शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 51–60
शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 51–60
पृष्ठ 51
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य प्रथमं प्रकरणम् ४६३
मध्यमे मध्यमो धार्यश्चोत्तमे तूत्तमो नृपैः ।
सोपायाः कथिता मिश्रे मित्रोदासीनशत्रवः ॥ ११८ ॥
इति शुक्रनीतौ चतुर्थाध्यायस्य सुहृदादिलक्षणं नाम प्रथमं प्रकरणम् । अन्वयः — नृपैः मध्यमे मध्यमः, उत्तमे उत्तमः धार्यः । मिश्रे सोपायाः कथिताः ॥११८ ॥
व्याख्या – नृपैः = राजभिः, मध्यमे = मध्यमे साहसे, मध्यमो दण्डः, उत्तमे = प्रथमकोटिकापराधे, उत्तमो साहसदण्डः, धार्यः = विधेयः । मिश्रे = मिश्राध्याये, सोपायाः — उपायैः =: सामदानादिभिः सहिताः = संवलिताः, मित्रोदासीनशत्रवः कथिताः = निगदिताः ॥ ११८ ॥
हिन्दी - मध्यम कोटि के अपराध में मध्यम साहसदण्ड तथा उत्तम कोटि के अपराध में उत्तम साहसदण्ड राजा को दण्ड देना चाहिए । इस तरह इस मिश्र अध्याय में सामादिक उपायों के साथ मित्र, उदासीन एवं शत्रुओं के बारे में कहा गया है ॥ ११८ ॥
इस प्रकार शुक्रनीति में चतुर्थ अध्याय में ' सुहृदादिलक्षण ' नामक प्रथम प्रकरण की ' विमला ' संस्कृत - हिन्दी व्याख्या समाप्त हुई । मध्यमे इति । नृपैः मध्यमे पापे मध्यमो दण्डः, उत्तमे उत्तमः दण्डः धार्य्यः कार्य्यः । मिश्रे मिश्राध्याये सोपायाः उपायैः सामादिभिः सहिताः मित्रोदासीनशत्रवः कथिताः उक्ताः ॥ ११८ ॥
इति श्रीजीवानन्दविद्यासागरविरचिता चतुर्थाध्यायस्य प्रथमप्रकरणव्याख्या समाप्ता । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 52
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य द्वितीयं प्रकरणम्
अथ कोशप्रकरणं ब्रुवे मिश्र द्वितीयकम् ।
एकार्थसमुदायो यः स कोशः स्यात् पृथक् पृथक् ॥ १ ॥
अन्वयः — अथ मिश्रे द्वितीयकं कोशप्रकरणं बुवे । एकार्थसमुदायः यः सः पृथक् पृथक् कोशः स्यात् ॥ १ ॥
व्याख्या — अथ = अनन्तरम्, मिश्रे = अस्मिन् संसृष्टाऽध्याये, द्वितीयकम् = अपरम्, कोश-प्रकरणम् = अभिधानपरिच्छेदः, बुवे = वदामि । एकार्थसमुदाय: – एकेषाम् = कतिपयानाम्, अर्थानाम् = धनानाम्, प्रयोजनानां वा, समुदाय: समूह:, यः = समष्टिः, सः = असौ, कोशः = इत्याख्यः स्यात् = - भवेदिति ॥ १ ॥
हिन्दी — अब इस मिश्र अध्याय के भीतर दूसरा ' कोशप्रकरण ' का वर्णन करता हूँ । किसी भी एक तरह की वस्तुओं के समूह को ' कोश ' कहते हैं । यह अलग - अलग कई तरह के होते हैं ॥ १ ॥
अथेति । अथ अनन्तरं मिश्रे अध्याये द्वितीयकं कोशप्रकरणं कतिपयानाम् अर्थानां समुदायः समष्टिः यः, सः पृथक् पृथक् स्यात् ॥ १ ॥
येन केन प्रकारेण धनं सञ्चिनुयात् नृपः ।
तेन संरक्षयेद्राष्ट्रं बलं यज्ञादिकाः क्रियाः ॥ २ ॥
अन्वयः – नृपः येन केन प्रकारेण धनं सञ्चिनुयात् । तेन च राष्ट्रं संरक्षयेत् ॥२ ॥
ब्रुवे कथयामि, एकेषां विविधप्रकारः कोशः बलं यज्ञादिकाः क्रियाः व्याख्या – नृपः = राजा, येन केन प्रकारेण = यया कया रीत्या, धनम् = अर्थम्, सञ्चिनुयात् = सगृह्णीयात्, तेन = वित्तेन, राष्ट्रम् = राष्ट्रवासिनः, बलम् = सैन्यम्, यज्ञादिकाः = यागादिकाः, क्रियाः = कर्माणि, संरक्षयेत् = सम्यग्रूपेण रक्षां कुर्यादिति ॥ २ ॥
हिन्दी – राजा को जैसे - तैसे धन इकट्ठा करना चाहिए । ताकि उस संचित धन से राष्ट्र, सेना एवं धार्मिक कृत्यों की रक्षा की जा सके ॥२ ॥
येनेति । नृपः येन केन प्रकारेण धनं सञ्चिनुयात् सगृह्णीयात्, तेन च धनेन राष्ट्रं राज्यरक्षार्थपुरुषं बलं सैन्यं यज्ञादिकाः क्रियाश्च संरक्षेत् ॥ २ ॥
बलप्रजारक्षणार्थं यज्ञार्थं कोशसङ्ग्रहः ।
परत्रेह च सुखदो नृपस्यान्यश्च दुःखदः ॥ ३ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 53
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य द्वितीयं प्रकरणम् ४६५ अन्वयः — बलानां प्रजानां च रक्षणार्थं यज्ञार्थं नृपस्य कोशसङ्ङ्ग्रहः परत्र च इह सुखप्रदः, अन्यश्च दुःखदः ॥ ३ ॥
व्याख्या — बलानाम् = सैन्यानाम्, प्रजानाम् = जनानाञ्च, रक्षणार्थम् [ = = त्राणाय, यज्ञार्थञ्च = यागायच, नृपस्य = राज्ञः, कोशसङ्ग्रहः = कोशसञ्चयनम्, परत्र = = ' परलोके च = पुनः, इह = अस्मिन्संसारे, सुखप्रदः = आनन्ददायकः, अन्यः = एतद्भिन्नः धनसङ्ग्रहः, दुःखदः = कष्टदायको भवति ॥ ३ ॥
हिन्दी – प्रजा, सेना एवं धार्मिक कृत्यों के लिए राजा का धनसंग्रह संसार और संसार से परे दोनों लोकों के लिए सुखद होता है । इससे भिन्न कार्यों के लिए कोशसंग्रह दुःखदायी होता है ॥ ३ ॥
बलेति । बलानां सैन्यनां प्रजानाञ्च रक्षणार्थं यज्ञार्थञ्च कोशसङ्ग्रहः धनसञ्चयः नृपस्य परत्र परकाले इह च अस्मिन् काले च सुखप्रदः, अन्यः तद्व्यतिरिक्त इत्यर्थः, धनसञ्चयः दुःखदः ॥३ ॥
स्त्रीपुत्रार्थं कृतो यश्च स्वोपभोगाय केवलम् ।
नरकायैव स ज्ञेयो न परत्र सुखप्रदः ॥ ४ ॥
अन्वयः — केवलं स्त्रीपुत्रार्थं च स्वोपभोगाय यः कृतः सः नरकाय एव ज्ञेयः च परत्र न सुखप्रदः ॥४ ॥
व्याख्या — केवलम् = मात्रं, स्त्रीपुत्रार्थम् = पत्नीपुत्रपालनाय, च = पुनः, स्वोपभोगाय— स्वस्य = आत्मनः, उपभोगाय = आस्वादाय, व्यवहाराय वेति, यः = राजा किं वा जनः, धनसङ्ग्रहः कृतः = सम्पादितः, सः = जनः, नरकाय = निरयाय, एव = केवलम्, ज्ञेयः = अवगन्तव्यः, च = पुनः, परत्र = परलोके, न = = नहि, सुखप्रदः = आनन्ददायको भवति ॥४ ॥
हिन्दी — जो व्यक्ति पत्नी और पुत्र के लिए ही अथवा मात्र अपनी सुख - सुविधा के लिए धन बटोरता है, वह संचय सुखप्रद तो होता ही नहीं प्रत्युत नरक का साधन बन जाता है ॥४ ॥
स्त्रीपुत्रार्थमिति । केवलं स्त्रीपुत्रार्थं भार्य्यासुतभरणार्थं स्वस्य आत्मनः उपभोगाय च यः सञ्चयः कृतः, स नरकाय एव ज्ञेयः परत्र न सुखप्रदश्च ॥ ४ ॥
अन्यायेनार्जितो यस्माद् येन तत् पापभाक् च सः ।
सुपात्रतो गृहीतं यद् दत्तं वा वर्द्धते च तत् ॥५ ॥
अन्वयः – येन यः अन्यायेन उपार्जितः सः तत् पापभाक् सुपात्रतः गृहीतं वा दत्तम्, तत् वर्द्धते ॥५ ॥
व्याख्या – येन = पुरुषेण, यः = धनम्, अन्यायेन = अनीत्या, उपार्जितः = सङ्गृहीतः, सः = जनः, तत् = तस्योपार्जितधनस्य, पापभाक् = अधर्मभागी भवति, च = पुनः, यत् = धनम्, सुपात्रः = योग्यजनात्, गृहीतम् = प्राप्तम् अधिगतम्, वा = अथवा, दत्तम् = प्रदत्तम्, तत् = धनम्, वर्द्धते = एधते ॥ ५ ॥
हिन्दी —– जो व्यक्ति अनीति से धन उपार्जित करता है उसके पाप का फल भी उसे ही भोगना पड़ता है । सुयोग्य जन से प्राप्त धन या साधु पुरुषों को दिया गया धन बढ़ता ही रहता है ॥५ ॥
३० शु ० CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 54
पाठ पढ़ें पाठ छिपाएँ
४६६ शुक्रनीतिः अन्यायेनेति । येन जनेन यः अर्थः अन्यायेन उपार्जितः स्यात्, सः जनः तस्य अन्यायोपार्जनस्य पापभाक् भवति । यत् धनं सुपात्रतः साधोः सकाशात् गृहीतं वा दत्तं सुपात्रे इति शेषः, तत् वर्द्धते वृद्धिं प्राप्नोति ॥ ५ ॥
स्वागमी सद्व्ययी पात्रमपात्रं विपरीतकम् ।
अपात्रस्य हरेत् सर्वं धनं राजा न दोषभाक् ॥ ६ ॥
अन्वयः - स्वागमी तथा सद्व्ययी पात्रं विपरीतकम् अपात्रम् । राजा अपात्रस्य सर्वं धनं हरेत् न दोषभाक् ॥ ६ ॥
व्याख्या — स्वागमी = सुष्ठु आगमो यस्यासौ, सुनीत्या धनोपार्जकः, तथा सद्व्ययी = -सन्मार्गे व्ययशीलः, पात्रम् - सुयोग्यजनो भवति, तद्विपरीतकम् = विरुद्धाचरणशीलो जनः, अपात्रम् = = कुपात्रो भवति, राजा = नृपः, अपात्रस्य = कुजनस्य, सर्वम् = सकलम्, धनम् = वित्तम्, हरेत् |: = गृहणीयात्, अस्मिन् कार्ये राजा, दोषभाक् = दोषी न भवतीति भावः ॥ ६ ॥
हिन्दी — जो व्यक्ति न्यायपूर्वक धनोपार्जन करता है तथा उपार्जित धन का व्यय सत्कर्म में करता है, वह सुपात्र कहलाता है । इसके विपरीत अन्यायपूर्वक धनोपार्जन करने वाला तथा कुमार्ग में खर्च करने वाला कुपात्र कहलाता है । कुपात्र के धन का राजा को अपहरण कर लेना चाहिए, इसमें उसे कोई दोष नहीं होता है ॥६ ॥
स्वागमीति । स्वागमी सुष्ठु आगमवान् न्यायोपार्जक इत्यर्थः तथा सद्व्ययी सत्कार्य्ये व्ययशीलः जनः पात्रं, तस्य विपरीतकम् अपात्रम्, राजा अपात्रस्य सर्वं धनं हरेत् तत्र न दोषभाक् भवतीति शेषः ॥६ ॥
अधर्मशीलात् नृपति: सर्वशः संहरेद्धनम् ।
छलाद् बलाद् दस्युवृत्त्या परराष्ट्राद्धरेत् तथा ॥ ७ ॥
अन्वयः – नृपतिः अधर्मशीलात् धनं सर्वशः छलात् बलात् दस्युवृत्त्या हरेत् तथा परराष्ट्रात् हरेत् ॥७ ॥
व्याख्या – नृपतिः = राजा, अधर्मशीलात् = पापिनो जनात्, धनम् = वित्तम्, सर्वशः = सर्वैः प्रकारैः, छलात् = कपटात्, बलात् = सामर्थ्यात्, वा = अथवा, दस्युवृत्त्या = लुण्ठनैः, हरेत् = बलादपहरेत्, तथा च = पुनः तेनैव प्रकारेण, परराष्ट्रात् = रिपुराज्यात्, हरेत् = हरणं कुर्यात् ॥ ७ ॥
हिन्दी — राजा को चाहिए कि अधर्मी लोगों की सम्पूर्ण सम्पदा छल, बल या डकैती से भी छीन लेना चाहिए । इसी तरह दुश्मन राजे का भी धन हर लेना चाहिए ॥७ ॥
अधर्मेति । नृपः अधर्मशीलात् जनात् धनं सर्वशः सर्वैः प्रकारैः छलात् बलात् दस्युवृत्त्या वा हरेत्, तथा परराष्ट्रात् शत्रुराज्यात् सर्वैः प्रकारैः हरेत् राजेति शेषः ॥७ ॥
त्यक्त्वा नीतिबलं स्वीयप्रजापीडनतो धनम् ।
सञ्चितं येन तत्तस्य सराज्यं शत्रुसाद्भवेत् ॥ ८ ॥
अन्वयः - येन नीतिबलं त्वक्त्वा स्वीयप्रजापीडनतः धनं सञ्चितम् तस्य तत् धनं सराज्यं शत्रुसात् भवेत् ॥८ ॥
व्याख्या — येन = राज्ञा, नीतिबलम् = नयमार्गः, त्यक्त्वा = परित्यज्य,, स्वीयप्रजापीडनम्— CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 55
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य द्वितीयं प्रकरणम् ४६७ स्वीयम् = स्वकीयम्, प्रजानाम् = जनानाम्, पीडनतः = क्लेशनात्, धनम् = अर्थम्, सञ्चितम् = = सङ्ग्रहीतम्, तस्य = राज्ञः, तत् = पूर्वोक्तम्, धनम् = सम्पदम्, सराज्यम् = राज्यसहितम्, शत्रुसात् = = रिपुकरगतम्, भवेत् = स्यात् ॥ ८ ॥
हिन्दी — जिसने नीतिबल छोड़कर अन्यायपूर्वक प्रजा को पीड़ित कर धन इकट्ठा किया है, उसका संचित धन राज्य के साथ शत्रुओं के हाथ में चला जाता है ॥ ८ ॥
त्यक्त्वेति । येन नीतिबलं त्यक्त्वा स्वीयप्रजानां पीडनतः पीडनात् धनं सञ्चितं, तस्य तत् धनं सराज्यं राज्यसहितं शत्रुसात् भवेत् शत्रुहस्तगतं भवेत् ॥८ ॥
दण्डभूभागशुल्कानामाधिक्यात् कोशवर्द्धनम् ।
अनापदि न कुर्वीत तीर्थदेवकरग्रहात् ॥ ९ ॥
अन्वयः — अनापदि दण्डभूभागशुल्कानाम् आधिक्यात् तथा तीर्थदेवकरग्रहात् कोशवर्द्धनं न कुर्यात् ॥९ ॥
व्याख्या — अनापदि = विपत्कालाभावे, दण्डानाम् = दमनानाम् भूभागानाम् = भूखण्डा-नाम्, शुल्कानाम् = कराणाम्, आधिक्यात् = प्राचुर्यात् बाहुल्याद्वा, तथा तीर्थदेवकरग्रहात्-तीर्थानाम् = धर्मस्थानानां काशीप्रयागादीनाम्, देवानाम् = रामेश्वरजगन्नाथादीनाम्, करस्य = देवदर्शनार्थराजस्वरूपधनस्य, ग्रहात् = सङ्ग्रहात्, कोशवर्द्धनम् — कोशस्य = निधेः, वर्द्धनम् = अभिवृद्धिम्, न = = नहि, कुर्वीत = सम्पादयेदिति । अनापदीत्यभिधानादापत्काले ह्युपस्थिते तु एवं सङ्ग्रहणं कर्त्तव्यमिति भावः॥९ ॥
हिन्दी — देश में आपत्काल नहीं रहने पर प्रजा के ऊपर अधिक जुर्माना, मालगुजारी या चुंगी लगाकर तथा तीर्थस्थान एवं देवोत्तर संपत्ति पर कर लगाकर नहीं भरना चाहिए ॥९ ॥
दण्डेति । अनापदि अविपन्नावस्थायां दण्डानां भूभागानां वृद्धिकरणात् तथा तीर्थानां पुण्यक्षेत्राणां गयादीनां देवानां जगन्नाथादीनां निर्दिष्टस्य धनस्य ग्रहात् ग्रहणात् कोशवर्द्धनं धनवृद्धिं न कुर्वीत दीत्यभिधानात् आपदि ग्रहणे न दोष इति सूचितम् ॥९ ॥
यदा शत्रुविनाशार्थं बलसंरक्षणोद्यतः राजा को अपना खजाना शुल्कानाञ्च आधिक्यात् करस्य दर्शनादिषु देयत्वेन
राजेति शेषः । अनाप-।
विशिष्टदण्डशुल्कादि धनं लोकात् तदा हरेत् ॥ १० ॥
अन्वयः– यदा शत्रुविनाशार्थं च बलंसरक्षणाय उद्यतः तदा लोकात् विशिष्टदण्डशुल्कादि धनं हरेत् ॥ १० ॥
व्याख्या — यदा = यस्मिन् काले, शत्रुविनाशार्थम् - शत्रूणाम् = रिपूणाम्, विनाशार्थम् = विघाताय, बलसंरक्षणाय - बलानाम् = सैन्यानाम्, संरक्षणाय = गोपनाय, उद्यतः = तत्परो भवति, तदा, लोकात् = जनात्, विशिष्टम् = असामान्यम्, वर्द्धितम्, दण्डशुल्कादि = दण्डराजस्वादिकम्, धनम् = अर्थम, हरेत् = आहरेदिति ॥१० ॥
हिन्दी – आपत्काल ( Emergency period ) में शत्रुसंहार करने के लिए सेना की रक्षा के लिए राजा तत्पर हो, उस समय विशेष ढंग का अधिक जुर्माना या चुंगी लगाकर प्रजा से राजस्व की वसूली उचित है ॥१० ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 56
पाठ पढ़ें पाठ छिपाएँ
४६८ शुक्रनीतिः यदेति । यदा शत्रुविनाशार्थं बलानां सैन्यानां संरक्षणाय उद्यतः भवति, तदा लोकात् विशिष्टं वर्द्धितं दण्डशुल्कादि धनम् आहरेत् गृह्णीयात् ॥१० ॥
धनिकेभ्यो भृतिं दत्त्वा स्वापत्तौ तद्धनं हरेत् ।
राजा स्वापत्समुत्तीर्णस्तत् स्वं दद्यात् सवृद्धिकम् ॥ ११ ॥
- अन्वयः - राजा स्वापत्तौ भृतिं दत्त्वा धनिकेभ्यः यत् धनं हरेत् स्वापत्समुत्तीर्णः तत् स्वं सवृद्धिकं दद्यात् ॥ ११ ॥
व्याख्या – राजा = भूभृत्, स्वापत्तौ – स्वस्य = आत्मनः, आपत्तौ = विपदि, भृतिम् = भरण्यम्, दत्त्वा = आश्वास्य, यत् = यत्किञ्चित्, धनम् = अर्थम्, हरेत् = सङ्गृह्णीयात्, स्वापत्समुत्तीर्णः-: –स्वस्य = स्वकीयराष्ट्रस्य, आपदः = विपदः, समुत्तीर्णः = पारङ्गतः सन् तत् = पूर्वं गृहीतं तेभ्यः, स्वम् = धनम्, सवृद्धिकम् = वार्द्धष्यसहितम्, दद्यात् = प्रत्यर्पयेत् ॥११ ॥
हिन्दी — ' सूद सहित लिया गया धन लौटा दूँगा ' ऐसा आश्वासन देकर आपत्काल में लिया गया धन राजा आपत्काल हटते ही सूद सहित धनिकों से लिया गया धन उन्हें लौटा दे ॥११ ॥
धनिकेभ्य इति । राजा स्वस्य आपत्तौ आपदि भृतिं वृद्धिं दत्त्वा दास्यामीति प्रतिज्ञायेत्यर्थः, धनिकेभ्यः यत् धनं हरेत् ऋणरूपेण गृह्णीयात्, स्वस्य आपदः समुत्तीर्णः सन् तत् स्वं धनं सवृद्धिकं वृद्धिसहितं दद्यात् तेभ्य इति शेषः ॥ ११ ॥
प्रजान्यथा हीयते च राज्यं कोशो नृपस्तथा ।
हीना: प्रबलदण्डेन सुरथाद्या नृपा यतः ॥ १२ ॥।
अन्वयः — अन्यथा प्रजा राज्यं कोशः तथा नृपः प्रबलदण्डेन हीयते । यतः सुरथाद्याः नृपाः हीनाः ॥ १२ ॥
व्याख्या — अन्यथा = इतरथा, धनाभावात् सैन्यसंरक्षणेऽसमर्थो भूत्वा, प्रजा = जनाः, राज्यम् = राष्ट्रम्, कोशः = निधि:, तथा = तेनैव प्रकारेण, नृपः = राजा, प्रबलदण्डेन = सबलशत्रुणा, हीयते = हीनो भवति । यतः = यस्माद्धेतोः, सुरथाद्याः = सुरथप्रभतयः, नृपाः = राजानः, हीनाः = क्षीणाः, प्रबलदण्डेनाभवन् ॥१२ ॥
हिन्दी — अन्यथा अर्थात् धनाभाव के कारण सेना की रक्षा करने में असमर्थ राजा प्रजा, राष्ट्र और कोश रहित हो जाता है । क्योंकि सबल शत्रु के कारण ही सुरथ प्रभृति राजे हीन अर्थात् राज्यच्युत हो गये ॥१२ ॥
टिप्पणी- प्राचीन काल में स्वारोचिष मन्वन्तर में चैत्र वंश में उत्पन्न सुरथ नाम के एक राजा थे । समस्त भूमण्डल पर उनका अधिकार था । वे अपनी प्रजा का धर्मपूर्वक पालन करते थे । किन्तु सैन्यबल उनका कमजोर था । दक्षिण के ' कोला ' नगरी के क्षत्रियों ने इन पर आक्रमण कर दिया । राजा सुरथ की दण्डनीति अतिप्रबल थी । शत्रुओं के साथ उन्होंने जम कर संग्राम किया । यद्यपि कोलाविध्वंसियों की सैन्यसंख्या इनसे कम थी, फिर भी युद्ध में उनसे पराजित होकर सुरथ अपनी राजधानी लौट आये । अब वे केवल अपने देशमात्र के राजा थे । यहाँ भी शत्रुओं ने उनका पीछा किया । राजा का बल क्षीण हो चुका था । मंत्रियों ने उनकी सेना और कोश अपना लिये । उनका प्रभुत्व नष्ट हो गया और वे अरण्यवासी बन गये ॥१२ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 57
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य द्वितीयं प्रकरणम् ४६ ९ प्रजेति । अन्यथा धनाभावात् बलसंरक्षणे अकृते इत्यर्थः, प्रजा राज्यं कोश: धनं तथा नृपः प्रबलदण्डेन शत्रुणा हीयते, यतः सुरथाद्या अपि नृपाः हीनाः प्रबलदण्डेनेत्यपि अत्र योज्यम् ॥१२ ॥
दण्डभूभागशुल्कैस्तु विना कोशाद् बलस्य च ।
संरक्षणं भवेत् सम्यग् यावविंशतिवत्सरम् ।
तथा कोशस्तु सन्धार्य्यः स्वप्रजारक्षणक्षमः ॥ १३ ॥
अन्वयः —– दण्डभूभागशुल्कैः विना कोशात् यावद्विंशतिवत्सरं सम्यक् बलस्य संरक्षणं भवेत् तथा स्वप्रजारक्षणक्षमः कोशः सन्धार्यः ॥ १३ ॥
व्याख्या — दण्डभूभागशुल्कै – दण्डैः = दमननीत्योपलब्धैः, भूभागैः = भूमिविभागोपलब्धैः, राजस्वैः, शुल्कैः = वाणिज्यादिलब्धकरैः, विना = विहाय, कोशात् = निधानात् यावद्विंशतिवत्सरम् = विंशतिवर्षपर्यन्तम्, सम्यक् = सुष्ठुतया, बलस्य = सैन्यस्य, संरक्षणम् = गोपनम्, भवेत् = स्यात्, तथा = तेनैव रूपेण, स्वप्रजारक्षणक्षम ः– स्वस्य = आत्मनः, प्रजानाम् = जनानाम्, रक्षणे = गोपने, क्षमः = - समर्थः, कोश: = निधिः, सन्धार्यः = सुष्ठुतया सङ्ग्राह्यः ॥१३ ॥
हिन्दी — बिना जुर्माना, मालगुजारी एवं चुंगी से प्राप्त धन के भी केवल राजा के खजाने से ही बीस वर्षों तक सेना की रक्षा ठीक ढंग से जितने से हो सके, मात्र उतने ही खजाने का अपनी प्रजा की रक्षा के लिए उपयुक्त धन का संग्रह राजा को करना चाहिए ॥ १३ ॥
दण्डेति । दण्डभूभागशुल्कैः दण्डैः दण्डलब्धैः भूभागैः भूमिविभागलब्धैः करैः तथा शुल्कैः वाणिज्यादिलब्धैः राजकरैः विना एतान् अगृहीत्वेत्यर्थः, कोशात् यादृशादिति शेष:, यावत् विंशतिवत्सरं विंशतिवर्षपर्य्यन्तं सम्यक् बलस्य सैन्यस्य संरक्षणं भवेत्, तथा तादृशः स्वप्रजानां रक्षणे क्षमः कोश: धनराशिः सन्धार्य्यः सञ्चेयः ॥ १३ ॥
बलमूलो भवेत् कोश: कोशमूलं बलं स्मृतम् ।
बलसंरक्षणात् कोशराष्ट्रवृद्धिररिक्षयः ॥ १४ ॥
अन्वयः — कोशः बलमूलो भवेत्, बलञ्च कोशमूलं स्मृतम् । बलसंरक्षणात् कोशराष्ट्रवृद्धिः अरिक्षयः भवति ॥ १४ ॥
व्याख्या — कोशः = निधिः, बलमूलः – बलम् = सैन्यम्, मूलम् = आदिकारणम्, यस्य तथासौ, सैन्यसामर्थ्यादेव कोशसञ्चयो भवतीति भावः, बलम् = = सैन्यञ्च, कोशमूलम् — कोशः = निधिश्च, मूलम् = हेतुभूतम्, यस्य तथाविधम्, स्मृतम् = कथितम् । बलसंरक्षणात्— बलानाम् = सैन्यानाम्, संरक्षणात् = गोपनात्, कोशराष्ट्र वृद्धिः – कोशस्य = निधानस्य, च = पुनः, राष्ट्रस्य = राज्यस्य, वृद्धिः = अभिवर्द्धनम्, अरिक्षय: = शत्रुहानिः भवतीति भावः ॥१४ ॥
हिन्दी - खजाने का मूल कारण सेना है, क्योंकि सेना के द्वारा ही कोश संचित होता है और सेना का मूलाधार कोश होता है, क्योंकि कोश से ही सेना का संरक्षण होता है । सेना तथा कोश की रक्षा करने से कोश एवं राज्य की वृद्धि तथा शत्रुओं का नाश होता है ॥ १४ ॥
मूल इति । कोश: बलं मूलं यस्य तथाभूतः, बलानामेव सामर्थ्यात् कोशसञ्चय इति भाव:, बलञ्च कोशमूलं धनमूलं स्मृतं धनेनैव तेषां रक्षणादिति भावः । बलानां संरक्षणात् कोशानां धनानां राष्ट्राणाञ्च वृद्धिः अरीणां शत्रूणां क्षयश्च भवतीति शेषः ॥१४ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 58
पाठ पढ़ें पाठ छिपाएँ
४७० शुक्रनीति: जायते तत् त्रयं स्वर्गः प्रजासंरक्षणेन वै ॥ १५ ॥
अन्वयः — प्रजासंरक्षणेन तत् त्रयं च स्वर्गः वै जायते ॥१५ ॥
व्याख्या – प्रजासंरक्षणेन — प्रजानाम् = जनानाम्, संरक्षणेन = सम्यग्रूपेण पालनेन, तत् = पूर्वोक्तम्, त्रयम् = कोशानां राष्ट्राणाञ्च वृद्धिस्तथा शत्रुहानिः एतत्त्रयम्, तथा स्वर्गः = अन्ते सुरलोकः, वै = इति निश्चयेन जायते = प्राप्नोतीत्यर्थः ॥ १५ ॥
हिन्दी — प्रजा की रक्षा करने से पूर्वोक्त कोश और राज्य की वृद्धि तथा शत्रु का विनाश तो होता ही है, अन्त में स्वर्ग भी मिलता है ॥ १५ ॥
जायते इति । प्रजानां संरक्षणेन सम्यक् पालनेन तत् त्रयं कोशानां एतत् त्रयं सर्गश्च जायते वैशब्दोऽवधारणार्थः ॥ १५ ॥
यज्ञार्थं द्रव्यमुत्पन्नं यज्ञः स्वर्गसुखायुषे ।
अर्य्यभावो बलं कोशो राष्ट्रवृद्ध्यै त्रयं त्विदम् ॥
अन्वयः – यज्ञार्थं द्रव्यम् उत्पन्नं, यज्ञः स्वर्गसुखायुषे अर्यभावः बलं त्रयम् ॥ १६ ॥
व्याख्या — यज्ञार्थम् = यागनिमित्ताय, द्रव्यम् = धनम्, उत्पन्नम् = स्वर्गाय = देवलोकाय, सुखाय = सुखप्राप्त्यर्थम्, आयुषे = दीर्घजीवनाय राष्ट्राणां वृद्धिररिक्षयश्च १६ ॥ कोश: राष्ट्रवृद्ध्यै तु इदं उद्भूतम्, यज्ञः = क्रतु:, च भवति, अर्यभावः अरीणाम् = शत्रूणाम्, अभावः = अविद्यमानता, बलम् = सैन्यम्, कोशः = निधिः, इदम् = एतत्, त्रयम् = त्रिसंख्यकम्, तु, राज्यसंवर्द्धनाय भवतीति भावः ॥१६ ॥
हिन्दी - यज्ञ के लिए धन उत्पन्न हुआ है और यज्ञ स्वर्गसुख एवं आयुवृद्धि के लिए है तथा शत्रु का अभाव, सेना एवं कोश – ये तीनों राष्ट्र की वृद्धि के लिए हैं ॥ १६ ॥
यज्ञार्थमिति । यज्ञार्थं यागानुष्ठानार्थं द्रव्यं धनम् उत्पन्नं यज्ञः स्वर्गाय सुखाय, आयुर्वर्द्धनाय च भवति । अर्य्यभावः शत्रोरभावः बलं सैन्यं कोश: धनम् इदं त्रयन्तु राष्ट्रस्य वृद्ध्यै भवतीति शेषः ॥१६ ॥
तद् वृद्धिर्नीतिनैपुण्यात् क्षमाशीलनृपस्य च ।
जायतेऽतो यतेतैव यावत् बुद्धिबलोदयम् ॥ १७ ॥
अन्वयः - क्षमाशीलस्य नृपस्य नीतिनैपुण्यात् तत् वृद्धिः जायते । अतः यावत् बुद्धिबलोदयं यतेत एव ॥ १७ ॥
व्याख्या — क्षमाशीलस्य = क्षमावतः, नृपस्य = राज्ञः, नीतिनैपुण्यात् = नयकौशल्यात्, तत् = पूर्वोक्तानाम् अर्य्यभावादीनाम्, वृद्धिः = अभिवर्द्धनम्, जायते = भवति । अतः = अस्माद्धेतोः, यावत् = यावत्पर्यन्तम्, बुद्धिबलोदयम् – बुद्धेः = प्रज्ञायाः, बलस्य = सैन्यबलस्य, उदयः = ऊर्ध्वगमनम्, तावत्, यतेत = प्रयत्नं कुर्यादेवेति ॥ १७ ॥
हिन्दी — क्षमाशील राजा अपनी नीतिकुशलता के कारण ही किसी से वैरभाव मिटाता है, सेना और कोश बढ़ता है । अतः जहाँ तक बुद्धिबल का प्रयोग किया जा सकता है, इन तीनों को बढ़ाते रहना चाहिए ॥ १७ ॥
तदिति । क्षमाशीलस्य नृपस्य नीतिनैपुण्यात् तद् वृद्धिः तेषाम् अर्य्यभावादीनां वृद्धिः CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 59
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य द्वितीयं प्रकरणम् ४७१ जायते, अतः अस्मात् कारणात् यावत् बुद्धिबलोदयं बुद्धिबलोदयानुसारेण यतेत एव तद्वृद्धये इति शेषः ॥१७ ॥
मालाकारस्य वृत्त्यैव स्वप्रजारक्षणेन च ।
शत्रुं हि करदीकृत्य तद्धनैः कोशवर्द्धनम् ॥ १८ ॥
करोति स नृपश्रेष्ठो मध्यमो वैश्यवृत्तित: ।
अधम: सेवया दण्डतीर्थदेवकरग्रहैः ॥ १ ९ ॥
अन्वयः — यः मालाकारस्य वृत्त्या इव स्वप्रजारक्षणेन शत्रुं हि करदीकृत्य तद्धनैः कोशवर्द्धनं करोति सः नृपश्रेष्ठः । यः वैश्यवृत्तितः मध्यमः, अधमः सेवया दण्डतीर्थदेवकरग्रहैः ॥ १८-१९ ॥ व्याख्या- यः = नृपः, मालाकारवृत्त्या — मालाकारस्य = उद्यानपालस्य, वृत्त्या = प्रकृत्या, इव = यथा, स्वप्रजारक्षणेन – स्वस्य = आत्मनः प्रजानाम् = जनानाम्, रक्षणेन = गोपनेन, शत्रुम् = रिपुम्, करदीकृत्य —अकरदान् = राजस्वादातृणि, करदान् = राजस्वदातृणि, कृत्वा = विधाय, अधीनीकृत्य, तत् = तस्य, धनैः = अर्थैः, कोशवर्द्धनं करोति = सम्पादयति, सः: = = एवंविधः, नृपश्रेष्ठः = राजसूत्तमः । यः वैश्यवृत्तितः = वणिग्वृत्त्या, कोशवर्द्धनं करोति सः मध्यमः = सामान्यराजा भवति, अधमस्तु = नीचस्तु, सेवया = सेवकत्वेन, दण्डतीर्थदेवकरग्रहैः— दण्डेन = दमनदेयराशिना, तीर्थेण = तीर्थदेयोत्करेण, देवेन = देवदर्शनदेयधनेन, कराणाम् = राजस्वानाम्,, ग्रहैः = ग्रहणैः, कोशवर्द्धनं करोतीति ॥१८-१९ ॥ हिन्दी — जो राजा माली की तरह व्यवहार रखकर प्रजा की रक्षा करते हुए शत्रु राजा को कर देने वाला बनाकर उसके दिये राजस्व से अपना खजाना बढ़ाता है, वह राजाओं के बीच श्रेष्ठ राजा कहलाता है । जो वणिक् वृत्ति से अपना खजाना भरता है, वह मध्यम कोटि का राजा कहलाता है तथा, जो सेवा से, जुर्माना से, तीर्थस्थान एवं देवालय पर टैक्स लगाकर अपना खजाना भरता है, वह अधम कोटि का राजा कहलाता है ॥१८-१९ ॥ मालाकारस्येति । करोतीति । यः मालाकारस्य वृत्त्या व्यवहारेण इव स्वप्रजारक्षणेन शत्रुं करदीकृत्य अकरदान् करदान् कृत्वा अधिनीकृत्येत्यर्थः, तस्य धनैः कोशवर्द्धनं करोति, सः नृपश्रेष्ठः । यः वैश्यवृत्तित: व्यवसायादिना इत्यर्थः, कोशवर्द्धनं करोति स मध्यमः, अधमः सेवया भृत्यभावेन दण्डदेयानां तीर्थदेयानां देवदर्शनदेयानां कराणां ग्रहैः ग्रहणैः कोशवर्द्धनं करोतीत्यर्थः ॥ १८-१९ ॥
प्रजा हीनधना रक्ष्या भृत्या मध्यधनाः सदा ।
यथाधिकृत् प्रतिभुवोऽधिकद्रव्यास्तथोत्तमाः ॥ २० ॥
अन्वयः — हीनधनाः तथा मध्यधनाः प्रजाः भृत्याः सदा रक्ष्याः । अधिकद्रव्याः उत्तमास्तु अधिकृत् यथा प्रतिभुवः ॥ २० ॥
व्याख्या — हीनधनाः = धनहीनाः, तथा मध्यधना: - सामान्याः प्रजाः = जनाः, भृत्याः = कर्मण्याः, दत्वा, सदा = सर्वदा, रक्ष्याः = पालनीयाः । अधिकद्रव्याः = सधनाः, उत्तमाः = = श्रेष्ठाः, प्रजाः = जनाः, तु, अधिकृत् यथा = अधिकारीव, प्रतिभुवः = लग्नकः, दत्वा पालनीयेति भावः ॥ २० ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 60
पाठ पढ़ें पाठ छिपाएँ
४७२ शुक्रनीतिः हिन्दी — धनहीन एवं सामान्य प्रजा की रक्षा एक स्वामी की तरह राजा को करनी चाहिए तथा धनी एवं श्रेष्ठ प्रजा का संरक्षण एक जिम्मेदार व्यक्ति की तरह करना चाहिए ॥ २० ॥
प्रजेति । हीनधनाः तथा मध्यधनाः प्रजाः भृत्या वेतनादिना सदा रक्ष्याः पालनीयाः, अधिकद्रव्याः महाधनाः उत्तमास्तु प्रजाः अधिकृत् प्रभुर्यथा स्वामीव प्रतिभुवः कृत्वा रक्ष्याः राज्ञेति शेषः ॥ २० ॥
धनिकाश्चोत्तमधना न हीना नाधिका नृपैः ॥ २१ ॥
अन्वयः — उत्तमधनाः धनिकाः नृपैः न हीनाः न च अधिकाः ॥२१ ॥
व्याख्या — उत्तमधनाः = अतिधनवन्तो जनाः, धनिकाः = धनिनः, नृपैः = राज्ञैः, न = नहि, होना: = न्यूनाः, न च अधिकाः = विशिष्टाः, इति ज्ञेयाः ॥ २१ ॥
हिन्दी — क्योंकि अत्यन्त वैभवशाली धनी प्रजा न तो राजा से कम या अधिक अर्थात् राजतुल्य होती है ॥२१ ॥
धनिका इति । उत्तमधना धनिकाः धनवन्तश्च नृपैः न हीनाः न च अधिकाः नृपतुल्या इत्यर्थः, भवन्तीति शेषः ॥ २१ ॥
द्वादशाब्दप्रपूरं यद्धनं तन्नीचसंज्ञकम् ।
पर्य्याप्तं षोडशाब्दानां मध्यमं तद्धनं स्मृतम् ।
त्रिंशदब्दप्रपूरं यत् कुटुम्बस्योत्तमं धनम् ॥ २२ ॥
अन्वयः — यत् धनं कुटुम्बस्य द्वादशाब्दप्रपूरं तत् नीचसंज्ञकम्, यत् षोडशाब्दानां पर्याप्तं तत् धनं मध्यमम्, यच्च त्रिंशदब्दप्रपूरं तत् उत्तमं स्मृतम् ॥२२ ॥
व्याख्या — यद्धनम् = या सम्पद्, कुटुम्बस्य = परिजनस्य, द्वादशाब्दप्रपूरम् = द्वादशाब्द-पर्यन्तविनियोगोपयुक्तम्, तत् = धनम्, नीचसंज्ञकम् = अधमाख्यं भवति । यत् = धनम्, षोडशाब्दानाम् = षोडशवर्षपर्यन्तानाम्, पर्याप्तम् = विनियोगार्थमुपपन्नम्, तत् = पूर्वोक्तम्, धनम् = वित्तम्, मध्यमम् = सामान्यस्तरीयं भवति, यच्च = पुनः, यद्धनम् = वित्तम्, त्रिंशदब्दप्रपूरम् = त्रिंशद्वर्षपर्यन्तव्ययोपयुक्तम्, तत् = धनम्, उत्तमम् = श्रेष्ठं धनम्, स्मृतम् = कथितम् ॥ २२ ॥
हिन्दी — जो धन परिवार की रक्षा करने में केवल बारह साल तक ही सक्षम है, वह नीच धन है । जो धन सोलह साल तक परिवार की रक्षा कर सकता है और जो कम - से - कम तीस साल तक परिवार का पोषण कर सकता है, उसे उत्तम धन कहते हैं ॥ २२ ॥
द्वादशेति । यत् धनं कुटुम्बस्य परिवारस्य द्वादशाब्दप्रपूरं द्वादशवर्षव्ययोपयुक्तं तद् नीचसंज्ञकम् अधममित्यर्थः, यत् षोडशाब्दानां पर्य्याप्तं व्ययोपयुक्तं तत् मध्यमं, यच्च त्रिंशदब्दप्रपूरं त्रिंशद्वत्सरव्ययोपयुक्तं तत् उत्तमं स्मृतम् ॥२२ ॥
क्रमादर्थं रक्षयेद् वा स्वापत्तौ नृप एषु वै ॥ २३ ॥
अन्वयः – नृपः स्वापत्तौ एषु वै क्रमात् अर्थं वा रक्षयेत् ॥ २३ ॥
व्याख्या – नृपः = राजा, स्वापत्तौ- — स्वस्य = आत्मनः, आपत्तौ = विपत्काले, एषु = पूर्वोक्तेषु धनिकेषु, क्रमात् = अनुक्रमेण, अर्थम् = धनम्, वा नाम विकल्पेन, रक्षयेत् = स्थापयेदिति ॥ २३ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA