सुश्रुत संहिता चौखम्बा — पृष्ठ 991–1000

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 991–1000

पृष्ठ 991

सुश्रुत संहिता चौखम्बा, पृष्ठ 991 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २ ] Digitized by Arya Sanahon Chennai and eGangotri ८३३ दुर्वर्णे हरिते शूने जायेते चास्य लोचने ॥ ३६ ॥

पक्वामाशययोस्तोदो हिक्का कासोऽन्त्रकूजनम् ।

चतुर्थे जायते वेगे शिरसश्चातिगौरवम् ॥ ३७ ।

कफप्रसेको वैवर्ण्य पर्नभेदश्च पञ्चमे ।

सर्वदोषप्रकोपश्च पक्काधाने च वेदना ॥ ३८ ॥

षष्ठे प्रज्ञाप्रणाशश्च भृशं चाप्यतिसार्य्यते ।

स्कन्धपृष्ठकटीभङ्गः सन्निरोधश्च सप्तमे ॥ ३ ९ ॥

प्रथमे विषवेगे तु वान्तं शीताम्बुसेचितम् ।

दं मधुसर्पिर्भ्यां पाययेत समायुतम् ॥ ४० ॥

द्वितीये पूर्ववद्वान्तं पाययेत्तु विरेचनम् ।

तृतीयेऽगदपानं तु हितं नस्यं तथाऽञ्जनम् ॥ ४१ ॥

चतुर्थे स्नेहसम्मिश्रं पाययेतागदं भिषक् ।

पञ्चमे चौद्रमधुकक्वाथयुक्तं प्रदापयेत् ॥ ४२ ॥

षष्ठेऽतीसारवत् सिद्धिरवपीडश्च सप्तमे ।

मूर्ध्नि कार्कपदं कृत्वा सासृग्वा पिशितं क्षिपेत् ॥ ४३ ॥

वेगान्तरे त्वन्यतमे कृते कर्मणि शीतलाम् ।

यवागूं सघृतक्षौद्रामिमां दद्याद्विषापहाम् ॥ ४४ ॥

वतादीन् कुरुते । एवमग्रेऽपि चशब्दार्थो बोध्यः । १ कफप्रसेकः = श्लेष्मत्रावः । सन्निरोधः = श्वासावरोध इत्यर्थः । चकारात् सप्तधातूनां दूषणान्मृत्युश्च भवेदि-त्यर्थः । तदुक्तं वाग्भटे - " स्कन्धपृष्ठकटीभङ्गो भवेन्मृत्युश्च सप्तमे " इति । २ प्रथमादिवेगांनां यथाक्रमं चिकित्सां ब्रवीति - प्रथम इति । ३ गदं " पिप्प ल्यो ध्यामकं मांसी " इत्यादिनाऽनन्तरमेव निवेदयिष्यते । ४ विषघ्नादिगुणयुक्तं नस्यमित्यर्थः । एवमन्जनमपि । ५ अतीसारवत् सिद्धिः = श्रतीसारतुल्य चिकि. त्सा । ६ काकपदं = काकपदाकारं व्रणमित्यर्थः । सासृग्वेत्यत्र वाशब्दादवपीडोऽपि बोध्यः । “ अवपीडश्च सप्तमे " इत्यत्र डल्हणेन - - ' चकारोऽयं भिन्नक्रमे, तेन सप्तमे चेति योजनात षष्ठेऽप्यवपीढः । वाशब्दश्चानुक्तसमुच्चये, तेनानुक्तं सशोणित चर्मदानं शाखाललाटतिराताडनादिजङ्गमविषोक्तं च समुच्चीयते ' इत्युच्यते । ७. कालघातिनो विषस्य प्रतीकारविधिमभिधत्ते -- वेगेति । वेगान्वरे = वेगमध्ये, ५३ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 992

सुश्रुत संहिता चौखम्बा, पृष्ठ 992 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८३४ सुश्रुतसहिताया -Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० २

कोषातक्योऽग्निकैः पाठासूर्य्य वल्ल्यमृताऽभयाः ।

शिरीषः किणिही शेलुर्गिय्र्याह्ना रजनीद्वयम् ॥ ४५ ॥

पुनर्नवे हरेणुश्च त्रिकटुः सारिवे बला ।

एषां यवनिःक्काथे कृता हन्ति विषद्वयम् ॥ ४६ ॥

मधुकं तगरं कुष्ठं भद्रदारु हरेणवः ।

पुन्नागैलैलवालूनि नागपुष्पोत्पलं सिता ॥ ४७ ॥

विडङ्गं चन्दनं पत्रं प्रियङ्गुयमकं तथा ।

हरिद्रे द्वे बृहत्यौ च सारिवे च स्थिरा सहा ॥ ४८ ॥

कल्कैरेषां घृतं सिद्धमजेयमिति विश्रुतम् ।

विषाणि सन्ति सर्वाणि शीघ्रमेवाजितं क्वचित् ॥ ४ ९ ॥

दूषीविषार्त्त सुस्विन्नमूर्ध्वञ्चाधश्च शोधितम् ।

पायेागदं नियमिमं दूषीविषापहम् ॥ ५० ॥।

पिप्पल्यो “ ध्यामकं मांसी शावरः परिपेलवम् ।

सुवर्चिका " ससूक्ष्मैला तोयं कनकगैरिकम् ॥ ५१ ॥

क्षौद्रयुक्तोऽगदो ह्येष दूषीविषमपोहति । 10 II नाम्ना दूषीविषारिस्तु न चान्यत्रापि वार्य्यते ॥ ५२ ॥

ज्वरे " दाहे च हिक्कायामानाहे शुक्रसङ्क्षये ।

शोफेऽतिसारे मूर्च्छायां हृद्रोगे जठरेऽपि वा ॥ ५३ ॥

श्रन्यत मे = एकतमे । १ अग्निकः = अजमोदा, पाठा = ' पाढ ' इति ख्याता, सूर्यवल्ली = श्रर्कपुष्पिकावृक्षः । २ किणिही = ज्योतिष्मती, ' मालकांगनी ' इति बोध्या । कि अपामार्ग इत्यमरकोशे । गिर्याह्वा = विष्णुक्रान्ता भेदः । १३ कोशातक्यादीनां क्वाथेन षटङ्गकल्पनाकल्पितेन यवागूः कल्पनीया । ५ ' पुन्नागे पुरुषस्तुङ्गः केसरो सिता ' मिसरी ' इति बोध्या । ७ स्थिरा = शालपर्णी । ९ इमं = वक्ष्यमाणम् । १० ध्या-शावरः = रोधः, परिपेलवं = कैवर्त १२ दूषीविषजन्योपद्रवान्निर्दिशति--४ विषद्दरमजेयं घृतं निर्दिशति -- मधुकमिति । देववल्लभः ' इत्यमरः । नागपुष्पं = नागकेसरम्, ६ ध्यामकं = रोहिषम्, तदलाभे ' उशीरं ' देयम् । ८ दूषीविषारिमगदं निर्दिशति -- दूषीति । मकं = रोहिषाख्यस्तृणविशेषः, मांसी = जटामांसी, मुस्तकम् । ११ सुवचिका = सर्जिकाक्षारः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 993

सुश्रुत संहिता चौखम्बा, पृष्ठ 993 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५० ३ ] Digitized by Aryashila ba Hathon Chennai and eGangotri ८३५.

उन्मादे वेपथौ चैव ये चान्ये स्युरुपद्रवाः ।

यथास्वं तेषु कुर्वीत विषघ्नैरौषधैः क्रियाम् ॥ ५४ ॥

साध्यमात्मवेतः सद्यो याप्यं संवत्सरोत्थितम् ।

दूषीविषमसाध्यन्तु क्षीणस्याहित सेविनः ॥ ५५ ॥

इति सुश्रुतसंहितायां कल्पस्थाने स्थावरविषविज्ञानीयो नाम द्वितीयोऽध्यायः ॥ २ ॥

तृतीयोऽध्यायः ।

अथातो जङ्गमविषविज्ञानीयं कल्पं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

जङ्गमस्य विषस्योक्तान्यधिष्ठानानि षोडश ।

समासेन मया यानि विस्तरस्तेषु वक्ष्यते ॥ ३ ॥

तंत्र दृष्टिनिःश्वासदंष्ट्रानखमूत्रपुरीषशुक्रलालार्त्तव मुखसन्दंश-विशद्धिततुण्डास्थिपित्तशुकशवानीति ॥ ४ ॥

तत्र, दृष्टिनिःश्वासविषा दिव्याः सर्पाः, भौमास्तु दंष्ट्राविषाः, मार्जारश्ववानरमकरमण्डूकपाक मत्स्यगोधाशम्बूकप्रचलाकगृहगो-ज्वर इति । १ यथास्वं = यथायोग्यमुपदिष्टम् । २ दूषीविषस्य साध्यासाध्यत्वा-दिकं दर्शयति-- साध्यमिति । श्रात्मवतः = संयमिनः । ३ श्रहित सेविनः = श्रहिता. हारविहारकारिण इत्यर्थः । इति सुश्रुतसंहितायाः कल्पस्थानीय सुधाऽऽख्यटिप्पन्यां द्वितीयोऽध्यायः । तृतीयोऽध्यायः । ४ द्वितीयाध्याये “ द्वितीयं षोडशाश्रयम् ” इति विवृण्वन् जङ्गमविषविज्ञानीयम-ध्यायमधिकरोति -- अथेति । ५ समासेन = सङ्क्षेपेणेत्यर्थः । ६ जङ्गमविषस्य षोडशाधिष्ठानानि निर्दिशति -- तत्रेति । ७ विशर्षितः = अपानवातः, गुदगर्जन-मिति यावत् । ' वृधि श्रपानशब्दे ' इति धातुः । दिवि स्वर्गे भवा दिव्याः । भूमौ मर्त्यलोके भवा भौमाः । ९ पाकमत्स्यादिजीवानां परिचयार्थं यतनीतम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 994

सुश्रुत संहिता चौखम्बा, पृष्ठ 994 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

bigitized by Arya Samaj Found सुश्रुतसंहिताय amgotri [ अ ० ३ धिकाचतुष्पाद्कीटास्तथाऽन्ये दंष्ट्रानखविषाः, चिपिटपिच्चिटकक-पायवासिक सर्षपकतोटकवर्चः कीटकौण्डिन्यकाः शकृन्मूत्रविषाः, मूषिकाः शुक्रविषाः, लूतेा लालामूत्रपुरीषमुखसन्दंशनखशुक्रार्त्तव-विषाः, वृश्चिकविश्वम्भरवरटीराजीव मत्स्योच्चिटिङ्गाः समुद्रवृश्चि काञ्चालैविषाः, चित्रशिरःसराव कुर्दिशतदारुकारिमेदकसारिकामुखा मुखसन्देश विशद्धितमूत्रपुरीषविषाः, मक्षिकाकरणभजलायुका मुख-सन्दंशविषाः, विषहतास्थिसर्पकण्टकवरटी मत्स्यास्थि चेत्यस्थिवि-पाणि, शकुलोमत्स्यरक्तराजिवरटी मत्स्याश्च पित्तविषाः, सूक्ष्मतु-ण्डोच्चिटिङ्गवरटीशतपदीशूकवल भिकाशृङ्गीभ्रमराः शुकतुण्डवि षाः, कीटसर्पदेहा गतासवः शवविषाः । शेषास्त्वनुक्ता मुखसन्दंश-विषेष्वेव गणयितव्याः ॥ ५ ॥

भवन्ति चात्र ।

राज्ञोऽरिदेशे रिपवस्तृणाम्बुमार्गान्नधूमश्वसनान् विषेण ।

सन्दूषयन्त्येभिरतिप्रदुष्टान् विज्ञाय ' लिङ्गैरभिशोधयेत्तान् ॥ ६ ॥

दुष्टं जलं पिच्छिलमुग्रगन्धि फेनान्वितं राजिभिरावृतञ्च ।

मण्डूकमत्स्यं म्रियते विहङ्गा मत्ताश्च सानूपचरा भ्रमन्ति ॥ ७ ॥

मँज्जन्ति ये चात्र नराश्वनागास्ते छर्दिमोहज्वरदाहशोफान् ।

गर्च्छन्ति तेषामपहृत्य दोषान् दुष्टं जलं शोधयितुं यतेत! । ८ ॥

" धवाश्वकर्णासनपारिभद्रान् सपाटलान् " सिद्धकमोक्षकौ च ।

दग्धा सराजद्रुम " सोमावल्कांस्तद्भस्म शीतं वितरेत् " सरःसु ॥ ९ ॥

१ अन्ये = मशकमक्षिका कुम्भीरादयः । २ लूता = ' मकड़ा ' इति ख्याता । ३ आ-लं = वृश्चिकपुच्छस्थितकण्टकः । रलयोः सावण्योद् श्रारमपि । ४ तृणादीनां विष दूषितत्वज्ञानावश्यकतां दर्शयति-- राज्ञ इति । ५ लिङ्गैः = तत्तल्लक्षणैरित्यर्थः । ६ विषदूषितजललक्षणमभिधत्ते - दुष्टमिति । दुष्टं विषदूषितमित्यर्थः । ७ कृष्णा-भी राजिभिः । मज्जन्ति = स्नान्ति । ९ गच्छन्ति = प्राप्नुवन्ति । १० विषदुष्ट. जलशोधनौषधं वक्ति - धवेति । घवः = ' धाय ' इति प्रथते । श्रश्वकर्णः = सालभेदः, असनः = ' विजयसार ' इति ख्यातः । ११ सिद्धकः = साल:, मोक्षकः = मुष्ककः । १२ सोमवल्कः = श्वेतखदिरः । १३ वितरेत् == निःक्षिपेत् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 995

सुश्रुत संहिता चौखम्बा, पृष्ठ 995 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ] Digitized by Aryaduation Chennai and eGangotri 3

भस्मालिञ्चापि घटे निधाय विशोधयेदीप्सितमेवमम्भः ।

क्षितिप्रदेशं विषदूषितन्तु शिलातलं तीर्थमथेरिणं वा ॥ १० ॥

स्पृशन्ति गात्रेण तु येन येन गोवाजिनागोष्टखरा नरा वा ।

तच्छूनतां यात्यथ दह्यते च ' विशीर्य्यते रोमनखं तथैव ॥ ११ ॥

तंत्राप्यनन्तां सह सर्वगन्धैः पिष्ट्वा सुराभिविनियोज्य मार्गम् ।

सिञ्चेत् र्पयोभिः सुमृदन्वितैस्तं विडङ्गपाठाकट भीजलैर्वा ॥ १२ ॥

तृणेषु भक्तेषु च दूषितेषु सीदन्ति मूच्र्च्छन्ति वमन्ति चान्ये ।

विड्भेदमृच्छन्त्यथवा म्रियन्ते तेषां चिकित्सां प्रणयेद्यथोक्ताम् ॥१३ ॥

विषापहैर्वाऽप्यगदैर्विलिप्य वाद्यानि चित्राण्यपि वादयेत ।

तारः सुतारः ससुरेन्द्रगोपः सर्वैश्च तुल्यः कुरुविन्दभागः ॥ १४ ॥

पित्तेन युक्तः कपिलान्वयेन वाद्यप्रलेपो विहितः प्रशस्तः । वाद्यस्य शब्देन हि यान्ति नाशं विषाणि घोराण्यपि यानि सन्ति १५

" धूमेऽनिले वा विषसम्प्रयुक्ते खगाः श्रमार्त्ताः प्रपतन्ति भूमौ ।

कासप्रतिश्यायशिरोरुजश्च भवन्ति तीव्रा " नयनामयाश्च ॥ १६ ॥

लाक्षाहरिद्राऽतिविषाऽभयाऽब्दह रेणुकैलादल वक्रकुष्ठम् १२ प्रियङ्गुकाञ्चाप्यनले निधाय धूमानिलौ चापि विशेोधयेत ॥ १७ ॥

१ प्रजामिमामात्मयोनेर्ब्रह्मणः सृजतः किल । १ अञ्जलिं = चत्वारि पलानि । ३ तीर्थे घट्टम, इरिणम् = ऊषरभूमिम् । २ विषदूषितभूमिलक्षणमाह- क्षितीति । ४ विशीर्यते शटति । ५ विषदूषितभूमिचिकित्सां वक्ति - तन्नेति । अनन्ता = उत्पलसारिवा, सर्वगन्ध-स्तु- “ चातुर्जातककर्पूरकक्कोलागुरुकुङ्कुमम् । लवङ्गसहितं चैव सर्वगन्धं विनिर्दिशेत् ॥ ” इति दुग्धैः । ७ कटभी = ' मालकांगनी ' इति ख्याता । विष. । ६ पयोभिः = दूषिततृणभक्तयोर्लक्षणं चिकित्सां चाख्याति - तृणेष्विति । ९ तारः = रौप्यकम्, सुतारः- पारदः; सुरेन्द्रः सुवर्णे, गोपा सारिवा, ताभ्यां सहितः ससुरेन्द्रगोपः, कुरु • विन्दभागः = मुस्तांशः । कुरुविन्दं पद्मरागमणिरिति सुश्रुतार्थसन्दीपनम् । १० विष. दूषितधूमानिलयोर्लक्षणं तच्चिकित्सां चाभिदधाति - धूम इति । ११ नयनामयाः नेत्ररोगाः । १२ अब्दः = ' मोथा ' इति ख्यातः । १३ विषोत्पत्तौ पुरावृत्तं कथयति - प्रजामिति । चरके तु-- " अमृतार्थं समुद्रे तु मथ्यमाने सुरासुरैः । जज्ञे प्रागमृतोत्पत्तेः पुरुषो घोरदर्शनः । दीप्ततेजाश्चतुर्दंष्ट्रो हरि • CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 996

सुश्रुत संहिता चौखम्बा, पृष्ठ 996 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८३८ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३ अकरोदसुरो विघ्नं कैटभो नाम दर्पितः ॥ १८ ॥

ततः क्रुद्धस्य वै वक्त्राद् ब्रह्मणस्तेजसो निधेः ।

क्रोधो विग्रहवान् भूत्वा निपपातातिदारुणः ॥ १ ९ ॥

से ' तं ददाह गर्जन्तमन्तकाभं महाबलम् ।

ततोऽसुरं घातयित्वा तत्तेजोऽवर्द्धताद्भुतम् ॥ २० ॥

ततो विषादो देवानामभवत्तं निरीक्ष्य वै ।

विषादजननत्वाच्च विषमित्यभिधीयते ॥ २१ ॥

ततः सृष्ट्वा प्रजाः शेषं तदा तं क्रोधमीश्वरः ।

विन्यस्तवान् स भूतेषु स्थावरेषु चरेषु च ॥ २२ ॥

यथाऽव्यक्तरसं तोयमन्तरीक्षान्महीगतम् ।

तेषु तेषु प्रदेशेषु रसं तं तं नियच्छति ॥ २३ ॥

एवमेव विषं यद्यद् द्रव्यं व्याप्यावतिष्ठते ।

स्वभावादेव तं तस्य रसं समनुवर्त्तते ॥ २४ ॥

विषे यस्माद् गुणाः सर्वे तोक्ष्णाः प्रायेण सन्ति हि ।

विषं सर्वमतो ज्ञेयं सर्वदोषप्रकोपणम् ॥ २५ ॥

ते तु वृत्तिं प्रकुपिता जहति स्वां विषार्दिताः ।

नोपयाति विषं पाकमतः प्राणान् रुणद्धि च ॥ २६ ॥

श्लेष्मणाऽऽवृतमार्गत्वादुच्छ्वासोऽस्य निरुध्यते । स्केशोऽनलेक्षणः । जगद्विषण्णं तं दृष्ट्वा तेनासौ विषसंज्ञितः ॥ जङ्गमस्थावरायां तथोनौ ब्रह्मा न्ययोजयत् । तदम्बुसम्भवं तस्माद् द्विविधं पावकोपमम् ॥ ” इति । एवमेव पुरा-वृत्तमष्टाङ्गहृदयेऽपि, तत्तु प्रसङ्गतः प्रागुदुघृतम् । १ निपपात = निर्गतवान् । २ सः = पुरुषरूपः क्रोधः, तं - कैटभासुरम् । ३ तस्य पुरुषरूपवतः क्रोधस्य तेजस्तत्तेजः । ४ विषादः = वाक्कायचित्तावसादः, ' विषादश्चेतसो भङ्ग उपायाभावनाशयोः ' इति । ५ विन्यस्तवान् = विनिःक्षिप्तवान् । ६ विषस्य नानावीर्यत्वे हेतुमाख्याति – यथेति । अव्यक्तरसम् = एकरसम् । ७ तेषु तेषु प्रदेशेषु = श्राकाशगुणभूयिष्ठादिष्वित्यर्थः । ८ तस्य = द्रव्यस्येत्यथः । ९ विषस्य सर्वदोषप्रकोपकत्वमभिधत्ते - विष इति । १० ते वातादिदोषाः, स्वां वृत्ति, यथा- वातः प्रस्पन्दनादिकां, पित्तः रागपक्त्यादिकां, श्लेष्मा सन्धि संश्लेषादिकां, CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 997

सुश्रुत संहिता चौखम्बा, पृष्ठ 997 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ] Digitized by Arya Samme Chennai and eGangotri ८३ ९ विसंज्ञः ' सति जीवेऽपि तस्मात् तिष्ठति मानवः ॥ २७ ॥

शुक्रेत् सर्वसर्पाणां विषं सर्वशरोरगम् ।

क्रुद्धानामेति चाङ्गेभ्यः शुक्रं निर्मन्थंनादिव ॥ २८ ॥

तेषां बडिशैवद् दंष्ट्रास्तासु सज्जति चागतम् ।

अनुवृत्ता विषं तस्मान्न मुञ्चन्ति च भोगिनः ॥ २ ९ ॥

यस्मादत्यर्थमुष्णञ्च तीक्ष्णञ्च पठितं विषम् ।

अतः सर्वविषेषूक्तः परिषेकस्तु शीतलः ॥ ३२ ॥

मन्दं कीटेषु नात्युष्णं बहुवातकफं विषम् ।

अतः कीटविषे चापि स्वेदो न प्रतिषिध्यते ॥ ३१ ॥

कीटैर्दष्टानुप्रविषैः सर्पवत् समुपाचरेत् ।

स्वभावादेव तिष्ठेत्तु प्रहारादंशयोर्विषम् ॥ ३२ ॥

व्याप्य सावयवं देहं ' " दिग्धविद्धाहिदष्टयोः ।

लौल्याद्विषान्वितं मांसं यः खादेन्मृतमात्रयोः ॥ ३३ ॥

यथाविषं " स रोगेण क्लिश्यते म्रियतेऽपि वा ।

अतश्चाप्यनयोर्मांसमभक्ष्यं मृतमात्रयोः ॥ ३४ ॥

" मुहूर्तात्तदुपादेयं प्रहारादंशवर्जितम् ।

सवातं " गृहधूमाभं पुरीषं योऽतिसार्यते ॥ ३५ ॥

आध्मातोऽत्यर्थेमुष्णास्रो विवर्णः सादपीडितः । जहति त्यजन्तीत्यथः । १ विग्रता सज्ञा सम्यग ज्ञानं यस्य स विसन्शः । २ दंशकाले सर्पाः कथं विषं मुञ्चन्तीति दर्शयति - शुक्रेति । ३ सर्वशरीरगं = सकलाङ्गव्यापकम् । ४ यथा श्रेष्ठाङ्गनाऽऽलिङ्गनरूपहर्षाच्छुकमङ्गेभ्य एति आग-च्छति, तथैव क्रुद्धानां सर्पाणामङ्गेभ्यो विषमागच्छति 1 । ५ वडिशवत् = मत्स्यवेधन-यन्त्रवदित्यर्थः । ६ श्रनुवृत्ताः = अननुयोजिता, अनुच्छलिता इति यावत् । कर्षण-कृतपरावृत्त्य । हि दंष्ट्राणामधोमुखतेति निबन्धसङ्ग्रहव्याख्या । ७ सर्वविषेषु शीतक्रियार्थमुपदिशति - यस्मादिति । ८ श्रपिशब्दप्रयोगात् केषाञ्चन कीटानां विषेषु स्वेदनिषेधः । ९ सविषमांसभक्षणदोषं दर्शयति - स्वभा-चादिति । १० दिग्वविद्धः विषलिप्तशस्त्रइतः श्रविदष्टः सर्पदष्टस्तयोरित्यर्थः । = मांसम् । ११ यथाविषं = विषानुसारेण । १२ मुहूर्तात् = घटिकादयानन्तरम्, तत् = २ १३ विषपीतलक्षणमभिधत्ते - सवातमिति । १४ उष्णास्रः = उष्णनेत्राम्बुः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 998

सुश्रुत संहिता चौखम्बा, पृष्ठ 998 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८४० सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri उद्वमत्यथ फेनञ्च विषपीतं तमादिशेत् ॥ ३६ ॥

न चास्य हृदयं वह्निर्विषजुष्टं दत्यपि । [ अ ० ३ • तद्धि स्थानं चेतनायाः स्वभावाद् व्याप्य तिष्ठति ॥ ३७ ॥

अश्वत्थदेवायतनश्मशानवल्मीक सन्ध्यासु चतुष्पथेषु ।

याम्ये सपित्रे परिवर्जनीया ऋक्षे नरा मर्मसु ये च दृष्टाः ॥ ३८ ॥

दवीराणां विषमाशुघाति सर्वाणि चोष्णे द्विगुणीभवन्ति ।

अजीर्णपित्तातपपीडितेषु बालप्रमेहिष्वथ गर्भिणीषु ॥ ३ ९ ॥

वृद्धातुरक्षणबुभुक्षितेषु रूक्षेषु भीरुष्वथ दुर्दिनेषु ।

शंस्त्रक्षते यस्य न रक्तमेति राज्यो लताभिश्च न सम्भवन्ति ॥ ४० ॥

शीताभिरद्भिश्च न ‘ रोमहर्षो विषाभिभूतं परिवर्जयेत्तम् ।

जिह्वा सिता यस्य च केशश तो नासाऽवभङ्गश्वांसकण्ठभङ्गः ॥४१ ॥

कृष्णः सरक्तः श्वयथुश्च दंशे " हन्वोः स्थिरत्वञ्च स वर्जनीयः ।

" वर्त्तिर्घना यस्य निरेति वक्त्राद्रक्तं स्रवेदूर्ध्वमधश्च यस्य ॥ ४२ ॥

दंष्ट्रानिपाताः सकलाश्च यस्य तञ्चापि वैद्यः परिवर्जयेत्तु ।

उन्मत्तमत्यर्थमुपद्रुतं वा हीनस्वरं वाऽप्यथवा विवर्णम् ॥ ४३ ॥

" सारिष्टमत्यर्थमवेगिनञ्च जह्यान्नरं तत्र न कर्म कुर्यात् ॥ ४४ ॥

इति सुश्रुतसंहितायां कल्पस्थाने जङ्गमविषविज्ञानीयोनाम तृतीयोऽध्यायः ॥३ ॥

१ न दहति = न भस्मीकरोति । २ विशिष्टदेशादी दष्टानां वर्ज्यत्वमाह - अश्वत्थेति । ३ याम्ये = भरण्याम्, पित्र्ये = मघायाम् । वाग्भटे विशेषः - " श्मशानचितिचेत्यादौ पञ्चमीपक्षसन्धिषु । श्रष्टमी नवमीसन्ध्यामध्यरात्रिदिनेषु च ॥ याम्याग्नेयमघाऽऽश्लेषा. विशाखापूर्वनैर्ऋते । नैर्ऋताख्ये मुहूर्ते च दष्टं मर्मसु च त्यजेत् ॥ दष्टमात्रः सितास्याक्षः शीर्यमाणशिरोरुहः । स्तब्धजिह्वो मुहुर्मूर्च्छन् शीतोच्छ्वासो न जीवति ॥ ” इति । ४ अवस्थाविशेषेण विषवृद्धिं कथयति दवति । ५ उष्णकाले इत्यर्थः । द्विगुणी-भवन्ति = द्विगुणशक्तिकानि भवन्ति । ६ मेघाच्छादितं दिनं दुर्दिनं तेष्वित्यर्थः । ७ विषाभिभूतस्यासाध्यलक्षणानि निर्दिशति - शस्त्रेति । शस्त्रक्षते यस्य रक्तं नैति, लताभिश्च ताडिते राज्यो रेखा न सम्भवन्तीत्यर्थः । ८: रोमहर्षः = रोमाञ्चः । ९ केशशातः == कचच्युतिः । १० दंशे = दष्टस्थाने, इन्वोः = मुखसन्ध्योः । ११ कफव-तिरित्यर्थः । १२ अरिष्टेन मरणलक्षणेन सहितं सारिष्टम्, अवेगिन = वेगवर्जितम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 999

सुश्रुत संहिता चौखम्बा, पृष्ठ 999 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ०४ ] Digitized by Arya Samahennai and eGangotri चतुर्थोऽध्यायः । ८४१ अर्थातः सर्पदष्टविषविज्ञानीयं कल्पं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

धन्वन्तरिं महाप्राज्ञं सर्वशास्त्रविशारदम् ।

पादयोरुपसङ्गृह्य सुश्रुतः परिपृच्छति ॥ ३ ॥

सर्पसंख्यां विभागेञ्च दष्टलक्षणमेव च ।

ज्ञानञ्च विषवेगानां भगवन्! वक्तुमर्हसि ॥ ४ ॥

तस्य तद्वचनं श्रुत्वा प्रात्रवीद्भिषजां वरः ।

असंख्या वासुकिश्रेष्ठा विख्यातास्ततकादयः ॥ ५ ॥

महीधराश्च नागेन्द्रा हुताग्निसमतेजसः ।

ये चाप्यज॑स्रं गर्जन्ति वर्षन्ति च तपन्ति च ॥ ६ ॥

ससागरगिरिद्वीपा यैरियं धार्यते मही ।

ऋद्धा निःश्वासदृष्टिभ्यां ये हन्युरखिलं जगत् ॥ ७ ॥

नमस्तेभ्योऽस्ति नो तेषां कार्यं किञ्चिच्चिकित्सया ।

ये तु दंष्ट्राविषा भौमा ' ये दशन्ति च मानुषान् ॥ ८ ॥

तेषां सङ्ख्यां प्रवक्ष्यामि यथावदनुपूर्वशः । सङ्ग्रहे— “ श्वयथुर्वेदनास्तीत्राः ग्रीवाभङ्गोऽक्षिरक्तता । मूर्च्छागलग्रहश्छर्दिः प्रेतरा-जस्य किङ्कराः ॥ जाम्बवप्रतिमो दंशः कूर्मपृष्ठवदुन्नतः । रक्तं खेभ्यः समस्तेभ्यो वर्तते न तु दंशतः ॥ रोमहर्षो न शिशिरैः श्वयथुर्लोहितोऽसितः । हृष्टमेहनता वक्रवक्त्रत्वं यस्य तं त्यजेत् ॥ ” इति । इति सुश्रुतसंहितायाः कल्पस् थानीय सुधा ss ख्य टिप्पन्यां तृतीयोऽध्यायः । चतुर्थोऽध्यायः । १ जङ्गमविषेषु सर्पस्य प्राधान्यात् प्राक् सर्पदष्टविषविज्ञानीयमधिकरोति - अथेति । २ विभागं - पृथक्करणम् । ३ सर्पाणां महाविषत्वं प्रतिपादयति - तस्येति । ४ वासुकिः श्रेष्ठो येषां ते वासुकिश्रेष्ठाः । ' शेषः प्रथमतो जातो वासुकिस्तदनन्तरम् । ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ । ' इति महाभारतमनुसन्धेयम् । ५ अजस्रं = रात्रिन्दिवम् । ६ तेषां = तक्षकादीनाम् । ७ भूमौ मर्त्यलोके भवा भौमाः । ८ संख्यां = गणनाम् । ९ अनुपूर्वशः = अनुक्रमेणेत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1000

सुश्रुत संहिता चौखम्बा, पृष्ठ 1000 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां 133 Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ४ अशीतिस्त्वेिव सर्पाणां भिद्यते पञ्चधा तु सो ॥ ९ ॥

दर्वीकैरा मण्डलिनो राजिमन्तस्तथैव च ।

निर्विषा वैकरञ्जश्च त्रिविधास्ते पुनः स्मृताः ॥ १० ॥

दर्वीकरा मण्डलिनो राजिमन्तश्च पन्नगाः ।

तेषु दर्वीकरा ज्ञेया विंशतिः षट् च पन्नगाः ॥ ११ ॥

द्वाविंशतिर्मण्डलानि राजिमन्तास्तथा दश ।

निर्विषा द्वादश ज्ञेया वैकरञ्जास्त्रयस्तथा ॥ १२

वैकरञ्जोद्भवाः सप्त चित्रा मण्डलिराजिलाः ।

पादाभिसृष्टा दुष्टा वा क्रुद्धा ग्रासार्थिनोऽपि वा ॥ १३ ॥

ते दशन्ति महाक्रोधास्त्रिविधं भीष्मदर्शनाः ।

सर्पितं रदितं चापि तृतीयमथ निर्विषम् ।

सर्पाङ्गाभिहतं केचिदिच्छन्ति खलु तद्विदः ॥ १४ ॥

पंदानि यत्र दन्तानामेकं द्वे वा बहूनि वा । १ सङ्क्षेपेण सर्पाणां पञ्चभेदानाख्याति -- अशीतिरिति । २ सा = अशीतिः । ३ दकार फण एव करो येषां प्रहारसाधनत्वात् ते, अथवा दवीं फणां कुर्वन्तीति दवकराः, मण्डलिनः फणावर्जिता नानाप्रकारैर्मण्डलैश्चिताः, राजिमन्तः = फणाव-जिंता बिन्दुना तिर्यगूर्ध्वगरेखया च विचित्रिताः, तदुक्तं चरके -- " बिन्दुलेखविचित्राङ्गः पन्नगः स्यात्तु राजिमान् ” इति । निर्विषाः = विषरहिताः, वैकरअ: = सङ्कीर्णजाताः । ४ सर्पाणां दंशने हेतुमभिदधाति - पादेति । पादेन पादाभ्यां वाऽभिसृष्टा मर्दिता इति पादाभिमृष्टाः, दुष्टाः = दुष्टप्रकृतयः । ५ महाक्रोधेन भीमं भयङ्करं दर्शनं येषां ते भीमदर्शनाः । श्रष्टाङ्गहृदये – “ श्राहारार्थं भयात्पादस्पर्शादतिविषात् क्रुधः । पापवृ त्तितया वैरात् देवर्षियमचोदनात् ॥ दशन्ति सर्पास्तेषूक्तं विषाधिक्यं यथोत्तरम् । इति कारणमुक्तम् । दंशविषज्ञानार्थं दंष्टाभेदमाह चरकः, प्रसङ्गात् स प्रदर्श्यते— “ सर्पदंष्ट्राश्चतस्रस्तु तासां वामाधरा सिता । पीता वामोत्तरा दंष्ट्रा रक्तश्यावाऽधरो-त्तरा ॥ यन्मात्रः पतते बिन्दुर्गोवालात् सलिलोद्धृतात् । वामाधरायां दंष्ट्रायां तन्मात्रं स्यादद्देविंषम् ॥ एकद्वित्रिचतुर्विद्धविष भागोत्तरोत्तराः । सवर्णास्तत्कृता दंशा बहूत्तर-विषा भृशाः ॥ ” इति । ६सर्पदंशस्य त्रैविध्यं दर्शयति - सर्पितमिति । सर्पितं = दष्टमत्यवगाढम्, रदितं = दष्टमनवगाढम् । ७ तत्रादौ सर्पितस्य लक्षणमाइ - पदानीति । पदानि = CC - 0. Gurukul Kangri Collection, Haridwar