शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 441–450

शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 441–450

पृष्ठ 441

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 441 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८५३

चक्रव्यूहश्चैकमार्गो ह्यष्टधा कुण्डलीकृतः ।

चतुर्दिक्ष्वष्टपरिधिः सर्वतोभद्रसंज्ञकः ॥ २८२ ॥

अमार्गश्चाष्टवलयी गोलकः सर्वतोमुखः ।

शकटः शकटाकारो व्यालो व्यालाकृतिः सदा ॥ २८३ ॥

अन्वयः — अष्टधा कुण्डलीकृतः एकमार्गः चक्रव्यूहः । चतुर्दिक्षु अष्टपरिधिः अमार्गः अष्टवलयी गोलकः सर्वतोमुखः सर्वतोभद्रसंज्ञकः । शकटः शकटाकारः, कृतिः ॥ २८२-२८३ ॥ व्याख्या — अष्टधा = अष्टप्रकारकः, कुण्डलीकृतः = वर्तुलाकारेण मात्रैकः, मार्गः = पन्थाः, यस्य तथाभूतः, व्यूहः = सैन्यसंरचना, चक्रव्यूहः चतुर्दिक्षु = परितः, अष्टपरिधिः = अष्टधा मण्डलीकृतः, अमार्गः = अष्टमण्डलयुतः, गोलकः = गोलाकारः, सर्वतः = अभितः, मुखम् = व्यूहः = सैन्यविन्यासः, सर्वतोभद्रः इति ख्यातः शकटः = यानः व्यालः सदा व्याला-वेष्टितः, एक एव = = चक्रव्यूहाख्यो भवति । पथहीनः, अष्टवलयी = : आननम्, यस्य तादृशः, शकटस्येव = यानस्येव, आकारः = स्वरूपः, यस्य सः शकटव्यूह इति, व्यालः = = सर्प:, व्यालस्येव = नागस्येव, आकृतिः = आकारः, यस्य सः व्यालव्यूही नाम्ना ख्यातः ॥ २८२-२८३ ॥ हिन्दी – जो व्यूह चक्के की तरह गोल हो तथा बीच में आठ खण्डों में बँटा हुआ हो तथा उसकी आकृति वर्तुलाकार हो एवं उसमें घुसने का एक ही रास्ता हो, उसे ' चक्रव्यूह ' कहते हैं । जिस व्यूह के चारों ओर आठ पहलू में सेना विभक्त हो तो उसे ' सर्वतोभद्र ' व्यूह कहा जाता है । अथवा – सभी ओर जिसके मुँह हों तथा आठ गोलाकार पंक्तियों से बना हो तथा उसमें घुसने की कोई राह न हो, तो उसे भी सर्वतोभद्रव्यूह ही कहा जाता है । गाड़ी की तरह सैन्य - संरचना को शकटव्यूह एवं सर्पाकार सैन्य संरचना को व्यालव्यूह कहा जाता है ॥२८३-२८३ ॥ चक्रसर्वतोभद्रशकटव्यालव्यूहान् निर्वक्ति - चक्रेति । अमार्ग इति । अष्टधा कुण्डलीकृतः वेष्टितः एक एव मार्गः पन्थाः यस्य तथाभूतः व्यूहः चक्रव्यूहः । चतुर्दिक्षु अष्टपरिधिः अष्टधा कुण्डलीकृत इत्यर्थः, अमार्गः अपथ: अष्टवलयी वेष्टनाष्टकयुतः गोलकः मण्डलाकृतिः सर्वतोमुखः व्यूहः सर्वतोभद्रसंज्ञकः सर्वतोभद्र इति प्रसिद्धः । शकटः शकटस्येव आकारः यस्य सः । व्यालः सदा व्यालस्येव सर्पस्येव आकृतिर्यस्य तथाभूतः ॥ २८२-२८३ ॥

सैन्यमल्पं बृहद्वापि दृष्ट्वा मार्गं रणस्थलम् ।

व्यूहैर्व्यूहेन व्यूहाभ्यां सङ्करेणापि कल्पयेत् ॥ २८४ ॥

अन्वयः — सैन्यम् अल्पं वा बृहत् दृष्ट्वा व्यूहेन व्यूहाभ्यां वा व्यूहैः सङ्करेणापि मार्गं रणस्थलं कल्पयेत् ॥ २८४ ॥

व्याख्या- – सैन्यम् = बलम्, अल्पम् = स्तोकम्, वा = अथवा, बृहत् = विशालः, इति दृष्ट्वा = अवलोक्य, व्यूहेन = सैन्यसंस्थानेन, व्यूहाभ्याम् = सैन्यसंरचनाभ्याम्, वा = अथवा, व्यूहैः, सङ्करेणापि = मिश्रितेनाऽपि, मार्गम् = पन्थानम्, रणस्थलम् = युद्धभूमिः कल्पयेत् = संरचयेत् ॥ २८४ ॥

हिन्दी – सेना की कमी या अधिकता राह तथा रणभूमि को देखकर एक, दो या अनेक व्यूहों की संरचना की कल्पना की जा सकती है ॥२८४ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 442

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 442 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८५४ शुक्रनीतिः सैन्यमिति । सैन्यम् अल्पं वा बृहत् अधिकं दृष्ट्वा व्यूहेन व्यूहाभ्यां वा व्यूहैः सङ्करेणापि व्यूढेन अव्यूढे च सैन्येन मार्गं रणस्थलञ्च कल्पयेत् ॥ २८४ ॥

यन्त्रास्त्रैः शत्रुसेनाया भेदो येभ्यः प्रजायते ।

स्थलेभ्यस्तेषु सन्तिष्ठेत् ससैन्यो ह्यासनं हि तत् ॥ २८५ ॥

अन्वयः – येभ्यः स्थलेभ्यः यन्त्रास्त्रैः शत्रुसेनायाः भेदः प्रजायते, ससैन्यः तेषु सन्तिष्ठेत् तत् हि आसनम् ॥ २८५ ॥

व्याख्या — येभ्यः स्थलेभ्यः = येभ्यः स्थानेभ्यः, यन्त्रास्त्रैः = नालिकास्त्रैः, शत्रुसेनायाः = रिपु-बलस्य, भेदः = भेदनम्, प्रजायते = सम्भवति, ससैन्यः = सेनासहितः सन्, तेषु = स्थलेषु, सन्तिष्ठेत् = स्थितो भवेत्, तत् हि = तदेव हि आसनम् = स्थितिः कुर्यात् ॥ २८५ ॥

हिन्दी — जहाँ से शत्रुसेना पर तोप, गोली आदि चलाकर उसे छिन्न - भिन्न किया जा सके, वहाँ सेना के साथ राजा के टिकने को आसन कहते हैं ॥ २८५ ॥

यन्त्रास्त्रैरिति । येभ्यः स्थलेभ्यः यन्त्रास्त्रैः नालिकास्त्रैः शत्रुसेनायाः भेदः प्रजायते सम्भवति, ससैन्यः सन् तेषु स्थलेषु सन्तिष्ठेत् तत् हि तदेव आसनम् ॥२८५ ॥

तृणान्नजलसम्भारा ये चान्ये शत्रुपोषकाः ।

सम्यङ्निरुध्य तान् यत्नात् परितश्चिरमासनात् ॥ २८६ ॥

विच्छिन्नवीवधासारं प्रक्षीणयवसेन्धनम् ।

विगृह्यमाणप्रकृतिं कालेनैव वशं नयेत् ॥ २८७ ॥

अन्वयः — तृणान्नजलसम्भारा: ये च अन्ये शत्रुपोषकाः चिरम् आसनात् परितः यत्नात् तान् सम्यक् निरुद्ध्य विच्छिन्नवीवधासारं प्रक्षीणयवसेन्धनं विगृह्यमाणप्रकृतिं कालेन एव वशं नयेत् ॥ २८६-२८७ ॥ व्याख्या — तृणानि = शादाः, अन्नानि = धान्यानि, जलानि = सलिलानि, सम्भाराः = अन्या-वश्यकवस्तूनि, च = पुनः, ये अन्ये = अपरे, शत्रुपोषकाः — शत्रूणाम् = रिपूणाम्, पोषकाः = पालकाः, चिरम् = दीर्घकालपर्यन्तम्, आसनात् = अवस्थानात्, परितः = चतुर्दिक्, यत्नात् = प्रयत्नपूर्वकात्, तान् = रिपुसंरक्षकान्, सम्यक् = सुष्ठुतया, निरुद्ध्य = अवरुद्ध्य, विच्छिन्नाः-विश्लिष्टाः, वीवधाः = अन्नादिसङ्ग्रहाः, आसाराः = मित्रबलसंरक्षणाः, यस्मिन् तं, प्रक्षीणानि = क्षयं गतानि, यवसानि = शादाः, इन्धनानि = काष्ठानि च यस्मिन् तथोक्तम्, तथा विगृह्यमाणाः = युद्धव्यासक्ताः, प्रकृतयः = प्रजाः, यस्य तादृशम्, देशम् = राष्ट्रम्, कालेन = समयक्रमेण, वशम् = अधीनम्, नयेत् = प्रापयेत् ॥ २८६-२८७ ॥ हिन्दी — घास, अनाज,, ' पानी प्रभृति आवश्यक सामग्री तथा शत्रुसेना के लिए अन्य उपयोगी वस्तुओं को आसन में घेरा डालकर बहुत दिनों तक चारों ओर से राजा रोक कर शत्रुसेना तक न पहुँचने दे । शत्रुसेना के यातायात को अवरुद्ध कर घास तथा जलाने की लकड़ी समाप्त हो जाने पर प्रजा में भेद उत्पन्न कर थोड़े ही दिनो में शत्रु को वशवर्त्ती बनाया जा सकता ॥२८६-२८७ ॥ तृणेति । विच्छिन्नेति । तृणानि अन्नानि जलानि सम्भाराः प्रयोजनीयद्रव्याणि च ये च अन्ये शत्रुपोषकाः शत्रूणां पोषणकारिणः चिरं दीर्घकालं व्याप्य आसनात् अवस्थानात् परितः CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 443

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 443 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८५५ सर्वतः यत्नात् तान् शत्रुपोषकान् सम्यक् निरुध्य विच्छिन्ना निरुद्धाः वीवधाःधान्यादिसङ्ग्रहाः आसाराः सुहृद्बलसम्पाताः यस्मिन् तं प्रक्षीणानि यवसानि तृणानि इन्धनानि काष्ठानि च यस्मिन् तथोक्तं तथा विगृह्यमाणाः सङ्ग्रामव्यासक्ताः प्रकृतयो यस्य तादृशं देशं कालेन वशं नयेत् ॥ २८६-२८७ ॥

अरेश्च विजिगीषोश्च विग्रहे हीयमानयोः ।

सन्धाय यदवस्थानं सन्धायासनमुच्यते ॥ २८८ ॥

अन्वयः - विग्रहे हीयमानयोः अरेः विजिगीषोः सन्धाय यत् अवस्थानं तत् सन्धायासनम् उच्यते ॥ २८८ ॥

व्याख्या - विग्रहे = समरे, हीयमानयोः = क्षीणबलयोः, अरेः = रिपोः, विजिगीषोः = विजयेच्छुकयोः, सन्धाय = परस्परं सन्धि विधाय, यत् अवस्थानम् = आसनम्, तत सन्धायासनम्, उच्यते = कथ्यते ॥ २८८ ॥

हिन्दी — जब विजय चाहने वाले आक्रमणकारी शत्रु एवं आक्रमित राजा दोनों लड़ते - लड़ते थक जाय तब उन दोनों के आपस में सन्धि कर अपनी - अपनी जगह पर डटे रहने को सन्धायासन कहते हैं ॥२८८ ॥

अरेरिति । विग्रहे युद्धे हीयमानयोः अरेः शत्रोः विजिगीषोश्च सन्धाय परस्परं सन्धि कृत्वा यत् अवस्थानं तत् सन्धायासनम् उच्यते ॥ २८८ ॥

उच्छिद्यमानो बलिना निरुपायप्रतिक्रियः ।

कुलोद्भवं सत्यमार्य्यमाश्रयेत बलोत्कटम् ॥ २८ ९ ॥

अन्वयः — बलिना उच्छिद्यमानः निरुपायप्रतिक्रियः कुलोद्भवम् आर्यं बलोत्कटं नृपम् आश्रयेत् ॥ २८ ९ ॥ व्याख्या — बलिना = शक्तिशालिना रिपुणा, उच्छिद्यमानः = उत्पाट्यमाणः, अत एव, निरुपायप्रतिक्रियः = प्रतिकारविहीनः सन् कुलोद्भवम् = कुलीनम्, आर्यम् = सत्यप्रतिज्ञम्, बलोत्कटम् = प्रकर्षबलशालिनम्, नृपम् = भूपम्, आश्रयेत् = आश्रयग्रहणं कुर्यात् ॥२८ ९ ॥ हिन्दी – जब किसी शक्तिशाली राजा द्वारा राज्य विनष्ट की स्थिति में आ जाय तो किसी कुलीन, दृढप्रतिज्ञ, शक्तिशाली अन्य राजा की शरण लेनी चाहिए ॥ २८ ९ ॥ उच्छिद्यमान इति । बलिना बलवता अरिणा उच्छिद्यमानः अत एव निरुपायप्रतिक्रियः गत्यन्तरहीनः सन् कुलोद्भवं कुलीनम् आर्य्यं साधु बलोत्कटम् अतिप्रबलं नृपम् आश्रयेत ॥ २८ ९ ॥ विजिगीषोस्तु साह्यार्थाः सुहृत्सम्बन्धिबान्धवाः ।

प्रदत्तभृतिका ह्यन्ये भूपा अंशप्रकल्पिताः ।

सैवाश्रयस्तु कथितो दुर्गाणि च महात्मभिः ॥ २ ९ ० ॥

अन्वयः —– विजिगीषोः साह्यार्थाः ये सुहृत्सम्बन्धिबान्धवाः प्रदत्तभृतिकाः, अन्ये भूपाः अंश-प्रकल्पिताः महात्मभिः सैवाश्रयः कथितः दुर्गाणि च ॥२ ९ ० ॥ व्याख्या — विजिगीषोः = विजयेच्छुकस्य नृपस्य, साह्यार्थाः = सहायाः, ये सुहृदः = मित्राणि, सम्बन्धिनः = सगोत्राः, बान्धवाः = कुटुम्बिनः, प्रदत्तभृतिकाः = दत्तवेतनाः, अन्ये = अपरे भूपाः CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 444

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 444 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८५६ शुक्रनीति: सहायकाः, अंशप्रकल्पिताः = विजितराज्यनियतभागलब्धेच्छुकाः, विपत्काले महात्मभिः = महाशयैः, सः = - असौ सहायादिः, एव आश्रयः = शरणस्थलम्, च = पुनः, दुर्गाणि = कोटानि च, शरणस्थानानि भवन्ति ॥ २ ९ ० ॥ हिन्दी — विजय के लिए चढ़ाई करने वाले राजा की सहायता के लिए उनके मित्र, संबन्धी, बन्धु, जीविका पाने वाले लोग अथवा ऐसे राजे जो विजित राज्य से प्राप्त धन में हिस्सा की इच्छा रखते हों - ये सभी इनके आश्रय में चले जाय अथवा किसी सुदृढ दुर्ग का आश्रय ग्रहण कर लें ॥ २ ९ ० ॥ विजिगीषोरिति । विजिगीषोः नृपस्य साह्यार्थाः सहायाः ये सुहृदः सम्बन्धिनः बान्धवाश्च प्रदत्तभृतिकाः दत्तवेतनाः । अन्ये भूपाः साहाय्यकारिण इत्यर्थः, अंशप्रकल्पिताः विजयलब्धधनम् अंशेन गृह्णीयुरित्यर्थः, आपत्काले महात्मभिः उन्नताशयैः स सहायादिः एव आश्रयः कथितः तथा दुर्गाणि च आश्रयस्थानानि आपत्सु इत्यर्थः ॥२ ९ ० ॥ अनिश्चितोपायकार्य्यः समयानुचरो नृपः ।

द्वैधीभावेन वर्त्तेत काकाक्षिवदलक्षितम् ।

प्रदर्शयेदन्यकार्यमन्यमालम्बयेच्च वा ॥ २ ९ १ ॥

अन्वयः - अनिश्चितोपायकार्यः समयानुचरः नृपः काकाक्षिवत् अलक्षितं द्वैधीभावेन वर्त्तेत । कदाचित् अन्यकार्यं प्रदर्शयेत् वा अन्यम् आलम्बयेत् ॥२ ९ १ ॥ व्याख्या — अनिश्चितम् = अनिर्धारितम्, उपायस्य = साधनस्य, कार्यम् = कृत्यम्, यस्य सः, अत एव समयानुचरः = कालप्रतीक्षमाणनृपः, काकाक्षिवत् — काकस्य = वायसस्य, अक्षिवत् = नेत्रमिव, अलक्षितम् = अन्यैरतर्कितम्, यथा तथा, द्वैधीभावेन = उभयपक्षीयव्यवहारेण, वर्त्तेत, कदाचित् अन्यकार्यम् = अपरकृत्यम्, प्रदर्शयेत् = प्रदर्शनं कुर्यात्, वा = अथवा, अन्यम् = अपरम्, आलम्बयेत् = अवलम्बनं कुर्यात् ॥ २ ९ १ ॥ हिन्दी — समयानुसार काम करने वाला राजा शत्रुसंकट से बचने का जब तक कोई उपाय

निश्चित न कर ले तब तक कौवे की एक आँख की तरह राजा दोनों ओर का काम करे ।

दिखाने के लिए अन्य कार्य तथा करे कुछ और ॥ २ ९ १ ॥

अनिश्चितेति । अनिश्चितम् उपायस्य कार्य्यं यस्य सः अत एव समयानुचरः समयं प्रतीक्षमाण-नृपः काकाक्षिवत् काकस्य नेत्रमिव अलक्षितम् अन्यैरतर्कितं यथा तथा द्वैधीभावेन वर्त्तेत, काकस्य एकमेव नेत्रम् उभयनेत्रकार्य्यकारकं किन्तु केनापि न लक्ष्यते तद्वदिति भावः । तथा च कदाचित् अन्यकार्य्यं प्रदर्शयेत् कदाचिद् वा अन्यम् आलम्बयेच्च ॥२ ९ १ ॥

सदुपायैश्च सन्मन्त्रैः कार्य्यसिद्धिरथोद्यमैः ।

भवेदल्पजनस्यापि किं पुनर्नृपतेर्न हि? ॥ २ ९ २ ॥

अन्वयः – अल्पजनस्य सदुपायैः सन्मन्त्रैः अथ उद्यमैः कार्यसिद्धिः भवेत्, नृपतेः पुनः किं न हि ॥ २ ९ २ ॥ व्याख्या – अल्पजनस्य = सामान्यालोकस्यापि, सदुपायैः = सत्साधनैः, सन्मन्त्रैः सद्वि-चारैरुत्कृष्टमन्त्रबलैर्वा, उद्यमैः – अध्यवसायैः, कार्यसिद्धिः = मनोरथपूर्त्तिः, भवेत् = स्यात् । नृपतेः = राज्ञः, पुनः = भूयः, किं न हि कार्यसिद्धिर्भवेदर्थाद् भवत्येवेति ॥ २ ९ २ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 445

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 445 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८५७ हिन्दी — जब कि सामान्य व्यक्ति के भी अच्छे उपाय और अच्छी सलाह तथा चेष्टा से काम में सफलता मिलती हो तो फिर राजा का पूछना क्या? ॥२ ९ २ ॥ सदुपायैरिति । अल्पजनस्य इतरस्यापि सदुपायैः सन्मन्त्रैः उत्कृष्टमन्त्रबलैः अथवा उद्यमैः चेष्टाभिः कार्य्यसिद्धिः भवेत् । नृपतेः पुनः किं न हि कार्य्यसिद्धिर्भवेत्? अपितु भवेदेवेत्यर्थः ॥ २ ९ २ ॥

उद्योगेनैव सिध्यन्ति कार्य्याणि न मनोरथैः ।

न हि सुप्तमृगेन्द्रस्य निपतन्ति गजा मुखे ॥ २ ९ ३ ॥

अन्वयः — उद्योगेन एव कार्याणि सिद्ध्यन्ति, न मनोरथैः । हि सुप्तमृगेन्द्रस्य मुखे गजाः न निपतन्ति ॥ २ ९ ३ ॥ व्याख्या — उद्योगेन = चेष्टया, एव, कार्याणि = मनोरथानि, सिद्ध्यन्ति = सफलतां यान्ति, न केवलं मनोरथैः = वाञ्छाभिः, सुप्तमृगेन्द्रस्य = प्रसुप्तसिंहस्य, मुखे = आनने, गजाः = - हस्तिनः, न = नहि, निपतन्ति = आगच्छन्ति ॥ २ ९ ३ ॥ हिन्दी – उद्योग करने पर ही किसी भी काम में सफलता मिलती है, न केवल मनोरथ से । क्योंकि सोये हुए सिंह के मुँह में स्वयं हाथी आकर नहीं गिरते ॥ २ ९ ३ ॥ उद्योगेनेति । उद्योगेन चेष्टया एव कार्य्याणि सिध्यन्ति, मनोरथैः न, हि तथाहि गजाः सुप्तस्य सिंहस्य मुखे न हि निपतन्ति ॥ २ ९ ३ ॥

अयोऽभेद्यमुपायेन द्रवतामुपनीयते ।

लोकप्रसिद्धमेवैतद्वारि वह्नेर्नियामकम् ॥

अन्वयः — अभेद्यम् अयः उपायेन द्रवताम् उपनीयते ।

नियामकम् ॥ २ ९ ४ ॥

व्याख्या — अभेद्यम् = अखण्डनीयम्, अयः = लोहम्, तरलताम्, नीयते = प्राप्यते । एतच्च, लोकप्रसिद्धम् = लोके वह्नेः = अग्नेः, नियामकम् = निरोधको भवति ॥ २ ९ ४ ॥ हिन्दी — ठोस लोहे को भी उपाय से पिघलाया जाता को भी पानी से बुताया जाता है ॥२ ९ ४ ॥ २ ९ ४ ॥ एतच्च लोकप्रसिद्धं वारि वह्नेः उपायेन = साधनेन, द्रवताम् = विख्यातम्, यत्, वारि = सलिलम्, है । लोक में प्रसिद्ध है कि आग अय इति । अभेद्यम् अयः लौहम् उपायेन द्रवताम् उपनीयते प्राप्यते, एतच्च लोकप्रसिद्धं यत् वारि जलं वह्नेः नियामकं निवारकम् ॥ २ ९ ४ ॥ उपायोपगृहीतेन तैनेतत् परिशोष्यते ॥ उपायेन पदं मनि न्यस्यते मत्तहस्तिनाम् ॥ २ ९ ५ ॥ अन्वयः — उपायोपगृहीतेन तेन एतत् परिशोष्यते । उपायेन मत्तहस्तिनां मूर्ध्नि पदं न्यस्यते ॥ २ ९ ५ ॥ व्याख्या — उपायोपगृहीतेन = साधनस्यावलम्बनेन, तेन = अग्निना, च, एतत् = जलम्, परि-शोष्यते = सर्वतोभावेन शुष्कतां नीयते, उपायेन = उद्यमेन, मत्तहस्तिनाम् – मत्तानाम् = प्रमत्तानाम्, हस्तिनाम् = गजानाम्, मूर्ध्नि = मस्तके, पदम् = चरणम्, न्यस्यते = उपस्थाप्यते ॥२ ९ ५ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 446

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 446 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८५८ शुक्रनीति: हिन्दी — किन्तु यदि उपाय का अवलम्बन किया जाय तो वही आग उलटे पानी को सुखा देने वाली हो जाती है । उपाय से ही मतवाले हाथी के माथे पर पैर रखा जा सकता है ॥२ ९ ५ ॥ उपायोपगृहीतेनेति । उपायोपगृहीतेन तेन वह्निना च एतत् वारि परिशोष्यते परिशेषं नीयते । उपायेन मत्तानां दन्तिनां मूर्ध्नि पदं न्यस्यते ॥ २ ९ ५ ॥

उपायेषूत्तमो भेदः षड्गुणेषु समाश्रयः ।

काय द्वौ सर्वदा तौ तु नृपेण विजिगीषुणा ॥ २ ९ ६ ॥

अन्वयः— उपायेषु भेदः षड्गुणेषु समाश्रयः उत्तमः, विजिगीषुणा तौ द्वौ सर्वदा कार्यौ ॥२ ९ ६ ॥ व्याख्या — उपायेषु = उद्यमेषु, भेदः = उपजापः, षड्गणेषु = सामदानादिषु, मध्ये, तथा समाश्रयः = बलवतामाश्रयग्रहणम्, उत्तमः = श्रेष्ठः, विजिगीषुणा = विजयाभिलाषिणा भूपतिना, तौ = पूर्वोक्तौ द्वौ = भेदसमाश्रयौ, तु, सर्वदा = सततम्, कार्यौ = अनुष्ठेयौ ॥ २ ९ ६ ॥ हिन्दी — विजयाभिलाषी राजा के लिए शत्रुसेना के बीच फूट डालना तथा सन्धि आदि षड्गुणों से बलवान् आश्रयदाता की शरण लेना उत्तम उपाय है ॥२ ९ ६ ॥ उपायेष्विति । उपायेषु सामादिषु मध्ये भेदः तथा षड्गुणेषु मध्ये समाश्रयः उत्तमः श्रेष्ठः । विजिगीषुणा नृपेण तौ द्वौ भेदसमाश्रयौ तु सर्वदा कार्य्यां ॥२ ९ ६ ॥ ताभ्यां विना नैव कुर्य्यात् युद्धं राजा कदाचन ॥ २ ९ ७ ॥ अन्वयः — राजा ताभ्यां विना युद्धं कदाचन नैव कुर्यात् ॥ २ ९ ७ ॥ व्याख्या — राजा = नृपः, ताभ्याम् = पूर्वोक्ताभ्यां भेदमाश्रयाभ्याम्, विना = विहाय, युद्धम् = समरम्, कदाचन = कस्यामपि अवस्थायाम्, नैव, कुर्यात् = प्रारम्भं कुर्यात् ॥ २ ९ ७ ॥ हिन्दी -भेद और समाश्रय का सहारा लिये बिना किसी भी स्थिति में राजा युद्ध न करे ॥ २ ९ ७ ॥ ताभ्यामिति । राजा ताभ्यां भेदसमाश्रयाभ्यां विना युद्धं कदाचन नैव कुर्य्यात् ॥ २ ९ ७ ॥

परस्परं प्रातिकूल्यं रिपुसेनपमन्त्रिणाम् ।

भवेद्यथा तथा कुर्य्यात् तत्प्रजायाश्च तत् स्त्रियाः ॥ २ ९ ८ ॥

अन्वयः— रिपुसेनपमन्त्रिणां तत् प्रजायाः तत् स्त्रियाः यथा परस्परं प्रातिकूल्यं भवेत् तथा कुर्यात् ॥ २ ९ ८ ॥ व्याख्या — रिपूणाम् = शत्रूणाम्, ये सेनपा: = सेनानायकाः, मन्त्रिगणाश्च = सचिववर्गाश्च, तेषां तथा, तत् = तेषाम्, प्रजायाश्च = जनानां मध्ये, तथा तत् = तेषाम्, स्त्रियाः = नार्यश्च, यथा = येन प्रकारेण, परस्परम् = अन्योऽन्यम्, प्रातिकूल्यम् = प्रतिकूलताम्, भवेत् = स्यात्, तथा = तेन प्रकारेण, कुर्यात् = विदध्यात् ॥ २ ९ ८ ॥ हिन्दी — जिस तरह दुश्मन के सेनापति एवं मन्त्रियों के बीच अनबन हो जाय तथा शत्रुओं की प्रजा एव रानियों के बीच किंवा सेनानायक एवं मन्त्रियों का अपनी सन्तान या स्त्रियों के बीच मतभेद हो जाय, ऐसा काम करना चाहिए ॥ २ ९ ८ ॥ परस्परमिति । रिपूणां ये सेनपाः सेनापतयः मन्त्रिणश्च तेषां तथा तेषां प्रजायाश्च तथा तेषां स्त्रियाश्च यथा परस्पर प्रातिकूल्यं मनोभङ्गः भवेत् तथा कुर्य्यात् ॥ २ ९ ८ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 447

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 447 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८५ ९

उपायान् षड्गुणान् वीक्ष्य शत्रोः स्वस्यापि सर्वदा ।

युद्धं प्राणात्यये कुर्य्यात् सर्वस्वहरणे सति ॥ २ ९९ ॥

अन्वयः — शत्रोः स्वस्यापि उपायान् षड्गुणान् सर्वदा वीक्ष्य प्राणात्यये तथा सर्वस्वहरणे सति युद्धं कुर्यात् ॥ २ ९९ ॥ व्याख्या — शत्रोः = रिपोः, स्वस्यापि = आत्मनोऽपि, उपायान् = सामदानादीन्, तथा षड्-गुणान् = सन्धिविग्रहादीन्, सर्वदा = सततम्,, वीक्ष्य = अनुचिन्त्य, प्राणात्यये = प्राणविनाशकाले, सर्वस्वहरणे = सर्वधनापहरणकाले, आपतिते सति = समुपस्थिते सति, युद्धम् = समरम्, कुर्यात् = निष्पादयेत् ॥ २ ९९ ॥ हिन्दी – पहले दुश्मन और अपने बीच सामादि उपाय तथा सन्धि आदि पड़गुणों में जो उचित हो उसी का अवलम्बन करे । किन्तु प्राणसंकट या सर्वस्व अपहरण की स्थिति सामने आ जाय तभी युद्ध करे ॥ २ ९९ ॥ उपायानिति । शत्रोः स्वस्य आत्मनः अपि उपायान् सामादीन् तथा षट् गुणान् सन्ध्यादीन् सर्वदा वीक्ष्य प्राणात्यये तथा सर्वस्वहरणे आपतिते सति युद्धं कुर्य्यात् ॥२ ९९ ॥

स्त्रीविप्राभ्युपपत्तौ च गोविनाशेऽपि ब्राह्मणैः ।

प्राप्ते युद्धे क्वचिन्नैव भवेदपि पराङ्मुखः ॥ ३०० ॥

अन्वयः — स्त्रीविप्राभ्युपपत्तौ ब्राह्मणैः गोविनाशेऽपि च प्राप्ते युद्धे क्वचित् पराङ्मुखः नैव भवेत् ॥३०० ॥

व्याख्या — स्त्रीणाम् = नारीणाम्, विप्राणाम् = ब्राह्मणानाम्, अभ्युपपत्तौ = अनुग्रहार्थम्, तथा ब्राह्मणैः = विप्रैः सह, गोविनाशेऽपि = धेनुसंहारेऽपि उपस्थिते, प्राप्ते = आपतिते, युद्धे = समरे, क्वचित् = कदाचित्, पराङ्मुखः = विमुखः, नैव = नास्त्येव, भवेत् = स्यात् ॥ ३०० ॥

हिन्दी – नारी एवं ब्राह्मणों पर अनुग्रह करने के लिए अथवा गो - ब्राह्मण का विनाश उपस्थित होने पर उनकी रक्षा के लिए ठने युद्ध से कभी भी विमुख नहीं होना चाहिए ॥ ३०० ॥

स्त्रीति । स्त्रीणां विप्राणाञ्च अभ्युपपत्तौ अनुग्रहार्थं तथा ब्राह्मणैः सह गोविनाशे गोब्राह्मणविनाशे इत्यर्थः, उपस्थिते इत्यर्थः, प्राप्ते युद्धे आपतिते सङ्ग्रामे क्वचित् कदाचित् पराङ्मुखः नैव भवत् ॥ ३०० ॥

युद्धमुत्सृज्य यो याति स देवैर्हन्यते भृशम् ॥ ३०१ ॥

अन्वयः — यः युद्धम् उत्सृज्य याति सः देवैः भृशं हन्यते ॥३०१ ॥

व्याख्या— यः = राजा, युद्धम् = सङ्ग्रामम्, उत्सृज्य = परित्यज्य, याति = गच्छति, सः = राजा, देवैः = देवताभिः, भृशम् = अत्यर्थम्, हन्यते = विनश्यते ॥ ३०१ ॥

हिन्दी — ऐसी स्थिति में युद्ध का मेदान छोड़कर जो राजा भाग जाता है, उसका देवगण शीघ्र सर्वनाश करते हैं ॥ ३०१ ॥

युद्धमिति । यः युद्धम् उत्सृज्य याति पलायते, सः देवैः भृशम् अत्यर्थं हन्यते ॥३०१ ॥

समोत्तमाधमैः राजा त्वाहूतः पालयन् प्रजाः ।

न निवर्त्तेत सङ्ग्रामात् क्षत्रधर्ममनुस्मरन् ॥ ३०२ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 448

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 448 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८६० शुक्रनीतिः अन्वयः — प्रजाः पालयन् राजा समोत्तमाधमैः आहूतः क्षत्रधर्मम् अनुस्मरन् सङ्ग्रामात् न निवर्त्तेत ॥ ३०२ ॥

व्याख्या —– प्रजाः = जनाः, पालयन् = रक्षयन्, राजा = भूपः,, समैः = तुल्यैः, उतमैः = उत्कृष्टैः, वा = अथवा, अधमैः = नीचैः, अरिभिः, आहूतः = आकारितः सन्, क्षत्रधर्मम् = क्षत्रियाणां कर्त्तव्यम्, अनुस्मरन् = ध्यायन्, सङ्ग्रामात् = युद्धात्, न = - नहि, निवर्त्तेत = परावर्त्तेत ॥३०२ ॥

हिन्दी – प्रजा का पालन करते हुए राजा को यदि समान, अधिक या कम बलशाली दुश्मन ललकार दे तो फिर क्षत्रधर्म का स्मरण करते हुए उसे युद्ध से नहीं लौटना चाहिए ॥ ३०२ ॥

समेति । प्रजाः पालयन् राजा समैः समानैः उत्तमैः उत्कृष्टैः वा अधमैः शत्रुभिः आहूतः सन् क्षत्रधर्मम् अनुस्मरन् सङ्ग्रामात् न निवर्त्तेत ॥ ३०२ ॥

राजानञ्चावियोद्धारं ब्राह्मणञ्चाप्रवासिनम् ।

भूमिरेतौ निर्गिलति सर्पो विलशयानिव ॥ ३०२ ॥

अन्वयः — सर्पः विलशयान् इव भूमिः अवियोद्धारं राजानम् अप्रवासिनं ब्राह्मणञ्च, निर्गिलति ॥ ३०२ ॥

व्याख्या — सर्पः– विषधरः, विलशयान् = गर्तेशयान्, इव = यथा, भूमिः = पृथ्वी, अवि-योद्धारम् = सङ्ग्रामविमुखम्, राजानम् = नृपम्, अप्रवासिनम् = प्रवासविमुखम्, ब्राह्मणम् = विप्रम्, एतौ = द्वौ, निर्गिलति = विनाशयति ॥ ३०२ ॥

हिन्दी — विल में रहने वाले जीवों को जैसे साँप निगल जाता है वैसे ही संग्राम से विमुख राजे तथा प्रवास से विमुख ब्राह्मणों को यह धरती निगल जाती है ॥ ३०२ ॥

राजानमिति । सर्पः विलशयान् गर्तेशयान् इव भूमिः अवियोद्धारं युद्धविमुखं राजानम् अप्रवासिनं ब्राह्मणञ्च एतौ निर्गिलति नाशयतीत्यर्थः ॥ ३०२ ॥

ब्राह्मणस्यापि चापत्तौ क्षत्रधर्मेण वर्त्ततः ।

प्रशस्तं जीवितं लोके क्षत्रं हि ब्रह्मसम्भवम् ॥ ३०४ ॥

अन्वयः - आपत्तौ क्षत्रधर्मेण वर्त्ततः ब्राह्मणस्यापि जीवितं लोके प्रशस्तम् । हि क्षत्रं ब्रह्म-सम्भवम् ॥ ३०४ ॥

व्याख्या — आपत्तौ = विपदि, स्ववृत्त्याभावे, क्षत्रधर्मेण = राजन्यवृत्तिमवलम्ब्य, वर्त्ततः = जीवतः, ब्राह्मणस्यापि = विप्रस्यापि, जीवितम् = जीवनम्, लोके = संसारे, प्रशस्तम् = प्रशंस-नीयम् । हि = यतः, क्षत्रम् = क्षत्रियम्, ब्रह्मसम्भवम् = विप्रोत्पन्नमेव ॥ ३०४ ॥

हिन्दी — विपत्तिकाल में जीविका का अभाव होने पर क्षत्रिय धर्म का अनुसरण करते हुए ब्राह्मणों का जीवित रहना भी संसार में उत्तम माना जाता है । क्योंकि क्षत्रियों की उत्पत्ति भी ब्राह्मणों से ही मानी गई है ॥ ३०४ ॥

ब्राह्मणस्येति । आपत्तौ आपदि स्ववृत्त्यनुपपत्तौ इत्यर्थः, क्षत्रधर्मेण क्षत्रियवृत्तिमाश्रित्य इत्यर्थः, वर्ततः जीवतः ब्राह्मणस्यापि जीवितं लोके प्रशस्तं, हि यतः क्षत्रं ब्रह्मसम्भवं ब्रह्मोत्पन्नम् अतः ब्राह्मणस्य तत् कर्मकरणं न विरुद्धमिति भावः ॥ ३०४ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 449

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 449 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८६१

अधर्मः क्षत्रियस्यैष यच्छय्यामरणं भवेत् ।

विसृजन् श्लेष्मपित्तानि कृपणं परिदेवयन् ॥ ३०५ ॥

अविक्षतेन देहेन प्रलयं योऽधिगच्छति ।

क्षत्रियो नास्य तत् कर्म प्रशंसन्ति पुराविदः ॥ ३०६ ॥

अन्वयः— शय्यायां मरणं भवेत् एषः क्षत्रियस्य अधर्मः । श्लेष्मपित्तानि विसृजन् कृपणं परिदेवयन् अविक्षतेन देहेन प्रलयं यः अधिगच्छति पुराविदः अस्य तत् कर्म न

प्रशंसन्ति । ३०५-३०६ ॥

व्याख्या — शय्यायाम् = पर्यङ्के, यत् मरणम् = मृत्युः, भवेत् = स्यात्, एषः क्षत्रियस्य, अधर्मः = पापः । यः = क्षत्रियः, श्लेष्माणि = कफाः, पित्तानि = पलज्वलाः, विसृजन् = परित्यजन्, तथा कृपणम् = कदर्यम्, परिदेवयन् = विलपन् सन्, अविक्षतेन = अखण्डितेन, देहेन = शरीरेण, प्रलयम् = लयं गच्छति, पुराविदः = इतिहासविदः, अस्य = क्षत्रियस्य, तत् = पूर्वोक्तम्, कर्म = शय्यामरणरूपं कृत्यम्, न = = नहि, प्रशंसन्ति = प्रशंसनीयो भवति ॥ ३०५-३०६ ॥ हिन्दी — बिछावन पर पड़े - पड़े, देह से कफ और पित्त को देह से अलग करते हुए दीन - हीन की तरह रोते - कलपते क्षत्रियों के लिए मरना अधर्म है । शरीर के क्षत - विक्षत हुए बिना जो क्षत्रिय मरता है, इतिहासकार उसकी प्रशंसा नहीं करते ॥ ३०५ ३०६ ॥ अधर्म इति | अविक्षतेनेति । शय्यायां मरणं भवेत् इति यत् एषः क्षत्रियस्य अधर्मः । यः क्षत्रियः श्लेष्मपित्तानि श्लेष्माणि पित्तानि च विसृजन् त्यजन् तथा कृपणं परिदेवयन् विलपन् सन् अविक्षतेन देहेन प्रलयं नाशं गच्छति, पुराविदः इतिहासज्ञाः पण्डिताः अस्य क्षत्रियस्य तत् कर्म शय्यामरणरूपं न प्रशंसन्ति ॥ ३०५ ३०६ ॥

न गेहे मरणं शस्तं क्षत्रियाणां विना रणात् ।

शौण्डीराणामशौण्डीरमधर्मं कृपण हि तत् ॥ ३०७ ॥

अन्वयः — क्षत्रियाणां रणात् विना गेहे मरणं न शस्तम् । हि शौण्डीराणां तत् कृपणम् अशौण्डीरम् अधर्मम् ॥ ३०७ ॥

व्याख्या — क्षत्रियाणाम् = राजन्यानाम्, रणात् = सङ्ग्रामात्, विना = विहाय, गेहे = गृहे, मरणम् = निधनम्, न = नहि, शस्तम् = प्रशस्तम् । हि = यतः, शौण्डीराणाम् = अभिमानिनां क्षत्रियाणाम्, तत् = पूर्वोक्तम्, कृपणम् = दीनम्, आचरणम्, अशौण्डीरम् = स्वाभिमानविनष्टकरम्, अधर्मम् = पापकरञ्च भवति ॥३०७ ॥

हिन्दी — एक क्षत्रिय का जंग के मैदान से अलग घर में मरण प्रशंसनीय नहीं होता है । क्योंकि एक स्वाभिमानी वीर की वैसी दीन एवं कायर की मौत पाप समझा गया है ॥ ३०७ ॥

नेति । रणात् विना गृहे मरणं न शस्तं न प्रशस्तम् । हि यतः शोण्डीराणां गर्वशालिनां क्षत्रियाणां तत् कृपणं दीनम् आचरणम् अशौण्डीरं गर्वक्षयकरम् अधर्मं पापकरञ्च ॥ ३०७ ॥

रणेष्वकदनं कृत्वा ज्ञातिभिः परिवारितः ।

शस्त्रास्त्रैः सुविनिर्भिन्नः क्षत्रियो वधमर्हति ॥ ३०८ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 450

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 450 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८६२ शुक्रनीतिः अन्वयः — क्षत्रियः ज्ञातिभिः परिवारितः रणेषु अकदनं कृत्वा शस्त्रास्त्रैः सुविनिर्भिन्नः वधम् अर्हति ॥ ३०८ ॥

व्याख्या — क्षत्रियः = राजन्यः, ज्ञातिभिः = बान्धवैः परिवारितः = निवारितः सन्, रणेषु = युद्धेषु, अकदनम् = अहननम्, कृत्वा = विधाय, शस्त्रास्त्रैः = प्रहरणैः, क्षतविक्षतैः, वधम् = हननम्, अर्हति = योग्यो भवति ॥ ३०८ ॥

हिन्दी – यदि क्षत्रिय युद्ध में दुश्मनों को मार न सके तो उसका बन्धुओं के साथ क्षत - विक्षत देह से युद्ध में मारा जाना ही उचित है ॥ ३०८ ॥

रणेष्विति । क्षत्रियः ज्ञातिभिः स्वगणैः परिवारितः सन् रणेषु सङ्ग्रामेषु अकदनं शत्रोरदलनं कृत्वा शस्त्रास्त्रैः सुविनिर्भिन्नः सुविक्षतः सन् वधम् अर्हति ॥ ३०८ ॥

आहवेषु मिथोऽन्योऽन्यं जिघांसन्तो महीक्षितः ।

युद्ध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः ॥ ३०८ ॥

अन्वयः - आहवेषु मिथः अन्योऽन्यं जिघांसन्तः परं शक्त्या युद्ध्यमानाः अपराङ्मुखाः स्वर्गं यान्ति ॥ ३०८ ॥

व्याख्या — आहवेषु = सङग्रामेषु, मिथः = एकान्ते, अन्योऽन्यम् = परस्परम्, जिघांसन्तः = हन्तुमिच्छन्तः, परम् = अत्यन्तम्, शक्त्या = बलेन, युद्ध्यमानाः = युद्धं कुर्वाणाः, अपराङ्मुखाः: विमुखाः, स्वर्गम् = देवलोकम्, यान्ति = व्रजन्ति ॥ ३० ९ ॥ हिन्दी — क्षत्रिय राजे युद्ध के मैदान में एक - दूसरे पर घात लगाकर अन्तिम क्षण तक लड़ते हैं और युद्धभूमि से पीछे हटे बिना लड़ मिटते हैं तथा वे स्वर्ग जाते हैं ॥ ३० ९ ॥ आहवेष्विति । आहवेषु युद्धेषु मिथः एकान्ते अन्योऽन्यं परस्परम् जिघांसन्तः हन्तुमिच्छन्तः परम् अत्यर्थं शक्त्या युध्यमानाः अपराङ्मुखाः अनिवृत्ताः स्वर्गं यान्ति ॥ ३० ९ ॥

भर्तुरर्थे च यः शूरो विक्रमेद्वाहिनीमुखे ।

भयान्न विनिवर्त्तेत तस्य स्वर्गो ह्यनन्तकः ॥ ३१० ॥

अन्वयः — यः शूरः अर्थे वाहिनीमुखे विक्रमेत् भयात् न निवर्तेत, तस्य अनन्तकः स्वर्गः हि ॥ ३१० ॥

व्याख्या — यः = पुरुषः, शूरः = वीरः, भर्तुः = स्वामिनः, अर्थे = निमित्तम्, वाहिनीमुखे = सैन्यानामग्रे, विक्रमेत् = पराक्रमं कुर्यात्, भयात् = भीत्याः, न = नहि, निवर्तेत = विमुखो भवेत्, तस्य = राज्ञः, अन्तकः = अन्तहीनः, स्वर्गः = नाकः, मिलति ॥ ३१० ॥

हिन्दी – जो वीर पुरुष डरे बिना विक्रमपूर्ण सेना के आगे रहकर स्वामी के निमित्त लड़ मिटता है, उसे अनन्त काल तक स्वर्ग मिलता है ॥ ३१० ॥

भर्त्तुरिति । यः शूरः वीरः भर्तुः स्वामिनः अर्थे निमित्तं वाहिनीमुखे सेनानामप्रे विक्रमेत् भयात् न निवर्त्तेत च, तस्य अनन्तकः अक्षयः स्वर्गः हिशब्दचावधारणार्थकः ॥ ३१० ॥

आहवे निहतं शूरं न शोचेत कदाचन ।

निर्मुक्तः सर्वपापेभ्यः पूतो याति सुलोकताम् ॥ ३११ ॥

अन्वयः — आहवे निहतं शूरं कदाचन न शोचेत । सर्वपापेभ्यः निर्मुक्तः पूतः सन् सुलोकतां याति ॥ ३११ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA