शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 491–500

शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 491–500

पृष्ठ 491

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 491 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य सप्तमं प्रकरणम् ९ ०३

मन्वाद्यैरादृतो योऽर्थस्तदर्थो भार्गवेण वै ।

द्वाविंशतिशतं श्लोका नीतिसारे प्रकीर्त्तिताः ॥ ४२३ ॥

अन्वयः — यः अर्थः मन्वाद्यैः आदृतः, भार्गवेण वै तदर्थ: आदृतः द्वाविंशतिशतं श्लोकाः नीतिसारे प्रकीर्त्तिताः ॥ ४२३ ॥

व्याख्या — यः = विशिष्टः, अर्थः = विषयः, मन्वाद्यैः = मनुप्रभृतिभिः, आदृतः = समादृतः, भार्गवेण = शुक्राचार्येण, तदर्थः - तत् = तस्य मानवधर्मस्य, अर्थः = विषयः, आदृतः = सङ्कलितः, द्वाविंशतिशतम् = द्वयाधिकविंशतिशतम्, श्लोकाः नीतिसारे, प्रकीर्त्तिताः = सङ्कलिताः ॥ ४२३ ॥

हिन्दी — राजनीति के जिन विषयों को मन्वादि स्मृतियों में मान्यता दी गई है, उन्हीं विषयों को शुक्राचार्य ने दो हजार दो सौ श्लोकों में नीतिसार में कहा है ॥४२३ ॥

मन्वाद्यैरिति । यः अर्थः विषयः मन्वाद्यैः मनुप्रभृतिभिः आदृतः भार्गवेण भृगुणा च तदर्थः तस्य मानवधर्मस्य अर्थः आदृतः, तदर्थसङ्कलिताः द्वाविंशतिशतं श्लोकाः नीतिसारे प्रकीर्त्तिताः निबद्धाः मयेति शेषः ॥४२३ ॥

शुक्रोक्तनीतिसारं यश्चिन्तयेदनिशं सदा ।

व्यवहारधुरं वोढुं स शक्तो नृपतिर्भवेत् ॥ ४२४ ॥

अन्वयः — यः शुक्रोक्तनीतिसारम् अनिशं चिन्तयेत् सः सदा व्यवहारधुरं वोढुं शक्तः भवेत् ॥४२४ ॥

व्याख्या — यः = राजा, शुक्रेण = भार्गवेण, उक्तम् = कथितम्, नीतिसारम् = एतदाख्य-ग्रन्थम्, अनिशम् = अहर्निशम्, चिन्तयेत् = विचारयेत्, सः = राजा, सदा = सर्वदा, व्यवहारधुरम् = राजकार्यभारम्, वोढुम् = वहनकर्तुम्, शक्तः = समर्थो भवेत् ॥४२४ ॥

हिन्दी – जो राजा शुक्राचार्य - निर्मित नीतिसार का निरन्तर चिन्तन करता है, वही राजा राजकार्य के भार को वहन करने में समर्थ होता है ॥ २२४ ॥

शुक्रेति । यः नृपतिः शुक्रेण उक्तं नीतिसारम् अनिशं चिन्तयेत् सः सदा व्यवहारधुरं राजकार्य्यभारं वोढुं शक्तः भवेत् ॥२२४ ॥

न कवेः सदृशी नीतिस्त्रिषु लोकेषु विद्यते ।

काव्यैव नीतिरन्या तु कुनीतिर्व्यवहारिणाम् ॥ ४२५ ॥

अन्वयः — त्रिषु लोकेषु कवेः सदृशी नीतिः न विद्यते, तस्मात् काव्यैव नीतिः, अन्या तु व्यवहारिणां कुनीतिः ॥४२५ ॥

व्याख्या — त्रिषु लोकेषु = त्रिलोके, कवेः = शुक्रस्य, सदृशी = तुल्या, नीति: = नयः, न = नहि, विद्यते = अस्ति, तस्मात्, काव्यैव = शुक्ररचितैव, नीतिः = नयः अस्ति, अन्या = तद्भिन्ना, तु, व्यवहारिणाम् = कार्यार्थिणाम्, कुनीतिः = कुत्सिता नीतिः ॥४२५ ॥

हिन्दी – शुक्राचार्य द्वारा विरचित नीति की तरह कोई दूसरी नीति त्रिलोक में नहीं है । वस्तुतः व्यवहार करने वालों के लिए नीति तो शुक्रनीति ही है, इससे भिन्न नीति तो कुनीति है ॥४२५ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 492

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 492 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ०४ शुक्रनीतिः नेति । त्रिषु लोकेषु कवेः शुक्रस्य सदृशी नीतिः न विद्यते, तस्मात् काव्यैव कविकृतैव शुक्रकृतैव इत्यर्थः नीतिः । अन्या तु तद्भिन्ना तु व्यवहारिणां कुनीतिः ॥४२५ ॥

नाश्रयन्ति च ये नीतिं मन्दभाग्यास्तु ते नृपाः ।

कातर्य्याद्धनलोभाद्वा स्युर्वै नरकभाजनाः ॥ ४२६ ॥

इति शुक्रनीतौ चतुर्थाध्यायस्य सेनानिरूपणं नाम सप्तमं प्रकरणम् । इति चतुर्थोऽध्यायः समाप्तः । अन्वयः — ये कातर्यात् धनलोभात् वा नीतिं न आश्रयन्ति, ते नृपाः मन्दभाग्याः नरकभाजनाः स्युः वै ॥४२६ ॥

व्याख्या- - ये |: = राजानः, कातर्यात् = भयविह्वलात्, धनलोभात् = अर्थलिप्सया, वा = अथवा, नीतिम् = नयम्, न = नहि, आश्रयन्ति = अवलम्बयन्ति, ते नृपाः, मन्दभाग्याः = हतभाग्याः, नरकभाजनाः = निरयभागिनः, स्युः = - भवेयुः, वै = इति निश्चयेन ॥४२६ ॥

हिन्दी — जो राजे कायरता या धन के लोभ से नीति का अवलम्बन नहीं करते हैं, वे निश्चय ही अभागे हैं तथा मरने पर नरकगामी होते हैं ॥ २२६ ॥

इस प्रकार शुक्रनीति में चतुर्थ अध्याय में ' सेनानिरूपण ' नामक सप्तम प्रकरण की ' विमला ' संस्कृत - हिन्दी व्याख्या समाप्त हुई । नेति । ये नृपाः कातर्य्यात् अक्षमत्वात् धनलोभाद्वा नीतिं न आश्रयन्ति ते मन्दभाग्याः नरकभाजनाः स्युः, वैशब्दः अवधारणार्थः निश्चितं नरकं गच्छन्तीत्यर्थः ॥४२६ ॥

इति श्रीजीवानन्दविद्यासागरविरचिता चतुर्थाध्यायस्य सप्तमप्रकरणव्याख्या समाप्ता । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 493

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 493 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

पञ्चमोऽध्यायः

नीतिशेषं खिले वक्ष्ये ह्यखिलं शास्त्रसम्मतम् ।

सप्ताङ्गानान्तु राज्यस्य हितं सर्वजनेषु वै ॥ १ ॥

अन्वयः — खिले राज्यस्य सप्ताङ्गानां सर्वजनेषु हितं शास्त्रसम्मतम् अखिलं नीतिशेषं वक्ष्ये ॥ १ ॥

व्याख्या — खिले = परिशिष्टभागे, राज्यस्य = राष्ट्रस्य, सप्तानाम् = सप्तसंख्यकानाम्, अङ्गानाम् = अवयवानाम्, सर्वजनेषु = सकललोकेषु हितम् = लाभकरम्, शास्त्रसम्मतम् = शास्त्रीयविचारानुकूलम्, अखिलम् = सम्पूर्णम्, नीतिशेषम् = अवशिष्टां नीतिम्, वक्ष्ये = = वदिष्यामि ॥ १ ॥

हिन्दी - परिशिष्ट रूप इस खिलनीति - निरूपण में राज्य के सात अंगों के तथा सबों के लिए हितकर शास्त्रसम्मत बची हुई नीति का वर्णन करता हूँ ॥१ ॥

नीतिशेषमिति । खिले परिशिष्टे अंशे राज्यस्य सप्तानाम् अङ्गानां सर्वजनेषु च विषयेषु हितं हितकरं शास्त्रसम्मतम् अखिलं समस्तं सङ्क्षिप्तमित्यर्थः, नीतिशेषम् अवशिष्टां नीतिं वक्ष्ये कथयिष्यामि ॥ १ ॥

शतसंवत्सरान्तेऽपि करिष्याम्यात्मसाद्रिपुम् ।

इति सञ्चिन्त्य मनसा रिपोश्छिद्राणि लक्षयेत् ॥ २ ॥

अन्वयः — शतसंवत्सरान्तेऽपि रिपुम् आत्मसात् करिष्यामि, इति मनसा सञ्चिन्त्य रिपोःछिद्राणि लक्षयेत् ॥२ ॥

व्याख्या— शतसंवत्सरान्तेऽपि = शताधिकवर्षव्यतीतेऽपि कदाचित् रिपुम् = अरिम्, आत्मसात् = आत्माधीनम् करिष्यामि = सम्पादयिष्यामि, इति = इत्थम्, मनसा = चित्तेन, सञ्चिन्त्य = विचार्य, रिपोः = शत्रोः, छिद्राणि = दोषाणि, लक्षयेत् = अवलोकयेत् ॥ २ ॥

हिन्दी — सौ साल के बाद भी शायद मैं अपने दुश्मन को अधीन कर लूँगा, ऐसा सोचकर स्थिर चित्त से दुश्मन के दुर्गुणों को ढूँढता रहे ॥ २ ॥

शतेति । शतसंवत्सराणाम् अन्तेऽपि कदाचिदपीत्यर्थः, रिपुं शत्रुम् आत्मसात् करिष्यामि इति मनसा सञ्चिन्त्य रिपोः शत्रोः छिद्राणि लक्षयेत् ॥ २ ॥

राष्ट्रभृत्यविशङ्की स्याद्धीनमन्त्रबलो रिपुः ।

युक्त्या तथा प्रकुर्वीत सुमन्त्रबलयुक् स्वयम् ॥ ३ ॥

अन्वयः — स्वयं सुमन्त्रबलयुक् नृपः यथा रिपुः राष्ट्रभृत्यविशङ्की तथा हीनमन्त्रबलः स्यात् युक्त्या तथा प्रकुर्वीत ॥ ३ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 494

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 494 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ०६ शुक्रनीतिः व्याख्या— स्वयम् = आत्मनः, सुमन्त्रबलयुक् = सन्ध्यादिषड्गुणजन्यमन्त्रणा तथा सेनायुक्तः, नृपः, यथा = येन प्रकारेण, रिपुः = शत्रुः, राष्ट्रेषु = राज्येषु, भृत्येषु = सेवकेषु च, विशङ्की = विशिष्टशङ्कायुक्तः, तथा = तेनैव रूपेण, हीनम् = नीचम्, मन्त्रः = मन्त्रिणः, बलञ्च = सेनाञ्च, यस्य तादृशः स्यात् = भवेत्, युक्त्या = युक्तिपूर्वकेन, तथा = तदनुरूपम्, प्रकुर्वीत = सम्पादयेत् ॥ ३ ॥

हिन्दी — स्वयं सुन्दर विचार या मन्त्रणा से युक्त रहकर ऐसा उपाय करे कि दुश्मन अपनी सेना पर सन्देह करने लगे और सेना तथा मंत्री से हीन बन जाय ॥ ३ ॥

राष्ट्रेति । स्वयं सुमन्त्रबलयुक् नृपः यथा रिपुः राष्ट्रेषु भृत्येषु च विशङ्की सन्देहवान् तथा हीनं मन्त्रः बलञ्च यस्य तादृशः स्यात् युक्त्या कौशलेन तथा प्रकुर्वीत ॥३ ॥

सेवया वा वणिग्वृत्त्या रिपुराष्ट्रं विमृश्य च ।

दत्ताभयं सावधानो व्यसनासक्तचेतसम् ॥ ४ ॥

मार्जारलुब्धबकवत् सन्तिष्ठन् नाशयेदरिम् ॥ ५ ॥

अन्वयः — सावधानः सेवया वा वणिग्वृत्त्या रिपुराष्ट्रं विमृश्य मार्जारलुब्धबकवत् सन्तिष्ठन् दत्ताभयं व्यसनासक्तचेतसम् अरिं नाशयेत् ॥ ४-५ ॥ व्याख्या - सावधानः-: दत्तावधानो राजा, सेवया = सुश्रूपया, वा = अथवा, वणिग्वृत्त्या = = वाणिज्यव्याजेन, रिपोः = अरे, राष्ट्रम् = राज्यम्, विमृश्य = सम्यक् प्रकारेणावलोक्य, मार्जारः = बिलाडः, तद्वत् = तत्सदृशः, लुब्धबकवत् = व्याधबक इव, सन्तिष्ठन्, दत्ताभयम् — दत्तम् = प्रदत्तम्, अभयम् = अभयदानम्, यस्मै तादृशम्, व्यसनेषु = भोगविलासादिषु, आसक्तचेतसम् = संलग्न-चित्तम्, अरिम् = रिपुम्, नाशयेत् = विनष्टं कुर्यात् ॥ ४-५ ॥ हिन्दी – सावधान होकर मनोनुकूल आचरण या व्यापार के बहाने दुश्मन के राज्य को ठीक से देखकर बिलाड, बहेलिया और बगुले की तरह सावधान होकर दुश्मन को निर्भय रहने का विश्वास दिलाकर रास - रंग में लिप्त दुश्मन को मौका पाते ही विनष्ट कर दे ॥ ४-५ ॥ सेवयेति । मारिति । सावधानः नृपः सेवया आनुगत्येन वा वणिग्वृत्त्या वाणिज्यव्याजेन रिपोः शत्रोः राष्ट्रं विमृश्य समीक्ष्य मार्जारः बिडालः तद्वत् लुब्धबकवच्च सन्तिष्ठन् दत्ताभयं दत्तम् अभयं यस्मै तादृशं पूर्वम् अभयं दत्त्वा इत्यर्थः, व्यसनेषु कामादिषु आसक्तचेतसम् आक्रान्तचित्तं निर्भयत्वात् राज्यरक्षणे अव्यग्रतया भोगरतमिति भावः, अरिं शत्रुं नाशयेत् ॥ ४-५ ॥

सेनां युद्धे नियुञ्जीत प्रत्यनीकविनाशिनीम् ।

न युञ्ज्याद्रिपुराष्ट्रस्थां मिथः स्वद्वेषिणीं न च ॥ ६ ॥

अन्वयः — प्रत्यनीकविनाशिनीं सेनां युद्धे नियुञ्जीत । रिपुराष्ट्रस्थां न मिथः स्वद्वेषिणीं न च युञ्ज्यात् ॥६ ॥

व्याख्या— प्रत्यनीकविनाशिनीम् = रिपुबलविध्वंसिनीम्, सेनाम् = वाहिनीम्, युद्धे = युद्ध-काले, नियुञ्जीत = नियुक्तं कुर्वीत, रिपुराष्ट्र स्थाम् = शत्रुराज्यनिवासिनीम्, सेनाम्, न = नहि, नियुञ्जीत । मिथः = एकान्ते, स्वस्य = आत्मनः, द्वेषिणीम् = विरोधिनीम्, न = = नहि, युञ्ज्यात् = नियुञ्ज्यात् ॥ ६ ॥

ACC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 495

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 495 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ०७ हिन्दी – शत्रुसेना को नष्ट करने वाली सेना की नियुक्ति संग्राम में करनी चाहिए । शत्रु - राज्य में रहने वाली या एकान्त में विरोध करने वाली सेना को नियुक्त न करे ॥ ६ ॥

सेनामिति । प्रत्यनीकविनाशिनीं शत्रुसैन्यनाशिनीं सेनां युद्धे नियुब्जीत, रिपुराष्ट्रस्थां शत्रुराज्यवासिनीं सेनां न, मिथ: रहसि स्वस्य आत्मनः द्वेषिणीं विद्वेषकारिणीञ्च सेनां न युञ्ज्यात् ॥६ ॥

न नाशयेत् स्वसेनान्तु सहसा युद्धकामुकः ।

दानमानैर्वियुक्तोऽपि न भृत्या भूपतिं त्यजेत् ।

सम शत्रुसान्नैव गच्छेज्जीवधनाशया ॥ ७ ॥

अन्वयः – युद्धकामुकः सहसा स्वसेनां न नाशयेत् । भृत्या दानमानैर्वियुक्तोऽपि भूपतिं न त्यजेत् । जीवधनाशया समये शत्रुसात् नैव गच्छेत् ॥७ ॥

व्याख्या– युद्धकामुकः = सङ्ग्रामलिप्सुः, सहसा - हठात् स्वसेनाम्- - स्वस्य = आत्मनः, सेनाम् = अनीकम्, न = नहि, नाशयेत् = विनष्टङ्कुर्यात् । तथा भृत्या = वेतनेन, दानमानैः-दानेन = प्रदानेन, मानेन = सम्मानेन, च, वियुक्तः = विरहितः, अपि = चेत्, भूपतिम् = राजानम्, न त्यजेत् = परित्यागं न कुर्यात्, तथा जीवधनाशया = जीविकार्थधनलिप्सया, शत्रुसात् = रिपोरधीनताम्, न = नहि, भवेत् = स्यात् ॥७ ॥

हिन्दी – युद्धप्रेमी राजा अकारण अपनी सेना को लड़ाई में झोंक कर विनष्ट न करे । सैनिक भी दान - सम्मान तथा वेतन न मिलने पर अपने स्वामी का साथ समय आने पर न छोड़े । जीविका के लिए धन की आशा में शत्रु राजा की अधीनता कबूल न करे ॥ ७ ॥

नेति । युद्धकामुकः रणप्रियः सन् सहसा स्वस्य आत्मनः सेनां न नाशयेत् तथा भृत्यः दानेन मानेन च वियुक्तः विरहितः अपि भूपतिं स्वामिनं न त्यजेत् । तथा जीवधनाशया जीवनोपयोगि धनप्रत्याशया शत्रुसात् नैव गच्छेत् शत्रोरधीनो न भवेदित्यर्थः ॥७ ॥

मेघोदकैस्तु या पुष्टिः सा किं नद्यादिवारित:? ।

प्रजापुष्टिर्नृपद्रव्यैस्तथा किं धनिनां धनात्? ॥ ८ ॥

अन्वयः - - मेघोदकैः या पुष्टिः सा नद्यादिवारितः किम्? यथा नृपस्य द्रव्यैः प्रजानां पुष्टिः तथा धनिनां धनात् पुष्टिः किम्? ॥ ८ ॥

व्याख्या — मेघोदकैः = वर्षाजलैः, या पुष्टिः = संवर्द्धनम्, शस्यानामिति शेषः, सा पुष्टिः, नद्यादीनाम् = सरितादीनाम्, वारितः = सलिलैः किमिति प्रश्ने, स्यात् = भवेत्, नैवेत्यर्थः, यथा = येन प्रकारेण, नृपस्य = राज्ञः, द्रव्यैः = धनैः प्रजानाम् = जनानाम्, पुष्टिः = पोषणम्, भवेत्, तथा धनिनाम् = धनसम्पन्नजनानाम्, धनात् = द्रव्यात्, किमिति प्रश्ने, भवेत्? नास्त्येवेति ॥८ ॥

हिन्दी – वर्षा के जल से फसलों का जैसा संवर्द्धन होता है नदीजल के सिंचन से क्या वैसा संभव है? ठीक उसी तरह प्रजा का पोषण राजा के धन से जैसा होता है क्या वैसा किसी धनी के धन से संभव है? अर्थात् नहीं ॥ ८ ॥

मेघोदकैरिति । मेघोदकैः वारिदजलैः या पुष्टिः शस्यानामिति शेषः, सा नद्यादीनां वारितः जलैः किं स्यात्? नैवेत्यर्थः । यथा नृपस्य द्रव्यैः राजप्रसादलब्धैरिति भावः प्रजानां पुष्टिः धनिनां धनात् तथा पुष्टिः किं? नैवेत्यर्थः ॥८ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 496

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 496 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ०८ शुक्रनीतिः

दर्शयन् मार्दवं नित्यं महावीर्य्यबलोऽपि च ।

रिपुराष्ट्रे प्रविश्यादौ तत्कार्य्ये साधको भवेत् ॥८ ॥

अन्वयः — महावीर्यबलोऽपि नित्यं मार्जवं दर्शयन् रिपुराष्ट्र प्रविश्य आदौ तस्य कार्यसाधकः भवेत् ॥९ ॥

व्याख्या – महावीर्यबलोऽपि = प्रचण्डवीरत्वसैन्यसम्पनोऽपि राजा, नित्यम् = अनवरतम्, मार्दवम् [ = = मृदुत्वम्, दर्शयन् = प्रदर्शयन्, रिपुराष्ट्रे = शत्रुराज्ये, प्रविश्य = प्रवेशं कृत्वा, आदौ = प्रथमम्, तस्य = शत्रोः, कार्य्यसाधकः = कर्त्तव्यपालकः - भवेत् = स्यात् ॥ ९ ॥

हिन्दी — अत्यन्त पराक्रमी और शक्तिशाली सेना के रहते हुए भी अपने को अतिकोमल दिखलाते हुए शत्रुराष्ट्र में हमेशा प्रवेश कर उसका कार्यसाधक बने ॥ ९ ॥

दर्शयन्निति । महावीर्य्यबलः अपि नित्यं सततं मार्दवं मृदुतां दर्शयन् रिपुराष्ट्रे शत्रुराज्ये प्रविश्य आदौ प्रथमं तस्य रिपोः कार्य्यसाधकः कार्य्यनिर्वाहकः भवेत्॥९ ॥

सञ्जातबद्धमूलस्तु तद्राज्यमखिलं हरेत् ।

अथ तद् द्विष्टदायादान् सेनपानंशदानतः ।

तद्राज्यस्य वशीकुर्य्यान्मूलमुन्मूलयन् बलात् ॥ १० ॥

अन्वयः — अथ सञ्जातबद्धमूलः तु बलात् मूलम् उन्मूलयन् अखिलं तस्य राज्यं हरेत् ।

तथा तस्य द्विष्टान् दायादान् सेनपान् तत् राज्यस्य अंशदानतः वशीकुर्यात् ॥ १० ॥

व्याख्या - अथ = अनन्तरम्, सञ्जातम् = समुत्पन्नम्, बद्धमूलः —बद्धम् = सुदृढम्, मूलम् ब्रध्नः, यस्य तादृशः, बलात् = सैन्यात्, मूलम् = आदिभागम्, उन्मूलयन् = उत्पाटयन्, अखिलम् = सर्वम्, तस्य = शत्रोः, राज्यम् = राष्ट्रम्, हरेत् = अपहरेत् । रिपोः = शत्रोः, द्विष्टान् = विद्वेषिणः, दायादान् = गोत्रजान्, अंशदानतः = अंशप्रदानेन, वशीकुर्यात् = आत्माधीनं कुर्यात् ॥१० ॥

हिन्दी — उसके बाद यहाँ जब हर तरह से अपनी जड़ जम जाय, तब शत्रु के समस्त राज्य पर अधिकार जमा ले । शत्रु के दुश्मन, दायाद तथा सेनापतियों को राज्य का कुछ भाग देकर उन्हें अपने अधीन कर ले ॥१० ॥

सञ्जातेति । अथ सञ्जातम् उत्पन्नं बद्धं दृढं मूलं यस्य तादृशः तत्र विशेषेण प्रतिपन्नः सन्नित्यर्थः, बलात् मूलम् उन्मूलयन् निरस्यन् अखिलं समस्तं तस्य राज्यं हरेत्, तथा तस्य रिपोः द्विष्टान् विद्वेषिणः दायादान् ज्ञातीन् सेनपान् सेनापतींश्च तद्राज्यस्य अंशदानतः अंशप्रदानेन वशीकुर्य्यात् ॥ १० ॥

तरोः सङ्क्षीर्णमूलस्य शाखाः शुष्यन्ति वै यथा ।

सद्यः केचिच्च कालेन सेनपाद्या: पतिं विना ॥ ११ ॥

अन्वयः — यथा सङ्क्षीणमूलस्य तरोः शाखाः वै शुष्यन्ति तथा सेनपाद्याः पतिं विना सद्यः केचिच्च कालेन शुष्यन्ति ॥ ११ ॥

व्याख्या — यथा = येन प्रकारेण, सङ्क्षीणमूलस्य = शुष्कब्रध्नस्य, तरोः = वृक्षस्य, शाखाः = विटपाः, शुष्यन्ति = शुष्कतां यान्ति, तथा सेनपाद्याः = सेनापतिप्रभृतयः, पतिम् = राजानम्, विना = CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 497

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 497 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

पञ्चमोऽध्यायः ९ ० ९ विहाय, सद्यः = तत्क्षणात्, केचिच्च = अपरे च, कालेन = समयान्तरेण, शुष्यन्ति = विनाशं प्राप्नुवन्ति ॥ ११ ॥

हिन्दी —जैसे जड़ कट जाने पर पेड़ की डालें सूख जाती हैं, वैसे ही राजा के बिना सेनापति आदि भी कुछ उसी क्षण और कुछ कालान्तर में शक्तिहीन हो जाते हैं ॥ ११ ॥

तरोरिति । यथा सङ्क्षीणमूलस्य शुष्कमूलस्य तरोः शाखाः शुष्यन्ति वै शोषं प्राप्नुवन्त्येव तथा सेनपाद्याः सेनापतिप्रभृतयः पतिं स्वामिनं विना सद्यः तत्क्षणात् केचिच्च कालेन शुष्यन्ती-त्यर्थः ॥११ ॥

राज्यवृक्षस्य नृपतिर्मूलं स्कन्धाश्च मन्त्रिणः ।

शाखा: सेनाधिपाः सेना: पल्लवाः कुसुमानि च ।

प्रजाः फलानि भूभागा बीजं भूमिः प्रकल्पिता ॥ १२ ॥

अन्वयः — नृपतिः राज्यवृक्षस्य मूलं, मन्त्रिणः स्कन्धाः, सेनाधिपाः शाखाः, सेनाः पल्लवाः, प्रजाः कुसुमानि, भूभागाः फलानि, भूमिः बीजं प्रकल्पिता ॥ १२ ॥

व्याख्या – नृपतिः = राजा, राज्यवृक्षस्य = राज्यरूपीतरोः मूलम् = ब्रध्नः, मन्त्रिणः = अमात्याः, स्कन्धाः = स्तम्भाः, सेनाधिपाः = सेनापतयः, शाखाः = विटपाः, सेनाः = अनीकाः, पल्लवाः = पत्राणि, प्रजाः = जनाः, कुसुमानि = पुष्पाणि, भूभागा: राजस्वम्, फलानि, भूमिः = पृथ्वी, बीजम् = रोहिः, प्रकल्पिता = कथिता ॥ १२ ॥

हिन्दी — राज्य रूपी वृक्ष की जड़ राजा होता है, तना मंत्री लोग, डालें सेनापतिगण, पत्तें सेना, फूल प्रजा, फल धरती से प्राप्त होने वाले कर एवं बीज राज्य की भूमि कही गई है ॥१२ ॥

राज्यवृक्षस्येति । नृपतिः राज्यवृक्षस्य मूलं, मन्त्रिणः स्कन्धाः, सेनाधिपाः प्रजाः कुसुमानि, भूभागाः फलानि, भूमिः बीजं प्रकल्पिता कथिता ॥१२ ॥

विश्वस्तान्यनृपस्यापि न विश्वासं समाप्नुयात् ।

नैकान्ते न गृहे तस्य गच्छेदल्पसहायवान् ॥

अन्वयः — विश्वस्तान्यनृपस्य विश्वासं न समाप्नुयात् । तस्य गृहे वा न गच्छेत् ॥ १३ ॥

शाखाः, सेनाः पल्लवाः, १३ ॥। एकान्ते अल्पसहायवान् व्याख्या – विश्वस्तछेस्यापि = प्रत्ययवतोऽपि, अन्यनृपस्य = प्रतिकूलराज्ञः, विश्वासम् = प्रत्ययम्, न = नहि, समाप्नुयात् = विश्वसेत् । तस्य = शत्रोः नृपतेः, गृहे = सदने, वा = अथवा, एकान्ते = रहसि, अल्पसहायवान् = न्यूनसहायकैः सह, न = - नहि, गच्छेत् = व्रजेत् ॥ १३ ॥

हिन्दी — अपने व्यवहार से अपने को विश्वस्त प्रमाणित करने वाले शत्रु राजा का विश्वास नहीं करना चाहिए । थोड़े सहायकों के साथ न तो एकान्त में उससे मिले और न तो घर पर ही उसके जाय ॥ १३ ॥

विश्वस्तेति । विश्वस्तस्यापि अन्यनृपस्य प्रतिकूलनृपतेः विश्वासं न समाप्नुयात् शत्रौ नृपे नैव विश्वसेदित्यर्थः । तस्य प्रतिनृपस्य गृहे वा एकान्ते निर्जने देशे अल्पसहायवान् न गच्छेत् ॥ १३ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 498

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 498 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ १० शुक्रनीतिः

स्ववेशरूपसदृशान् निकटे रक्षयेत् सदा ।

विशिष्टचिह्नगुप्तः स्यात् समयेऽन्यादृशो भवेत् ॥ १४ ॥

अन्वयः– सदा निकटे स्ववेशरूपसदृशान् रक्षयेत् । विशिष्टचिह्नगुप्तः स्यात् तथा समये अन्यादृशः भवेत् ॥१४ ॥

व्याख्या — सदा = सर्वदा, निकटे = समीपे, स्वस्य = आत्मनः, वेशेन = वस्त्रेण, रूपेण च, सदृशान् = तुल्यान्, जनान् = लोकान्, रक्षयेत् = रक्षेत्, स्वयम्, विशिष्टचिह्नगुप्तः =: गुप्तराजचिह्नम्, तथा, समये = यथावसरे, अन्यादृशः = जनसामान्यतुल्यः, भवेत् = स्यात् ॥१४ ॥

हिन्दी- - राजा को चाहिए कि अपने साथ कुछ ऐसे लोगों को रखे जो आकृति और वेश - भूषा की दृष्टि से राजा की तरह ही हो । अपनी पहचान छिपाने के लिए अपना राजचिह्न गुप्त रखे तथा समय आने पर अपना वेश बदल कर जनसामान्य की तरह बनने की कला भी जाने ॥१४ ॥

स्वेति । सदा निकटे स्वस्य आत्मनः वेशेन परिच्छदेन रूपेण च सदृशान् जनान् रक्षेत् तथात्वे व्यक्तिग्रहो न स्यादिति भावः, स्वयं विशिष्टम् अन्यविलक्षणं चिह्नं राजचिह्नमित्यर्थः गुप्तं यस्य तथाभूतः स्यात् तथा समये समयविशेषे इत्यर्थः, अन्यादृशः सामान्यजनसदृशः भवेत् ॥१४ ॥

वेश्याभिश्च नटैर्मद्यैर्गायकैर्मोहयेदरिम् ॥ १५ ॥

अन्वयः — वेश्याभिः नटैः मद्यैः गायकैश्च अरिं मोहयेत् ॥ १५ ॥

व्याख्या — वेश्याभिः = गणिकाभिः, नटैः = नर्तकैः, मद्यैः = मदिराभिः, गायकैश्च = गेष्णैश्च, अरिम् = रिपुम्, मोहयेत् = अनुरञ्जयेत् ॥ १५ ॥

हिन्दी – वेश्याओं, नर्तकों, सुराओं और गायकों से दुश्मन को मोह लें ॥ १५ ॥

वेश्याभिरिति । वेश्याभिः नटैः नर्त्तकैः मद्यैः सुराभिः गायकैश्च अरिं शत्रुं मोहयेत् मुग्धं कुर्य्यात् ॥ १५ ॥

सुवस्त्राभरणैर्नैव न कुटुम्बेन संयुतः ।

विशिष्टचिह्नितो भीतो युद्धे गच्छेन्न वै क्वचित् ॥। १६ ॥

अन्वयः – सुवस्त्राभरणैः कुटुम्बेन संयुतः न विशिष्टचिह्नितः भीतश्च न क्वचित् युद्धे गच्छेत् ॥ १६ ॥

व्याख्या — सुवस्त्राभरणैः = सुष्ठुवस्त्राभूषणैः, तथा, कुटुम्बेन, संयुतः = परिवारेण सहितः, न = नहि, विशिष्टचिह्नितः - विशिष्टम् = अन्यजनभिन्नम्, यत् चिह्नम् = लक्ष्म, तदस्य जातमिति तथाभूतः न, भीतश्च = भयाक्रान्तश्च, न = = नहि, क्वचित् = कदाचित्, युद्धे = सङ्ग्रामे, गच्छेत् = व्रजेत् ॥ १६ ॥

हिन्दी — किसी भी लड़ाई के मैदान में सुन्दर वस्त्र और अलंकारों से सज - धज कर या अपने परिवार के साथ नहीं जाना चाहिए ॥ १६ ॥

सुवस्त्रेति । सुवस्त्राभरणैः शोभनवसनालङ्कारैः तथा कुटुम्बेन परिवारेण संयुतः न, विशिष्टचिह्नितः विशिष्टम् अन्यविलक्षणं यत् चिह्नं तदस्य जातमिति तथाभूतः न भीतश्च न क्वचित् कदाचित् युद्धे गच्छेत् ॥१६ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 499

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 499 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

पञ्चमोऽध्यायः ९ ११

क्षणं नासावधानः स्याद् भृत्यस्त्रीपुत्रशत्रुषु ।

जीवन् सन् स्वामितो पुत्रे न देयाप्यखिला क्वचित् ॥ १७ ॥

स्वभावसद्गुणे यस्मान्महानर्थमदावहा ।

विष्ण्वाद्यैरपि नो दत्ता स्वपुत्रे स्वाधिकारता ॥ १८ ॥

अन्वयः — जीवन् सन् क्षणमपि भृत्यस्त्रीपुत्रशत्रुषु असावधानः न स्यात् । स्वभावसद्गुणेऽपि पुत्रे क्वचित् अखिला स्वामिता न देया, यस्मात् सा महानर्थमदावहा । तस्मात् विष्ण्वाद्यैः स्वपुत्रे स्वाधिकारता न दत्ता ॥ १७-१८ ॥ व्याख्या — जीवन् = समर्थः सन्, क्षणमपि = पलमात्रमपि, भृत्यस्त्रीपुत्रशत्रुषु – भृत्येषु = सेवकेषु, स्त्रीषु = पत्नीषु, पुत्रेषु = तनयेषु, च = पुनः, शत्रुषु = रिपुपु, असावधानः = अनवधानम्, न = = नहि, स्यात् = भवेत्, स्वभावसद्गुणेऽपि = प्रकृत्या विवेकशीलेऽपि, पुत्रे = सुते, क्वचित् = कदाचित्, अखिला = समग्रा, स्वामिता = प्रभुता, न = नहि, देया = समर्ष्या, यस्मात् सा शक्तिः, महानर्थमदावहा— महान्तम् = अत्यधिकम्, अनर्थम् = अनिष्टम्, मदम् = प्रमादश्च, आवहति = आनयति, इति तथोक्ता = अत्यनिष्टकारिणी प्रमादोत्पादिनी च । तस्मात् विष्ण्वाद्यैः = विष्णुप्रभृतिभिरपि स्वपुत्रे = निजात्मजे, स्वाधिकारता – स्वस्य = आत्मनः, अधिकारता = प्रभुता, न = नहि, दत्ता = प्रदत्ता ॥ १७-१८ ॥ हिन्दी – नौकर, पत्नी, पुत्र और शत्रु के प्रति एक पल भी असावधानी न बरते । जीवित रहते हुए किसी भी स्थिति में अपना सारा अधिकार बेटे को न सौंपे । स्वभाव से विवेकशील बेटे को भी अपना सारा अधिकार सौंप देना उनके लिए अति अनिष्टकर एवं मदोत्पादक होता है । इसीलिए विष्णु प्रभृति देवगण ने भी अपने बेटे को सारा अधिकार कभी नहीं दिया ॥ १७-१८ ॥ क्षणमपि । स्वभावेति । जीवन् शक्त इत्यर्थः, सन् क्षणमपि भृत्यस्त्रीपुत्रशत्रुषु भृत्येषु स्त्रीषु पुत्रेषु शत्रुषु च असावधानः न स्यात् । किञ्च स्वभावसद्गुणेऽपि पुत्रे क्वचित् कदाचित् अखिला सम्पूर्णा स्वामिता प्रभुता न देया, यस्मात् सा महानर्थमदावहा महान्तम् अनर्थं मदञ्च आवहतीति तथोक्ता महानर्थकारिणी मदवर्द्धनी च । तस्मात् विष्ण्वाद्यैः विष्णुप्रभृतिभिरपि स्वपुत्रे स्वाधिकारता स्वस्य अधिकारः तस्य भावः स्वस्वाम्यं नो दत्ता ॥ १७-१८ ॥ स्वायुषः स्वल्पशेषे तु सत्पुत्रे स्वाम्यमादिशेत् ।

नाराजकं क्षणमपि राष्ट्रं धर्तुं क्षमाः किल ।

युवराजादयः स्वाम्यलोभचापलगौरवात् ॥ १ ९ ॥

अन्वयः - स्वायुषः स्वल्पशेषेतु सत्पुत्रे स्वाम्यम् आदिशेत् । युवराजादयः स्वाम्यलोभ-चापलगौरवात् अराजकं राष्ट्रं क्षणमपि धर्तुं न किल क्षमाः ॥ १ ९ ॥ व्याख्या - स्वायुषः – स्वस्य = आत्मनः, आयुषः = जीवनकालस्य, स्वल्पशेषे = अत्यन्ता-ल्पावशिष्टे, सत्पुत्रे = विवेकीसुते, स्वाम्यम् = स्वप्रभुत्वम्, आदिशेत् = समर्पयेत्, युवराजादयः = राजकुमारप्रभृतयः, स्वाम्यलोभेन = अधिकारलिप्सया, यद् यत्, चापलम् = चञ्चलता, तत् = तस्य, गौरवात् = सम्मानात्, अराजकम् = राजरहितम्, राष्ट्रम् = राज्यम्, क्षणमपि = एकपलमपि, धर्तुम् = = धारणं कर्तुम्, किल = नैव, क्षमाः = समर्थाः भवन्ति ॥ १ ९ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 500

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 500 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ १२ शुक्रनीतिः हिन्दी — अपनी आयु जब शेष होती नजर आये तो अपने सपूतों को राज्य का समस्त भार सौंप दे । क्योंकि अधिकार - लोभ से होने वाली चंचलता की अधिकता से युवराज आदि के बिना राजा राज्य क्षण भर भी सँभालने में समर्थ नहीं हो सकतें ॥ १ ९ ॥ स्वेति । स्वस्य आत्मनः आयुषः जीवनकालस्य स्वल्पशेषे अत्यल्पावशेषे सति सत्पुत्रे सुपुत्रे स्वाम्यम् आदिशेत् अर्पयेत् । युवराजादयः स्वाम्यलोभेन यत् यत् चापलं चाञ्चल्यं तस्य गौरवात् अतिशय्यात् अराजकं राजरहितं शक्ताः भवन्ति ॥ १ ९ ॥ प्राप्योत्तमं पदं पूर्वामात्येषु अन्वयः — पुत्रः उत्तमं पदं सम्प्रधारयेत् ॥ २० ॥

व्याख्या — पुत्रः = राजपुत्रः, जनाः, पालयन् = पालनं कुर्वन्, राष्ट्रं क्षणमपि धर्तुं ग्रहीतुं शासितुमित्यर्थः, न किल नैव क्षमाः

पुत्रः सुनीत्या पालयन् प्रजाः ।

पितृवद्गौरवं सम्प्रधारयेत् ॥ २० ॥

प्राप्य सुनीत्या प्रजाः पालयन् पूर्वामात्येषु पितृवत् गौरवं उत्तमम् = श्रेष्ठम्, पदम् = नृपत्वम्, प्राप्य = अधिगम्य, प्रजाः = सुनीत्या = शोभनेन नयेन, पूर्वामात्येषु = पितृकालीनसचिवेषु, पितृवत् = पितेव, गौरवम् = आदरः, सम्प्रधारयेत् = सम्यग्रूपेण सम्पादयेत् ॥ २० ॥

हिन्दी — राजकुमार राजपद पाकर अच्छी नीति के साथ प्रजा का पालन करते हुए पिता के समकालीन मंत्रियों को पिता की तरह सम्मान प्रदान करे ॥ २० ॥

प्राप्येति । पुत्रः उत्तमं पदं राजपदं प्राप्य सुनीत्या प्रजाः पालयन् पूर्वामात्येषु पुरातनेषु अमात्येषु पितृवत् गौरवं गुरुभावं भक्तिमित्यर्थः, सम्प्रधारयेत् सम्यक् कुर्य्यादित्यर्थः ॥२० ॥

तस्यापि शासनं तैस्तु प्रधार्य्यं पूर्वतोऽधिकम् ।

युक्तं चेदन्यथा कार्य्यं निषेध्यं काललम्बनैः । २१ ॥

अन्वयः - तैः तु तस्यापि शासनं चेत् युक्तं तदा पूर्वतोऽपि अधिकं प्रधार्यम्, अन्यथा काललम्बनैः कार्यं निषेध्यम् ॥२१ ॥

व्याख्या — तैः– पुरातनैः सचिवैः, तस्याऽपि = राजकुमारस्यापि शासनम् =: आदेशम्, चेत् = यदि, युक्तम् = समुचितम्, तदा, पूर्वतोऽपि = पूर्वस्मादपि, अधिकम् = विशिष्टम्, यथा तथा, प्रधार्यम् = अनुपालनीयम्, अन्यथा = अनुपयुक्ते, काललम्बनैः = कालान्तरेऽयमादेशः पालनीय इत्युक्त्वा, कार्यम् = राजशासनीयकर्म, निषेध्यम् = प्रतिषेधनीयमिति ॥ २१ ॥

हिन्दी — और यदि राजकुमार का आदेश समुचित हो तो पूर्व मन्त्रियों का यह कर्त्तव्य होता है कि उस आदेश का अनुपालन पहले से भी अधिक मनोयोग से करे । किन्तु यदि आदेश उपयुक्त न हो तो ' बाद ' में इसका अनुपालन होगा ऐसा कहकर टाल दे ॥२१ ॥

तस्येति I । तैः पूर्वैः अमात्यैः तस्य राजपुत्रस्यापि शासनं चेत् यदि युक्तं तदा पूर्वतः पूर्वस्मात् अधिकं यथा तथा प्रधार्य्यं प्रतिपालनीयम्, अन्यथा अयुक्तत्वे इत्यर्थः, काललम्बनैः कालाश्रयिभिः सद्भिः समयान्तरे एतत्प्रतिपालनीयमिति वादिभिरित्यर्थः कार्य्यं राजशासनीयं कर्म निषेध्यं निवारणीयम् ॥२१ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA