शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 481–490

शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 481–490

पृष्ठ 481

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 481 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८ ९ ३ जो लोग अधिक गुणवान् हों परन्तु उनका सम्मान छीन लिया गया हो तथा जिनसे अपना काम सधता हो, ऐसे लोगों को अच्छा वेतन देकर राजा को उन्हें पालना चाहिए ॥ ३ ९ ५ ॥ शत्रुसम्बन्धिन इति । ये ये शत्रुसम्बन्धिनः भिन्नाः विच्छेदं गताः, मन्त्रिगणादयः ये च गणाधिकाः दलश्रेष्ठाः नृपस्य शत्रोः दुर्गुणतः दोषेण नित्यं सततं हृतमानाः मानभ्रष्टाः अथ च स्वस्य आत्मनः राज्ञ इति यावत् कार्य्यसाधकाः, तान् सुभृत्या उत्कृष्टवेतनेन पोषयेत् ॥ ३ ९ ५ ॥

लोभेनासेवनाद्भिन्नास्तेष्वर्द्धां भृतिमावहेत् ।

शत्रुत्यक्तान् सुगुणिनः सुभृत्या पालयेन्नृपः ॥ ३ ९ ६ ॥

अन्वयः — ये च लोभेन असेवनात् भिन्नाः नृपः तेषु अर्द्धां भृतिम् आवहेत् । शत्रुत्यक्तान् सुगुणिनः सुभृत्या पालयेत् ॥ ३ ९ ६ ॥ व्याख्या — ये च = सेवकाः, लोभेनः =: अतिलिप्सया, असेवनात् = सेवाकार्यम् उपेक्षणात्, भिन्नाः = रिपुं परित्यज्य समागताः, नृपः = राजा, तेषु = जनेषु, अर्द्धाम् = पूर्णवेतनात् अर्द्धभागं, भृतिम् = वेतनम्, आवहेत् = प्रयच्छेत्, तथा शत्रुत्यक्तान् = रिपुपरित्यक्तान्, अथच सुगुणिनः = सुष्ठुगुणवन्तः जनान्, सुभृत्या = सुष्ठुवेतनदानेन पालयेत् = पोषयेत् ॥ ३ ९ ६ ॥ हिन्दी – धन के लोभ से राजकाज की उपेक्षा करने वाले शत्रु के सेवकों को आधा वेतन देकर अपने यहाँ नियुक्त कर ले तथा दुश्मन के यहाँ जो गुणवान् सेवक हों उनमें फूट डालकर अपने पक्ष में मिलाकर उन्हें अच्छा वेतन देकर अपने यहाँ रख लेना चाहिए ॥ ३ ९ ६ ॥ लोभेनेति । ये च लोभेन अधिकप्राप्त्याशया असेवनात् सेवायाम् उपेक्षणादित्यर्थः, भिन्नाः शत्रुतः विच्छिन्नाः नृपः तेषु अर्द्धां भृतिं पूर्णभृतेरर्द्धमित्यर्थः, आवहेत् दद्यात् । तथा शत्रुत्यक्तान् अथ च सुगुणिनः जनान् सुभृत्या सुवेतनेन पालयेत् ॥ ३ ९ ६ ॥

परराष्ट्रे हृते दद्याद् भृतिं भिन्नावधिं तथा ।

दद्यादर्द्धां तस्य पुत्रे स्त्रियै पादमितां किल ॥ ३ ९ ७ ॥

अन्वयः – परराष्ट्रे हृते भिन्नावधिं भृतिं दद्यात् । तथा तस्य पुत्रे अर्धा स्त्रियै पादमितां भृतिं किल दद्यात् ॥ ३ ९ ७ ॥ व्याख्या – परराष्ट्रे = रिपुराज्ये, हृते = स्वायत्तीकृते सति भिन्नावधिम् = राज्यापहरणवधिम्, भृतिं = पालनोपयोगि धनं दद्यात् = प्रयच्छेत्, तथा = तेनैव प्रकारेण, तस्य = शत्रुराज्ञः, पुत्रे = सुते, अर्धाम् = नृपतः अर्द्धभागम्, स्त्रियै = शत्रुपल्यै, पादमितां = चतुर्थांशम्, भृतिम् = वेतनम्, किल = निश्चयेन, दद्यात् = प्रयच्छेत् ॥ ३ ९ ७ ॥ हिन्दी – पराजित राजा का राज्य यदि अपने राज्य में मिला ले तो वैसी स्थिति में पराजित राजा को पराजित काल से लेकर जीवन - यापन के लिए वेतन निर्धारित कर दे । राजा के वेतन का आधा भाग उसके बेटे को तथा वेतन की चौथाई उसकी पत्नी को निश्चित रूप से निर्धारित कर दे ॥ ३ ९ ७ ॥ परराष्ट्र इति । परराष्ट्रे शत्रुराज्ये हृते आत्मसात्कृते सति भिन्नावधिं राज्यहरणदिवसावधिं भृतिं भरणोपयोगिधनं दद्यात् तथा तस्य पुत्रे अर्द्धां स्त्रियै पादमितां चतुर्थभागरूपां भृतिं किल निश्चितं दद्यात् ॥ ३ ९ ७ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 482

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 482 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८ ९ ४ शुक्रनीतिः

हृतराज्यस्य पुत्रादौ सद्गुणे पादसम्मितम् ।

दद्याद्वा तद्राज्यतस्तु द्वात्रिंशांशं प्रकल्पयेत् ॥ ३ ९ ८ ॥

अन्वयः —– हृतराज्यस्य सद्गुणे पुत्रादौ पादसम्मितं दद्यात् । वा तु तद्राज्यतः द्वात्रिंशांशं प्रकल्पयेत् ॥ ३ ९ ८ ॥ व्याख्या— हृतराज्यस्य — हृतम् = आत्मसात्कृतम्, राज्यम् = राष्ट्रम्, तस्य = रिपोः, सद्गुणे = सद्गुणसम्पन्ने, पुत्रादौ = सुतादौ तस्य = राज्यस्य, पादसम्मितम् = चतुर्थांशपरिमितं, दद्यात् = प्रयच्छेत्, वा = अगुणशालिनि तु, द्वात्रिंशांशम् = द्वात्रिंशभागम्, प्रकल्पयेत् = समर्पयेत् ॥३ ९ ८ ॥ हिन्दी — पराजित राजा के बेटे यदि सद्गुणसम्पन्न हों तो उनके जीविकार्थ उनसे छीने गये राज्य का चौथा भाग उन्हें दे । किन्तु यदि उनके बेटे गुणवान् न हों तो उन्हें केवल अपहृत राज्य का बत्तीसवाँ भाग ही देना चाहिए ॥ ३ ९ ८ ॥ हृतेति I । हृतं राज्यं यस्य तस्य शत्रोः सद्गुणे सुगुणशालिनि पुत्रादौ तस्य राज्यस्य पादसम्मितं चतुर्थभागमित्यर्थः, दद्यात् वा एव वाशब्दः अवधारणार्थ:, अगुणशालिनि तु द्वात्रिशांशं प्रकल्पयेत् दद्यादित्यर्थः ॥ ३ ९ ८ ॥ हृतराज्यस्य निचितं कोशं भोगार्थमाहरेत् ॥ ३ ९९ ॥ अन्वयः — हृतराज्यस्य निचितं कोशं भोगार्थम् आहरेत् ॥ ३ ९९ ॥ व्याख्या — हृतराज्यस्य = रिपोः अपहृतराष्ट्रस्य, निचितम् = सञ्चितम्, स्वस्य, भोगार्थम् = उपभोगहेतवे, आहरेत् = गृह्णीयात् ॥ ३ ९९ ॥ हिन्दी— शत्रु के अपहृत राज्य में उसके द्वारा संचित जो खजाना है. अपने उपभोग के लिए रख ले ॥ ३ ९९ ॥ हृतेति । हृतराज्यस्य शत्रोः निचितं सञ्चितं कोशं धनं स्वस्य गृह्णीयात् ॥ ३ ९९ ॥

कौसीदं वा तद्धनस्य पूर्वोक्तार्द्धं प्रकल्पयेत् ।

तद्धनं द्विगुणं यावन्न तदूर्ध्वं कदाचन ॥ ४००

कोशम् = धनागारं, उसे विजयी राजा भोगार्थम् आहरेत् ॥ अन्वयः — वा तत् धनस्य कौसीदं पूर्वोक्तम् अर्धं यावत् तत् धनं द्विगुणं तावत् प्रकल्पयेत्, कदाचन तत् ऊर्ध्वं न ॥४०० ॥

व्याख्या – वा = अथवा, तत् = तस्य नृपस्य धनस्य = सञ्चितकोशस्य, कौसीदम् = वृद्धि-धनम्, पूर्वोक्तम् = प्राक्कथितम्, अर्धम् = अर्धभागं, यावत् = कालावधि, तद् धनं द्विगुणं भवेत्, तावत् = अवधिपर्यन्तं, प्रकल्पयेत् = विचारयेत्, कदाचन = कथमपि, तस्मात् = पूर्वोक्तधनात् ', ऊर्ध्वम् = उपरि, न = नहि, दद्यात् ॥ ४०० ॥

हिन्दी — अथवा पराजित राजा के संचित कोश का आधा धन का सूद उसे तब तक देता रहे जब तक सूद की रकम मूल धन से दूनी न हो जाय । इससे ऊपर बिलकुल देना बन्द कर दे ॥४०० ॥

कौसीदमिति । वा अथवा तद्धनस्य तस्य निचितकोशस्य इत्यर्थः, कौसीदं वृद्धिस्वरूपं CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 483

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 483 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८ ९ ५ पूर्वोक्तम् अर्द्धं यावत् तत् धनं द्विगुणं भवेत् तावत्कालपर्य्यन्तं कल्पयेत् कदाचन तस्मात् ऊर्ध्वं न द्वैगुण्यादधिकं नेत्यर्थः ॥ ४०० ॥

स्वमहत्त्वद्योतनार्थं हृतराज्यान् प्रधारेयत् ।

प्राङ्मानैर्यदि सद्वृत्तान् दुर्वत्तास्तु प्रपीडयेत् ॥ ४०१ ॥

अन्वयः — हृतराज्यान् यदि स्वमहत्त्वद्योतनार्थं प्राङ्मानैः सवृत्तान् धारयेत्, दुर्वत्तांस्तु प्रपीडयेत् ॥ ४०१ ॥

व्याख्या — हृतराज्यान् = पराजितरिपून्, यदि = चेत्, सद्वृत्तान् = सदाचारनिरतान्, तदा, स्वस्य = आत्मनः महत्त्वद्योतनार्थम् = माहात्म्यप्रकटनार्थम्, प्राङ्मानैः = पूर्ववत् राजोचितैः, मानैः = समादरैः, धारयेत् = स्थापितं कुर्यात्, दुर्वृत्तान् = दुराचारान्, तु = किन्तु, प्रपीडयेत् = दुःखयेत् ॥ ४०१ ॥

हिन्दी – यदि पराजित राजा सदाचारी हो तो अपनी महत्ता प्रदर्शित करने के लिए सर्वप्रथम उसके साथ सम्मानपूर्वक व्यवहार करना चाहिए । किन्तु यदि वह दुराचारी हो तो उसे हर तरह से सताना चाहिए ॥ ४०१ ॥

स्वेति । हृतराज्यान् शत्रून् यदि सद्वृत्तान् सदाचारान् स्वस्य माहात्म्यद्योतनार्थं निजमहिमप्रकटनार्थं प्राङ्मानैः पूर्ववत् राजोचितैः मानैः सम्मानैः धारयेत् स्थापयेत् दुर्वृत्तांस्तु प्रपीडयेत् ॥४०१ ॥

अष्टधा दशधा वापि कुर्य्याद् द्वादशधापि वा ।

यामिकार्थमहोरात्रं यामिकान् वीक्ष्य नान्यथा ॥ ४०२ ॥

अन्वयः — यामिकान् वीक्ष्य यामिकार्थम् अहोरात्रम् अष्टधा दशधा वा द्वादशधापि कुर्यात्, अन्यथा न ॥ ४०२ ॥

व्याख्या — यामिकान् = प्रहरिणः, वीक्ष्य = अवलोक्य, यामिकार्थम् = प्रहरिणां निमित्तम्, अहोरात्रम् = दिवानिशम्, अष्टधा = - अष्टखण्डेषु विभज्य, दशधा = दशखण्डे विभज्य, वा = अथवा, द्वादशधापि = द्वादशखण्डेऽपि विभज्य, कुर्यात् = प्रहरार्थं नियोजयेत्, अन्यथा = इतरथा, न = नहि ॥ ४०२ ॥

हिन्दी – पहरेदारों की संख्या देखकर तदनुसार उनके लिए दिन - रात को आठ, दश या बारह खण्डों में विभाजित कर उस पर उनकी ड्यूटी लगा दे, दूसरे ढंग से बिलकुल नहीं ॥ ४०२ ॥

अष्टधेति । यामिकान् प्रहरिणः वीक्ष्य विचार्य्यं यामिकार्थं प्रहरिणां निमित्तम् अहोरात्रम् अष्टधा दशधा अथवा द्वादशधा कुर्य्यात् विभजेदित्यर्थः, अन्यथा न, यामिकानामेव दिवाविभागस्य आवश्यकत्वादिति भावः ॥ ४०२ ॥

आदौ प्रकल्पितानंशान् भजेयुर्यामिकास्तथा ।

आद्यः पुनस्त्वन्तिमांशं स्वपूर्वंशं ततोऽपरे ॥ ४०३ ॥

अन्वयः — यामिकाः आदौ तथा प्रकल्पितान् अंशान् भजेयुः । किञ्च आद्यः अन्तिमांशं ततः अपरे पुनः स्वपूर्वंशम् ॥ ४०३ ॥

५७ शु.0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 484

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 484 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८ ९ ६ शुक्रनीतिः व्याख्या — यामिकाः = प्रहरिणः, आदौ = प्रथमत:, तथा = तेनैव प्रकारेण, प्रकल्पितान् = = यथानिर्दिष्टान्, अंशान् = भागान्, भजेयुः = गृह्णीयुः, किञ्च, आद्यः = प्रथमः प्रहरी, अन्तिमांशम् = अवशिष्टभागम्, ततः = तत्पश्चात्, अपरे = अन्ये, पुनः यामिकाः, स्वपूर्णांशम् = निजपूर्वभागम्, गृह्णीयुः ॥ ४०३ ॥

हिन्दी — पहले नियत किये गये समय - विभाग के अनुसार पहरेदार पहरा दे । यह विभाजन ऐसा हो कि पहले भाग पर पहरा देने वाला ही अन्तिम खण्ड पर भी पहरा दे । बीच के भाग पर दूसरे का पहरा होना चाहिए ॥४०३ ॥

आदाविति । यामिकाः प्रहरिणः आदौ अग्रतः तथा तेन प्रकारेण प्रकल्पितान् निर्दिष्टान् अंशान् भजेयुः गृह्णीयुः । किञ्च आद्यः प्रथमः यामिकः अन्तिमांशं शेषभागं ततः आद्यात् अपरे अन्ये यामिका स्वपूर्वांशं निज- निजपूर्वभागं भजेयुरिति शेषः ॥ ४०३ ॥

पुनर्वा योजयेत् तद्वदाद्येऽन्त्यं चान्तिमे ततः ।

स्वपूर्वांशं द्वितीयेऽह्नि द्वितीयादिक्रमागतम् ॥ ४०४ ॥

अन्वयः—– पुनश्च आद्ये अन्त्यं तद्वत् तथा अन्तिमे वा आद्यं तथा द्वितीये अह्नि द्वितीयादिक्रमागतं स्वपूर्वंशं योजयेत् ॥ ४०४ ॥

व्याख्या — पुनश्च = भूयश्च, आद्ये = प्रथमे यामिके, अन्त्यम् = अन्तिमम्, तद्वत् = = तेनैव प्रकारेण, अन्तिमे = अवशिष्टे शेषे वा यामिके, आद्यम् = अग्र्यम्, तथा द्वितीये अह्नि = अपरस्मिन् दिने, द्वितीयादिक्रमागतम् = अपरानुपूर्वीयक्रमेण, स्वस्य = आत्मनः, पूर्वांशम् = पूर्वभागे स्थितम्, योजयेत् = नियुक्तं कुर्यात् ॥४०४ ॥

हिन्दी — इसी तरह फिर पहला तथा अन्तिम भाग करके पहले का क्रम बदल दे । दूसरे दिन वह अपने पूर्वभाग पर पहरा दे और जो अन्तिम भाग पर पहरा देता था, उसे फिर पहले भाग पर चक्रानुक्रम से नियुक्त कर दे ॥ ४०४ ॥

पुनरिति । पुनश्च आद्ये यामिके अन्त्यं तद्वत् तथा अन्तिमे शेषे यामिके वा आद्यं तथा द्वितीये अह्नि द्वितीयादिक्रमागतं स्वपूर्वांशं योजयेत् ॥ ४०४ ॥

चतुर्भ्यस्त्वधिकान् नित्यं यामिकान् योजयेद्दिने ।

युगपद्योजयेद् दृष्ट्वा बहून् वा कार्य्यगौरवम् ॥ ४०५ ॥

अन्वयः— दिने चतुर्भ्यः अधिकान् यामिकान् योजयेत् वा कार्यगौरवं दृष्ट्वा युगपत् बहून् योजयेत् ॥ ४०५ ॥

व्याख्या – दिने = दिवसे, चतुर्भ्यः, अधिकान् = विशेषान्, यामिकान् = प्रहरिणः, नित्यम् = प्रतिदिनम्, योजयेत् = नियुञ्ज्यात्, वा = अथवा, कार्यगौरवम् — कार्यस्य = कृत्यस्य, गौरवम् = महत्त्वम्, दृष्ट्वा = अवलोक्य, युगपत् = एकस्मिन्नेव काले, बहून् = अत्यधिकान्, प्रहरिणः, योजयेत् = नियुञ्ज्यात् ॥ ४०५ ॥

हिन्दी — काम की गुरुता देखकर एक स्थान पर एक दिन में चार से अधिक पहरेदारों को भी नियुक्त किया जा सकता है ॥४०५ ॥

चतुर्भ्य इति । दिने चतुर्भ्यः अधिकान् यामिकान् नित्यं प्रत्यहं योजयेत् नियुञ्ज्यात्, वा अथवा कार्य्यगौरवं दृष्ट्वा युगपत् एककालं बहून् यामिकान् योजयेत् ॥४०५ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 485

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 485 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८ ९ ७ चतुरूनान् यामिकांस्तु कदा नैव नियोजयेत् ॥ ४०६ ॥

अन्वयः — कदापि चतुरूनान् यामिकान् नैव नियोजयेत् ॥ ४०६ ॥

व्याख्या — कदापि = कथमपि, चतुरूनान् = चतुर्भ्यः अल्पान् एकम्, द्वौ त्रीन् वा, यामिकान् = प्रहरिणः, नैव = नास्त्येव, नियोजयेत् = नियुञ्ज्यात् ॥४०६ ॥

हिन्दी – चार से कम पहरेदारों को कहीं भी काम पर नहीं लगाना चाहिए ॥ ४०६ ॥

चतुरूनानिति । कदापि चतुरूनान् चतुर्भ्यः हीनान् एकं द्वौ त्रीन् वेत्यर्थः, यामिकान् नैव नियोजयेत् ॥४०६ ॥

यद्रक्ष्यमुपदेश्यं यदादेश्यं यामिकाय तत् ।

तत् समक्षं हि सर्वं स्याद्यामिकोऽपि च तत्तथा ॥ ४०७ ॥

अन्वयः — यत् रक्ष्यं यच्च उपदेश्यं तत् यामिकाय आदेश्यम् । हि सर्वं तत् समक्षं स्यात्, यामिकोऽपि तत् तथा ॥ ४०७ ॥

व्याख्या — यत् = वस्तु, रक्ष्यम् = रक्षणीयम्, यच्च = विषयम्, उपदेश्यम् = उपदेष्टुं योग्यम्, तत् = विषयम्, यामिकाय = प्रहरिणे, आदेश्यम् = आज्ञापितव्यम् । हि = यतः, सर्वम् = प्रजानां सकलं कार्यम्, तत् = तस्य प्रहरिणः, समक्षम् = सम्मुखम्, स्यात् = भवेत्, तस्मात् यामिकोऽपि = प्रहरी अपि, तत् = सकलं कार्यम्, तथा = शिक्षेत ॥ ४०७ ॥

हिन्दी – जो वस्तु रक्षा करने लायक हो अथवा किसी को समझाने योग्य हो तो उसके लिए भी पहरेदारों को ही आदेश देना चाहिए । क्योंकि सारे काम पहरेदारों के सामने ही होते हैं । अतः वह भी उसे उस विषय में जानकारी रहने के बाद वैसा ही करने को कहेगा ॥४०७ ॥

यदिति । यत् रक्ष्यं रक्षणीयं यच्च उपदेश्यं शिक्षणीयं तत् यामिकाय आदेश्यम् उपदेष्टव्यं, हि यतः सर्वं प्रजानां कार्य्यं तत् समक्षं तस्य यामिकस्य समक्षं प्रत्यक्षं स्यात् तस्मात् यामिकोऽपि तत् सर्वं तथा शिक्षेतेति शेषः ॥ ४०७ ॥

कीलकोष्ठे तु स्वर्णादि रक्षेन्नियमितावधि ।

स्वांशान्ते दर्शयेदन्ययामिकन्तु यथार्थकम् ॥ ४०८ ॥

अन्वयः — यामिकः नियमितावधि स्वर्णादि कीलकोष्ठे रक्षेत् । स्वांशान्ते अन्ययामिकं यथार्थकं तत् दर्शयेत् ॥ ४०८ ॥

व्याख्या — यामिकः, नियमितावधि = निर्धारितसमयपर्य्यन्तं, स्वर्णादि = कनकादि धनम्, यत् स्वस्वामिकम् अस्वामिकं वा, कीलकोष्ठे = तालकेन निरुद्धप्रकोष्ठे, रक्षेत् । ततः स्वस्य = आत्मनः, अंशान्ते = प्रहरिकालस्यावसाने, अन्ययामिकम् = स्वपदे उपस्थितं प्रहरिणम्, यथार्थकम् = यथा-स्थितिम्, तत् = सकलम्, दर्शयेत् = दर्शयित्वा समर्पयेत् ॥ ४०८ ॥

हिन्दी — निश्चित समय तक तालाबन्द कमरे में रखे हुए सोने आदि धन की रक्षा जो पहरेदार करता है, पहरा बदलने पर उस रक्षणीय वस्तु की स्थिति अर्थात् ताला - कुण्डी दिखाकर दूसरे पहरेदार को अपना काम सौंप देना चाहिए ॥ ४०८ ॥

कीलेति । यामिकः नियमितावधि निर्द्धारितकालं यावत् स्वर्णादि यत् अस्वामिकं वा सस्वामिकं चोरितादिप्राप्तमिति भावः,. कीलकोष्ठे कीलस्य आश्रयस्तम्भस्य कोष्ठे मध्ये रक्षेत् । ५७ शु ० CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 486

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 486 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८ ९ ८ शुक्रनीति: ततः स्वस्य अंशान्ते प्रहरिकालस्य अंशावसाने अन्ययामिकं स्वपदे उपस्थितमिति शेषः, यथार्थकं तत् सर्वं दर्शयेत् दर्शयित्वा बोधयेत् इत्यर्थः ॥ ४०८ ॥

क्षणे क्षणे यामिकानां कार्य्यं दूरात् सुबोधनम् ॥ ४० ९ ॥ अन्वयः — क्षणे क्षणे दूरात् सुबोधनं यामिकानां कार्यम् ॥४० ९ ॥ व्याख्या — क्षणे क्षणे = प्रतिक्षणम्, दूरात् = आरात्, सुबोधनम् = प्रजानां जागरणसम्पादनम्, यामिकानाम् = प्रहरिणाम्, कार्यम् = कृत्यमस्ति ॥ ४० ९ ॥ हिन्दी – पहरेदारों का यह कर्त्तव्य होता है कि दूर से ही प्रतिक्षण वह सबों को सावधान करते रहे ॥४० ९ ॥ क्षणे इति । क्षणे क्षणे दूरात् सुबोधनं प्रजानां सतर्कतासम्पादनं यामिकानां कार्य्यम् ॥४० ९ ॥

सत्कृतान् नियमान् सर्वान् यदा सम्पालयेन्नृपः ।

तदैव नृपतिः पूज्यो भवेत् सर्वेषु नान्यथा ॥ ४१० ॥

अन्वयः – नृपः यदा सत्कृतान् सर्वान् नियमान् सम्पालयेत् तदैव नृपतिः सर्वेषु पूज्यः भवेत्, अन्यथा न ॥ ४१० ॥

व्याख्या – नृपः = राजा, यदा = यस्मिन्काले, सत्कृतान् = शोभनान् कृत्यान्, सर्वान् = सकलान्, नियमान् = व्यवस्थाः, सम्पालयेत् = पालनं कुर्यात्, तदैव = तस्मिन्नेवावस्थायाम्, नृपतिः = भूपः, सर्वेषु = जगत्सु, पूज्यः = श्रेष्ठः भवेत् = स्यात्, अन्यथा = इत्थं विहाय, न = नहि ॥ ४१० ॥

हिन्दी - राजा जब सुन्दर ढंग से सभी नियमों का अच्छी तरह पालन करता है तभी वह सभी लोगों के बीच आदरणीय होता है, अन्यथा नहीं ॥ ४१० ॥

सत्कृतानिति । नृपः यदा सत्कृतान् शोभनान् सर्वान् नियमान् सम्पालयेत्, तदैव नृपतिः सर्वेषु जगत्सु पूज्यः भवेत् अन्यथा न ॥४१० ॥

यस्यास्ति नियतं कर्म नियतः सद्ग्रहो यदि ।

नियतोऽसद्ग्रहत्यागो नृपत्वं सोऽश्नुते चिरम् ॥ ४११ ॥

अन्वयः — यस्य नियतं कर्म तथा नियतः सद्ग्रहः तथा असद्ग्रहत्यागः नियतः, सः चिरं नृपत्वम् अश्नुते ॥४११ ॥

व्याख्या — यस्य = नृपस्य नियतम् = निश्चितम्, सततम्, कर्म = कर्त्तव्यम्, तथा = - यदि, नियतः = निधारितः, सत्सु = सुन्दरविषयेषु, ग्रहः = आग्रह:, तथा = तेनैव रूपेण, असत्सु = अनर्गलविषयेषु, ग्रहत्यागः = उपेक्षाभावः, नियतः = सुस्थिरः, सः = असौ राजा, चिरम् = बहुकालपर्यन्तम्, नृपत्वम् = राजपदत्वम्, अश्नुते = उपभुज्यते ॥ ४११ ॥

हिन्दी — जिस राजा का हर काम हर समय नियमित होता है तथा सुन्दर विषयों में जिसकी रुचि और दुर्वत्तों के प्रति अरुचि रहती है, वह राजा या वैसा ही राजा बहुत दिनों तक अपने राजपद का उपभोग करता है ॥४११ ॥

यस्येति । यस्य नियतं सततं कर्म कार्य्याभिनिवेशः तथा यदि नियतः सत्सु विषयेषु ग्रहः आदर:, तथा असत्सु विषयेषु ग्रहत्यागः अनादरः नियतः, सः चिरं नृपत्वं राजत्वम् अश्नुते प्राप्नोति ॥४११ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 487

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 487 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ८ ९९

यस्यानियमितं कर्म साधुत्वं वचनं त्वपि ।

सदैव कुटिलः सख्युः स्वपदाद् द्राग्विनश्यति ॥ ४१२ ॥

अन्वयः - यस्य कर्म साधुत्वं तथा वचनम् अनियमितं सदैव कुटिलं, सः सख्युः स्वपदात् द्राक् विनश्यति ॥ ४१२ ॥

व्याख्या - यस्य = = नृपस्य, कर्म = कार्यम्, साधुत्वम् = सुष्ठु भवति, तथा वचनम् = तस्य नृपस्य कथनम्, अनियमितम् = अव्यवस्थितम्, सदैव = सर्वदा, कुटिलम् = वक्रम्, सः = = असौ राजा, सख्युः = सुहृदः, स्वपदात् — स्वस्य = आत्मनः पदात् = नृपत्वात्, द्राक् = झटिति, विनश्यति = विनष्टो भवति ॥ ४१२ ॥

हिन्दी — जिस राजा का काम सुन्दर हो किन्तु बातें अव्यवस्थित हों राजा शीघ्र ही अपने मित्र एवं राज्य से भ्रष्ट हो जाता है ॥ ४ ९ २ ॥

नापि व्याघ्रगजाः शक्ता मृगेन्द्र शासितुं यथा ।

न तथा मन्त्रिणः सर्वे नृपं स्वच्छन्दगामिनम् ॥

निर्भृताधिकृतास्तेन निःसारत्वं हि तेष्वतः ।

गजो निबध्यते नैव तूलभारसहस्रकैः ॥

, सदैव कुटिल हो, वह ४१३ ॥ ४१४ ॥ अन्वयः — यथा व्याघ्रगजाः मृगेन्द्र शासितुं न शक्ताः तथा तेन निर्भृताधिकृताः सर्वे मन्त्रिणः स्वच्छन्दगामिनं नृपं न । अतः तेषु निःसारत्वं तूलभारसहस्रकैः गजः नैव निबध्यते ॥ ४१३-४१४ ॥ व्याख्या — यथा, व्याघ्राः = = शार्दूलाः, च = पुनः, गजाः = हस्तिनः, मृगेन्द्रम् = सिंहम्, शासितुम् = शासनं कर्तुम्, न = नहि, शक्ताः - समर्थाः भवन्ति, तथा, तेन = नृपेण, निर्भृताः — निःशेषेण, भृताः = पालिताः, अधिकृताः = हस्तगताः सर्वे = सकलाः, मन्त्रिणः = अमात्याः, स्वच्छन्दगामिनम् = स्वेच्छाचारिणम्, तं नृपं शासितुं न समर्थाः भवन्ति । अतः = अनेन कारणेन, तेषु = अमात्येषु, निःसारत्वम् = सारहीनत्वम्, तूलानाम् = कार्पासानाम्, भारसहस्रकैः = सहस्रैरपि भारै:, गजः = हस्ती, नैव = नास्त्येव, निबध्यते = बन्धनं गच्छति ॥ हिन्दी – जैसे बाघ और हाथी सिंह पर शासन नहीं कर सकते, उसी तरह सभी मंत्री और अधिकारी गण स्वेच्छाचारी राजा के ऊपर शासन नहीं कर सकते । क्योंकि वे मंत्री तथा अधिकारीगण उसी राजा से पालित तथा पदारूढ़ होते हैं । राजा के सामने शासन करने में वे निस्तेज हैं; ठीक उसी तरह जैसे हजारों भार रूई की पूनी हाथी को नहीं बाँध सकती ॥ नापीति । यथा व्याघ्रा गजाश्च मृगेन्द्रं सिंहं शासितुं न शक्ताः, तथा तेन नृपेण निर्भृताः निःशेषेण भृताः अधिकृताः भृत्याः सर्वे मन्त्रिणः स्वच्छन्दगामिनं स्वेच्छाचारिणं तं नृपं शासितुं न शक्ता इत्यर्थः । अतः अस्मात् कारणात् तेषु मन्त्रिषु निःसारत्वम् अक्षमत्वमित्यर्थः, राज्ञः स्वेच्छाचारित्वात् मन्त्रिणामक्षमत्वं सुतरामायातमिति भावः । तूलानां कार्पासानां भारसहस्रकैः सहस्त्रैरपि भारैरित्यर्थः गजः नैव निबध्यते ॥ ४१३-४१४ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 488

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 488 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ०० शुक्रनीति:

उद्धर्तुं द्राग्गजः शक्तः पङ्कलग्नं गजं बली ।

नीतिभ्रष्ट नृपं त्वन्यनृप उद्धरणक्षमः ॥ ४१५ ॥

अन्वयः — बली गजः पङ्कलग्नं गजं द्राक् उद्धर्तुं शक्तः, तु अन्यनृपः नीतिभ्रष्टनृपम् उद्धरणक्षमः व्याख्या ॥ -बली ४१५ ॥ = शक्तिशाली, गजः = = हस्ती, पङ्कलग्नम् = पङ्के पतितम्, गजम् = हस्तिनम्, द्राक् = शीघ्रमेव, उद्धर्तुम् = पङ्कात् समुद्धर्तुम्, शक्तः = = समर्थः, तु = तथा, अन्यनृपः = शक्तिशाली अन्य राजा, नीतिभ्रष्टम् = कुमार्गगामिनम्, नृपम् = राजानम्, उद्धरणक्षमः = उद्धर्तुं समर्थः ॥ ४१५ ॥

हिन्दी — कीचड़ में फँसे हाथी को जैसे कोई शक्तिशाली हाथी ही निकाल सकता है, उसी तरह नीतिभ्रष्ट राजा को कोई शक्तिशाली राजा ही उद्धार कर सकता है ॥४१५ ॥

उद्धर्तुमिति । बली प्रबलः गजः पङ्कलग्नं कर्दमपतितं गजं द्राक् झटिति उद्धर्तुं शक्तः । तु तथेत्यर्थः, अन्यनृपः नीतिभ्रष्टं नृपम् उद्धरणक्षमः अत्र नृपमिति कृद्योगे षष्ठ्यभाव आर्षः ॥ ४१५ ॥

बलवन्नृपभृत्येऽल्पेऽपि श्रीस्तेजो यथा भवेत् ।

न तथा हीननृपतौ तन्मन्त्रिष्वपि नो तथा ॥ ४१६ ॥

अन्वयः — बलवन्नृपभृत्ये अल्पेऽपि यथा श्रीः तेजश्च भवेत् हीननृपतौ तथा न; तस्य मन्त्रिष्वपि तथा नो भवेत् ॥४१६ ॥

व्याख्या — बलवतः = शक्तिशालिनः, नृपस्य = राज्ञः, भृत्ये = सेवके, अल्पेऽपि = क्षुद्रेऽपि, यथा श्रीः = कान्तिः, तेजः = प्रभाव:, भवेत्, हीननृपतौ = शक्तिहीने भूपे, तथा, न = नहि, तस्य = नृपस्य, मन्त्रिष्वपि = अमात्येष्वपि, तथा = तेन रूपेण, नो भवेत् ॥४१६ ॥

हिन्दी — बलवान् राजा के साधारण नौकर - चाकर में भी जो तेज और ओज दीख पड़ता है, वह शक्तिहीन राजा में या उनके मन्त्रियों में उपलब्ध नहीं बलवदिति । बलवतः नृपस्य भृत्ये अल्पे क्षुद्रेऽपि यथा श्रीः राजनि न तस्य मन्त्रिषु अपि तथा नो भवेदित्यर्थः ॥४१६ ॥

बहूनामैकमत्यं हि नृपतेर्बलवत्तरम् ।

बहुसूत्रकृतो रज्जुः सिंहाद्याकर्षणक्षमः ॥

अन्वयः — बहूनाम् ऐकमत्यं नृपतेः अपि बलवत्तरं हि कर्पणक्षमः ॥ ४१७ ॥

होता ॥ ४१६ ॥

तेजश्च भवेत् हीननृपतौ दुर्बले ४१७ ॥ । बहुसूत्रकृतः रज्जुः सिंहाद्या-व्याख्या — बहूनाम् = अत्यधिकानाम्, जनानाम्, ऐकमत्यम् = एकमतम्, नृपतेः = भूपतेः अपि, बलवत्तरम् = अधिकबलशालिनम्, हि = निश्चयेन | तथाहि — बहुसूत्रकृतः-: -बहुभिः = अनेकैः, सूत्रैः = तन्तुभिः, कृतः = रचितः, रज्जुः = दाम, सिंहादीनाम् = मृगेन्द्रादीनाम्, आकर्षणे = आनयने, क्षमः = समर्थो भवति ॥ ४१७ ॥

हिन्दी — बहुमत की ताकत राजा से अधिक होती है, क्योंकि अनेक तन्तुओं से बनी मोटी रस्सी सिंह आदि जैसे बलवान् जन्तुओं को भी खींच लाने में CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 489

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 489 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ९ ०१ समर्थ होती है ॥ ४१७ ॥

बहूनामिति । बहूनाम् ऐकमत्यं नृपतेः राज्ञः अपि बलवत्तरम् अधिकबलवत् हि । तथा हि बहुसूत्रकृतः बहूभिः सूत्रैः निर्मितः रज्जुः सिंहादीनाम् आकर्षणे क्षमः शक्तः ॥४१७ ॥

होनराज्यो दुष्टभृत्यो न सैन्यं धारयेद् बहु ।

कोशवृद्धिं सदा कुर्य्यात् स्वपुत्राद्यभिवृद्धये ॥। ४१८ ॥

अन्वयः — हीनराज्यः दुष्टभृत्यः बहुसैन्यं न धारयेत् । स्वपुत्राद्यभिवृद्धये सदा कोशवृद्धिं कुर्यात् ॥ ४१८ ॥

व्याख्या — हीनराज्य: — हीनम् = क्षुद्रम्, राज्यम् = राष्ट्रम्, यस्य सः तथा दुष्टः = दुर्वृत्तः, भृत्यः = = सेवकः, यस्य तादृशः, राजा, बहुसैन्यम् = अत्यधिकबलम्, न = नहि, धारयेत् = रक्षेत् । स्वपुत्राद्यभिवृद्धये — स्वस्य = आत्मनः, पुत्रादीनाम् = सुतादीनाम्, अभिवृद्धये = अभ्युदयाय, सदा = = सर्वदा, कोशवृद्धिम् = धनानाम् अभिवर्द्धनं, कुर्यात् = विद्यात् ॥ ४१८ ॥

हिन्दी – छोटे राज्य वाला एवं दुष्ट सेवक वाला छोटा राजा अपने पास बहुत अधिक सेना न रखे । बल्कि वह सदा अपनी सन्तान आदि के अभ्युदय के लिए खजाने में धन - दौलत बढ़ाता रहे ॥४१८ ॥

हीनेति । हीनं राज्यं यस्य सः तथा दुष्टः भृत्यः यस्य तादृशः नृपः बहुसैन्यं न धारयेत्, स्वस्य आत्मनः पुत्रादीनाम् अभिवृद्धये अभ्युदयाय सदा कोशवृद्धिं धनवृद्धिं कुर्य्यात् ॥ ४१८ ॥

क्षुधया निद्रया सर्वमशनं शयनं शुभम् ।

भवेद्यथा तथा कुर्य्यादन्यथाशु दरिद्रकृत् ॥ ४१ ९ ॥

अन्वयः — सर्वम् अशनं शयनं च यथा शुभं भवेत् तथा कुर्यात् । अन्यथा क्षुधया निद्रया च आशु दरिद्रकृत् ॥ ४१ ९ ॥ व्याख्या – सर्वम् = सकलम्, अशनम् = भोजनम्, शयनम् = सुप्तिम्, च, यथा = येन प्रकारेण, शुभम् = कल्याणप्रदम्, भवेत् = स्यात्, तथा = तेनैव प्रकारेण, कुर्यात् = निष्पादयेत् । अन्यथा = इतरथा, क्षुधया = बुभुक्षया, निद्रया = सुप्तया, च, आशु = शीघ्रम्, दरिद्रकृत् = निर्धनताजनकं भवेत् ॥ ४१ ९ ॥ हिन्दी – जब भूख लगे तब भोजन और जब नींद लगे तब सोना, ये सब राजा के लिए कल्याणकारी होते हैं । नहीं तो खाने और सोने से दरिद्रता शीघ्र आ धमकती है ॥ ४१ ९ ॥ क्षुधयेति । सर्वम् अशनं भोजनं शयनञ्च यथा शुभं भवेत् तथा कुर्य्यात्, अन्यथा क्षुधया निद्रया च आशु शीघ्रं दरिद्रकृत् दारिद्र्यजनकं भवेदित्यर्थः ॥४१ ९ ॥ दिशानया व्ययं कुर्य्यान्नृपो नित्यं न चान्यथा ।

धर्म्मनीतिविहीना ये दुर्बला अपि वै नृपाः ।

सुधर्म्मबलयुग्राज्ञा दण्ड्यास्ते चौरवत् सदा ॥ ४२० ॥

अन्वयः — नृपः अनया दिशा नित्यं व्ययं कुर्यात्, अन्यथा न । ये नृपाः दुर्बलाः तथा धर्मनीति-विहीनाः ते सुधर्मबलयुप्राज्ञा सदा चौरवत् दण्ड्याः ॥ ४२० ॥

व्याख्या— नृपः - राजा, अनया = = पूर्वोक्तया, दिशा = रीत्या, नित्यम् = प्रतिदिनम्, व्ययम् CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 490

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 490 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ०२ शुक्रनीतिः = धनस्य निर्गमनम्, कुर्यात् = निष्पादयेत्, अन्यथा = भिन्नप्रकारेण, न = नहि । ये = पूर्वोक्ताः, नृपाः: = राजानः, दुर्बलाः = शक्तिहीनाः, तथा, धर्मेण = पुण्यकर्मणा, नीत्या = सुव्यवस्थया, च = ' पुनः, विहीनाः = रहिताः, ते = सर्वे, सुधर्मबलयुजा = सुष्ठुकर्मशक्तिसंयुक्तेन, राज्ञा = नृपेण, सदा = सर्वदा, चौरवत् = तस्कर इव, दण्ड्याः = दण्डनीयाः ॥४२० ॥

हिन्दी — इस तरह राजा को खर्च करना चाहिए कि वह शीघ्र दरिद्र न हो जाय, इससे भिन्न ढंग से खर्च नहीं करना चाहिए । जो राजे दुर्बल तथा धर्म और नीति से रहित हैं, उन्हें धर्म तथा बल युक्त राजा हमेशा चोर की तरह् दण्ड दे ॥४२० ॥

दिशेति । नृपः अनया दिशा रीत्या नित्यं व्ययं कुर्य्यात् अन्यथा न । ये नृपाः दुर्बलाः तथा धर्मेण नीत्या च विहीनाः ते सुधर्मबलयुजा राज्ञा सदा चौरवत् दण्ड्याः । अपि वै शब्दः पादपूरणार्थः ॥४२० ॥

सर्वधर्मावनान्नीचनृपोऽपि श्रेष्ठतामियात् ।

उत्तमोऽपि नृपो धर्म्मनाशनान्नीचतामियात् ॥ ४२१ ॥

अन्वयः — नीचनृपोऽपि सर्वधर्मावनात् श्रेष्ठताम् इयात्, तथा उत्तमोऽपि नृपः धर्मनाशनात् नीचताम् इयात् ॥४२१ ॥

व्याख्या — नीचनृपोऽपि = अधमभूपोऽपि, सर्वेषाम् = अखिलानाम्, धर्माणाम् = पुण्यानाम्, अवनात् = पालनात् रक्षणाच्च, श्रेष्ठताम् = उच्चपदताम्, इयात् = गच्छेत्, तथा उत्तमोऽपि = उत्कृष्टोऽपि, नृपः = राजा, धर्मनाशनात् = पुण्यविनाशनात्, नीचताम् = अधमताम्, इयात् = प्राप्नुयात् ॥४२१ ॥

हिन्दी – सम्पूर्ण राजधर्मों का पालन करता हुआ नीच राजा भी श्रेष्ठता को प्राप्त करता है और उत्तम कोटि का राजा भी राजधर्मों की रक्षा न करने के कारण नीच हो जाता ॥४२१ ॥

सर्वेति । नीचनृपोऽपि सर्वेषां धर्माणाम् अवनात् रक्षणात् श्रेष्ठताम् इयात् प्राप्नुयात् तथा उत्तमोऽपि नृपः धर्मनाशनात् नीचताम् इयात् ॥ ४२१ ॥

धर्माधर्मप्रवृत्तौ तु नृप एव हि कारणम् ।

स हि श्रेष्ठतमो लोके नृपत्वं यः समाप्नुयात् ॥ ४२२ ॥

अन्वयः – नृपः एव धर्माधर्मप्रवृत्तौ हि कारणम् । यः नृपत्वं समाप्नुयात् लोके सः हि श्रेष्ठतमः ॥४२२ ॥

व्याख्या – नृप एव = राजा एव, धर्मस्य = पुण्यकर्मणः, अधर्मस्य = पापकर्मणः, प्रवृत्तौ = रुचौ, कारणम् = हेतु:, हि = निश्चयेन, यः = राजा, नृपत्वम् = राजत्वम्, समाप्नुयात् = प्राप्नुयात्, लोके = संसारे, सः = असौ, हि = एव, श्रेष्ठतमः = उत्कृष्टः ॥४२२ ॥

हिन्दी -- लोगों की धर्म तथा अधर्म में रुचि होने का कारण राजा ही होता है अर्थात् राजा के धार्मिक या अधर्मी होने का प्रभाव प्रजा पर भी पड़ता है । अतः वही सर्वश्रेष्ठ होता है, जो राजपद को प्राप्त होता है! ४२२ ॥ धर्मेति । नृपः एव धर्मस्य अधर्मस्य च प्रवृत्तौ कारणं हि । यः नृपत्वं समाप्नुयात् लोके जगति स हि स एव श्रेष्ठतमः ॥ ४२२ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA