शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 521–530
शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 521–530
पृष्ठ 521
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः ९ ३३ हिन्दी — जलन, लालच, गर्व, प्यार, गुस्सा, डर और हिम्मत- इन सातों में किसी विषय की ओर मन का झुकाव चरित्रदोष के कारण है; ऐसी मान्यता बुद्धिमानों की है ॥७४ ॥
ईर्ष्णेति । ईर्ष्या विद्वेषः लोभ: लालसा, मदः गर्वः, प्रीतिः प्रणयः, क्रोधः कोप:, भीतिर्भयं, साहसं निर्भीकता च एतानि सप्त कार्य्ये प्रवृत्तेः छिद्रस्य दोषस्य च हेतूनि बुधाः पण्डिताः सर्वशास्त्रदर्शिनः जगुः गायन्तिस्म ॥ ७४ ॥
यथाच्छिद्रं भवेत् कार्य्यं तथैव हि समाचरेत् ।
अविसंवादि विदुषां कालेऽतीतेऽप्यनापदि ॥ ७५ ॥
अन्वयः - यथा कार्यम् अच्छिद्रं भवेत् तथैव हि समाचरेत् । अनापदि काले अतीते अपि विदुषाम् अविसंवादि समाचरेत् ॥७५ ॥
व्याख्या — यथा = येन प्रकारेण, कार्यम् = कृत्यम्, अच्छिद्रम् = दोपरहितम्, भवेत् = स्यात्, तथैव = तेनैव प्रकारेण हि = इति निश्चयेन समाचरेत् = कुर्यात्, अनापदि = आपत्तिरहिते, काले = यथावसरे, अतीते = व्यतीते सति विदुषाम् = बुद्धिमताम्, अविसंवादि = अभिमतमेव कार्यम्, समाचरेत् = सम्पादयेत् ॥७५ ॥
हिन्दी — दोष रहित काम ही करना चाहिए । बुद्धिमानों को समय बीत जाने पर भी आपत्ति रहित अभिमत काम करना चाहिए ॥ ७५ ॥
यथेति । यथा कार्य्यम् अच्छिद्रं छिद्ररहितं निर्दोपमित्यर्थः भवेत् तथैव हि समाचरेत् । अनापदि अविपन्नावस्थायां काले अतीते समतिक्रान्ते अपि विदुषां पण्डितानाम् अविसंवादि सम्मतम् एव कार्य्यं समाचरेत् कुर्य्यात् ॥ ७५ ॥
दशग्रामी शतानीकः परिचारकसंयुतौ ।
अश्वस्थौ विचरेयातां ग्रामपा ह्यपि चाश्वगा: ॥ ७६ ॥
अन्वयः— दशग्रामी शतानीकः परिचारकसंयुतौ अश्वस्थौ विचरेयाताम् । ग्रामपाः अपि हि अश्वगाः ॥ ७५ ॥
व्याख्या — दशग्रामी = दशनिवसथानामधिपतिः शतानीकः = शतसंख्यकसैन्यानामधिपश्च, परिचारकैः = सेवकैः, संयुतौ = परिवेष्टितौ, तथा अश्वस्थौ = हयपृष्ठासीनौ सन्तौ, विचरेयातां = भ्राम्येयाताम्, ग्रामपाः = ग्रामस्यैकस्यापि स्वामी, अश्वगाः = अश्वगामिनो भूत्वा विचरेयुः ॥ ७६ ॥
हिन्दी — दस गाँवों के मालिक तथा एक सौ सैनिकों के नायक अपने - अपने सेवकों के साथ घोड़े पर चढकर घूमे । एक गाँव का जो मालिक है, वह भी घोड़े पर ही घूमे ॥ ७६ ॥
दशेति । दशग्रामी दशग्रामाधिपः शतानीकः शतसैन्याधिपश्च परिचारकैः भृत्यैः संयुतौ परिवृतौ तथा अश्वस्थौ अश्वारूढौ सन्तौ विचरेयाताम् । ग्रामपा एकग्रामाधिपतयः अपि अश्वगा अश्वारूढाः विचरेयुरित्यर्थः ॥७६ ॥
साहस्रिकः शतग्रामी एकाश्वरथवाहनौ ।
दशशस्त्रास्त्रिभिर्युक्तौ गच्छेतां वाश्वसङ्गतौ ॥ ७७ ॥
अन्वयः — साहस्रिकः शतप्रामी दशशस्त्रास्त्रिभिः युक्तौ एकाश्वरथवाहनौ वा अश्वसङ्गतौ गच्छेताम् ॥ ७७ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 522
पाठ पढ़ें पाठ छिपाएँ
९ ३४ शुक्रनीतिः व्याख्या — साहस्रिकः = दशशतसेनानायकः शतप्रामी = शतसंख्यकनिवसथानां स्वामी, दशस्त्रास्त्रिभिः — दशभिः, शस्त्रिभिः = आयुधिकैः अस्त्रिभिः = प्रहारकैश्च, युक्तौ = सहितौ, एकाश्वरथवाहनौ = घोटकैकवाहितस्यन्दनारूढौ, वा = अथवा, अश्वसङ्गतौ = हयारूढौ, गच्छेताम् = व्रजेताम् ॥ ७७ ॥
हिन्दी — एक हजार सैनिकों के नायक तथा सौ गाँवों के मालिक सशस्त्रास्त्र दश अङ्ग-रक्षकों के साथ एक घोड़े वाले रथ पर या केवल घोड़े पर सवार होकर घूमे ॥७७ ॥
साहस्त्रिक इति । सहस्रसेनाधिपतिः शतग्रामी शतप्रामाधिपतिश्च दशशस्त्रास्त्रिभिः दशभिः शस्त्रिभिः अस्त्रिभिश्च युक्तौ एकाश्वरथवाहनौ एकाश्वयुतरथारूढौ वा अश्वसङ्गतौ अश्वारूढौं गच्छेताम् ॥ ७७ ॥
सहस्रग्रामपो नित्यं नराश्वद्व्यश्वयानगः ।
आयुतिको विंशतिभिः सेवकैर्हस्तिना व्रजेत् ॥ ७८ ॥।
अन्वयः — सहस्रग्रामपः आयुतिकः विंशतिभिः सेवकैः नराश्वद्व्यश्वयानगः वा हस्तिना नित्यं व्रजते ॥ ७८ ॥
व्याख्या — सहस्रग्रामपः = दशशतनिवसथानां स्वामी, एवम्, आयुतिकः = दशसहस्रसैन्य-नायकः, विंशतिभिः, सेवकैः = अङ्गरक्षकैः सहितः, नराश्वद्व्यश्वयानगः – नरयानम् = शिविका, तद्गामी अथवा द्व्यश्वयानगः = घोटकद्वयवाहितस्यन्दनगामी, वा = अथवा, हस्तिना = गजेन, व्रजेत् = गच्छेत् ॥ ७८ ॥
हिन्दी – एक हजार गाँवों का मालिक या दस हजार सैनिकों का नायक बीस अंगरक्षकों के साथ पालकी या दो घोड़े वाले रथ अथवा हाथी पर सवार होकर रोज घूमे ॥ ७८ ॥
सहस्रेति । सहस्रग्रामपः सहस्रग्रामाधिपतिः आयुतिकः दशसहस्रसैन्याध्यक्षश्च विंशतिभिः सेवकैः युतः तथा नराश्वद्व्यश्वयानगः नरयानं शिविका तद्गामी अश्वगामी वा द्व्यश्वयानगः अश्वद्वययुतरथगामी वा हस्तिना गजारूढः सन्नित्यर्थः व्रजेत् गच्छेत् ॥ ७८ ॥
अयुतग्रामपः सर्वयानैश्च चतुरश्वगः ।
पञ्चायुती सेनपोऽपि सञ्चरेद् बहुसेवकः ॥ ७ ९ ॥
अन्वयः — अयुतग्रामपः पञ्चायुती सेनपोऽपि बहुसेवकः चतुरश्वगः सर्वयानैश्च सञ्चरेत् ॥ ७ ९ ॥ व्याख्या — अयुतग्रामपः = दशसहस्रनिवसथाधिपतिः, पञ्चायुतसेनपोऽपि = पञ्चाशत्सहस्र-सेनाधिपतिः अपि, बहुसेवकः = बहुपरिचारकपरिवृतः, चतुरश्वगः = घोटकचतुष्टयवाहितस्यन्द-नारूढः, वा, सर्वयानगः = सकलवाहनगश्च सन्, सञ्चरेत् = परिभ्रमेत् ॥ ७ ९ ॥ हिन्दी — दस हजार गाँवों का मालिक या पचास हजार सैनिकों का अधिपति अनेक रक्षकों या सेवकों से घिरा चार घोड़े वाला रथ या किसी भी सवारी से घूमे ॥ ७ ९ ॥ अयुतेति । अयुतग्रामपः दशसहस्रग्रामाधिपः पञ्चायुतसेनपः अपि बहुसेवकः बहुभृत्यपरिवृतः चतुरश्वगः अश्वचतुष्टययुतरथारूढः सन् सञ्चरेत् ॥ ७ ९ ॥
यथाधिकाधिपत्यन्तु वीक्ष्याधिक्यं प्रकल्पयेत् ।
कल्पयेच्च यथाधिक्यं धनिकेषु गुणिष्वपि ॥ ८० ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 523
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः ९ ३५ अन्वयः — यथाधिकाधिपत्यं वीक्ष्य आधिक्यं प्रकल्पयेत्, तथा धनिकेषु गुणिष्वपि यथाधिक्यं कल्पयेत् ॥ ८० ॥
व्याख्या — यथाधिकाधिपत्यम् = स्वामित्वानुसारेण, वीक्ष्य = अवलोक्य, आधिक्यम् = सम्मानाधिक्यम्, प्रकल्पयेत् = अनुचिन्तयेत् । तथा धनिकेषु = समृद्धजनेषु, गुणिष्वपि = गुणवन्तेष्वपि, यथाधिक्यम् = आधिक्यानुसारेण, मानम्, कल्पयेत् = विचारयेत् ॥ ८० ॥
हिन्दी — जैसा बहुसंख्यक गाँवों या सैनिकों पर आधिपत्य हो उसी के अनुसार सम्मान की कल्पना करनी चाहिए । इसी तरह धन के अनुसार धनिकों की तथा गुण के अनुसार गुणियों के सम्मान की कल्पना करनी चाहिए ॥ ८० ॥
यथेति । यथाधिकाधिपत्यं वीक्ष्य आधिक्यं सम्मानाधिक्यं प्रकल्पयेत् । तथा धनिकेषु धनवत्सु गुणिष्वपि यथाधिक्यम् आधिक्यानुसारेण कल्पयेच्च सम्मानमिति भावः ॥ ८० ॥
श्रेष्ठो न मानहीनः स्यान्न्यूनो मानाधिकोऽपि न ।
राष्ट्रे नित्यं प्रकुर्वीत श्रेयोऽर्थी नृपतिस्तथा ॥। ८.१ ॥
अन्वयः — यथा श्रेष्ठः मानहीनः न स्यात् न्यूनः मानाधिकोऽपि न श्रेयोऽर्थी नृपतिः राष्ट्रे तथा नित्यं प्रकुर्वीत ॥ ८१ ॥
व्याख्या- यथा = येन प्रकारेण, श्रेष्ठः = वरेण्यः, मानहीनः = सम्मानरहितः, न = नहि, स्यात् = भवेत्, न्यूनः = हीनजनः, मानाधिकः = अधिकसम्माननीयः, न = नहि, स्यात् = भवेत्, श्रेयोऽर्थी = = मङ्गलाकाङ्क्षी, नृपः = राजा, राष्ट्रे = राज्ये, तथा = तेनैव प्रकारेण नित्यम् = सततम्, प्रकुर्वीत = विदध्यात् ॥ ८१ ॥
हिन्दी – कल्याणकामी राजा अपने राज्य में हमेशा यह ध्यान रखे कि मानवीय व्यक्ति के सम्मान में कमी न हो तथा हीन व्यक्ति अधिक सम्माननीय न हो जाय ॥८१ ॥
श्रेष्ठ इति । यथा श्रेष्ठः मानहीनः न स्यात् न्यूनः निकृष्टश्च मानाधिकः अधिकमानयुतः न स्यात् श्रेयोऽर्थी मङ्गलार्थी नृपतिः राष्ट्र राज्ये तथा नित्यं प्रकुर्वीत ॥ ८१ ॥
हीनमध्योत्तमानान्तु ग्रामे भूमिं प्रकल्पयेत् ।
कुटुम्बिनां गृहार्थन्तु पत्तनेऽपि नृपः सदा ॥ ८२ ॥
अन्वयः —– नृपः ग्रामे हीनमध्योत्तमानां तथा कुटुम्बिनां गृहार्थं पत्तनेऽपि भूमिं प्रकल्पयेत् ॥ ८२ ॥
व्याख्या- नृपः = राजा, ग्रामे = निवसथे, हीनानाम् = नीचानाम्, मध्यानाम् = साधारणजनानाम्, उत्तमानाम् = श्रेष्ठानाम्, तथा = = तेनैव प्रकारेण, कुटुम्बिनाम् = आत्मीया-नाम्, गृहार्थम् = सदनाय, पत्तनेऽपि = नगरेऽपि, भूमिम् = वासस्थानम्, प्रकल्पयेत् = दद्यात् ॥ ८२ ॥
हिन्दी - राजा सदा नीच, साधारण एवं उत्तम कोटि के लोगों के लिए गाँव में तथा अपने आत्मीय जनों के निवास के लिए शहर में वासभूमि की व्यवस्था करे ॥ ८२ ॥
हीति । नृपः ग्रामे हीनानां मध्यानाम् उत्तमानाञ्च तथा कुटुम्बिनां स्वजनानां गृहार्थं पत्तनेऽपि नगरेऽपि भूमिं वासस्थानं प्रकल्पयेत् ॥८२ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 524
पाठ पढ़ें पाठ छिपाएँ
९ ३६ शुक्रनीति: द्वात्रिंशत्प्रमितैर्हस्तैर्दीर्घार्द्धा विस्तृताधमा ।
उत्तमा द्विगुणा मध्या सार्द्धमाना यथार्हतः ।
कुटुम्बसंस्थितिसमा न न्यूना वाधिकापि न ॥ ८३ ॥
अन्वयः — अधमा द्वात्रिंशत्प्रमितैः हस्तैः दीर्घा विस्तृतौ अर्द्धा उत्तमा यथार्हतः द्विगुणा मध्या सार्द्धमाना कुटुम्बसंस्थितिसमा न न्यूना वा अधिकाऽपि न ॥ ८३ ॥
व्याख्या — अधमा = नीचनिवासभूमिः, द्वात्रिंशत्प्रमितैः = द्वात्रिंशत्परिमितैः, हस्तैः = करैः, दीर्घा = आयामा, विस्तृतौ = आयामविस्तारौ,, अर्द्धा = तदर्द्धा, द्विगुणा = अधमात् द्विगुणा, चतुष्षष्टिहस्तदीर्घा तथा द्वात्रिंशत्हस्तविस्तृता, मध्या = सामान्यस्तरीया, निवासभूमिः सार्द्धमाना = = अर्द्धसहिताधमा, अष्टचत्वारिंशद्हस्तदीर्घा, चतुर्विंशतिहस्तविस्तृतेति यावत् कुटुम्बानाम् = आत्मीयानाम्, संस्थितौ = निवासभूमिः, समा = तुल्या, सर्वेषामात्मीयानां समाना वासभूमिः विधेया, न्यूना = अल्पा, न = = नहि, अधिकाऽपि = विशेषाऽपि न = नहि, देया ॥९ ३ ॥ हिन्दी — बत्तीस हाथ लम्बी और सोलह हाथ चौडी अधमा, चौसठ हाथ लम्बी और बत्तीस हाथ चौड़ी उत्तमा तथा अड़तालीस हाथ लम्बी और चौबीस हाथ चौडी सामान्य स्तर की वास-भूमि कहलाती है । राजा अपने आत्मीयों के लिए न कम न ज्यादा बिलकुल समान वासभूमि की व्यवस्था करे ॥ ८३ ॥
वासभूमेर्मानमाह— द्वात्रिंशदिति । अधमा वासभूमिः द्वात्रिंशत्प्रमितैः हस्तैः दीर्घा, विस्तृतौ अर्द्धा तदर्द्धा षोडशहस्तपरिमिता इत्यर्थः । उत्तमा वासभूमिः यथार्हतः यथायोग्यं द्विगुणा अधमद्विगुणा चतुःषष्टिहस्तदीर्घा द्वात्रिंशद्धस्तविस्तृता इत्यर्थः । मध्या वासभूमिः सार्द्धमाना अर्द्धसहिताधमा इत्यर्थः, अष्टचत्वारिंशद्धस्तदीर्घा चतुर्विंशतिहस्तविस्तृतेति यावत् कुटुम्बानां संस्थितौ समा सर्वेषां कुटुम्बानां समाना वासभूमिः कार्य्या, न्यूना न, अधिकापि च न ॥८३ ॥
ग्रामाद् बहिर्वसेयुस्ते ये ये त्वधिकृता नृपैः ।
नृपकार्य्यं विना कश्चिन्न ग्रामं सैनिको विशेत् ॥ ८४ ॥
अन्वयः — ये ये नृपैः अधिकृताः ते ग्रामात् बहिः वसेयुः । कश्चित् सैनिकः नृपकार्यं विना ग्रामं न विशेत् ॥ ८४ ॥।
व्याख्या — ये ये = जनाः, नृपैः = राजभिः, अधिकृताः = कार्ये नियुक्ताः, ते = जनाः, ग्रामात् = = निवसथात्, बहिः = बाह्यक्षेत्रे, वसेयुः = निवासं कुर्युः, कश्चित् = कोऽपि, सैनिकः = आयुधिकः, नृपकार्यम् = राज्ञानुदेशम्, विना = विहाय, ग्रामम् = निवसथे, न = नहि, विशेत् = प्रवेशं कुर्यात् ॥८४ ॥
हिन्दी — राजा ने जिन अधिकारियों को नियुक्त किया है, उन्हें गाँव से बाहर निवास करना चाहिए । किसी भी सैनिक को राजकार्य के बिना ग्राम में प्रवेश नहीं करना चाहिए ॥८४ ॥
ग्रामादिति । ये ये नृपैः अधिंकृताः कार्य्ये नियुक्ताः ते ग्रामात् बहिः वसेयुः । कश्चित् सैनिकः नृपकार्य्यं विना ग्रामं न विशेत् ॥८४ ॥
तथा न पीडयेत् कुत्र कदापि ग्रामवासिनः ।
सैनिकैर्न व्यवहरेन्नित्यं ग्राम्यजनोऽपि च ॥ ८५ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 525
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः ९ ३७ अन्वयः —– तथा सैनिकः कुत्र कदापि ग्रामवासिनं न पीडयेत् । ग्राम्यजनोऽपि नित्यं सैनिकैः न व्यवहरेत् ॥ ८५ ॥
व्याख्या — तथा = तेनैव प्रकारेण, सैनिकः = आयुधिकः, कुत्र = कस्मिन्नपि स्थाने, कदापि = कस्यामपि अवस्थायां, ग्रामवासिनः = ग्राम्यजनान्, न = = नहि, पीडयेत् = क्लिश्येत्, ग्राम्यजनोऽपि = = ग्रामीणजनोऽपि,,, नित्यम् = सततम्, सैनिकैः = आयुधिकैः, न = नहि, व्यवहरेत् = व्यवहारं कुर्यात् ॥ ८५ ॥
हिन्दी — और सैनिक कहीं किसी ग्रामीण को कभी कष्ट न दे और ग्रामीणों को भी चाहिए कि वे किसी सैनिक के साथ किसी प्रकार का व्यवहार न करे ॥ ८५ ॥
तथेति । तथा सैनिकः कुत्र कस्मिन्नपि स्थाने कदापि ग्रामवासिनः जनान् न पीडयेत् ग्राम्यजनोऽपि नित्यं सततं सैनिकैः न व्यवहरेत् ॥ ८५ ॥
श्रावयेत् सैनिकान् नित्यं धर्मं शौर्य्यविवर्द्धनम् ।
सुवाद्यनृत्यगीतानि शौर्य्यवृद्धिकराण्यपि ॥ ८६ ॥
अन्वयः — नित्यं सैनिकान् शौर्यविवर्द्धनं धर्मं तथा शौर्यवृद्धिकराणि सुवाद्यनृत्यगीतानि च श्रावयेत् ॥ ८६ ॥
व्याख्या — नित्यम् = प्रतिदिनम्, सैनिकान् = सेनाचरान्, शौर्यविवर्द्धनम् = वीरत्वसंवर्धकम्, धर्मम् = धर्मयुद्धम्, तथा शौर्यवृद्धिकराणि = वीरत्ववर्द्धकाणि, सुवाद्यानि = सुष्ठु वादित्राणि, गीतानि = गायनानि, च = पुनः, नृत्यानि = नर्त्तनानि, श्रावयेत् = आकर्णयेत् ॥८६ ॥
हिन्दी - राजा सैनिकों की वीरता बढाने वाले धर्मयुद्ध की कथा सुनायें । प्रतिदिन शूरत्व-वर्द्धक बाजे, नृत्य - गीत भी सुनवाये ॥ ८६ ॥
श्रावयेदिति । नित्यं सततं सैनिकान् शौर्य्यविवर्द्धनं शौर्य्यवृद्धिकरं शौर्य्यवृद्धिकराणि सुवाद्यानि नृत्यानि गीतानि च श्रावयेत् ॥८६ ॥
युद्धक्रियां विना सैन्यं योजयेन्नान्यकर्मणि ॥ ८७ ॥
अन्वयः - सैन्यं युद्धक्रियां विना अन्यकर्मणि न योजयेत् ॥ ८७ ॥
व्याख्या — सैन्यम् = सैनिकम्, युद्धक्रियाम् = साङ्ग्रामिककर्म, विना = = अपरस्मिन् कार्ये, न = नहि, योजयेत् = नियुक्तं कुर्यात् ॥ ८७ ॥
धर्मं युद्धधर्मं तथा विहाय, अन्यकर्मणि हिन्दी — सैनिकों को युद्ध के अतिरिक्त किसी अन्य कार्य में न लगाये ॥ ८७ ॥
युद्धक्रियामिति । सैन्यं युद्धक्रियां साङ्ग्रामिकव्यापारं विना अन्यकर्मणि न योजयेत् न नियुक्तं कुर्य्यात् ॥ ८७ ॥
सत्याचारास्तु धनिका व्यवहारे हता यदि ।
राजा समुद्धरेत् तांस्तु तथान्यांश्च कृषीबलान् ॥ ८८ ॥
अन्वयः — सत्याचाराः धनिकाः यदि व्यवहारे हताः, राजा तान् तथा अन्यान् कृषीबलान् समुद्धरेत् ॥ ८८ ॥
व्याख्या — सत्याचाराः– सत्यमार्गावलम्बिनः, धनिकाः = समृद्धिशालिनो जनाः, यदि =: चेत्, व्यवहारे = व्यापारे, हताः = निहताः क्षतिग्रस्ता भवेयुः, तदा राजा = नृपः, तान् = जनान्, तथा अन्यान् = अपरानपि जनान्, कृषीबलान् = कृषिकान्, समुद्धरेत् = निस्तारयेत् ॥ ८८ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 526
पाठ पढ़ें पाठ छिपाएँ
९ ३८ शुक्रनीतिः हिन्दी – यदि कोई ईमानदार व्यक्ति या किसान व्यवहार में विनष्ट हो जाय तो राजा उसकी सहायता कर उद्धार करे ॥ ८८ ॥
सत्याचारा इति । सत्याचाराः सत्यपथावलम्बिनः धनिकाः यदि व्यवहारे वाणिज्यादौ हताः विनष्टाः क्षतिग्रस्ता इत्यर्थः भवेयुः, तदा राजा तान् तथा अन्यान् तथाविधान् कृषीबलान् कृषिजीविनश्च समुद्धरेत् ॥ ८८ ॥
ये सैन्यधनिकास्तेभ्यो यथार्द्धां भृतिमावहेत् ।
पारदेश्यञ्च त्रिंशांशमधिकं तद्धनव्ययात् ॥ ८ ९ ॥
अन्वयः — ये सैन्यधनिकाः तेभ्यः यथार्हां भृतिं तथा तद्धनव्ययात् अधिकं पारदेश्यं त्रिंशांशम् आवहेत् ॥ ८ ९ ॥ व्याख्या — ये = जनाः, सेन्येषु = सैनिकेषु, धनिकाः = धनवन्तः, तेभ्यः = धनिकेभ्यः, यथार्हाम् = = यथायोग्याम्, भृतिम् = वेतनम्, तदा तस्य, धनव्ययात् = अर्थनिर्गमनात्, अधिकम् = विशेषम्, पारदेश्यम् = विदेशगमनार्थम्, त्रिंशांशम् = त्रिंशांशकम्, आवहेत् = निष्पादयेत् ॥ ८ ९ ॥ हिन्दी — धनी सैनिकों को उनकी योग्यता अनुसार वेतन निर्धारित करे । राजधानी से बाहर जाने पर मूल वेतन का तीसवाँ भाग भत्ता के रूप में दे ॥८ ९ ॥ ये इति । ये जनाः सैन्येषु मध्ये धनिकाः तेभ्यः यथार्हां यथायोग्यां भृतिं तथा तस्य धनव्ययात् अधिकं पारदेश्यं परदेशगमनार्थं त्रिंशांशञ्च आवहेत् दद्यात् ॥ ८ ९ ॥
धनं संरक्षयेत्तेषां यत्नतः स्वात्मकोशवत् ।
संहरेद्धनिकात् सर्वं मिथ्याचाराद्धनं नृपः ॥ ९ ० ॥
अन्वयः — स्वात्मकोशवत् तेषां धनं यत्नतः संरक्षेत् । किञ्च नृपः मिथ्याचारात् धनिकात् सर्वं संहरेत् ॥९ ० ॥ व्याख्या- · स्वात्मकोशवत् = स्वकीयवैभवमिव, तेषाम् = सैन्यानाम्, धनम् = वित्तम्, यत्नतः - सायासः, संरक्षेत् = सङ्गोपयेत्, किञ्च, नृपः = राजा, मिथ्याचारात् = कपटव्यवहारात्, धनिकात् = = सम्पन्नजनात्, सर्वम् = निखिलं धनम्, संहरेत् = अपहरेत् ॥९ ० ॥
हिन्दी - और सैनिकों के धन को अपने खजाने की तरह राजा को रक्षा करनी चाहिए ।
यदि कोई व्यक्ति धोखघड़ी से धन इकट्ठा करे तो राजा उसका सर्वस्व छीन ले ॥९ ० ॥
धनमिति । आत्मकोशवत् निजधनमिव तेषां धनिकसैन्यानां धनं यत्नतः यत्नेन संरक्षेत् ।
किञ्च नृपः मिथ्याचारात् मायाव्यवहारिणः धनिकात् सर्वं धनं संहरेत् ॥ ९ ० ॥
यदा चतुगुर्णा वृद्धिर्गृहीता धनिकेन च ।
अधमर्णान्न दातव्यं धनिने तु धनं तदा ॥ ९९ ॥
इति शुक्रनीतौ खिलनीतिनिरूपणं नाम पञ्चमोऽध्यायः । अन्वयः — यदा धनिकेन अधमर्णात् चतुर्गुणा वृद्धिः गृहीता तदा धनिने धनं न दातव्यम् ॥ ९ १ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 527
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः ९ ३ ९ व्याख्या — यदा = यस्मिन् काले, धनिकेन = उत्तमर्णेन, अधमर्णात् = धारकात्, चतुर्गुणा, वृद्धिः = वार्द्धष्यम्, गृहीता = सम्प्राप्ता, तदा, धनिने = उत्तमर्णाय, धनम् = अर्थम्, न = नहि, दातव्यम् = प्रत्यर्पयितव्यम् ॥९ १ ॥ हिन्दी — और जब मूल धन से सूद चौगुना अधिक दे दिया जाय तब महाजन को मूल धन भी वापस नहीं करना चाहिए ॥ ९ १ ॥ इस प्रकार शुक्रनीति में ' खिलनीतिनिरूपण ' नामक पञ्चम अध्याय की ' विमला ' संस्कृत - हिन्दी व्याख्या समाप्त हुई । यदेति । यदा धनिकेन उत्तमर्णेन अधमर्णात् चतुर्गुणा वृद्धिः गृहीता, तदा धनिने तस्मै उत्तमर्णाय धनं मूलमित्यर्थः, न दातव्यं अधमर्णेनेति शेषः ॥ ९ १ ॥ इति श्रीजीवानन्दविद्यासागरविरचिता पञ्चमाध्यायव्याख्या समाप्ता । समाप्तश्च ग्रन्थः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 528
पाठ पढ़ें पाठ छिपाएँ
व्याख्यातुः परिचयः ट
मिथिलाया दक्षिणे भागे गङ्गायाश्चोत्तरे तटे ।
अकबरपुरनामके ग्रामे सानुजः वसतो मुदा ॥ १ ॥
बेगूसराय नगरेऽस्मिन्त्यक्त्वा जाह्नवीतटम् समागतोऽस्मि वासाय ग्रन्थनिर्माणहेतवे ॥ २ ॥
स.भाच्छक्तिस्वरूपिणीं सुखमयीं सौभाग्यसंवर्द्धिनीं माता भ च सरस्वती सुकृतिनीं धर्मैकनिष्ठामयीम् । शास्त्रज्ञानप्रबुद्धशुद्धचरित: श्रीकीर्त्तिनाथ: पिता, तज्जोऽहं जगदीशचन्द्रमुदितः प्राप्तावकाशः गृही ॥ ३ ॥
चन्द्राङ्कवसुभूः शाके आषाढस्यासिते दले । सप्तम्यां रविवारे च निशायाः पश्चिमे पले ।
दत्वाशिषश्च मे तात क्षिप्त्वा गृहधुरम्मयि ।
वैकुण्ठाधिपतिं ध्यात्वा वैकुण्ठञ्च समाययौ ॥४ ॥
बाणव्योमाङ्कचन्द्राऽब्दे शाके ज्येष्ठाऽसिते शनौ ।
द्वितीयायां समाप्येहलीला मे जननीयजौ ॥ ५ ॥
शुक्राचार्यप्रणीतस्य शुक्रनीतेर्विशिष्टता ।
विविच्य लिखिता व्याख्या नात्यल्पा नातिविस्तृता ॥ ६
खिष्ट्रे गुणाङ्कनिधिचन्द्रेशनावीषे सितान्विते ।
समाप्तिरगमद्व्याख्या विमलेयं विचक्षणा ॥७ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 529
पाठ पढ़ें पाठ छिपाएँ
श्लोकानुक्रमणिका
श्लोकाः पृष्ठाङ्काः
( अ ) अकल्यबालस्थविर ६५ ९ । अकीर्तिरेव नरको ५१५ । अकृतञ्च करिष्यामि ६६८ अकृष्टपच्यं कति च १८३ अगाधसलिले मग्नो ४२ अग्नि दीप्तमिवासीदेद् २२१ अग्निदो गरदश्चैव ३१७ । अग्निदो गरदो वेश्या ४५६ अग्निविर्षं घटस्तोयं ७० ९ । अङ्गानां क्रमशो वक्ष्ये २५ अङ्गानि वेदाश्चत्वारो ६७ अङ्गारस्यैव गन्धस्य ८२६ अङ्गीकर्तव्यमिति च २७६ अङ्गीकृतं यथार्थं यत् ६७६ अङ्गुलाद्यं स्मृतं मान २७१ अजाविगोमहिष्येण १ ९ ८ अजालगर्भं सद्वर्णं ४८३ अज्ञातशास्त्रो न ब्रूयात् ४१८ अत: सुभागदण्डी स्यात् ४५५ अतादृशे च विरमेत् ४१० अति सर्वं नाशहेतु ३८१ अतिमृदस्तुतिनति ९ १४ अत्यटनं चानशनम् ४११ । अत्याग्रहान्नरस्यैव ३८२ अत्यायासो हि विद्यासु ४११ अत्यावश्यमनावश्यं ३५६ अथ कोशप्रकरणं ४६४
श्लोकाः पृष्ठाङ्काः
अथ मिश्रप्रकरणं ४२१ अथ मिश्रे तृतीयन्तु ५१३ अथर्वाङ्गिरसो नाम ५२५ अथवा हेषिते स्कन्धे ७ ९ ८ अथ साधारणं नीति ३०२ अथोर्वोरन्तरे चिह्नम् ७७३ अर्थ चापह्नुते वादी ७०५ अर्थशास्त्रं कामशास्त्रं ५२३ अर्थस्य पुरुषो दासो ९ १८ अर्थानर्थौ तु वार्त्तायां ६३ अर्थिना कथितं राज्ञे ६५५ अर्थिना लिखितो ह्यर्थः ६७७ अर्थिप्रत्यर्थिप्रत्यक्षं ६८३ | अर्थिप्रत्यर्थिनौ सभ्यान् ६३७ | अर्थिप्रत्यर्थिसान्निध्यात् ६ ९ ० अर्थे वा यदि वा धर्मे ९ १८ । अदत्तं यश्च गृह्णि ७४१ । । अरेयं यश्च गृह्णति ७३८ । अदानेनापमानेन ५५ अदीर्घसूत्रः सत्कार्ये १६८ । अधनादननुज्ञातात् ४१७ अधमा धनमिच्छन्ति २ ९ ५ । अधर्मतः प्रवृत्तं तं ७२३ । अधर्मः क्षत्रियस्यैष ८६१ । अधर्मनिरतो यस्तु ४१७ । अधर्मशीलात् नृपतिः ४६६ | अधर्मशीलो नृपति ४६० आधि: सीमा बालधनं ७०४
श्लोकाः पृष्ठाङ्काः
| अधिकारबलं दृष्ट्वा १८८ अधिकारिगणो मध्यो २४४ अधिकारिगणो राजा २३५ अप्रियाण्यपि चान्यानि २३० | अधिकारे क्षमं दृष्ट्वा १८६ अधिकृतो दशग्रामे ७८ अधीते सुस्वरं गति ६७१ अधुना लिखितं वच्मि ६८५ अधोगमा सटा कार्या ७७३ अधोऽधश्च क्रमात् तत्र २७ ९ | अनन्या: स्वामिभक्ताश्च २११ अमन्त्रमक्षरं नास्ति १ ९ १ | अनर्थं चार्थवत् कृत्वा ७२३ अनन्यस्वत्वकामत्वम् ४२२ अनागमं तु यो भुङ्क्ते ७०४ | अनागमापि या भुक्तिः ७०४ अनियुक्तप्रभाषी च ६५० अनियुक्तो नियुक्तो वा ६३४ अनिश्चितोपायकार्य्यः ८५६ अनीतिस्ते तु मनसि २२५ अनीतेरेव सच्छिद्रं ७ अनुभूतः सत्यवाग्यः ६ ९ ० अनुभूतस्य स्मृत्यर्थं २५१ अनुरागं सुस्वरञ्च २१२ अनुपे तु वृषाश्वानां ८१५ अनृतं साहसं माया ३६२ अनृतं साहसं मौख्यं ३६४ अनेकतन्तुसंयोगैः ५४६ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 530
पाठ पढ़ें पाठ छिपाएँ
२ श्लोकानुक्रमणिका
श्लोकाः पृष्ठाङ्काः श्लोकाः पृष्ठाङ्काः
अनेकयन्त्रशस्त्रास्त्र अनेकाश्च तथा धर्म्माः अनेकासनसन्धानै अन्तर्मृदुर्बहिः क्रूरो अन्तर्वेश्मनि रात्रौ वा अन्त्यौ द्वौ पञ्चमाब्दे तु अन्नं न निन्द्यात् सुस्वस्थः अंत्राच्छादनमात्रा हि अन्यगृहद्वारविद्धं अन्यत्र प्रस्थितः सङ्गात् अन्यथा दाण्डकं भूपं अन्यथा शीलनाशाय अन्यदुक्तं लिखेदन्यत् अन्यथा दूषयन् दण्ड्यः अन्यथा शङ्कनात् नित्यं अधर्मधर्ममूर्तीनाम् अधोमुखः शुभः पादे २१५ । अतः सदा नीतिशास्त्र ३ । ३४ ९ | अतः स्वबान्धवैर्मित्रैः १४० ५४० अतत्परनरस्यैव ४७ | ४४४ अतिकामक्रोधलोभै ७२२ | १३३ अतिदानं तप: सत्य ९ १८ ८१० अतिभुक्तोऽतिपीतोऽपि ७ ९ ४ ३४३ अतिमद्यं हि पिबतो ४७ २८ ९ अतीतकाललिखितं ९ २ न स्यात् ६८८ ८४५ अतोऽन्यथा विनाशाय १५७ । अत्राष्टरक्तिको माषो ४ ९ ० । २४२अपराधं यथोक्तं च ४४७ | ९ २८ ६४६ अपशब्दाश्च नो वाच्या ४१५ | अपसरति यो युद्धात् ८६८ ६८४ ७०१ अपसृत्यास्त्रसिद्ध्यर्थं ८५१ ७११ अपि राष्ट्रविनाशाय ९ २५ ७ ९ ० अपि स्थाणुवदासीत २२६ अन्नं भुक्त्वा जलं पीत्वा ८०३ अपृष्टौ नैव कथयेद् ३२४ अन्यथा हरतस्तौ तु २३ ९ | अप्रगल्भजडोन्मत्त ६६३ अन्यथा ह्यभियोक्तारं ७२६ | अप्रधानः प्रधानः स्यात् २३३ अन्यवस्त्रामरणयोः ६५० अप्रसिद्धं निराबाधं ६७० अन्याधिकारवृत्तन्तु २३५ | अप्राप्तव्यवहारश्च ६६० अन्यान् सुचक्षुषा हास्यैः २ ९ ६ अप्रेरितहितकरं ८ अन्यायकारी कलह ४५६ अभयं च वरं दद्यात् ६०० अन्यायगामिनि पत्यौ १६८ अभावे बीजिनो माता ७२७ अन्यायेनार्जितो यस्माद् ४६५ अभिमानाच्च लोभाच्च ६ ९ २ अन्योदयासहिष्णुश्च ३ ९ १ | अभियुक्ताय दातव्यं ७१४ अन्यार्थमर्थहीनं च ६७० | अभियुक्तनिरुद्धैर्वा १०५ अन्योऽन्ययोः समक्षन्तु ६७८ अभियुक्ताश्च ये यत्र ६३३ अन्योदयासहिष्णुश्च ४५६ अभीक्षगं चोद्यमानोऽपि ७०७
श्लोकाः पृष्ठाङ्काः
अमात्यगोपितैः पश्चाद् ८७५ अमार्गश्चाष्टवलयी ८५३ अमात्यः प्राड्विवाको वा ७२५ अमात्यः साधु लिखन २७६ अयं भारस्त्वया तत्र २८७ अयं सहस्रापराधी ३१६ अयुक्तं यत् कृतं चोक्तं ३१५ अयुतक्रोशजां वार्तां १३८ अयुतग्रामपः सर्व ९ ३४ अयोऽभेद्यमुपायेन ८५७ अरक्षितारं नृपतिं ४ ९ अराजके हि सर्वस्मिन् २ ९ अरातिसैन्यव्यायाम ८३५ अरिमित्राणि सर्वाणि ८४४ अरिमेदश्च पीतद्रुः ५७२ अरेश्च विजिगीषोश्च ८५५ अर्द्धं यथोक्तं द्विगुणं ४५१ | अर्द्धचन्द्रां वर्त्तुलां वा ८६ | अर्द्धन्तु शर्कराभस्य ४ ९ १ अर्द्धांशेन प्रकृतयो १२० अर्द्धाङ्गुला भ्रुवोर्लेखा ५८ ९ | अल्पं शतधनुः प्रोक्तम् ७ ९९ अल्पदानात् महत् पुण्यं ४४० अल्पायुभूभृदाद्यर्थं २ अवमानं पुरस्कृत्य ८८१ अवरोधाद् बन्धनेन ४५४ अवश्यपोष्यवर्गस्य २८ ९ अवश्यमेव भोक्तव्यं ३५ अवश्यम्भाविभावानां २१ अवाहितो भवेन्मन्दः ७ ९ ५ अपि बहुबलोरो ८१७ | अभियोक्ता बलीयस्त्वाद् ८३ ९ अविक्षतेन देहेन ८६१ अपि श्रेयस्करं नृणां ५७८ अभिशापे समुत्तीर्णे २५६ | अविभक्तधनान् मैत्र्या ९ १ ९ अतः कार्य्यक्षमं दृष्ट्वा १८७ | अभेद्यं व्यूहविद्वीर ७४८ अविभवेऽपि विभवे ३४७ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA