शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 451–460

शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 451–460

पृष्ठ 451

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 451 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८६३ व्याख्या - आहवे = सङ्ग्रामे निहतं = मृतम्, शूरं वीरं, कदाचन = कदापि, न = नहि, शोचेत = चिन्तेत । यतः, सः = - असौ, सर्वपापेभ्यः = सकलेभ्यः अधर्मेभ्यः, निर्मुक्तः = मुक्तः सन्, पूतः सन् = पवित्रो भूत्वा, सुलोकताम् = पुण्यलोके, याति = प्रयाति ॥ ३११ ॥

हिन्दी - युद्ध में मारे गये वीरों के लिए कभी भी शोक नहीं मनाना चाहिए, क्योंकि वह सब पापों से छूटकर पवित्र होने के कारण सुन्दर लोक पाता है ॥ ३११ ॥

आहवे इति । आहवे युद्धे निहतं शूरं कदाचन न शोचेत, यतः सः सर्वपापेभ्यः निर्मुक्तः रणकर्मणेति भाव:, अत एव पूतः सन् सुलोकतां पुण्यवतां लोकमित्यर्थः, याति प्राप्नोति ॥ ३११ ॥

वराप्सरः सहस्राणि शूरमायोधने हतम् ।

त्वरमाणा: प्रधावन्ति मम भर्त्ता भवेदिति ॥ ३१२ ॥

अन्वयः — वराप्सरःसहस्राणि त्वरमाणाः आयोधने हतं शूरम् अयं मम भर्त्ता भवेत् इति प्रधावन्ति ॥ ३१२ ॥

व्याख्या — वराप्सरःसहस्राणि - वराणाम् = उत्तमानाम्, अप्सरसाम् = स्वर्वेश्यानां, सहस्राणि = दशाधिकशतानि, त्वरमाणाः = सत्वराः, सत्यः, आयोधने = सङ्ग्रामे, हतम् = मृतम्, शूरम् = वीरम्, अयं = एषः ममः = = मदीयः, भर्त्ता = स्वामी, भवेत् = स्यात्, इति = इत्थं, प्रधावन्ति = व्रजन्ति ॥ ३१२ ॥

हिन्दी - युद्ध में वीरता के साथ लड़कर मरे हुए योद्धा की ओर हजारों अप्सराएँ तेजी से दौड़ पड़ती हैं और चाहती हैं कि वह हमारा पति बने ॥३१२ ॥

वरेति । वराणां श्रेष्ठानाम् अप्सरसां सहस्राणि त्वरमाणाः सत्वराः सत्यः आयोधने युद्धे हतं शूरम् अयं मम भर्त्ता भवेदिति प्रधावन्ति ॥३१२ ॥

मुनिभिर्दीर्घतपसा प्राप्यते यत् पदं महत् ।

युद्धाभिमुखनिहतैः शूरैस्तद् द्रागवाप्यते ॥ ३१३ ॥

अन्वयः — मुनिभिः दीर्घतपसा यत् महत् पदं प्राप्यते तत् युद्धाभिमुखनिहतैः शूरैः द्राक् अवाप्यते ॥३१४ ॥

व्याख्या — मुनिभिः = ऋषिभिः, दीर्घतपसा – दीर्घेण = महता, तपसा = तपस्यया, यत्, महत् = श्रेष्ठं, पदं = स्थानं, प्राप्यते = लभते, तत् = पदं, युद्धाभिमुखनिहतैः– युद्धे = सङ्ग्रामे, अभिमुखं = सम्मुखम्, यथा स्यात् तथा, निहतैः = मृतैः, शूरैः = वीरैः, द्राक् = झटिति, अवाप्यते = == लभते ॥ ३१३ ॥

हिन्दी - यति - मुनि लम्बी तपस्या के बाद जिस उत्तम लोक को प्राप्त करते हैं, लड़ाई के मैदान में आमने - सामने लड़कर मारे गये शूरमा शीघ्र ही उस स्थान को पा लेते हैं ॥३१३ ॥

मुनिभिरिति । मुनिभिः दीर्घेण महता तपसा यत् महत्पदं प्राप्यते, तत् युद्धाभिमुखनिहतैः युद्धे अभिमुखं यथा तथा निहतैः शूरैः द्राक् झटिति अवाप्यते प्राप्यते ॥ ३१३ ॥

एतत्तपश्च पुण्यञ्च धर्मश्चैव सनातनः ।

चत्वार आश्रमास्तस्य यो युद्धे न पलायते ॥ ३१४ ॥

अन्वयः — यः युद्धे न पलायते तत् एतत् तपः पुण्यं धर्मं च सनातनः, तस्य चत्वारः आश्रमाः ॥ ३१४ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 452

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 452 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८६४ शुक्रनीतिः व्याख्या — यः = पुरुषः, युद्धे = सङ्ग्रामे, न = नहि, पलायते = पलायनं कुरुते, तत्तत् = तत्, एतत् = सङ्ग्रामात् अपलायनम्, तपः = तपश्चरणम्, पुण्यं = धर्मं, सनातनः = शाश्वत, धर्मः तथा चत्वारः = चतु: संख्यकाः, आश्रमाः = = बह्मचर्यादयः, तज्जनितधर्मानुष्ठानम् इत्यर्थः ॥३१४ ॥

हिन्दी – जो लड़ाई के मैदान से नहीं भागता है उसके लिए वही तप, पुण्य, सनातन धर्म तथा चारों आश्रमों के अनुकूल धर्माचरण होता है ॥३१४ ॥

एतदिति । यः युद्धे न पलायते, तत्तत् एतत् युद्धादपलायनमित्यर्थः, तपः तपश्चरणं पुण्यं सनातनः नित्यः धर्मः तथा चत्वारः आश्रमाः चतुराश्रमजनितधर्मानुष्ठानमित्यर्थः ॥ ३१४ ॥

न हि शौर्य्यात् परं किञ्चित् त्रिषु लोकेषु विद्यते ।

शूरः सर्वं पालयति शूरे सर्वं प्रतिष्ठितम् ॥ ३१५ ॥

अन्वयः – त्रिषु लोकेषु शौर्यात् परं किञ्चित् न हि विद्यते । यतः शूरः सर्वं जनं पालयति शूरे च सर्वं प्रतिष्ठितम् ॥३१५ ॥

व्याख्या — त्रिषु लोकेषु = त्रिलोकेषु, शौर्यात् = वीर्यात्, परम् = विशिष्टम्, किञ्चित् = किमपि, न हि = नैव, विद्यते = अस्ति । यतः शूरः = वीरः सर्वम् = सकलम्, जनम् = लोकम्, पालयति = पोषयति, शूरे = वीरे, च = पुनः, सर्वम् = सकलम्, प्रतिष्ठितम् = स्थापितम् ॥ ३१५ ॥

हिन्दी — वीरता से बढ़कर कोई वस्तु उत्तम नहीं है । क्योंकि वीर व्यक्ति ही सबों का पालन करता है और वीर में ही सब कुछ प्रतिष्ठित है ॥३१५ ॥

नेति । त्रिषु लोकेषु शौर्य्यात् परं किञ्चित् न हि विद्यते, यतः शूरः सर्वं जनं पालयति, शूरे च सर्वं प्रतिष्ठितम् ॥ ३१५ ॥

चराणामचरा अन्नमदंष्ट्रा दंष्ट्रिणामपि ।

अपाणयः पाणिमतामन्नं शूरस्य कातराः ॥ ३१६ ॥

अन्वयः — चराणाम् अचराः अन्नं, दंष्ट्रिणाम् अदंष्ट्राः, अन्नं, पाणिमताम् अपाणयः तथा शूरस्य कातराः अन्नम् ॥३१६ ॥

व्याख्या — चराणाम् = मानवादीनाम्, अचराः = जडाः वृक्षादयः, अन्नम् = भक्ष्यम्, दंष्ट्रिणाम् = = सिंहव्याघ्रादीनाम्, अदंष्ट्रा = गोमहीष्यादयः, अन्नम्, पाणिमताम् = करवताम्, अपाणयः = कर-हीनाः, अन्नम्, तथा, शूरस्य = वीरस्य, कातराः = दीनाः, अन्नम् ॥३१६ ॥

हिन्दी — चर के लिए अचर भक्ष्य है, दाँत वाले जीवों के लिए अदन्त पशु भक्ष्य हैं, हाथ - पैर वाले जीवों के लिए बिना हाथ - पैर वाले जीव तथा वीरों के लिए कायर व्यक्ति भक्ष्य होते हैं ॥३१६ ॥

चराणामिति । चराणां गोमनुष्यादीनाम् अचराः व्रीहियवादयः अन्नं, दंष्ट्रिणां व्याघ्रादीनाम् अदंष्ट्राः गवादयः अन्नं, पाणिमतां हस्तवताम् अपाणयः पाणिरहिताः अन्नं, तथा शूरस्य वीरस्य कातराः दुर्बलाः अन्नम् ॥३१६ ॥

द्वाविमौ पुरुषौ लोके सूर्य्यमण्डलभेदिनौ ।

परिव्राड्योगयुक्तो यो रणे चाभिमुखं हतः ॥ ३१७ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 453

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 453 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८६५ अन्वयः — यः योगयुक्तः परिव्राड् यश्च रणे अभिमुखं हतः, इमौ द्वौ पुरुषौ लोके सूर्यमण्डलभेदिनौ भवतः ॥३१७ ॥

व्याख्या — यः– पुरुषः, योगयुक्तः = योगसम्पनः, परिव्राट् = संन्यासी, यश्च = पुनः, यः पुरुषः, रणे = सङ्ग्रामे, अभिमुखम् = सम्मुखम्, हतः = मृतः, इमौ = एतौ द्वौ = उभौ, पुरुषौ = जनौ, लोके = संसारे, सूर्यमण्डलभेदिनौ = सूर्यमण्डलादपि उत्कृष्टस्थानं प्राप्तकर्त्तारौ, भवतः = स्तः ॥ ३१७ ॥

हिन्दी — योगी और संन्यासी तथा युद्ध में आमने - सामने लड़कर मरने वाला वीर पुरुष; ये दोनों ही संसार में सूर्यलोक का भेदन करने वाले होते हैं ॥३१७ ॥

द्वाविति । यः योगयुक्तः योगी परिव्राट् चतुर्थाश्रमी यश्च रणे अभिमुखं हतः, इमौ द्वौ पुरुषौ लोके जगति सूर्य्यमण्डलभेदिनौ भवतः सूर्य्यलोकादपि उत्कृष्टं लोकं प्राप्नुत इत्यर्थः ॥३१७ ॥

आत्मानं गोपयेच्छक्तो वधेनाप्याततायिनः ।

सुविद्यब्राह्मणगुरोर्युद्धे श्रुतिनिदर्शनात् ॥ ॥ ३१८ ॥

अन्वयः - श्रुतिनिदर्शनात् युद्धे आततायिनः सुविद्यब्राह्मणगुरोरपि वधेन आत्मानं गोपयेत् ॥ ३१८ ॥

व्याख्या— श्रुतिनिदर्शनात् = स्मृतिवचनात्; यथा — ' गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवाविचारयन् ' ॥ इति । ( मनुस्मृतौ ) शक्तः = बलवान् जनः समर्थो वा, युद्धे = सङ्ग्रामे, आततायिनः = वधोद्यतस्य; तद्यथा— ' अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षडेते आततायिनः ॥ सुविद्यस्य = विद्यावतः, ब्राह्मणस्य = विप्रस्य, गुरोः = आचार्यस्य, अपि, वधेन = हननेन, आत्मानं = स्वम्, गोपयेत् = रक्षेत् ॥ ३१८ ॥

हिन्दी — संग्राम में सशक्त व्यक्ति आत्मरक्षा के लिए वधोद्यत विद्वान् ब्राह्मण हो या गुरु

उसकी हत्या कर देनी चाहिए । यह श्रुति स्मृतिसम्मत बातें हैं ॥ ३१८ ॥

आत्मानमिति । श्रुतिनिदर्शनात् वेदवचनात् शक्तः शक्तिमान् जनः युद्धे आततायिनः वधोद्यतस्य ‘ आततायी वधोद्यतः ' इत्यमरः । सुविद्यस्य ब्राह्मणस्य गुरोरपि वधेन आत्मानं गोपयेत् रक्षेत् । उक्तञ्च मनुना —— गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवा-विचारयन् ' ॥ इति । आततायनिश्च उक्ताः यथा - ' अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षडेते आततायिनः ॥ इति ॥ ३१८ ॥

आचार्य्या वै कारुणिकाः प्राज्ञाश्चापापदर्शिन: ।

नैते महाभये प्राप्ते सम्प्रष्टव्याः कथञ्चन ॥ ३१ ९ ॥

अन्वयः - महाभये प्राप्ते कारुणिकाः अपापदर्शिनः प्राज्ञाः आचार्या: - एते कथञ्चन न सम्प्रष्टव्याः वै ॥३१ ९ ॥ व्याख्या – महाभये = विनाशकाले, प्राप्ते = उपस्थिते सति, कारुणिकाः = कृपावन्तः दया-लवो वा, अपापदर्शिनः = पापरहिताः, प्राज्ञाः = प्रकर्षज्ञानवन्तः, आचार्याः = गुरवः, एते, कथञ्चन = कदापि, न = नहि, सम्प्रष्टव्याः = प्रश्नं न कर्त्तव्याः, वै = इति निश्चयेन ॥ ३१ ९ ॥ ५५ शु ० CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 454

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 454 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८६६ शुक्रनीति: हिन्दी – शत्रुसंकट उपस्थित हो जाने पर दयालु, निष्पाप आचार्यों से प्रतिकार का उपाय कभी नहीं पूछना चाहिए ॥ ३१ ९ ॥ आचार्या इति । महाभये प्राप्ते उपस्थिते सति कारुणिकाः दयावन्तः अपापदर्शिनः निष्पापाः प्राज्ञाः आचार्य्याः गुरवश्च एते कथञ्चन न सम्प्रष्टव्याः तेषु पृष्टेषु प्रतीकारस्य असम्भवा-दिति भावः ॥ ३१ ९ ॥

प्रासादेषु विचित्रेषु गोष्ठीषूपवनेषु च ।

कथा विचित्रा: कुर्वाणाः पण्डितास्तत्र शोभनाः ॥ ३२० ॥

अन्वयः - विचित्रेषु प्रासादेषु गोष्ठीषु उपवनेषु विचित्राः कथाः कुर्वाणाः पण्डिताः तत्र शोभनाः ॥३२० ॥

व्याख्या — विचित्रेषु = आश्चर्यजनकेषु, प्रासादेषु = राजभवनेषु, गोष्ठीषु = परिषत्सु, तथा उपवनेषु = उद्यानेषु, विचित्राः = विलक्षणाः, कथाः = वार्त्ताः कुर्वाणाः पण्डिताः = विज्ञजनाः, तत्र = तस्मिन् स्थानेषु, शोभनाः = कान्तिं लभन्ते ॥ ३२० ॥

हिन्दी – विलक्षण राजभवनों में, सभा - समितियों में तथा प्रमोदवनों में बैठकर ज्ञानीजन कथा कहते हुए शोभा पाते हैं ॥ ३२० ॥

प्रासादेष्विति । विचित्रेषु प्रासादेषु राजभवनेषु गोष्ठीषु सभासु तथा उपवनेषु विनोदनस्थानेषु इति भावः । विचित्राः कथाः कुर्वाणाः पण्डिताः तत्र तेषु तेषु प्रदेशेषु इत्यर्थः, शोभनाः शोभां प्राप्नुवन्ति इत्यर्थः ॥३२० ॥

बहून्याश्चर्य्यरूपाणि कुर्वाणा जनसंसदि ।

ईड्यास्ते चोपसन्धाने पण्डितास्तत्र शोभनाः ॥ ३२१ ॥

अन्वयः —– जनसंसदि बहून्याश्चर्यरूपाणि कुर्वाणाः उपसन्धाने ते च पण्डिताः ईड्याः तत्र शोभनाः ॥ ३२१ ॥

व्याख्या — जनसंसदि — जनानाम् = लोकानाम्, संसदि = सभासु बहूनि = अधिकानि, आश्चर्यरूपाणि = विलक्षणकार्याणि, कुर्वाणाः = सम्पाद्यमाणाः, उपसन्धाने = तत्त्वनिर्णये, ते च पण्डिताः = सुधयः, ईड्याः = पूजनीयाः, तत्र = तस्मिन् विषये, शोभनाः = कान्तिसम्पन्नाः भवन्ति ॥ ३२१ ॥

हिन्दी – जनसभा में बहुत सारे आश्चर्यजनक कार्यों के सम्पादन में दक्ष तथा तत्त्वनिर्णय करने में प्रशंसित पंडितगण शोभा पाते हैं ॥ ३२१ ॥

बहूनीति । जनसंसदि जनानां सभासु बहूनि आश्चर्यरूपाणि कर्माणीत्यर्थः, कुर्वाणाः उपसन्धाने तत्त्वनिर्णये ते च पण्डिताः ईड्याः पूज्याश्च तत्र विषये शोभनाः ॥ ३२१ ॥

परेषां विवरज्ञाने मनुष्यचरितेषु च ।

हस्त्यश्वरथचर्य्यासु खरोष्ट्राजाविकर्मणि ॥ ३२२ ॥

गोधनेषु प्रतोलीषु स्वयंवरमुखेषु च ।

अन्न्संस्कारदोषेषु पण्डितास्तत्र शोभनाः ॥ ३२३ ॥

अन्वयः — परेषां विवरज्ञाने मनुष्यचरितेषु हस्त्यश्वरथचर्यासु खरोष्ट्राजाविकर्मणि गोधनेषु प्रतोलीषु स्वयंवरमुखेषु च अन्नसंस्कारदोषेषु ये पण्डिताः तत्र शोभनाः ॥ ३२२-३२३ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 455

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 455 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८६७ व्याख्या - परेषां = रिपूणाम्, विवरज्ञाने = छिन्द्रावबोधे, मनुष्याणाम् = नराणाम्, चरितेषु = चरित्रेषु, च = पुनः, हस्तिनाम् = गजानाम्, अश्वानां = घोटकानां, रथानाञ्च = स्यन्दनानाम्, चर्यासु = प्रक्रियासु, खराणां = वैशाखनन्दनानाम्, उष्ट्राणाम् = क्रमेलकानाम्, अजानाम् = छागानाम्, अवीनां = मेषानां कर्मणि = कार्याणि, गोधनेषु = धेनुधनेषु, प्रतोलीषु = रथ्यासु, स्वयंवरमुखेषु = स्वयंवरकृत्येषु, तथा अन्नसंस्कारदोषेषु = पाकप्रक्रियाजन्यदोषेषु, ये पण्डिताः = = विज्ञाः, ते = तत्र, तस्मिन् विषयेषु, शोभनाः = शोभासम्पन्नाः भवन्ति ॥ ३२२-३२३ ॥ हिन्दी — दुश्मनों के दोष जानने में मनुष्यों के चरित्र हाथी, घोड़े और रथ सम्बन्धी गदहा, ऊँट, बकरी, भेड़ संबंधी कामों को जानने में एवं गोधन, गली, स्वयंवर तथा रसोई बनाने संबंधी दोषों को जानने में जो विशेषज्ञ हैं, उनकी शोभा उन्हीं विषयों में होती है ॥ ३२२-३२३ ॥ परेषामिति । गोधनेष्विति । परेषां शत्रूणां विवरज्ञाने छिद्रावबोधे, मनुष्याणां चरितेषु, हस्तिनाम् अश्वानां रथानाञ्च चर्य्यासु प्रक्रियासु, खराणां गर्दभानाम् उष्ट्राणाम् अजानाम् अवीनां मेषाणाञ्च कर्मणि, गोधनेषु प्रतोलीषु रथ्यासु, स्वयंवरमुखेषु स्वयंवरप्रभृतिषु तथा अन्नसंस्कारदोषेषु रन्धनविषयकदोषेषु ये पण्डिताः निपुणाः ते तत्र तेषु तेषु विषयेषु शोभनाः शोभां प्राप्नुवन्तीत्यर्थः ॥ ३२२-३२३ ॥ पण्डितान् पृष्ठतः कृत्वा परेषां गुणवादिनः ।

अरेश्चित्तगुणान् ज्ञात्वा न सैन्ये भङ्गशङ्कया ।

विधीयतां तथा नीतिर्यथा वध्यो भवेत् परः ॥ ३२४ ॥

अन्वयः — परेषां गुणवादिनः पण्डितान् पृष्ठतः कृत्वा अरेः चित्तगुणान् ज्ञात्वा भङ्गशङ्कया तथा नीतिः विधीयतां यथा परः वध्यः भवेत् ॥ ३२४ ॥

व्याख्या – परेषाम् = रिपूणाम्, गुणवादिनः = गुणप्रशंसकाः, पण्डितान् = विदुषः, पृष्ठतः कृत्वा = समुपेक्ष्य, अरेः = रिपोः, चित्तगुणान् = मनोभावान्, ज्ञात्वा = अवबुध्य, भङ्गशङ्कया = युद्धात् सैन्यभङ्गो मा भूदिति, शङ्कया = सन्दिग्धत्वेन, तथा = तेन प्रकारेण, नीतिः = रणकौशलम्, विधीयताम् = क्रियताम्, यथा = येन प्रकारेण, परः = शत्रुः, वध्यः = हन्तव्यः, भवेत् [ = = स्यात् ॥ ३२४ ॥

हिन्दी - शत्रुओं के गुणप्रशसंकों की अवहेलना कर, दुश्मनों के मनोभावों की जानकारी कर युद्ध में सेना के पैर उखड़ जायेंगे - इसकी चिन्ता छोड़कर ऐसी नीति का सहारा लेना चाहिए ताकि दुश्मन मारा जा सके ॥३२४ ॥

पण्डितानामिति । परेषां शत्रूणां गुणवादिनः गुणपक्षपातिनः पण्डितान् पृष्ठतः कृत्वा अविगणय्य इत्यर्थः, अरेः शत्रोः चित्तगुणान् मनोभावान् ज्ञात्वा भङ्गशङ्कया रणात् भग्नो मा भूदिति शङ्कया अभिप्रायेण तथा नीतिः विधीयतां यथा परः शत्रु वध्यः भवेत् ॥३२४ ॥

आततायित्वमापन्नो ब्राह्मणः शूद्रवत् स्मृतः ।

नाततायिवधे दोषो हन्तुर्भवति कश्चन ॥ ३२५ ॥

अन्वयः — आततायित्वम् आपन्नः बाह्मणः शूद्रवत् स्मृतः । आततायिवधे हन्तुः कश्चन दोषः न भवति ॥ ३२५ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 456

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 456 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८६८ शुक्रनीतिः व्याख्या — आततायित्वम् = वधोद्यतभावम्, आपन्नम् = प्राप्तम्, बाह्मण: = विप्रः, शूद्रवत् - 1 वृषल इव, स्मृतः = कथितः । आततायिनः = वधोद्यतब्राह्मणस्य वधे = हनने, हन्तुः = हननकर्तुः, कश्चन = किमपि, दोषः = पापः, न = - नहि, भवति ॥ ३२५ ॥

हिन्दी — आततायी ब्राह्मण शूद्र की तरह कहा गया है । अतः ऐसे आततायी ब्राह्मण को मारने में मारने वाले को कोई दोष नहीं है ॥ ३२५ ॥

आततायित्वमिति । आततायित्वम् आततायिभावमापन्नः प्राप्तः वधोद्यत इत्यर्थः, ब्राह्मणः शूद्रवत् स्मृतः ॥ ३२५ ॥

उद्यम्य शस्त्रमायान्तं भ्रूणमप्याततायिनम् ।

निहत्य भ्रूणहा न स्यादहत्वा भ्रूणहा भवेत् ॥ ३२६ ॥

अन्वयः — शस्त्रम् उद्यम्य आयान्तम् आततायिनं भ्रूणं निहत्य भ्रूणहा न स्यात्, अहत्वा भ्रूणहा भवेत् ॥ ३२६ ॥

व्याख्या— शस्त्रम् = आयुधम्, उद्यम्य = उत्थाप्य, आयान्तम् = आक्रमन्तम्, आततायिनम् = - वधोद्यतम्, भ्रूणम् = बालकमपि, निहत्य = हननं कृत्वा, भ्रूणहा = शिशुहन्ता, न = नहि, स्यात् = भवेत्, अहत्वा = तमनिहत्य, भ्रूणहा = शिशुहन्ता, भवेत् ॥ ३२६ ॥

हिन्दी— हथियार उठाकर मारने के लिए आते हुए बालक की हत्या कर देने पर भी भ्रूणहा नहीं कहा जा सकता है, प्रत्युत ऐसे आततायी बालक को नहीं मारने से ही भ्रूणहत्या के पाप का भागी समझा जाता है ॥ ३२६ ॥

उद्यम्येति । शस्त्रम् उद्यम्य आयान्तम् आततायिनं भ्रूणं बालकमपि निहत्य भ्रूणहा न स्यात् अहत्वा तु भ्रूणहा भवेत् ॥ ३२६ ॥

उद्यतेषुमथो दृष्ट्वा ब्राह्मणं क्षत्रबन्धुवत् ।

यो हन्यात् समरे क्रुद्धं युध्यन्तमपलायितम् ।

ब्रह्महत्या न तस्य स्यादिति धर्मेषु निश्चयः ॥ ३२७ ॥

अन्वयः - यः समरे उद्यतेषं क्रुद्धं क्षत्रबन्धुवत् युध्यन्तम् अपलायितं ब्राह्मणं दृष्ट्वा हन्यात् तस्य ब्रह्महत्या न स्यात्; धर्मेषु इति निश्चयः ॥ ३२७ ॥

व्याख्या — यः = पुरुषः, समरे = सङ्ग्रामे, उद्यतेषुम् = उत्थापितास्त्रं, क्रुद्धम् = अतिकुपितं, क्षत्रबन्धुवत् = क्षत्रियमिव, युध्यन्तम् = रणं कुर्वन्तम्, अपलायितम् = पलायनं विना, ब्राह्मणं - = विप्रं, दृष्ट्वा = अवलोक्य, हन्यात् = हननं कुर्यात्, तस्य = जनस्य, ब्रह्महत्या = विप्रहननदोषः, न = = नहि, स्यात् = भवेत्, धर्मेषु = धर्मग्रन्थेषु, इति = एवम्, निश्चयः = निर्णयः ॥ ३२७ ॥

हिन्दी – लड़ाई के मैदान में क्षत्रियों की तरह डटकर मुकाबला करते हुए हथियार उठाये अत्यन्त कुपित ब्राह्मण की जो हत्या कर देता है, उसे ब्रह्महत्या का पाप नहीं लगता; यह धर्म-शास्त्र का सिद्धान्त है ॥ ३२७ ॥

उद्यतेषुमिति । यः समरे उद्यतेषुम् उद्यतास्त्रं क्रुद्धं क्षत्रबन्धुवत् क्षत्रियमिव युध्यन्तम् अपलायितं ब्राह्मणं दृष्ट्वा हन्यात्, तस्य ब्रह्महत्या न स्यात्, धर्मेषु धर्मशास्त्रेषु इति निश्चयः ॥३२७ ॥

अपसरति यो युद्धाज्जीवितार्थी नराधमः ।

जीवन्नेव मृतः सोऽपि भुङ्क्ते राष्ट्रकृतं त्वघम् ॥ ३२८ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 457

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 457 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८६ ९ अन्वयः - यः नराधमः जीवितार्थी सन् युद्धात् अपसरति, सोऽपि जीवन्नेव मृतः राष्ट्रे कृतम् अघं तु भुङ्क्ते ॥ ३२८ ॥

व्याख्या - यः = जनः, नराधमः = = पापीपुरुषः, जीवितार्थी = जीवनाभिलाषी सन्, युद्धात् = रणात्, अपसरति = पलायते, सोऽपि = असावपि, जीवन्नेव = जीवितेऽपि, मृतः = हतः सन्, राष्ट्रे = देशे, कृतम् = निष्पादितम्, अघम् = पापम्, तु, भुङ्क्ते = भक्षणं कुरुते ॥ ३२८ ॥

हिन्दी – जान बचाने के लिए मैदान छोड़कर भागने वाला नराधम जिन्दा रहकर भी मरा हुआ है । ऐसा आदमी राष्ट्र में किये गये सम्पूर्ण पाप को अकेले भोगता है ॥३२८ ॥

अपसरति इति । यः नराधमः जीवितार्थी सन् युद्धात् अपसरति सः जीवन्नेव मृतः सन् राष्ट्रे राज्ये कृतम् अघं पापं भुङ्क्ते ॥ ३२८ ॥

मित्रं वा स्वामिनं त्यक्त्वा निर्गच्छति रणाच्च यः ।

सोऽन्ते नरकमाप्नोति सजीवो निन्द्यतेऽखिलैः ॥३२९ ॥

अन्वयः — यः मित्रं स्वामिनं त्यक्त्वा रणात् निर्गच्छति च सः अन्ते नरकम् आप्नोति, सजीवः अखिलैः निन्द्यते ॥ ३२ ९ ॥ व्याख्यायः क: सैनिकः, मित्रं = सुहृदम्, वा = अथवा, स्वामिनम् = प्रभुम्, त्यक्त्वा = विहाय, रणात् = सङ्ग्रामात्, निर्गच्छति = निस्सरति, च = पुनः, सः = = असौ, अन्ते = अन्तिमकाले, नरकम् = निरयम्, आप्नोति = प्राप्नोति, सजीवः = जीवन्नपि, अखिलैः = सकलैः लोकैः, निन्द्यते - - निन्दनीयो भवति ॥ ३२ ९ ॥ हिन्दी — लड़ाई के मैदान में जो अपने मित्र और मालिक को छोड़कर पीठ दिखाता है, वह मरणोपरान्त तो नरक जाता ही है, जिन्दा रहकर भी सबकी निन्दा का पात्र होता है ॥ ३२ ९ ॥ मित्रमिति । यः मित्रं वा स्वामिनं त्यक्त्वा रणात् निर्गच्छति पलायते, सः अन्ते देहावसाने नरकम् आप्नोति, सजीवः जीवन् सन् अखिलैः समस्तैः लोकैः निन्द्यते च ॥ ३२ ९ ॥

मित्रमापद्गतं दृष्ट्वा सहायं न करोति यः ।

अकीर्त्तिं लभते सोऽत्र मृतो नरकमृच्छति ॥ ३३० ॥

अन्वयः — यः मित्रम् आपद्गतं दृष्ट्वा सहायं न करोति सः अत्र अकीर्त्तिं लभते, मृतश्च नरकम् ऋच्छति ॥ ३३० ॥

व्याख्या – यः = जनः, मित्रम् = सुहृदम्, आपद्गतम् = विपन्नम्, दृष्ट्वा =: अवलोक्य, सहायम् = साहाय्यम्, न = = नहि, करोति = सम्पादयति, सः = असौ, अत्र = अस्मिन् लोके, अकीर्त्तिम् = अयशम्, लभते = प्राप्नोति, मृतश्च = उपरतश्च, नरकम् = निरयम्, ऋच्छति = प्राप्नोति ॥ ३३० ॥

हिन्दी — जो व्यक्ति विपत्ति में गिरे अपने मित्र को देखकर भी उसकी सहायता नहीं करता है, वह जिन्दा रहकर संसार में निन्दित होता है और मरने पर सीधे नरक में जाता है ॥ ३३० ॥

मित्रमिति । यः मित्रम् आपद्गतं विपन्नं दृष्ट्वा सहायं साहाय्यं न करोति, स अत्र इहलोके अकीर्त्तिं लभते, मृतश्च नरकम् आप्नोति ॥३३० ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 458

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 458 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८७० शुक्रनीतिः

विश्रम्भाच्छरणं प्राप्तं यः सन्त्यजति दुर्मतिः ।

स याति नरके घोरे यावदिन्द्राश्चतुर्दशः ॥ ३३१ ॥

अन्वयः — यः दुर्मतिः विश्रम्भात् शरणं प्राप्तं सन्त्यजति, सः चतुर्दशः इन्द्राः यावत् घोरे नरके याति ॥ ३३१ ॥

व्याख्या — यः = जनः, दुर्मतिः = दुष्टबुद्धिः, विश्रम्भात् = विश्वासात् शरणम् = आश्रयम्, प्राप्तम् = आगतं जनम्, सन्त्यजति = परित्यागं करोति, सः = असौ पुरुषः, यावत् कालपर्यन्तम्, चतुर्दशः = चत्वार्यधिकदशः, इन्द्राः = सुरपतयः, तिष्ठन्ति तावत् कालपर्यन्तम्, घोरे = भयङ्करे, नरके = अतिमलिनस्थाने, याति = व्रजति ॥ ३३१ ॥

हिन्दी — जो दुर्बुद्धि विश्वासपूर्वक शरण में आये व्यक्ति को चौदह इन्द्र बदलते हैं तब तक घोर नरक में निवास करता है ॥३३१ विश्रम्भादिति । यः दुर्मतिः विश्रम्भात् विश्वासात् शरणं प्राप्तं जनं इन्द्राः तिष्ठन्तीति शेषः, तावत्कालमित्यर्थः, घोरे नरके याति गच्छति ॥

सुदुर्वृत्तं यदा क्षत्रं नाशयेयुस्तु बाह्मणाः ।

युद्धं कृत्वापि शस्त्रास्त्रैर्न तदा पापभागिनः ॥

अन्वयः — यदा तु ब्राह्मणाः शस्त्रास्त्रैः युद्धं कृत्वापि सुदुर्वृत्तं क्षत्रं न ॥ ३३२ ॥

लौटा देता है, वह जब तक ॥ सन्त्यजति सः यावत् चतुर्दश ३३१ ॥ ३३२ ॥ नाशयेयुः तदा ते पापभागिनः व्याख्या — यदा = यस्मिन् काले तु = किन्तु, ब्राह्मणाः = विप्राः, शस्त्रास्त्रैः = प्रहरणैः, युद्धं = समरम्, कृत्वा = सम्पाद्य, अपि = चेत्, सुदुर्वृत्तम् == अतिदुराशयम्, क्षत्रम् = राजन्यम्, नाशयेयुः = विनष्टं कुर्युः, तदा ते, पापभागिनः = अधर्मभागिन:, न = नहि, भवन्ति ॥ ३३२ ॥

हिन्दी – युद्ध के मैदान में हथियारों से सुसज्जित ब्राह्मण यदि किसी दुराचारी क्षत्रिय की हत्या करते हैं, तो वे पाप के भागीदार नहीं होते ॥ ३३२ ॥

सुदुर्वृत्तमिति । यदा तु ब्राह्मणाः शस्त्रास्त्रैः युद्धं कृत्वा सुदुर्वृत्तम् अतिदुराशयं क्षत्रं क्षत्रियं नाशयेयुः तदा ते पापभागिनः न भवन्तीत्यर्थः ॥ ३३२ ॥

हीनं यदा क्षत्रकुलं नीचैर्लोकः प्रपीड्यते ।

तदापि ब्राह्मणा युद्धे नाशयेयुस्तु तान् द्रुतम् ॥ ३३३ ॥

अन्वयः — यदा तु हीनं क्षत्रकुलं नीचैः लोकैः प्रपीड्यते, तदापि ब्राह्मणाः युद्धे तान् द्रुतं नाशयेयुः ॥३३३ ॥

व्याख्या — यदा = यस्मिन् काले, हीनम् = अधमम्, क्षत्रकुलम् = क्षत्रियवंशम्, नीचैः = अधमैः, लोकैः = जनैः, प्रपीड्यते = अभिभूयते, तदापि = तस्मिन्नपि काले, ब्राह्मणाः = विप्राः, युद्धे = रणे, तान् = नीचान्, द्रुतम् = त्वरितम्, नाशयेयुः = विनाशयेयुः ॥ ३३३ ॥

हिन्दी — जब क्षत्रियों को कमजोर समझ कर नीच लोग उसे पीड़ित करने लगे तो युद्ध में उन नीचों को विनष्ट करना ब्राह्मणों का कर्त्तव्य होता है ॥ ३३३ ॥

हीनमिति । यदा तु हीनं क्षत्रकुलं नीचैः अधमैः लोकैः प्रपीड्यते अभिभूयते, तदापि ब्राह्मणाः युद्धे तान् नीचान् लोकान् द्रुतं शीघ्रं नाशयेयुः ॥ ३३३ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 459

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 459 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८७१

उत्तमं मान्त्रिकास्त्रेण नालिकास्त्रेण मध्यमम् ।

शस्त्रैः कनिष्ठं युद्धन्तु बाहुयुद्धं ततोऽधमम् ॥ ३३४ ॥

अन्वयः – मान्त्रिकास्त्रेण युद्धम् उत्तमं नालिकास्त्रेण मध्यमं, शस्त्रैः कनिष्ठं, बाहुयुद्धं तु ततः अधमम् ॥ ३३४ ॥

व्याख्या – मान्त्रिकास्त्रेण = मन्त्रसिद्धायुधेन, युद्धम् = रणम्, उत्तमम् = श्रेष्ठम्, नालिकास्त्रेण = आग्नेयास्त्रेण, युद्धम्, मध्यमम् = सामान्यम्, शस्त्रैः = प्रहरणैः, युद्धम्, कनिष्ठम् = अधमम्, बाहुयुद्धम् = मल्लयुद्धम्, तु, ततोऽपि = अधमादपि, अधमं भवति ॥ ३३४ ॥

हिन्दी – मंत्रसिद्ध आयुधों से युद्ध उत्तम होता है, आग्नेयास्त्रों से किया गया युद्ध मध्यम कोटि का होता है, सामान्य हथियारों से किया गया युद्ध कनिष्ठ होता है तथा बाहुबल से किया गया युद्ध अधम से भी अधम होता है ॥ ३३४ ॥

उत्तममिति । मान्त्रिकास्त्रेण मन्त्रसिद्धेन अस्त्रेण युद्धम् उत्तमं नालिकास्त्रेण मध्यमं शस्त्रैः कनिष्ठम् अधमं बाहुयुद्धन्तु ततः अधमादपि अधमम् ॥ ३३४ ॥

मन्त्रेरितमहाशक्तिबाणाद्यैः शत्रुनाशनम् ।

मान्त्रिकास्त्रेण तद्युद्धं सर्वयुद्धोत्तमं स्मृतम् ॥ ३३५ ॥

अन्वयः — मन्त्रेरितमहाशक्तिबाणाद्यैः यत् शत्रुनाशनं तत् मान्त्रिकास्त्रेण युद्धं सर्वयुद्धोत्तमं स्मृतम् ॥ ३३५ ॥

व्याख्या – मन्त्रेण = मन्त्रशक्तिना, ईरितैः = प्रेरितैः यत् महाशक्तिबाणाद्यैः = मन्त्रशक्ति-सम्पन्नशराद्यैः, शत्रूणाम् = रिपूणाम्, नाशनम् = विध्वंसनम्, तत् मान्त्रिकास्त्रेण = मन्त्रबलप्रयुक्तायुधेन, युद्धम् = समरम्, सर्वेषु = सकलेषु, युद्धेषु = रणेषु, उत्तमम् = उत्कृष्टम्, स्मृतम् = कथितम् ॥ ३३५ ॥

हिन्दी - मंत्रो से अभिषिक्त महाशक्तिशाली बाण आदि हथियारों का प्रयोग कर जिस युद्ध में शक्तियों का विनाश किया जाता है, उस युद्ध को मान्त्रिकास्त्र युद्ध कहते हैं तथा यह युद्ध सभी युद्धों में सर्वश्रेष्ठ माना जाता है ॥ ३३५ ॥

मन्त्रयुद्धमाह - मन्त्रेति । मन्त्रेण ईरितैः महाशक्तिबाणाद्यैः यत् शत्रूणां नाशनं तत् मान्त्रिकास्त्रेण युद्धं तच्च सर्वेषु युद्धेषु उत्तमं श्रेष्ठं स्मृतम् ॥ ३३५ ॥

नालाग्निचूर्णसंयागाल्लक्ष्ये गोलनिपातनम् ।

नालिकास्त्रेण तद्युद्धं महात्रासकरं रिपोः ॥ ३३६ ॥

अन्वयः – नालेन अग्निचूर्णसंयोगात् लक्ष्ये गोलनिपातनं तत् नालिकास्त्रेण युद्धं रिपोः महात्रासकरम् ॥ ३३६ ॥

व्याख्या – नालेन = लोहवलयेन, अग्निचूर्णसंयोगात् = स्फोटकचूर्णसम्पर्कात्, लक्ष्ये = शरव्ये, यत् गोलनिपातनम् = गोलाकारज्वलल्लौहपिण्डनिक्षेपम्, तत् नालिकास्त्रेण युद्धम् = आग्नेयास्त्रेण रणम्, रिपोः = शत्रोः, महात्रासकरम् = अतिभयप्रदं भवति ॥ ३३६ ॥

हिन्दी — तोप या बन्दूकों के द्वारा लक्ष्य पर गोले फेंक कर जिसमें युद्ध किया जाता है वह युद्ध शत्रुओं के लिए अति भयंकर होता है ॥ ३३६ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 460

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 460 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८७२ शुक्रनीतिः नालयुद्धमाह - नालेति । नालेन अग्निचूर्णसंयोगात् लक्ष्ये लक्षणीये शत्रौ यत् गोलनिपातनं गोलाकारज्वलल्लौहपिण्डनिक्षेपणं तत् नालिकास्त्रेण युद्धं तच्च रिपोः शत्रोः महात्रासकरम् अतिभयङ्करमित्यर्थः ॥ ३३६ ॥

कुन्तादिशस्त्रसङ्घातै रिपूणां नाशनञ्च यत् ।

शस्त्रयुद्धन्तु तज्ज्ञेयं नालास्नाभावतः सदा ॥ ३३७ ॥

अन्वयः — कुन्तादिशस्त्रसङ्घातैः यत् रिपूणां नाशनं च तत् शस्त्रयुद्धं नालास्त्राऽभावतः सदा ज्ञेयम् ॥३३७ ॥

व्याख्या — कुन्तादीनाम् = प्रासादीनाम्, शस्त्राणाम् = आयुधानाम्, सङ्घातैः = समूहैः, यत्, रिपूणाम् = अरीणाम्, नाशनम् = विध्वंसनम्, तत् शस्त्रयुद्धम् = आयुधसङ्ग्रामम्, सदा = सर्वदा, नालास्त्राणाम् = आग्नेयास्त्राणाम्, अभावतः = सत्ताऽभावे, ज्ञेयम् = बोध्यम् ॥ ३३७ ॥

हिन्दी — जिस लड़ाई में आग्नेयास्त्र का अभाव होता है, केवल आयुधों से युद्ध किया जाता है, उसे आयुधयुद्ध कहा जाता है ॥३३७ ॥

शस्त्रयुद्धमाह - कुन्तेति । कुन्तादीनां शस्त्राणां सङ्घातैः समूहैः यत् रिपूणां शत्रूणां नाशनं तत् शस्त्रयुद्धं सदा नालास्त्राणाम् अभावतः ज्ञेयं नालास्त्रासद्भावे तैरेव योद्धव्यमिति भावः ॥ ३३७ ॥

कर्षणैः सन्धिमर्माणां प्रतिलोमानुलोमतः ।

बन्धनैर्घातनं शत्रोर्युक्त्या तद् बाहुयुद्धकम् ॥ ३३८ ॥

अन्वयः — युक्त्या शत्रोः सन्धिमर्माणां कर्षणैः प्रतिलोमानुलोमतः बन्धनैः यत् घातनं तत् बाहुयुद्धम् ॥ ३३८ ॥

व्याख्या — युक्त्या = चातुर्येण, शत्रोः = रिपोः, सन्धिमर्माणाम् = दैहिकग्रन्थीनां मर्माणां च, कर्षणैः = उत्पीडनैः, प्रतिलोमानुलोमतः — प्रतिलोमेन = विपरीतेन, अनुलोमतः = स्वाभाविकगत्या च, तथा बन्धनैः = बाहुभिः, कर्षणैः, यत् घातनम् = हननम्, तत् = युद्धम्, बाहुयुद्धम् = मल्लयुद्धम्, कथितम् ॥ ३३८ ॥

हिन्दी —– चालाकी से देह की जोड़ वाली जगह तथा मर्मस्थान में पीड़ा पहुँचाने के लिए उलटा - सीधा बाँहों को बाँहों से बाँधकर जिसमें लड़ाई की जाती है, उसे बाहुयुद्ध कहते हैं ॥३३ ९ ॥ बाहुयुद्धमाह - कर्षणैरिति । युक्त्या कौशलेन शत्रोः सन्धिमर्माणां सन्धीनां शरीरग्रन्थीनां मर्माणाञ्च कर्षणैः प्रपीडनैः प्रतिलोमानुलोमतः प्रतिलोमेन अस्वाभाविकरीत्या अनुलोमतः स्वभावगत्या च तथा बन्धनैः बाहुभिरिति शेषः, यत् घातनं नाशनं तत् बाहुयुद्धकम् ॥ ३३८ ॥

वामपाणिकचोत्पीडा भूमौ निष्पेषणं बलात् ।

मूर्ध्नि पादप्रहरणं जानुनोदरपीडनम् ॥ ३३ ९ ॥

मालूराकारया मुष्ट्या कपाले दृढताडनम् ।

कफोणिपातोऽप्यसकृत् सर्वतस्तलताडनम् ।

छलेन युद्धे भ्रमणं नियुद्धं स्मृतमष्टधा ॥ ३४० ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA