भवन्ति ॥ १४३ ॥

हिन्दी — घोड़ों के भोजन के लिए जौ और चना देना उत्तम हैं, उड़द और मोठ मध्यम तथा मसूर और मूँग देना अधम हैं ॥१४३ ॥

यवा इति । वाजिनः अश्वस्य भोजनार्थं यवाः चणकाश्च श्रेष्ठाः माषाः मकुष्ठकाः वन्यमुद्गाः मध्याः मसूराः मुद्गाश्च नीचाः अधमाः ॥ १४३ ॥

गतय: षड्विधा धारास्कन्दितं रेचितं प्लुतम् ।

धौरीतकं वल्गितञ्च तासां लक्ष्म पृथक् पृथक् ॥ १४४ ॥

अन्वयः — गतयः षड्विधाः – धारा, आस्कन्दितम्, रेचितम्, प्लुतम्, धौरीतकं, वल्गितं च । तासां लक्ष्म पृथक् पृथक् ॥ १४४ ॥

व्याख्या - वाजीनाम्, गतयः = गमनानि षड्विधाः = षट्प्रकारकाः भवन्ति, धारा = वेगयुक्तगमनम्, आस्कन्दितम् = आकुञ्चिताभ्याम् अग्रपादाभ्यामुत्प्लुत्य गमनम्, रेचितम् = ईषदुत्प्लुत्या खण्डगमनम्, प्लुतम् = पादैश्चतुभिरुत्प्लुत्य मृगवद्गमनम्, धौरीतकम् = आकुञ्चि-ताभ्यां पद्भ्यां सुव्यक्तद्रुतगमनम्, च = पुनः, वल्गितम् = मयूर इव उन्नतग्रीवस्तथा दोलायितार्द्धदेहस्य कुञ्चिताभ्यां पद्भ्यां गमनम् । तासाम् = गतीनाम्, लक्ष्म = लक्षणं, पृथक् पृथक् = भिन्नं भिन्नम्, उच्यते इति शेषः ॥ १४४ ॥

हिन्दी — धारा, आस्कन्दित, रेचित, प्लुत, धौरीतक और वल्गित — इन छः भेदों से घोड़े

का गतिभेद माना गया है । अब इनके लक्षण अलग - अलग कहते हैं ॥ १४४ ॥

गतय इति । अश्वानां गतयः षड्विधाः, धारा १ । आस्कन्दितं २ । रेचितं ३ । प्लुतं ४ । धौरीतकं ५ । वल्गितञ्च ६ । तासां गतीनां लक्ष्म लक्षणं पृथक् पृथक् विभिन्नमित्यर्थः ॥१४४ ॥

धारागतिः सा विज्ञेया यातिवेगतरा मता ।

पार्ष्णितोदातिनुदितो यस्यां भ्रान्तो भवेद्धयः ॥ १४५ ॥

अन्वयः — या अतिवेगतरा मता, यस्यां पार्ष्णितोदातिनुदितः भ्रान्तः भवेत्, सा धारा गतिः विज्ञेया ॥ १४५ ॥

व्याख्या — या = गतिः, अतिवेगतरा = अत्यधिकवेगशालिनी, मता = ज्ञाता, यस्याम् = गत्याम्, घोटकः, पार्ष्णिभ्याम् = पादमूलाभ्याम्, तोदेन = आघातेन, अतिनुदितः = विशिष्टरूपेण प्रेरितः सन्, भ्रान्तः = चक्रवच्चालः, भवेत् = स्यात्, सा = गतिः, धारा गतिः = इत्याख्या, विज्ञेया = ज्ञातव्या ॥ १४५ ॥

हिन्दी — सवार की एडी की चोट से प्रेरित होकर जो घोड़ा अत्यन्त वेग से दौड़ लगाये, उस गति को धारागति कहते हैं ॥ १४५ ॥

धारेति । या गतिः अतिवेगतरा अतिवेगवती मता, यस्याञ्च हयः पार्ष्णिभ्यां तोदेन प्रहारेण अतिनुदितः अतिप्रेरितः सन् भ्रान्तः भवेत् सा धारा विज्ञेया ॥१४५ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 393

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 393 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८०५

आकुञ्चिताग्रपादाभ्यामुत्प्लुत्योत्प्लुत्य या गतिः ।

आस्कन्दिता च सा ज्ञेया गतिविद्भिस्तु वाजिनाम् ॥ १४६ ॥

अन्वयः -आकुञ्चिताभ्याम् अग्रपादाभ्याम् उत्प्लुत्य उत्प्लुत्य या गतिः सा वाजिनां विद्भिः आस्कन्दिता ज्ञेया ॥ १४६ ॥

व्याख्या – आकुञ्चिताभ्याम् = सङ्कोचिताभ्याम्, अग्रपादाभ्याम् = द्वाभ्यामग्रचरणाभ्याम्, उत्प्लुत्य उत्प्लुत्य = उत्पत्य उत्पत्य, या = = गतिः, साः = गतिः, वाजिनाम् = अश्वानाम्, विद्भिः:: = ज्ञातृभिः, आस्कन्दिता = एतदाख्या, ज्ञेया = बोद्धव्या ॥ १४६ ॥

हिन्दी — जो घोड़े अगले पैरों को सिकोड़ते हुए उछल - उछल कर दौड़े, उस घोड़े की गति को घोड़े की चाल के जानकार ' आस्कन्दित ' कहते हैं ॥ १४६ ॥

आकुञ्चितेति । आकुञ्चिताभ्याम् अग्रपादाभ्याम् उत्प्लुत्य उत्प्लुत्य या गतिः सा वाजिनां गतिविद्भिः आस्कन्दिता च ज्ञेया ॥ १४६ ॥

ईषदुत्प्लुत्य गमनमखण्डं रेचितं हि तत् ।

पादैश्चतुर्भिरुत्प्लुत्य मृगवत् सा प्लुता गतिः ॥ १४७ ॥

अन्वयः— ईषत् उत्प्लुत्य अखण्डं गमनं यत् तत् रेचितं, या चतुर्भिः पादैः उत्प्लुत्य मृगवत् गतिः सा प्लुता ॥ १८७ ॥

व्याख्या — ईषत् = अल्पम्, उत्प्लुत्य = उत्पत्य, अखण्डम् = क्रमिकम्, यत् = गमनम्, तत्, रेचितम् एतदाख्यम्, तथा या = गतिः, चतुर्भिः, पादैः = चरणैः, उत्पलुत्य = उत्पत्य, मृगवत् = हरिण इव, गतिः = गमनम्, सा = गतिः, प्लुता = एतदाख्या, स्मृता = कथिता ॥ १४७ ॥

हिन्दी - थोड़ा उछल कर लगातार चलने वाली घोड़े की गति को ' रेचित ' कहते हैं तथा चारों पैरों से हिरण की तरह चौकड़ी भर कर चलने वाली घोड़े की चाल को ' प्लुत ' कहते हैं ॥ १४७ ॥

ईषदिति । ईषत् उत्प्लुत्य अखण्डं क्रमिकं गमनं यत् तत् हि रेचितम् । या चतुर्भिः पादैः उत्प्लुत्य मृगवत् गतिः सा प्लुता ॥ १४७ ॥

असंवलितपद्भ्यां तु सुव्यक्तं गमनं तुरम् ।

धौरीतकं च तज्ज्ञेयं रथसंवाहने वरम् ॥ १४८ ॥

अन्वयः — असंवलितपद्भ्यां यत् सुव्यक्तं तुरं गमनं तत् धौरीतकं ज्ञेयम्, तत् रथसंवाहने वरम् ॥ १४० ॥

व्याख्या— अंसवलितपद्भ्याम् = असङ्कोचिताभ्याम्, पद्भ्याम् = चरणाभ्याम्, यत् सुव्यक्तम् = सुस्पष्टम्, तुरम् = द्रुतम्, गमनम् = गतिः, तत् धौरीतकम् = एतदाख्यम्, ज्ञेयम् = बोध्यम्, तत्, रथसंवाहने = स्यन्दनसंवाहने, वरम् = श्रेष्ठम्, ज्ञेयम् ॥ १४० ॥

हिन्दी – जो घोड़ा बिना अगले पैरों को मोड़े तेज गति से दौडे वह रथ में जोतने योग्य धौरीतक गति वाला जानना चाहिए ॥ १४८ ॥

असंवलितेति । असंवलिताभ्याम् अकुञ्चिताभ्यां पद्भ्यां यत् सुव्यक्तं तुरं द्रुतं गमनं तत् धौरीतकं ज्ञेयं, तत्तु रथसंवाहने वरं श्रेष्ठम् ॥ १४८ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 394

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 394 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८०६ शुक्रनीतिः

प्रसंवलितपद्भ्यां यो मयूरो धृतकन्धरः ।

दोलायितशरीरार्द्धकायो गच्छति वल्गितम् ॥ १४ ९ ॥

अन्वयः — मयूरः धृतकन्धरः दोलायितशरीरार्द्धकायः प्रसंवलितपद्भ्यां यः गच्छति स: वल्गितम् ॥ १४ ९ ॥ व्याख्या — मयूरः = शिखी, इव यः = अश्व, धृतकन्धरः = उन्नतग्रीवः, तथा दोलायितः = विचलितः, शरीस्य = देहस्य, अर्द्धकायः = भागार्द्धः, यस्य तथाभूतः सन्, प्रसंवलिताभ्याम् = कुञ्चिताभ्याम्, पद्भ्याम् = चरणाभ्याम्, यत् गच्छति = चलति, तत् वल्गितम् = एतदाख्यं कथितमिति शेषः ॥१४ ९ ॥ हिन्दी — अगले दोनों पैरों को सिकोड़े हुए, मयूर की तरह गर्दन ऊपर उठाये, आधी देह को हिंडोले की तरह हिलाते हुए जो घोड़ा दौडता है, उस चाल को वल्गित कहते हैं ॥१४ ९ ॥ प्रसंवलितेति । मयूरः इव यः अश्वः धृरकन्धरः उन्नतग्रीवः तथा दोलायितः शरीरस्य अर्द्धकायः अर्द्धभागः यस्य तथाभूतः सन् प्रसंवलिताभ्यां कुञ्चिताभ्यां पद्भ्यां यत् गच्छति तत् वल्गितम् ॥ १४ ९ ॥

परिणाहो वृषमुखादुदरे तु चतुर्गुणः ।

सककुत् त्रिगुणोच्चन्तु सार्द्धत्रिगुणदीर्घता ॥ १५० ॥

अन्वयः – वृषस्य मुखात् उदरे परिणाहः चतुर्गुणः सककुत् त्रिगुणोच्चं सार्द्धत्रिगुण-दीर्घता ॥ १५० ॥

व्याख्या – वृषस्य = बलीवर्दस्य, मुखात् = आननात्, उदरे = तुन्दे, परिणाहः = कुक्षिविस्तारः, चतुर्गुणः, सककुत् = अंसकुटसहितम्, त्रिगुणम् = त्रिगुणात्मकम्, मुखादिति, उच्चम् = उन्नतम्, सार्द्धत्रिगुणदीर्घता = मुखादुदरस्य दीर्घता = लम्बता, अर्द्धेण सहिता त्रिगुणा ज्ञेया ॥ १५० ॥

हिन्दी — बैल के मुँह के माप से चार गुना अधिक पेट का माप और बैल की पीठ पर के टिल्ले पेट सहित मुँह से तीन गुना ऊँचा तथा पेट की लम्बाई साढ़े तीन गुना अधिक होनी चाहिए ॥ १५० ॥

सम्प्रति वृषस्य विवरणमाचष्टे - परिणाह इति । वृषस्य मुखात् उदरे परिणाहः उदरविस्तार इत्यर्थः, चतुर्गुणः । सककुत् ककुत्सहितम् उदरं त्रिगुणं मुखादिति शेषः, उच्चम् उन्नतम् । सार्द्धत्रिगुणदीर्घता मुखात् उदरस्य दीर्घता सार्द्धत्रिगुणा ॥ १५० ॥

सप्ततालो वृषः पूज्यो गुणैरेभिर्युतो यदि ॥ १५१ ॥

अन्वयः — सप्ततालः वृषः यदि एभिः गुणैः युतः पूज्यः ॥ १५१ ॥

व्याख्या– सप्ततालः– परिमाणविशेषः, सप्त तालाः परिमाणमस्येति सप्ततालः, वृषः = वृषभः, यदि = चेत्, एभिः = वक्ष्यमाणैः, गुणैः, युतः = सहितः, भवेत् = स्यात्, तदा, श्रेष्ठः = पूज्यो भवेदिति ॥ १५१ ॥

हिन्दी — सात ताल प्रमाण ऊँचा होते हुए भी निम्नलिखित गुणों से युक्त यदि बैल हो तो वह बैल उत्तम होता है ॥ १५१ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 395

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 395 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८०७ सप्तताल इति । सप्ततालः तालः परिमाणविशेषः सप्ततालाः परिमाणमस्येति सप्ततालः वृषः यदि एभिर्वक्ष्यमाणैः गुणैः युतः भवेत् तदा पूज्यः ॥ १५१ ॥

न स्थायी न च वै मन्दः सुवोढा स्वङ्गसुन्दरः ।

नातिक्रूरः सुपृष्ठश्च वृषभः श्रेष्ठ उच्यते ॥। १५२ ॥

अन्वयः- यः वृषभः न स्थायी न च मन्दः सुवोढा स्वङ्गसुन्दरः नातिक्रूरः सुपृष्ठः वृषभः श्रेष्ठः उच्यते ॥ १५२ ॥

व्याख्या– यो हि, वृषभः = बलीवर्द:, न = नहि, स्थायी = गतिविच्छेदकः, न च मन्दः = सलसगतिशीलः, सुवोढा = सुवहनशीलः, स्वङ्गसुन्दरः: = सुपुष्टशरीरावयवैः रुचिरः, नाति-क्रूरः = नातिनिर्दयः, सुपृष्ठश्च = पश्चिमाङ्गसुन्दरः, वृषभः = वृषः, श्रेष्ठः = उत्तमः, उच्यते = कथ्यते ॥ १५२ ॥

हिन्दी — जो चलते - चलते रुकने वाला न हो, जो धीरे - धीरे न चलता हो, जो अत्यन्त क्रूर न हो, वहने में अच्छा हो, जिसकी पीठ अच्छी हो, जिसकी देह के समस्त अंग - प्रत्यंग सुपुष्ट एवं आकर्षक हो; बैलों में ऐसा बैल श्रेष्ठ होता है ॥ १५२ ॥

गुणानाह - नेति । यः वृषः न स्थायी न स्थितिशीलः, न च मन्दः मृदुः सुवोढा सुवाहकः, स्वङ्गसुन्दरः शोभनाङ्गतया सुन्दर इत्यर्थः, नातिक्रूरः नातितीक्ष्णः सुपृष्ठश्च सः वृषभश्रेष्ठः वृषभेषु श्रेष्ठः उच्यते ॥ १५२ ॥

त्रिंशद्योजनगन्ता वा प्रत्यहं भारवाहकः ।

नवतालश्च सुदृढः सुमुखोष्ट्रः प्रशस्यते ॥ १५३ ॥

अन्वयः — त्रिंशद्योजनगन्ता प्रत्यहं भारवाहकः वा नवतालः सुदृढः सुमुखोष्ट्रः प्रशस्यते ॥१५३ ॥

व्याख्या– विंशत्यधिकशतक्रोशगमनशीलः, प्रत्यहम् = प्रतिदिनम्, भारवाहकः = भारवाही, नवतालः = नवतालोन्नतः, सुदृढः = अतिबलिष्ठः, सुमुखः = सुवदनम्, उष्ट्रः = महाग्रीवः, प्रशस्यते = प्रशंसनीयो भवति ॥ १५३ ॥

हिन्दी – प्रतिदिन १२० कोश चलने वाला, वजन ढोने वाला, साढ़े चार हाथ ऊँचा, मजबूत कद - काठी और सुन्दर मुँह वाला ऊँट प्रशंसनीय होता है ॥ १५३ ॥

उष्ट्रमाह- त्रिंशदिति । त्रिंशद्योजनगन्ता विंशत्यधिकशतक्रोशगामी / प्रत्यहं भारवाहकः भारवहनशीलः नवतालः नवतालपरिमितः सुदृढः कठिनशरीरः सुमुखः उष्ट्रः प्रशस्यते ॥ १५३ ॥

शतमायुर्मनुष्याणां गजानां परमं स्मृतम् ।

मनुष्यगजयोर्बाल्यं यावद्विंशतिवत्सरम् ॥ १५४ ॥

अन्नयः – मनुष्याणां गजानाञ्च परमम् आयुः शतं स्मृतम् । मनुष्यगजयोः बाल्यं विंशतिवत्सरं यावत् ॥ १५४ ॥

व्याख्या — मनुष्याणाम् = नराणाम्, च = पुनः, गजानाम् = हस्तिनाम्, परमायुः = जीवनकालः, शतम् = शतवर्षपर्यन्तम्, स्मृतम् = कथितम् । मनुष्यगजयोः = नरहस्तिनोः, बाल्यञ्च = शैशवञ्च, विंशतिः, वत्सरम् = वर्षम्, यावत् = पर्यन्तमिति ज्ञेयम् ॥ १५४ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 396

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 396 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८०८ शुक्रनीति: हिन्दी — आदमी और हाथी का जीवनकाल सौ साल का होता है और उनका बचपन बीस साल तक माना जाता है ॥१५४ ॥

शतमिति । मनुष्याणां गजानाञ्च परमम् आयुः जीवनकालः शतं शतवर्षं स्मृतम् । मनुष्यगजयोः बाल्यञ्च विंशतिवत्सरं यावत् विंशतिवर्षपर्य्यन्तमित्यर्थः ॥१५४ ॥

नृणां हि मध्यमं यावत् षष्टिवर्षं वयः अशीतिवत्सरं यावद्गजस्य मध्यमं

अन्वयः – नृणां मध्यमं वयः षष्टिवर्षं यावत् स्मृतम् ।

यावत् ॥ १५५ ॥

व्याख्या – नृणाम् = नराणाम्, मध्यमम् = मध्यभागः, · षष्टिवत्सरम्, यावत् = पर्यन्तम्, तथा गजस्य = हस्तिनः, मध्यमं - = अशीतिवर्षम्, यावत् = पर्यन्तम्, बोध्यम् ॥ १५५ ॥

स्मृतम् ।

वयः ॥ १५५ ॥

गजस्य मध्यमं वयः अशीतिवत्सरं वयः = अवस्था, षष्टिवर्षम् = वय: = = प्रौढावस्था, अशीतिवत्सरम् हिन्दी – मानव की प्रौढावस्था साठ साल तक तथा हाथी की प्रौढावस्था अस्सी साल की मानी गई है ॥१५५ ॥

नृणामिति । नृणां मानवानां मध्यमं वयः षष्टिवर्षं यावत् तथा गजस्य अशीतिवत्सरं यावत् मध्यमं वयः स्मृतम् ॥ १५५ ॥

चतुस्त्रिंशत्तु वर्षाणामश्वस्यायुः परं स्मृतम् ।

पञ्चविंशतिवर्षं हि परमायुर्वृषोष्ट्रयोः ॥ १५६ ॥

अन्वयः — अश्वस्य परमायुः वर्षाणां चतुस्त्रिंशत् तथा वृषोष्ट्रयोः परमायुः पञ्चविंशतिवर्षं स्मृतम् ॥ १५६ ॥

व्याख्या - अश्वस्य = घोटकस्य, परमायुः = जीवनकालः, वर्षाणाम् = वत्सराणाम्, चतुः-त्रिंशत् = चतुरधिकत्रिंशत्वर्षपरिमितम्, स्मृतम् = कथितम् । तथा वृषोष्ट्रयोः वृषस्य = बलीवर्दस्य, च = पुनः, उष्ट्रस्य = महाङ्गस्य, परमायुः = जीवनकालः, पञ्चविंशतिवर्षम् = पञ्चाधिकविंशतिवर्षपर्यन्तम्, स्मृतम् = कथितम् ॥ १५६ ॥

हिन्दी — घोड़े की परमायु चौंतीस वर्ष की मानी गई है तथा बैल और ऊँट की परमायु पच्चीस वर्ष तक की ही मानी गई है ॥ १५६ ॥

चतुस्त्रिंशदिति । अश्वस्य परम् आयुः वर्षाणां चतुस्त्रिंशत् चतुस्त्रिंशद्वर्पमित्यर्थः, तथा वृषोष्ट्रयोः वृषस्य उष्ट्रस्य च परमायुः पञ्चविंशतिवर्षं स्मृतम् ॥ १५६ ॥

बाल्यमश्ववृषोष्ट्राणां पञ्चमं वत्सरं मतम् ।

मध्यं यावत् षोडशाब्दं वार्द्धक्यन्तु ततः परम् ॥ १५७ ॥

अन्वयः — अश्ववृषोष्ट्राणां बाल्यं पञ्चमं वत्सरं, मध्यं षोडशाब्दं यावत्, ततः परं वार्द्धक्यं मतम् ॥ १५७ ॥

व्याख्या — अश्वस्य = वाजिनः, वृषस्य = बलीवर्दस्य, उष्ट्रस्य = क्रमेलकस्य च, बाल्यम् = शैशवम्, पञ्चमं वत्सरम् = पञ्चवर्षपर्यन्तम्, मध्यम् = तारुण्यम्, षोडशाब्दम् = षोडवर्षपर्यन्तम्, ततः परम् = तत्पश्चात्, वार्द्धक्यम् = वृद्धावस्था, स्मृतम् = कथितम् ॥ १५७ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 397

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 397 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८० ९ हिन्दी — घोड़ा, बैल और ऊँटों का बचपन पाँच साल तक होता है, जवानी सोलह तक होती है और इसके बाद वृद्धावस्था आ जाती है ॥ १५७ ॥

बाल्यमिति । अश्ववृषोष्ट्राणाम् अश्वानां वृषाणाम् उष्ट्राणाञ्च बाल्यं शैशवं पञ्चमं वत्सरं यावत्, मध्यं यौवनमित्यर्थः, षोडशाब्दं यावत् ततः परं वार्द्धक्यं स्मृतम् ॥१५७ ॥

दन्तानामुद्गमैर्वर्णैरायुर्ज्ञेयं वृषाश्वयोः ॥ १५८ ॥

अन्वयः — दन्तानाम् उद्गमैः वर्णैश्च वृषाश्वयोः आयुः ज्ञेयम् ॥ १५८ ॥

व्याख्या —– दन्तानाम् = दशनानाम्, उद्गमैः = जननैः, वर्णैश्च = स्वरूपैश्च, वृषस्य = बलीवर्दस्य, अश्वस्य = हयस्य च, आयुः = वयः, ज्ञेयम् = बोध्यम् ॥ १५८ ॥

हिन्दी - बैल तथा घोड़े की उम्र का ज्ञान उनके दाँत निकलने तथा दाँतों के रंग - रूप से किया जाता है ||| १५८ ॥ दन्तानामिति । दन्तानाम् उद्गमैः जननैः वर्णैश्च वृषाश्वयोः वृषस्य अश्वस्य च आयुः ज्ञेयम् ॥ १५८ ॥

अश्वस्य षट् सिता दन्ताः प्रथमाब्दे भवन्ति हि ।

कृष्णलोहितवर्णास्तु द्वितीयेऽब्दे ह्यधोगताः ॥ १५ ९ ॥

अन्वयः - अश्वस्य प्रथमाब्दे षट् सिताः दन्ताः भवन्ति । कृष्णलोहितवर्णाः तु द्वितीये अब्दे अधोगताः हि ॥ १५ ९ ॥ व्याख्या — अश्वस्य = घोटकस्य, प्रथमाब्दे = प्रथमवर्षे, षट् सिताः = श्वेतवर्णाः षट्, दन्ताः = रदनाः, भवन्ति = जायन्ते, द्वितीये अब्दे = पुनः द्वितीयवर्षे, कृष्णलोहितवर्णाः = श्यामरक्तरङ्गाः, दन्ताः, अधोगताः = निम्नगामिनः, हि इति निश्चयेन, भवन्ति = जायन्ते ॥ १५ ९ ॥ हिन्दी — पहले वर्ष घोड़े के ऊपरी भाग में छ: सफेद दाँत निकलते हैं और दूसरे साल में काले लाल मिले रंग के छः दाँत नीचे निकलते हैं ॥ १५ ९ ॥ अश्वस्येति । अश्वस्य प्रथमाब्दे जननप्रथमवत्सरे षट् सिता श्वेतवर्णाः दन्ताः भवन्ति । द्वितीये अब्दे कृष्णलोहितवर्णाः अधोगताः निम्नगामिनः भवन्ति हिशब्दश्चावधारणार्थः ॥ १५ ९ ॥

तृतीयेऽब्दे तु सन्दंशौ क्रमात् कृष्णौ षडब्दत: ।

तत्पार्श्ववर्त्तिनौ तौ तु चतुर्थे पुनरुद्गतौ ॥

अन्वयः — तृतीयेऽब्दे सन्दंशौ षडब्दतः क्रमात् कृष्णौ, चतुर्थे तु तत् उद्गतौ ॥ १६० ॥

व्याख्या — तृतीयेऽब्दे = तृतीयवर्षे तु, सन्दंशौ = द्वे रदने, षडब्दतः = -= क्रमशः, कृष्णौ = श्यामवर्णौ भवतः, तथा चतुर्थे = तुरीये, वर्षे, पार्श्ववर्त्तिनौ = समीपस्थितौ तौ = दन्तौ, पुनः भूयः, उद्गतौ = जातौ ॥ १६० ॥ पार्श्ववर्त्तिनौ तौ पुनः षड्वर्षपर्यन्तम्, क्रमात् तत् = तयोः रदनयोः, १६० ॥ हिन्दी – तीसरे साल में दो दाँत छः साल तक क्रमशः काले हो जाते हैं और चौथे साल उन दोनों दाँतों के बगल में और दो दाँत निकल आते हैं ॥१६० ॥

तृतीये इति । तृतीये अब्दे वत्सरे तु सन्दंशौ, दशनौ च षडब्दतः षड्वर्षपर्यन्तं क्रमात् कृष्णौ भवतः । चतुर्थे तु वर्षे तयोः दशनयोः पार्श्ववर्त्तिनौ तौ दशनौ पुनः उद्गतौ भवत इति शेषः ॥ १६० ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 398

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 398 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८१० शुक्रनीतिः

अन्त्यौ द्वौ पञ्चमाब्दे तु सन्दंशौ पुनरुद्गतौ ।

मध्यपार्श्वान्तगौ द्वौ द्वौ क्रमात् कृष्णौ षडब्दतः ॥ १६१ ॥

अन्वयः – पञ्चमाब्दे अन्त्यौ द्वौ सन्दंशौ पुनरुद्गतौ, मध्यपाश्र्वान्तगौ द्वौ द्वौ षडब्दतः क्रमात् कृष्णौ ॥१६१ ॥

व्याख्या – पञ्चमाब्दे = पञ्चमे वर्षे, अन्त्यौ = अन्ते समुत्पन्नौ द्वौ = उभौ, सन्दंशौ = सुष्ठुदशनौ, पुनः = भूयः, उद्गतौ = समुत्पन्नौ, भवतः, मध्यपाश्र्वान्तगौ = मध्ये समुत्पन्नौ तथा पार्श्वन्तभागे जातौ द्वौ द्वौ रदनौ, षडब्दतः = = षड्वर्षपर्यन्तम्, क्रमात् = अनुक्रमात्, कृष्णौः = श्यामवर्णौ जातौ ॥१६१ ॥

हिन्दी — पाँचवें साल के अन्त में फिर दो दाँत निकल आते हैं । छः साल के भीतर क्रमशः बीच के तथा पार्श्ववर्त्ती अन्तिम दो - दो दाँत काले हो जाते हैं ॥ १६१ ॥

अन्त्याविति । पञ्चमाब्दे पञ्चमवर्षे अन्त्यौ अन्तेभवौ द्वौ सन्दंशौ पुनरुद्गतौ भवतः । मध्यपार्वान्तगौ मध्यपार्श्वयोः अन्तगौ द्वौ द्वौ दशनौ पडब्दतः पड्वर्षं यावत् क्रमात् कृष्णौ भवतः ॥ १६१ ॥

नवमाब्दात् क्रमात् पीतौ तौ सितौ द्वादशाब्दतः ।

दशपञ्चाब्दतस्तौ तु काचाभौ क्रमशः स्मृतौ ॥ १६२ ॥

अन्वयः -तौ क्रमात् नवमाब्दात् पीतौ, ततः द्वादशाब्दतः सितौ, ततः दशपञ्चाब्दतः तौ क्रमशः काचाभौ स्मृतौ ॥१६२ ॥

व्याख्या- – तौ = दशनौ, क्रमात् = क्रमशः, नवमाब्दात् नवमवर्षात्, पीतौ = पीतवर्णौ, जातौ, ततः = तत्पश्चात्पुनः द्वादशाब्दतः = द्वादशवर्षं यावत् तौ दशनौ, सितौ = श्वेतवर्णौ भवतः, ततश्च = तत्पश्चात्, दशपञ्चाब्दतः = पञ्चदशवर्षात्, तौ = दन्तौ, क्रमशः = अनुक्रमात्, काचाभौ = - स्फटिक इव समुज्ज्वलौ, स्मृतौ = कथितौ ॥ १६२ ॥

हिन्दी— नौवें साल से वे दोनों दाँत क्रमशः पीले रंग के, उसके बाद पुनः बारहवें साल में सफेद रंग के हो जाते हैं । फिर पन्द्रहवें साल तक वे दोनों काँच की तरह उज्ज्वल हो जाते ॥ १६२ ॥

नवामाब्दादिति । तौ दशनौ क्रमात् नवमाब्दात् पीतौ, ततः पुनः द्वादशाब्दतः सितौ श्वेतौ । ततश्च दशपञ्चाब्दतः पञ्चदशवर्षात् तौ क्रमशः काचाभौ काचवदुज्ज्वलौ स्मृतौ ॥ १६२ ॥

अष्टादशाब्दतस्तौ हि मध्वाभौ भवतः क्रमात् ।

शङ्खाभौ चैकविंशाब्दाच्चतुर्विंशाब्दतः सदा ॥

छिद्रं सञ्चलनं पातो दन्तानाञ्च त्रिके त्रिके ॥ १६३ ॥

अन्वयः — तौ अष्टादशाब्दतः क्रमात् मध्वाभौ भवतः । ततः एकविंशाब्दात् शङ्खाभौ भवतः । ततः चतुर्विंशाब्दतः त्रिके त्रिके क्रमात् दन्तानां छिद्रं सञ्चलनं पातश्च भवति ॥ १६३ ॥

व्याख्या —– पुनश्च, तौ = दशनौ, अष्टादशाब्दतः = अष्टाधिकदशवत्सरात्, क्रमात् = क्रमशः, मध्वाभौ = मधु_इव कान्तिसम्पन्नौ भवतः । ततश्च = तत्पश्चात्, एकविंशाब्दात् = एकाधिक-विंशतिवर्षात्, शङ्खाभौ = शङ्खसदृशौ भवतः । ततः = तत्पश्चात्, चतुर्विंशाब्दतः = CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 399

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 399 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८११ चतुरधिकविंशत्यब्दात्, त्रिके त्रिके = तृतीये तृतीये वर्षे, क्रमात् = अनुक्रमात्, दन्तानाम् = दशनानाम्, छिद्रम् = विवरम्, सञ्चलनम् = वेपनं कम्पनञ्चेति, पातः = पतनञ्च भवति ॥ १६३ ॥

हिन्दी — फिर अठारहवें साल तक उन दानों दाँतों का रंग मधु की तरह रक्ताभ हो जाता है । पुनः इक्कीसवें साल तक उनका रंग शंख की तरह सफेद हो जाता है । फिर चौबीसवें साल तक तीन - तीन दाँतों में पहले छेद होता है, फिर हिलने लगते हैं और बाद में उनका टूट कर गिरना शुरू हो जाता है ॥ १६३ ॥

अष्टादशाब्दत इति । पुनश्च तौ अष्टादशाब्दतः अष्टादशवर्षात् क्रमात् मध्वाभौ मधुसदृशौ भवतः । ततश्च एकविंशाब्दात् शङ्खाभौ भवतः । ततः चतुर्विंशाब्दतः त्रिके त्रिके तृतीये तृतीये वर्षे क्रमात् दन्तानां छिद्रं सञ्चलनं पातश्च भवति ॥ १६३ ॥

प्रोथे सुवलयस्तिस्रः पूर्णायुर्यस्य वाजिनः ।

यथा यथा तु हीनास्ता हीनमायुस्तथा तथा ॥ १६४ ॥

अन्वयः — यस्य वाजिनः पूर्णायुः तस्य प्रोथे तिस्रः सुवलयः ताः यथा यथा हीनाः तथा तथा हीनमायुः ॥ १६४ ॥

व्याख्या — यस्य = पूर्वोक्तस्य, वाजिनः = हयस्य, पूर्णायुः = जीवनकालसमाप्तप्रायः, तस्य = अश्वस्य, प्रोथे = अश्वस्य लम्बास्याये, तिस्रः = त्रिसंख्यकाः, सुवलयः = सुरेखाः, जायन्ते, ताः = वलयः, यथा यथा = येन प्रकारेण, हीनाः = वियुक्ताः, तथा तथा = तेनैव रूपेण, आयुः = वयः, हीनम् = क्षीणम्, भवन्ति ॥ १६४ ॥

हिन्दी — जिस घोड़े के थूथन में तीन रेखाएँ ऊभरी हों, उसे पूर्णायु माने और इन रेखाओं में जैसे - जैसे कमी हो वैसे - वैसे ही क्षीण आयु मानना चाहिए ॥ १६४ ॥

प्रोथे इति । यस्य वाजिनः अश्वस्य पूर्णायुः आयुः पूर्णमित्यर्थः, तस्य प्रोथे मुखाग्रे तिस्रः सुवलयः सुष्ठु वलयः रेखाविशेषाः भवन्तीत्यर्थः । ताः रेखाः यथा यथा हीना:, तथा तथा आयुः हीनं भवति ॥ १६४ ॥

जानूत्पाता त्वोष्ठवाद्यो धूतपृष्ठो जलासनः ।

गतिमध्यासनः पृष्ठपाती पश्चाद्गमोर्ध्वपात् ॥ १६५ ॥

सर्पजिह्वश्चर्क्षकान्तिर्भीरुरश्वोऽतिनिन्दितः I सच्छिद्रभालतिलकी निन्द्य आश्रयकृत्तथा ॥ १६६ ॥

अन्वयः — जानूत्पाता ओष्ठवाद्यः धूतपृष्ठः जलासनः गतिमध्यासनः पृष्ठपाती पश्चाद्गमः उर्ध्वपात् सर्पजिह्वः ऋक्षकान्तिः भीरुः अश्वः अतिनिन्दितः तथा सच्छिद्रभालतिलकी आश्रयकृत् अश्वः निन्द्यः ॥ १६५-१६६ ॥ व्याख्या — जानूत्पाता — जानूनि = ऊरुपर्वाणि, उत्पाति = उत्क्षिपति, इति जानूत्पाता = जानूत्क्षेपणकारी, ओष्ठवाद्यः - ओष्ठेन - = अधरेण, वाद्यः = - वादयिता, ओष्ठवाद्यः = अधरवादकः, धूतपृष्ठः = कम्पितपृष्ठदेशः, जलासनः = सलिलस्थाने स्थितः गतिमध्यासनः = गमनान्तराले स्थितिशीलः, पृष्ठपाती = पृष्ठात्पातयालुः, पश्चाद्गमः = अनुगमनकारी, ऊर्ध्वपात् = उत्क्षिप्तपाद्, , सर्पजिह्वः – सर्पस्य = नागस्य इव, जिह्वा = रसना, यस्य सः नागजिह्वः, ऋक्षकान्तिः-CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 400

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 400 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८१२ शुक्रनीतिः ऋक्षस्य = भल्लुकस्य, इव_ कान्तिः = आभा, यस्यासौ, भीरुः = भीतः अश्वः = घोटकः, अतिनिन्दितः = अत्यन्तगर्हितः, तथा = तेनैव प्रकारेण, सच्छिद्रभालतिलकी — सच्छिद्रम् = रन्ध्रेण सहितम्, भाले = ललाटे, यत् तिलकम् = तिलकचिह्नयुक्तः, आश्रयकृत् — आश्रयम् = स्वामिनम्, कृन्तति = कर्त्तनं करोतीति तथोक्तः स्वामिहन्ता, अश्वः = हयः, निन्द्यः = निन्दनीयो भवति ॥ १६५-१६६ ॥ हिन्दी — जाँघों को हिलाने वाला, होठों को बजाने वाला, पीठ कँपाने वाला, पानी में या चलते - चलते बैठ जाने वाला, पीठ पर से सवार को गिराने वाला, पीछे की ओर खिसकने वाला, पैरों को ऊपर की ओर फेंकने वाला, साँप की तरह जीभ लपलपाने वाला, भालू की तरह कान्ति वाला और डरपोक घोड़ा अत्यन्त निन्दनीय होता है । इसी तरह जिस घोड़े के माथे में छेद वाला तिलक चिह्न हो, वह भी निन्दनीय तो होता ही है, साथ ही अपने आश्रयदाता का ही नाश कर देता है ॥ १६५-१६६ ॥ जानूत्पाता इति । सर्पजिह्व इति । जानूनि उत्पाति उत्क्षिपतीति जानूत्पाता जानूत्क्षेपणशीलः ओष्ठवाद्यः ओष्ठेन वाद्यकारकः, धूतपृष्ठः कम्पितपृष्ठदेशः, जलासनः जलस्थानस्थितः गतिमध्यासनः गतिमध्ये गमनमध्ये आसनम् उपवेशनं यस्य सः गच्छन् गच्छन् स्थितिशील इत्यर्थः, पृष्ठपाती पृष्ठपातकः पश्चाद्गमः पश्चाद्गमनशीलः उर्ध्वपाद् उत्क्षिप्तचरणः, सर्पस्येव जिह्वा यस्य सः, ऋक्षकान्तिः भल्लूकप्रभः, तथा भीरुः अश्वः अतिनिन्दितः । तथा सच्छिद्र भालतिलकी सच्छिद्रं सरन्ध्रं भाले यत् तिलकं तिलकाकृतिचिह्नविशेषः तद्विशिष्टः आश्रयकृत् आश्रयं कृन्तति छिनत्तीति तथोक्तः आश्रयध्वंसकारकः अश्वः निन्द्यः ॥ १६५ -१६६ ॥

वृषस्याष्टौ सिता दन्ताश्चतुर्थेऽब्देऽखिलाः स्मृताः ।

द्वावन्त्यौ पतितोत्पन्नौ पञ्चमेऽब्दे हि तस्य वै ॥ १६७ ॥

अन्वयः — वृषस्य चतुर्थेऽब्दे अखिलाः सिताः अष्टौ दन्ताः स्मृताः । तस्य पञ्चमेऽब्दे अन्त्यौ द्वौ वै पतितोत्पन्नौ ॥ १६७ ॥

व्याख्या – वृषस्य = बलीवर्दस्य, चतुर्थे = तुरीये, अब्दे = वर्षे, अखिलाः = समग्राः, सिताः = श्वेतवर्णाः, अष्टौ दन्ताः = दशनाः, जाताः, इति स्मृताः = कथिताः । तस्य =: वृषभस्य, पञ्चमेऽब्दे = पञ्चमे वर्षे, अन्त्यौ = अन्तिमौ द्वौ = उभौ, दन्तौ पतित्वा = स्खलित्वा, पुनः उत्पन्नौ = समुद्भूतौ भवतः, हि, इत्यवधारणे, वै इति निश्चये ॥१६७ ॥

हिन्दी- -चार साल की उम्र तक बैलों के सभी सफेद दाँत निकल आते हैं और पाँचवें साल अन्तिम दो दाँत गिरकर फिर निकल आते हैं ॥ १६७ ॥

वृषस्येति । वृषस्य चतुर्थे अब्दे अखिलाः समग्राः सिताः श्वेतवर्णाः अष्टौ दन्ताः स्मृताः । तस्य पञ्चमे अब्दे वर्षे अन्त्यौ चरमौ द्वौ दन्तौ पतितोत्पन्नौ पतित्वा पुनरुत्पन्नौ भवत इत्यर्थः, हिशब्दः अवधारणार्थः, वैशब्दश्च पादपूरणार्थः ॥ १६७ ॥

षष्ठे तूपान्त्यौ भवतः सप्तमे तत्समीपगौ ।

अष्टमे पतितोत्पन्नौ मध्यमौ दशनौ खलु ॥ १६८ ॥

अन्वयः — षष्ठे तु उपान्त्यौ दशनौ भवतः, सप्तमे तत्समीपगौ मध्यमौ दशनौ, अष्टमे खलु पतितोत्पन्नौ ॥ १६८ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA