सुश्रुत संहिता चौखम्बा — पृष्ठ 991–1000
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 991–1000
पृष्ठ 991
पाठ पढ़ें पाठ छिपाएँ
अ ० २ ] Digitized by Arya Sanahon Chennai and eGangotri ८३३ दुर्वर्णे हरिते शूने जायेते चास्य लोचने ॥ ३६ ॥
पक्वामाशययोस्तोदो हिक्का कासोऽन्त्रकूजनम् ।
चतुर्थे जायते वेगे शिरसश्चातिगौरवम् ॥ ३७ ।
कफप्रसेको वैवर्ण्य पर्नभेदश्च पञ्चमे ।
सर्वदोषप्रकोपश्च पक्काधाने च वेदना ॥ ३८ ॥
षष्ठे प्रज्ञाप्रणाशश्च भृशं चाप्यतिसार्य्यते ।
स्कन्धपृष्ठकटीभङ्गः सन्निरोधश्च सप्तमे ॥ ३ ९ ॥
प्रथमे विषवेगे तु वान्तं शीताम्बुसेचितम् ।
दं मधुसर्पिर्भ्यां पाययेत समायुतम् ॥ ४० ॥
द्वितीये पूर्ववद्वान्तं पाययेत्तु विरेचनम् ।
तृतीयेऽगदपानं तु हितं नस्यं तथाऽञ्जनम् ॥ ४१ ॥
चतुर्थे स्नेहसम्मिश्रं पाययेतागदं भिषक् ।
पञ्चमे चौद्रमधुकक्वाथयुक्तं प्रदापयेत् ॥ ४२ ॥
षष्ठेऽतीसारवत् सिद्धिरवपीडश्च सप्तमे ।
मूर्ध्नि कार्कपदं कृत्वा सासृग्वा पिशितं क्षिपेत् ॥ ४३ ॥
वेगान्तरे त्वन्यतमे कृते कर्मणि शीतलाम् ।
यवागूं सघृतक्षौद्रामिमां दद्याद्विषापहाम् ॥ ४४ ॥
वतादीन् कुरुते । एवमग्रेऽपि चशब्दार्थो बोध्यः । १ कफप्रसेकः = श्लेष्मत्रावः । सन्निरोधः = श्वासावरोध इत्यर्थः । चकारात् सप्तधातूनां दूषणान्मृत्युश्च भवेदि-त्यर्थः । तदुक्तं वाग्भटे - " स्कन्धपृष्ठकटीभङ्गो भवेन्मृत्युश्च सप्तमे " इति । २ प्रथमादिवेगांनां यथाक्रमं चिकित्सां ब्रवीति - प्रथम इति । ३ गदं " पिप्प ल्यो ध्यामकं मांसी " इत्यादिनाऽनन्तरमेव निवेदयिष्यते । ४ विषघ्नादिगुणयुक्तं नस्यमित्यर्थः । एवमन्जनमपि । ५ अतीसारवत् सिद्धिः = श्रतीसारतुल्य चिकि. त्सा । ६ काकपदं = काकपदाकारं व्रणमित्यर्थः । सासृग्वेत्यत्र वाशब्दादवपीडोऽपि बोध्यः । “ अवपीडश्च सप्तमे " इत्यत्र डल्हणेन - - ' चकारोऽयं भिन्नक्रमे, तेन सप्तमे चेति योजनात षष्ठेऽप्यवपीढः । वाशब्दश्चानुक्तसमुच्चये, तेनानुक्तं सशोणित चर्मदानं शाखाललाटतिराताडनादिजङ्गमविषोक्तं च समुच्चीयते ' इत्युच्यते । ७. कालघातिनो विषस्य प्रतीकारविधिमभिधत्ते -- वेगेति । वेगान्वरे = वेगमध्ये, ५३ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 992
पाठ पढ़ें पाठ छिपाएँ
८३४ सुश्रुतसहिताया -Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० २
कोषातक्योऽग्निकैः पाठासूर्य्य वल्ल्यमृताऽभयाः ।
शिरीषः किणिही शेलुर्गिय्र्याह्ना रजनीद्वयम् ॥ ४५ ॥
पुनर्नवे हरेणुश्च त्रिकटुः सारिवे बला ।
एषां यवनिःक्काथे कृता हन्ति विषद्वयम् ॥ ४६ ॥
मधुकं तगरं कुष्ठं भद्रदारु हरेणवः ।
पुन्नागैलैलवालूनि नागपुष्पोत्पलं सिता ॥ ४७ ॥
विडङ्गं चन्दनं पत्रं प्रियङ्गुयमकं तथा ।
हरिद्रे द्वे बृहत्यौ च सारिवे च स्थिरा सहा ॥ ४८ ॥
कल्कैरेषां घृतं सिद्धमजेयमिति विश्रुतम् ।
विषाणि सन्ति सर्वाणि शीघ्रमेवाजितं क्वचित् ॥ ४ ९ ॥
दूषीविषार्त्त सुस्विन्नमूर्ध्वञ्चाधश्च शोधितम् ।
पायेागदं नियमिमं दूषीविषापहम् ॥ ५० ॥।
पिप्पल्यो “ ध्यामकं मांसी शावरः परिपेलवम् ।
सुवर्चिका " ससूक्ष्मैला तोयं कनकगैरिकम् ॥ ५१ ॥
क्षौद्रयुक्तोऽगदो ह्येष दूषीविषमपोहति । 10 II नाम्ना दूषीविषारिस्तु न चान्यत्रापि वार्य्यते ॥ ५२ ॥
ज्वरे " दाहे च हिक्कायामानाहे शुक्रसङ्क्षये ।
शोफेऽतिसारे मूर्च्छायां हृद्रोगे जठरेऽपि वा ॥ ५३ ॥
श्रन्यत मे = एकतमे । १ अग्निकः = अजमोदा, पाठा = ' पाढ ' इति ख्याता, सूर्यवल्ली = श्रर्कपुष्पिकावृक्षः । २ किणिही = ज्योतिष्मती, ' मालकांगनी ' इति बोध्या । कि अपामार्ग इत्यमरकोशे । गिर्याह्वा = विष्णुक्रान्ता भेदः । १३ कोशातक्यादीनां क्वाथेन षटङ्गकल्पनाकल्पितेन यवागूः कल्पनीया । ५ ' पुन्नागे पुरुषस्तुङ्गः केसरो सिता ' मिसरी ' इति बोध्या । ७ स्थिरा = शालपर्णी । ९ इमं = वक्ष्यमाणम् । १० ध्या-शावरः = रोधः, परिपेलवं = कैवर्त १२ दूषीविषजन्योपद्रवान्निर्दिशति--४ विषद्दरमजेयं घृतं निर्दिशति -- मधुकमिति । देववल्लभः ' इत्यमरः । नागपुष्पं = नागकेसरम्, ६ ध्यामकं = रोहिषम्, तदलाभे ' उशीरं ' देयम् । ८ दूषीविषारिमगदं निर्दिशति -- दूषीति । मकं = रोहिषाख्यस्तृणविशेषः, मांसी = जटामांसी, मुस्तकम् । ११ सुवचिका = सर्जिकाक्षारः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 993
पाठ पढ़ें पाठ छिपाएँ
५० ३ ] Digitized by Aryashila ba Hathon Chennai and eGangotri ८३५.
उन्मादे वेपथौ चैव ये चान्ये स्युरुपद्रवाः ।
यथास्वं तेषु कुर्वीत विषघ्नैरौषधैः क्रियाम् ॥ ५४ ॥
साध्यमात्मवेतः सद्यो याप्यं संवत्सरोत्थितम् ।
दूषीविषमसाध्यन्तु क्षीणस्याहित सेविनः ॥ ५५ ॥
इति सुश्रुतसंहितायां कल्पस्थाने स्थावरविषविज्ञानीयो नाम द्वितीयोऽध्यायः ॥ २ ॥
तृतीयोऽध्यायः ।
अथातो जङ्गमविषविज्ञानीयं कल्पं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
जङ्गमस्य विषस्योक्तान्यधिष्ठानानि षोडश ।
समासेन मया यानि विस्तरस्तेषु वक्ष्यते ॥ ३ ॥
तंत्र दृष्टिनिःश्वासदंष्ट्रानखमूत्रपुरीषशुक्रलालार्त्तव मुखसन्दंश-विशद्धिततुण्डास्थिपित्तशुकशवानीति ॥ ४ ॥
तत्र, दृष्टिनिःश्वासविषा दिव्याः सर्पाः, भौमास्तु दंष्ट्राविषाः, मार्जारश्ववानरमकरमण्डूकपाक मत्स्यगोधाशम्बूकप्रचलाकगृहगो-ज्वर इति । १ यथास्वं = यथायोग्यमुपदिष्टम् । २ दूषीविषस्य साध्यासाध्यत्वा-दिकं दर्शयति-- साध्यमिति । श्रात्मवतः = संयमिनः । ३ श्रहित सेविनः = श्रहिता. हारविहारकारिण इत्यर्थः । इति सुश्रुतसंहितायाः कल्पस्थानीय सुधाऽऽख्यटिप्पन्यां द्वितीयोऽध्यायः । तृतीयोऽध्यायः । ४ द्वितीयाध्याये “ द्वितीयं षोडशाश्रयम् ” इति विवृण्वन् जङ्गमविषविज्ञानीयम-ध्यायमधिकरोति -- अथेति । ५ समासेन = सङ्क्षेपेणेत्यर्थः । ६ जङ्गमविषस्य षोडशाधिष्ठानानि निर्दिशति -- तत्रेति । ७ विशर्षितः = अपानवातः, गुदगर्जन-मिति यावत् । ' वृधि श्रपानशब्दे ' इति धातुः । दिवि स्वर्गे भवा दिव्याः । भूमौ मर्त्यलोके भवा भौमाः । ९ पाकमत्स्यादिजीवानां परिचयार्थं यतनीतम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 994
पाठ पढ़ें पाठ छिपाएँ
bigitized by Arya Samaj Found सुश्रुतसंहिताय amgotri [ अ ० ३ धिकाचतुष्पाद्कीटास्तथाऽन्ये दंष्ट्रानखविषाः, चिपिटपिच्चिटकक-पायवासिक सर्षपकतोटकवर्चः कीटकौण्डिन्यकाः शकृन्मूत्रविषाः, मूषिकाः शुक्रविषाः, लूतेा लालामूत्रपुरीषमुखसन्दंशनखशुक्रार्त्तव-विषाः, वृश्चिकविश्वम्भरवरटीराजीव मत्स्योच्चिटिङ्गाः समुद्रवृश्चि काञ्चालैविषाः, चित्रशिरःसराव कुर्दिशतदारुकारिमेदकसारिकामुखा मुखसन्देश विशद्धितमूत्रपुरीषविषाः, मक्षिकाकरणभजलायुका मुख-सन्दंशविषाः, विषहतास्थिसर्पकण्टकवरटी मत्स्यास्थि चेत्यस्थिवि-पाणि, शकुलोमत्स्यरक्तराजिवरटी मत्स्याश्च पित्तविषाः, सूक्ष्मतु-ण्डोच्चिटिङ्गवरटीशतपदीशूकवल भिकाशृङ्गीभ्रमराः शुकतुण्डवि षाः, कीटसर्पदेहा गतासवः शवविषाः । शेषास्त्वनुक्ता मुखसन्दंश-विषेष्वेव गणयितव्याः ॥ ५ ॥
भवन्ति चात्र ।
राज्ञोऽरिदेशे रिपवस्तृणाम्बुमार्गान्नधूमश्वसनान् विषेण ।
सन्दूषयन्त्येभिरतिप्रदुष्टान् विज्ञाय ' लिङ्गैरभिशोधयेत्तान् ॥ ६ ॥
दुष्टं जलं पिच्छिलमुग्रगन्धि फेनान्वितं राजिभिरावृतञ्च ।
मण्डूकमत्स्यं म्रियते विहङ्गा मत्ताश्च सानूपचरा भ्रमन्ति ॥ ७ ॥
मँज्जन्ति ये चात्र नराश्वनागास्ते छर्दिमोहज्वरदाहशोफान् ।
गर्च्छन्ति तेषामपहृत्य दोषान् दुष्टं जलं शोधयितुं यतेत! । ८ ॥
" धवाश्वकर्णासनपारिभद्रान् सपाटलान् " सिद्धकमोक्षकौ च ।
दग्धा सराजद्रुम " सोमावल्कांस्तद्भस्म शीतं वितरेत् " सरःसु ॥ ९ ॥
१ अन्ये = मशकमक्षिका कुम्भीरादयः । २ लूता = ' मकड़ा ' इति ख्याता । ३ आ-लं = वृश्चिकपुच्छस्थितकण्टकः । रलयोः सावण्योद् श्रारमपि । ४ तृणादीनां विष दूषितत्वज्ञानावश्यकतां दर्शयति-- राज्ञ इति । ५ लिङ्गैः = तत्तल्लक्षणैरित्यर्थः । ६ विषदूषितजललक्षणमभिधत्ते - दुष्टमिति । दुष्टं विषदूषितमित्यर्थः । ७ कृष्णा-भी राजिभिः । मज्जन्ति = स्नान्ति । ९ गच्छन्ति = प्राप्नुवन्ति । १० विषदुष्ट. जलशोधनौषधं वक्ति - धवेति । घवः = ' धाय ' इति प्रथते । श्रश्वकर्णः = सालभेदः, असनः = ' विजयसार ' इति ख्यातः । ११ सिद्धकः = साल:, मोक्षकः = मुष्ककः । १२ सोमवल्कः = श्वेतखदिरः । १३ वितरेत् == निःक्षिपेत् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 995
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ] Digitized by Aryaduation Chennai and eGangotri 3
भस्मालिञ्चापि घटे निधाय विशोधयेदीप्सितमेवमम्भः ।
क्षितिप्रदेशं विषदूषितन्तु शिलातलं तीर्थमथेरिणं वा ॥ १० ॥
स्पृशन्ति गात्रेण तु येन येन गोवाजिनागोष्टखरा नरा वा ।
तच्छूनतां यात्यथ दह्यते च ' विशीर्य्यते रोमनखं तथैव ॥ ११ ॥
तंत्राप्यनन्तां सह सर्वगन्धैः पिष्ट्वा सुराभिविनियोज्य मार्गम् ।
सिञ्चेत् र्पयोभिः सुमृदन्वितैस्तं विडङ्गपाठाकट भीजलैर्वा ॥ १२ ॥
तृणेषु भक्तेषु च दूषितेषु सीदन्ति मूच्र्च्छन्ति वमन्ति चान्ये ।
विड्भेदमृच्छन्त्यथवा म्रियन्ते तेषां चिकित्सां प्रणयेद्यथोक्ताम् ॥१३ ॥
विषापहैर्वाऽप्यगदैर्विलिप्य वाद्यानि चित्राण्यपि वादयेत ।
तारः सुतारः ससुरेन्द्रगोपः सर्वैश्च तुल्यः कुरुविन्दभागः ॥ १४ ॥
पित्तेन युक्तः कपिलान्वयेन वाद्यप्रलेपो विहितः प्रशस्तः । वाद्यस्य शब्देन हि यान्ति नाशं विषाणि घोराण्यपि यानि सन्ति १५
" धूमेऽनिले वा विषसम्प्रयुक्ते खगाः श्रमार्त्ताः प्रपतन्ति भूमौ ।
कासप्रतिश्यायशिरोरुजश्च भवन्ति तीव्रा " नयनामयाश्च ॥ १६ ॥
लाक्षाहरिद्राऽतिविषाऽभयाऽब्दह रेणुकैलादल वक्रकुष्ठम् १२ प्रियङ्गुकाञ्चाप्यनले निधाय धूमानिलौ चापि विशेोधयेत ॥ १७ ॥
१ प्रजामिमामात्मयोनेर्ब्रह्मणः सृजतः किल । १ अञ्जलिं = चत्वारि पलानि । ३ तीर्थे घट्टम, इरिणम् = ऊषरभूमिम् । २ विषदूषितभूमिलक्षणमाह- क्षितीति । ४ विशीर्यते शटति । ५ विषदूषितभूमिचिकित्सां वक्ति - तन्नेति । अनन्ता = उत्पलसारिवा, सर्वगन्ध-स्तु- “ चातुर्जातककर्पूरकक्कोलागुरुकुङ्कुमम् । लवङ्गसहितं चैव सर्वगन्धं विनिर्दिशेत् ॥ ” इति दुग्धैः । ७ कटभी = ' मालकांगनी ' इति ख्याता । विष. । ६ पयोभिः = दूषिततृणभक्तयोर्लक्षणं चिकित्सां चाख्याति - तृणेष्विति । ९ तारः = रौप्यकम्, सुतारः- पारदः; सुरेन्द्रः सुवर्णे, गोपा सारिवा, ताभ्यां सहितः ससुरेन्द्रगोपः, कुरु • विन्दभागः = मुस्तांशः । कुरुविन्दं पद्मरागमणिरिति सुश्रुतार्थसन्दीपनम् । १० विष. दूषितधूमानिलयोर्लक्षणं तच्चिकित्सां चाभिदधाति - धूम इति । ११ नयनामयाः नेत्ररोगाः । १२ अब्दः = ' मोथा ' इति ख्यातः । १३ विषोत्पत्तौ पुरावृत्तं कथयति - प्रजामिति । चरके तु-- " अमृतार्थं समुद्रे तु मथ्यमाने सुरासुरैः । जज्ञे प्रागमृतोत्पत्तेः पुरुषो घोरदर्शनः । दीप्ततेजाश्चतुर्दंष्ट्रो हरि • CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 996
पाठ पढ़ें पाठ छिपाएँ
८३८ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३ अकरोदसुरो विघ्नं कैटभो नाम दर्पितः ॥ १८ ॥
ततः क्रुद्धस्य वै वक्त्राद् ब्रह्मणस्तेजसो निधेः ।
क्रोधो विग्रहवान् भूत्वा निपपातातिदारुणः ॥ १ ९ ॥
से ' तं ददाह गर्जन्तमन्तकाभं महाबलम् ।
ततोऽसुरं घातयित्वा तत्तेजोऽवर्द्धताद्भुतम् ॥ २० ॥
ततो विषादो देवानामभवत्तं निरीक्ष्य वै ।
विषादजननत्वाच्च विषमित्यभिधीयते ॥ २१ ॥
ततः सृष्ट्वा प्रजाः शेषं तदा तं क्रोधमीश्वरः ।
विन्यस्तवान् स भूतेषु स्थावरेषु चरेषु च ॥ २२ ॥
यथाऽव्यक्तरसं तोयमन्तरीक्षान्महीगतम् ।
तेषु तेषु प्रदेशेषु रसं तं तं नियच्छति ॥ २३ ॥
एवमेव विषं यद्यद् द्रव्यं व्याप्यावतिष्ठते ।
स्वभावादेव तं तस्य रसं समनुवर्त्तते ॥ २४ ॥
विषे यस्माद् गुणाः सर्वे तोक्ष्णाः प्रायेण सन्ति हि ।
विषं सर्वमतो ज्ञेयं सर्वदोषप्रकोपणम् ॥ २५ ॥
ते तु वृत्तिं प्रकुपिता जहति स्वां विषार्दिताः ।
नोपयाति विषं पाकमतः प्राणान् रुणद्धि च ॥ २६ ॥
श्लेष्मणाऽऽवृतमार्गत्वादुच्छ्वासोऽस्य निरुध्यते । स्केशोऽनलेक्षणः । जगद्विषण्णं तं दृष्ट्वा तेनासौ विषसंज्ञितः ॥ जङ्गमस्थावरायां तथोनौ ब्रह्मा न्ययोजयत् । तदम्बुसम्भवं तस्माद् द्विविधं पावकोपमम् ॥ ” इति । एवमेव पुरा-वृत्तमष्टाङ्गहृदयेऽपि, तत्तु प्रसङ्गतः प्रागुदुघृतम् । १ निपपात = निर्गतवान् । २ सः = पुरुषरूपः क्रोधः, तं - कैटभासुरम् । ३ तस्य पुरुषरूपवतः क्रोधस्य तेजस्तत्तेजः । ४ विषादः = वाक्कायचित्तावसादः, ' विषादश्चेतसो भङ्ग उपायाभावनाशयोः ' इति । ५ विन्यस्तवान् = विनिःक्षिप्तवान् । ६ विषस्य नानावीर्यत्वे हेतुमाख्याति – यथेति । अव्यक्तरसम् = एकरसम् । ७ तेषु तेषु प्रदेशेषु = श्राकाशगुणभूयिष्ठादिष्वित्यर्थः । ८ तस्य = द्रव्यस्येत्यथः । ९ विषस्य सर्वदोषप्रकोपकत्वमभिधत्ते - विष इति । १० ते वातादिदोषाः, स्वां वृत्ति, यथा- वातः प्रस्पन्दनादिकां, पित्तः रागपक्त्यादिकां, श्लेष्मा सन्धि संश्लेषादिकां, CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 997
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ] Digitized by Arya Samme Chennai and eGangotri ८३ ९ विसंज्ञः ' सति जीवेऽपि तस्मात् तिष्ठति मानवः ॥ २७ ॥
शुक्रेत् सर्वसर्पाणां विषं सर्वशरोरगम् ।
क्रुद्धानामेति चाङ्गेभ्यः शुक्रं निर्मन्थंनादिव ॥ २८ ॥
तेषां बडिशैवद् दंष्ट्रास्तासु सज्जति चागतम् ।
अनुवृत्ता विषं तस्मान्न मुञ्चन्ति च भोगिनः ॥ २ ९ ॥
यस्मादत्यर्थमुष्णञ्च तीक्ष्णञ्च पठितं विषम् ।
अतः सर्वविषेषूक्तः परिषेकस्तु शीतलः ॥ ३२ ॥
मन्दं कीटेषु नात्युष्णं बहुवातकफं विषम् ।
अतः कीटविषे चापि स्वेदो न प्रतिषिध्यते ॥ ३१ ॥
कीटैर्दष्टानुप्रविषैः सर्पवत् समुपाचरेत् ।
स्वभावादेव तिष्ठेत्तु प्रहारादंशयोर्विषम् ॥ ३२ ॥
व्याप्य सावयवं देहं ' " दिग्धविद्धाहिदष्टयोः ।
लौल्याद्विषान्वितं मांसं यः खादेन्मृतमात्रयोः ॥ ३३ ॥
यथाविषं " स रोगेण क्लिश्यते म्रियतेऽपि वा ।
अतश्चाप्यनयोर्मांसमभक्ष्यं मृतमात्रयोः ॥ ३४ ॥
" मुहूर्तात्तदुपादेयं प्रहारादंशवर्जितम् ।
सवातं " गृहधूमाभं पुरीषं योऽतिसार्यते ॥ ३५ ॥
आध्मातोऽत्यर्थेमुष्णास्रो विवर्णः सादपीडितः । जहति त्यजन्तीत्यथः । १ विग्रता सज्ञा सम्यग ज्ञानं यस्य स विसन्शः । २ दंशकाले सर्पाः कथं विषं मुञ्चन्तीति दर्शयति - शुक्रेति । ३ सर्वशरीरगं = सकलाङ्गव्यापकम् । ४ यथा श्रेष्ठाङ्गनाऽऽलिङ्गनरूपहर्षाच्छुकमङ्गेभ्य एति आग-च्छति, तथैव क्रुद्धानां सर्पाणामङ्गेभ्यो विषमागच्छति 1 । ५ वडिशवत् = मत्स्यवेधन-यन्त्रवदित्यर्थः । ६ श्रनुवृत्ताः = अननुयोजिता, अनुच्छलिता इति यावत् । कर्षण-कृतपरावृत्त्य । हि दंष्ट्राणामधोमुखतेति निबन्धसङ्ग्रहव्याख्या । ७ सर्वविषेषु शीतक्रियार्थमुपदिशति - यस्मादिति । ८ श्रपिशब्दप्रयोगात् केषाञ्चन कीटानां विषेषु स्वेदनिषेधः । ९ सविषमांसभक्षणदोषं दर्शयति - स्वभा-चादिति । १० दिग्वविद्धः विषलिप्तशस्त्रइतः श्रविदष्टः सर्पदष्टस्तयोरित्यर्थः । = मांसम् । ११ यथाविषं = विषानुसारेण । १२ मुहूर्तात् = घटिकादयानन्तरम्, तत् = २ १३ विषपीतलक्षणमभिधत्ते - सवातमिति । १४ उष्णास्रः = उष्णनेत्राम्बुः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 998
पाठ पढ़ें पाठ छिपाएँ
८४० सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri उद्वमत्यथ फेनञ्च विषपीतं तमादिशेत् ॥ ३६ ॥
न चास्य हृदयं वह्निर्विषजुष्टं दत्यपि । [ अ ० ३ • तद्धि स्थानं चेतनायाः स्वभावाद् व्याप्य तिष्ठति ॥ ३७ ॥
अश्वत्थदेवायतनश्मशानवल्मीक सन्ध्यासु चतुष्पथेषु ।
याम्ये सपित्रे परिवर्जनीया ऋक्षे नरा मर्मसु ये च दृष्टाः ॥ ३८ ॥
दवीराणां विषमाशुघाति सर्वाणि चोष्णे द्विगुणीभवन्ति ।
अजीर्णपित्तातपपीडितेषु बालप्रमेहिष्वथ गर्भिणीषु ॥ ३ ९ ॥
वृद्धातुरक्षणबुभुक्षितेषु रूक्षेषु भीरुष्वथ दुर्दिनेषु ।
शंस्त्रक्षते यस्य न रक्तमेति राज्यो लताभिश्च न सम्भवन्ति ॥ ४० ॥
शीताभिरद्भिश्च न ‘ रोमहर्षो विषाभिभूतं परिवर्जयेत्तम् ।
जिह्वा सिता यस्य च केशश तो नासाऽवभङ्गश्वांसकण्ठभङ्गः ॥४१ ॥
कृष्णः सरक्तः श्वयथुश्च दंशे " हन्वोः स्थिरत्वञ्च स वर्जनीयः ।
" वर्त्तिर्घना यस्य निरेति वक्त्राद्रक्तं स्रवेदूर्ध्वमधश्च यस्य ॥ ४२ ॥
दंष्ट्रानिपाताः सकलाश्च यस्य तञ्चापि वैद्यः परिवर्जयेत्तु ।
उन्मत्तमत्यर्थमुपद्रुतं वा हीनस्वरं वाऽप्यथवा विवर्णम् ॥ ४३ ॥
" सारिष्टमत्यर्थमवेगिनञ्च जह्यान्नरं तत्र न कर्म कुर्यात् ॥ ४४ ॥
इति सुश्रुतसंहितायां कल्पस्थाने जङ्गमविषविज्ञानीयोनाम तृतीयोऽध्यायः ॥३ ॥
१ न दहति = न भस्मीकरोति । २ विशिष्टदेशादी दष्टानां वर्ज्यत्वमाह - अश्वत्थेति । ३ याम्ये = भरण्याम्, पित्र्ये = मघायाम् । वाग्भटे विशेषः - " श्मशानचितिचेत्यादौ पञ्चमीपक्षसन्धिषु । श्रष्टमी नवमीसन्ध्यामध्यरात्रिदिनेषु च ॥ याम्याग्नेयमघाऽऽश्लेषा. विशाखापूर्वनैर्ऋते । नैर्ऋताख्ये मुहूर्ते च दष्टं मर्मसु च त्यजेत् ॥ दष्टमात्रः सितास्याक्षः शीर्यमाणशिरोरुहः । स्तब्धजिह्वो मुहुर्मूर्च्छन् शीतोच्छ्वासो न जीवति ॥ ” इति । ४ अवस्थाविशेषेण विषवृद्धिं कथयति दवति । ५ उष्णकाले इत्यर्थः । द्विगुणी-भवन्ति = द्विगुणशक्तिकानि भवन्ति । ६ मेघाच्छादितं दिनं दुर्दिनं तेष्वित्यर्थः । ७ विषाभिभूतस्यासाध्यलक्षणानि निर्दिशति - शस्त्रेति । शस्त्रक्षते यस्य रक्तं नैति, लताभिश्च ताडिते राज्यो रेखा न सम्भवन्तीत्यर्थः । ८: रोमहर्षः = रोमाञ्चः । ९ केशशातः == कचच्युतिः । १० दंशे = दष्टस्थाने, इन्वोः = मुखसन्ध्योः । ११ कफव-तिरित्यर्थः । १२ अरिष्टेन मरणलक्षणेन सहितं सारिष्टम्, अवेगिन = वेगवर्जितम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 999
पाठ पढ़ें पाठ छिपाएँ
अ ०४ ] Digitized by Arya Samahennai and eGangotri चतुर्थोऽध्यायः । ८४१ अर्थातः सर्पदष्टविषविज्ञानीयं कल्पं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
धन्वन्तरिं महाप्राज्ञं सर्वशास्त्रविशारदम् ।
पादयोरुपसङ्गृह्य सुश्रुतः परिपृच्छति ॥ ३ ॥
सर्पसंख्यां विभागेञ्च दष्टलक्षणमेव च ।
ज्ञानञ्च विषवेगानां भगवन्! वक्तुमर्हसि ॥ ४ ॥
तस्य तद्वचनं श्रुत्वा प्रात्रवीद्भिषजां वरः ।
असंख्या वासुकिश्रेष्ठा विख्यातास्ततकादयः ॥ ५ ॥
महीधराश्च नागेन्द्रा हुताग्निसमतेजसः ।
ये चाप्यज॑स्रं गर्जन्ति वर्षन्ति च तपन्ति च ॥ ६ ॥
ससागरगिरिद्वीपा यैरियं धार्यते मही ।
ऋद्धा निःश्वासदृष्टिभ्यां ये हन्युरखिलं जगत् ॥ ७ ॥
नमस्तेभ्योऽस्ति नो तेषां कार्यं किञ्चिच्चिकित्सया ।
ये तु दंष्ट्राविषा भौमा ' ये दशन्ति च मानुषान् ॥ ८ ॥
तेषां सङ्ख्यां प्रवक्ष्यामि यथावदनुपूर्वशः । सङ्ग्रहे— “ श्वयथुर्वेदनास्तीत्राः ग्रीवाभङ्गोऽक्षिरक्तता । मूर्च्छागलग्रहश्छर्दिः प्रेतरा-जस्य किङ्कराः ॥ जाम्बवप्रतिमो दंशः कूर्मपृष्ठवदुन्नतः । रक्तं खेभ्यः समस्तेभ्यो वर्तते न तु दंशतः ॥ रोमहर्षो न शिशिरैः श्वयथुर्लोहितोऽसितः । हृष्टमेहनता वक्रवक्त्रत्वं यस्य तं त्यजेत् ॥ ” इति । इति सुश्रुतसंहितायाः कल्पस् थानीय सुधा ss ख्य टिप्पन्यां तृतीयोऽध्यायः । चतुर्थोऽध्यायः । १ जङ्गमविषेषु सर्पस्य प्राधान्यात् प्राक् सर्पदष्टविषविज्ञानीयमधिकरोति - अथेति । २ विभागं - पृथक्करणम् । ३ सर्पाणां महाविषत्वं प्रतिपादयति - तस्येति । ४ वासुकिः श्रेष्ठो येषां ते वासुकिश्रेष्ठाः । ' शेषः प्रथमतो जातो वासुकिस्तदनन्तरम् । ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ । ' इति महाभारतमनुसन्धेयम् । ५ अजस्रं = रात्रिन्दिवम् । ६ तेषां = तक्षकादीनाम् । ७ भूमौ मर्त्यलोके भवा भौमाः । ८ संख्यां = गणनाम् । ९ अनुपूर्वशः = अनुक्रमेणेत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1000
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां 133 Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ४ अशीतिस्त्वेिव सर्पाणां भिद्यते पञ्चधा तु सो ॥ ९ ॥
दर्वीकैरा मण्डलिनो राजिमन्तस्तथैव च ।
निर्विषा वैकरञ्जश्च त्रिविधास्ते पुनः स्मृताः ॥ १० ॥
दर्वीकरा मण्डलिनो राजिमन्तश्च पन्नगाः ।
तेषु दर्वीकरा ज्ञेया विंशतिः षट् च पन्नगाः ॥ ११ ॥
द्वाविंशतिर्मण्डलानि राजिमन्तास्तथा दश ।
निर्विषा द्वादश ज्ञेया वैकरञ्जास्त्रयस्तथा ॥ १२
वैकरञ्जोद्भवाः सप्त चित्रा मण्डलिराजिलाः ।
पादाभिसृष्टा दुष्टा वा क्रुद्धा ग्रासार्थिनोऽपि वा ॥ १३ ॥
ते दशन्ति महाक्रोधास्त्रिविधं भीष्मदर्शनाः ।
सर्पितं रदितं चापि तृतीयमथ निर्विषम् ।
सर्पाङ्गाभिहतं केचिदिच्छन्ति खलु तद्विदः ॥ १४ ॥
पंदानि यत्र दन्तानामेकं द्वे वा बहूनि वा । १ सङ्क्षेपेण सर्पाणां पञ्चभेदानाख्याति -- अशीतिरिति । २ सा = अशीतिः । ३ दकार फण एव करो येषां प्रहारसाधनत्वात् ते, अथवा दवीं फणां कुर्वन्तीति दवकराः, मण्डलिनः फणावर्जिता नानाप्रकारैर्मण्डलैश्चिताः, राजिमन्तः = फणाव-जिंता बिन्दुना तिर्यगूर्ध्वगरेखया च विचित्रिताः, तदुक्तं चरके -- " बिन्दुलेखविचित्राङ्गः पन्नगः स्यात्तु राजिमान् ” इति । निर्विषाः = विषरहिताः, वैकरअ: = सङ्कीर्णजाताः । ४ सर्पाणां दंशने हेतुमभिदधाति - पादेति । पादेन पादाभ्यां वाऽभिसृष्टा मर्दिता इति पादाभिमृष्टाः, दुष्टाः = दुष्टप्रकृतयः । ५ महाक्रोधेन भीमं भयङ्करं दर्शनं येषां ते भीमदर्शनाः । श्रष्टाङ्गहृदये – “ श्राहारार्थं भयात्पादस्पर्शादतिविषात् क्रुधः । पापवृ त्तितया वैरात् देवर्षियमचोदनात् ॥ दशन्ति सर्पास्तेषूक्तं विषाधिक्यं यथोत्तरम् । इति कारणमुक्तम् । दंशविषज्ञानार्थं दंष्टाभेदमाह चरकः, प्रसङ्गात् स प्रदर्श्यते— “ सर्पदंष्ट्राश्चतस्रस्तु तासां वामाधरा सिता । पीता वामोत्तरा दंष्ट्रा रक्तश्यावाऽधरो-त्तरा ॥ यन्मात्रः पतते बिन्दुर्गोवालात् सलिलोद्धृतात् । वामाधरायां दंष्ट्रायां तन्मात्रं स्यादद्देविंषम् ॥ एकद्वित्रिचतुर्विद्धविष भागोत्तरोत्तराः । सवर्णास्तत्कृता दंशा बहूत्तर-विषा भृशाः ॥ ” इति । ६सर्पदंशस्य त्रैविध्यं दर्शयति - सर्पितमिति । सर्पितं = दष्टमत्यवगाढम्, रदितं = दष्टमनवगाढम् । ७ तत्रादौ सर्पितस्य लक्षणमाइ - पदानीति । पदानि = CC - 0. Gurukul Kangri Collection, Haridwar