शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 81–90

शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 81–90

पृष्ठ 81

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 81 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य द्वितीयं प्रकरणम् ४ ९ ३ तथैव चिपिटस्यापि विस्तृतस्य च ह्रासयेत् ॥ ७७ ॥

शर्कराभस्य पञ्चाशच्चत्वारिंशच्च वैकतः ॥ ७८ ॥

अन्वयः — हसः सुविस्तृतदलस्य वज्रस्य शतात् रक्तिवर्गात् विंशतिरक्तिकाः विस्तृतस्य चिपिटस्यापि वज्रस्य प्रतिशतात् ऊर्ध्वं पञ्चाशत् रक्तिकाः शर्कराभस्य एकतः पञ्चाशत् वा चत्वारिंशत् रक्तिका ह्रासयेत् ॥७७-७८ ॥ व्याख्या -ह्रसः = ह्रासपटुः सुविस्तृतदलस्य = आयतछदनस्य, वज्रस्य = हीरकस्य, शतात् = शतसंख्यकात्, रक्तिवर्गात् – रक्तीनाम् = गुञ्जानाम्, वर्गात् = समद्विघातात्, विंशतिरक्तिकाः = विंशतिरक्तयः, विस्तृतस्य = विशालस्य, चिपिटस्यापि = सपाटस्यापि, वज्रस्य, प्रतिशतात्, ऊर्ध्वम् = उपरिष्टात् पञ्चाशत् रक्तिका: = गुञ्जाः, तथा शर्कराभस्य = शर्करातुल्यस्य वज्रस्य प्रतिशतात्, एकतः = एकस्मात् चत्वारिंशत् रक्तिका, ह्रासयेत् = ह्रासं कुर्यात् ॥७७-७८ ॥ हिन्दी — जो हीरा विशाल दल वाला या चिपटा होते हुए भी आयत दल वाला हो और सौ रत्ती से ऊपर वजन का हो तो प्रति सैकड़ा बीस रत्ती की कीमत घटाकर उसकी कीमत होगी और शक्कर वाले रंग के हीरे के लिए प्रति सैकड़ा चालीस या पच्चास रत्ती की कीमत घटाकर कीमत होती है ॥७७-७८ ॥ शतादिति । शर्कराभस्येति । ह्रसः ह्रासपटुः जनः सुविस्तृतदलस्य वज्रस्य शतात् रक्तिवर्गात् रक्तीनां वर्गात् समभिघातात् ऊर्ध्वं विंशतिरक्तिकाः, विस्तृतस्य चिपिटस्य चिपिटाकारस्य वज्रस्य प्रतिशतात् ऊर्ध्वं पञ्चाशत् रक्तिकाः तथा शर्कराभस्य शर्करासदृशस्य वज्रस्य प्रतिशतात् एकतः चत्वारिंशत् रक्तिका ह्रासयेत् न्यूनयेत् ॥ ७७-७८ ॥ रत्नं न धारयेत् कृष्णरक्तविन्दुयुतं सदा ॥ ७ ९ ॥ अन्वयः — कृष्णैः रक्तैश्च विन्दुभिर्युतं रत्नं सदा न धारयेत् ॥७ ९ ॥ व्याख्या – कृष्णैः = श्यामलैः, रक्तैश्च = लोहितैश्च विन्दुभिः, युक्तम् = विन्दुसमन्वितंम्, रत्नम् = मणिः, सदा = सर्वदा, न = नहि, धार्यम् = धारणं कुर्यात् ॥ ७ ९ ॥ हिन्दी — काले या लाल धब्वे वाले रत्न हमेशा धारण नहीं करना चाहिए ॥ ७ ९ ॥ रत्नमिति । कृष्णैः श्यामलैः रक्तैश्च विन्दुभिर्युतं रलं सदा न धारयेत् ॥७ ९ ॥

गारुत्मतं तूत्तमं चेन्माणिक्यं मूल्यमर्हतः ।

सुवर्णं रक्तिमात्रं चेद् यथा रक्तिस्तथा गुरु ॥ ८० ॥।

अन्वयः — रक्तिमात्रं गारुत्मतं माणिक्यञ्च रत्नम् उत्तमं चेत् तदा सुवर्णं मूल्यम् अर्हतः । यथा रक्तिः तथा गुरुः मूल्यं भवेत् ॥ ८० ॥

व्याख्या— रक्तिमात्रम् = गुञ्जापरिमितम्, गारुत्मतम् = हरिन्मणिः, माणिक्यञ्च = शोणरम्, पद्मरागो वा, रत्नम् = मणिः, उत्तमम् = श्रेष्ठम्, चेत् = यदि, तदा सुवर्णम् = सुवर्णमुद्रैकम्, मूल्यम् = पणः, अर्हतः = भवतः, यथा = यावती, रक्तिः = गुञ्जा, तथा = तादृश एव, गुरुः = अधिकमूल्यो भवति ॥ ८० ॥

हिन्दी – यदि पन्ना और पद्मराग दोनों उत्तम कोटि के हों तो दोनों की कीमत एक जैसी CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 82

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 82 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४ ९ ४ शुक्रनीतिः होती है । एक रत्ती पन्ना या पद्मराग की कीमत एक अशरफी । रत्ती के तौल के अनुसार ही इनकी कीमत निर्धारित की जाती है ॥ ८० ॥

गारुत्पतमिति । रक्तिमात्रं रक्तिपरिमितं गारुत्मतं माणिक्यञ्च रत्नम् उत्तमं चेत् तदा सुवर्णं मूल्यम् अर्हतः । यथा यावती रक्तिः तथा गुरु मूल्यं भवेदित्यर्थः ॥ ८० ॥

रक्तिमात्रः पुष्परागो नीलः स्वर्णार्घमर्हतः ।

चलत्रिसूत्रो वैदूर्य्यश्चोत्तमं मूल्यमर्हति ॥ ८१ ॥

अन्वयः — रक्तिमात्रः पुष्परागः नीलः स्वर्णार्द्धमर्हतः चलत्रिसूत्री वैदूर्यः उत्तमं वैदूर्यः उत्तमं मूल्यम् अर्हति ॥८१ ॥

व्याख्या — रक्तिमात्रः = गुञ्जापरिमितः, पुष्परागः = पीतस्फटिकः, नीलः = नीलमणिः, स्वर्णा-र्द्धमर्हतः– स्वर्णस्य = सुवर्णमुद्रायाः, अर्द्धम् = अर्द्धभागमेकम्, मूल्यम् = अर्थ:, अर्हतः = भवतः, चलत्रिसूत्र —–— चलन्ति = गच्छन्ति, त्रीणि = त्रिसंख्यकानि, सूत्राणि = रेखानि, यस्य तादृशः, वैदूर्यः = केतुरत्नम्, उत्तमम् = श्रेष्ठम्, मूल्यम् = अर्घः, अर्हति = योग्यो भवति ॥ ८१ ॥

हिन्दी – एक रत्ती का पुखराज या नीलम की कीमत आधा अशरफी अर्थात् पाँच मासा सोना होती है और जिसमें चलते हुए तीन धागे दिखलाई पड़े, ऐसे वैदूर्यमणि की कीमत ऊँचे दर्जे की होती है ॥८१ ॥

• रक्तिमात्र इति । रक्तिमात्रः रक्तिपरिमितः पुष्परागः नीलश्च स्वर्णस्य अर्घं मूल्यम् अर्हतः । चलन्ति त्रीणि सूत्राणि यस्य तादृशः वैदूर्य्यः उत्तमं मूल्यम् अर्हति ॥ ८१ ॥

प्रवालं तोलकमितं स्वर्णार्द्धं मूल्यमर्हति ।

अत्यल्पमूल्यो गोमेदो नोन्मानन्तु यतोऽर्हति ॥ ८२ ॥

अन्वयः — तोलकमितं प्रवालं स्वर्णस्य अर्द्ध मूल्यम् अर्हति । गोमेदः अत्यल्पमूल्यः, यतः उन्मानं मूल्यं न अर्हति ॥ ८७ ॥

व्याख्या — तोलकमितम् = षण्णवतिरक्तिपरिमाणम्, प्रवालम् = विद्रुमः, स्वर्णस्य = स्वर्णमुद्रायाः, अर्द्धम् = अर्द्धभागम्, मूल्यम् = पण्यः, अर्हति = योग्यो भवति । गोमेदः = राहुरत्नः, अत्यल्पमूल्यः = अत्यन्तस्वल्पमूल्यो भवति, यतः = यस्मात् कारणात्, अस्य गोमेदस्य, उन्मानम् = तोलनम्, न = - नहि, अर्हति = योग्यो भवति ॥८२ ॥

हिन्दी – एक तोला मूंगे के वजन की कीमत आधी अशरफी अर्थात् पाँच माशा सोना होती है । गोमेद की कीमत बहुत कम होती है, अतः उसे तौलकर बेचा नहीं जाता ॥८२ ॥

प्रवालमिति । तोलकमितं तोलकपरिमितं प्रवालं स्वर्णस्य अर्द्ध मूल्यम् अर्हति । गोमेदः अत्यल्पमूल्यः, यतः उन्मानं तोलनं न अर्हति ॥ ८२ ॥

संख्यातः स्वल्परत्नानां मूल्यं स्याद्धीरकाद्विना ।

अत्यन्तरमणीयानां दुर्लभानां च कामतः ।

भवेन्मूल्यं न मानेन तथातिगुणशालिनाम् ॥ ८३ ॥

अन्वयः - हीरकात् विना स्वल्परनानां संख्यातः मूल्यं स्यात् । अत्यन्तरमणीयानां दुर्लभानां च कामतः तथा अतिगुणशालिनां मानेन मूल्यं न भवेत् ॥ ८३ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 83

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 83 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य द्वितीयं प्रकरणम् ४ ९ ५ व्याख्या — हीरकात् = वज्रमणेः, विना = विहाय, स्वल्परनानाम् – स्वल्पानाम् = तुच्छानाम्, रत्नानाम् = मणीनाम्, संख्यातः = गणनां कृत्वा, मूल्यम् = अर्घः स्यात् = निर्धारितं भवेत् । अत्यन्तरमणीयानाम् = अतिसुरूपाणाम्, च = पुनः, दुर्लभानाम् = दुरधिगमानाम्, कामतः = इच्छानुसारेण, मूल्यं निर्धारितं भवेत्, तथा अतिगुणशालिनाम् = अत्यन्तगुणसम्पन्नानाम्, मानेन = तौलनेन, मूल्यम् = अर्घः, न नहि, स्यात् = भवेत् ॥ ८३ ॥

हिन्दी — हीरे को छोड़कर क्षुद्र रत्नों की कीमत गणना के आधार पर निर्धारित की जाती है । अत्यन्त सुन्दर और दुर्लभ रत्नों की कीमत इच्छानुसार कम या ज्यादे होती है । लेकिन अत्यन्त गुणशाली रत्नों की कीमत वजन के आधार पर निर्भर नहीं करती ॥८३ ॥

संख्यात इति । हीरकात् विना स्वल्पानां क्षुद्राणां रत्नानां संख्यातः गणनया मूल्यं स्यात् । अत्यन्तरमणीयानां दुर्लभानाञ्च रत्नानां कामतः इच्छानुसारेण मूल्यं स्यात् । किञ्च अतिगुणशालिनां रत्नानां मानेन परिमाणेन मूल्यं न भवेत् ॥ ८३ ॥

व्यङ्घ्रिचतुर्दशहतो वर्गो मौक्तिकरक्तिज: ।

चतुर्विंशतिभिर्भक्तो लब्धान्मूल्यं प्रकल्पयेत् ॥ ८४ ॥

अन्वयः — मौक्तिकरक्तिजः वर्गः व्यङ्घ्रिः चतुर्दशहतः चतुर्विंशतिभिः भक्तः लब्धात् मूल्यं प्रकल्पयेत् ॥ ८४ ॥

व्याख्या — मौक्तिकरक्तिजः = शौक्तिकगुञ्जासम्भवः, वर्गः = समद्विघातः, व्यङ्घ्रिः = पादहीनः, चतुर्दशभिर्हतः– चतुर्दशभिः हतः = गुणितः, तथा चतुर्विंशतिभिः, भक्तः = विभाजितः सन्, यो लब्धात् = लब्धो भवेत्, तस्मात् लब्धात् = लब्धाङ्कात्, मूल्यम् = अर्घः, प्रकल्पयेत् = चिन्तयेत् ॥ ८४ ॥

हिन्दी — मोती तौल में जितनी रत्तियों का हो, उनकी संख्या को परस्पर गुणा करके वर्ग निकाल ले, चौथाई घटा दे, फिर चौदह से गुणा कर दे । उसे चौबीस से भाग देने पर जो लब्धाङ्क हो, उसी पर मोती का मूल्य निर्धारित करना चाहिए ॥८४ ॥

व्यङ्घ्रीति । मौक्तिकरञ्जितः वर्गः व्यङ्घ्रिः पादहीनः चतुर्दशभिर्हतः गुणितः तथा चतुर्विंशतिभिः भक्तः सन् यो लब्धो भवेत् तस्मात् लब्धात् मूल्यं प्रकल्पयेत् ॥ ८४ ॥

उत्तमन्तु सुवर्णार्घमूनमूनं यथागुणम् ॥ ८५ ॥

अन्वयः — उत्तमं तु सुवर्णार्घमूनमूनं यथागुणम् ॥ ८५ ॥

व्याख्या — उत्तमम् = श्रेष्ठशौक्तिकम्, तु, सुवर्णार्घम् = सुवर्णमुद्रायाः अर्द्धपरिमितम्, मूल्यम् = अर्घः, ऊनम् = ततो न्यूनम्, सामान्यम्, पुनश्च ऊनम् = ततोऽपि अपकृष्टम्, अधमकोटिकम्, यथागुणम् = गुणानुरूपम् ॥ ८५ ॥

हिन्दी — उत्तम मोती की कीमत आधी अशरफी अर्थात् पाँच माशा सोना होती है । उसके बाद गुणानुसार मध्यम तथा अधम होने के कारण उत्तरोत्तर कीमत कम होती है ॥ ८५ ॥

उत्तममिति । उत्तमं मौक्तिकं सुवर्णार्घं स्वर्णमूल्यम्, ऊनं ततः अपकृष्टं मध्यममित्यर्थः, पुनश्च ऊनं ततोऽप्यपकृष्टम् अधममित्यर्थः यथागुणं गुणानुसारेण मूल्यवदित्यर्थः ॥८५ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 84

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 84 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४ ९ ६ शुक्रनीतिः रक्तं पीतं वर्त्तुलं चेन्मौक्तिकं चोत्तमं सितम् । अधमं चिपिटं शर्कराभमन्यत् तु मध्यमम् ॥ ८६ ॥.

अन्वयः —– रक्तं पीतं तथा सितं मौक्तिकं वर्तुलं चेत् उत्तमम्, चिपिटं च शर्कराभम् अधमम्, अन्यत् तु मध्यमम् ॥८६ ॥

व्याख्या — रक्तम् = लोहितम्, पीतम् = हरिद्राभम्, तथा सितम् = श्वेतवर्णम्, मौक्तिकम् = शौक्तिकम्, वर्तुलम् = गोलाकारम्, चेत् = यदि, तदा उत्तमम् = उत्कृष्टम्, चिपिटम् = चिपिटाकारम्, च = पुनः, शर्कराभम् = शार्कककान्तिः, मध्यमम् = निकृष्टम्, अन्यत् = एतद्भिन्नम्, मध्यमम् = सामान्यम् ॥८६ ॥

हिन्दी — लाल, पीला तथा सफेद गोलाकार मोती उत्कृष्ट होता है । चिपटा एवं शक्कर रंग का निकृष्ट तथा इससे भिन्न मोती औसत दर्जे का होता है ॥ ८६ ॥

रक्तमिति । रक्तं पीतं तथा सितं श्वेतवर्णं मौक्तिकं वर्त्तुलं चेत् उत्तमम् । चिपिटं चिपिटाकारं

तथा शर्कराभं मौक्तिकम् अधमम् । अन्यत् एतद्व्यतिरिक्तन्तु मध्यमम् ॥ ८६ ॥

रत्ने स्वाभाविका दोषाः सन्ति धातुषु कृत्रिमाः ।

अतो धातून् सम्परीक्ष्य तन्मूल्यं कल्पयेद् बुधः ॥ ८७ ॥

अन्वयः — रत्ने स्वाभाविका: दोषाः सन्ति, धातुषु कृत्रिमाः । अतः धातून् सम्परीक्ष्य बुधः तन्मूल्यं कल्पयेत् ॥ ८७ ॥

व्याख्या — रले = मणौ, स्वाभाविकाः = नैसर्गिकाः, दोषाः = दुर्गुणाः, सन्ति = भवन्ति, धातुषु = खनिजेषु द्रव्येषु, तु = किन्तु, कृत्रिमाः = कृतकाः, दोषाः भवन्ति । अतः = अस्मात् कारणात्, बुधः = प्राज्ञः, धातून् = खनिजान्, सम्परीक्ष्य = सम्यग्रूपेण परीक्षणं कृत्वा, तत् = तस्य, मूल्यम् = अर्घः, कल्पयेत् = निश्चयं कुर्यात् ॥ ८७ ॥

हिन्दी — रत्नों में स्वाभाविक दोष होते हैं, किन्तु धातुओं में मिलावट के कारण बनावटी दोष पाये जाते हैं । अतः बुद्धिमान् व्यक्ति इसे ठीक से जाँच कर ही इसकी कीमत निर्धारित करे ॥ ८७ ॥

रत्ने इति । रत्ने स्वाभाविकाः अकृत्रिमाः दोषाः सन्ति, किन्तु धातुषु खनिजेषु द्रव्येषु तु कृत्रिमाः सन्तीति शेषः । अतः अस्मात् कारणात् बुधः धातून् सम्परीक्ष्य तेषां मूल्यं कल्पयेत् ॥८७ ॥

सुवर्णं रजतं ताम्रं वङ्गं सीसञ्च रङ्गकम् ।

लोहं च धातवः सप्त ह्येषामन्ये तु सङ्कराः ॥ ८८ ॥

अन्वयः — धातवः सप्त; यथा— सुवर्णं, रजतं, ताम्रं, वङ्गं, सीसं, रङ्गकं लोहं च । एषाम् अन्ये तु सङ्कराः ॥ ८८ ॥

व्याख्या- -धातवः = खनिजाः द्रव्याः, सप्त = सप्तविधम्, यथा सुवर्णम् = कनकम्, रजतम् = रूप्यम्, ताम्रम् = रविप्रियम्, वङ्गम् = पित्तलकम्, सीसम् = सुवर्णारिः, रङ्गकम् = त्रपुः, लोहम् = = अयस्कम् । एषाम् = एतेषाम्, अन्ये = भिन्ने सङ्कराः = मिश्राः भवन्ति ॥ ८८ ॥

हिन्दी — सोना, चाँदी, ताँबा, पीतल, सीसा, राँगा और लोहा - ये सात शुद्ध धातु हैं । इनसे भिन्न इनकी मिलावट से बनी संकर जाति की धातु कहलाती है ॥ ८८ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 85

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 85 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य द्वितीयं प्रकरणम् ४ ९ ७ धातूनाह— सुवर्णमिति । धातवः सप्त; यथा सुवर्णं, रजतं, ताम्र, वङ्गं, सीसं, रङ्गकं लोहञ्च । अन्ये एतद्व्यतिरक्तास्तु सङ्कराः मिश्राः ॥ ८८ ॥

यथापूर्वं तु श्रेष्ठं स्यात् स्वर्णं श्रेष्ठतरं मतम् ।

वङ्गताम्रभवं कांस्यं पित्तलं ताम्ररङ्गजम् ॥ ८ ९ ॥

अन्वयः - यथापूर्वं तु श्रेष्ठं स्यात्, स्वर्णं तु श्रेष्ठतरं मतम् । कांस्यं वङ्गताम्रभवं पित्तलं ताम्ररङ्गकम् ॥ ८ ९ ॥ व्याख्या — यथापूर्वम् = पूर्वानुक्रमेण तु = किन्तु, श्रेष्ठम् = उत्कृष्टम्, स्यात् = भवेत्, स्वर्णम् [ = = कनकम्, तु, श्रेष्ठतरम् = उत्कृष्टतरम्, मतम् = मान्यम् । कांस्यम् = ताम्रार्द्धम्, वङ्गताम्रभवम् = वङ्गताम्राभ्यां मिश्राभ्यां समुत्पन्नम्, पित्तलम् = पीतलकम्, ताम्ररङ्गाभ्यां मिश्राभ्यां जातमिति ॥ ८ ९ ॥ हिन्दी – पूर्ववर्णित सात धातुएँ अन्तिम लोहा से पूर्वानुक्रम में एक - दूसरे से श्रेष्ठ हैं । इनमें सोना सर्वश्रेष्ठ धातु मानी जाती है । वंग एवं कांसे के मिश्रण से ताँबा तथा ताँबा एवं राँगा के मेल से पित्तल बनता है ॥८ ९ ॥ यथापूर्वमिति । यथापूर्वम् एषां पूर्वं पूर्वं श्रेष्ठं स्यात्, स्वर्णन्तु श्रेष्ठतरं मतम् । कांस्यं वङ्गताम्रभवं वङ्गताभ्राभ्यां मिश्राभ्यां जातम् । किञ्च पित्तलं ताम्ररङ्गजं ताम्ररङ्गाभ्यां मिश्राभ्याम् उत्पन्नमित्यर्थः ॥ ८ ९ ॥ मानसममपि स्वर्णं तनु स्यात् पृथुलाः परे ॥ ९ ० ॥ अन्वयः — स्वर्णं मानसमं तनु स्यात् परे पृथुलाः स्युः ॥९ ० ॥ व्याख्या — स्वर्णम् = कनकम्, मानेन = परिमाणेन, समम् = समानमपि, तनु = अत्यल्पम्, स्यात् = भवेत्, परे = अपरे धातवः, कनकतुल्यपरिमाणा अपि, पृथुलाः = स्थूलाः, स्युः = भवेयुरिति ॥९ ० ॥ हिन्दी — तौल में बराबर होने के बावजूद अन्य धातूओं की अपेक्षा सोना पतला होता है और सोने की अपेक्षा तौल में बराबर होने पर भी अन्य धातुएँ मोटी होती हैं ॥९ ० ॥ मानसममिति । स्वर्णं मानेन परिमाणेन समं तुल्यमपि तनु स्वल्पं स्यात् अन्यापेक्षयेति शेषः, परे अन्ये धातवः स्वर्णसमपरिमाणा अपि पृथुलाः स्थूलाः स्युः स्वर्णापेक्षयेति भावः॥९ ० ॥

एकच्छिद्रसमाकृष्टे समखण्डे द्वयोर्यदा ।

धातोः सूत्रं मानसमं निर्दुष्टस्य भवेत् तदा ॥ ९ १ ॥

अन्वयः — यदा द्वयोः समे खण्डे एकेन छिद्रेण समाकृष्टो भवतः, तदा निर्दुष्टस्य धातोः सूत्रं मानसमं भवेत्॥९ १ ॥ व्याख्या — यदा = यस्मिन् काले, द्वयोः = उभयोः, धात्वोः, समे = समाने, खण्डे = शकले, एकेन = अद्वितीयेन, छिद्रेण = विवरेण, समाकृष्टे = समानभावेन, आकृष्टे = बलाद्वहिर्निष्कासने, भवतः = संयातः, तदा = तस्मिन् काले, निर्दुष्टस्य = दोषरहितस्य धातोः = खनिजस्य द्रव्यस्य, सूत्रम् = तारः तन्तुर्वा, मानसमम् — मानेन = परिमाणेन, समम् = समानम्, भवेत् = स्यात् ॥९ १ ॥ २० प्रा CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 86

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 86 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४ ९ ८ शुक्रनीतिः हिन्दी — जब दो धातुओं के दो समान दुकड़ों को एक छिद्र में डालकर तार खींचा जाय तो यदि शुद्ध धातु होगी तो उसके तार भी मान में बराबर ही होंगे ॥ ९ १ ॥ एकेति । यदा द्वयोः धात्वोः समे तुल्ये खण्डे एकेन छिद्रेण समाकृष्टे भवतः, तदा निर्दुष्टस्य दोषरहितस्य धातोः सूत्रं मानसमं परिमाणेन तुल्यं भवेत् ॥९ १ ॥

यन्त्रशस्त्रास्त्ररूपं यन्महामूल्यं भवेदयः ।

रजतं षोडशगुणं भवेत् स्वर्णस्य मूल्यकम् ॥ ९ २ ॥

अन्वयः -यन्त्रशस्त्रास्त्ररूपं यत् अयः महामूल्यं भवेत् । किञ्च स्वर्णस्य मूल्यकं षोडशगुणं रजतं भवेत् ॥९ ३ ॥ व्याख्या— यन्त्ररूपम् = उपकरणस्वरूपम्, शस्त्रास्त्ररूपम् = आयुधस्वरूपम्, यद्, अयः = लौहः, तत्, महामूल्यम् = महार्घम्, भवेत् = स्यात् । किञ्च, स्वर्णस्य = कनकस्य, मूल्यकम् = पणः, षोडशगुणमधिकम्, रजतम् = रूप्यम्, भवेत् = स्यात् ॥९ २ ॥

हिन्दी — यंत्र तथा आयुध निर्माण में लगे लोहे की कीमत बहुत अधिक बढ जाती है ।

चाँदी से सोलह गुने अधिक सोने की कीमत होती है ॥९ २ ॥

यन्त्रेति । यन्त्ररूपं शस्त्ररूपञ्च अयः लोहं महामूल्यं महार्घं भवेत् । किञ्च स्वर्णस्य मूल्यकं षोडशगुणं रजतं भवेत्॥९ २ ॥

ताम्रं रजतमूल्यं स्यात् प्रायोऽशीतिगुणं तथा ।

ताम्राधिकं सार्द्धगुणं वङ्गं वङ्गात् तथा परे ॥ ९ ३ ॥

रङ्गसीसे द्वित्रिगुणे ताम्राल्लोहन्तु षड्गुणम् ।

मूल्यमेतद्विशिष्टन्तु ह्युक्तं प्राङ्मुल्यकल्पनम् ॥९ ४ ॥

अन्वयः - प्रायः अशीतिगुणं ताम्रं रजतमूल्यं स्यात् । सार्द्धगुणं वङ्गं ताम्राधिकं तथा परे वङ्गात् रङ्गसीसे ताम्रात् द्वित्रिगुणे लोहं तु ताम्रात् षड्गुणम् । एतत् मूल्यं विशिष्टं हि प्राक् मूल्यकल्पनं उक्तम् ॥९ ३ - ९ ४ ॥ व्याख्या– प्रायः = अनेकशः, अशीतिगुणम् = रजतापेक्षयाऽशीतिगुणान्वितम्, ताम्रम् = मुनिपित्तलम्, रजतस्य = रूप्यस्य, मूल्यम् = अर्घः स्यात् = भवेत् । सार्द्धगुणम् = अर्द्ध-सहितैकगुणितम्, वङ्गम् = त्रपुः ताम्राधिकम् — ताम्रस्य = मुनिपित्तलस्य, अधिकम् = प्रचुरम्, मूल्यमिति । तथा = तेनैव प्रकारेण, परे = अन्ये, वङ्गात् = त्रपोः, साद्धैकगुणितात् मूल्यवन्त इति शेषः, रङ्गसीसे – रङ्गम् = वङ्गम्, सीसञ्च = सीसकञ्च ताम्रात् = मुनिपित्तलात्, द्वित्रिगुणे, क्रमेण = क्रमशः, तद्यथा— रङ्गं ताम्रस्य द्विगुणम्, सीसं ताम्रस्य त्रिगुणमिति । लौहम् = अयस्कम्, तु, ताम्रात् षड्गुणम् = षड्गुणाधिक्यम्, एतत् मूल्यम्, विशिष्टम् = प्रसिद्धम्, उक्तम् । हि = यतः, प्राक् = पूर्वम्, मूल्यस्य = अर्घस्य, कल्पनम् = चिन्तनम्, उक्तम् = कथितम् ॥ ९ ३ - ९ ४ ॥ हिन्दी —– ताँबे से चाँदी की कीमत अस्सी गुणा अधिक होती है । राँगे से डेढ़ गुणा अधिक ताँबे की कीमत होती है और वंग से अन्य राँगा तथा सीसा क्रमशः ताँबे से दुगुना एवं तिगुना मिलते हैं और लोहा छः गुना मिलते हैं । यह कीमत प्रसिद्ध है, क्योंकि पहले से ही इनकी कीमतों का वर्णन किया जा चुका है ॥ ८३-८४ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 87

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 87 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य द्वितीयं प्रकरणम् ४ ९९ ताम्रमिति । रङ्गेति । प्रायः बाहुल्येन अशीतिगुणं रजतापेक्षयेति शेषः, ताम्रं रजतस्य मूल्यं स्यात् । सार्द्धगुणम् अर्द्धसहितैकगुणितं वङ्गं ताम्राधिकं ताम्रस्य अधिकं मूल्यमित्यर्थः । तथा परे अन्ये धातवः वङ्गात् सार्द्धेकगुणितात् मूल्यवन्त इति शेषः । रङ्गसीसे रङ्गं सीसञ्चेत्यर्थः, ताम्रात् द्वित्रिगुणे क्रमेण रङ्गं ताम्रस्य द्विगुणं सीसं ताम्रस्य त्रिगुणं ताम्रेण सममिति भावः । लौहन्तु षड्गुणं ताम्रादिति शेषः, षड्गुणं लौहम् एकगुणेन ताम्रेण सममिति भावः । एतत् मूल्यं विशिष्टं विशेषेण उक्तं हि यतः प्राक् पूर्वं मूल्यकल्पनम् उक्तम् ॥ ९ ३ - ९ ४ ॥

सुशृङ्गवर्णा सुदुघा बहुदुग्धा सुवत्सका ।

तरुण्यल्या वा महती मूल्याधिक्याय गौर्भवेत् ॥ ९ ५ ॥

अन्वयः– सुशृङ्गवर्णा सुदुघा बहुदुग्धा सुवत्सका तरुणी अल्पा वा महती गौः मूल्याधिक्याय भवेत् ॥९ ५ ॥ व्याख्या– सुशृङ्गवर्णा – सुष्ठुविषाणा, सुवर्णा = रुचिरवर्णका, सुदुघा = सहजदोहना, बहुदुग्धा = बहुक्षीरा, सुवत्सका = सुवत्सा, तरुणी = युवा, अल्पा = अल्पशरीरा, वा = अथवा, महती = विशिष्टा, गौः = धेनुः, मूल्याधिक्याय = अधिकमूल्याय, भवेत् = स्यात् ॥९ ५ ॥ हिन्दी — सुन्दर सींग, रुचिकर रंग, दूहने में आसान, अधिक दूध देने वाली, सुन्दर बछड़े वाली, छोटी या बड़ी गाय की कीमत अधिक होती है॥९ ५ ॥ सुशृङ्गेति । सुशृङ्गवर्णा शोभनशृङ्गा सुवर्णा सुदुघा अक्लेशदोहना बहुदुग्धा समधिकदुग्धवती सुवत्सका तरुणी अल्पा वा महती गौः मूल्याधिक्याय अधिकमूल्याय भवेत् ॥ ९ ५ ॥

पीतवत्सा प्रष्ठदुग्धा तन्मूल्यं राजतं पलम् ।

अजायाश्च गवार्द्धं स्यान्मेष्या मूल्यमजार्द्धकम् ॥ ९ ६ ॥

अन्वयः - पीतवत्सा प्रष्ठदुग्धा तत् मूल्यं पलं राजतम्, अजायाः च मूल्यं गवार्द्धं, मेष्याः मूल्यम् अजार्द्धकं स्यात् ॥९ ६ ॥ व्याख्या — पीतवत्सा = हरिद्राभवत्सवती, प्रष्ठः: = = प्रशंसनीयः, दुग्धा = क्षीरदा, गौः, चेत् = यदि, तदा तत् = तस्याः, मूल्यम् = अर्घः, पलम् = चतुस्तोलकम्, राजतम् = रूप्यम्, भवति, अजायाः = छाग्याः, मूल्यम् = पणः, गवार्द्धम् = धेनुमूल्यार्द्धं भवति, तथा मेष्याः मूल्यम् = अर्घः, अजार्द्धकम् = अजामूल्यस्य अर्द्धकं भवति ॥९ ६ ॥ हिन्दी – पीले रंग के बछड़े वाली गौ यदि अच्छा दूध देने वाली हो तो उसकी कीमत चार तोला चाँदी होती है और बकरी की कीमत गाय की कीमत की आधी होती है तथा भेड़ी की कीमत बकरी की आधी होती है ॥ ९ ६ ॥ पीतेति । पीतवत्सा पीतवर्णवत्सवती गौः प्रष्ठदुग्धा प्रशंसनीयदुग्धा चेत् तदा तस्या मूल्यं राजतं पलं पलपरिमितरजतम् । अजायाः छाग्याः मूल्यं गवार्द्धं गोमूल्यार्द्धं तथा मेष्या मूल्यम् अजाया मूल्यार्द्धकम् ॥९ ६ ॥

दृढस्य युद्धशीलस्य पलं मेषस्य राजतम् ।

दश वाष्टौ पलं मूल्यं राजतं तूत्तमं गवाम् ॥ ९ ७ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 88

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 88 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

शुक्रनीतिः ५०० अन्वयः – दृढस्य युद्धशीलस्य मेषस्य मूल्यं पलं राजतं, गवां तु उत्तमं मूल्यं दश वा अष्टौ राजतं पलम् ॥९ ७ ॥ व्याख्या — दृढस्य = सबलाङ्गस्य, युद्धशीलस्य = युयुत्सोः, मेषस्य = एडकस्य, मूल्यम् = अर्घः, पलम् = चतुस्तोलकम्, राजतम् = रूप्यम्, गवाम् = धेनूनाम्, तु = किन्तु, उत्तमम् = = श्रेष्ठम्, मूल्यम् = अर्घः, दश, वा = अथवा, अष्टौ, राजतं = रौप्यम्, पलं भवेत्॥९ ७ ॥ हिन्दी — मजबूत कद - काठी के लड़ाकू भेड़े की कीमत चार तोला चाँदी होती है औ गाय का उत्तम मूल्य दस या आठ पल चाँदी हैं ॥ ९ ७ ॥ दृढस्येति । दृढस्य समर्थस्य पुष्टदेहस्येत्यर्थः, युद्धशीलस्य मेषस्य मूल्यं राजतं पलम् । गवान्तु उत्तमं मूल्यं दश वा अष्टौ राजतं पलम् ॥९ ७ ॥

पलं मेष्या अवेश्चापि राजतं मूल्यमुत्तमम् ।

गवां समं सार्द्धगुणं महिष्या मूल्यमुत्तमम् ॥ ९ ८ ॥

अन्वयः — मेष्याः अवेश्चापि उत्तमं मूल्यं राजतं पलम् । महिष्याः उत्तमं मूल्यं सार्द्धगुणं गवां समम् ॥ ९ ८ ॥ व्याख्या — मेष्याः = एडकायाः, अवेश्चापि = मेषस्यापि, उत्तमम् = उत्कृष्टम्, मूल्यम् = अर्घः, राजतम् = रजतसम्भवम्, पलम्, महिष्याः = मन्दगमनायाः उत्तमं मूल्यम् सार्द्धगुणम् = अर्द्धेकगुणितम्, गवाम् = = धेनूनाम्, समम् = तुल्यम्, भवति ॥९ ८ ॥ हिन्दी — भेंड या भेड़ी का उत्तम मूल्य एक पल चाँदी है । भैंस का उत्तम मूल्य गाय के समान या उससे डेढ़ गुना अधिक होता है ॥ ९ ८ ॥ पलमिति । मेष्याः अवेः मेषस्य च उत्तमं मूल्यं राजतं पलम् । महिष्याः उत्तमं मूल्यं सार्द्धगुणं सार्द्धेकुगुणितं गवां समं मूल्यसममित्यर्थः॥९ ८ ॥

सुशृङ्गवर्णबलिनो वोढुः शीघ्रगमस्य च ।

अष्टतालवृषस्यैव मूल्यं षष्टिपलं स्मृतम्॥९९ ॥

अन्वयः — सुशृङ्गवर्णबलिनः वोढुः शीघ्रगमस्य अष्टतालवृषस्य मूल्यं षष्टिपलं स्मृतम् ॥९९ ॥

व्याख्या— सुशृङ्गवर्णबलिनः सुशृङ्गस्य = सुष्ठुविषाणस्य, सुवर्णस्य = रुचिकरस्वरूपस्य, बलिनः = शक्तिशालिनः, वोढुः = वहनशीलस्य, शीघ्रगमस्य = त्वरितगामिनः, अष्टतालस्य = एतत्परिमितस्य, वृषस्य = वृषभस्य, मूल्यम् = अर्घः, षष्टिपलम् = पलषष्टिपरिमितम्, स्मृतम् = कथितम् ॥९९ ॥

हिन्दी — सुन्दर सींग वाला, अच्छे रंग का, शक्तिशाली, बोझा ढोने में समर्थ, जल्द चलने वाला तथा आठ ताल अर्थात् चार हाथ लम्बे बैल की कीमत ६० पल चाँदी होती है ॥ ९९ ॥

सुशृङ्गेति । सुशृङ्गस्य सुवर्णस्य बलिनः वोढुः वहनक्षमस्य शीघ्रगमस्य शीघ्रगामिनः अष्टतालवृषस्य मूल्यं षष्टिपलं स्मृतं कथितम् ॥ ९९ ॥

महिषस्योत्तमं मूल्यं सप्त चाष्टौ पलानि च ।

द्वित्रिचतुःसहस्त्रं वा मूल्यं श्रेष्ठं गजाश्वयोः ॥ १०० ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 89

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 89 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य द्वितीयं प्रकरणम् ५०१ अन्वयः — महिषस्य उत्तमं मूल्यं सप्त च अष्टौ पलानि । गजाश्वयोः द्वित्रिचतुःसहस्रं वा श्रेष्ठं मूल्यम् ॥ १०० ॥

व्याख्या - महिषस्य = सैरिभस्य, उत्तमम् = श्रेष्ठम्, मूल्यम् = अर्घः, सप्त, च = अथवा, अष्टौ पलानि भवन्ति, गजाश्वयोः - गजस्य = हस्तिनः, अश्वस्य = घोटकस्य, च, द्विसहस्रम् = विंशतिशतम्, त्रिसहस्रम् = त्रिंशच्छतम्, चतुःसहस्रम् = चत्वारिंशच्छतम्, वा = अथवा, श्रेष्ठम् =: उत्कृष्टम्, मूल्यं भवति ॥ १०० ॥

हिन्दी — भैंस का उत्कृष्ट मूल्य सात या आठ पल चाँदी होता है । हाथी और घोड़े का श्रेष्ठ मूल्य दो, तीन या चार हजार चाँदी के सिक्के हैं ॥ १०० ॥

महिषस्येति । महिषस्य उत्तमं मूल्यं सप्त अष्टौ च पलानि, चशब्दो विकल्पार्थः । गजाश्वयोः गजस्य अश्वस्य च द्विसहस्रं त्रिसहस्रं चतुःसहस्रं वा श्रेष्ठं मूल्यं गुणानुसारेण वेदितव्यमिति शेषः ॥ १०० ॥

उष्ट्रस्य माहिषसमं मूल्यमुत्तममीरितम् ॥ १०१ ॥

अन्वयः — उष्ट्रस्य उत्तमं मूल्यं माहिषसमम् ईरितम् ॥ १०१ ॥

व्याख्या — उष्ट्रस्य = दासेरकस्य, उत्तमम् = श्रेष्ठम्, मूल्यम् = पण्यः, समम् = तुल्यम्, ईरितम् = निगदितम् ॥ १०१ ॥

हिन्दी — ऊँट का उत्तम मूल्य भैंस के उत्तम मूल्य के बराबर होता उष्ट्रस्येति । उष्ट्रस्य उत्तमं मूल्यं माहिषेण महिषमूल्येन समम् ईरितं योजनानां शतं गन्ता चैकेनाह्नाश्व उत्तमः । माहिषेण = महाक्षीरेण, है ॥ १०१ ॥

कथितम् ॥ १०१ ॥

मूल्यं तस्य सुवर्णानां श्रेष्ठं पञ्चशतानि हि ॥ १०२ ॥

अन्वयः— एकेन अह्ना योजनानां शतं गन्ता अश्वः उत्तमः । तस्य उत्तमं मूल्यम् सुवर्णानां पञ्चशतानि हि ॥१०२ ॥

व्याख्या– एकेन = एकमात्रेण, अह्ना = दिनेन, योजनानाम् = चतुक्रोशात्मकानाम्, शतम् = शतसज्ञकं, गन्ता = गमनशक्ता, अश्वः = - ' घोटकः, उत्तमः =: उत्कृष्टो भवति, तस्य उत्तमम् = श्रेष्ठम्, मूल्यम् = अर्घः, सुवर्णानाम् = स्वर्णमुद्राणाम्, पञ्चशतानि, हि = इति निश्चयेन भवति ॥१०२ ॥

हिन्दी – एक दिन में चार सौ कोस की दूरी तय करने वाला घोड़ा उत्तम होता है । उसका श्रेष्ठ मूल्य पाँच सौ अशरफी होता है ॥ १०२ ॥

योजनानामिति । एकेन अह्ना दिवसेन योजनानां शतं गन्ता गन्तुं समर्थः अश्वः उत्तमः, सुवर्णानां पञ्चशतानि तस्य श्रेष्ठं मूल्यं हि, हिशब्दोऽवधारणार्थः ॥१०२ ॥

त्रिंशद्योजनगन्ता वै उष्ट्रः श्रेष्ठस्तु तस्य वै ।

पलानां तु शतं मूल्यं राजतं परिकीर्त्तितम् ॥ १०३ ॥।

अन्वयः — यः उष्ट्रः त्रिंशद्योजनगन्ता सः श्रेष्ठः । तस्य मूल्यं पलानां राजतं शतं परिकीर्तितम् ॥ १०३ ॥

व्याख्या — यः उष्ट्रः = कमेलकः, त्रिंशद्योजनगन्ता = एकस्मिन् दिने त्रिंशद्योजनपर्यन्तं गन्तुं समर्थः, सः = असौ, श्रेष्ठः = उत्कृष्टः । तस्य = उष्ट्रस्य, मूल्यम् = पण्यः, पलानाम् = CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 90

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 90 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

शुक्रनीतिः ५०२ तोलकानाम्, राजतम् = रूप्यकम्, शतम् = शतसंख्यकम्, पलम्, परिकीर्त्तितम् = कथितम् ॥ १०३ ॥

हिन्दी — एक दिन में तीस योजन अर्थात् ( १ योजन = ४ कोश ) १२० श्रेष्ठ होता है । इसकी कीमत एक सौ पल चाँदी हैं । ( एक पल = चार त्रिंशदिति । यः उष्ट्रः त्रिंशद्योजनगन्ता स श्रेष्ठः, तस्य मूल्यं शतपलपरिमितराजतमित्यर्थः परिकीर्त्तितम् ॥ १०३ ॥

बलेनोच्चेन युद्धेन मदेनाप्रतिमो गजः ।

यस्तस्य मूल्यं निष्काणां द्विसहस्त्रं प्रकीर्त्तितम् ॥

कोस चलने वाला ऊँट तोला चाँदी ) ॥ १०३ ॥

पलानां राजतं शतं १०४ ॥ अन्वयः — यः गजः उच्चेन बलेन युद्धेन मदेन अप्रतिमः । तस्य मूल्यं निष्काणां द्विसहस्रं प्रकीर्त्तितम् ॥१०४ ॥

व्याख्या - यः गजः = - हस्ती, उच्चेन = महता, बलेन = शक्त्या, युद्धेन = समरेण, मदेन = दर्पेण, अप्रतिमः = अतुल्यः । तस्य = गजस्य, मूल्यम् = अर्घः, निष्काणाम् = स्वर्णमुद्राणाम्, वा कर्षाणाम्, द्विसहस्रम् = विंशतिशतम्, भवति ॥ १०४ ॥

हिन्दी —– जो हाथी अति शक्तिशाली, जुझारु, मदमस्त एवं अप्रतिम ( अतुलनीय ) होता है । उसकी कीमत दो हजार स्वर्णमुद्रा होती है ॥ १०४ ॥

बलेनेति । यः गजः उच्चेन महता बलेन युद्धेन मदेन च अप्रतिमः असदृशः, तस्य निष्काणां द्विसहस्रं प्रकीर्त्तितम् ॥ १०४ ॥

चतुर्माषमितं स्वर्णं निष्क इत्यभिधीयते ।

पञ्चरक्तिमितो माषो गजमौल्ये प्रकीर्त्तितः ॥ १०५ ॥

अन्वयः – चतुर्माषमितं स्वर्णं निष्क इति अभिधीयते । गजमौल्ये पञ्चरक्तिमितः माषः प्रकीर्तितः ॥ १०५ ॥

व्याख्या — चतुर्भिः = तुरीयैः, माषैः = अष्टगुञ्जामाशैः, मितम् = परिमितम्, स्वर्णम् = - सुवर्णम्, निष्कः = स्वर्णमुद्रैका, इति = इत्थम्, अभिधीयते = कथ्यते । गजमौल्ये – गजस्य = - हस्तिनः, मौल्यै = पण्यविषये, पञ्चरक्तिमितः — पञ्चानाम् = पञ्चसंख्यकानाम्, रक्तीनाम् = गुञ्जानाम्, मितः = परिमितः, वस्तुविशेषः, माषः = माषकः धानको वेति, प्रकीर्त्तितः = ख्यातः ॥१०५ ॥

हिन्दी - चार माशा सोने का एक सिक्का होता है । हाथी की कीमत निर्धारित करने में पाँच रत्ती का एक माशा होता है ॥ १०५ ॥

चतुरिति । चतुर्भिः माषैः मितं परिमितं स्वर्णं निष्क इति अभिधीयते कथ्यते, गजमौल्ये हस्तिमूल्यविषये पञ्चरक्तिमितः पञ्चरक्तिपरिमाणः वस्तुविशेषः माषः प्रकीर्त्तितः कथितः ॥१०५ ॥

रत्नभूतन्तु तत्तत् स्याद् यद्यदप्रतिमं भुवि ।

यथादेशं यथाकालं मूल्यं सर्वस्य कल्पयेत् ॥ १०६ ॥

अन्वयः - भुवि यद्यद् अप्रतिमं स्यात्, तत्तद्रत्नभूतम् । अतः यथादेशं यथाकालं सर्वस्य मूल्यं कल्पयेत् ॥ १०६ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA