सुश्रुत संहिता चौखम्बा — पृष्ठ 1001–1010

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1001–1010

पृष्ठ 1001

सुश्रुत संहिता चौखम्बा, पृष्ठ 1001 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj Foundation Chennai and eGangotri कल्पस्थानम् ८४३ निर्मग्नान्यल्परक्तानि यान्युद्धृत्य करोति हि ॥ १५ ॥

चञ्चुमालक युक्तानि वैकृत्यकरणानि च ।

सङ्क्षिप्तौनि सशोफानि विद्यात्तत् सर्पितं भिषक् ॥ १६ ॥

8

राज्यः ' सलोहिता यत्र नीलाः पीताः सितास्तथा ।

विज्ञेयं रदितं तत्तु ज्ञेयमल्पविषञ्च तत् ॥ १७ ॥

अशोफॅमल्पदुष्टासृक् प्रकृतिस्थस्य देहिनः ।

पदं पदानि वा विद्यादेविषं तच्चिकित्सकः ॥ १८ ॥

सर्पस्पृष्टस्य भीरोर्हि भयेन कुपितोऽनिलः ।

कस्यचित् कुरुते शोफं सर्पाङ्गाभिहतन्तुं तत् ॥ १ ९ ॥

व्याधितोद्विग्नदष्टानि ज्ञेयान्यल्पविषाणि तु ।

तथाऽतिवृद्धबालाभिदष्टमल्पविषं स्मृतम् ॥ २२ ॥

सुपणदेवब्रह्मर्षिया सिद्धनिषेविते ।

विषन्नोषधियुक्ते च देशे न " क्रमते विषम् ॥ २१ ॥

" रथाङ्गलाङ्गलच्छत्र स्वस्तिकाङ्कुशधारिणः । क्षतचिह्नानि । १ निमग्नानि = अनुद्गतानि । २ चन्चुमालकयुक्तानि = उपरि पिडका सदृशैराचितानि । हाराणचन्द्रस्तु - ' पदानि यानि चन्चुमोठ मुवृत्य विषं निक्षेप्तुं वक्त्रीकृत्य करोति सर्प इति शेषः । तानि अलक एव आलकोऽङ्गलिप्तं कुङ्कु-मम्, कुत्सितं वाऽऽलमालकं रक्ताभं हरितालमित्येतत्, तद्वद्रागयुकान्याल कयुक्तानि ' इति व्याख्याति । वैकृत्य करणानि = विकार भावविधायकानि । ३ सङ्क्षिप्तानि = सूचीविद्धवत्सूक्ष्माणीत्यर्थः । ४ रदितस्य लक्षणं निर्दिशति – राज्य इति । राज्यः = रेखाः । निविं. ५ षस्य लक्षणमाख्याति — अशोकमिति । अशोकन् = ईषच्छोफयुक्तम् । ६ श्रविधं = निर्विषाख्यमित्यर्थः । ७ मतान्तरीय सर्पाङ्गाभिहतलक्षणं दर्शयति - सपेंति । चार्थे तु शब्द:, तेन शङ्काविषमपि बोद्धव्यम् । यथा कण्टकादिना विद्धे सर्पदष्टभ्रान्तिर्भवति । तदुक्तमष्टाङ्गहृदये – “ दुरन्धकारे विद्धस्य केनचिद्दष्टशङ्कया । विषोद्वेगो ज्वरश्छदि-दाहोऽपि वा भवेत् ॥ ग्लानिर्मोहोऽतिसारो वा तच्छङ्काविषमुच्यते । ” इति । ९ सर्पविषस्य अवस्थाविशेषेणाख्यविषत्वं प्रतिपादयति - व्याधितेति । १० न क्रमते = न प्रसरतीत्यर्थः । ११ दवकराणां लक्षणमाचष्टे – रथाङ्गेति । रथाङ्गं = चक्रम्, लाङ्गलं = हलम्, छत्रं प्रसिद्धम्, स्वस्तिकः = फणास्थनोलरेखाविशेषः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1002

सुश्रुत संहिता चौखम्बा, पृष्ठ 1002 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८४४ Digitized by Arya Sa सुनसहित सांnar and eGangotri [ अ ० ४ ज्ञेया दर्वीकराः सर्पाः फणिनः शीघ्रगामिनः ॥ २२ ॥

मण्डेलैविविधैश्चित्राः पृथवो मन्दगामिनः ।

ज्ञेया मण्डलिनः सर्पा ज्वलनार्कसमप्रभाः ॥ २३ ॥

स्निग्धौ विविधवर्णाभिस्तिर्य्यगूर्ध्वं च रोजिभिः ।

चित्रिता इव ये भान्ति राजिमन्तस्तु ते स्मृताः ॥ २४ ॥

मुक्तीरूप्यप्रभा ये च कपिला ये च पन्नगाः ।

सुगन्धयः सुवर्णाभास्ते जात्या ब्राह्मणाः स्मृताः ॥ २५ ॥

क्षैत्रियाः स्निग्धवर्णास्तु पन्नगा भृशकोपनाः ।

सूर्य्यचन्द्राकृतिच्छत्रलक्ष्मं तेषां तथाऽम्बुजम् ॥ २६ ॥

कृष्णा वज्रनिभा ये च लोहिता वर्णतस्तथा ।

धूम्राः पारावताभाचं वैश्यास्ते ' पन्नगाः स्मृताः ॥ २७ ॥

महिर्षद्वीपिवर्णाभास्तथैव परुषत्वचः ।

भिन्नवर्णाश्च ये केचिच्छ्रद्रास्ते परिकीर्त्तिताः ॥ २८ ॥

कोपयन्त्यनिलं ” जन्तोः फणिनः सर्व एव तु ।

पित्तं मण्डलिनश्चापि कफञ्चानेकराजयः ॥ २ ९ ॥

अपत्यमसवर्णाभ्यां.91 द्विदोपकरलक्षणम् ।

ज्ञेयं दोषैश्च दम्पत्योर्विशेषश्चात्र वक्ष्यते ॥ ३० ॥

१ मण्डलिनां लक्षणमाख्याति - मण्डलैरिति । विविधैः = नानाप्रकारैः, पृथवः == विस्तीर्णाः, “ मण्डलीमण्डलाफणः " इति चरके तल्लक्षणम् । २ राजिमतां लक्षणमभिदधाति - स्निग्धा इति । " बिन्दुलेखविचित्राङ्गः पन्नगः स्यात्तु राजिमान् ” इति चरकः । बिन्दुना लेखया च विचित्रमङ्गं यस्य स बिन्दुलेख • विचित्राङ्ग इति तदर्थः । ३ राजिभिः = रेखाभिः । ४ ब्राह्मणजातिसर्पं निरूपयति-मुक्तेति । मुक्तारूप्यप्रभाः = मुक्तारूप्यसमानकान्तयः । ५ क्षत्रियजातिसर्पे वर्ण-यति - क्षत्रिया इति । ६ ' चिह्नं लक्ष्म च लक्षणम् ' इत्यमरः । ७ वैश्य जातिस-माह - कृष्णा इति । ८ पारावतस्य कपोतस्य श्रभा इव श्राभा यस्य सः पाराव-ताभः । ९ शूद्रजातिसर्पमाख्याति - महिषेति । द्वीपी = ' चीता ' इति ख्यातः । १० दवकरादीनां वातादिप्रकोपकत्वं प्रतिपादयति- कोपयन्तीति । ११ अपत्य • मसवर्णाभ्यां = पृथग्जातीय सर्पिणी पृथग्जातीय सर्पाभ्याम्, अपत्यं वैकरञ्जाख्यमित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1003

सुश्रुत संहिता चौखम्बा, पृष्ठ 1003 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

-प्र ० ४ ] Digitized by Arya Samahennai and eGangotri

रजन्याः पश्चिमे यामे सर्पाश्चित्रांश्चरन्ति हि ।

शेषेषूक्ता मण्डलिनो दिवा दर्वीकराः स्मृताः ॥ ३१ ॥

दैर्वीकरास्तु तरुणा वृद्धा मण्डलिनस्तथा ।

राजिमन्तो वयोमध्या जायन्ते मृत्युहेतवः ॥ ३२ ॥

कुलाकुलिता बाला वारिविप्रहताः कृशाः । ८४५ वृद्धा मुक्तत्वचो भीताः सर्पास्त्वल्पविषाः स्मृताः ॥ ३३ ॥

तत्र, दर्वीकराः - कृष्ण सर्पो, महाकृष्णः कृष्णोदरः, श्वेतक-पोतो, महाकपोतो, बलाहको, महासर्प:, शङ्खपालो, लोहिताक्षो, गवे " धुकः, परिसर्पः, खण्डफणः, ककुदः, पद्म, महापद्मो, दर्भपुष्पो, दधिमुखः, पुण्डरीको, भ्रुकुटीमुखो, विष्किरः, पुष्पाभिकीर्णो, गिरि-सर्पः, ऋजुसर्पः, श्वेतोदरो, महाशिरा, अलगर्द, आशीविष इति । मण्डलिनस्तु - आदर्शमण्डलः, श्वेतमण्डलो, रक्तमण्डलः, चि-त्रमण्डलः, पृषतो, रोध्रपुष्पो, मिलिन्दको, गोनसो, वृद्धगोनसः, पन-सो, महापनसो, वेणुपत्रकः, शिशुको मदनः, पालिन्दिर:, पिङ्गलः, तन्तुकः पुष्पपाण्डुः, षडङ्गः, अग्निको बभ्रुः, कषायः, कलुषः पारा-वतो, हस्ताभरणः, चित्रक, एणीपद इति । राजिमन्तस्तु - पुण्डरीको, राजिचित्रः, अङ्गुलराजि:, विन्दु-राजि:, कदमकः, तृणशोषकः, सर्षपकः श्वेतहनुः, दर्भपुष्पञ्चकको, गोधूमकः, किक्किसाद इति । द्विदोषकराणि लक्षणानि यस्मिन् तद् द्विदोषकरलक्षणम् । १ त्रिविधसर्पाणां विच. रण समयमाख्याति - रजन्या इति । २ चित्राः - राजिमन्तः । ३ अवस्थाऽनु-सारेण त्रिविधसर्पाणामुग्रविषत्वं प्रतिपादयति - दर्वीति । चरकेऽपि - " तरुणाः कृष्ण-सर्वास्तु गोनसाः स्थविरास्तथा । राजिमन्तो वयोमध्ये भवन्त्याशीविषोपमाः ॥ ” इति । श्राशीविषा दृष्टिनिश्वासविषा उपमा येषां ते इति तदर्थः । वाग्भटे विशेषः- “ तारुण्य--मध्यवृद्धत्वे वृष्टिशीतातपेषु च । विषोल्बणा भवन्त्येते व्यन्तरा ऋतुसन्धिषु ॥ ” इति । ४ सर्पाणामत्पविषत्वे कारणमाह - नकुलेति । नकुलेन श्राकुलिताः क्षुभिता इति नकुलाकुलिताः, वारिणा विशेषेण प्रदता वितता इति वारिविप्रहताः । ५ मुक्त-= त्यक्तकन्चुकाः । ६ दवकरादिसर्पाणां नामानि निर्दिशति - कृष्णेति । त्वचः CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1004

सुश्रुत संहिता चौखम्बा, पृष्ठ 1004 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८४६ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ४ निर्विषास्तु - गलगोली, शूकपत्रः, अजगरो, दिव्यको, वर्षा -हिकः, पुष्पशकली, ज्योतीरथः, क्षीरिकापुष्पकः, अहिपताकः, अन्धाहिको, गौराहिको, वृक्षेशय इति । वैकरञ्जास्तु - त्रयाणां दर्वीकरादीनां व्यतिकराज्जाताः । तद्यथा-माकुलिः, पोटगलः, स्निग्धराजिरिति । तत्र, कृष्णसर्पेण गोनस्यां वैपरीत्येन वा जातो माकुलिः । राजिलेन गोनस्यां वैपरीत्येन वा जातः पोटगलः । कृष्णसर्पेण राजिमत्यां वैपरीत्येन वा जातः स्नि-ग्धराजिरिति ॥ तेषामाद्यस्य पितृवद्विपोत्कर्षो द्वयोर्मातृवदित्येके । त्रयाणां वैकरजानां पुनर्दिव्येलकरोघपुष्पकराजिचित्रकपो-टगलपुष्पाभिकीर्णदर्भपुष्पवेल्लितकाः सप्त । तेषामाद्यालयो रा-जिलैवत्, शेषा मण्डलिवत् । एवमेतेषां सर्पाणामशीतिय-ख्याता ॥ ३४ । तत्र, महानेत्रजिह्नास्यशिरसः पुमांसः, सूक्ष्मनेत्र जिह्वास्यशिर-सः स्त्रियः । उभयलक्षणामन्दविषा अक्रोधा नपुंसका इति ॥ ३५ ॥

तत्र, सर्वेषां सर्पाणां सामान्यत एव दष्टलक्षणं वक्ष्यामः । किं कारणं? विष हि निशितै नित्रिंशाश निहुत वह देश्यमाशुकारि मुहूर्त्त -मप्युपेक्षितमातुरमतिपात्यति ", न चावकाशोऽस्ति वाक्समूहमुपस-र्त्तुम्, प्रत्येकमपि दष्टलक्षणेऽभिहिते सर्वत्र त्रैविध्यं भवति, तस्मा-१ व्यतिकरात् = असमानवर्णेस पसर्पिणी संसर्गादित्यर्थः । २ वैपरीत्येन वा गो-नससर्पेण कृष्णसर्पिण्यो वेत्यर्थः । एवमग्रेऽपि बोद्धयम् । ३ श्राद्यस्य = माकुल्याख्यस्य, पितृवत् = कृष्णसर्पत्रत् । द्वयोः = पोटगलस्निग्धर । जिकयो:, मातृवत पोटगलस्य माता गोनसी, स्निग्धराजिकस्य च राजिमती तद्वदित्यर्थः । ४ वैकरञ्जानां त्रयाणां पुनः सप्तभेदानाह - त्रयाणामिति । ५ राजिलवद् विषप्रवणा इत्यर्थः । ६ सर्पाणां पुरुषादिजातिलक्षणमाचष्टे - तत्रेति । ७ उभय-लक्षणं = स्त्रीपुरुषोभयसर्पलक्षणम् । ८ सामान्येन सर्पदष्टलक्षणं वक्ति – तत्रेति । ९ निशितनिस्त्रिशाशनि हुतवहदेश्यं = तीदणखड्ग वज्राग्नितुल्यम्, आशुकारि = शी. घ्रव्यापकम्, मुहूर्तमपि = घटिकाद्वयमपि । “ मात्राशतं विषं स्थित्वा दंशे दष्टस्य देहि-नः । देहं प्रक्रमते धातून् रुधिरादीन् प्रदूषयत् ॥ ” इत्यष्टाङ्गहृदये । १० अतिपात-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1005

सुश्रुत संहिता चौखम्बा, पृष्ठ 1005 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४ ] Digitized by Arya Samaj:mahen lation and eGangotri Chennai ८४७ त् त्रैविध्यमेव वक्ष्यामः । एतद्ध्यातुरहितमसम्मोहकरञ्च, अपि चात्रैव सर्वसर्पव्यञ्जनावरोधः ॥ ३६ ॥

तंत्र, दर्वीकरविषेण त्वङ्नयननखदशनमूत्रपुरीषंंश कृष्णत्वं रौक्ष्यं शिरसो गौरवं सन्धिवेदना कटीपृष्ठप्रीवादौर्बल्यं जृम्भणं वे-पथुः स्वरावसादो घुघुरको जडता शुष्कोद्गारः कासश्वासौ हिक्का वायोरूर्ध्वगमनं शूलोद्वेष्टनं तृष्णा लालास्रावः फेनागमनं स्रोतोऽ-वरोधस्तास्ताश्च वार्तवेद्ना भवन्ति । मण्डलिविषेण त्वगादीनां पीतत्वं शीताभिलाषः परिधूपनं दाह · स्तृष्णा मदो मूर्च्छा ज्वरः शोणितागमन मूर्ध्वमधश्च मांसानामव-शातनं श्वयथुर्दशकोथः पीतरूपदर्शनमाशुकोपस्तास्ताश्च पित्तवे-दना भवन्ति । राजिमद्विषेण शुक्लत्वं त्वगादीनां शीतज्वरो रोमहर्षः " स्तव्धत्वं गात्राणामादंशशोफः " सान्द्र कफप्रसे कश्छदिर भीक्ष्णमक्ष्णोः कण्डूः कण्ठे श्वयथुर्घुघुरक उच्छ्वासनिरोधस्तमःप्रवेशस्तास्ताश्च कफवे-दना भवन्ति ॥ ३७ ॥

१२ १४ पुरुषाभिदष्ट " ऊर्ध्वं प्रेक्षते, अधस्तात् स्त्रिया, सिराश्चोत्ति-ष्ठन्ति ललाटे, नपुंसकाभिदष्टस्तिर्यक्प्रेक्षी भवति, गर्भिण्या पाण्डु-मुखो मातश्च, सूतिकया " कुक्षिशूलात्तैः सरुधिरं मेहत्युपजिह्विका यतिमारयति । १ एतत् त्रैविध्यम्, श्रातुरहितम् श्रसम्मोहकरं वैद्यस्य भ्रान्ति. कारकं नेत्यर्थः । २ अत्रैव = त्रैविध्ये एव, सर्वसर्पव्यञ्जनावरोधः = सकलसर्पलक्षणाव-रोधः, सम्पूर्णसर्पदंशलक्षणानि त्रैविध्ये एवान्तर्भवन्तीति भावः । ३ दवकरादिसर्पदष्टलक्षणं प्रतिपादयति - तत्रेति । ४ स्वरावसाद: स्वरभङ्गः, घुर्धुरकः = अव्यक्तशब्दविशेष:, ' घुरघुराहट ' इति लोके । ५ शूलेनोद्वेष्टनं शरीराकु. ञ्चनम् । ६ तोदभेदादिवातवेतना इत्यर्थः । ७ शोताभिलाषः = शीतपदार्थसेवने • च्छेत्यर्थः । परिधूपनं = सर्वाङ्गसन्तापः । ८ अवशातनं = गलनम्, श्वयथुः = शोथ:, दंशकोथः = दष्टस्थानस्य पूतिभावः । ९ श्रोषचोषादि पित्तवेदना इत्यर्थः । १० रोम • हर्षः = रोमाञ्चः । ११ दष्टस्थानस्य समन्ततः शोथ इत्यर्थः । १२ कण्ड्वादिकफवे-दना इत्यर्थः । १३ पुरुषादिसर्पदष्टलक्षणमाख्याति - पुरुषेति । १४ सूतिकया = प्रसूतया सर्पि-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1006

सुश्रुत संहिता चौखम्बा, पृष्ठ 1006 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८४८ Digitized by Arya Samaj सुश्रुतसंहितायां and eGangotri [ अ ० ४ चास्य भवति, ग्रासोर्थिनाऽन्नं काङ्क्षति, वृद्धेन चिरान् मन्दाश्च वेगाः, बालेनाशु मृदवश्च निर्विषेणाविषलिङ्गम, अन्धाहिकेना-न्धत्वमित्येके, ग्रसनादजगरः शरीरप्राणहरो न विषात् तत्र सद्यःप्राणहराहिदष्टः पतति शस्त्राशनिहत इव भूमौ, स्रस्ताङ्गः स्वपिति ॥ ३८ ॥

तत्रै, सर्वेषां सर्पाणां विषस्य सप्त वेगा भवन्ति । तत्र, दुर्बी-कराणां प्रथमे वेगे विषं शोणितं दूषयति, तत् प्रदुष्टं कृष्ण-तामुपैति । तेन कार्यं पिपीलिका परिसर्पणमिव चाङ्गे भवति । द्वितीये मांसं दूषयति, तेनात्यर्थं कृष्णता शोफो ग्रन्थयश्चाङ्गे भव-न्ति । तृतीये मेदो दूषयति, तेन ५ शक्लेदः शिरोगौरवं स्वेदश्चक्षु-ग्रहणञ्च । चतुर्थे कोष्ठमनुप्रविश्य कफप्रधानान् दोषान् दूषयति, तेन तन्द्राप्रसेकसन्धिविश्लेषा भवन्ति । पञ्चमेऽस्थीन्यनुप्रविशति प्राण-मग्निञ्च दूषयति, तेन ‘ पर्वभेदो हिक्का दाहश्च भवति । षष्ठे मज्जा-नमनुप्रविशति ग्रहणीचात्यर्थं दूषयति, तेन गात्राणां गौरवमतीसारो हृत्पीडा मूर्च्छा च भवति । सप्तमे शुक्रमनुप्रविशति व्यानञ्चात्यर्थं कोपयति कफञ्च सूक्ष्मस्रोतोभ्यः प्रच्यावयति, तेन श्लेष्मवर्त्तिप्रा. ' दुर्भावः कटीपृष्ठभङ्गः सर्वचेष्टाविघातो लालास्वेदयोरतिप्रवृत्तिरु-च्छ्वासनिरोधश्च भवति । मण्डलिनां प्रथमे वेगे विषं शोणितं दूषयति, तत् प्रदुष्टं पीत-तामुपैति, तत्र परिदाहः पीतावभासता चाङ्गानां भवति । द्वितीये मांसं दूषयति, तेनात्यर्थं पीतता परिदाहो दंशे " श्वयथुश्च भवति । ण्या । मेहति = मूत्रयति । उपजिह्विकालक्षणं निदानस्थाने - " जिह्वाऽग्ररूपः श्वय-थुर्हि जिह्वामुन्नम्य जातः कफरक्तयोनिः । प्रसेककण्डूपरिदाहयुक्ता प्रकथ्यतेऽसावुपजि. ह्विकेति ॥ ” इति स्मर्तव्यम् । १ ग्रासार्थिना = बुभुक्षितेन सर्पेणेत्यर्थः । २ ग्रस • नात् = निगरण । दित्यर्थः । ३ दवकरादिसर्पविषस्य सप्तवेगानां लक्षणानि दर्शयति - तत्रेति । पिपी. ४ ' लिका ' चींटी ' इति ख्याता, तस्याः परिसर्पणमिव प्रसरणमिवेत्यर्थः । ५ दष्टस्थाने क्लेद इत्यर्थः । ६ चक्षुर्ग्रहणं = दृष्टथवरोधः । ७ प्रसेकः = अल्पलालास्रावः । ८ पर्व-भेदः = ग्रन्थिस्फुटनम् । ९ ग्रहण = पित्तधरां कलाम् । १० दंशस्थाने इत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1007

सुश्रुत संहिता चौखम्बा, पृष्ठ 1007 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४ ] Digitized by Arya Sal पस्थानम् chennai and eGangotri ८४ ९ तृतीये मेदो दूषयति, तेन पूर्ववच्चक्षुर्ब्रहणं तृष्णा दंशक्लेदः स्वे-दश्च । चतुर्थे कोष्ठमनुप्रविश्य ज्वरमापादयति । पञ्चमे परिदाहं सर्वगात्रेषु करोति । षष्ठसप्तमयोः पूर्ववत् । राजिमतां प्रथमे वेगे विषं शोणितं दूषयति । तत् प्रदुष्टं पाण्डु-तामुपैति, तेन रोमहर्षः शुक्लावभासश्च पुरुषो भवति । द्वितीये मांसं दूषयति, तेन पाण्डुतात्यर्थं जाड्यं शिरःशोफश्च भवति । तृतीये मेदो दूषयति, तेन चक्षुर्प्रहणं शक्लेदः स्वेदो ब्राणाक्षिस्रा-वश्च भवति । चतुर्थे कोष्ठमनुप्रविश्य न्यास्तम्भं शिरोगौरवं चापादयति । पञ्चमे वाक्सङ्गं शीतज्वरञ्च करोति । षष्ठसप्तमयोः पूर्ववदिति ॥ ३ ९ ॥ भवन्ति चात्र ।

धात्वन्तरेषु याः सप्त कलाः सम्परिकीर्त्तिताः ।

तास्वेकैकामतिक्रम्य वेगं प्रकुरुते विषम् ॥ ४० ॥

येनान्तरेण तु कलां कालकल्पं भिनत्ति हि । १ पूर्ववत् = दवकरोक्तलक्षणवत् । २ मन्या ग्रीवायाः पश्चाद्भागे स्थिता सिर! तस्याः स्तम्भमापादयतीत्यर्थः । ३ सर्पविषवेगस्य सप्तत्वे हेतुमभिधन्ते - धात्वन्तरेष्विति । धातुग्रहणेन श्रा-शयोऽप्युपलक्ष्यते, तेन धात्वाशयमध्येषु याः सप्तकलाः शारीरस्थानस्य गर्भव्याकरणे सम्प्रकीर्तिता उक्ताः, तासु सप्तसु कलासु एकैकां कलामतिक्रम्य विषं वेगं वेगान्तरे प्रकुरुते । अत्र ढल्हण: - यथा रसर तयोरन्तरस्थां कलामतिक्रम्य रक्ते प्रथमवेगः, रक्त-मांसयोरन्तरस्थां कलामतिक्रम्य द्वितीयः, मांसमेदसोरन्तरस्था कलामतिक्रम्य तृतीयः, मेदःकफयोरन्तरस्थां कलामतिक्रम्य चतुर्थः, कफपुरीषयोरन्तरस्थां कलामतिक्रम्य पञ्चमः, पुरीषपित्तयोरन्तरस्थां कलामतिक्रम्य षष्ठः, पित्तशुकयोरन्तरस्यां कलामतिक्रम्य सप्तमः । यैव कला पुरोषधरा सैवास्थिधरेति पञ्चमेऽस्थन्यनुप्रविशतीत्यविरुद्धम् । एवं यैव पित्तधरा सैव मज्जधरेति षष्ठे मज्जानमनुप्रविशतीत्यविरुद्धमिति । ४ वेगान्तरलक्षणमाचष्टे - येनेति । हि यस्मात् कालकल्पं कालवन्निरन्तरं द्रुतगामिस्वभावं विषं समीरणेन वायुना उद्यमानं प्रेर्यमाणं सदन्तरेण मध्ये कलां मध्यवर्तिनीं कलां येन वेगेन भिनत्ति विदारयति तत्तु वेगान्तरं स्मृतमित्यर्थः । ५४ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1008

सुश्रुत संहिता चौखम्बा, पृष्ठ 1008 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां— ८५० Digitized by Arya Samaj Foundation Chennai and eGangotri समीरणेनोह्यमानं तत्तु वेगान्तरं स्मृतम् ॥ ४१ ॥

शूनाङ्गः प्रथमे वेगे पशुर्ध्यायति दुःखितः । [ अ ० ४ लालास्रावो द्वितीये तु कृष्णाङ्गः पीड्यते हृदि ॥ ४२ ॥

तृतीये च शिरोदुःखं कण्ठग्रीवञ्च भज्यते ।

चतुर्थे वेपते मूढः खादन् दन्तान् जहात्यसून् ॥ ४३ ॥

केचिद्वेगत्रयं प्राहुरन्तं चैतेषु तद्विदः ।

ध्यायेति प्रथमे वेगे पक्षी मुह्यत्यतः परम् ॥ ४४ ॥

द्वितीये विह्वलः प्रोक्तस्तृतीये मृत्युमृच्छति ।

केचिदेकं विहङ्गेषु विषवेगमुशन्ति हि ।

मार्जारनकुलादीनां विषं नातिप्रवर्तते ॥ ४५ ॥

इति सुश्रुतसंहितायां कल्पस्थाने सर्पदष्टविषविज्ञानीयं नाम चतुर्थोऽध्यायः ॥४ ॥

१ पशुविषवेगानां लक्षणानि निर्दिशति - शूनाङ्ग इति । शूनमङ्गं यस्य स शूनाङ्ग, शोथयुक्तशरीर इत्यर्थः । २ असून् = प्राणान् । ३ पक्षिविषवेगानां लक्षणानि दर्शयति - ध्यायतीति । ध्यायति = चिन्तयति, सीदतीति तात्पर्यम् । मुह्यति = भ्रमति । चरकेऽपि विषवेगप्रस्तावाच्चतुष्पदां पक्षिणां च विषवेगा उक्ताः - " चतुष्पदां स्याच्चतुर्विधः पक्षिणां त्रिविधः ॥ सीदत्याद्ये भ्रमति च चतुष्पदो वेपते ततः शून्यः । मन्दाहारो म्रियते श्वासेन हि चतुर्थदेगे तु ॥ ध्यायति विइगः प्रथमे वेगे प्रभ्राम्यति द्वितीये तु । स्वस्ताङ्गश्च तृतीये विषवेगे याति पचत्वम् ॥ ” इति । अत्र चक्रपाणिना विषवेगाभिधाने प्रयोजनमुक्तम्-‘ यद्विषवेगमृतस्यापि मांसमुपयोज्यं पीतविषस्य हृदयं दष्टस्य च दंशदेशं मुक्त्वेद्याद्यु-क्तविधानेन, वेगज्ञानेनाप्राप्त नैष्ठिकवेगस्य यथोक्तविधिना मांसं नोपादेयं, यतस्तस्य विषादितस्य सर्व शरीरं विषवद् भवति । ' इति । ४ उशन्ति = कथयन्ति । ५ ना. तिप्रवर्तते = नात्यन्तं प्रसरतोत्यर्थः । इति सुश्रुतसंहितायाः कल्पस्थानीय सुधाऽऽख्यटिप्पन्यां चतुर्थोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1009

सुश्रुत संहिता चौखम्बा, पृष्ठ 1009 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ०५ ] कल्पस्थानम् । Digitized by Arya Samaj Foundation Chennai and eGangotri पञ्चमोऽध्यायः । ८५१ अथातः सर्पदष्टविषचिकित्सितं कल्पं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

सर्वैरेवादितः सर्वैः शाखादष्टस्य देहिनः ।

दंशस्योपरि बध्नीयादेरिष्टाश्चतुरङ्गुले ॥ ३ ॥

प्लोतचर्मान्तवल्कानां मृदुनाऽन्यतमेन वै ।

न गच्छति विषं देहमरिष्टाभिर्निवारितम् ॥। ४ ॥

दहेद्दशमथोत्कृत्य यत्र बन्धो न जायते ।

आचूषणच्छेददाहाः सर्वत्रैव तु पूजिताः ॥ ५ ॥

प्रतिपूर्थ्य मुखं वस्त्रैर्हितमाचूपणं भवेत् ।

स दष्टव्योऽथवा सर्पो ' लोष्टो वाऽपि हि तत्क्षणम् ॥ ६ ॥

अर्थं मण्डलिना दृष्टं न कथञ्चन दाहयेत् ।

सं पित्त बाहुल्यविषाद् दंशो दाहाद्विसर्पते ॥ ७ ॥

अरिष्टामपि मन्त्रैश्च बध्नीयान्मन्त्रकोविदः ।

सा तु रज्ज्वौदिभिर्बद्धा विषप्रतिकरी मता ॥ ८ ॥

पञ्चमोऽध्यायः । १ प्राक् सर्पदंशे अरिष्टाबन्धनमभिदधाति - सर्वैरिति । श्रादितः - दंशमात्रे, शाखा हस्तपादं तत्र दष्टस्य । २ अरिष्टा द्विविधा - सिद्धमन्त्रेण रज्ज्वादिभिर्वा विषोपरि बन्धः । श्ररिष्टाबन्धफलमुक्तं वाग्भटे – “ अम्बुवत्सेतुबन्धेन बन्धेन स्तभ्यते विषम् । न वहन्ति सिराश्चास्य विषं बन्धाभिपीडिताः ॥ ” इति । ३ अन्य-तमेन = प्लोतचर्मान्तवल्केष्वेकऩमेनेत्यर्थः । ४ उत्कृत्य = विलिख्य, यत्र - ग्रीवा. द्यवयवे इत्यर्थः । ५ श्राचूषणविधिमाख्याति - प्रतिपूर्येति । वस्त्रैरित्युपलक्षणम् । तेन मृद्भ-स्मादिभिरपि मुखसम्पूरणम्, विषसम्बन्धपरिहारार्थमिति भावः । तथा च वाग्भट: -“ श्राचूषेत् पूर्णवक्त्रो वा मृद्भस्मागदगोमयैः ” इति । मृत्पदैन विषहरत्वाद् वल्मीकमृ-त्तिका ग्राह्या । “ तं दंशं वा चूषेन्मुखेन यवपूर्णपांशुपूर्णेन ” इति चरकः । ६ लोष्टः = मृत्पिण्डः, “ प्रतप्तैर्हेमलोद्दाद्येर्द हेदाशूरमुकेन वा ” इति वाग्भटः । ७ मण्डलिदष्टे दाहं निषेधति– अथेति । ८ अष्टाङ्गहृदयेऽपि — ' दंशं मण्ड-लिनां मुक्त्वा पित्तलत्वादथापरम् " इति । ९ मन्त्ररहितैरपि रज्ग्वादिभिरित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1010

सुश्रुत संहिता चौखम्बा, पृष्ठ 1010 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८५२ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ०५

देवब्रह्मर्षिभिः प्रोक्ता मन्त्राः सत्यतपोमयाः ।

भवन्ति नान्यथा क्षिप्रं विषं हन्युः सुदुस्तरम् ॥ ९ ॥

विषं तेजोमयैर्मन्त्रैः सत्यब्रह्मतपोमयैः ।

यथा निवार्य्यते क्षिप्रं प्रयुक्तैर्न तथौषधैः ॥ १० ॥

मन्त्रौणां ग्रहणं कार्य्यं स्त्रीमांसमधुवर्जिना ।

मिताहारेण शुचिना कुशास्तरणशायिना ॥ ११ ॥

गन्धमाल्योपहारैश्च बलिभिश्चापि देवताः ।

पूजयेन्मन्त्रसिद्ध्यर्थं जपहोमैश्च यत्नतः ॥ १२ ॥

मन्त्रास्त्वविधिना प्रोक्ता होना वा स्वरवर्णतः ।

यस्मान्न सिद्धिमायान्ति तस्माद्योज्योऽगदक्रमः ॥ १३ ॥

समन्ततः सिरा दंशाद्विध्येत्तु कुशलो भिषक् ।

शाखाऽग्रे वा ललाटे वा व्यध्यास्तां विस्तृते विषे ॥ १४ ॥

रक्ते निर्ह्रियमाणे तु कृत्स्नं निर्ह्रियते विषम् ।

तस्माद्विस्रावयेद्रक्तं सा ह्यस्य परमा क्रिया ॥ १५ ॥

समन्ताद्गदैर्देशं प्रच्छेयित्वा प्रलेपयेत् ।

चन्दनोशीरयुक्तेन वारिणा परिषेचयेत् ॥ १६ ॥

विषप्रतिकरो = विषप्रतीकारकारणमित्यर्थः । १ मन्त्रशक्तेः प्रशंसामाह - देवेति । २ तेजोमयैः = तेजःप्रचुरैः । ३ मन्त्रग्रहणविधिमभिदधाति -- मन्त्राणामिति । ४ अविधिना = पूर्वोक्तस्त्रीमांसमधु वर्जनादिविधानं विनेत्यर्थः । प्रोक्ताः - कथिताः, ' दीक्षागुरुणा ' इति शेषः । ५ अगदक्रमे यस्य यादृशः क्रम उपयुक्तः, स कर्तव्यः । चरके चतुर्विंशत्युपक्रमा दर्शिताः– “ मन्त्रारिष्टोत्कर्तन निष्पीडन चूषणाग्निपरिषेकाः । श्रवगाहरक्तमोक्षणवमनवि-रेकोपधानानि ॥ हृदयावरण अननस्य मलेहौषधप्रशमनानि । प्रतिसारणं प्रतिविषं संज्ञासंस्थापनं लेपः ॥ मृतसन्जीवनमेव च विंशतिरेते चतुर्भिरधिकाः । स्युरुपक्रमा यथा ये यत्र योज्याः शृणु तथा तान् ॥ ” इति । ६ रक्तइरणविधिं दर्शयति - सम. न्तत इति । समन्ततः == = चतुर्दिक्षु, दंशात्समन्ततः सिरा विध्येदिति सम्बन्धः । = सिराः, विसृते प्रसृते । ८ प्रच्छयित्वा = प्रच्छानं कृत्वा, अवलि-ख्येति यावत् । शोफादिनाऽनुपलभ्यमानासु सिरासु शृङ्गं जलौकसो वा युज्ज्यादित्युक्तं ७ ताः = CC - 0. Gurukul Kangri Collection, Haridwar