शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 71–80
शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 71–80
पृष्ठ 71
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य द्वितीयं प्रकरणम् ४८३
अजालगर्भ सवर्णं रेखाविन्दुविवर्जितम् ।
सत्कोणं सुप्रभं रत्नं श्रेष्ठं रत्नविदो जगुः ॥ ४ ९ ॥
अन्वयः — अजालगर्भं सद्वर्णं रेखाविन्दुविवर्जितं सत्कोणं सुप्रभं रलं रत्नविदः श्रेष्ठं जगुः ॥ ४ ९ ॥ व्याख्या — अजालगर्भम् = अन्तर्जालरहितम्, सद्वर्णम् = सुकान्तिसम्पन्नम्, रेखाविन्दु-विवर्जितम् = रेखादिहीरकदोषरहितम्, सत्कोणम् = सुष्ठुकोणयुक्तम्, सुप्रभम् = सुकान्तिमयम्, रत्नम् = मणिः, रत्नविदः = रत्नविशेषज्ञः, श्रेष्ठम् = उत्कृष्टम्, जगुः = कथितवन्तः ॥ ४ ९ ॥ हिन्दी — जिसके भीतर किसी तरह की जाली न हो, अच्छे रंग का, रेखा एवं विन्दु जैसे रत्नदोषों से रहित, आकर्षक कोणों वाला, अति कान्तियुक्त रत्नों को जौहरियों ने श्रेष्ठ रत्न कहा है ॥ ४ ९ ॥ अजेति । अजालगर्भं सद्वर्णं रेखेति विन्दुभिश्च विवर्जितं सत्कोणम् उत्तमकोणविशिष्टं सुप्रभं समुज्ज्वलं रत्नं, रत्नविदः रत्नतत्त्वज्ञाः जनाः श्रेष्ठं जगुः गीतवन्तः ॥४ ९ ॥
शर्कराभं दलाभञ्च चिपिटं वर्त्तुलं हि तत् ।
वर्णाः प्रभाः सिता रक्ताः पीतकृष्णास्तु रत्नजा: ॥ ५० ॥
अन्वयः – तत् शर्कराभं च दलाभं चिपिटं तथा वर्त्तुलं रत्नजाः वर्णाः प्रभाः सिताः रक्ताः पीतकृष्णाश्च ॥ ५० ॥
व्याख्या – तत् = रत्नम्, शर्कराभम् = शर्कराच्छविः, च = पुनः, दलाभम् = किसलयकान्तिः, चिपिटम् = समरेखः, तथा = तेनैव प्रकारेण, वर्तुलम् = चक्राकारम्, रत्नजाः = मणिजा:, वर्णाः = रङ्गाः, प्रभाः = कान्तय, सिताः = शुक्लवर्णाः, रक्ताः = - लोहिताः, पीताः = हरिद्राभाः, च = पुनः, कृष्णाः = कृष्णवर्णाः ॥ ५० ॥
हिन्दी - वह रत्न शक्कर एवं किसलय वर्ण का तथा कोई गोल या कोई चपटा होता है । इन रत्नों के वर्ण की कान्ति श्वेत, श्याम, रक्त और पीत होती हैं ॥ ५० ॥
शर्कराभमिति । तत् रत्नं शर्कराभं शर्कराच्छवि, दलाभं पत्रकान्तिः, चिपिटं चिपिटाकारं तथा वर्त्तुलञ्च । रत्नजा मणिजा वर्णाः प्रभाश्च सिताः श्वेताः रक्ताः पीताः कृष्णाश्च ॥ ५० ॥
यथावर्णं यथाच्छायं रत्नं यद् दोषवर्जितम् ।
श्रीपुष्टिकीर्त्तिशौर्य्यायुः करमन्यदसत् स्मृतम् ॥५१ ॥
अन्वयः — यत् रलं यथावर्णं यथाच्छायं दोषवर्जितं तत् श्रीपुष्टिकीर्त्तिशौर्यायुःकरम् अन्यद् असत् स्मृतम् ॥ ५१ ॥
व्याख्या — यद्रलम् = यन्मणिः यथावर्णम् = वर्णानुरूपम्, यथाच्छायम् = = कान्तियुक्तम्, दोषवर्जितम् = दोषरहितम्, निर्दुष्टम्, तद्रलम्, श्रीकीर्तिशौर्य्यायुःकरम् — श्रीकरम् = लक्ष्मीवृद्धिकरम्, पुष्टिकरम् = संवर्द्धनार्थम्, कीर्त्तिकरम् = यशोवर्द्धनार्थम्, शौर्यकरम् = वीरत्वाय, आयु करम् : = जीवनदायकञ्च भवति, अन्यत् = एतद्भिन्नम् असत् = दुष्टः, स्मृतम् = कथितम् ॥५१ ॥
हिन्दी — अपने - अपने रंग तथा कान्ति से युक्त तथा दोषमुक्त जो रत्न होता है, वही लक्ष्मी, CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 72
पाठ पढ़ें पाठ छिपाएँ
शुक्रनीतिः ४८४ पुष्टि, कीर्त्ति, वीरता या आयु बढ़ाने वाला होता है । इससे भिन्न रत्न दुष्ट होता है तथा बुरा फल देने वाला कहा गया है ॥ ५१ ॥
यथेति । यत् रत्नं यथावर्णं वर्णेषु यथाच्छायं कान्तिषु दोषवर्जितं निर्दोषं तत् श्रीपुष्टिकीर्त्तिशौर्य्यायुःकरं श्रीवृद्धिकरं पुष्टिवर्द्धनं कीर्त्तिकरं शौर्य्यस्य आयुषश्च वर्द्धकम् । अन्यत् तद्भिन्नम् असत् स्मृतम् ॥ ५१ ॥
वर्णमाक्रमते छाया प्रभा वर्णप्रकाशिनी ॥ ५२ ॥
अन्वयः — छाया वर्णम् आक्रमते, प्रभा वर्णप्रकाशिनी ॥५२ ॥
व्याख्या — छाया = छविः, वर्णम् = रत्नस्वरूपम्, आक्रमते = परिवेष्टयति, प्रभा = तस्य_च कान्तिः, वर्णप्रकाशिनी = स्वरूपद्योतिनी भवति ॥ ५२ ॥
हिन्दी — छाया रत्न की कान्ति को चमकाती है तथा प्रभा उसे प्रकाशित करती है ॥ ५२ ॥
वर्णमिति । छाया कान्तिः वर्णम् आक्रमते उज्ज्वलयति, प्रभा च कान्तिश्च वर्णप्रकाशिनी भवति ॥ ५२ ॥
पद्मरागस्तु माणिक्यभेदः कोकनदच्छविः ।
न धारयेत् पुत्रकामा नारी वज्रं कदाचन ॥ ५३ ॥
अन्वयः — पद्मरागस्तु मणिक्यभेदः कोकनदच्छविः । पुत्रकामा नारी कदाचन वज्रं न धारयेत् । व्याख्या — पद्मरागस्तु = शोणरलन्तु, माणिक्यभेदः – मणिक्यस्य = शोणरत्नस्य एव, भेदः = प्रकारः, स च रत्नः, कोकनदच्छवि. —– कोकनदस्य = रक्तोत्पलस्य, छविः = कान्तिः, यस्यासौ, पुत्रकामा = पुत्रार्थिनी नारी, कदाचन = कथमपि, वज्रम् = हीरकम्, न = = नहि, धारयेत् = धारणं कुर्यात् ॥ ५३ ॥
हिन्दी — पद्मराग तो माणिक का ही भेद होता है, इसका रंग लाल कमल की तरह होता है । पुत्र की कामना रखने वाली नारी कभी भी हीरा न धारण करे ॥ ५३ ॥
पद्मराग इति । पद्मरागस्तु माणिक्यस्य भेदः विशेषः, स च कोकनदच्छविः रक्तोत्पलकान्तिः ‘ रक्तोत्पलं कोकनदमि’त्यमरः । पुत्रकामा पुत्रार्थिनी नारी कदाचन वज्रं हीरकं न धारयेत् ॥ ५३ ॥
कालेन हीनं भवति मौक्तिकं विद्रुमं धृतम् ।
गुरुत्वात् प्रभया वर्णाद् विस्तारादाश्रयादपि ॥ ५४ ॥
अन्वयः — मौक्तिकं विद्रुमं धृतं कालेन गुरुत्वात् प्रभया वर्णात् विस्तारात् आश्रयात् हीनं भवति । व्याख्या- – मौक्तिकम् = शौक्तिकम्, विद्रुमम् = प्रवालः, धृतम् = परिधारितम्, कालेन: = कालक्रमेण, गुरुत्वात् = तोलात्, प्रभया = कान्त्या, वर्णात् = स्वरूपात्, विस्तारात् = आयामात्, आश्रयात् = आलम्बात्, हीनम् = निकृष्टम्, भवति = जायते ॥५४ ॥
हिन्दी - मूंगा और मोती बहुत दिन तक धारण करने पर वजन, कान्ति, रंग, विस्तार और अवलम्बन के कारण खराब हो जाते हैं ॥ ५४ ॥
कालेनेति । मौक्तिकं विद्रुमञ्च धृतं परिहितं कालेन समयक्रमेण गुरुत्वात्, प्रभया वर्णात्, विस्तारात् तथा आश्रयात् उत्कृष्टाधारात् हीनं भवति ॥५४ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 73
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य द्वितीयं प्रकरणम् ४८५ आकृत्या चाधिमूल्यं स्याद्रत्नं यद्दोषवर्जितम् ।
नायसोल्लिख्यते रत्नं विना मौक्तिकविद्रुमात् ।
पाषाणेनापि च प्राय इति रत्नविदो जगुः ॥ ५५ ॥
अन्वयः — यद्रलम् आकृत्या दोषवर्जितं तत् अधिमूल्यं स्यात् । मौक्तिकविद्रुमात् विना रलं अयसा पाषाणेन च प्रायः न उल्लिख्यते इति रत्नविदः जगुः ॥५५ ॥
व्याख्या — यद्रलम् = यन्मणिः, आकृत्या = स्वरूपेण, दोपवर्जितम् = निर्दुष्टम्, तत् = रलम्, अधिमूल्यम् = अधिकमूल्यम् स्यात् = भवति । किञ्च विद्रुमात् = प्रवालात्, मौक्तिकात् = शौक्तिकात्, विना = विहाय, रत्नम् = मणिः, अयसा = लौहेन, पाषाणेन = उपलेन, च = पुनः, प्रायः = बहुशः, न = = नहि, उल्लिख्यते = उद्धृष्यते इति = एवम् रत्नविदः = मणिविशेषज्ञाः, जगुः = निगदन्ति स्म ॥५५ ॥
हिन्दी — दोष रहित रत्न की कीमत वजन के आधार पर अधिक होती है । मूंगे और मोती को छोड़कर अन्य रत्नों पर लोहे और पत्थर से घिसने पर प्रायः लकीर नहीं पड़ती है, ऐसा रत्न के पारखी जौहरियों का कहना है ॥ ५५ ॥
आकृत्येति । यत् रत्नम् आकृत्या आकारेण दोषवर्जितं तत् अधिमूल्यम् अधिकमूल्यं स्यात् भवति । किञ्च विद्रुमात् मौक्तिकाच्च विना विद्रुममौक्तिकभिन्नमित्यर्थः, रत्नम् अयसा लौहेन पाषाणेन च प्रायः न उल्लिख्यते उद्धृष्यते इति रत्नविदः जनाः जगुः गायन्ति स्म ॥५५ ॥
मूल्याधिक्याय भवति यद्रत्नं लघुविस्तृतम् ।
गुर्वल्पं हीनमौल्याय स्याद्रत्नं त्वपि सद्गुणम् ॥५६ ॥
अन्वयः - यद्रलं लघुविस्तृतं मूल्याधिक्याय भवति, यच्च गुर्वल्पं तत् सद्गुणम् अपि हीनमौल्याय स्यात् ॥५६ ॥
व्याख्या — यद्रलम् = यन्मणिः, लघु = अल्पभारः, अथ च विस्तृतम् = आकृत्या आयतः, तत् = रत्नम्, मूल्याधिक्याय = महार्घाय, भवति, यच्च गुरु = तौले भाराधिक्यम्, किञ्च आकारे, अल्पम् = क्षुद्रं भवति, तद्रलं सद्गुणमपि = उत्कृष्टगुणशालिनमपि, हीनमौल्याय = सुखक्रेयाय, स्यात् = भवेत् ॥ ५६ ॥
हिन्दी — उत्कृष्ट गुण वाला रत्न भी तौल में हलका और आकार में बड़ा हो तो वह कीमती होता है और जो तोल में वजनी और आकार में छोटा होता है, वह कम कीमत का होता है ॥ ५६ ॥
मूल्याधिक्यायेति । यत् रत्नं लघु अथ च विस्तृतं विशालं तत् मूल्याधिक्याय अधिकमूल्याय भवति । यच्च गुरुभारवत् अथ च अल्पं क्षुद्र तत् सद्गुणम् उत्कृष्टगुणमपि हीनमौल्याय अल्पमूल्यत्वाय स्यात् ॥ ५६ ॥
शर्कराभं हीनमौल्यं चिपिटं मध्यमं स्मृतम् ।
दलाभं श्रेष्ठमूल्यं स्याद् यथाकामात्तु वर्त्तुलम् ॥ ५७ ॥
अन्वयः — शर्कराभं हीनमूल्यं चिपिटं मध्यमं स्मृतम् । दलाभं श्रेष्ठमूल्यं वर्त्तुलं यथाकामात् स्यात् ॥ ५० ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 74
पाठ पढ़ें पाठ छिपाएँ
शुक्रनीतिः ४८६ व्याख्या — शर्कराभम् = शार्कककान्तिरत्नम्, हीनमूल्यम् = अल्पमूल्यकं भवति, चिपिटम् = सपाटरलम्, मध्यमम् = सामान्यमूल्यकं रत्नम्, स्मृतम् = कथितम्, दलाभम् = किसलय-कान्तिरलम्, श्रेष्ठमूल्यम् = बहुमूल्यम्, तथा वर्त्तुलम् = गोलाकारं. रत्नम्, यथाकामात् = क्रेतुर्विक्रेतुरिच्छावशात्, रत्नस्य मूल्यं स्यात् ॥ ५७ ॥
हिन्दी — शक्कर की तरह रंग वाला रत्न कम कीमत का होता है । चिपटा रत्न मध्यम दर्जे का होता है, इसकी कीमत सामान्य होती है, किसलय वर्णी रत्न कीमती होता है तथा गोलाकार रत्न खरीद - बिक्री करने वाले की इच्छा के अनुसार कम या ज्यादा कीमत का होता है ॥ ५७ ॥
शर्कराभमिति । शर्कराभं रत्नं हीनमूल्यं चिपिटं रलं मध्यमं मध्यममूल्यं स्मृतम् । दलाभं पत्रकान्ति रलं श्रेष्ठमूल्यं महामूल्यं तथा वर्त्तुलं यथाकामात् क्रेतुर्विक्रेतुश्च इच्छावशात् मूल्यवत् स्यात् ॥ ५७ ॥
न जरां यान्ति रत्नानि विद्रुमं मौक्तिकं विना ।
राजदौष्ट्याच्च रत्नानां मूल्यं हीनाधिकं भवेत् ॥ ५८ ॥
अन्वयः — विद्रुमं मौक्तिकं विना रत्नानि जरां न यान्ति । राजदौष्ट्यात् रत्नानां मूल्यं हीनाधिकं ` भवेत् ॥ ५८ ॥
व्याख्या – विद्रुमम् = प्रवालम्, मौक्तिकञ्च = शौक्तिकञ्च, विना = विहाय, रत्नानि = मणयः, जराम् = पुरातनत्वम्, न = नहि, यान्ति = अवाप्नुवन्ति । - नृपस्य, दौष्ट्यात् = दोषात्, रत्नानाम् = मणीनाम्, मूल्यम् = अर्घः, हीनम् = अल्पम् अधिकम् = बहुत्वञ्च भवेत् = स्यात् ॥ ५८ ॥
हिन्दी – मूंगा और मोती को छोड़कर शेष रत्नों पर पुराना होने का दोष नहीं होता है ।
राजा की गलती के कारण रत्नों की कीमत घट या बढ़ जाती है ॥ ५८ ॥
नेति । विद्रुमं प्रवालं मौक्तिकञ्च विना विद्रुममौक्तिकभिन्नानीत्यर्थः, रत्नानि जरां वार्द्धक्यं हीनावस्थामित्यर्थः, न यान्ति न प्राप्नुवन्ति । राज्ञः दौष्ट्यात् दोषात् रत्नानां मूल्यं हीनम् अधिकञ्च भवेत् ॥ ५८ ॥
मत्स्याहिशङ्खवाराहवेणुजीमूतशुक्तितः जायते मौक्तिकं तेषु भूरि शुक्त्युद्भवं स्मृतम् ॥ ५ ९ ॥ अन्वयः — मौक्तिकं मत्स्याहिशङ्खवाराहवेणुजीमूतशुक्तितः जायते । तेषु शुक्त्युद्भवं भूरि स्मृतम् ॥ ५ ९ ॥ व्याख्या- या - मौक्तिकम् = शौक्तिकम्, मत्स्यात् = मीनात्, अहे: = सर्पात् शङ्खात् = : कम्बोजात्, वाराहात् = शूकरात्, वेणुतः = कीचकात्, जीमूतात् = मेघात्, शुक्तितः = मुक्तामातुः, जायते = उत्पन्नो भवति । तेषु = रत्नेषु मध्ये, शुक्त्युद्भवम् = शुक्तिजम्, भूरि = अधिकञ्च, स्मृतम् = कथितम् ॥५ ९ ॥ हिन्दी - मछली, साँप, शंख, सूअर, बाँस, मेघ तथा सीप से मोती निकलता है । इसमें अधिकतर सीप से ही मोती निकलता है ॥ ५ ९ ॥ मत्स्येति । मौक्तिकं मत्स्यात्, अहेः सर्पात्, शङ्खात्, वराहात्, वेणुतः वंशात्, जीमूतात् मेघात्, शक्तितश्च जायते, तेषु मध्ये शुक्त्युद्भवं शुक्तिजं भूरि प्रचुरं स्मृतम् ॥ ५ ९ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 75
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य द्वितीयं प्रकरणम् ४८७ कृष्णं सितं पीतरक्तं द्विचतुःसप्तकञ्चुकम् । त्रिपञ्चसप्तावरणमुत्तरोत्तरमुत्तमम् ॥ ६० ॥
अन्वयः — मौक्तिकं कृष्णं सितं पीतरक्तं द्विचतुःसप्तकञ्चुकं त्रिपञ्चसप्तावरणम् उत्तरोत्तरम् उत्तमम् ॥ ६० ॥
व्याख्या— शुक्तिसम्भवं मौक्तिकम्, कृष्णम् = नीलाभम्, सितम् = भास्वरम्, पीतरक्तम्— पीतम् = हरिद्राभम्, रक्तम् = रक्तवर्णम् द्विचतुःसप्तकञ्चुकम् —द्विकञ्चुकम् = निर्मोकद्वय-युक्तम्, चतु: कञ्चुकम् = चतुःस्तरः, सप्तकञ्चुकम् = सप्तावरणम्, त्रिपञ्चसप्तावरणम् — त्रिकञ्चुकम् = • कञ्चुकत्रययुक्तम्, पञ्चकञ्चुकम् = पञ्चस्तरयुक्तम्, सप्तकञ्चुकम् = सप्तस्तरीयम्, उत्तरोत्तरम् = अनुपूर्वशः, उत्तमम् = उत्कृष्टम् ॥ ६० ॥
हिन्दी — मोती काला, सफेद, पीला एवं लाल रंग वाला; दो, चार या सात परत वाला या तीन, पाँच या सात स्तर वाला क्रमशः एक - दूसरे की अपेक्षा श्रेष्ठ होता है ॥ ६० ॥
कृष्णमिति । शुक्त्युद्भवं मौक्तिकं कृष्णं श्यामलं, सितं शुभ्रं, पीतरक्तं पीताभया युक्तलोहितवर्णं द्विचतुःसप्तकञ्चुकं कञ्चुकमावरणविशेषः, द्विकञ्चुकं चतुः कञ्चुकं सप्तकञ्चुकं त्रिपञ्चसप्तावरणं त्रिकञ्चुकं पञ्चकञ्चुकं सप्तकञ्चुकं वा भवति एतेषामुत्तरोत्तरम् उत्तमम् ॥ ६० ॥
कृष्णं सितं क्रमाद्रक्तं पीतन्तु जरठं विदुः ।
कनिष्ठं मध्यमं श्रेष्ठं क्रमाच्छुक्त्युद्भवं विदुः ॥ ६१ ॥
अन्वयः — शुक्त्युद्भवं क्रमात् कृष्णं कनिष्ठं सितं मध्यं रक्तं श्रेष्ठं पीतं जरठं विदुः ॥६१ ॥
व्याख्या — शुक्त्युद्भवम् = शौक्तिकम्मुक्ता, क्रमात् = क्रमशः, कृष्णम् = श्यामलम्, कनिष्ठम् = हीनम्, सितम् = श्वेताभम्, मध्यमम् = मध्यस्तरीयम्, रक्तम् = रक्तवर्णम्, श्रेष्ठम् = उत्कृष्टम्, पीतम् = हरिद्राभम्, जरठम् = वृद्धम्, रत्नविशेषज्ञाः, विदुः = जानन्ति ॥ ६१ ॥
हिन्दी – जौहरियों की जानकारी के अनुसार काले रंग का मोती निचले दर्जे का, सफेद रंग वाला सामान्य, लाल रंग वाला उत्तम तथा पीले रंग वाला पुराना माना गया ॥६१ ॥
कृष्णमिति । शुक्त्युद्भवं शुक्तिजं मौक्तिकं क्रमात् कृष्णं सितं रक्तं पीतं तथा जरठं विदुः जानन्ति मौक्तिकज्ञा इति शेषः । तच्च कनिष्ठं मध्यमं श्रेष्ठञ्च क्रमात् विदुः ॥ ६१ ॥
तदेव हि भवेद् वेध्यमवेध्यानीतराणि च ।
कुर्वन्ति कृत्रिमं तद्वत् सिंहलद्वीपवासिनः ॥ ६२ ॥
अन्वयः — तत् एव वेध्यम् इतराणि अवेध्यानि भवेत् । तद्वत् कृत्रिमं सिंहलद्वीपवासिनं कुर्वन्ति ॥ ६२ ॥
व्याख्या — तदेव = शुक्तिजं मौक्तिकमेव, वेध्यम् = वेधनीयम्, इतराणि = तद्भिन्नानि, अवेध्यानि = अच्छेदनानि, भवेत् = स्यात् । तद्वत् = शौक्तिकसदृशम्, कृत्रिमम् = अनैसर्गिकम्, सिंहलद्वीपवासिनः = सैंहलाः कुर्वन्ति = रचयन्ति ॥ ६२ ॥
हिन्दी — सीप के मोती में ही छेद किया जा सकता है, अन्य मोती में छेद नहीं हो सकता है । सिंहल देशवासी असली मोती के समान नकली मोती बनाते हैं ॥६२ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 76
पाठ पढ़ें पाठ छिपाएँ
४८८ शुक्रनीतिः
तदेवेति । तदेव मौक्तिकमेव वेध्यं वेधनीयम् इतराणि अन्यानि अवेध्यानि ।
सिंहलद्वीपवासिनः जनाः तद्वत् यथार्थसदृशं कृत्रिमं मौक्तिकं कुर्वन्ति ॥६२ ॥
तत्सन्देहविनाशार्थं मौक्तिकं सुपरीक्षयेत् ।
उष्णे सलवणस्नेहे जले निश्युषितं हि तत् ॥ ६३ ॥
व्रीहिभिर्मर्दितं नेयाद् वैवर्ण्यं तदकृत्रिमम् ।
श्रेष्ठाभं शुक्तिजं विद्यान्मध्याभं त्वितरद् विदुः ॥ ६४ ॥
अन्वयः — तत्सन्देहविनाशार्थं मौक्तिकं सुपरीक्षयेत् । तत् उष्णे सलवणस्नेहे जले निशि उषितं व्रीहिभिः मर्दितं तत् वैवर्ण्यं न इयात् । तत् श्रेष्ठाभम् अकृत्रिमं शुक्तिजं विद्यात्, मध्याभम् इतरत् विदुः ॥ ६३-६४ ॥ व्याख्या —– तत् = तेषु मौक्तिकेषु, सन्देहविनाशार्थम् – सन्देहस्य = संशयस्य, विनाशार्थम् = विघाताय, मौक्तिकम् = मुक्ताम्, सुपरीक्षयेत् = सुष्ठुतया विचारयेत् तत् = - शौक्तिकम्, उष्णे = तप्ते, सलवणस्नेहे = लवणतैलयुक्ते जले, निशि = रात्रौ, उषितम् = निक्षिप्तम्, तत्पश्चात्, व्रीहिभिः = धान्यैः, मर्दितम् = घर्षितम्, तत्, वैवर्ण्यम् = वैरूप्यम्, न = = नहि, इयात् = जायेत । तत् = रत्नम्, श्रेष्ठाभम् = उत्कृष्टकान्तिम्, अकृत्रिमम् = नैसर्गिकम्, शुक्तिजम् = शुक्तिसम्भवम्, विद्यात् = ज्ञेयम्, मध्याभम् = सामान्यकान्तिसम्पन्नम्, इतरत् = अन्यत्, विदुः = जानन्ति ॥ ६३-६४ ॥ हिन्दी — संदेह दूर करने के लिए मोती की जाँच ठीक से करनी चाहिए । गर्म पानी में नमक और तेल मिलकार रातभर उसमें छोड़ दे, अगली सुबह उसे उस पानी से निकालकर धान मिलाकर खूब रगड़े । रगड़ने के बाद यदि रंग बदल जाय तो मोती नकली, नहीं तो असली समझना चाहिए । उत्तम कान्ति वाला मोती असली और मध्यम कान्ति वाला नकली मोती होता है ॥६३-६४ ॥ तदिति । व्रीहिभिरिति । तेषु सन्देहविनाशार्थं मौक्तिकं सुपरीक्षयेत् । यत् मौक्तिकम् उष्णे उत्तप्ते सलवणस्नेहे लवणतैलसमन्विते जले निशि रात्रौ उषितं निक्षिप्तं पश्चात् व्रीहिभिः धान्यैः मर्दितं सत् वैवर्ण्यं वर्णविकृतिं न इयात् तत् श्रेष्ठाभम् उज्ज्वलप्रभम् अकृत्रिमं शुक्तिजं विद्यात् । मध्याभं मध्यविधप्रभायुक्तम् इतरत् कृत्रिमं विदुः जानन्ति ॥ ६३-६४ ॥ तुलाकल्पितमूल्यं स्याद्रलं गोमेदकं विना ॥ ६५ ॥
अन्वयः — गोमेदकं रत्नं विना तुलाकल्पितमूल्यं स्यात् ॥ ६५ ॥
व्याख्या —– गोमेदकं रत्नम् = राहुंरत्नम्, विना = विहाय, अन्यदखिलं रत्नम्, तुलया = भारानुसारेण, कल्पितम् = उद्भावितम्, मूल्यम् = पण्यः, स्यात् = भवेत् ॥ ६५ ॥
हिन्दी — गोमेद को छोड़कर शेष रत्नों का मूल्य तौल के अनुसार होता है ॥ ६५ ॥
तुलेति । गोमेदकं रलं विना अन्यत् रनं तुलया तुलादण्डेन कल्पितं मूल्यं यस्य तथाभूतं स्यात् तुलया अन्येषां मूल्यं कल्पनीयमित्यर्थः ॥ ६५ ॥
क्षुमाविंशतिभी रक्ती रत्नानां मौक्तिकं विना ।
रक्तित्रयं तु मुक्तायाश्चतुःकृष्णलकैर्भवेत् ॥ ६६ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 77
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य द्वितीयं प्रकरणम् ४८ ९ अन्वयः - – मौक्तिकं विना रत्नानां क्षुमाविंशतिभिः रक्तिः स्यात् । कृष्णलकैः तु चतुः मुक्तायाः रक्तित्रयं भवेत् ॥६६ ॥
व्याख्या – मौक्तिकम् = शौक्तिकम्, विना = विहाय, रत्नानाम् = अन्येषाम्मणीनाम्, क्षुमा-विंशतिभिः = विंशतिक्षुमाभिः रक्तिः = रक्तिका, स्यात् = भवेत्, चतुःकृष्णलकैः = चतुर्भिः परिमाणविशेषैः, मुक्तायाः = मौक्तिकस्य, रक्तित्रयम्, भवेत् = स्यात् ॥ ६६ ॥
हिन्दी — मोती को छोड़कर शेष रत्नों के लिए एक रत्ती बीस जौ की मानी जाती है तथा चार कृष्णलों की तीन रत्ती मोती होता है ॥ ६६ ॥
क्षुमेति । मौक्तिकं विना अन्येषां रत्नानां क्षुमाविंशतिभिः विंशतिक्षुमाभिरित्यर्थः, रक्तिः स्यात् । चतु: कृष्णलकैः चतुर्भिः कृष्णलकैः परिमाणविशेषैः मुक्तायाः रक्तित्रयं भवेत् ॥ ६६ ॥
चतुर्विंशतिभिस्ताभी रत्नटङ्कस्तु रक्तिभिः ।
टङ्कैश्चतुर्भिस्तोलः स्यात् स्वर्णविद्रुमयोः सदा ॥ ६७ ॥।
अन्वयः — चतुर्विंशतिभिः ताभिः रक्तिभिः रत्नटङ्कः चतुर्भिः टङ्कैः सदा स्वर्णविद्रुमयोः तोलः स्यात् ॥ ६७ ॥
व्याख्या — चतुर्विंशतिभिः = विंशत्यधिकचतसृभिः, ताभिः = = पूर्वोक्ताभिः, रक्तिकाभिः = रक्तिकापरिमाणेभ्यः, रत्नटङ्कः = चतुर्माषकात्मकः, चतुर्विंशतिरक्तिकात्मको वा रत्नतोलभेदः, चतुर्भिः = चतुःसंख्यकैः = माषात्मकतोलभेदैः, सदा = सर्वदा, स्वर्णस्य = कनकस्य, विद्रुमस्य प्रवालस्य च, तोल = भारः, स्यात् = भवेत् ॥ ६७ ॥
हिन्दी — रत्नों को तौलने के लिए चौबीस रत्तियों का एक रत्न होता है । सोने और मूंगे तौलने के लिए चार टकों का एक तोला होता है ॥ ६७ ॥
चतुरिति । चतुर्विंशतिभिः ताभिः रक्तिभिः रत्नटङ्कः भवेदिति शेषः । चतुर्भिः टङ्कैः सदा स्वर्णस्य विद्रुमस्य च तोलः स्यात् ॥६७ ॥
एकस्यैव हि वज्रस्य त्वेकरक्तिमितस्य च सुविस्तृतदलस्यैव मूल्यं पञ्चसुवर्णकम् ॥ अन्वयः — एकरक्तिमितस्य एकस्यैव सुविस्तृतदलस्य वज्रस्य हि व्याख्या— एकरक्तिमितस्य = एकरक्तिकापरिमाणस्य्, परिमाणस्यैव, सुविस्तृतदल्स्य = आयतदलस्य, वज्रस्य = हीरकस्थ कम् — सुवर्णानाम् = काञ्चनानाम्, अशीतिरक्तिकस्वर्णानाम् भवति ॥ ६८ ॥
हिन्दी - मोटे दल वाले एक रत्ती के हीरे की कीमत पाँच दस माशे वजन की एक अशर्फी होती है ॥ ६८ ॥
एकस्येति । एकरक्तिमितस्य सुविस्तृतदलस्य एकस्यैव वज्रस्य सुवर्णानाम् अशीतिरत्तिकस्वर्णानां पञ्चकम् ॥६८ ॥
रक्तिकादलविस्ताराच्छ्रेष्ठं पञ्चगुणं यदि यथा यथा भवेन्यूनं हीनमौल्यं तथा तथा
।
६८ ॥
मूल्यं पञ्चसुवर्णकम् ॥ ६८ ॥
एकस्यैव = एकरक्तिकामात्र-, मूल्यम् = पणः, पञ्चसुवर्ण-पञ्चकम् = पञ्चसंख्यकम्, सोने की अशर्फी होती है । हीरकस्य मूल्यं पञ्चसुवर्णकं ॥। ६ ९ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 78
पाठ पढ़ें पाठ छिपाएँ
४ ९ ० शुक्रनीति: अन्वयः – यदि रक्तिकादलविस्तारात् श्रेष्ठं तदा पञ्चगुणम् । किञ्च यथा यथा न्यूनं तथा तथा हीनमूल्यं भवेत् ॥ ६ ९ ॥ व्याख्या– यदि रक्तिकादलविस्तारात्— रक्तिकायाः = गुञ्जायाः, दलात् = छदनात्, विस्तारात् = विशालात्, च, श्रेष्ठम् = उत्कृष्टम्, हीरकं भवति, तदा तस्य पूर्वोक्तात् पञ्चगुणं मूल्याधिक्यं भवति । किञ्च यथा यथा = येन प्रकारेण क्रमशः, न्यूनम् = गुञ्जापटलविस्तारादल्पं भवति, तथा = तेनैव क्रमेण, हीनमूल्यम् = अल्पमूल्यं भवेत् ॥६ ९ ॥ हिन्दी — जैसे - जैसे वजन और दल का विस्तार बढ़ता जायेगा, उसी अनुपात में ही TM कीमत पहले से पाँच गुणा अधिक बढ जायेगी । फिर जैसे - जैसे दल का विस्तार और र का वजन कम हो जायेगा, हीरे की कीमत भी उसी अनुपात में कम होगी ॥ ६ ९ ॥ रक्तिकेति । यदि रक्तिकादलविस्तारात् रक्तिकायाः दलात् विस्ताराच्च श्रेष्ठं वज्रं भवति तदा पञ्चगुणं पूर्वोक्तात् पञ्चगुणं मूल्यं भवति । किञ्च यथा यथा न्यूनं रक्तिकादलविस्तारादिति भावः, तथा हीनमौल्यं मूल्यहानिर्भवेदित्यर्थः ॥ ६ ९ ॥
अत्राष्टरक्तिको माषो दशमाषैः सुवर्णकः ।
स्वर्णस्य तत् पञ्चमूल्यं राजताशीतिकर्षकम् ॥ ७० ॥।
अन्वयः — अत्र अष्टरक्तिक: माषः, दशमाषः सुवर्णकः, राजताशीतिकर्षकं तत् स्वर्णस्य पञ्चमूल्यम् ॥ ७० ॥
व्याख्या — अत्र = अस्मिन् रत्नतोलनविषये, अष्टरक्तिकः = अष्टरक्तिकापरिमाणम्, माषः = • धानकः, भवेत्, दशमाषः -- दशभिः = दशसंख्याभिः, माषैः = हेमैः, एकः सुवर्णको भवति, राजताशीतिकर्षकम् = अशीतिराजरौप्यम्, स्वर्णस्य = सुवर्णमुद्रायाः, तत् = पूर्वोक्तम्, पञ्च-मूल्यम् = पञ्चानां सुवर्णमुद्रानाम्, मूल्यम् = पण्यो भवति ॥७० ॥
हिन्दी - रत्न के तौल में आठ रत्ती का एक माशा होता है, दस माशा की एक सोने की अशरफी होती है और पाँच अशरफी की कीमत अस्सी चाँदी के रुपये भर होती है ॥ ७० ॥
अत्रेति । अत्र रत्नतोलनविषये अष्टरक्तिकः माषः भवेत्, दशभिः माषैः सुवर्णकः । राजताशीतिकर्षकम् अशीतिकर्षपरिमितरजतं स्वर्णस्य सुवर्णस्य तत् प्रसिद्धं पञ्चमूल्यं पञ्चानां सुवर्णानां मूल्यमित्यर्थः ॥७० ॥
यथा गुरुतरं वज्रं तन्मूल्यं रक्तिवर्गतः ।
तृतीयांशविहीनन्तु चिपिटस्य प्रकीर्त्तितम् ॥ ७१ ॥
अन्वयः — वज्रं यथा गुरुतरं तन्मूल्यं रक्तिवर्गतः, चिपिटस्य प्रकीर्त्तितम् ॥ ७१ ॥
व्याख्या — वज्रम् = हीरकम्, यथा = यादृशम्, गुरुतरम् = महत्तरम्, तत् मूल्यम् = अर्घः, रक्तिवर्गतः = रक्तिकापरिमाणतः, भवतीति बोध्यम्, चिपिटस्य तृतीयांशविहीनं = तस्य हीरकस्य, = सपाटहीरकस्य, तृतीयांशविहीनम् — तृतीयांशेन = भागत्रयेण, हीनम् = रहितम्, रत्नस्य मूल्यम् प्रकीर्त्तितम् = कथितम् ॥७१ ॥
हिन्दी —– हीरा चाहे जितना भारी हो, उसकी कीमत उसके रत्ती - समूह के अनुसार होगी ।
चिपटे हीरे की कीमत एक तिहाई कम हो जाती है ॥७१ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 79
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य द्वितीयं प्रकरणम् ४ ९ १ यथेति । वज्रं यथा यादृशं गुरुतरं तन्मूल्यं तस्य मूल्यं रक्तिवर्गतः रक्तिगणनया वेदितव्यमिति शेषः, चिपिटस्य चिपिटाकारस्य वज्रस्य मूल्यं तृतीयांशेन विहीनं प्रकीर्त्तितम् ॥७१ ॥
अर्द्धन्तु शर्कराभस्य चोत्तमं मूल्यमीरितम् ।
रक्तिकायाश्च द्वे वज्रे तदर्द्धं मूल्यमर्हतः ॥ ७२ ॥
अन्वयः — शर्कराभस्य उत्तमं मूल्यम् अर्द्धम् ईरितम् । द्वे वज्रे रक्तिकायाः तत् अर्द्धं मूल्यम् अर्हतः ॥ ७२ ॥
व्याख्या – शर्कराभस्य = सिकताकणकान्त्याः, हीरकस्य, उत्तमं मूल्यम् = उत्कृष्टहीरक-मूल्यात्, अर्द्धम् = अर्द्धांशमेव, ईरितम् = प्रोक्तम् । द्वे = उभे, वन्ने = हीरके, रक्तिकायाः = गुञ्जायाः, हेतुना, गुजैकपरिमिते, तत् = तस्य उत्कृष्टहीरकस्य, अर्द्धम् = अर्द्धशमेव, मूल्यम् = पण्यः, अर्हतः = योग्यः ॥७२ ॥
हिन्दी - उत्तम हीरे के मूल्य से आधा मूल्य चीनी की तरह आकार वाले हीरे का होता है । दो ही यदि एक रत्ती के हों तो दोनों की कीमत उत्कृष्ट हीरे की कीमत की आधी होती है ॥७२ ॥
अर्द्धमिति । शर्कराभस्य वज्रस्य उत्तमं मूल्यम् अर्द्धम् उत्कृष्टवज्रमूल्यादिति भावः, ईरितं कथितम् । द्वे वज्रे रक्तिकायाः हेतुना एकरक्तिपरिमिते इत्यर्थः, तस्य उत्कृष्टस्य वज्रस्य अर्द्धं मूल्यम् अर्हतः ॥ ७२ ॥
तदर्द्धं बहवोऽर्हन्ति मध्या हीना यथा गुणैः ।
उत्तमार्धं तदर्द्धं वा हीरका गुणहानतः ॥
अन्वयः — यथागुणैः मध्याः हीनाः बहवः हीरकाः तदर्द्धम् अर्हन्ति ।
तदर्द्धम् वा अर्हन्ति ॥ ७३ ॥
व्याख्या — यथागुणैः = गुणानुरूपैः, मध्याः = मध्यमाः, हीनाः = हीरकाः = वज्रमणयः, तत् = तस्य मूल्यस्य, अर्द्धम् = अर्द्धभागम्, भवन्ति । हीरकाः = वज्रमणयः, गुणहानतः = विशिष्टगुणहासात् ७३ ॥ हीरकाः गुणहानतः उत्तमार्घं न्यूनाश्च, बहवः =: अनेकाः, अर्हन्ति = प्राप्तुं योग्याः उत्तमार्धम् = उत्कृष्टमूल्यम्, तत् = तस्योत्कृष्टमूल्यस्य, अर्द्धम् = अर्द्धभागमेव, अर्हन्ति = प्राप्तुं योग्याः भवन्ति ॥ ७३ ॥
हिन्दी - यदि गुणों के अनुसार साधारण या निकृष्ट बहुत से हीरे एकरत्ती के बराबर हों तो उसकी कीमत उससे भी आधी हो जायेगी । इसी प्रकार गुणहीनता के अनुसार हीरे की कीमत आधी या उससे भी आधी होती है ॥ ७३ ॥
तदर्द्धमिति । यथागुणैः उपयुक्तगुणैरित्यर्थः, मध्याः मध्यमाः, हीनाश्च बहवः हीरकाः तदर्द्ध तस्य मूल्यस्य अर्द्धम् अर्हन्ति । हीरकाः गुणहानतः गुणह्रासात् उत्तमार्धम् उत्तममूल्यं तदर्द्धं तस्य उत्तमस्य अर्द्ध वा अर्हन्तीति शेषः ॥ ७३ ॥
वर्गरक्तिषु सन्धार्य्यं कलानां नवकं पृथक् ।
तथांशपञ्चकं पूर्वं त्रिंशद्भिस्तद्भजेत् ततः ॥ ७४ ॥
लब्धं कलासु संयोज्यं कलानां षोडशांशकैः ।
मुक्तानां कल्पयेन्मूल्यं हीनमध्योत्तमं यथा ॥ ७५ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 80
पाठ पढ़ें पाठ छिपाएँ
४ ९ २ शुक्रनीतिः अन्वयः — वर्गरक्तिषु पृथक् कलानां नवकं तथा अंशपञ्चकं सन्धार्यम् । तत्र पूर्वं त्रिंशद्धिः भजेत्, ततः लब्धं कलासु संयोज्यम् । कलानां षोडशांशकैः मुक्तानां यथा हीनमध्योत्तमं मूल्यं कल्पयेत् ॥ ७४-७५ ॥ व्याख्या – वर्गरक्तिषु = समद्विहतासु, रक्तिषु = गुञ्जासु, पृथक् = भिन्नम्, कलानां नवकम् = नवकलेत्यर्थः, तथा अंशपञ्चकम् = पञ्चभागम्, सन्धार्यम् = संरक्ष्यम् । तत्र = वर्गरक्तिषु, पूर्वम् = कलानवकम् त्रिंशद्भिः भजेत् = विभक्तं कुर्यात्, ततः = तत्पश्चात्, लब्धम् = भागेन प्राप्तम्, कलासु संयोज्यम् । कलानां षोडशांशकैः = पोडशभिः, अंशैः = भागैः, मुक्तानाम् = शौक्तिकानाम्, हीनमध्योत्तमम् = निकृष्टसामान्योत्कृष्टानुसारेण, मूल्यम् = पणः, कल्पयेत् = चिन्तयेत्॥७४-७५ ॥ हिन्दी — मोती की रत्तियों के वर्ग में प्रत्येक रत्ती की नौ - नौ कला समझनी चाहिए । फिर उन रत्तियों को पाँच गुना करके तीस से भाग दे और जो लब्धि हो, उसे कलाओं में जोड़ दे । फिर उसमें सोलह का भाग दे और जो लब्धि हो, उससे मोती का मूल्य निर्धारित करना चाहिए । अथवा — निकृष्ट, सामान्य या उत्कृष्ट गुणों के अनुसार मोती की कीमत जाननी चाहिए ॥ ७४-७५ ॥ वर्गेति । लब्धमिति । वर्गरक्तिषु समद्विहतासु रक्तिषु पृथक् पृथक् कलानां नवकं नवकला इत्यर्थः, तथा अंशपञ्चकं सन्धार्य्यं रक्ष्यं, तत्र पूर्वं कलानवकमित्यर्थः, त्रिंशद्भिः भजेत् विभक्तं कुर्य्यात् । ततः लब्धं विभागलब्धं कलासु संयोज्यम् । कलानां षोडशांशकैः षोडशभिः अंशैः मुक्तानां हीनमध्यमोत्तमानुसारेणेत्यर्थः, मूल्यं कल्पयेत् ॥ ७४-७५ ॥ सहस्रादधिके मुक्तारक्तिवर्गशते शते कलात्रिंशतकं त्यक्त्वा शेषान्मूल्यं प्रकल्पयेत् अन्वयः — मुक्तारक्तिवर्गशते सहस्रादधिके शते कलात्रिंशतकं प्रकल्पयेत् ॥७६ ॥
व्याख्या — मुक्तायाः = मौक्तिकस्य, रक्तीनाम् = गुञ्जानाम्, यो शते = शतगुणिते, तस्मिन्, सहस्रात् = दशशतात्, अधिके = प्रभूते, ॥। ७६ ॥ त्यक्त्वा शेषात् मूल्यं वर्गः = समद्विघातः, तस्य, शते = शतसंख्यके सति, कलानाम् = षोडशचन्द्रांशानाम्, त्रिंशतकम् = त्रिंशदङ्कम, त्यक्त्वा = विहाय, तस्मात्, शेषात् = अवशिष्टात्, मूल्यम् = पणः, प्रकल्पयेत् = निर्धारयेत् ॥७६ ॥
हिन्दी - मोती तौल में जितनी रत्तियों का हो, उनकी संख्या का परस्पर गुणा करके वर्ग निकाल ले । अर्थात् चार रत्ती होने पर चार से ही गुणा कर सोलह रत्ती का वर्ग हुआ । उसे सौ से गुणा करने पर यदि संख्या हजार से अधिक हो तो उसमें तीस कला घटाकर जो शेष बच जाय, उसी पर उसका मूल्य निर्धारित करे ॥ ७६ ॥
सहस्रादिति । मुक्तारक्तीनां यो वर्गः समद्विघातः तस्य शते शतगुणिते तस्मिन्नित्यर्थः । सहस्रादधिके शते सति कलानां त्रिंशतकं त्यक्त्वा तस्मादिति भावः, शेषात् अवशिष्टात् मूल्यं प्रकल्पयेत् ॥७६ ॥
शतादूर्ध्वं रक्तिवर्गासो विंशतिरक्तिकाः । प्रतिशतात् तु वज्रस्य सुविस्तृतदलस्य च । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA