शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 511–520
शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 511–520
पृष्ठ 511
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः ९ २३ न भवत्सदृशास्त्वन्ये सहायाः सन्ति मे ह्यत: ।
तृतीयांशं भृतेर्ग्राह्यमर्द्धं वा भोजनार्थकम् ।
दास्याम्यापत्समुत्तीर्णः शेषं प्रत्युपकारवित् ॥ ४८ ॥
अन्वयः - भवत्सदृशाः अन्ये सहायाः न सन्ति, अतः इदानीं भृतेः तृतीयांशं वा अर्द्ध भोजनार्थकं ग्राह्यम् । आपत्समुत्तीर्णः प्रत्युपकारवित् शेषं दास्यामि ॥ ४८ ॥
व्याख्या — भवताम् = युष्माकम्, सदृशाः = तुल्याः, अन्ये = अपरे, मम = मे, सहायाः = सहायकाः, न = = नहि, सन्ति = भवन्ति । अतः = अस्मात्कारणात्, इदानीम् = अधुना, भृतेः = वेतनस्य, तृतीयांशम् = तृतीयभागः, वा = अथवा, अर्द्धम् = वेतनस्यार्द्धभागः, भोजनार्थकम् = केवलजीविकासञ्चालनार्थम्, ग्राह्यम् = भवद्भिः स्वीकार्यम् । आपत्सु = विपत्तिकालेषु, सम्पूर्ण-वेतनदानेऽसमर्थत्वात्, अतः = अस्मात्कारणात्, प्रत्युपकारवित् = प्रत्युपकृतिज्ञः सन्, शेषम् = अवशिष्टम्, दास्यामि = अर्पयिष्यामि ॥ ४८ ॥
हिन्दी — इस विपत्ति की स्थिति में आप लोगों के समान मेरा कोई दूसरा सहायक नहीं है, अतः इस स्थिति में केवल जीविका निर्वाह के लिए आप वेतन का तीसरा भाग या आधा वेतन ही स्वीकार करे । विपत्ति पार कर जाने के बाद कृतज्ञभाव से मैं आपका शेष वेतन भी चुकता कर दूँगा ॥ ४८ ॥
नेति । भवतां सदृशाः अन्ये मम सहाया न सन्ति हि नैव विद्यन्ते इत्यर्थः । अतः इदानीं भृतेः वृत्तिरूपस्य वेतनस्य तृतीयांशं वा अर्द्ध भोजनार्थकम् अन्नार्थं ग्राह्यं भवद्भिरिति शेषः, आपत्सु बहुव्ययसम्भवात् समप्रदाने अशक्तेरिति भावः । अतः आपदः समुत्तीर्णः अत एव प्रत्युपकारवित् कृतज्ञः सन्नित्यर्थः, शेषम् अवशिष्टं दास्यामि ॥४८ ॥
भृतिं विना स्वामिकार्य्यं भृत्यः कुर्य्यात् समाष्टकम् ।
षोडशाब्दधी यः स्यादितरोऽर्थानुरूपतः ॥ ४ ९ ॥
अन्वयः — यः भृत्यः षोडशाब्दधनी सः भृतिं विना समाष्टकं स्वामिकार्यं कुर्यात्, इतरः अर्थानुरूपतः ॥ ४ ९ ॥ व्याख्या - यः भृत्यः = सेवकः, षोडशाब्दधनी = वेतनं विना पोडशवर्षपर्यन्तं जीविका-सञ्चालने सक्षमः, सः = असौ, भृतिम् = वेतनम्, विना = विहाय, समाष्टकम् = अष्टवर्षपर्यन्तम्, स्वामिकार्यम् — स्वामिनः = प्रभोः, कार्यम् = कृत्यम्, कुर्यात् = निष्पादयेत्, इतरः = तद्भिनस्तु, अर्थानुरूपतः = आर्थिकस्थित्यनुसारेण, स्वामिकार्यं कुर्यात् ॥४ ९ ॥ हिन्दी – जो सेवक राजा से बिना वेतन लिये सोलह साल तक अपनी जीविका संचालन में समर्थ हो, वह आठ साल तक बिना वेतन लिए राजा का काम करे और उससे भिन्न लोग अपनी आर्थिक स्थिति के अनुसार बिना वेतन पाये राजकार्य करे ॥ ४ ९ ॥ भृतिमिति । यः भृत्यः षोडशाब्दधनी षोडशवर्षीयव्ययोपयोगिधनसम्पन्नः स्यात् सः भृतिं विना समाष्टकम् अष्टौ वत्सरान् स्वामिकार्य्यं कुर्य्यात् । इतरः तद्भिन्नस्तु अर्थानुरूपतः यावदर्थमित्यर्थः, स्वामिकार्य्यं कुर्य्यादिति शेषः ॥ ४ ९ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 512
पाठ पढ़ें पाठ छिपाएँ
९ २४ शुक्रनीतिः निर्धनैरन्नवस्त्रन्तु नृपाद् ग्राह्यं न चान्यथा ।
यतो भुक्तं सुखं सम्यक् तद्दुःखैर्दुःखितो न चेत् ।
विनिन्दति कृतघ्नन्तु स्वामी भृत्योऽन्य एव वा ॥ ५० ॥
अन्वयः — निर्धनैः नृपात् अन्नवस्त्रं ग्राह्यम्, अन्यथा न । यतः नृपात् सम्यक् सुखं भुक्तं चेत् तदुःखैः दुःखितः न भवेत् तदा स्वामी वा अन्यः कृतघ्नं भृत्यं विनिन्दति ॥ ५० ॥
व्याख्या — निर्धनैः = धनहीनैः सेवकैः, नृपात् = भूपालात्, विपन्नावस्थायामपि, अन्नवस्त्रम् = = जीवनयापनार्थं भृतिम्, ग्राह्यम् = स्वीकार्यम्, अन्यथा = सशक्ते सति, न = ग्राह्यम् । यतः = यस्मात्, नृपात् = भूभृतः, सम्यक् = सुष्ठु, सुखम् = सौविध्यम्, भुक्तम् = उपभोगितम्, चेत् = यदि, तस्य = नृपस्य, दुःखैः कष्टैः, दुःखितः = पीडितः, न = = नहि, भवेत् = स्यात्, तदा, स्वामी = प्रभुः, वा अन्यः = कृतज्ञः सेवकः, कृतघ्नम् = कृतज्ञरहितम्, भृत्यम् = = सेवकम्, विनिन्दति = विशेषेण गर्हितम् ॥ ५० ॥
हिन्दी — निर्धन सेवक ही राजा से ऐसी विपन्न स्थिति में अन्न - वस्त्र ले, अन्यथा न ले । जिस राजा से आज तक जिसने भलीभाँति सुखोपभोग किया है, आज यदि उसके दुःख से वह दुःखी न हो तो ऐसे कृतघ्न सेवक की राजा एवं अन्य कृतज्ञ सेवक भी निन्दा करते हैं || निर्धनैरिति । निर्धनैः दरिद्रैः भृत्यैः नृपात् तथा विपन्नादिति भावः, अन्नवस्त्रं ग्राह्यम् अन्यथा सधनत्वे न, यतः नृपात् सम्यक् सुखं भुक्तं चेत् यदि तस्य दुःखैः दुरवस्थाभिः दुःखितः न भवेत् तदा स्वामी वा अन्यः कृतज्ञः भृत्यः कृतघ्नम् अकृतज्ञं तादृशं भृत्यं विनिन्दा ॥ ५० ॥
सकृत् सुभुक्तं यस्यापि तदर्थं जीवितं त्यजेत् ।
भृत्यः स एव सुश्लोको नापत्तौ स्वामिनं त्यजेत् ।
स्वामी स एव विज्ञेयो भृत्यार्थे जीवितं त्यजेत् ॥ ५१ ॥
अन्वयः — यस्य अन्नं सकृत् सुभुक्तं भृत्यः तदर्थं जीवितं त्यजेत् स एव भृत्यः सुश्लोकः । यः आपत्तौ स्वामिनं न त्यजेत् तथा स एव स्वामी भृत्यार्थे जीवितं त्यजेत् ॥ ५१ ॥
व्याख्या — यस्य = नृपस्य, अन्नम् = भोज्यपदार्थम्, सकृत् = एकवारमपि, सुभुक्तम् = सुष्ठुभोजनं कृतम्, भृत्यः = = सेवकः, तदर्थम् = तन्निमित्तम्, जीवितम् = जीवनमपि, त्यजेत् = परित्यागं कुर्यात्, स एव = तदेव, भृत्यः = सेवकः, सुश्लोकः = पुण्यकीर्तिः । यः = सेवकः, आपत्तौ = विपदि, स्वामिनम् = प्रभुम् न = नहि, त्यजेत् = जह्यात्, तथा स एव = = तदेव, स्वामी = प्रभुः, यः, भृत्यार्थे = सेवकार्थे, जीवितम् = प्राणम्, त्यजेत् = जह्यात् ॥ ५१ ॥
हिन्दी — जो सेवक ससम्मान दिये गये राजा का अन्न एक बार भी यथेष्ट खा ले तो उसके लिए समय पड़ने पर वह जान भी दे दे । वही सेवक सुन्दर यशवाला कहलाता है जो विपत्ति में राजा का साथ नहीं छोड़ता और वही राजा राजा है जो जरूरत पड़ने पर अपने सेवक के लिए प्राण भी दे डाले ॥५१ ॥
सकृदिति । यस्य अन्नं सकृत् एकवारमपि सुभुक्तं भृत्यः तदर्थं जीवितं त्यजेत् स एव भृत्यः सुश्लोकः पुण्यकीर्तिः यः आपत्तौ आपदि स्वामिनं न त्यजेत् । तथा स एव स्वामी विज्ञेयः यः भृत्यार्थे भृत्यनिमित्तं जीवितं त्यजेत् । स्वामिभृत्याभ्यां परस्परानुरक्ताभ्यां भवितव्यमिति भावः ॥ ५१ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 513
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः ९ २५
न रामसदृशो राजा पृथिव्यां नीतिमानभूत् ।
सुभृत्यता तु यन्नीत्या वानरैरपि स्वीकृता ॥ ५२ ॥
अन्वयः – पृथिव्यां रामसदृशः नीतिमान् राजा न अभूत् । यन्नीत्या वानरैरपि सुभृत्यता स्वीकृता ॥ ५२ ॥
व्याख्या— पृथिव्याम् = भूम्याम्, रामेण = दाशरथिना, सदृशः = तुल्यः, नीतिमान् = नय-सम्पन्नः, राजा = नरपतिः, न = = नहि, अभूत् = बभूव, यस्य रामस्य, नीत्या = नयेन, वानरैरपि = कपिभिरपि, सुभृत्यता = सुष्ठुसेवकत्वम्, स्वीकृता = अङ्गीकृता ॥५२ ॥
हिन्दी - राम की तरह नीतिसम्पन्न राजा इस धरती पर कोई दूसरा नहीं हुआ । क्योंकि इनकी सेवकाई वानर जैसे पशुओं ने भी कबूल की थी ॥ ५२ ॥
नेति । पृथिव्यां रामेण सदृशः नीतिमान् राजा न अभूत् । यस्य नीत्या सुनयेन वानरैरपि सुभृत्यता स्वीकृता ॥ ५२ ॥
अपि राष्ट्रविनाशाय चोराणामेकचित्तता ।
शक्ता भवेन्न किं शत्रुनाशाय नृपभृत्ययोः? ॥ ५३ ॥
अन्वयः – चोराणाम् एकचित्तता राष्ट्रविनाशाय शक्ता भवेत्, शत्रुनाशाय नृपभृत्ययोः किन्न भवेत् ॥ ५३ ॥
व्याख्या — चोराणाम् = तस्कराणाम्, एकचित्तता = अवधानम्, राष्ट्रविनाशाय – राष्ट्रस्यः = देशस्य, विनाशाय = अवसादाय, शक्ता = समर्था भवेत् = स्यात्, तदा शत्रुनाशाय = रिपुविध्वंसाय, नृपभृत्ययोः = भूपसेवकयोरैकमत्यम्, सा किं न भवेत्? भवत्येवेति ॥ ५३ ॥
हिन्दी — जब चोरों का एकमत होना किसी राष्ट्र को विनष्ट करने में समर्थ हो सकता है तो राजा और सेवकों की एकचित्तता क्या शत्रुओं को विनष्ट नहीं कर सकती? अर्थात् कर ही सकती है ॥ ५३ ॥
अपीति । चोराणां तस्कराणामपि एकचित्तता ऐकमत्यं राष्ट्रस्य विनाशाय उच्छेदाय शक्ता समर्था भवेत् शत्रुनाशाय नृपभृत्ययोः सा किं न भवेत्? अपितु भवेदेवेत्यर्थः ॥ ५३ ॥
न कूटनीतिरभवच्छ्रीकृष्णसदृशो नृपः ।
अर्जुने प्रापिता स्वस्य सुभद्रा भगिनी छलात् ॥ ५४ ॥।
अन्वयः — कश्चिदपि नृपः श्रीकृष्णसदृशः कूटनीतिः न अभवत् । स्वस्य भगिनी सुभद्रा छलात् अर्जुने प्रापिता ॥५४ ॥
व्याख्या — कश्चिदपि नृपः: = = कोऽपि राजा, श्रीकृष्णेन = वासुदेवेन सदृशः = तुल्यः, कूटनीतिः = कपटनीतिसम्पन्नः, न = = नहि, अभवत् = बभूव, स्वस्य = आत्मनः, भागिनी = अनुजा, सुभद्रा, छलात् = कपटात्, अर्जुने = पार्थे, प्रापिता = विवाहिता ॥ ५४ ॥
हिन्दी – श्रीकृष्ण की तरह कूटनीतिज्ञ कोई दूसरा राजा नहीं हुआ, जिन्होंने छल से अपनी बहन सुभद्रा का विवाह अर्जुन के साथ कर दिया ॥ ५४ ॥
नेति । कश्चिदपि नृपः श्रीकृष्णेन सदृशः कूटनीतिः कपटनीतिमान् न अभवत् । येन स्वस्य भगिनी सुभद्रा छलात् अर्जुने प्रापिता ॥५४ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 514
पाठ पढ़ें पाठ छिपाएँ
९ २४ शुक्रनीति:. निर्धनैरन्नवस्त्रन्तु नृपाद् ग्राह्यं न चान्यथा ।
यतो भुक्तं सुखं सम्यक् तद्दुःखैर्दुःखितो न चेत् ।
विनिन्दति कृतघ्नन्तु स्वामी भृत्योऽन्य एव वा ॥ ५० ॥
अन्वयः — निर्धनैः नृपात् अन्नवस्त्रं ग्राह्यम्, अन्यथा न । यतः नृपात् सम्यक् सुखं भुक्तं चेत् तदुःखैः दुःखितः न भवेत् तदा स्वामी वा अन्यः कृतघ्नं भृत्यं विनिन्दति ॥ ५० ॥
व्याख्या – निर्धनैः = धनहीनैः सेवकैः, नृपात् = भूपालात्, विपन्नावस्थायामपि, अन्नवस्त्रम् = जीवनयापनार्थं भृतिम्, ग्राह्यम् = स्वीकार्यम्, अन्यथा = सशक्ते सति, न = ग्राह्यम् । यतः यस्मात्, नृपात् = भूभृतः, सम्यक् = सुष्ठु, सुखम् = सौविध्यम्, भुक्तम् = उपभोगितम्, चेत् = यदि, तस्य = नृपस्य, दुःखैः = कष्टैः, दुःखितः = पीडितः, न = नहि, भवेत् = स्यात्, तदा, स्वामी = प्रभुः, वा अन्यः = कृतज्ञः सेवकः, कृतघ्नम् = कृतज्ञरहितम्, भृत्यम् = = सेवकम्, विनिन्दति = विशेषेण गर्हितम् ॥ ५० ॥
हिन्दी — निर्धन सेवक ही राजा से ऐसी विपन्न स्थिति में अन्न - वस्त्र ले, अन्यथा न ले । जिस राजा से आज तक जिसने भलीभाँति सुखोपभोग किया है, आज यदि उसके दुःख से वह दुःखी न हो तो ऐसे कृतघ्न सेवक की राजा एवं अन्य कृतज्ञ सेवक भी निन्दा करते हैं ॥ निर्धनैरिति । निर्धनैः दरिद्रैः भृत्यैः नृपात् तथा विपन्नादिति भावः, अन्नवस्त्रं ग्राह्यम् अन्यथा सधनत्वे न, यतः नृपात् सम्यक् सुखं भुक्तं चेत् यदि तस्य दुःखैः दुरवस्थाभिः दुःखितः न भवेत् तदा स्वामी वा अन्यः कृतज्ञः भृत्यः कृतघ्नम् अकृतज्ञं तादृशं भृत्यं विनिन्दति ॥ ५० ॥
सकृत् सुभुक्तं यस्यापि तदर्थं जीवितं त्यजेत् ।
भृत्यः स एव सुश्लोको नापत्तौ स्वामिनं त्यजेत् ।
स्वामी स एव विज्ञेयो भृत्यार्थे जीवितं त्यजेत् ॥ ५१ ॥
अन्वयः — यस्य अन्नं सकृत् सुभुक्तं भृत्यः तदर्थं जीवितं त्यजेत् स एव भृत्यः सुश्लोकः । यः आपत्तौ स्वामिनं न त्यजेत् तथा स एव स्वामी भृत्यार्थे जीवितं त्यजेत् ॥ ५१ ॥
