सुश्रुत संहिता चौखम्बा — पृष्ठ 1011–1020

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1011–1020

पृष्ठ 1011

सुश्रुत संहिता चौखम्बा, पृष्ठ 1011 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ५ ] Digitized by Arya Samaj Severe hen hennai and eGangotri पाययेतागदांस्तांस्तान् क्षीरक्षौद्रघृतादिभिः । ८५३ तदलाभे हिना वा स्यात् कृष्णा वल्मीकमृत्तिका ॥ १७ ॥

कोविदारशिरीषार्ककट भीर्वाऽपि भक्षयेत् ।

न पिबेत् तैलकौलेत्थमद्यसौवीरकाणि च ॥ १८ ॥

द्रवमन्यन्तु यत्किञ्चित् पीत्वा पीत्वा तदुद्वमेत् ।

प्रायो हि वमनेनैव सुखं निह्रियते विषम् ॥ १ ९ ॥

फैणिनां विषवेगे तु प्रथमे शोणितं हरेत् ।

द्वितीये मधुसर्पिर्भ्यां पाययेतागदं भिषक् ॥ २० ॥

नस्यकर्माञ्जनेयुञ्ज्यात्तृतीये विषनाशने ।

वान्तं चतुर्थे ' पूर्वोक्तां यवागूमथ दापयेत् ॥ २१ ॥

शीतोपचारं कृत्वाऽऽदौ भिषक् पञ्चमषष्ठयोः ।

पाययेच्छोधनं तीक्ष्णं यवागूञ्चापि कीर्त्तिताम् ॥ २२ ॥

सप्तमे ववपीडेन शिरस्तीक्ष्णेन शोधयेत् ।

तीक्ष्णमेवाञ्जनं दद्यात् तीक्ष्णशस्त्रेण मूर्ध्नि च ॥ २३ ॥

कृत्वा काकँपदं चर्म सासृग्वा पिशितं क्षिपेत् ।

पूँर्वे मण्डलिनां वेगे दर्वीकरवदाचरेत् ॥ २४ ॥

अर्गदं मधुसर्पिर्भ्यां द्वितीये पाययेत च ।

वामयित्वा यवागूञ्च पूर्वोक्तामथ दापयेत् ॥ २५ ॥

तृतीये शोधितं तीक्ष्णैर्यवागं पाययेद्धिताम् ।

चतुर्थे पञ्चमे वाऽपि दर्वीकरवदाचरेत् ॥ २६ ॥

वाग्भटे— “ सिरास्वदृश्यमानासु योज्याः शृङ्गजलौकसः ” इति । रक्तकाञ्चनः,,... कटभी = ज्योतिष्मती, ' मालकांगनी ' इति प्रथते । कुलत्थभवं यूषम् । १ कोविदारः = २ कौलत्थं = ३ दवकरविषस्य सप्तवेगानां चिकित्सामाचष्टे - फणिनामिति । ४ दर्वीकर-विषोदितमगदमित्यथैः । ५ पूर्वोक्त = स्थावरविषविज्ञानीयोक्ताम्, यवागू ं = " को-घातक्योऽग्निकः पाठासूर्यवल्ल्यमृताऽभयाः " इत्यादिद्रव्यैः कृतां यवागूमित्यर्थः । ६ काकपदं = काकपदाकारंव्रिणुम् । ७ मण्डलिविषस्य सप्तवेगानां चिकित्सामा-ख्याति - पूर्वं इति । ८ मण्डलि विषोदितमगदमित्यर्थः । ९ तीक्ष्णैः = विरेचन-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1012

सुश्रुत संहिता चौखम्बा, पृष्ठ 1012 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

[ अ ०५ ८५४ Digitized by Arya Samaj सुकुतसंहिता and eGangotri

काकोल्यादिर्हितः षष्ठे पेयश्च मधुरोऽगदः ।

हितोऽवपीडे त्वगदः सप्तमे विषनाशनः ॥ २७ ॥

पूर्वे राजिमतां वेगे अलाबुभिः शोणितं हरेत् ॥

अगेंद मधुसर्पिर्भ्यां संयुक्तं पाययेत च ॥ २८ ॥

वान्तं द्वितीये त्वगदं पाययेद्विषनाशनम् ।

तृतीयादिषु त्रिष्वेवं विधिदर्वीकरो हितः ॥ २ ९ ॥

षष्ठेऽञ्जनं तीक्ष्णतममवपीडश्च सप्तमे ।

गर्भिणीबालवृद्धानां सिराव्यधविवर्जितम् ॥ ३० ॥

। विषार्त्तानां यथोद्दिष्टं विधानं शस्यते मृदु ।

रक्त वसेकाञ्जनानि नरतुल्यान्यजाविके ॥ ३१ ॥

त्रिगुणं महिषे सोष्ट्रे गवाश्वे द्विगुणं तु तत् ।

चतुर्गुणन्तु नागानां, केवलं सर्वपक्षिणाम् ॥ ३२ ॥

परिषेकान् प्रदेहांश्च सुनीतानवचारयेत् ।.

माषैकं त्वञ्जनस्येष्टं द्विगुणं नस्यतो हितम् ।

पाने चतुर्गुणं पथ्यं वमनेऽष्टगुणं पुनः ॥ ३३ ॥

१. देशप्रकृतिसात्म्यर्तुविषवेगबलाबलम् ।

प्रधार्य " निपुणं बुद्ध्या ततः कर्म समाचरेत् ॥ ३४ ॥

वेगानुपूर्व्या " कर्मोक्तमिदं विषविनाशनम् । द्रव्यैः चिकि । १ काकोल्यादिमधुर इति सम्बन्धः । २ राजिलविषस्य सप्तवेगानां त्सां वक्ति - पूर्व इति । ३ राजिलविषोदितमगदमित्यर्थः । ४ गर्भिण्यादीनां विषचिकित्सायां विशेषं वक्ति - गर्भिणीति । ५ विधानं = क्रियायोगम् । ६ पशुविषचिकित्सायां मात्रायां विशेषमभिधत्ते – रक्तेति । रक्ता-वसेकस्योत्तमा मात्रा प्रस्थप्रमाणा, अत्र प्रस्थस्तु — " वमने च विरेके च तथा शोणि-तमोक्षणे । सार्धं त्रयोदशपलं प्रस्थमाहुर्मनीषिणः ॥ ” इति तन्त्रान्तरोक्तो बोद्धव्यः । ७ पक्षिविषचिकित्सां निरूपयति – केवलमिति । ८ नरविषघ्नद्रव्यकृतपरिषेक-प्रदेहाभ्यामवचारयेदित्यर्थः । ९ अञ्जनादीनां मात्राप्रमाणे प्रतिपादयति - मापकमिति । माषकं - द्वादश-धान्यमाषात्मकं मानम् । १० चिकित्सा देशादिभेदेन प्रतिपुरुषं भिद्यत इति दर्श यति - देशेति । ११ प्रधार्य = विचार्यैत्यर्थः । १२ वेगानुपूर्व्या = वेगानुक्रमेण । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1013

सुश्रुत संहिता चौखम्बा, पृष्ठ 1013 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

] Digitized by Arya Sama ' कल्पस्थानम् Foundation Chennai and eGangotri ८५५ कर्मावस्थाविशेषेण विषयोरुर्भयोः शृणु ॥ ३५ ॥

विवेर्णे कठिने शूने सरुजेऽङ्गे विषान्विते ।

तूर्णं विस्रावणं काय्र्यमुक्तेन विधिना ततः ॥ ३६ ॥

क्षुधार्त्तमनिलप्रायं तद्विपार्तं समाहितः ।

पाययेत रसं सर्पिः शुक्तं क्षौद्रं तथा दधि ॥ ३७ ॥

र्तृड्दाहघर्मसम्मोहे पैत्तं पैत्तविषातुरंम् ।

शीतैः संवाहनस्नानप्रदेहैः समुपाचरेत् ॥ ३८ ॥

शीते शीतप्रसेकार्त्त श्लैष्मिकं " कफकृद्विषम् ।

वामनैस्तीर्णैस्तथा मूर्च्छामदान्वितम् ॥ ३ ९ ॥

" कोष्ठदाहरु जाध्मानमूत्रसङ्गरुगन्वितम् ।

विरेचयेच्छकृद्वायु सङ्गपित्तातुरं नरम् ॥ ४० ॥

१२ ' नाक्षिकूटं निद्रार्त्त विवर्णाविललोचनम् ।

विवर्णञ्चापि पश्यन्तमञ्जनैः समुपाचरेत् ॥ ४१ ॥

१३

। शिरोरुग्गौरवालस्य हनुस्तम्भगलग्रहे ।

शिरोविरेचयेत् क्षिप्रं मन्यास्तम्भे च दारुणे ॥ ४२ ॥

१ उभयोः = स्थावरजङ्गमयोरित्यर्थः । २ वातजविषचिकित्सां ब्रवीति - विवर्ण इति । शूने = शोधयुक्ते । ३ विस्रावणं = शोणितमोक्षणम् । ४ तद्विषार्ते = वात-प्रायविषवेदनात दवकर विषार्तमित्यर्थः । ५ शुक्तं = काञ्जिकम् । ६ पित्तज वि. चिकित्सा माख्याति -तृडिति । ७ पैत्तविषातुरं - पित्तजनकविषातुरं मण्डलि • विषार्तमित्यर्थः । ८ संवाहनं = करपादादीनां सुखकरमर्दनम् । ९ कफजविष-चिकित्सां प्रतिपादयति - शीत इति । १० कफकृद्विषं = श्लेष्मजनकविषं, राजिल-विषार्तमित्यर्थः । ११ वातपित्तविषातुरचिकित्सां वक्ति - कोष्ठेति । " स्थानान्यामाग्निपक्कानां मूत्र -स्य रुधिरस्य च । हृद्वण्टकः फुप्फुसश्च कोष्ठ इत्यभिधीयते ॥ ” इति कोष्ठपदेन बो-ध्यम् । १२ विषेऽञ्जनयोग्यान्नरान् दर्शयति - शूनेति । शूनः शोथयुक्तः श्रक्षिकूटो भ्रुवोरधोभागो यस्य स तं शूनाक्षिकूटम्, निद्रा निद्रालुम् विवर्णे श्रविले दूषि-कानेत्राम्बुभ्यां मलिने च लोचनै नयने यस्य स तम् । १३ शिरोविरेचनान्नरान्निर्दि-शति - शिर इति । शिरोरुक् = शिरोवेदनेत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1014

सुश्रुत संहिता चौखम्बा, पृष्ठ 1014 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८५६ Digitized by Arya Samaj सुश्रुतसंहितायां = [ अ ०५ and eGangotri

नष्टसंज्ञं विवृत्ताक्षं भग्नग्रीवं विरेचनैः ।

चूर्णै: प्रधमनैस्तीक्ष्णैर्विषार्त्तं समुपाचरेत् ॥ ४३ ॥

ताडयेच्च सिराः क्षिप्रं तस्य शोखाललाटजाः ।

तास्वप्रसिच्यमानासु मूर्ध्नि शस्त्रेण शस्त्रवित् ॥ ४४ ॥

कुर्य्यात् काकपदाकारं व्रणमेवं स्रवन्ति ताः ।

सरक्तं चर्म मांसं वा निक्षिपेञ्चास्य मूर्धनि ॥ ४५ ॥

चर्मवृक्षैकषायं वा कल्कं वा कुशलो भिषक् ।

वादयेच्चागदैर्लिप्त्वौ दुन्दुभींस्तस्य पार्श्वयोः ॥ ४६ ॥

लब्धसंज्ञं पुनश्चैनमूर्ध्वं चाधश्च शोधयेत् ।

निःशेषं निर्हरेच्चैवं विषं परमदुर्जयम् ॥ ४७ ॥

अल्पमप्यवशिष्टं हि भूयो वेगाय कल्पते ।

कुर्य्याद् वा साद वैवर्ण्यज्वरकासशिरोरुजः ॥ ४८ ॥

शोफशोषप्रतिश्याम तिमिरारुचिपीनसान् ।

तेषु चापि यथादोषं प्रतिकर्म प्रयोजयेत् ॥ ४ ९ ॥

विषार्तोपद्रवांश्चापि ` यर्थास्वं समुपाचरेत् । ५० R अथारिष्टां विमुच्याशु प्रच्छयित्वाऽङ्कितं तया " ॥ ५० ॥

दिह्यात्तत्र विषं १ २ स्कन्नं भूयो वेगाय कल्पते ।

१ ' एवमौषधिभिर्मन्त्रैः क्रियायोगैश्च यत्नतः ॥ ५१ ॥

विषे हृतगुणे देहाद यदा दोषः प्रकुप्यति । १ नष्टसंज्ञस्य विषार्तस्य चिकित्सितमाख्याति - नष्टेति । नष्टा संज्ञा ज्ञानं यस्य स तं नष्टसंज्ञम् । २ शाखा हस्तपादकम् । ३ सरक्तं चर्ममांसं छागादीनाम् । ४ चर्मवृक्षो भूर्जवृक्षस्तस्य कषायो निर्यासरतं चर्मवृक्षकषायं निक्षिपेदित्यर्थः । ५ लेपनौषधानि वक्ष्यति । ६ वेगाय कल्पते = वेगार्थं प्रादुर्भवति । ७ सादः = अङ्गग्लानिः, वैवर्ण्यं = श्यामगौरादिवर्णस्यान्यथाभावः । = प्रतिकर्म = वमनादि-पञ्चकर्म 1 ९ यथास्वं = यथायोगम् । १० अरिष्टाबन्धनदूषितशोणितचिकित्सामाचष्टे - अथेति । ११ तया = अरिष्टया । १२ स्कन्नं = स्थानीभूतम् । १३ हृतगुणे विषे पश्चात्कर्म दर्शयति - एवमिति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1015

सुश्रुत संहिता चौखम्बा, पृष्ठ 1015 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भ ० ५ ] Digitized by Arya Sarchennai and eGangotri तदा पवनमुद्वृत्तं ' स्नेहाद्यैः समुपाचरेत् ॥ ५२ ॥

तैलमत्स्यकुलत्थाम्लबज्यैर्विषहायुतैः ।

पित्तज्वरहरैः पित्तं कषायस्नेहवस्तिभिः ॥ ५३ ॥

कफमारग्वधाद्येन सक्षौद्रेण गणेन तु ।

श्लेष्मघ्नैरगदैश्चैव तिक्तै रुक्षैश्च भोजनैः ॥ ५४ ॥

वृक्षप्रपातविषमपतितं मृतमम्भसि । ८५७ उद्भद्धं च ' मृतं सद्यश्चिकित्सेन्नष्टसंज्ञवत् ॥ ५५ ॥

गाढं ' बद्धेऽरिष्टया प्रच्छिते वा तीक्ष्णैर्लेपैस्तै द्विधैर्वाऽवशिष्टैः ।

शूने गात्रे क्लिन्नमत्यर्थपूति ज्ञेयं मांसं तद्विषात् पूति कष्टम् ॥ ५६ ॥

सद्यो विद्धं निस्रवेत् कृष्णरक्तं पाकं यायाद् दह्यते चाप्यभीक्ष्णम् ।

कृष्णीभूतं क्लिन्नमत्यर्थपूति शीर्णं मांसं यात्यर्जस्रं क्षताच्च ॥ ५७ ॥

तृष्णा मूर्च्छा भ्रान्तिदाहौ ज्वरश्च यस्य स्युस्तं दिग्धैविद्धं व्यवस्येत् ।

पूर्वोद्दिष्टं लक्षणं सर्वमेतज्जुष्टं १ १० " यस्यालं विषेण ब्रणाः स्युः ॥ ५८ ॥

लूतादष्टाः दिग्धविद्धा विषैर्वा जुष्टा प्रायस्ते व्रणाः पूतिमांसाः ।

तेषां " युक्तया पूतिमांसान्यपोह्य वार्योकोभिः शोणितं चापहृत्य॥५९ ॥

हृत्वा दोषान् क्षिप्रमूर्ध्वं त्वधश्च सम्यक् सिञ्चेत् क्षीरिणां त्वक्कषायैः ।

अन्तर्वस्त्रं ' ' दापयेच्च प्रदेहान् शीतैर्द्रव्यै राज्ययुक्तैर्विषन्नैः ॥ ६० ॥

१ उद्वृत्तं स्थानान्तरगतम् । २ श्रारग्वधाद्येन गणेनेति सम्बन्धः । ३ मृतं = मरणासन्नमित्यर्थः । नष्टसंज्ञवत् = नष्टसंज्ञं विवृत्ताक्षं भग्नग्रीवं विरेचनैरित्या त्युक्तवत् । ४ विषेण पूतीभूतस्य मांसस्य चिकित्सां प्रतिपादयति - गाढमिति । ५ तद्वि. धैः - तीक्ष्णोपनाहादिभिः । ६ पूर्ति 1 पूति संज्ञकम्, कष्टं = कृच्छसाध्यम् । : ७ अभीक्ष्णं = वारं वारम् । ८ अजस्रं = सततम् । ९ दिग्धो विषलिप्तो वाणः, तेन विद्धं ताडितमित्यर्थः । ' बाणे विषाक्ते दिग्धलिप्तको ' इत्यमरः । १० यस्यातुरस्य अलमत्यर्थं विषेण जुष्टा व्रणाः स्युः, तस्यैतत्सर्वं पूर्वोद्दिष्टं गाढं बद्धेऽरिष्टयेत्यादिनोक्तं लक्षणं भवतीति योजना । ११ पूर्वोक्तानां व्रणानां चिकित्सां दर्शयति - तेषामिति । वार्योकोभिः जलौकोभिरित्यर्थः । १२ क्षीरिणां = न्यग्रोधोदुम्बराश्वत्थ पारिषप्लक्षपादपानाम् । १३ अन्तर्वस्त्रं = वस्त्रमध्ये । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1016

सुश्रुत संहिता चौखम्बा, पृष्ठ 1016 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८५८ Digitized by Arya Samaj सुश्रुत संहितात्यां amteGangotri [ अ ०५

भिन्ने त्वस्थ्ना दुष्टजा॑तेन॒ कार्य्यः पूर्वो मार्गः पैत्तिके यो विषे च ।

त्रिबृद्विशल्ये मधुकं हरिद्रे रक्ता नरेन्द्रो लवणश्च वर्गः ॥ ६१ ॥

कंटुत्रिकं चैव सुचूर्णितानि शृङ्गे " 8 निदध्यान्मधुसंयुतानि ।

एषोऽगदो हन्ति विषं प्रयुक्तः पानाञ्जनाभ्यञ्जननस्ययोगः ॥ ६२ ॥

अवायवीय्र्यो विषवेगहन्ता महागदो नाम महाप्रभावः ।

विर्डङ्गपाठात्रिफलाऽजमोदाहिङ्गुनि वक्रं त्रिकटूनि चैव ॥ ६३ ॥

सर्वश्च वर्गो लवणः सुसूक्ष्मः सचित्रकः क्षौद्रयुतो निधेयः ।

शृङ्गे गवां शृङ्गमयेन चैव प्रच्छादितः पक्षमुपेक्षितश्च ॥ ६४ ॥

एषोऽगदः स्थावरजङ्गमानां जेता विषाणामजितो हि नाम्ना ।

प्रपौण्डरीकं सुरदारु मुस्ता कालानुसार्या कटुरोहिणी च ॥ ६५ ॥

* स्थौणेय कध्यामकगुग्गुलूनि पुन्नागतालीशसुवर्चिकाश्च " ।

१३ कुटन्नटैलासितसिन्धुवाराः शैलेयकुष्ठे तगरं प्रियङ्गुः ॥ ६६ ॥

रोध्रं ' ' जलं काञ्चनगैरिकञ्च समागधञ्चन्दन सैन्धवञ्च । १० १ दुष्टजातेन = दुष्टप्राणिसम्भूतेन, अस्थमा अस्थिविषाणामिति भावः । अस्थ्नैति पूर्वोक्तानां दुष्टजीवशकृन्मूत्रशुकस्पर्शपर्दनगुदा स्थिशूकशवानां सविषकण्टकानां वृश्चि • ककण्टकानां चोपलक्षणम् । पूर्वो मार्गः = " तेषां युक्त्या पूतिमांसान्यपोह्य " इत्या-थनन्तरोक्तः । पैत्तिके इति मण्डलिनां पैत्तिके बोद्धयम् । २ सर्वेषु विषेषु महागदाख्य मौषधमाह - त्रिवृदिति । विशल्या = ' काठापा-ढर ' इति ख्याता, विशल्या दन्तीति सुश्रुतार्थ सन्दीपनम् । रक्ता = मञ्जिष्ठा, नरेन्द्रः = आरग्वधः । ३ कटुत्रिकं = ' त्रिकुटा ' इत्युदुघुयते । ४ अनन्तरोक्तसाहचर्याद् गवादिशृङ्गे इत्यर्थः । ५ अवार्यमप्रतिहतं वीर्ये शक्तिर्यस्य सः । ६ अजितनामा-गदमभिदधाति - विडङ्गति । ७ बक्रं = तगरम् । अत्र श्रीहाराणचन्द्रस्तु चक्र. मिति पाठं मत्वा तगरपुष्पमिति व्याख्याति । = तार्क्ष्यनामागदं निरूपयति - प्रपौण्डेति । प्रपौण्डरीकं - ' पुण्डरिया ' इति ख्या-तम् । ९ कालानुसार्या - तगरम् । १० स्थौणेयकं = ग्रन्थिपर्णम्, ‘ कुकरौंधा ’ इत्युद्घुष्यते । ध्यामकं = गन्धतृणम् । ११ सुवचिका = ' सज्जीखार ' इति ख्याता । १२ कुटन्नटः = इयोनाकः, ' सोनापाठा ' इति ख्याता, एला प्रसिद्धा, सितसिन्धुवारः = शुक्ल निर्गुण्डी, असितसिन्धुवारो निर्गुण्डीति पदच्छेदः सुश्रुतार्थ सन्दीपने । १३ जलं = चालंकम्, हीबेर इति सुश्रुतार्थसन्दीपनम् । ' जलं गोकलले नीरे हीबेरेऽप्यन्नवज्जडे ’ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1017

सुश्रुत संहिता चौखम्बा, पृष्ठ 1017 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ०५ ] Digitized by Arya Samaj Foundation Chennai and eGangotri कल्पस्थानम् । ८५ ९ सूक्ष्माणि चूर्णानि समानि कृत्वा शृङ्गे निदध्यान्मधुसंयुतानि ॥ ६७ ॥

एषोऽगदस्तार्क्ष्य इति प्रदिष्टो विषं निहन्यादपि तक्षकस्य ।

' मांसीह रेणुत्रिफलामुरङ्गीरक्तालतायष्टिकपद्मकानि ॥ ६८ ॥

विडङ्गतालीशसुगन्धि कै लात्वक्कुष्ठपत्राणि सचन्दनानि ।

भार्गी पटोलं किणिही सपाठा मृगादनी कर्कटिका पुरश्च ॥ ६ ९ ॥

पालिन्यैशोकौ क्रमुकं सुरस्याः प्रसून मारुष्करजञ्च पुष्पम् ।

सूक्ष्मानि चूर्णानि समानि शृङ्गे न्यसेत्स पित्तानि समाक्षिकाणि ॥७० ॥

वरौहगोधाशिस्त्रिशल्लकीनां मार्जारजं पार्षतनाकुले च ।

यस्यागदोऽयं सुकृतो गृहे स्यान्नाम्नर्षभो नाम नरर्षभस्य ॥ ७१ ॥

न तत्र सर्पाः कुत एव कीटास्त्यजन्ति वीर्याणि विषाणि चैव ।

एतेन भेर्यः पटहाच दिग्धा नानद्यमाना विषमाशु हन्युः ॥ ७२ ॥

दिग्धाः पताकाश्च निरीक्ष्य सद्यो विषाभिभूता ह्यविषा भवन्ति लाक्षा हरेणुर्नलदं प्रियङ्गुः शिश्रद्वयं यष्टिक पृथ्विकाश्च ' ° ॥ ७३ ॥

चूर्णीकृतोऽयं " रजनीविमिश्र सर्पिर्मधुभ्यां सहितो निधेयः ।

शृङ्गे गवां १ पूर्ववदापिधानस्ततः प्रयोज्योऽञ्जननस्यपानैः ॥ ७४ ॥

इति मेदिनी । काञ्चनगैरिकं = स्वर्णवर्णगैरिकम्, मागधेन पिप्पल्या सद्दितं समागधम् । १ ऋषभनामागदमाख्याति - मांसीति । - मुरङ्गी = रक्तशोभाञ्जनः, रक्तालता = मञ्जिष्ठा। २ सुगन्धिका = सर्पगन्धिका । ३ किणिही = ज्योतिष्मती, पाठा पाढ ' इति ख्याता, तत्सहितं; मृगादनी = इन्द्रवारुणी, कर्कटिका प्रसिद्धा, पुरः = गुग्गुलुः, " कौशिको गुग्गुलुः पुरः ' इत्यमरः । ४ पालिन्दी = त्रिवृत्, क्रमुकं E पूगफलम्, -सुरस्याः तुलस्याः, प्रसूनं पुष्पमित्यर्थः । श्रारुष्करजं पुष्पं - भल्लातकीपुष्पम् । ५ येषां पित्तानि ग्राह्याणि तानि निर्दिशति - वराहेति । ६ पृषतानां चित्त-मृगभेदानामिदं पार्षतम् । ७ यस्य नरर्षभस्य पुरुषश्रेष्ठस्य गृहे श्रयमगदो नाम्ना ऋषभो नाम, नामेति प्रसिद्धौ सुकृतः सुष्ठु सम्पादितः स्यादित्यर्थः । ८ दिग्धाः = लिप्ताः, विषाक्ता इति निष्कर्ष: । " भेरीमृदङ्गपटहान्छत्राण्यमुना तथा ध्वजपताकाः । लिप्त्वाऽहिविषनिरस्त्यै प्रध्वनयेद्दर्शयेन्मतिमान् ॥ ” इति चरके विशेषः । ९ सब्जीवननामागदं दर्शयति - लाक्षेति । हरेणुः = रेणुका, नलदम् = ' उशीर ’ इति ख्यातम् । १० पृथ्विका - एला । ११ रजनी = इरिद्रा । १२ पूर्ववदजिता-= CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1018

सुश्रुत संहिता चौखम्बा, पृष्ठ 1018 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८६Digitized by Arya Samaj Fou सुश्रुतसंहिताया eGangotri [ अ ०५

सञ्जीवनो नाम गतासुकल्पानेषोऽगदो जीवयतीह मर्त्यान् ।

श्लेष्मार्त की कट्फलमातुलुङ्गयः श्वेता गिरिह्ना किरिणही सिता च ॥ ७५ ॥

सर्तण्डुलीयोऽगद् एष मुख्यो विषेषु दर्वीकरराजिलानाम् ।

द्राक्षौ सुगन्धा नगवृत्तिका च श्वेता समङ्गा समभागयुक्ता ॥ ७६ ॥

देयो द्विभागः सुरसाच्छर्दैस्य कपित्थबिल्वादपि दाडिमाच्च ।

तथाऽर्द्धभागः सितसिन्धुवारादङ्कोठमूलादपि गैरिकाच्च ॥ ७७ ॥

एषोऽगदः क्षौद्वयुतो निहन्ति विशेषतो मण्डलिनां विषाणि ।

वंशैत्वगार्द्राऽऽमलकं कपित्थं कटुत्रिक हैमवती सकुष्ठा ॥ ७८ ॥

करञ्जबीजं तगरं शिरीषपुष्पञ्च गोपित्तयुतं निहन्ति ।

विषाणि लूतोन्दुरपन्नगानां कैटञ्च लेपाञ्जननस्यपानैः ॥ ७ ९ ॥

पुरीषमूत्रानि गर्भसङ्गान् निहन्ति वर्त्यञ्जननाभिलेपैः ।

काचार्मकोथान् पटलांश्च घोरान् पुष्पञ्च हन्त्यञ्जननस्ययोगैः ॥८० ॥

समूर्लेपुष्पाङ्कुरवल्कबीजात् क्वाथः शिरीषात् त्रिकटुप्रगाढः ।

सलावणः " क्षौद्रयुतोऽथ पीतो विशे तः कीटविषं निहन्ति ॥ ८१ ॥

कुष्ठं ' ' त्रिकटुकं दार्वी मधुकं लवणद्वयम् ३२ ।

मालती नागपुष्पञ्च सर्वाणि " मधुराणि च । ८२ ॥

ख्यागदवत् पक्षपर्यन्तं शृङ्गमयमापिधानं यस्य सः । १ दवकरराजिल विषेऽगद. योगं वक्ति - श्लेष्मातकीति । श्वेता गिरिह्वा = श्वेतस्यन्दा, किणिही = नोलस्य • न्दा, इति डल्हणः । सिता = शर्करा । २ तण्डुलीयः श्रल्पमारिषः, ' चौलाईशाक ' इति ख्यातस्तेन सहितः सतण्डुलीयः । ३ मण्डलिविषेऽगदयोगमभिदधाति - द्राक्षेति । सुगन्धा = नाकुली, ' रासना ' इति ख्याता । “ नाकुलो सर्पगन्धा च सुगन्धा भोगगन्धिका । सेव सर्पसुगन्धेति * ' ' ' ' इति नामान्तरम् । नगवृत्तिका = शल्लकी, श्वेता = श्वेतस्यन्दः, समङ्गा = मञ्जिष्ठा । ४ सुरसाच्छदस्य = तुलसीपत्रस्येत्यर्थः । ५ सार्वकामिकागदमभिधत्ते - वंशेति । वंशस्वगार्द्रा == श्रार्द्रवंशत्वगित्यर्थः । ६ हैमवती = वचा । ७ पुरीषमूत्रानिलगर्भाणां सङ्गा अत्रवद्धता तान् निहन्ति । - काचादयो नयनरोगभेदाः । ९ विषे शिरीषयोगं प्रतिपादयति – समूलेति । १० सलावणः = लवणवर्गसहितः । ११ मूषकविषनाशकयोगमभिदधाति कुष्ठमिति । १२ सैन्धवं सौवर्चलं चेति लबणद्वयमित्यर्थः । १३ सर्वाणि मधुराणि = काकोल्या-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1019

सुश्रुत संहिता चौखम्बा, पृष्ठ 1019 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६ ] Digitized by Arya Samme chennai and eGangotri

कपित्थरसपिष्टोऽयं शर्कराक्षौद्र संयुतः ।

विषं हन्त्यगदः सर्वं मूषिकाणां विशेषतः ॥ ८३ ॥

सोमराजीफलं पुष्पं कटभी सिन्धुवारकः ।

चोरको वरुणः कुष्ठं सर्पगन्धा ससप्तला ॥ ८४ ॥

पुनर्नवा शिरीषस्य पुष्पमारग्वधार्कजम् । ८६१ श्यामोऽम्बष्ठा विडङ्गानि तथाऽम्राश्मन्तकानि च ॥ ८५ ॥

भूमी कुरवकश्चैव गण एकसरः स्मृतः ।

एकशो द्वित्रिशो वाऽपि प्रयोक्तव्यो विषापहः ॥ ८६ ॥

इति सुश्रुतसंहितायां कल्पस्थाने सर्पदष्टविषचिकित्सितं नाम पञ्चमोऽध्यायः ॥ ५ ॥

षष्ठोऽध्यायः ।

अथातो दुन्दुभिस्वनीयं कल्पं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

वाश्वकर्ण शिरीपतिनिशपलाशपिचुम पाटलिपारिभद्रकाम्रोदु-दीनि मधुरद्रव्याणि । १ सर्वविषे एकसरसंज्ञकगणं निर्दिशति - सोमेति । सोमराजी = बाकुची । २ चोरकः = ग्रन्थिपर्णभेदः, सर्पगन्धा = नाकुली, ' रासना ' इति ख्याता, सप्तला = -सातला । ३ श्यामा = त्रिवृत्, श्रम्बष्ठा = पाठा, अश्मन्तकः = अम्लोटक सदृशः । ४ भूमी = कृष्णमृत्तिका, कुरवकः = ' लालकटसरैया ' इति ख्यातः । एकसरः = एकसरतं-ञ्चक इत्यर्थः । ५ एकशः = एकमेकम्, द्वित्रिशः = द्वौ द्वौ त्रीन् त्रीन् वेत्यर्थः ॥ इति सुश्रुतसंहितायाः कल्पस्थानीयसुधाऽऽख्यटिप्पन्यां पञ्चमोऽध्यायः षष्टोऽध्यायः । ६ पूर्वाध्याये “ दादयेच्चागदै लिखा दुन्दुभींस्तस्य पार्श्वयोः ” इति सामान्येनोक्तं विस्तरेण बोधनार्थमयमध्याय श्रारभ्यते - अथेति । दुन्दुभिस्वनो विद्यतेऽस्मिन्न- । ध्याये इति दुन्दुभिस्वनीयस्तम् । ७ सर्वविषे क्षारागदमभिदधाति - धवेति CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1020

सुश्रुत संहिता चौखम्बा, पृष्ठ 1020 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८६२ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ६ म्बरकरहाटकार्जनककुभसर्जकपीतनश्लेष्मातकाङ्कोठामलकप्रग्रहकु टजशभीकपित्थाश्मन्त कार्कचिरबिल्व महावृक्षारुष्करारलुमधुकमधु-शिश । कगोजीमूर्वाभूर्जतिल्व के क्षुर कगोपघोण्टारिमेदानां भस्मा-न्याहृत्य गवां मूत्रेण क्षारकल्पेन परिस्राव्य विपचेत्, दयाचात्र पिप्पलीमूलतण्डुलीयकवराङ्गचोचमञ्जिष्ठाकरञ्जिका हस्तिपिप्पलीम-रिचविडङ्गगृहधूमानन्तीसोमसरलाबाह्रीक गुहाकोशाम्र श्वेत सर्षपव-रुणलवणप्लक्षनिचुलँकवञ्जुल व कालवर्धमानपुत्रश्रेणी सप्तपर्णटुण्टु-कैलवालुकनागदन्त्यतिविषाऽभया भद्रदारुकुष्ठहरिद्रावचाचूर्णानि लो-हानाञ्च समभागानि, ततः क्षारवदागतपाकमवतार्य्य लोहकुम्भे नि--दुध्यात् ॥ ३ ॥

अनेन दुन्दुभिं लिम्पेत् पताकां तोरणानि च ।

श्रवणाद्दशर्नात् स्पर्शाद् विषात् सम्प्रतिमुच्यते ॥ ४ ॥

एष क्षारागदो नाम शर्करास्वश्मरोषु च ।

अर्शःसु वातगुल्मेषु कासशूलोदरेषु च ॥ ५ ॥

अजीर्णे ग्रहणीदोषे ' भक्तद्वेषे च दारुणे । १० शोफे सर्वसरे चापि देयः श्वासे च दारुणे ॥ ६ ॥

श्रश्वकर्णः = सालभेदः, तिनिशः - वन्जुलः, पिचुमदंः निम्बः । १ करहाटकः = ‘ मयनफल ' इति ख्यातः । श्रर्जुनः = ' काहू ' इति ख्यातः । ककुभः = सुगन्धमूलो विटपः, कपीतनः = श्राम्रातकः, ' कपीतनो गईंभाण्ड शिरीषाम्रातकेषु च । अश्वत्थे च ' इति विश्वः । २ प्रग्रहः = श्रारग्वधः । ३ अरुष्करः = भल्लातकः, श्ररलुः == श्योनाकः । ४ परिस्राव्य = एकत्रिंशतिवारान् गालयित्वेत्यर्थः । ५ तण्डुलीयकः = ' चौलाई ' इति ख्यातः । बराङ्गं = गुडत्वक्, ' वराङ्गं योनिमातङ्गमस्तकेषु गुडखचि ' इति मेदिनी । चोचं = ' दालचीनी ' इति प्रथते । ६ अनन्ता = उत्पलसारिवा, सोमः - कट्फलम्, सरला प्रसिद्धा, वाह्रीकं = कुङ्कुमम्, गुहा = शालपणीं । ७ निचुलकः = जलवेतसः, वक्रं = तगरम्, आलं = हरितालम्, वर्धमानः = एरण्डः, वन्जुलः = जलवेतसः, पुत्रश्रेणी - द्रवन्ती, सप्त-पर्णः = ' सतवन ' इति ख्यातः । टुण्टुकः = श्योनाकः, एलवालुकः = ' एलुभा ' इति ख्यातः । ८ ‘ सर्वे च तैजसं लौइम् ' इति कोशात् लौहानां ताम्ररजतादीनामित्यर्थः । ९ भक्तद्वेषः = अन्नानभिलाषता । १० सर्बसरे = मुखरोगभेदे । CC - 0. Gurukul Kangri Collection, Haridwar