सुश्रुत संहिता चौखम्बा — पृष्ठ 1001–1010
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1001–1010
पृष्ठ 1001
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj Foundation Chennai and eGangotri कल्पस्थानम् ८४३ निर्मग्नान्यल्परक्तानि यान्युद्धृत्य करोति हि ॥ १५ ॥
चञ्चुमालक युक्तानि वैकृत्यकरणानि च ।
सङ्क्षिप्तौनि सशोफानि विद्यात्तत् सर्पितं भिषक् ॥ १६ ॥
8
राज्यः ' सलोहिता यत्र नीलाः पीताः सितास्तथा ।
विज्ञेयं रदितं तत्तु ज्ञेयमल्पविषञ्च तत् ॥ १७ ॥
अशोफॅमल्पदुष्टासृक् प्रकृतिस्थस्य देहिनः ।
पदं पदानि वा विद्यादेविषं तच्चिकित्सकः ॥ १८ ॥
सर्पस्पृष्टस्य भीरोर्हि भयेन कुपितोऽनिलः ।
कस्यचित् कुरुते शोफं सर्पाङ्गाभिहतन्तुं तत् ॥ १ ९ ॥
व्याधितोद्विग्नदष्टानि ज्ञेयान्यल्पविषाणि तु ।
तथाऽतिवृद्धबालाभिदष्टमल्पविषं स्मृतम् ॥ २२ ॥
सुपणदेवब्रह्मर्षिया सिद्धनिषेविते ।
विषन्नोषधियुक्ते च देशे न " क्रमते विषम् ॥ २१ ॥
" रथाङ्गलाङ्गलच्छत्र स्वस्तिकाङ्कुशधारिणः । क्षतचिह्नानि । १ निमग्नानि = अनुद्गतानि । २ चन्चुमालकयुक्तानि = उपरि पिडका सदृशैराचितानि । हाराणचन्द्रस्तु - ' पदानि यानि चन्चुमोठ मुवृत्य विषं निक्षेप्तुं वक्त्रीकृत्य करोति सर्प इति शेषः । तानि अलक एव आलकोऽङ्गलिप्तं कुङ्कु-मम्, कुत्सितं वाऽऽलमालकं रक्ताभं हरितालमित्येतत्, तद्वद्रागयुकान्याल कयुक्तानि ' इति व्याख्याति । वैकृत्य करणानि = विकार भावविधायकानि । ३ सङ्क्षिप्तानि = सूचीविद्धवत्सूक्ष्माणीत्यर्थः । ४ रदितस्य लक्षणं निर्दिशति – राज्य इति । राज्यः = रेखाः । निविं. ५ षस्य लक्षणमाख्याति — अशोकमिति । अशोकन् = ईषच्छोफयुक्तम् । ६ श्रविधं = निर्विषाख्यमित्यर्थः । ७ मतान्तरीय सर्पाङ्गाभिहतलक्षणं दर्शयति - सपेंति । चार्थे तु शब्द:, तेन शङ्काविषमपि बोद्धव्यम् । यथा कण्टकादिना विद्धे सर्पदष्टभ्रान्तिर्भवति । तदुक्तमष्टाङ्गहृदये – “ दुरन्धकारे विद्धस्य केनचिद्दष्टशङ्कया । विषोद्वेगो ज्वरश्छदि-दाहोऽपि वा भवेत् ॥ ग्लानिर्मोहोऽतिसारो वा तच्छङ्काविषमुच्यते । ” इति । ९ सर्पविषस्य अवस्थाविशेषेणाख्यविषत्वं प्रतिपादयति - व्याधितेति । १० न क्रमते = न प्रसरतीत्यर्थः । ११ दवकराणां लक्षणमाचष्टे – रथाङ्गेति । रथाङ्गं = चक्रम्, लाङ्गलं = हलम्, छत्रं प्रसिद्धम्, स्वस्तिकः = फणास्थनोलरेखाविशेषः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1002
पाठ पढ़ें पाठ छिपाएँ
८४४ Digitized by Arya Sa सुनसहित सांnar and eGangotri [ अ ० ४ ज्ञेया दर्वीकराः सर्पाः फणिनः शीघ्रगामिनः ॥ २२ ॥
मण्डेलैविविधैश्चित्राः पृथवो मन्दगामिनः ।
ज्ञेया मण्डलिनः सर्पा ज्वलनार्कसमप्रभाः ॥ २३ ॥
स्निग्धौ विविधवर्णाभिस्तिर्य्यगूर्ध्वं च रोजिभिः ।
चित्रिता इव ये भान्ति राजिमन्तस्तु ते स्मृताः ॥ २४ ॥
मुक्तीरूप्यप्रभा ये च कपिला ये च पन्नगाः ।
सुगन्धयः सुवर्णाभास्ते जात्या ब्राह्मणाः स्मृताः ॥ २५ ॥
क्षैत्रियाः स्निग्धवर्णास्तु पन्नगा भृशकोपनाः ।
सूर्य्यचन्द्राकृतिच्छत्रलक्ष्मं तेषां तथाऽम्बुजम् ॥ २६ ॥
कृष्णा वज्रनिभा ये च लोहिता वर्णतस्तथा ।
धूम्राः पारावताभाचं वैश्यास्ते ' पन्नगाः स्मृताः ॥ २७ ॥
महिर्षद्वीपिवर्णाभास्तथैव परुषत्वचः ।
भिन्नवर्णाश्च ये केचिच्छ्रद्रास्ते परिकीर्त्तिताः ॥ २८ ॥
कोपयन्त्यनिलं ” जन्तोः फणिनः सर्व एव तु ।
पित्तं मण्डलिनश्चापि कफञ्चानेकराजयः ॥ २ ९ ॥
अपत्यमसवर्णाभ्यां.91 द्विदोपकरलक्षणम् ।
ज्ञेयं दोषैश्च दम्पत्योर्विशेषश्चात्र वक्ष्यते ॥ ३० ॥
१ मण्डलिनां लक्षणमाख्याति - मण्डलैरिति । विविधैः = नानाप्रकारैः, पृथवः == विस्तीर्णाः, “ मण्डलीमण्डलाफणः " इति चरके तल्लक्षणम् । २ राजिमतां लक्षणमभिदधाति - स्निग्धा इति । " बिन्दुलेखविचित्राङ्गः पन्नगः स्यात्तु राजिमान् ” इति चरकः । बिन्दुना लेखया च विचित्रमङ्गं यस्य स बिन्दुलेख • विचित्राङ्ग इति तदर्थः । ३ राजिभिः = रेखाभिः । ४ ब्राह्मणजातिसर्पं निरूपयति-मुक्तेति । मुक्तारूप्यप्रभाः = मुक्तारूप्यसमानकान्तयः । ५ क्षत्रियजातिसर्पे वर्ण-यति - क्षत्रिया इति । ६ ' चिह्नं लक्ष्म च लक्षणम् ' इत्यमरः । ७ वैश्य जातिस-माह - कृष्णा इति । ८ पारावतस्य कपोतस्य श्रभा इव श्राभा यस्य सः पाराव-ताभः । ९ शूद्रजातिसर्पमाख्याति - महिषेति । द्वीपी = ' चीता ' इति ख्यातः । १० दवकरादीनां वातादिप्रकोपकत्वं प्रतिपादयति- कोपयन्तीति । ११ अपत्य • मसवर्णाभ्यां = पृथग्जातीय सर्पिणी पृथग्जातीय सर्पाभ्याम्, अपत्यं वैकरञ्जाख्यमित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1003
पाठ पढ़ें पाठ छिपाएँ
-प्र ० ४ ] Digitized by Arya Samahennai and eGangotri
रजन्याः पश्चिमे यामे सर्पाश्चित्रांश्चरन्ति हि ।
शेषेषूक्ता मण्डलिनो दिवा दर्वीकराः स्मृताः ॥ ३१ ॥
दैर्वीकरास्तु तरुणा वृद्धा मण्डलिनस्तथा ।
राजिमन्तो वयोमध्या जायन्ते मृत्युहेतवः ॥ ३२ ॥
कुलाकुलिता बाला वारिविप्रहताः कृशाः । ८४५ वृद्धा मुक्तत्वचो भीताः सर्पास्त्वल्पविषाः स्मृताः ॥ ३३ ॥
तत्र, दर्वीकराः - कृष्ण सर्पो, महाकृष्णः कृष्णोदरः, श्वेतक-पोतो, महाकपोतो, बलाहको, महासर्प:, शङ्खपालो, लोहिताक्षो, गवे " धुकः, परिसर्पः, खण्डफणः, ककुदः, पद्म, महापद्मो, दर्भपुष्पो, दधिमुखः, पुण्डरीको, भ्रुकुटीमुखो, विष्किरः, पुष्पाभिकीर्णो, गिरि-सर्पः, ऋजुसर्पः, श्वेतोदरो, महाशिरा, अलगर्द, आशीविष इति । मण्डलिनस्तु - आदर्शमण्डलः, श्वेतमण्डलो, रक्तमण्डलः, चि-त्रमण्डलः, पृषतो, रोध्रपुष्पो, मिलिन्दको, गोनसो, वृद्धगोनसः, पन-सो, महापनसो, वेणुपत्रकः, शिशुको मदनः, पालिन्दिर:, पिङ्गलः, तन्तुकः पुष्पपाण्डुः, षडङ्गः, अग्निको बभ्रुः, कषायः, कलुषः पारा-वतो, हस्ताभरणः, चित्रक, एणीपद इति । राजिमन्तस्तु - पुण्डरीको, राजिचित्रः, अङ्गुलराजि:, विन्दु-राजि:, कदमकः, तृणशोषकः, सर्षपकः श्वेतहनुः, दर्भपुष्पञ्चकको, गोधूमकः, किक्किसाद इति । द्विदोषकराणि लक्षणानि यस्मिन् तद् द्विदोषकरलक्षणम् । १ त्रिविधसर्पाणां विच. रण समयमाख्याति - रजन्या इति । २ चित्राः - राजिमन्तः । ३ अवस्थाऽनु-सारेण त्रिविधसर्पाणामुग्रविषत्वं प्रतिपादयति - दर्वीति । चरकेऽपि - " तरुणाः कृष्ण-सर्वास्तु गोनसाः स्थविरास्तथा । राजिमन्तो वयोमध्ये भवन्त्याशीविषोपमाः ॥ ” इति । श्राशीविषा दृष्टिनिश्वासविषा उपमा येषां ते इति तदर्थः । वाग्भटे विशेषः- “ तारुण्य--मध्यवृद्धत्वे वृष्टिशीतातपेषु च । विषोल्बणा भवन्त्येते व्यन्तरा ऋतुसन्धिषु ॥ ” इति । ४ सर्पाणामत्पविषत्वे कारणमाह - नकुलेति । नकुलेन श्राकुलिताः क्षुभिता इति नकुलाकुलिताः, वारिणा विशेषेण प्रदता वितता इति वारिविप्रहताः । ५ मुक्त-= त्यक्तकन्चुकाः । ६ दवकरादिसर्पाणां नामानि निर्दिशति - कृष्णेति । त्वचः CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1004
पाठ पढ़ें पाठ छिपाएँ
८४६ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ४ निर्विषास्तु - गलगोली, शूकपत्रः, अजगरो, दिव्यको, वर्षा -हिकः, पुष्पशकली, ज्योतीरथः, क्षीरिकापुष्पकः, अहिपताकः, अन्धाहिको, गौराहिको, वृक्षेशय इति । वैकरञ्जास्तु - त्रयाणां दर्वीकरादीनां व्यतिकराज्जाताः । तद्यथा-माकुलिः, पोटगलः, स्निग्धराजिरिति । तत्र, कृष्णसर्पेण गोनस्यां वैपरीत्येन वा जातो माकुलिः । राजिलेन गोनस्यां वैपरीत्येन वा जातः पोटगलः । कृष्णसर्पेण राजिमत्यां वैपरीत्येन वा जातः स्नि-ग्धराजिरिति ॥ तेषामाद्यस्य पितृवद्विपोत्कर्षो द्वयोर्मातृवदित्येके । त्रयाणां वैकरजानां पुनर्दिव्येलकरोघपुष्पकराजिचित्रकपो-टगलपुष्पाभिकीर्णदर्भपुष्पवेल्लितकाः सप्त । तेषामाद्यालयो रा-जिलैवत्, शेषा मण्डलिवत् । एवमेतेषां सर्पाणामशीतिय-ख्याता ॥ ३४ । तत्र, महानेत्रजिह्नास्यशिरसः पुमांसः, सूक्ष्मनेत्र जिह्वास्यशिर-सः स्त्रियः । उभयलक्षणामन्दविषा अक्रोधा नपुंसका इति ॥ ३५ ॥
तत्र, सर्वेषां सर्पाणां सामान्यत एव दष्टलक्षणं वक्ष्यामः । किं कारणं? विष हि निशितै नित्रिंशाश निहुत वह देश्यमाशुकारि मुहूर्त्त -मप्युपेक्षितमातुरमतिपात्यति ", न चावकाशोऽस्ति वाक्समूहमुपस-र्त्तुम्, प्रत्येकमपि दष्टलक्षणेऽभिहिते सर्वत्र त्रैविध्यं भवति, तस्मा-१ व्यतिकरात् = असमानवर्णेस पसर्पिणी संसर्गादित्यर्थः । २ वैपरीत्येन वा गो-नससर्पेण कृष्णसर्पिण्यो वेत्यर्थः । एवमग्रेऽपि बोद्धयम् । ३ श्राद्यस्य = माकुल्याख्यस्य, पितृवत् = कृष्णसर्पत्रत् । द्वयोः = पोटगलस्निग्धर । जिकयो:, मातृवत पोटगलस्य माता गोनसी, स्निग्धराजिकस्य च राजिमती तद्वदित्यर्थः । ४ वैकरञ्जानां त्रयाणां पुनः सप्तभेदानाह - त्रयाणामिति । ५ राजिलवद् विषप्रवणा इत्यर्थः । ६ सर्पाणां पुरुषादिजातिलक्षणमाचष्टे - तत्रेति । ७ उभय-लक्षणं = स्त्रीपुरुषोभयसर्पलक्षणम् । ८ सामान्येन सर्पदष्टलक्षणं वक्ति – तत्रेति । ९ निशितनिस्त्रिशाशनि हुतवहदेश्यं = तीदणखड्ग वज्राग्नितुल्यम्, आशुकारि = शी. घ्रव्यापकम्, मुहूर्तमपि = घटिकाद्वयमपि । “ मात्राशतं विषं स्थित्वा दंशे दष्टस्य देहि-नः । देहं प्रक्रमते धातून् रुधिरादीन् प्रदूषयत् ॥ ” इत्यष्टाङ्गहृदये । १० अतिपात-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1005
पाठ पढ़ें पाठ छिपाएँ
अ ० ४ ] Digitized by Arya Samaj:mahen lation and eGangotri Chennai ८४७ त् त्रैविध्यमेव वक्ष्यामः । एतद्ध्यातुरहितमसम्मोहकरञ्च, अपि चात्रैव सर्वसर्पव्यञ्जनावरोधः ॥ ३६ ॥
तंत्र, दर्वीकरविषेण त्वङ्नयननखदशनमूत्रपुरीषंंश कृष्णत्वं रौक्ष्यं शिरसो गौरवं सन्धिवेदना कटीपृष्ठप्रीवादौर्बल्यं जृम्भणं वे-पथुः स्वरावसादो घुघुरको जडता शुष्कोद्गारः कासश्वासौ हिक्का वायोरूर्ध्वगमनं शूलोद्वेष्टनं तृष्णा लालास्रावः फेनागमनं स्रोतोऽ-वरोधस्तास्ताश्च वार्तवेद्ना भवन्ति । मण्डलिविषेण त्वगादीनां पीतत्वं शीताभिलाषः परिधूपनं दाह · स्तृष्णा मदो मूर्च्छा ज्वरः शोणितागमन मूर्ध्वमधश्च मांसानामव-शातनं श्वयथुर्दशकोथः पीतरूपदर्शनमाशुकोपस्तास्ताश्च पित्तवे-दना भवन्ति । राजिमद्विषेण शुक्लत्वं त्वगादीनां शीतज्वरो रोमहर्षः " स्तव्धत्वं गात्राणामादंशशोफः " सान्द्र कफप्रसे कश्छदिर भीक्ष्णमक्ष्णोः कण्डूः कण्ठे श्वयथुर्घुघुरक उच्छ्वासनिरोधस्तमःप्रवेशस्तास्ताश्च कफवे-दना भवन्ति ॥ ३७ ॥
१२ १४ पुरुषाभिदष्ट " ऊर्ध्वं प्रेक्षते, अधस्तात् स्त्रिया, सिराश्चोत्ति-ष्ठन्ति ललाटे, नपुंसकाभिदष्टस्तिर्यक्प्रेक्षी भवति, गर्भिण्या पाण्डु-मुखो मातश्च, सूतिकया " कुक्षिशूलात्तैः सरुधिरं मेहत्युपजिह्विका यतिमारयति । १ एतत् त्रैविध्यम्, श्रातुरहितम् श्रसम्मोहकरं वैद्यस्य भ्रान्ति. कारकं नेत्यर्थः । २ अत्रैव = त्रैविध्ये एव, सर्वसर्पव्यञ्जनावरोधः = सकलसर्पलक्षणाव-रोधः, सम्पूर्णसर्पदंशलक्षणानि त्रैविध्ये एवान्तर्भवन्तीति भावः । ३ दवकरादिसर्पदष्टलक्षणं प्रतिपादयति - तत्रेति । ४ स्वरावसाद: स्वरभङ्गः, घुर्धुरकः = अव्यक्तशब्दविशेष:, ' घुरघुराहट ' इति लोके । ५ शूलेनोद्वेष्टनं शरीराकु. ञ्चनम् । ६ तोदभेदादिवातवेतना इत्यर्थः । ७ शोताभिलाषः = शीतपदार्थसेवने • च्छेत्यर्थः । परिधूपनं = सर्वाङ्गसन्तापः । ८ अवशातनं = गलनम्, श्वयथुः = शोथ:, दंशकोथः = दष्टस्थानस्य पूतिभावः । ९ श्रोषचोषादि पित्तवेदना इत्यर्थः । १० रोम • हर्षः = रोमाञ्चः । ११ दष्टस्थानस्य समन्ततः शोथ इत्यर्थः । १२ कण्ड्वादिकफवे-दना इत्यर्थः । १३ पुरुषादिसर्पदष्टलक्षणमाख्याति - पुरुषेति । १४ सूतिकया = प्रसूतया सर्पि-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1006
पाठ पढ़ें पाठ छिपाएँ
८४८ Digitized by Arya Samaj सुश्रुतसंहितायां and eGangotri [ अ ० ४ चास्य भवति, ग्रासोर्थिनाऽन्नं काङ्क्षति, वृद्धेन चिरान् मन्दाश्च वेगाः, बालेनाशु मृदवश्च निर्विषेणाविषलिङ्गम, अन्धाहिकेना-न्धत्वमित्येके, ग्रसनादजगरः शरीरप्राणहरो न विषात् तत्र सद्यःप्राणहराहिदष्टः पतति शस्त्राशनिहत इव भूमौ, स्रस्ताङ्गः स्वपिति ॥ ३८ ॥
तत्रै, सर्वेषां सर्पाणां विषस्य सप्त वेगा भवन्ति । तत्र, दुर्बी-कराणां प्रथमे वेगे विषं शोणितं दूषयति, तत् प्रदुष्टं कृष्ण-तामुपैति । तेन कार्यं पिपीलिका परिसर्पणमिव चाङ्गे भवति । द्वितीये मांसं दूषयति, तेनात्यर्थं कृष्णता शोफो ग्रन्थयश्चाङ्गे भव-न्ति । तृतीये मेदो दूषयति, तेन ५ शक्लेदः शिरोगौरवं स्वेदश्चक्षु-ग्रहणञ्च । चतुर्थे कोष्ठमनुप्रविश्य कफप्रधानान् दोषान् दूषयति, तेन तन्द्राप्रसेकसन्धिविश्लेषा भवन्ति । पञ्चमेऽस्थीन्यनुप्रविशति प्राण-मग्निञ्च दूषयति, तेन ‘ पर्वभेदो हिक्का दाहश्च भवति । षष्ठे मज्जा-नमनुप्रविशति ग्रहणीचात्यर्थं दूषयति, तेन गात्राणां गौरवमतीसारो हृत्पीडा मूर्च्छा च भवति । सप्तमे शुक्रमनुप्रविशति व्यानञ्चात्यर्थं कोपयति कफञ्च सूक्ष्मस्रोतोभ्यः प्रच्यावयति, तेन श्लेष्मवर्त्तिप्रा. ' दुर्भावः कटीपृष्ठभङ्गः सर्वचेष्टाविघातो लालास्वेदयोरतिप्रवृत्तिरु-च्छ्वासनिरोधश्च भवति । मण्डलिनां प्रथमे वेगे विषं शोणितं दूषयति, तत् प्रदुष्टं पीत-तामुपैति, तत्र परिदाहः पीतावभासता चाङ्गानां भवति । द्वितीये मांसं दूषयति, तेनात्यर्थं पीतता परिदाहो दंशे " श्वयथुश्च भवति । ण्या । मेहति = मूत्रयति । उपजिह्विकालक्षणं निदानस्थाने - " जिह्वाऽग्ररूपः श्वय-थुर्हि जिह्वामुन्नम्य जातः कफरक्तयोनिः । प्रसेककण्डूपरिदाहयुक्ता प्रकथ्यतेऽसावुपजि. ह्विकेति ॥ ” इति स्मर्तव्यम् । १ ग्रासार्थिना = बुभुक्षितेन सर्पेणेत्यर्थः । २ ग्रस • नात् = निगरण । दित्यर्थः । ३ दवकरादिसर्पविषस्य सप्तवेगानां लक्षणानि दर्शयति - तत्रेति । पिपी. ४ ' लिका ' चींटी ' इति ख्याता, तस्याः परिसर्पणमिव प्रसरणमिवेत्यर्थः । ५ दष्टस्थाने क्लेद इत्यर्थः । ६ चक्षुर्ग्रहणं = दृष्टथवरोधः । ७ प्रसेकः = अल्पलालास्रावः । ८ पर्व-भेदः = ग्रन्थिस्फुटनम् । ९ ग्रहण = पित्तधरां कलाम् । १० दंशस्थाने इत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1007
पाठ पढ़ें पाठ छिपाएँ
अ ० ४ ] Digitized by Arya Sal पस्थानम् chennai and eGangotri ८४ ९ तृतीये मेदो दूषयति, तेन पूर्ववच्चक्षुर्ब्रहणं तृष्णा दंशक्लेदः स्वे-दश्च । चतुर्थे कोष्ठमनुप्रविश्य ज्वरमापादयति । पञ्चमे परिदाहं सर्वगात्रेषु करोति । षष्ठसप्तमयोः पूर्ववत् । राजिमतां प्रथमे वेगे विषं शोणितं दूषयति । तत् प्रदुष्टं पाण्डु-तामुपैति, तेन रोमहर्षः शुक्लावभासश्च पुरुषो भवति । द्वितीये मांसं दूषयति, तेन पाण्डुतात्यर्थं जाड्यं शिरःशोफश्च भवति । तृतीये मेदो दूषयति, तेन चक्षुर्प्रहणं शक्लेदः स्वेदो ब्राणाक्षिस्रा-वश्च भवति । चतुर्थे कोष्ठमनुप्रविश्य न्यास्तम्भं शिरोगौरवं चापादयति । पञ्चमे वाक्सङ्गं शीतज्वरञ्च करोति । षष्ठसप्तमयोः पूर्ववदिति ॥ ३ ९ ॥ भवन्ति चात्र ।
धात्वन्तरेषु याः सप्त कलाः सम्परिकीर्त्तिताः ।
तास्वेकैकामतिक्रम्य वेगं प्रकुरुते विषम् ॥ ४० ॥
येनान्तरेण तु कलां कालकल्पं भिनत्ति हि । १ पूर्ववत् = दवकरोक्तलक्षणवत् । २ मन्या ग्रीवायाः पश्चाद्भागे स्थिता सिर! तस्याः स्तम्भमापादयतीत्यर्थः । ३ सर्पविषवेगस्य सप्तत्वे हेतुमभिधन्ते - धात्वन्तरेष्विति । धातुग्रहणेन श्रा-शयोऽप्युपलक्ष्यते, तेन धात्वाशयमध्येषु याः सप्तकलाः शारीरस्थानस्य गर्भव्याकरणे सम्प्रकीर्तिता उक्ताः, तासु सप्तसु कलासु एकैकां कलामतिक्रम्य विषं वेगं वेगान्तरे प्रकुरुते । अत्र ढल्हण: - यथा रसर तयोरन्तरस्थां कलामतिक्रम्य रक्ते प्रथमवेगः, रक्त-मांसयोरन्तरस्थां कलामतिक्रम्य द्वितीयः, मांसमेदसोरन्तरस्था कलामतिक्रम्य तृतीयः, मेदःकफयोरन्तरस्थां कलामतिक्रम्य चतुर्थः, कफपुरीषयोरन्तरस्थां कलामतिक्रम्य पञ्चमः, पुरीषपित्तयोरन्तरस्थां कलामतिक्रम्य षष्ठः, पित्तशुकयोरन्तरस्यां कलामतिक्रम्य सप्तमः । यैव कला पुरोषधरा सैवास्थिधरेति पञ्चमेऽस्थन्यनुप्रविशतीत्यविरुद्धम् । एवं यैव पित्तधरा सैव मज्जधरेति षष्ठे मज्जानमनुप्रविशतीत्यविरुद्धमिति । ४ वेगान्तरलक्षणमाचष्टे - येनेति । हि यस्मात् कालकल्पं कालवन्निरन्तरं द्रुतगामिस्वभावं विषं समीरणेन वायुना उद्यमानं प्रेर्यमाणं सदन्तरेण मध्ये कलां मध्यवर्तिनीं कलां येन वेगेन भिनत्ति विदारयति तत्तु वेगान्तरं स्मृतमित्यर्थः । ५४ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1008
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां— ८५० Digitized by Arya Samaj Foundation Chennai and eGangotri समीरणेनोह्यमानं तत्तु वेगान्तरं स्मृतम् ॥ ४१ ॥
शूनाङ्गः प्रथमे वेगे पशुर्ध्यायति दुःखितः । [ अ ० ४ लालास्रावो द्वितीये तु कृष्णाङ्गः पीड्यते हृदि ॥ ४२ ॥
तृतीये च शिरोदुःखं कण्ठग्रीवञ्च भज्यते ।
चतुर्थे वेपते मूढः खादन् दन्तान् जहात्यसून् ॥ ४३ ॥
केचिद्वेगत्रयं प्राहुरन्तं चैतेषु तद्विदः ।
ध्यायेति प्रथमे वेगे पक्षी मुह्यत्यतः परम् ॥ ४४ ॥
द्वितीये विह्वलः प्रोक्तस्तृतीये मृत्युमृच्छति ।
केचिदेकं विहङ्गेषु विषवेगमुशन्ति हि ।
मार्जारनकुलादीनां विषं नातिप्रवर्तते ॥ ४५ ॥
इति सुश्रुतसंहितायां कल्पस्थाने सर्पदष्टविषविज्ञानीयं नाम चतुर्थोऽध्यायः ॥४ ॥
१ पशुविषवेगानां लक्षणानि निर्दिशति - शूनाङ्ग इति । शूनमङ्गं यस्य स शूनाङ्ग, शोथयुक्तशरीर इत्यर्थः । २ असून् = प्राणान् । ३ पक्षिविषवेगानां लक्षणानि दर्शयति - ध्यायतीति । ध्यायति = चिन्तयति, सीदतीति तात्पर्यम् । मुह्यति = भ्रमति । चरकेऽपि विषवेगप्रस्तावाच्चतुष्पदां पक्षिणां च विषवेगा उक्ताः - " चतुष्पदां स्याच्चतुर्विधः पक्षिणां त्रिविधः ॥ सीदत्याद्ये भ्रमति च चतुष्पदो वेपते ततः शून्यः । मन्दाहारो म्रियते श्वासेन हि चतुर्थदेगे तु ॥ ध्यायति विइगः प्रथमे वेगे प्रभ्राम्यति द्वितीये तु । स्वस्ताङ्गश्च तृतीये विषवेगे याति पचत्वम् ॥ ” इति । अत्र चक्रपाणिना विषवेगाभिधाने प्रयोजनमुक्तम्-‘ यद्विषवेगमृतस्यापि मांसमुपयोज्यं पीतविषस्य हृदयं दष्टस्य च दंशदेशं मुक्त्वेद्याद्यु-क्तविधानेन, वेगज्ञानेनाप्राप्त नैष्ठिकवेगस्य यथोक्तविधिना मांसं नोपादेयं, यतस्तस्य विषादितस्य सर्व शरीरं विषवद् भवति । ' इति । ४ उशन्ति = कथयन्ति । ५ ना. तिप्रवर्तते = नात्यन्तं प्रसरतोत्यर्थः । इति सुश्रुतसंहितायाः कल्पस्थानीय सुधाऽऽख्यटिप्पन्यां चतुर्थोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1009
पाठ पढ़ें पाठ छिपाएँ
अ ०५ ] कल्पस्थानम् । Digitized by Arya Samaj Foundation Chennai and eGangotri पञ्चमोऽध्यायः । ८५१ अथातः सर्पदष्टविषचिकित्सितं कल्पं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
सर्वैरेवादितः सर्वैः शाखादष्टस्य देहिनः ।
दंशस्योपरि बध्नीयादेरिष्टाश्चतुरङ्गुले ॥ ३ ॥
प्लोतचर्मान्तवल्कानां मृदुनाऽन्यतमेन वै ।
न गच्छति विषं देहमरिष्टाभिर्निवारितम् ॥। ४ ॥
दहेद्दशमथोत्कृत्य यत्र बन्धो न जायते ।
आचूषणच्छेददाहाः सर्वत्रैव तु पूजिताः ॥ ५ ॥
प्रतिपूर्थ्य मुखं वस्त्रैर्हितमाचूपणं भवेत् ।
स दष्टव्योऽथवा सर्पो ' लोष्टो वाऽपि हि तत्क्षणम् ॥ ६ ॥
अर्थं मण्डलिना दृष्टं न कथञ्चन दाहयेत् ।
सं पित्त बाहुल्यविषाद् दंशो दाहाद्विसर्पते ॥ ७ ॥
अरिष्टामपि मन्त्रैश्च बध्नीयान्मन्त्रकोविदः ।
सा तु रज्ज्वौदिभिर्बद्धा विषप्रतिकरी मता ॥ ८ ॥
पञ्चमोऽध्यायः । १ प्राक् सर्पदंशे अरिष्टाबन्धनमभिदधाति - सर्वैरिति । श्रादितः - दंशमात्रे, शाखा हस्तपादं तत्र दष्टस्य । २ अरिष्टा द्विविधा - सिद्धमन्त्रेण रज्ज्वादिभिर्वा विषोपरि बन्धः । श्ररिष्टाबन्धफलमुक्तं वाग्भटे – “ अम्बुवत्सेतुबन्धेन बन्धेन स्तभ्यते विषम् । न वहन्ति सिराश्चास्य विषं बन्धाभिपीडिताः ॥ ” इति । ३ अन्य-तमेन = प्लोतचर्मान्तवल्केष्वेकऩमेनेत्यर्थः । ४ उत्कृत्य = विलिख्य, यत्र - ग्रीवा. द्यवयवे इत्यर्थः । ५ श्राचूषणविधिमाख्याति - प्रतिपूर्येति । वस्त्रैरित्युपलक्षणम् । तेन मृद्भ-स्मादिभिरपि मुखसम्पूरणम्, विषसम्बन्धपरिहारार्थमिति भावः । तथा च वाग्भट: -“ श्राचूषेत् पूर्णवक्त्रो वा मृद्भस्मागदगोमयैः ” इति । मृत्पदैन विषहरत्वाद् वल्मीकमृ-त्तिका ग्राह्या । “ तं दंशं वा चूषेन्मुखेन यवपूर्णपांशुपूर्णेन ” इति चरकः । ६ लोष्टः = मृत्पिण्डः, “ प्रतप्तैर्हेमलोद्दाद्येर्द हेदाशूरमुकेन वा ” इति वाग्भटः । ७ मण्डलिदष्टे दाहं निषेधति– अथेति । ८ अष्टाङ्गहृदयेऽपि — ' दंशं मण्ड-लिनां मुक्त्वा पित्तलत्वादथापरम् " इति । ९ मन्त्ररहितैरपि रज्ग्वादिभिरित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1010
पाठ पढ़ें पाठ छिपाएँ
८५२ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ०५
देवब्रह्मर्षिभिः प्रोक्ता मन्त्राः सत्यतपोमयाः ।
भवन्ति नान्यथा क्षिप्रं विषं हन्युः सुदुस्तरम् ॥ ९ ॥
विषं तेजोमयैर्मन्त्रैः सत्यब्रह्मतपोमयैः ।
यथा निवार्य्यते क्षिप्रं प्रयुक्तैर्न तथौषधैः ॥ १० ॥
मन्त्रौणां ग्रहणं कार्य्यं स्त्रीमांसमधुवर्जिना ।
मिताहारेण शुचिना कुशास्तरणशायिना ॥ ११ ॥
गन्धमाल्योपहारैश्च बलिभिश्चापि देवताः ।
पूजयेन्मन्त्रसिद्ध्यर्थं जपहोमैश्च यत्नतः ॥ १२ ॥
मन्त्रास्त्वविधिना प्रोक्ता होना वा स्वरवर्णतः ।
यस्मान्न सिद्धिमायान्ति तस्माद्योज्योऽगदक्रमः ॥ १३ ॥
समन्ततः सिरा दंशाद्विध्येत्तु कुशलो भिषक् ।
शाखाऽग्रे वा ललाटे वा व्यध्यास्तां विस्तृते विषे ॥ १४ ॥
रक्ते निर्ह्रियमाणे तु कृत्स्नं निर्ह्रियते विषम् ।
तस्माद्विस्रावयेद्रक्तं सा ह्यस्य परमा क्रिया ॥ १५ ॥
समन्ताद्गदैर्देशं प्रच्छेयित्वा प्रलेपयेत् ।
चन्दनोशीरयुक्तेन वारिणा परिषेचयेत् ॥ १६ ॥
विषप्रतिकरो = विषप्रतीकारकारणमित्यर्थः । १ मन्त्रशक्तेः प्रशंसामाह - देवेति । २ तेजोमयैः = तेजःप्रचुरैः । ३ मन्त्रग्रहणविधिमभिदधाति -- मन्त्राणामिति । ४ अविधिना = पूर्वोक्तस्त्रीमांसमधु वर्जनादिविधानं विनेत्यर्थः । प्रोक्ताः - कथिताः, ' दीक्षागुरुणा ' इति शेषः । ५ अगदक्रमे यस्य यादृशः क्रम उपयुक्तः, स कर्तव्यः । चरके चतुर्विंशत्युपक्रमा दर्शिताः– “ मन्त्रारिष्टोत्कर्तन निष्पीडन चूषणाग्निपरिषेकाः । श्रवगाहरक्तमोक्षणवमनवि-रेकोपधानानि ॥ हृदयावरण अननस्य मलेहौषधप्रशमनानि । प्रतिसारणं प्रतिविषं संज्ञासंस्थापनं लेपः ॥ मृतसन्जीवनमेव च विंशतिरेते चतुर्भिरधिकाः । स्युरुपक्रमा यथा ये यत्र योज्याः शृणु तथा तान् ॥ ” इति । ६ रक्तइरणविधिं दर्शयति - सम. न्तत इति । समन्ततः == = चतुर्दिक्षु, दंशात्समन्ततः सिरा विध्येदिति सम्बन्धः । = सिराः, विसृते प्रसृते । ८ प्रच्छयित्वा = प्रच्छानं कृत्वा, अवलि-ख्येति यावत् । शोफादिनाऽनुपलभ्यमानासु सिरासु शृङ्गं जलौकसो वा युज्ज्यादित्युक्तं ७ ताः = CC - 0. Gurukul Kangri Collection, Haridwar