सुश्रुत संहिता चौखम्बा — पृष्ठ 1011–1020
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1011–1020
पृष्ठ 1011
पाठ पढ़ें पाठ छिपाएँ
अ ० ५ ] Digitized by Arya Samaj Severe hen hennai and eGangotri पाययेतागदांस्तांस्तान् क्षीरक्षौद्रघृतादिभिः । ८५३ तदलाभे हिना वा स्यात् कृष्णा वल्मीकमृत्तिका ॥ १७ ॥
कोविदारशिरीषार्ककट भीर्वाऽपि भक्षयेत् ।
न पिबेत् तैलकौलेत्थमद्यसौवीरकाणि च ॥ १८ ॥
द्रवमन्यन्तु यत्किञ्चित् पीत्वा पीत्वा तदुद्वमेत् ।
प्रायो हि वमनेनैव सुखं निह्रियते विषम् ॥ १ ९ ॥
फैणिनां विषवेगे तु प्रथमे शोणितं हरेत् ।
द्वितीये मधुसर्पिर्भ्यां पाययेतागदं भिषक् ॥ २० ॥
नस्यकर्माञ्जनेयुञ्ज्यात्तृतीये विषनाशने ।
वान्तं चतुर्थे ' पूर्वोक्तां यवागूमथ दापयेत् ॥ २१ ॥
शीतोपचारं कृत्वाऽऽदौ भिषक् पञ्चमषष्ठयोः ।
पाययेच्छोधनं तीक्ष्णं यवागूञ्चापि कीर्त्तिताम् ॥ २२ ॥
सप्तमे ववपीडेन शिरस्तीक्ष्णेन शोधयेत् ।
तीक्ष्णमेवाञ्जनं दद्यात् तीक्ष्णशस्त्रेण मूर्ध्नि च ॥ २३ ॥
कृत्वा काकँपदं चर्म सासृग्वा पिशितं क्षिपेत् ।
पूँर्वे मण्डलिनां वेगे दर्वीकरवदाचरेत् ॥ २४ ॥
अर्गदं मधुसर्पिर्भ्यां द्वितीये पाययेत च ।
वामयित्वा यवागूञ्च पूर्वोक्तामथ दापयेत् ॥ २५ ॥
तृतीये शोधितं तीक्ष्णैर्यवागं पाययेद्धिताम् ।
चतुर्थे पञ्चमे वाऽपि दर्वीकरवदाचरेत् ॥ २६ ॥
वाग्भटे— “ सिरास्वदृश्यमानासु योज्याः शृङ्गजलौकसः ” इति । रक्तकाञ्चनः,,... कटभी = ज्योतिष्मती, ' मालकांगनी ' इति प्रथते । कुलत्थभवं यूषम् । १ कोविदारः = २ कौलत्थं = ३ दवकरविषस्य सप्तवेगानां चिकित्सामाचष्टे - फणिनामिति । ४ दर्वीकर-विषोदितमगदमित्यथैः । ५ पूर्वोक्त = स्थावरविषविज्ञानीयोक्ताम्, यवागू ं = " को-घातक्योऽग्निकः पाठासूर्यवल्ल्यमृताऽभयाः " इत्यादिद्रव्यैः कृतां यवागूमित्यर्थः । ६ काकपदं = काकपदाकारंव्रिणुम् । ७ मण्डलिविषस्य सप्तवेगानां चिकित्सामा-ख्याति - पूर्वं इति । ८ मण्डलि विषोदितमगदमित्यर्थः । ९ तीक्ष्णैः = विरेचन-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1012
पाठ पढ़ें पाठ छिपाएँ
[ अ ०५ ८५४ Digitized by Arya Samaj सुकुतसंहिता and eGangotri
काकोल्यादिर्हितः षष्ठे पेयश्च मधुरोऽगदः ।
हितोऽवपीडे त्वगदः सप्तमे विषनाशनः ॥ २७ ॥
पूर्वे राजिमतां वेगे अलाबुभिः शोणितं हरेत् ॥
अगेंद मधुसर्पिर्भ्यां संयुक्तं पाययेत च ॥ २८ ॥
वान्तं द्वितीये त्वगदं पाययेद्विषनाशनम् ।
तृतीयादिषु त्रिष्वेवं विधिदर्वीकरो हितः ॥ २ ९ ॥
षष्ठेऽञ्जनं तीक्ष्णतममवपीडश्च सप्तमे ।
गर्भिणीबालवृद्धानां सिराव्यधविवर्जितम् ॥ ३० ॥
। विषार्त्तानां यथोद्दिष्टं विधानं शस्यते मृदु ।
रक्त वसेकाञ्जनानि नरतुल्यान्यजाविके ॥ ३१ ॥
त्रिगुणं महिषे सोष्ट्रे गवाश्वे द्विगुणं तु तत् ।
चतुर्गुणन्तु नागानां, केवलं सर्वपक्षिणाम् ॥ ३२ ॥
परिषेकान् प्रदेहांश्च सुनीतानवचारयेत् ।.
माषैकं त्वञ्जनस्येष्टं द्विगुणं नस्यतो हितम् ।
पाने चतुर्गुणं पथ्यं वमनेऽष्टगुणं पुनः ॥ ३३ ॥
१. देशप्रकृतिसात्म्यर्तुविषवेगबलाबलम् ।
प्रधार्य " निपुणं बुद्ध्या ततः कर्म समाचरेत् ॥ ३४ ॥
वेगानुपूर्व्या " कर्मोक्तमिदं विषविनाशनम् । द्रव्यैः चिकि । १ काकोल्यादिमधुर इति सम्बन्धः । २ राजिलविषस्य सप्तवेगानां त्सां वक्ति - पूर्व इति । ३ राजिलविषोदितमगदमित्यर्थः । ४ गर्भिण्यादीनां विषचिकित्सायां विशेषं वक्ति - गर्भिणीति । ५ विधानं = क्रियायोगम् । ६ पशुविषचिकित्सायां मात्रायां विशेषमभिधत्ते – रक्तेति । रक्ता-वसेकस्योत्तमा मात्रा प्रस्थप्रमाणा, अत्र प्रस्थस्तु — " वमने च विरेके च तथा शोणि-तमोक्षणे । सार्धं त्रयोदशपलं प्रस्थमाहुर्मनीषिणः ॥ ” इति तन्त्रान्तरोक्तो बोद्धव्यः । ७ पक्षिविषचिकित्सां निरूपयति – केवलमिति । ८ नरविषघ्नद्रव्यकृतपरिषेक-प्रदेहाभ्यामवचारयेदित्यर्थः । ९ अञ्जनादीनां मात्राप्रमाणे प्रतिपादयति - मापकमिति । माषकं - द्वादश-धान्यमाषात्मकं मानम् । १० चिकित्सा देशादिभेदेन प्रतिपुरुषं भिद्यत इति दर्श यति - देशेति । ११ प्रधार्य = विचार्यैत्यर्थः । १२ वेगानुपूर्व्या = वेगानुक्रमेण । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1013
पाठ पढ़ें पाठ छिपाएँ
] Digitized by Arya Sama ' कल्पस्थानम् Foundation Chennai and eGangotri ८५५ कर्मावस्थाविशेषेण विषयोरुर्भयोः शृणु ॥ ३५ ॥
विवेर्णे कठिने शूने सरुजेऽङ्गे विषान्विते ।
तूर्णं विस्रावणं काय्र्यमुक्तेन विधिना ततः ॥ ३६ ॥
क्षुधार्त्तमनिलप्रायं तद्विपार्तं समाहितः ।
पाययेत रसं सर्पिः शुक्तं क्षौद्रं तथा दधि ॥ ३७ ॥
र्तृड्दाहघर्मसम्मोहे पैत्तं पैत्तविषातुरंम् ।
शीतैः संवाहनस्नानप्रदेहैः समुपाचरेत् ॥ ३८ ॥
शीते शीतप्रसेकार्त्त श्लैष्मिकं " कफकृद्विषम् ।
वामनैस्तीर्णैस्तथा मूर्च्छामदान्वितम् ॥ ३ ९ ॥
" कोष्ठदाहरु जाध्मानमूत्रसङ्गरुगन्वितम् ।
विरेचयेच्छकृद्वायु सङ्गपित्तातुरं नरम् ॥ ४० ॥
१२ ' नाक्षिकूटं निद्रार्त्त विवर्णाविललोचनम् ।
विवर्णञ्चापि पश्यन्तमञ्जनैः समुपाचरेत् ॥ ४१ ॥
१३
। शिरोरुग्गौरवालस्य हनुस्तम्भगलग्रहे ।
शिरोविरेचयेत् क्षिप्रं मन्यास्तम्भे च दारुणे ॥ ४२ ॥
१ उभयोः = स्थावरजङ्गमयोरित्यर्थः । २ वातजविषचिकित्सां ब्रवीति - विवर्ण इति । शूने = शोधयुक्ते । ३ विस्रावणं = शोणितमोक्षणम् । ४ तद्विषार्ते = वात-प्रायविषवेदनात दवकर विषार्तमित्यर्थः । ५ शुक्तं = काञ्जिकम् । ६ पित्तज वि. चिकित्सा माख्याति -तृडिति । ७ पैत्तविषातुरं - पित्तजनकविषातुरं मण्डलि • विषार्तमित्यर्थः । ८ संवाहनं = करपादादीनां सुखकरमर्दनम् । ९ कफजविष-चिकित्सां प्रतिपादयति - शीत इति । १० कफकृद्विषं = श्लेष्मजनकविषं, राजिल-विषार्तमित्यर्थः । ११ वातपित्तविषातुरचिकित्सां वक्ति - कोष्ठेति । " स्थानान्यामाग्निपक्कानां मूत्र -स्य रुधिरस्य च । हृद्वण्टकः फुप्फुसश्च कोष्ठ इत्यभिधीयते ॥ ” इति कोष्ठपदेन बो-ध्यम् । १२ विषेऽञ्जनयोग्यान्नरान् दर्शयति - शूनेति । शूनः शोथयुक्तः श्रक्षिकूटो भ्रुवोरधोभागो यस्य स तं शूनाक्षिकूटम्, निद्रा निद्रालुम् विवर्णे श्रविले दूषि-कानेत्राम्बुभ्यां मलिने च लोचनै नयने यस्य स तम् । १३ शिरोविरेचनान्नरान्निर्दि-शति - शिर इति । शिरोरुक् = शिरोवेदनेत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1014
पाठ पढ़ें पाठ छिपाएँ
८५६ Digitized by Arya Samaj सुश्रुतसंहितायां = [ अ ०५ and eGangotri
नष्टसंज्ञं विवृत्ताक्षं भग्नग्रीवं विरेचनैः ।
चूर्णै: प्रधमनैस्तीक्ष्णैर्विषार्त्तं समुपाचरेत् ॥ ४३ ॥
ताडयेच्च सिराः क्षिप्रं तस्य शोखाललाटजाः ।
तास्वप्रसिच्यमानासु मूर्ध्नि शस्त्रेण शस्त्रवित् ॥ ४४ ॥
कुर्य्यात् काकपदाकारं व्रणमेवं स्रवन्ति ताः ।
सरक्तं चर्म मांसं वा निक्षिपेञ्चास्य मूर्धनि ॥ ४५ ॥
चर्मवृक्षैकषायं वा कल्कं वा कुशलो भिषक् ।
वादयेच्चागदैर्लिप्त्वौ दुन्दुभींस्तस्य पार्श्वयोः ॥ ४६ ॥
लब्धसंज्ञं पुनश्चैनमूर्ध्वं चाधश्च शोधयेत् ।
निःशेषं निर्हरेच्चैवं विषं परमदुर्जयम् ॥ ४७ ॥
अल्पमप्यवशिष्टं हि भूयो वेगाय कल्पते ।
कुर्य्याद् वा साद वैवर्ण्यज्वरकासशिरोरुजः ॥ ४८ ॥
शोफशोषप्रतिश्याम तिमिरारुचिपीनसान् ।
तेषु चापि यथादोषं प्रतिकर्म प्रयोजयेत् ॥ ४ ९ ॥
विषार्तोपद्रवांश्चापि ` यर्थास्वं समुपाचरेत् । ५० R अथारिष्टां विमुच्याशु प्रच्छयित्वाऽङ्कितं तया " ॥ ५० ॥
दिह्यात्तत्र विषं १ २ स्कन्नं भूयो वेगाय कल्पते ।
१ ' एवमौषधिभिर्मन्त्रैः क्रियायोगैश्च यत्नतः ॥ ५१ ॥
विषे हृतगुणे देहाद यदा दोषः प्रकुप्यति । १ नष्टसंज्ञस्य विषार्तस्य चिकित्सितमाख्याति - नष्टेति । नष्टा संज्ञा ज्ञानं यस्य स तं नष्टसंज्ञम् । २ शाखा हस्तपादकम् । ३ सरक्तं चर्ममांसं छागादीनाम् । ४ चर्मवृक्षो भूर्जवृक्षस्तस्य कषायो निर्यासरतं चर्मवृक्षकषायं निक्षिपेदित्यर्थः । ५ लेपनौषधानि वक्ष्यति । ६ वेगाय कल्पते = वेगार्थं प्रादुर्भवति । ७ सादः = अङ्गग्लानिः, वैवर्ण्यं = श्यामगौरादिवर्णस्यान्यथाभावः । = प्रतिकर्म = वमनादि-पञ्चकर्म 1 ९ यथास्वं = यथायोगम् । १० अरिष्टाबन्धनदूषितशोणितचिकित्सामाचष्टे - अथेति । ११ तया = अरिष्टया । १२ स्कन्नं = स्थानीभूतम् । १३ हृतगुणे विषे पश्चात्कर्म दर्शयति - एवमिति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1015
पाठ पढ़ें पाठ छिपाएँ
भ ० ५ ] Digitized by Arya Sarchennai and eGangotri तदा पवनमुद्वृत्तं ' स्नेहाद्यैः समुपाचरेत् ॥ ५२ ॥
तैलमत्स्यकुलत्थाम्लबज्यैर्विषहायुतैः ।
पित्तज्वरहरैः पित्तं कषायस्नेहवस्तिभिः ॥ ५३ ॥
कफमारग्वधाद्येन सक्षौद्रेण गणेन तु ।
श्लेष्मघ्नैरगदैश्चैव तिक्तै रुक्षैश्च भोजनैः ॥ ५४ ॥
वृक्षप्रपातविषमपतितं मृतमम्भसि । ८५७ उद्भद्धं च ' मृतं सद्यश्चिकित्सेन्नष्टसंज्ञवत् ॥ ५५ ॥
गाढं ' बद्धेऽरिष्टया प्रच्छिते वा तीक्ष्णैर्लेपैस्तै द्विधैर्वाऽवशिष्टैः ।
शूने गात्रे क्लिन्नमत्यर्थपूति ज्ञेयं मांसं तद्विषात् पूति कष्टम् ॥ ५६ ॥
सद्यो विद्धं निस्रवेत् कृष्णरक्तं पाकं यायाद् दह्यते चाप्यभीक्ष्णम् ।
कृष्णीभूतं क्लिन्नमत्यर्थपूति शीर्णं मांसं यात्यर्जस्रं क्षताच्च ॥ ५७ ॥
तृष्णा मूर्च्छा भ्रान्तिदाहौ ज्वरश्च यस्य स्युस्तं दिग्धैविद्धं व्यवस्येत् ।
पूर्वोद्दिष्टं लक्षणं सर्वमेतज्जुष्टं १ १० " यस्यालं विषेण ब्रणाः स्युः ॥ ५८ ॥
लूतादष्टाः दिग्धविद्धा विषैर्वा जुष्टा प्रायस्ते व्रणाः पूतिमांसाः ।
तेषां " युक्तया पूतिमांसान्यपोह्य वार्योकोभिः शोणितं चापहृत्य॥५९ ॥
हृत्वा दोषान् क्षिप्रमूर्ध्वं त्वधश्च सम्यक् सिञ्चेत् क्षीरिणां त्वक्कषायैः ।
अन्तर्वस्त्रं ' ' दापयेच्च प्रदेहान् शीतैर्द्रव्यै राज्ययुक्तैर्विषन्नैः ॥ ६० ॥
१ उद्वृत्तं स्थानान्तरगतम् । २ श्रारग्वधाद्येन गणेनेति सम्बन्धः । ३ मृतं = मरणासन्नमित्यर्थः । नष्टसंज्ञवत् = नष्टसंज्ञं विवृत्ताक्षं भग्नग्रीवं विरेचनैरित्या त्युक्तवत् । ४ विषेण पूतीभूतस्य मांसस्य चिकित्सां प्रतिपादयति - गाढमिति । ५ तद्वि. धैः - तीक्ष्णोपनाहादिभिः । ६ पूर्ति 1 पूति संज्ञकम्, कष्टं = कृच्छसाध्यम् । : ७ अभीक्ष्णं = वारं वारम् । ८ अजस्रं = सततम् । ९ दिग्धो विषलिप्तो वाणः, तेन विद्धं ताडितमित्यर्थः । ' बाणे विषाक्ते दिग्धलिप्तको ' इत्यमरः । १० यस्यातुरस्य अलमत्यर्थं विषेण जुष्टा व्रणाः स्युः, तस्यैतत्सर्वं पूर्वोद्दिष्टं गाढं बद्धेऽरिष्टयेत्यादिनोक्तं लक्षणं भवतीति योजना । ११ पूर्वोक्तानां व्रणानां चिकित्सां दर्शयति - तेषामिति । वार्योकोभिः जलौकोभिरित्यर्थः । १२ क्षीरिणां = न्यग्रोधोदुम्बराश्वत्थ पारिषप्लक्षपादपानाम् । १३ अन्तर्वस्त्रं = वस्त्रमध्ये । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1016
पाठ पढ़ें पाठ छिपाएँ
८५८ Digitized by Arya Samaj सुश्रुत संहितात्यां amteGangotri [ अ ०५
भिन्ने त्वस्थ्ना दुष्टजा॑तेन॒ कार्य्यः पूर्वो मार्गः पैत्तिके यो विषे च ।
त्रिबृद्विशल्ये मधुकं हरिद्रे रक्ता नरेन्द्रो लवणश्च वर्गः ॥ ६१ ॥
कंटुत्रिकं चैव सुचूर्णितानि शृङ्गे " 8 निदध्यान्मधुसंयुतानि ।
एषोऽगदो हन्ति विषं प्रयुक्तः पानाञ्जनाभ्यञ्जननस्ययोगः ॥ ६२ ॥
अवायवीय्र्यो विषवेगहन्ता महागदो नाम महाप्रभावः ।
विर्डङ्गपाठात्रिफलाऽजमोदाहिङ्गुनि वक्रं त्रिकटूनि चैव ॥ ६३ ॥
सर्वश्च वर्गो लवणः सुसूक्ष्मः सचित्रकः क्षौद्रयुतो निधेयः ।
शृङ्गे गवां शृङ्गमयेन चैव प्रच्छादितः पक्षमुपेक्षितश्च ॥ ६४ ॥
एषोऽगदः स्थावरजङ्गमानां जेता विषाणामजितो हि नाम्ना ।
प्रपौण्डरीकं सुरदारु मुस्ता कालानुसार्या कटुरोहिणी च ॥ ६५ ॥
* स्थौणेय कध्यामकगुग्गुलूनि पुन्नागतालीशसुवर्चिकाश्च " ।
१३ कुटन्नटैलासितसिन्धुवाराः शैलेयकुष्ठे तगरं प्रियङ्गुः ॥ ६६ ॥
रोध्रं ' ' जलं काञ्चनगैरिकञ्च समागधञ्चन्दन सैन्धवञ्च । १० १ दुष्टजातेन = दुष्टप्राणिसम्भूतेन, अस्थमा अस्थिविषाणामिति भावः । अस्थ्नैति पूर्वोक्तानां दुष्टजीवशकृन्मूत्रशुकस्पर्शपर्दनगुदा स्थिशूकशवानां सविषकण्टकानां वृश्चि • ककण्टकानां चोपलक्षणम् । पूर्वो मार्गः = " तेषां युक्त्या पूतिमांसान्यपोह्य " इत्या-थनन्तरोक्तः । पैत्तिके इति मण्डलिनां पैत्तिके बोद्धयम् । २ सर्वेषु विषेषु महागदाख्य मौषधमाह - त्रिवृदिति । विशल्या = ' काठापा-ढर ' इति ख्याता, विशल्या दन्तीति सुश्रुतार्थ सन्दीपनम् । रक्ता = मञ्जिष्ठा, नरेन्द्रः = आरग्वधः । ३ कटुत्रिकं = ' त्रिकुटा ' इत्युदुघुयते । ४ अनन्तरोक्तसाहचर्याद् गवादिशृङ्गे इत्यर्थः । ५ अवार्यमप्रतिहतं वीर्ये शक्तिर्यस्य सः । ६ अजितनामा-गदमभिदधाति - विडङ्गति । ७ बक्रं = तगरम् । अत्र श्रीहाराणचन्द्रस्तु चक्र. मिति पाठं मत्वा तगरपुष्पमिति व्याख्याति । = तार्क्ष्यनामागदं निरूपयति - प्रपौण्डेति । प्रपौण्डरीकं - ' पुण्डरिया ' इति ख्या-तम् । ९ कालानुसार्या - तगरम् । १० स्थौणेयकं = ग्रन्थिपर्णम्, ‘ कुकरौंधा ’ इत्युद्घुष्यते । ध्यामकं = गन्धतृणम् । ११ सुवचिका = ' सज्जीखार ' इति ख्याता । १२ कुटन्नटः = इयोनाकः, ' सोनापाठा ' इति ख्याता, एला प्रसिद्धा, सितसिन्धुवारः = शुक्ल निर्गुण्डी, असितसिन्धुवारो निर्गुण्डीति पदच्छेदः सुश्रुतार्थ सन्दीपने । १३ जलं = चालंकम्, हीबेर इति सुश्रुतार्थसन्दीपनम् । ' जलं गोकलले नीरे हीबेरेऽप्यन्नवज्जडे ’ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1017
पाठ पढ़ें पाठ छिपाएँ
अ ०५ ] Digitized by Arya Samaj Foundation Chennai and eGangotri कल्पस्थानम् । ८५ ९ सूक्ष्माणि चूर्णानि समानि कृत्वा शृङ्गे निदध्यान्मधुसंयुतानि ॥ ६७ ॥
एषोऽगदस्तार्क्ष्य इति प्रदिष्टो विषं निहन्यादपि तक्षकस्य ।
' मांसीह रेणुत्रिफलामुरङ्गीरक्तालतायष्टिकपद्मकानि ॥ ६८ ॥
विडङ्गतालीशसुगन्धि कै लात्वक्कुष्ठपत्राणि सचन्दनानि ।
भार्गी पटोलं किणिही सपाठा मृगादनी कर्कटिका पुरश्च ॥ ६ ९ ॥
पालिन्यैशोकौ क्रमुकं सुरस्याः प्रसून मारुष्करजञ्च पुष्पम् ।
सूक्ष्मानि चूर्णानि समानि शृङ्गे न्यसेत्स पित्तानि समाक्षिकाणि ॥७० ॥
वरौहगोधाशिस्त्रिशल्लकीनां मार्जारजं पार्षतनाकुले च ।
यस्यागदोऽयं सुकृतो गृहे स्यान्नाम्नर्षभो नाम नरर्षभस्य ॥ ७१ ॥
न तत्र सर्पाः कुत एव कीटास्त्यजन्ति वीर्याणि विषाणि चैव ।
एतेन भेर्यः पटहाच दिग्धा नानद्यमाना विषमाशु हन्युः ॥ ७२ ॥
दिग्धाः पताकाश्च निरीक्ष्य सद्यो विषाभिभूता ह्यविषा भवन्ति लाक्षा हरेणुर्नलदं प्रियङ्गुः शिश्रद्वयं यष्टिक पृथ्विकाश्च ' ° ॥ ७३ ॥
चूर्णीकृतोऽयं " रजनीविमिश्र सर्पिर्मधुभ्यां सहितो निधेयः ।
शृङ्गे गवां १ पूर्ववदापिधानस्ततः प्रयोज्योऽञ्जननस्यपानैः ॥ ७४ ॥
इति मेदिनी । काञ्चनगैरिकं = स्वर्णवर्णगैरिकम्, मागधेन पिप्पल्या सद्दितं समागधम् । १ ऋषभनामागदमाख्याति - मांसीति । - मुरङ्गी = रक्तशोभाञ्जनः, रक्तालता = मञ्जिष्ठा। २ सुगन्धिका = सर्पगन्धिका । ३ किणिही = ज्योतिष्मती, पाठा पाढ ' इति ख्याता, तत्सहितं; मृगादनी = इन्द्रवारुणी, कर्कटिका प्रसिद्धा, पुरः = गुग्गुलुः, " कौशिको गुग्गुलुः पुरः ' इत्यमरः । ४ पालिन्दी = त्रिवृत्, क्रमुकं E पूगफलम्, -सुरस्याः तुलस्याः, प्रसूनं पुष्पमित्यर्थः । श्रारुष्करजं पुष्पं - भल्लातकीपुष्पम् । ५ येषां पित्तानि ग्राह्याणि तानि निर्दिशति - वराहेति । ६ पृषतानां चित्त-मृगभेदानामिदं पार्षतम् । ७ यस्य नरर्षभस्य पुरुषश्रेष्ठस्य गृहे श्रयमगदो नाम्ना ऋषभो नाम, नामेति प्रसिद्धौ सुकृतः सुष्ठु सम्पादितः स्यादित्यर्थः । ८ दिग्धाः = लिप्ताः, विषाक्ता इति निष्कर्ष: । " भेरीमृदङ्गपटहान्छत्राण्यमुना तथा ध्वजपताकाः । लिप्त्वाऽहिविषनिरस्त्यै प्रध्वनयेद्दर्शयेन्मतिमान् ॥ ” इति चरके विशेषः । ९ सब्जीवननामागदं दर्शयति - लाक्षेति । हरेणुः = रेणुका, नलदम् = ' उशीर ’ इति ख्यातम् । १० पृथ्विका - एला । ११ रजनी = इरिद्रा । १२ पूर्ववदजिता-= CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1018
पाठ पढ़ें पाठ छिपाएँ
८६ Digitized by Arya Samaj Fou सुश्रुतसंहिताया eGangotri [ अ ०५
सञ्जीवनो नाम गतासुकल्पानेषोऽगदो जीवयतीह मर्त्यान् ।
श्लेष्मार्त की कट्फलमातुलुङ्गयः श्वेता गिरिह्ना किरिणही सिता च ॥ ७५ ॥
सर्तण्डुलीयोऽगद् एष मुख्यो विषेषु दर्वीकरराजिलानाम् ।
द्राक्षौ सुगन्धा नगवृत्तिका च श्वेता समङ्गा समभागयुक्ता ॥ ७६ ॥
देयो द्विभागः सुरसाच्छर्दैस्य कपित्थबिल्वादपि दाडिमाच्च ।
तथाऽर्द्धभागः सितसिन्धुवारादङ्कोठमूलादपि गैरिकाच्च ॥ ७७ ॥
एषोऽगदः क्षौद्वयुतो निहन्ति विशेषतो मण्डलिनां विषाणि ।
वंशैत्वगार्द्राऽऽमलकं कपित्थं कटुत्रिक हैमवती सकुष्ठा ॥ ७८ ॥
करञ्जबीजं तगरं शिरीषपुष्पञ्च गोपित्तयुतं निहन्ति ।
विषाणि लूतोन्दुरपन्नगानां कैटञ्च लेपाञ्जननस्यपानैः ॥ ७ ९ ॥
पुरीषमूत्रानि गर्भसङ्गान् निहन्ति वर्त्यञ्जननाभिलेपैः ।
काचार्मकोथान् पटलांश्च घोरान् पुष्पञ्च हन्त्यञ्जननस्ययोगैः ॥८० ॥
समूर्लेपुष्पाङ्कुरवल्कबीजात् क्वाथः शिरीषात् त्रिकटुप्रगाढः ।
सलावणः " क्षौद्रयुतोऽथ पीतो विशे तः कीटविषं निहन्ति ॥ ८१ ॥
कुष्ठं ' ' त्रिकटुकं दार्वी मधुकं लवणद्वयम् ३२ ।
मालती नागपुष्पञ्च सर्वाणि " मधुराणि च । ८२ ॥
ख्यागदवत् पक्षपर्यन्तं शृङ्गमयमापिधानं यस्य सः । १ दवकरराजिल विषेऽगद. योगं वक्ति - श्लेष्मातकीति । श्वेता गिरिह्वा = श्वेतस्यन्दा, किणिही = नोलस्य • न्दा, इति डल्हणः । सिता = शर्करा । २ तण्डुलीयः श्रल्पमारिषः, ' चौलाईशाक ' इति ख्यातस्तेन सहितः सतण्डुलीयः । ३ मण्डलिविषेऽगदयोगमभिदधाति - द्राक्षेति । सुगन्धा = नाकुली, ' रासना ' इति ख्याता । “ नाकुलो सर्पगन्धा च सुगन्धा भोगगन्धिका । सेव सर्पसुगन्धेति * ' ' ' ' इति नामान्तरम् । नगवृत्तिका = शल्लकी, श्वेता = श्वेतस्यन्दः, समङ्गा = मञ्जिष्ठा । ४ सुरसाच्छदस्य = तुलसीपत्रस्येत्यर्थः । ५ सार्वकामिकागदमभिधत्ते - वंशेति । वंशस्वगार्द्रा == श्रार्द्रवंशत्वगित्यर्थः । ६ हैमवती = वचा । ७ पुरीषमूत्रानिलगर्भाणां सङ्गा अत्रवद्धता तान् निहन्ति । - काचादयो नयनरोगभेदाः । ९ विषे शिरीषयोगं प्रतिपादयति – समूलेति । १० सलावणः = लवणवर्गसहितः । ११ मूषकविषनाशकयोगमभिदधाति कुष्ठमिति । १२ सैन्धवं सौवर्चलं चेति लबणद्वयमित्यर्थः । १३ सर्वाणि मधुराणि = काकोल्या-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1019
पाठ पढ़ें पाठ छिपाएँ
अ ० ६ ] Digitized by Arya Samme chennai and eGangotri
कपित्थरसपिष्टोऽयं शर्कराक्षौद्र संयुतः ।
विषं हन्त्यगदः सर्वं मूषिकाणां विशेषतः ॥ ८३ ॥
सोमराजीफलं पुष्पं कटभी सिन्धुवारकः ।
चोरको वरुणः कुष्ठं सर्पगन्धा ससप्तला ॥ ८४ ॥
पुनर्नवा शिरीषस्य पुष्पमारग्वधार्कजम् । ८६१ श्यामोऽम्बष्ठा विडङ्गानि तथाऽम्राश्मन्तकानि च ॥ ८५ ॥
भूमी कुरवकश्चैव गण एकसरः स्मृतः ।
एकशो द्वित्रिशो वाऽपि प्रयोक्तव्यो विषापहः ॥ ८६ ॥
इति सुश्रुतसंहितायां कल्पस्थाने सर्पदष्टविषचिकित्सितं नाम पञ्चमोऽध्यायः ॥ ५ ॥
षष्ठोऽध्यायः ।
अथातो दुन्दुभिस्वनीयं कल्पं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
वाश्वकर्ण शिरीपतिनिशपलाशपिचुम पाटलिपारिभद्रकाम्रोदु-दीनि मधुरद्रव्याणि । १ सर्वविषे एकसरसंज्ञकगणं निर्दिशति - सोमेति । सोमराजी = बाकुची । २ चोरकः = ग्रन्थिपर्णभेदः, सर्पगन्धा = नाकुली, ' रासना ' इति ख्याता, सप्तला = -सातला । ३ श्यामा = त्रिवृत्, श्रम्बष्ठा = पाठा, अश्मन्तकः = अम्लोटक सदृशः । ४ भूमी = कृष्णमृत्तिका, कुरवकः = ' लालकटसरैया ' इति ख्यातः । एकसरः = एकसरतं-ञ्चक इत्यर्थः । ५ एकशः = एकमेकम्, द्वित्रिशः = द्वौ द्वौ त्रीन् त्रीन् वेत्यर्थः ॥ इति सुश्रुतसंहितायाः कल्पस्थानीयसुधाऽऽख्यटिप्पन्यां पञ्चमोऽध्यायः षष्टोऽध्यायः । ६ पूर्वाध्याये “ दादयेच्चागदै लिखा दुन्दुभींस्तस्य पार्श्वयोः ” इति सामान्येनोक्तं विस्तरेण बोधनार्थमयमध्याय श्रारभ्यते - अथेति । दुन्दुभिस्वनो विद्यतेऽस्मिन्न- । ध्याये इति दुन्दुभिस्वनीयस्तम् । ७ सर्वविषे क्षारागदमभिदधाति - धवेति CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1020
पाठ पढ़ें पाठ छिपाएँ
८६२ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ६ म्बरकरहाटकार्जनककुभसर्जकपीतनश्लेष्मातकाङ्कोठामलकप्रग्रहकु टजशभीकपित्थाश्मन्त कार्कचिरबिल्व महावृक्षारुष्करारलुमधुकमधु-शिश । कगोजीमूर्वाभूर्जतिल्व के क्षुर कगोपघोण्टारिमेदानां भस्मा-न्याहृत्य गवां मूत्रेण क्षारकल्पेन परिस्राव्य विपचेत्, दयाचात्र पिप्पलीमूलतण्डुलीयकवराङ्गचोचमञ्जिष्ठाकरञ्जिका हस्तिपिप्पलीम-रिचविडङ्गगृहधूमानन्तीसोमसरलाबाह्रीक गुहाकोशाम्र श्वेत सर्षपव-रुणलवणप्लक्षनिचुलँकवञ्जुल व कालवर्धमानपुत्रश्रेणी सप्तपर्णटुण्टु-कैलवालुकनागदन्त्यतिविषाऽभया भद्रदारुकुष्ठहरिद्रावचाचूर्णानि लो-हानाञ्च समभागानि, ततः क्षारवदागतपाकमवतार्य्य लोहकुम्भे नि--दुध्यात् ॥ ३ ॥
अनेन दुन्दुभिं लिम्पेत् पताकां तोरणानि च ।
श्रवणाद्दशर्नात् स्पर्शाद् विषात् सम्प्रतिमुच्यते ॥ ४ ॥
एष क्षारागदो नाम शर्करास्वश्मरोषु च ।
अर्शःसु वातगुल्मेषु कासशूलोदरेषु च ॥ ५ ॥
अजीर्णे ग्रहणीदोषे ' भक्तद्वेषे च दारुणे । १० शोफे सर्वसरे चापि देयः श्वासे च दारुणे ॥ ६ ॥
श्रश्वकर्णः = सालभेदः, तिनिशः - वन्जुलः, पिचुमदंः निम्बः । १ करहाटकः = ‘ मयनफल ' इति ख्यातः । श्रर्जुनः = ' काहू ' इति ख्यातः । ककुभः = सुगन्धमूलो विटपः, कपीतनः = श्राम्रातकः, ' कपीतनो गईंभाण्ड शिरीषाम्रातकेषु च । अश्वत्थे च ' इति विश्वः । २ प्रग्रहः = श्रारग्वधः । ३ अरुष्करः = भल्लातकः, श्ररलुः == श्योनाकः । ४ परिस्राव्य = एकत्रिंशतिवारान् गालयित्वेत्यर्थः । ५ तण्डुलीयकः = ' चौलाई ' इति ख्यातः । बराङ्गं = गुडत्वक्, ' वराङ्गं योनिमातङ्गमस्तकेषु गुडखचि ' इति मेदिनी । चोचं = ' दालचीनी ' इति प्रथते । ६ अनन्ता = उत्पलसारिवा, सोमः - कट्फलम्, सरला प्रसिद्धा, वाह्रीकं = कुङ्कुमम्, गुहा = शालपणीं । ७ निचुलकः = जलवेतसः, वक्रं = तगरम्, आलं = हरितालम्, वर्धमानः = एरण्डः, वन्जुलः = जलवेतसः, पुत्रश्रेणी - द्रवन्ती, सप्त-पर्णः = ' सतवन ' इति ख्यातः । टुण्टुकः = श्योनाकः, एलवालुकः = ' एलुभा ' इति ख्यातः । ८ ‘ सर्वे च तैजसं लौइम् ' इति कोशात् लौहानां ताम्ररजतादीनामित्यर्थः । ९ भक्तद्वेषः = अन्नानभिलाषता । १० सर्बसरे = मुखरोगभेदे । CC - 0. Gurukul Kangri Collection, Haridwar