व्याख्या - यस्य = नृपस्य, अन्नम् = भोज्यपदार्थम्, सकृत् = एकवारमपि, सुभुक्तम् = सुष्ठुभोजनं कृतम्, भृत्यः = सेवकः, तदर्थम् = तन्निमित्तम्, जीवितम् = जीवनमपि, त्यजेत् = परित्यागं कुर्यात्, स एव = तदेव, भृत्यः = सेवकः, सुश्लोकः = पुण्यकीर्तिः । यः = = सेवकः, आपत्तौ = विपदि, स्वामिनम् = प्रभुम्, न | = = नहि, त्यजेत् = जह्यात्, तथा स एव = तदेव, स्वामी = प्रभुः, यः, भृत्यार्थे = सेवकार्थे, जीवितम् = प्राणम्, त्यजेत् = जह्यात् ॥ ५१ ॥
हिन्दी — जो सेवक ससम्मान दिये गये राजा का अन्न एक बार भी यथेष्ट खा ले तो उसके लिए समय पड़ने पर वह जान भी दे दे । वही सेवक सुन्दर यशवाला कहलाता है जो विपत्ति में राजा का साथ नहीं छोड़ता और वही राजा राजा है जो जरूरत पड़ने पर अपने सेवक के लिए प्राण दे डाले ॥५१ ॥
सकृदिति । यस्य अन्नं सकृत् एकवारमपि सुभुक्तं भृत्यः तदर्थं जीवितं त्यजेत् स एव भृत्यः सुश्लोकः पुण्यकीर्तिः यः आपत्तौ आपदि स्वामिनं न त्यजेत् । तथा स एव स्वामी विज्ञेयः यः भृत्यार्थे भृत्यनिमित्तं जीवितं त्यजेत् । स्वामिभृत्याभ्यां परस्परानुरक्ताभ्यां भवितव्यमिति भावः ॥ ५१ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 515
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः ९ २५
न रामसदृशो राजा पृथिव्यां नीतिमानभूत् ।
सुभृत्यता तु यन्नीत्या वानरैरपि स्वीकृता ॥ ५२ ॥
अन्वयः — पृथिव्यां रामसदृशः नीतिमान् राजा न अभूत् । यन्नीत्या वानरैरपि सुभृत्यता स्वीकृता ॥ ५२ ॥
व्याख्या — पृथिव्याम् = भूम्याम्, रामेण = दाशरथिना, सदृशः = तुल्यः, नीतिमान् = नय-सम्पन्नः, राजा = नरपतिः, न = नहि, अभूत् = बभूव, यस्य = रामस्य, नीत्या = नयेन, वानरैरपि - : कपिभिरपि, सुभृत्यता = सुष्ठुसेवकत्वम्, स्वीकृता = अङ्गीकृता ॥ ५२ ॥
हिन्दी — राम की तरह नीतिसम्पन्न राजा इस धरती पर कोई दूसरा नहीं हुआ । क्योंकि इनकी सेवकाई वानर जैसे पशुओं ने भी कबूल की थी ॥५२ ॥
नेति । पृथिव्यां रामेण सदृशः नीतिमान् राजा न अभूत् । यस्य नीत्या सुनयेन वानरैरपि सुभृत्यता स्वीकृता ॥ ५२ ॥
अपि राष्ट्रविनाशाय चोराणामेकचित्तता ।
शक्ता भवेन्न किं शत्रुनाशाय नृपभृत्ययो:? ॥ ५३ ॥
अन्वयः — चोराणाम् एकचित्तता राष्ट्रविनाशाय शक्ता भवेत्, शत्रुनाशाय नृपभृत्ययोः किन्न भवेत् ॥५३ ॥
व्याख्या — चोराणाम् = तस्कराणाम्, एकचित्तता = अवधानम्, राष्ट्रविनाशाय – राष्ट्रस्य = देशस्य, विनाशाय = अवसादाय, शक्ता = = समर्था, भवेत् = स्यात्, तदा शत्रुनाशाय = रिपुविध्वंसाय, नृपभृत्ययोः = भूपसेवकयोरैकमत्यम्, सा किं न भवेत्? भवत्येवेति ॥ ५३ ॥
हिन्दी — जब चोरों का एकमत होना किसी राष्ट्र को विनष्ट करने में समर्थ हो सकता है तो राजा और सेवकों की एकचित्तता क्या शत्रुओं को विनष्ट नहीं कर सकती? अर्थात् कर ही सकती है ॥ ५३ ॥
अपीति । चोराणां तस्कराणामपि एकचित्तता ऐकमत्यं राष्ट्रस्य विनाशाय उच्छेदाय शक्ता समर्था भवेत् शत्रुनाशाय नृपभृत्ययोः सा किं न भवेत्? अपितु भवेदेवेत्यर्थः ॥५३ ॥
न कूटनीतिरभवच्छ्रीकृष्णसदृशो नृपः ।
अर्जुने प्रापिता स्वस्य सुभद्रा भगिनी छलात् ॥ ५४ ॥
अन्वयः - कश्चिदपि नृपः श्रीकृष्णसदृशः कूटनीतिः न अभवत् । स्वस्य भगिनी सुभद्रा छलात् अर्जुने प्रापिता ॥५४ ॥
व्याख्या — कश्चिदपि नृपः = कोऽपि राजा, श्रीकृष्णेन = वासुदेवेन, सदृशः = तुल्यः, कूटनीतिः = कपटनीतिसम्पन्नः, न = नहि, अभवत् = बभूव, स्वस्य = आत्मनः,. भागिनी = अनुजा, सुभद्रा, छलात् = कपटात्, अर्जुने = पार्थे, प्रापिता = विवाहिता ॥ ५४ ॥
हिन्दी— श्रीकृष्ण की तरह कूटनीतिज्ञ कोई दूसरा राजा नहीं हुआ, जिन्होंने छल से अपनी बहन सुभद्रा का विवाह अर्जुन के साथ कर दिया ॥ ५४ ॥
नेति । कश्चिदपि नृपः श्रीकृष्णेन सदृशः कूटनीतिः कपटनीतिमान् न अभवत् । येन स्वस्य भगिनी सुभद्रा छलात् अर्जुने प्रापिता ॥५४ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 516
पाठ पढ़ें पाठ छिपाएँ
९ २६ शुक्रनीतिः नीतिमतान्तु सा युक्तिर्या हि स्वश्रेयसेऽखिला ॥ ५५ ॥
अन्वयः - नीतिमतां सा युक्तिः या हि अखिला स्वश्रेयसे ॥५५ ॥
व्याख्या — नीतिमताम् = नीतिसम्पन्नानां जनानां, सा = सैव, युक्तिः = उपायः, या हि युक्तिः, अखिला = सकला, स्वस्य = आत्मनः, श्रेयसे = कल्याणाय भवति ॥ ५५ ॥
हिन्दी — नीतिनिपुण लोगों की वही युक्ति असली युक्ति है, जिससे अपना कल्याण सम्भव हो ॥ ५५ ॥
नीतिमतामिति । नीतिमतां नीतिज्ञानां सा युक्तिः हि सैव युक्तित्यर्थः, या अखिला समग्रा स्वस्य आत्मनः श्रेयसे भवतीति शेषः ॥ ५५ ॥
आदौ तद्धितकृत्स्नेहं कार्य्यं स्नेहमनन्तरम् ।
कृत्वा सधर्मवादञ्च मध्यस्थः साधयेद्धितम् ॥ ५६ ॥
अन्वयः– मध्यस्थः आदौ तद्धितकृत्स्नेहम् अनन्तरं कार्यम् । सधर्मवादं कृत्वा हितं साधयेत् ॥ ५६ ॥
व्याख्या — मध्यस्थः = तटस्थजनः, आदौ = प्रथमे, तद्धितकृत्स्नेहम् — तत् = तस्य आत्मनः, हितकृति = कल्याणकारिणीसुहृदि, स्नेहम् = प्रीतिः, अनन्तरम् = तत्पश्चात्, कार्यम् = कर्तव्यम्, सधर्मवादम् = धर्मवचनसहितम्, स्नेहम् = प्रीतिम्, च, कृत्वा = सम्पाद्य, हितम् = कल्याणम्, साधयेत् = निष्पादयेत् ॥ ५६ ॥
हिन्दी — तटस्थ व्यक्ति सर्वप्रथम किसी के हितैषी मित्र के साथ स्नेह, फिर बाद में कर्त्तव्यकर्म और धर्मकथनपूर्वक स्नेह प्रदर्शन कर आत्महित का साधन करे ॥ ५६ ॥
आदाविति । मध्यस्थः उदासीनः जनः आदौ अग्रतः तस्य आत्मनः हितकृति हितकारिणि मित्रे इत्यर्थः, स्नेहम् अनन्तरं कार्य्यं कर्त्तव्यं धर्मवादसहितं धर्मवचनसमन्वितं स्नेहञ्च कृत्वा हितं साधयेत् ॥ ५६ ॥
परस्परं भवेत् प्रीतिस्तथा तद्गुणवर्णनम् ।
इष्टान्नधनवसनैर्लोभनं कार्य्यसिद्धिदम् ॥ ५७ ॥
अन्वयः — परस्परं यथा प्रीतिः भवेत् तद्गुणवर्णनम् इष्टेन अन्नेन धनेन वसनेन च लोभनं कार्य्यं सिद्धिदं भवेत् ॥ ५७ ॥
व्याख्या – परस्परम् = अन्योऽन्यम्, यथा प्रीतिः = तृप्तिः, भवेत् = स्यात्, तथा = = तेनैव प्रकारेण, तत् = तस्य, गुणवर्णनम् = गुणकथनम्, इष्टेन = वाञ्छितेन, अन्नेन = धान्येन, धनेन = द्रव्येण, वसनेन = वस्त्रेण, च, लोभनम् = लोभप्रदर्शनं कार्यम्, तदेव कार्यसिद्धिदम् = अभीप्सितसाधकम्भवतीति ॥ हिन्दी — परस्पर जैसी प्रीति हो वैसे ही उनके गुणों का वर्णन करे । फिर अभीष्ट अन्न, धन और वस्त्र का प्रलोभन देकर अपना कार्य्य साधे ॥ ५७ ॥
परस्परमिति । परस्परं यथा प्रीतिः भवेत् तथा तस्य प्रणयस्य गुणवर्णनम् इष्टेन अभिलषितेन अन्नेन धनेन वसनेन च लोभनं लोभप्रदर्शनं कार्य्यमिति शेषः ॥५७ ॥
दिव्यावलम्बनं मिथ्यासल्लापं धैर्य्यवर्द्धनम् । इमे उपाया मध्यस्थकुट्टिनीमायिनां CC - 0. JK Sanskrit Academy, Jammu. Digitized by 53 Hollab Foundation
पृष्ठ 517
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः ९ २७ अन्वयः— मध्यस्थकुट्टिनीमायिनां दिव्यावलम्बनं मिथ्यासल्लापं धैर्यवर्द्धनम् – इमे उपायाः मताः ॥ ५८ ॥
व्याख्या — मध्यस्थानाम् = उदासीनानां जनानाम्, कुट्टिनीनाम् = सञ्चारिकानाम्, मायिनाम् = कपटिनाम्, दिव्यस्य = शपथस्य, अवलम्बनम् = आश्रयणम्, मिथ्यासल्लापम् = असत्यवार्त्ता-लापम्, धैर्य्यवर्द्धनम् = सन्तोषवृद्धिकरणम्, इमे = युक्तयः, मताः = कथिताः ॥ ५८ ॥
हिन्दी – मध्यस्थ, कुट्टिनी और धूर्त लोगों को शपथ का अवलम्बन, मनगढन्त बातें करना और धैर्य बँधाना — ये सभी उपाय इष्ट होते हैं ॥ ५८ ॥
दिव्येति । मध्यस्थानां कुट्टिनीप्रभृतीनां मायिनां कपटिनां कार्य्ययोजकानामित्यर्थः, दिव्यस्य शपथस्य अवलम्बनं मिथ्यासल्लापः असत्यशिष्टालापः धैर्य्यवर्द्धनं सन्तोषवृद्धिकरणञ्च इमे उपायाः मताः इष्टाः ॥ ५८ ॥
यो नात्मगोपने युक्ति चिन्तयेत् स पशोर्जङः ।
जारसङ्गोपने छद्म संश्रयन्ति स्त्रियोऽपि च ॥ ५ ९ ॥
अन्वयः — यः आत्मगोपने युक्ति न चिन्तयेत् सः पशोः जडः । स्त्रियः अपि जारसङ्गोपने छद्म संश्रयन्ति ॥ ५ ९ ॥ व्याख्या — यः = पुरुषः, आत्मनः = स्वात्मानम्, गोपने = संरक्षणे, युक्तिम् = उपायः, न = नहि, चिन्तयेत् = विचारयेत्, सः = = ' एवंविधो जनः, पशोः = पश्वपेक्षयाऽपि, जडः = = मूर्खोऽस्ति । यतः, स्त्रियोऽपि = ज्ञानहीनाः नार्योऽपि, जारस्य = उपपतेः, सङ्गोपने = अन्तर्धाने, छद्म = कपटम्, संश्रयन्ति = आश्रयन्ति ॥ ५ ९ ॥ हिन्दी – जो अपनी रक्षा के लिए अपना उपाय नहीं सोचता, वह पशु से भी बदतर जड़ है । क्योंकि अज्ञानी और वे स्त्रियाँ भी अपने जारपति को छिपाने में छल का सहारा लेती हैं ॥५ ९ ॥ नेति । यः आत्मनः गोपने युक्तिं न चिन्तयेत् सः अनात्मगोपनार्थीत्यर्थः, पशोः पशुमपेक्ष्य पश्वपेक्षयापि अज्ञ इत्यर्थः । स्त्रियः अपि जारस्य उपपतेः सङ्गोपने छद्म छलं संश्रयन्ति ॥५ ९ ॥
युक्तिश्छलात्मिका प्रायस्तथान्या सत्यरूपिका ।
यश्छद्मचारी भवति तस्मिन् छद्म समाचरेत् ॥ ६० ॥
अन्वयः - छलात्मिका प्रायः युक्तिः अन्या सत्यरूपिका । यः छद्मचारी भवति तस्मिन् छद्म समाचरेत् ॥ ६० ॥
व्याख्या — युक्तिः = द्विधा - प्रायः = अनेकशः, छलात्मिका = वञ्चनात्मिका, अन्या = अपरा, सत्यरूपिका = तथ्यात्मिका, यः = पुरुषः, छद्मचारी = कापटिकः, भवति = अस्ति, तस्मिन् = मायिके जने, छद्म = छलम्, समाचरेत् = संश्रयेत् ॥ ६० ॥
हिन्दी — सफलता के लिए दो तरह की युक्तियाँ बतलाई गयी हैं वञ्चनात्मक और तथ्यपरक ।
जो कपटाचारी है, उसके लिए छलात्मक युक्ति का ही प्रयोग करना चाहिए ॥ ६० ॥
युक्तिरिति । युक्तः द्विधा प्रायः बाहुल्येन छलात्मिका कपटरूपा, अन्या अपरा सत्यरूपिका सत्यात्मिका इत्यर्थः । यः छद्मचारी कपटाचारः भवति तस्मिन् जने छद्म कपटं समाचरेत् ॥६० ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 518
पाठ पढ़ें पाठ छिपाएँ
९ २८ शुक्रनीति:
अन्यथा शीलनाशाय महतामपि जायते ।
अस्ति बुद्धिमतां श्रेणिर्न त्वेको बुद्धिमानतः । ६१ ॥
देशे काले च पुरुषे नीतिं युक्तिमनेकधा ।
कल्पयन्ति च कुशला दृष्ट्वा रुद्धान्तु तात्त्विकीम् ॥ ६२ ॥
अन्वयः — अन्यथा महतामपि शीलनाशाय जायते, किञ्च बुद्धिमतां श्रेणिः अस्ति न तु एकः बुद्धिमान् । अतः कुशलाः तात्त्विकीं युक्तिं रुद्धां दृष्ट्वा तु देशे काले च अनेकधा नीतिं युक्तिञ्च कल्पयन्ति ॥ ६२ ॥
व्याख्या — अन्यथा = इतरथा, छद्म = छलम्, महतामपि = श्रेष्ठजनानामपि, शीलनाशाय = चरित्रविनाशाय, जायते = भवति, किञ्च, बुद्धिमताम् = ज्ञानिनाम्, श्रेणिः = समूहः, अस्ति = भवति, न तु एकः = अद्वितीयः एव । अतः = अस्मात् कारणात् कुशलाः = चतुराः जनाः, तात्त्विकीम् = तथ्यात्मिकाम्, युक्तिम् = उपायम्, रुद्धाम् = स्तम्भिताम्, दृष्ट्वा = अवलोक्य, देशे = स्थाने, काले = समये, च, अनेकधा = बहुविधाम्, नीतिम् = नयम्, युक्तिञ्च = उपायञ्च, कल्पयन्ति = सृजन्ति ॥ ६१-६२ ॥ हिन्दी — ऊपरलिखित स्थिति से भिन्न स्तर पर छल का प्रयोग बड़े लोगों के चरित्र का हनन कर देता है | क्योंकि बुद्धिमानों का समूह होता है, कोई अकेला तो बुद्धिमान् होता नहीं । अतः चतुर लोग जहाँ तथ्यपरक युक्ति को असफल होते देखते हैं, वहाँ वे देश, काल और पात्र के अनुसार नीति और युक्ति की कल्पना कर लेते हैं॥६१-६२ ॥ अन्यथेति । देशे इति । अन्यथा उक्तवैपरीत्ये छद्म समाचरणं महतामपि शीलनाशाय चरित्रविनाशाय जायते । किञ्च बुद्धिमतां श्रेणिः समूहः अस्ति न तु एक एव बुद्धिमान् अस्तीत्यर्थः । अतः अस्मात् कारणात् कुशला निपुणा जनाः तात्त्विकीं सत्यरूपिकां युक्ति रुद्धां न्यक्कृताम् अफलामित्यर्थः, दृष्ट्वा देशे काले पुरुषे पात्रे इत्यर्थः च अनेकधा बहुविधां नीतिं युक्तिञ्च कल्पयन्ति रचयन्ति ॥ ६१-६२ ॥ मन्त्रौषधिपृथग्वेशकालवागर्थसंश्रयात् 1 छद्म सञ्जनयन्तीह मायासु कुशला जना: ॥ ६३ ॥
अन्वयः — इह मायासु कुशलाः जनाः मन्त्रौषधिपृथग्वेशकालवागर्थसंश्रयात् छद्म सञ्जनयन्ति ॥ ६३ ॥
व्याख्या — इह = संसारे, मायासु = प्रवञ्चनेषु, कुशलाः = चतुराः जनाः, मन्त्राणाम् = - विचार- 1 णानाम्, औषधीनाम् = भैषज्यानाम्, पृथक् = भिन्नानाम्, वेशानाम् = परिच्छदानाम्, कालानाम् समयानाम्, वाचाम् = वाणीम्, अर्थानाम् = धनानाम्, च, संश्रयात् = आश्रयणात्, छद्म = कपटम्, सञ्जनयन्ति = उत्पादयन्ति ॥ ६३ ॥
हिन्दी — इस संसार में कपटी व्यक्ति मंत्र, औषधि, वेष, समय, बोली और धन का आवश्यकतानुसार अवलम्बन कर छल का प्रयोग करते हैं ॥ ६३ ॥
मन्त्रेति । इह जगति मायासु कपटाचारेषु कुशला निपुणा जनाः मन्त्राणाम् औषधीनां पृथक् विभिन्नानां वेशानां परिच्छदानां कालानां वाचाम् अर्थानाञ्च संश्रयात् छद्म छलं सञ्जनयन्ति उत्पादयन्ति ॥ ६३ Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 519
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः ९ २ ९
लोकेऽधिकारिप्रत्यक्षं विक्रीतं दत्तमेव वा ।
वस्त्रभाण्डादिकं क्रीतं स्वचिह्न रङ्कयेच्चिरम् ॥ ६४ ॥
अन्वयः — लोके विक्रीतं वस्त्रभाण्डादिकं दत्तं तथा क्रीतम् अधिकारिप्रत्यक्षं स्वचिह्नैः चिरम् अङ्कयेत् ॥ ६४ ॥
व्याख्या — लोके = इह संसारे, विक्रीतम् = विपणायितम्, वस्त्रभाण्डादिकम् = वसनपात्रा-दिकम्, दत्तम् = पात्रसात्कृतं वस्तु, तथा क्रीतम् = क्रयीकृतम्, वस्त्रभाण्डादिकम्, अधिकारिणाम् = विक्रेतॄणां, दातृणां तथा क्रेतृणाञ्च, प्रत्यक्षम् = समक्षम्, स्वचित्रैः -- स्वस्य = आत्मनः, चिनैः = चिह्नविशेषैः, चिरम् = चिरकालव्यापिनम्, यथा स्यात्, अङ्कयेत् = चिह्नयेत् ॥ ६४ ॥
हिन्दी — लोक में वस्त्र, बर्तन प्रभृति बेची गई, दान दी गई एवं खरीदी गई वस्तु पर उनके अधिकारी विक्रेता, दाता एवं क्रेता के सामने ही अपनी टिकाऊ मुहर लगा दे ॥ ६४ ॥
लोके इति । लोके जगति विक्रीतं वस्त्रभाण्डादिकं दत्तं पात्रसात्कृतं वस्तु तथा क्रीतं वस्त्रभाण्डादिकम् अधिकारिणां विक्रेतॄणां दातृणां क्रेतॄणाञ्च प्रत्यक्षं स्वचिह्नेः आत्मचिह्नैः चिरं स्थायिरूपं तथा अङ्कयेत् अङ्कितं कुर्य्यात् भाविविसंवादनिराकरणार्थमिति भावः ॥६४ ॥
स्तेनकूटनिवृत्त्यर्थं राजज्ञातं समाचरेत् ।
जडान्धबालद्रव्याणां दद्याद् वृद्धिं नृपः सदा ॥ ६५ ॥
अन्वयः - - स्तेनकूटनिवृत्त्यर्थं राजज्ञातं समाचरेत् । नृपः जडान्धबालद्रव्याणां सदा वृद्धिं दद्यात् ॥ ६५ ॥
व्याख्या — स्तेनानाम् = तस्कराणाम्, कूटस्य = मायायाः, निवृत्त्यर्थम् = निवारणाय, सकल-क्रीतादिकम्, राजज्ञातम् - राज्ञः = नृपस्य, ज्ञातम् = ज्ञातसारेण, क्रीतादिकम्, समाचरेत् = कुर्यात् । नृपः = राजा, जडानाम् = निश्चेष्टाणाम्, अन्धानाम् = नेत्रहीनानाम्, बालानाम = बालकानाम्, यानि द्रव्याणि = धनानि नृपे न्यस्तानि तेषाम् = द्रव्याणाम्, सदा = = सर्वदा, वृद्धिम् [ = लाभः दद्यात् = प्रयच्छेत् ॥ ६५ ॥
हिन्दी — चोरी के माल बिकने न पाये, इसलिए इसकी सूचना राजा को मिलनी चाहिए । जड़ अर्थात् निष्क्रिय अंधें एवं बालकों का धन जो राजा के पास हो, उसका सूद राजा को देना चाहिए ॥ ६५ ॥
स्तेनेति । स्तेनानां चौराणां कूटस्य कपटस्य निवृत्त्यर्थं निवारणाय सर्वं क्रीतादिकं राजज्ञातं समाचरेत् राज्ञः ज्ञातसारेण क्रीतादिकं कुर्य्यादित्यर्थः । नृपः जडानाम् अन्धानां बालानां शिशूनाञ्च यानि द्रव्याणि धनानि राजनि न्यस्तानीति भावः तेषां सदा वृद्धिं दद्यात् ॥ ६५ ॥
स्वीया तथा च सामान्या परकीया त स्त्री यथा ।
त्रिविधो भृतकस्तद्वदुत्तमो मध्यमोऽधमः ॥ ६६ ॥
अन्वयः - स्त्री स्वीया सामान्या परकीया चेति त्रिविधा, तथा भृतकः उत्तमः मध्यमः अधमश्चेति त्रिविधः ॥ ६६ ॥
व्याख्या - स्त्री = नारी, स्वीया = स्वकीया, सामान्या = गणिकादयः, परकीया = अन्य-जनस्य पत्नी, चेति त्रिविधा = त्रिप्रकारिका, तथा = तेनैव रूपेण, भृतकः = सेवकः, उत्तमः = = श्रेष्ठः, मध्यमः - साधारणः, अधम: = - नीचश्चेति, त्रिविधः = त्रिप्रकारको भवति ॥ ६६ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 520
पाठ पढ़ें पाठ छिपाएँ
९ ३२ शुक्रनीतिः
सम्पाद्यते न पूर्वं हि नापरं लभ्यते यतः ।
कृती तत् कुरुते नित्यं यत् समाप्तिं व्रजेत् सुखम् ॥ ७२ ॥
अन्वयः — यतः पूर्वं हि न सम्पाद्यते अपरं न लभ्यते तत् कृती तत् नित्यं कुर्यात् यत् समाप्ति व्रजेत् ॥७२ ॥
व्याख्या - यतः = एकदैव बहुकार्यारम्भात्, न = नहि, सम्पाद्यते = निष्पाद्यते, पूर्वम् = प्रथमारब्धम्, अपरम् = अन्यारब्धं कार्य्यम्, न = नहि, लभ्यते = उपलब्धो भवति, तत् = तस्मात् कारणात्, कृती = पटुजनः, नित्यम् = सततम्, तत् = कार्यम्, कुर्यात् = निष्पादयेत्, यत् = कार्यम्, सुखम् = सहजम्, समाप्तिम् = निःशेषताम्, व्रजेत् = गच्छेत् ॥७२ ॥
हिन्दी — हाथ में लिया काम जब तक पूरा न हो जाय तब तक दूसरा काम शुरू नहीं करना चाहिए । क्योंकि दूसरा काम शुरू करने से पहला समाप्त तो नहीं ही होगा, दूसरा काम भी अधर में लटक जायेगा । अतः बुद्धिमान् व्यक्ति सदा उसी काम को प्रारम्भ करते हैं जो सहज भाव से सम्पन्न हो जाय ॥ ७२ ॥
सम्पाद्यते इति । यतः युगपद्बहुकार्य्यारम्भात् पूर्वं प्रथममारब्धमित्यर्थः, हि अपि अत्र हिशब्दोऽप्यर्थः । न सम्पाद्यते न निष्पाद्यते अपरं द्वितीयञ्च न लभ्यते न समाप्यते तत् तस्मात् कृती कार्य्यकुशलः जनः सततं तत् कुर्य्यात् यत् सुखं यथा तथा समाप्तिं व्रजेत् ॥७२ ॥
यदि सिद्ध्यति येनार्थः कलहेन वरस्तु सः ।
अन्यथायुर्धनसुहृद्यशोधर्महरः सदा ॥ ७३ ॥
अन्वयः— येन कन यदि अर्थः सिद्ध्यति सः वरः, अन्यथा सदा आयुर्धनसुहृद्यशोधर्म-हरः ॥ ७३ ॥
व्याख्या— येन == विवादेन, यदि = चेत्, अर्थ: - प्रयोजनम्, सिद्ध्यति = पूर्णो भवति, सः = कलहः, वरः = - श्रेष्ठः, अन्यथा = इतरथा, आयुषः = जीवितस्य, धनस्य = द्रव्यस्य, सुहृदः = मित्रस्य, धर्मस्य = पुण्यस्य, च, हरः = विनाशको भवति ॥ ७३ ॥
हिन्दी — जिस झगड़े से अपना कोई मतलब सधता हो तो वह जरूर करना चाहिए । किन्तु निरर्थक झगड़े से आयु, धन, मित्र, धर्म तथा यश की हमेशा हानि होती है ॥ ७३ ॥
यदीति । येन कलहेन यदि अर्थः सिद्ध्यति, सः कलहः वरः श्रेष्ठः, अन्यथा अर्थासिद्धौ इत्यर्थः, आयुषः धनस्य सुहृदः धर्मस्य च हरः नाशकः भवति ॥७३ ॥
ईर्ष्या लोभो मदः प्रीतिः क्रोधो भीतिश्च साहसम् ।
प्रवृत्तिच्छिद्रहेतूनि कार्य्ये सप्त बुधा जगुः ॥ ७४ ॥
अन्वयः— ईर्ष्या लोभः मदः प्रीतिः क्रोधः भीतिः साहसं च एतानि सप्त कार्ये प्रवृत्तिच्छिद्र-हेतूनि बुधाः जगुः ॥७४ ॥
व्याख्या — ईर्ष्या = द्वेषः, लोभः = लिप्सा, मदः = गर्वः, प्रीति:: - = प्रेम, क्रोधः = कोप:, भीतिः = भयम्, साहसम् = निर्भीकता, च, एतानि = पूर्वोक्तानि सप्त, कार्ये = कृत्ये, प्रवृत्तेः कार्यनिवाहे, छिद्रस्य = दोषस्य, हेतूनि = कारणानि, बुधाः = विबुधाः, जगुः = कथयन्ति गायन्ति चेति ॥७४ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA