शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 41–50

शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 41–50

पृष्ठ 41

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 41 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य प्रथमं प्रकरणम् ४५३ अन्वयः — यः सहायगौरवात् विद्यामदात् च बलदर्पतः पापं करोति, तं तु सदा बन्धयेत् च ताडयेत् ॥८ ९ ॥ व्याख्या — यः = जनः; सहायस्य = सहायकस्य, गौरवात् = अहङ्कारात्, विद्यामदात्— विद्यायाः = ज्ञानस्य, मदात् = दर्पात्, च = पुनः, बलदर्पत. — बलस्य = पराक्रमस्य, दर्पतः = अभिमानात्, पापम् = अपराधम्, करोति = निष्पादयति, तम् = जनम्, तु, सदा = सर्वदा, बन्धयेत् = कारागारेऽवरुन्ध्यात्, च = पुनः, ताडयेत् = प्रहरणं कुर्यादिति ॥ ८ ९ ॥ हिन्दी – जो व्यक्ति अपने सहायक,, अपनी विद्या या अपने बल के दर्प से पाप या अपराध करता है, उसे सदा के लिए जेल में डाल देना चाहिए या मार - पीटकर ठीक करना चाहिए ॥ ८ ९ ॥ सहायेति । यः सहायस्य गौरवात् विद्यामदात् विद्याजनिताहङ्कारात् तथा बलदर्पतः सामर्थ्याहङ्कारात् पापं करोति तं तु सदा बन्धयेत् कारायाम् अवरुन्ध्यात् ताडयेच्च ॥८ ९ ॥

भार्य्या पुत्रश्च भगिनी शिष्यो दासः स्नुषानुजः ।

कृतापराधास्ताड्यास्ते तनुरज्जुसुवेणुभिः ॥ ९ ० ॥

पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथञ्चन ।

अतोऽन्यथा तु प्रहरंश्चोरवद्दण्डमर्हति ॥ ९ १ ॥

अन्वयः- भार्य्या पुत्रः भगिनी शिष्यः दासः स्नुषा अनुजः ते कृतापराधाः तनुभिः रज्जुभिः सुवेणुभिः शरीरस्य पृष्ठतस्तु ताड्याः । कदाचन उत्तमाङ्गे न, अन्यथा तु प्रहरन् चोरवत् दण्डम् अर्हति ॥ ९ ० - ९ १ ॥ व्याख्या – भार्य्या = पत्नी, पुत्रः = सुतः, भगिनी = सोदरा, शिष्यः = छात्रः, दासः =: सेवकः, स्नुषा = पुत्रवधूः, अनुजः = कनिष्ठभ्राता, ते = सर्वे, कृतापराधाः = अपराधिनः, तनुभिः = प्रतनुभिः, रज्जुभिः = दामभिः, सुवेणुभिः = कोमलवंशखण्डैः, शरीरस्य = देहस्य, पृष्ठतः = पृष्ठभागे, ताड्याः = प्रहरणीयाः । कदाचन = कथमपि, उत्तमाङ्गे = शिरसि, न = नहि, ताड्याः, अन्यथा तु इत्यव्यये, प्रहरन् = प्रहारं कुर्वन्, चोरवत् = तस्कर इव, दण्डम् = दमनम्, अर्हति = योग्यो भवति ॥ ९ ० - ९ १ ॥ हिन्दी — अपनी पत्नी, पुत्र, छोटी बहन, छात्र, नौकर, पतोहू और छोटा भाई यदि अपराध करे तो चाबुक या पतली छड़ी से पीटना चाहिए । पिटाई पीठ की हो, शिर की नहीं । जो व्यक्ति इनकी पीठ छोड़कर शरीर के अन्य अङ्ग पर प्रहार करता है, उसे चोर की तरह दण्ड देना चाहिए ॥ ९ ० - ९ १ ॥ भार्य्येति । पृष्ठत इति । भार्य्या पुत्रः भगिनी शिष्यः दासः, स्नुषा पुत्रवधूः अनुजः कनिष्ठभ्राता, ते कृतापराधाः तनुभिः रज्जुभिः सुवेणुभिः शरीरस्य पृष्ठतस्तु पृष्ठभागे एव ताड्याः प्रहार्य्याः कदाचन उत्तमाङ्गे शिरसि न ताड्या इत्यर्थः, अतः अस्मात् उक्तात् अन्यथा अन्यप्रकारेण तु प्रहरन् चोरवत् तस्कर इव दण्डम् अर्हति ॥९ ० - ९ १ ॥ नीचकर्मकरं कुर्य्याद् बन्धयित्वा तु पापिनम् ।

मासमात्रं त्रिमासं वा षण्मासं वापि वत्सरम् ।

यावज्जीवं तु वा कश्चित् न कश्चिद् वधमर्हति ॥ ९ २ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 42

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 42 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४५४ शुक्रनीतिः अन्वयः — कश्चित् पापिनं मासमात्रं त्रिमासं वा षण्मासं वापि वत्सरं वा यावज्जीवं बन्धयित्वा नीचकर्मकरं कुर्यात्, किन्तु कश्चित् वधं न अर्हति ॥९ २ ॥ व्याख्या — कश्चित् = कोऽपि, पापिनम् = अपराधिनम्, मासमात्रम् = मासमेकावधिम्, त्रिमासम् = मासत्रयावधिम्, वा = अथवा, षण्मासम् = षण्मासावधिम्, वा, वत्सरम् = वर्षमेकम्, वा = अथवा, अपराधानुसारम्, यावज्जीवनम् = आजीवनम्, बन्धयित्वा = कारागारे निक्षिप्य, नीचकर्मकरम् = मलवाहादिनीचकर्मकारिणम् कुर्यात् = विदध्यात्, किन्तु कश्चित् = कोऽपि, वधम् = मृत्युदण्डम्, न = नहि, अर्हति = योग्यो भवति॥९ २ ॥ हिन्दी — किसी भी अपराधी को एक महीना, तीन महीना, छ: महीना, पूरा साल अथवा जीवनभर कैद की सजा देकर मल - मूत्रादि फेंकवाने जैसे नीच कर्म कराये; किन्तु किसी को भी मृत्युदण्ड नहीं देना चाहिए॥९ २ ॥ नीचकर्मेति । कञ्चित् पापिनं मासमात्रं त्रिमासं वा षण्मासं वा वत्सरं वा यावज्जीवं व्याप्य बन्धयित्वा कारायां निरुध्य नीचकर्मकरं निकृष्टकर्मकारिणं कुर्यात्, किन्तु कश्चित् कोऽपि वधं वधदण्डं न अर्हति॥९ २ ॥

न निहन्याच्च भूतानि त्विति जागर्त्ति वै श्रुतिः ।

तस्मात् सर्वप्रयत्नेन वधदण्डं त्यजेत् नृपः ॥ ९ ३ ॥

अन्वयः — भूतानि न निहन्यात्, इति श्रुतिः जागर्त्ति वै । तस्मात् नृपः सर्वप्रयत्नेन वधदण्डं त्यजेत्॥९ ३ ॥ व्याख्या – भूतानि = प्राणिनः, न = = नहि, निहन्यात् = हननं कुर्यात्, इति = इत्थम्, श्रुतिः = वेदवचनम्, जागर्त्ति = बोधयति, वै = इति निश्चयेन । तस्मात् = तेन हेतुना, नृपः = राजा, सर्वप्रयत्नेन = सर्वतोभावेन, वधदण्डम् = मृत्युदण्डम् त्यजेत् = परिहरेत् ॥ ९ ३ ॥ हिन्दी - वेद का वचन है- किसी की हत्या नहीं करनी चाहिए । अतः राजा को प्रयास-पूर्वक किसी को मृत्युदण्ड नहीं देना चाहिए ॥ ९ ३ ॥ नेति । भूतानि प्राणिनः न निहन्यात् इति श्रुतिः जागर्त्ति, वैशब्दोऽवधारणार्थः । तस्मात् नृपः सर्वप्रयत्नेन वधदण्डं त्यजेत् ॥९ ३ ॥

अवरोधाद् बन्धनेन ताडनेन च कर्षयेत् ।

लोभान्न कर्षयेद्राजा धनदण्डेन वै प्रजाम् ॥ ९ ४ ॥

अन्वयः — राजा अवरोधात् बन्धनेन ताडनेन च प्रजां कर्षयेत्, लोभात् धनदण्डेन वै न कर्षयेत् ॥९ ४ ॥ व्याख्या — राजा = नृपतिः, अवरोधात् = निरोधात्, बन्धनेन = कारायां स्थापनेन, ताडनेन = प्रहरणेन, च, प्रजाम् = जनान्, कर्षयेत् = पीडयेत्, लोभात् = परद्रव्याभिलाषात्, धनदण्डेन = अर्थदण्डेन, प्रजाम्, न = नहि, कर्षयेत् = पीडयेत् ॥९ ४ ॥ हिन्दी — हाथो में कड़ी, पैरों में बेड़ी देकर जेल में डाल देना, मारना पीटना, पीड़ा पहुँचाना उचित है; किन्तु लोभवश प्रजा को अर्थदण्ड से पीड़ित करना उचित नहीं है ॥९ ४ ॥ अवरोधादिति । राजा अवरोधात् बन्धनेन ताडनेन प्रहारेण च प्रजां कर्षयेत् पीडयेत्, लोभात् -धनदण्डेन न कर्षयेत् ॥९ ४ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 43

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 43 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य प्रथमं प्रकरणम् ४५५

नासहायास्तु पित्राद्या दण्ड्याः स्युरपराधिनः ।

क्षमाशीलस्य वै राज्ञो दण्डग्रहणमीदृशम् ॥ ९ ५ ॥

अन्वयः — अपराधिनः असहायाः पित्राद्याः न दण्ड्याः स्युः वै । क्षमाशीलस्य राज्ञः ईदृशं दण्डग्रहणम् ॥ ९ ५ ॥ व्याख्या — अपराधिनः = पापिनो जनस्य, असहायाः = निराश्रयाः, पित्राद्याः = परिजनाः, न = नहि, दण्ड्याः = दमनीयाः, स्युः = भवेयुः । वै = इति निश्चयेन । क्षमाशीलस्य = गुणिनः, राज्ञः = नृपस्य, ईदृशम् = पूर्वोक्तरूपम्, दण्डग्रहणम् = दमनम् इति ॥९ ५ ॥

हिन्दी— अपराधी के असहाय माता - पिता या आश्रितजनों को दण्ड नहीं देना चाहिए ।

क्षमावान् राजा को इस प्रकार ही अपराधी को दण्डित करना चाहिए ॥ ९ ५

नेति । अपराधिनः जनस्य असहायाः पित्राद्याः परिजनाः न दण्ड्याः क्षमाशीलस्य राज्ञः ईदृशम् उक्तरूपं दण्डग्रहणं शासनमित्यर्थः॥९ ५ ॥

नापराधं तु क्षमते प्रदण्डो धनहारकः ।

नृपो यदा तदा लोकः क्षुभ्यते भिद्यते परैः ॥ ९ ६ ॥

अन्वयः —– यदा नृपः प्रदण्डः तु धनहारकः सन् अपराधं न क्षमते तदा भिद्यते ॥९ ६ ॥ ॥ दण्डनीयाः स्युः । लोकः क्षुभ्यते, परैः व्याख्या — यदा = यस्मिन् काले, नृपः = राजा, प्रदण्डः = प्रचण्डदण्डः, तु = तथा, धनहारकः =: धनापहर्त्ता, सन्, अपराधम् = दोषः, न = नहि, क्षमते = मर्षते, तदा = तस्मिन् काले, लोकः = जनः, क्षुभ्यते = क्रुद्ध्यते, वा, अशान्तो भवति, परैः = शत्रुभिः, भिद्यते = संसृज्यते ॥९ ६ ॥ हिन्दी – राजा जब अपराधी को तीक्ष्ण दण्ड देता है या अपराध क्षमा न कर उसका धन हरण करता है, तब उसकी प्रजा क्रुद्ध हो उठती है तथा दुश्मन उसे फोड़कर अपने पक्ष में मिला लेते हैं ॥ ९ ६ ॥ नापराधमिति । यदा नृपः प्रदण्डः तीक्ष्णदण्डः तथा धनहारकः सन् न क्षमते, तदा लोकः क्षुभ्यते विरज्यते परैः राजशत्रुभिः भिद्यते संसृज्यते इति यावत् ॥९ ६ ॥ अत: सुभागदण्डी स्यात् क्षमावान् रञ्जको नृपः ॥ ९ ७ ॥ अन्वयः — अतः नृपः सुभागदण्डी क्षमावान् तथा रञ्जकः स्यात् ॥९ ७ ॥ व्याख्या — अतः = अस्माद्धेतोः, नृपः = राजा, सुभागदण्डी = अपराधं सम्यग् विभज्य दण्डकर्त्ता, क्षमावान् = सहिष्णुः, तथा, रञ्जकः = प्रजानामानन्ददायकः, स्यात् = ' भवेत् ॥ ९ ७ ॥ हिन्दी - अतः राजा को अपराध के अनुसार अपराधी को दण्ड देना चाहिए तथा क्षमाशील एवं प्रजारंजक होना चाहिए ॥ ९ ७ ॥ अत इति । अतः अस्मात् करणात् नृपः सुभागदण्डी सुष्ठु विभज्य दण्डयतीति तथोक्तः, क्षमावान् तथा रञ्जकः प्रजानामिति शेषः स्यात् भवेत्॥९ ७ ॥

मद्यपः कितवः स्तेनो जारश्चण्डश्च हिंसकः ।

त्यक्तवर्णाश्रमाचारो नास्तिकः शठ एव हि ॥ ९ ८ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 44

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 44 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४५६ शुक्रनीतिः

मिथ्याभिशापकः कर्णेजपार्य्यदेवदूषकौ ।

असत्यवाङ्न्यासहारी तथा वृत्तिविघातकः ॥

अन्योदयासहिष्णुश्च ह्यत्कोचग्रहणे रतः । अकार्य्यकर्त्ता मन्त्राणां कार्य्याणां भेदकस्तथा ।

अनिष्टवाक् परुषवाग्जलारामप्रबाधकः ।

नक्षत्रसूची राजद्विट् कुमन्त्री कूटकार्य्यवित् ॥

कुवैद्यामङ्गलाशौचशीलो मार्गनिरोधकः । कुसाक्ष्युद्धतवेशश्च स्वामिद्रोही व्ययाधिकः ।

अग्निदो गरदो वेश्यासक्तः प्रबलदण्डकृत् ।

तथा पाक्षिकसभ्यश्च बलाल्लिखितग्राहकः ॥

अन्यायकारी कलहशीलो युद्धे पराङ्मुखः ।

साक्ष्यलोपी पितृमातृसतीस्त्रीमित्रद्रोहकः ॥

असूयकः शत्रुसेवी मर्मभेदी च वञ्चकः ।

स्वकीयद्विगुप्तवृत्तिर्वृषलो ग्रामकण्टकः ॥

विना कुटुम्बभरणात् तपोविद्यार्थिनः सदा ।

तृणकाष्ठादिहरणे शक्तः सन् भैक्ष्यभोजकः ॥

कन्याया अपि विक्रेता कुटुम्बवृत्तिह्रासकः ।

अधर्मासूचकश्चापि राजानिष्टमुपेक्षकः ॥

कुलटा पतिपुत्रघ्नी स्वतन्त्रा वृद्धनिन्दिता ।

गृहकृत्योज्झिता नित्यं दुष्टाचाराप्रियस्नुषा ।

स्वभावदुष्टानेतान् हि ज्ञात्वा राष्ट्राद् विवासयेत् ॥

९९ ॥

१०० ॥

१०१ ॥

१०२ ॥

१०३ ॥

१०४ ॥

१०५ ॥

१०६ ॥

१०७ ॥

अन्वयः — मद्यपः कितवः स्तेन: जारः चण्डः हिंसकः त्यक्तवर्णाश्रमाचारः नास्तिकः शठः मिथ्याभिशापकः कर्णेजपार्यदेवदूषकौ असत्यवाक् न्यासहारी तथा वृत्तिविघातकः च अन्योदयासहिष्णुः उत्कोचग्रहणे रतः अकार्यकर्त्ता तथा मन्त्राणां कार्याणां भेदकः अनिष्टवाक् परुषवाक् जलारामप्रबाधकः नक्षत्रसूची राजद्विट् कुमन्त्री कूटकार्यक्त् िकुवैद्यामङ्गलाशौचशीलः मार्गनिरोधकः कुसाक्षी उद्धतवेशः स्वामिद्रोही व्ययाधिकः अग्निदः गरदः वेश्यासक्तः प्रबलदण्डकृत् पाक्षिकसभ्यः बलाल्लिखितग्राहकः अन्यायकारी कलहशीलः युद्धे पराङ्मुखः साक्ष्यलोपी पितृमातृसतीस्त्रीमित्रद्रोहकः असूयकः शत्रुसेवी मर्मभेदी वञ्चकः स्वकीयद्विड्गुप्तवृत्तिः वृषलः ग्रामकण्टकः कुटुम्बभरणात् विना सदा तपोविद्यार्थिनः तृणकाष्ठादिहरणे शक्तः सन् भैक्ष्यभोजकः कन्यायाः अपि विक्रेता कुटुम्बानां वृत्तिह्रासकः अधर्मासूचकः अपि राजानिष्टम् उपेक्षकः कुलटा पतिपुत्रघ्नी स्वतन्त्रा वृद्धनिन्दिता गृहकृत्योज्झिता नित्यं दुष्टाचारा अप्रियस्नुषा – एतान् स्वभावदुष्टान् ज्ञात्वा राष्ट्रात् विवासयेत् ॥९८-१०७ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 45

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 45 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य प्रथमं प्रकरणम् ४५७ व्याख्या — मद्यपः = सुरासुः, कितवः = वञ्चकः, स्तेनः = चौर:, जारः = परदारलम्पटः, चण्डः = = प्रचण्डक्रोधी, हिंसकः = घातकः, त्यक्तवर्णाश्रमाचार: - वर्णानाम् = विप्रादीनाम्, आश्रमाणाम् = ब्रह्मचर्यादीनाम् त्यक्ताचारः = आचारत्यागी, नास्तिकः = अनीश्वरवादी, शठः = मायावी, मिथ्याभिशापकः = असत्यदोषारोपकः कर्णेजपः = पिशुनः, आर्यान् = भद्रपुरुषान्, देवान् = सुरान्, दूषयति = कलङ्कयतीति तौ, असत्यवाक् = अनृतभाषी, न्यासहारी = स्थाप्यापहारी, वा निक्षेपितधनापहर्त्ता, तथा = तेनैव रूपेण, वृत्तिविघातकः = जीविकापहर्त्ता, अन्योदयाऽसहिष्णुः– अन्येषाम् = अपराणाम्, उदयानाम् = उत्थानानाम्, असहिष्णुः = असहनशीलः च = पुनः, उत्कोचग्रहणे = उपायनस्वीकरणे, रतः = तत्परः, अकार्यकर्ता = कुत्सितकर्मी, मन्त्राणाम् = रहस्यानाम्, तथा कार्याणाम् = कृत्यानाम्, भेदकः = भेत्ता, अनिष्टवाक् = अनभिलषितवादी, परुषवाक् = कटुभाषी, जलारामप्रबाधक: — जलस्य = सलिलस्य, आरामस्य = गृहोद्यानस्य च, प्रबाधकः = विघातकः, नक्षत्रसूची = वृथादैवज्ञः, राजद्विट् = राजद्रोही, कुमन्त्री = कुत्सितसचिवः, कूटकार्यवित् — कूटानाम् = छलानाम्, कार्याणां वेत्ता, कुवैद्यः = कुत्सितचिकित्सकः, अमङ्गलाशौच-शील: — अमङ्गलशीलः = अकल्याणकरी, अशुचिः = अपवित्रः, मार्गनिरोधकः = पथप्रविबाधकः, कुसाक्षी = कुत्सितनिदर्शकः, उद्धतवेशः = अविनीतपरिधानम्, स्वामीद्रोही = प्रभुद्वेष्टा, व्ययाधिकः =: अपरिमितव्ययकर्त्ता, अग्निदः = गृहादिज्वालकः, गरदः - = विषप्रयोक्ता, गरलप्रयोगेन जीवहन्ता, वेश्यासक्तः = वेश्यागामी, प्रबलदण्डकृत् = प्रचण्डदमनकारी, तथा पाक्षिकः = पक्षधराः, चः = पुनः, सभ्यः = सभासद् बलाल्लिखितग्राहक: — बलात् = बलपूर्वकात्, लिखितस्य = लेखस्य, ग्राहकः = ग्रहणकर्त्ता, अन्यायकारी = अनीतिकर्मी, कलहशीलः = विसंवादी, युद्धे = समरे, पराङ्मुखः = विमुखः सैनिकः, साक्ष्यलोपी = प्रामाण्यविलोपकः, पितृमातृसतीस्त्री-मित्रद्रोहक: —– पितृद्रोही = जनकाहितचिकीर्षकः, मातृद्रोही = जनन्यानिष्टकारी, सतीस्त्रीद्रोही = पतिव्रतावैरी, मित्रद्रोही = सुहृद्विरोधी, असूयकः = परगुणेषु दोषारोपकः शत्रुसेवी = रिपुराराधकः, मर्मभेदी = रहस्यप्रकाशकः, च = पुनः, वञ्चकः = प्रतारकः, स्वकीयद्विड् — स्वकीयानाम् = आत्मीयानाम्, द्वेष्टा = द्रोहकर्त्ता, गुप्तवृत्तिः = गूढजीविकः, वृषलः = धर्माघातकः, ग्रामकण्टकः = ग्राम्यजनपीडकः, कुटुम्बभरणात् — कुटुम्बानाम् = पुत्रकलत्रादीनाम्, भरणाद्विना = पालनं विहाय, सदा = सर्वदा, तपोविद्यार्थिनः — तपसि = तपस्यायां विद्यायां वा, आसक्तो जनः, तृणकाष्ठादिहरणे — तृणकाष्ठादीनाम् = पलालेन्धनादीनाम्, हरणे = आहरणे, शक्तोऽपि = समर्थोऽपि, भैक्ष्यभोजकः = भिक्षावृत्तिः, कन्यायाः = सुतायाः, अपि = चेत्, विक्रेता = विक्रयी, कुटुम्बवृत्तिह्रासकः कुटुम्बानाम् = आश्रितजनानाम्, वृत्तिह्रासक: = जीविकाविघातकः, अधर्मा = पापी, सूचकः = विश्वासघातकः, राजानिष्टमुपेक्षकः - राज्ञः = नृपस्य, अनिष्टस्य = अनभिलषितस्य, उपेक्षकः = निःस्पृहः, तथा कुलटा = पुंश्चली, पतिपुत्रघ्नी = पतिपुत्रहन्त्री, स्वतन्त्रा = = स्वैरिणी, वृद्धनिन्दिता = वृद्धजनेभ्यः गर्हिता, गृहकृत्योज्झिता = परित्यक्तगृहकृत्या, नित्यम् = सततम्, दुष्टाचारा = आचारभ्रष्टा, अप्रिया = अरुचिकरा, स्नुषा = पुत्रवधूः, एतान् = - ' पूर्ववर्णितान्, स्वभावदुष्टान् = प्रकृतितः दुर्वृत्तान्, ज्ञात्वा = विज्ञाय, राष्ट्रात् = राज्यात्, विवासयेत् = निर्वासयेत्, राजा इति कर्त्तृपदमध्याहार्यम् ॥९८-१०७ ॥ हिन्दी - शराबी, धूर्त, चोर, परस्त्रीगामी, अत्यधिक क्रोधी, खूनी, वर्णाश्रम धर्म के विरुद्ध आचरण करने वाला, परलोक को नहीं मानने वाला, धोखेबाज, झूठा दोषारोपण करने वाला, CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 46

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 46 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४५८ शुक्रनीतिः चुगलखोर, मान्य जनों पर दोषारोपण करने वाला तथा देवमूर्त्तियों को दूषित करने वाला, झूठे, धरोहर पचाने वाला,, किसी की जीविका हरनेवाला, असहन, घूसखोर, कुकर्मी, किसी का भेद खोलने वाला या काम बिगाड़ने वाला, बुराई बोलने वाला, कटुभाषी, जलाशय दूषित करने वाला, बगीचे विनष्ट करने वाला, ढोंगी भविष्यवक्ता, राजद्रोही, दुष्टमन्त्री, जालसाज, अनाड़ी वैद्य, अभद्र आचरण वाला, उद्धत वेशभूषा वाला, राह रोकने वाला, अनुचित गवाही देने वाला, अपवित्र रहने वाला, अपने पालक या संरक्षक का विरोध करने वाला, अनाप - शनाप खर्च करने वाला, आग लगाने वाला, जहर देकर किसी को मारने वाला, रंडीबाज, कठोर दण्ड देने वाला पदाधिकारी, पक्षपाती सभासद्, जबरदस्ती दस्तावेज लिखवाने वाला, अन्यायी, झगडालू, लड़ाई का मैदान छोड़कर भागने वाले सिपाही, साक्ष्य मिटानेवाला, माँ - बाप, मित्र तथा सती नारी की बुराई करने वाला, ईर्ष्यालु, शत्रु की सेवा करनेवाला, किसी के दिल पर चोट पहुँचाने वाला, ठगने वाला, अपने लोगों के साथ विरोध करने वाला, चोरबाजारी करने वाला, पापी और दुष्कर्मी, सीधे - सादे ग्रामीणों को सताने वाला, गृहस्थ होकर भी परिवार का पालन - पोषण किये बिना तप या विद्याध्ययन करने वाला, घास - फूस और लकड़ी लाकर जीविका चलाने में समर्थ होकर भी भीख माँगकर पेट पालने वाला, बेटी बेचने वाला, परिजनों की आजीवका घटाने वाला, दुराचारी, अनर्गल सूचना देने वाला, राजा के अहित की चिन्ता न करने वाला, व्यभिचारिणी औरत, पति और पुत्र की हत्या करने वाली, स्वेच्छाचारिणी, बड़े - बूढों से निन्दित, घरेलू काम - काज से मुँह मोड़ने वाली, हमेशा दुष्ट आचरण करने वाली, गुरुजनों के साथ अप्रिय व्यवहार करने वाली पतोहू जिसे अच्छी न लगे – ऐसे पुरुषों और औरतों को स्वभाव से दुष्ट जानकर राजा अपने राज्य से निकाल दे ॥ ९८-१०७ ॥ मद्यप इत्यादि । मद्यपः सुरापायी, कितवः धूर्त्तः, स्तेनः तस्करः, जारः उपपतिः, चण्डः अतिकोपनः, हिंसकः, त्यक्तवर्णाश्रमाचारः वर्णानां ब्राह्मणादीनाम् आश्रमाणां ब्रह्मचर्य्यादीनाञ्च आचारत्यागी, नास्तिकः, शठः, खलः, मिथ्याभिशापकः मिथ्यादोषारोपकः, कर्णेजपः अन्यं प्रति अन्यस्य विरागोत्पादकः, आर्य्यान् साधून् देवांश्च दूषयतीति तथोक्तः, असत्यवाक् मिथ्यावादी, न्यासापहारी गच्छितधनापहारकः, वृत्तिविघातकः जीविकाव्याघातकारी, अन्यस्य उदयासहिष्णुः-अभ्युदयासहनः उत्कोचग्रहणे रतः, अकार्य्यकर्त्ता दुष्कर्मी, मन्त्राणां तथा कार्य्याणां भेदकः भङ्गकृत्, अनिष्टवाक्, अप्रियवादी, परुषवाक् निष्ठुरभाषी, जलस्य आरामस्य उद्यानस्य च प्रबाधकः बाधाकारी, नक्षत्रसूची वृथादैवज्ञः, राजद्विट् राजद्रोही, कुमन्त्री, कूटकार्य्यवित् कूटानां कपटानां कार्य्याणां वेत्ता, कुवैद्यः कुचिकित्सकः, अमङ्गलशीलः अशुचिः, मार्गनिरोधकः अध्वप्रतिबन्धकः, कुसाक्षी, उद्धतवेशः, स्वामीद्रोही प्रभुद्वेष्टा, व्ययाधिकः अपरिमितव्ययशीलः, अग्निदः अग्निदानेन गृहादिदाहकः, गरदः विषप्रयोगेण प्राणहन्ता, वेश्यासक्तः, प्रबलदण्डकृत् तीक्ष्णदण्डकारी राजपुरुषः, पाक्षिकः पक्षपाती, सभ्यः विचारदर्शी पुरुषः, बलात् लिखितस्य लेख्यस्य ग्राहकः ग्रहणकारी, अन्यायकारी अविचारकः, कलहशीलः विवादप्रियः, युद्धपराङ्मुखः सैनिकपुरुषः, साक्ष्यलोपी साक्ष्यलोपकारी, पितृद्रोही, मातृद्रोही, सतीस्त्रीद्रोही, मित्रद्रोही, असूयकः परगुणेषु दोषारोपणकृत्, शत्रुसेवी शत्रुपक्षः, मर्मभेदी, असह्यकर्मकारी, वञ्चकः प्रतारकः, स्वकीयानाम् आत्मीयानां द्वेष्टा, गुप्तवृत्तिः गूढजीविकः, वृषलः धर्मघाती ग्रामकण्टकः, कुटुम्बभरणात् कुटुम्बानां परिजनानां भरणात् विना, भरणमकृत्वा इत्यर्थः, सदा तपोविद्यार्थिनः तपसि विद्यायां वा आसक्ताः पुरुषाः, कुटुम्बानाम-CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 47

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 47 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य प्रथमं प्रकरणम् ४५ ९ वश्यपोष्यत्वात् तेषां तपोविद्यानुष्ठानमकिञ्चित्करमिति भावः । तृणकाष्ठादीनां हरणे सङ्ग्रहणे शक्तः समर्थोऽपि भैक्ष्यभोजकः भिक्षावृत्तिः, कन्याया विक्रेता कन्याविक्रयी, कुटुम्बानां पोष्यवर्गाणां वृत्तिह्रासकः जीविकाह्रासकारी, अधर्मा अधार्मिकः सूचकः दुर्जनः, राज्ञः अनिष्टम् उपेक्षकः केनचित् क्रियमाणस्य राजानिष्टस्य उपेक्षाकारीत्यर्थः, तथा कुलटा व्यभिचारिणी, पतिपुत्रघ्नी स्वामिसुतनाशिनी, स्वतन्त्रा स्वेच्छाचारिणी, वृद्धनिन्दिता प्राचीनगर्हिता, गृहकृत्योज्झिता त्यक्तगृहकृत्या, नित्यं सततं दुष्टाचारा दुराचारा, अप्रिया स्नुषा पुत्रवधूः, एतान् स्वभावदुष्टान् ज्ञात्वा राष्ट्रात् राज्यात् विवासयेत् निर्वासयेत् राजेति कर्तृपदमूह्यम् ॥९८-१०७ ॥

द्वीपे निवासितव्यास्ते बद्ध्वा दुर्गोदरेऽथवा ।

मार्गसंस्करणे योज्याः कदन्नन्यूनभोजनाः ॥ १०८ ॥

अन्वयः — ते द्वीपे निवासितव्याः अथवा दुर्गोदरे बद्ध्वा मार्गसंस्करणे योज्याः ॥ १०८ ॥

व्याख्या — ते = मद्यपादयः पूर्वोक्ताः, द्वीपे = जलवेष्टितभूम्यन्तरे, स्थापितव्याः, अथवा = वा, दुर्गोदरे = कोटाभ्यन्तरे, बद्ध्वा = सन्नियम्य, कदन्नन्यूनभोजनाः निवासितव्याः = मार्गसंस्करणे = पथपरिष्करणे, कदन्नम् = कुत्सितान्नम्, तदपि न्यूनम् = अत्यल्पम्, भुञ्जते = खाद्यते, इति तथोक्ताः कृत्वा, योज्याः = देयाः ॥१०८ ॥

हिन्दी — पूर्वोक्त शराबी प्रभृति जनों को किसी टापू में रखना चाहिए । अथवा किसी

किले के भीतर बंधन में डाल देना चाहिए । उनसे सड़क की सफाई का काम लेना चाहिए ।

खाने के लिए उन्हें आधा पेट दो । मरुआ, साँवा जैसे खराब अन्न देना चाहिए ॥१०८ ॥

द्वीपे इति । ते पूर्वोक्ताः मद्यपादयः द्वीपे द्वीपान्तरे निवासितव्याः अथवा दुर्गोदरे दुर्गाभ्यन्तरे बद्ध्वा मार्गसंस्करणे अध्वपरिष्करणे कदन्नन्यूनभोजनाः कुत्सितान्नं तदपि न्यूनं भुञ्जते इति तथोक्ताः कृत्वा योज्याः नियोक्तव्याः ॥ १०८ ॥

तत् तत् जात्युक्तकर्माणि कारयीत च तैर्नृपः ॥ १० ९ ॥ अन्वयः— नृपः तैः तत्तत् जात्युक्तकर्माणि कारयीत ॥१० ९ ॥ व्याख्या – नृपः = राजा, तैः = पूर्वोक्तैः, तत् तत् = तैः तैः, जात्युक्तैः = वंशानुकूलैः, कर्माणि = कार्याणि, कारयीत = कारयेत्, आर्षप्रयोगोऽयं कारयीत ॥ १० ९ ॥ हिन्दी — और उन सबों से उनके जाति के अनुकूल काम राजा को लेना चाहिए ॥ १० ९ ॥ तत्तदिति । नृपः तैः मद्यपादिभिः तत्तज्जात्युक्तकर्माणि च कारयीत कारयेत्, कारयीत इति आर्षोऽयं प्रयोगः ॥१० ९ ॥

एवंविधानसाधूंश्च संसर्गेण च दूषितान् ।

दण्डयित्वा च सन्मार्गे शिक्षयेत् तान् नृपः सदा ॥। ११० ॥

अन्वयः – नृपः एवंविधान् असाधून् च संसर्गेण दूषितान् दण्डयित्वा सदा सन्मार्गे तान् शिक्षयेत् ॥ ११० – नृपः ॥ = राजा, एवंविधान् = एतत्तुल्यान्, असाधून् = दुर्वृत्तान्, च = पुनः, संसर्गेण व्याख्या = सम्पर्केन, दूषितान् = कलुषितान् दण्डयित्वा = दमनं कृत्वा, सदा = = सर्वदा, CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 48

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 48 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४६० शुक्रनीतिः सन्मार्गे = सुपथि, तान् = पूर्वोक्तान्, शिक्षयेत् = उपदिशेत् ॥११० ॥

हिन्दी — राजा इसी तरह पूर्वोक्त दुष्टों को तथा उनके सम्पर्क से कलुषित हुए लोगों को दण्ड देकर सन्मार्ग पर चलने की शिक्षा दे ॥ ११० ॥

एवंविधानिति । नृपः एवंविधान् उक्तप्रकारान् असाधून् दुर्जनान् तथा संसर्गेण तेषां पापिनां साहचर्येण दूषितांश्च जनान् दण्डयित्वा सदा सन्मार्गे सदाचारे तान् शिक्षयेत् ॥११० ॥

राज्ञो राष्ट्रस्य विकृतिं तथा मन्त्रिगणस्य च ।

इच्छन्ति शत्रुसम्बन्धाद्ये तान् हन्याद्धि द्रानृपः ॥ १११ ॥

अन्वयः — ये शत्रुसम्बन्धात् राज्ञः राष्ट्रस्य तथा मन्त्रिगणस्य विकृतिम् इच्छन्ति, नृपः द्राक् तान् हन्यात् हि ॥१११ ॥

व्याख्या — ये = पुरुषाः, शत्रुसम्बन्धात् = रिपोः सम्पर्कात्, राज्ञः = नृपस्य, राष्ट्रस्य = राज्यस्य, तथा = तेनैव प्रकारेण, च = =! पुनः, मन्त्रिगणस्य = सचिवानाम्, विकृतिम् = परिवृत्तिम्, इच्छन्ति = अभिलषन्ति, नृपः = राजा, द्राक् = झटिति, तान् = शत्रोः परामर्शदातॄन्, हन्यात् = विनष्टं कुर्यात्, हि = इति निश्चयेन ॥ १११ ॥

हिन्दी – जो व्यक्ति राजा राज्य या मन्त्रिमण्डल के विरुद्ध शत्रु से मिलकर इन्हें हानि पहुँचाना चाहते हों, उनका राजा शीघ्र वध कर दे ॥ १११ ॥

राज्ञ इति । ये जनाः शत्रुसम्बन्धात् शत्रोरुपजापात् परामर्शादित्यर्थः, राज्ञः राष्ट्रस्य राज्यस्थजनस्य तथा मन्त्रिगणस्य विकृतिं वैपरीत्यम् इच्छन्ति, नृपः द्राक् झटिति तान् हन्यात् हि नाशयेदेव हिशब्दोऽवधारणार्थः ॥१११ ॥

नेच्छेच्च युगपद् ह्रासं गणदौष्ट्ये गणस्य च ।

एकैकं घातयेद्राजा वत्सोऽश्नाति यथा स्तनम् ॥। १२ ॥

अन्वयः — राजा गणदौष्ट्ये गणस्य युगपद् ह्रासं न इच्छेत् । यथा वत्सः स्तनम् एकैकम् अश्नाति तथा घातयेत् ॥ ११२ ॥

व्याख्या — राजा = नृपः, गणदौष्ट्ये – गणानाम् = समुदायानाम्, दौष्ट्ये = दौर्जन्ये, गणस्य = वर्गस्य, युगपद् = सहैव, हासम् = विनाशम्, न = नहि, इच्छेत् = अभिलषेत् । यथा = येन प्रकारेण, वत्सः = = गोशावकः, स्तनम् = पयोधरम्, एकैकम् = क्रमशः, अश्नाति = पिबति, तथैव दुर्जनमेकैकम्, घातयेत् = मारयेत् ॥ ११२ ॥

हिन्दी – यदि कोई एक समुदाय - विरुद्ध हो जाय तो उन सबों को एक साथ विनाश करने की अपेक्षा एक - एक कर मारे । जैसे गाय का बछड़ा क्रमशः एक - एक थन का दूध पीता है, न कि चारों थन का एक साथ ॥ ११२ ॥

नेच्छेदिति । राजा गणानां समूहानां दौष्ट्ये दुष्टतायां गणस्य समूहस्य युगपद् समकालमेव ह्रासं विनाशं न इच्छेत्, यथा वत्सः शिशुः स्तनम् एकैकमित्यर्थः, अश्नाति पिबति तथा एकैकं दुर्जनं क्रमशः घातयेत् तद्दर्शनेन अपरे तत्पापात् निवर्तन्तामिति भावः ॥११२ ॥

अधर्मशीलो नृपतिर्यदा तं भीषयेज्जनः ।

धर्मशीलातिबलवद्रिपोराश्रयतः सदा ॥ ११३ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 49

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 49 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य प्रथमं प्रकरणम् ४६१ अन्वयः — यदा नृपतिः अधर्मशीलः तदा जनः धर्मशीलस्य अतिबलवतः रिपोः आश्रयतः तं सदा भीषयेत् ॥११३ ॥

व्याख्या — यदा = यस्मिन्काले, नृपति = राजा, अधर्मशीलः = अधार्मिको भवति, तदा, जनः = लोकः, प्रजा, धर्मशीलस्य = धर्मात्मनः, अतिबलवतः = अतिशक्तिशालिनः, रिपो = शत्रोः, आश्रयतः = अवलम्बनेन, तम् = नृपम्, सदा = सर्वदा, भीषयेत् = भयमुत्पादयेत् ॥ ११३ ॥

हिन्दी – राजा यदि अधर्मी हो तो उसकी प्रजा का यह कर्त्तव्य है कि उसका शत्रु राजा, जो उससे अधिक शक्तिशाली और धर्मात्मा हो, उसका सहारा लेकर उसे डराकर धर्मपथ पर चलने को विवश करे ॥ ११३ ॥

अधर्मशील इति । यदा नृपति: अधर्मशीलः दुराचारः भवेत् तदा जनः धर्मशीलस्य अतिबलवतः रिपोः राजविपक्षस्य आश्रयतः आश्रयेण तं नृपतिं सदा भीषयेत् भयं दर्शयेत् ॥ ११३ ॥

यावत् तु धर्मशीलः स्यात् स नृपस्तावदेव हि ।

अन्यथा नश्यते लोको द्रानृपोऽपि विनश्यति ॥ ११४ ॥

अन्वयः — यावत् नृपः धर्मशीलः स्यात् तावदेव सः नृपः हि । अन्यथा लोकः नश्यते, नृपोऽपि सः द्राक् विनश्यति ॥ ११४ ॥

व्याख्या — यावत् = यावत्कालपर्यन्तम्, नृपः = राजा, धर्मशीलः = धार्मिकः, स्यात् = भवेत्, तावदेव = तावत्कालमेव, सः = - असौ, नृपः = राजा भवति । अन्यथा = इतरथा, लोकः = प्रजा, नश्यते = विनष्टो भवति, नृपोऽपि = राजाऽपि, सः = असावधार्मिकः, द्राक् = शीघ्रमेव, विनश्यति = नष्टो भवति ॥ ११४ ॥

हिन्दी – राजा जब तक धर्मात्मा है तभी तक राजा है । अन्यथा प्रजा तो नष्ट होती ही है, वह राजा भी शीघ्र ही विनष्ट हो जाता है ॥ ११४ ॥

यावदिति । यावत् नृपः धर्मशीलः स्यात् तावदेव सः नृपः हि राजा सन् तिष्ठतीति भावः । अन्यथा तस्य अधर्मशीलत्वे इत्यर्थः, लोकः नश्यते, नृपोऽपि सः द्राक् झटिति विनश्यति ॥ ११४ ॥

मातरं पितरं भार्य्यां यः सन्त्यज्य विवर्त्तते ।

निगडैर्बन्धयित्वा तं योजयेन्मार्गसंस्कृतौ ।

तद्भृत्यर्द्धं तु सन्दद्यात् तेभ्यो राजा प्रयत्नतः ॥ ११५ ॥

अन्वयः — यः मातरं पितरं भार्य्यां च सन्त्यज्य विवर्त्तते, राजा तं निगडैः बन्धयित्वा मार्ग-संस्कृतौ योजयेत् । तथा तद्भृत्यर्द्धं तेभ्यः प्रयत्नतः राजा सन्दद्यात् ॥ ११५ ॥

व्याख्या — यः = जनः, मातरम् = जननीम्, पितरम् = जनकम्, भार्याम् = पत्नीम्, च = पुनः, सन्त्यज्य = विहाय, विवर्त्तते = यथाभिलषितं व्यवहरति, राजा = नृपतिः, तम् = जनम्, निगडैः = = पादशृङ्खलैः, बन्धयित्वा = निगडयित्वा, मार्गाणाम् = पथाम्, संस्कृतौ = परिष्करणे, योजयेत् = = निवेशयेत् । तथा, तत् = तस्य पूर्वोक्तजनस्य, भृत्यर्द्धम् = वेतनस्यार्द्धभागम्, तेभ्यः = मातृपित्रादिभ्यः, प्रयत्नतः = = सायासेन, सन्दद्यात् = सम्यग्रूपेण प्रयच्छेत् ॥ ११५ ॥

हिन्दी — जो कर्मचारी माँ - बाप और पत्नी को छोड़ मनमाना व्यवहार करे, राजा उसके पैरों में बेड़ी डालकर कैद कर ले तथा उससे सड़क बनवाये या सड़क की सफाई का काम ले CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 50

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 50 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४६२ शुक्रनीतिः और उसके वेतन का आधा हिस्सा काटकर माँ - बाप तथा पत्नी के भरण - पोषण हेतु प्रयास-पूर्वक उन्हें दे दे ॥ ११५ ॥

मातरमिति । यः मातरं पितरं भार्य्याञ्च सन्त्यज्य विवर्त्तते यथेच्छं व्यवहरतीत्यर्थः, राजा तं निगडैः पादशृङ्खलैः बन्धयित्वा मार्गाणां पथां संस्कृतौ बन्धनादिकर्मणि योजयेत्, तथा तस्य भृत्यर्द्ध तेभ्यः तत् पितृमात्रादिभ्यः प्रयत्नतः यत्नेन सन्दद्यात् ॥ ११५ ॥

विद्यात् पणसहस्त्रं तु दण्ड उत्तमसाहसः ।

दशमाषमितं ताम्रं तत् पणो राजमुद्रितम् ।

वराटिसार्द्धशतकमूल्यः कार्षापणश्च सः ॥ ११६ ॥

अन्वयः — पणसहस्रं उत्तमसाहसः दण्डः पणश्च दशमाषमितं राजमुद्रितं तत् ताम्रं सः वराटिसार्द्धशतकमूल्यः कार्षापणञ्च विद्यते ॥ ११६ ॥

व्याख्या — पणानाम् = पणमुद्राणाम्, सहस्रम् = दशशतसंख्यकम्, उत्तमसाहसः = उत्तमसाहसाख्यः, दण्डः = दमनः, पणश्च = पणमुद्रा च, दशभिर्माषैः, मितम् = परिमितम्, राजमुद्रितम् = नृपमुद्राङ्कितम्, तत् = विख्यातम्, ताम्रम् = ताम्रमुद्राम्, सः = असौ पणः, वराटीनाम् = कपर्दिकाणाम्, सार्द्धशतकम् = पञ्चाशदधिकशतम्, मूल्यम् = अर्थः, यस्य तादृशः कार्षापणश्च, विद्यते = कथ्यते, इति ॥ ११६ ॥

हिन्दी — एक हजार पैसों का दण्ड उत्तमसाहस कहलाता है । राजमुद्रांकित दश मासा भर ताँबा के सिक्के को पण कहते हैं । १५० कौडियों के मूल्य के उसी सिक्के को कार्षापण भी कहते हैं ॥११६ ॥

विद्यादिति । पणानां सहस्रम् उत्तमसाहसः उत्तमसाहसाख्यः दण्डः, पणश्च दशभिर्माषैः मितं परिमितं राजमुद्रितं तत् प्रसिद्धं ताम्रं ताम्रमुद्रा इत्यर्थः । स पणः वराटीनां सार्द्धशतकं मूल्यं यस्य तादृशः कार्षापणश्च कथ्यते इति विद्यात् ॥ ११६ ॥

तदर्द्धश्च तदर्द्धश्च मध्यमः प्रथमः क्रमात् ।

प्रथमे साहसे दण्डः प्रथमश्च क्रमात् परौ ॥ ११७ ॥

अन्वयः — तदर्द्धः मध्यमः तदर्द्धः प्रथमः क्रमात् प्रथमे साहसे प्रथमः दण्डः क्रमात् परौ ॥११७ ॥

व्याख्या – तत् = तस्य, अर्द्ध: - = अर्द्धभागः, अर्थादुत्तमसाहसस्यार्द्धभागं मध्यमसाहसो भवति, तदर्द्धश्च प्रथमः = साहसः क्रमात् = क्रमशः, बोद्धव्यः, प्रथमे साहसे, प्रथमो दण्डः = दमनः, क्रमात् = क्रमशः, परौ = मध्यमसाहसोत्तमसाहसौ ज्ञेयौ ॥११७ ॥

हिन्दी — और क्रमशः एक हजार के आधे पाँच सौ पैसे के जुर्माने को प्रथम साहसदण्ड कहते हैं । प्रथम श्रेणी के अपराध में प्रथम साहसदण्ड अर्थात् ढाई सौ पैसे का, मध्यम साहस में पाँच सौ पैसे का विधान है ॥११७ ॥

तदर्द्ध इति । तदर्द्धः तस्य उत्तमसाहसस्य अर्द्ध: मध्यमः साहसः तदर्द्धश्च प्रथमसाहसः क्रमात् बोद्धव्य इति शेषः । प्रथमे साहसे प्रथमो दण्डः क्रमात् परौ मध्यमसाहसोत्तमसाहसौ वेद्यौ ॥ ११७ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA