सुश्रुत संहिता चौखम्बा — पृष्ठ 1021–1030

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1021–1030

पृष्ठ 1021

सुश्रुत संहिता चौखम्बा, पृष्ठ 1021 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६ ] कल्पस्थानम् che Digitized by Arya Samaj Foundation Chennai and eGangotri

सदा सर्वविषार्त्तानां सर्वथैवोपयुज्यते ।

एष तक्षकमुख्यानामपि दर्पाङ्कुशोऽगदः ॥ ७ ॥

विडङ्गत्रिफलादन्तीभद्रदारुहरेणवः ।

तालीशपत्र मञ्जिष्ठाकेशरोत्पलपद्मकम् ॥ ८ ॥

दाडिमं मालतीपुष्पं रजन्यौ सारिवे स्थिरे ।

प्रियङ्गुस्तरं कुष्ठं बृहत्यौ चैलवालुकम् ॥ ९ ॥

सचन्दनगवाक्षीभिरेतैः सिद्धं विषापहम् ।

सर्पिः कल्याणकं ह्येतद् ग्रहापस्मारनाशनम् ॥ १० ॥

पाण्ड्वामयगरश्वासमन्दाग्निज्वरकासनुत् ।

शोषिणमल्पशुक्राणां वन्ध्यानाञ्च प्रशस्यते ॥ ११ ॥

अपामार्गस्य बीजानि शिरीषस्य च माषकान् * ।

श्वेते ' द्वे काकमाचीञ्च गवां मूत्रेण पेषयेत् ॥ १२ ॥

सर्पिरेतैस्तु संसिद्धं विषसंशमनं परम् ।

अमृतं नाम विख्यातमपि सञ्जीवयेन्मृतम् ॥ १३ ॥

चन्दनागुरुणी कुष्ठं तगरं तिलपर्णिकम् ।

प्रपौण्डरीकं नलदं सरलं देवदारु च ॥ १४ ॥

भद्रश्रियं यवफलां भार्गी नीलीं सुगन्धिकाम् ।

कालेयकं पद्मकञ्च मधुकं नागरं जटाम् ॥ १५ ॥

पुन्नागैलैलवालूनि गैरिकं १'ध्यामकं बल! म् । ८६३ १ सर्वविषे कल्याणकं घृतमभिधत्ते - विडङ्गेति । २ स्थिरे = शालपण मूषि कपण च । ३ गवाक्षी = इन्द्रवारुणी । ४ सर्वविषे अनृताख्यं सर्विराह – अपामार्गस्येति । ५ कुत्सिता माषा मा षकास्तान् सादृश्यात्तद्बीजानीत्यर्थः । ६ श्वेते द्वे = श्वेता महाश्वेता चेति द्वयम्, काकमाची = ‘ मकोय ' इति ख्याता । मूत्रेण = घृतापेक्षया चतुर्गुणेन गोमूत्रेणेत्यर्थः । ७ सर्वविषे महासुगन्धिनामागदराजं वक्ति - चन्दनेति । तिलपर्णिकं = ' हुरहुर ' इति प्रसिद्धम् । ८ भद्रश्रियं = श्वेतचन्दनम्, यत्रफल = दुग्धिकाम्, कुटजमित्यर्थः सुश्रुतार्थसन्दीपने | नीली = नीलाञ्जलिकाम्, सुगन्धिकां = नाकुलीम् । ९ काले-यकं = पीतचन्दनम् । १० ध्यामकं = गन्धतृणम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1022

सुश्रुत संहिता चौखम्बा, पृष्ठ 1022 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८६ ४ by Arya Samaj Fou सुश्रुतसंहितायां eGangotri [ अ ० ६ · ' तोयं सर्जरसं मांसीं शतपुष्पां हरेणुकाम् ॥ १६ ॥

तालीशपत्रं क्षुद्रैलां प्रियङ्गु सकुटन्नटम् ।

शिलोपुष्पं सशैलेयं पत्रं कालानुसारिवाम् ॥ १७ ॥

कटुत्रिकं शीतं शिवं काश्मर्यं कटुरोहिणीम् ।

सोमराजीमतिविषां पृथ्विकामिन्द्रवारुणीम् ॥ १८ ॥

उशीरं वरुणं मुस्तं कुस्तुम्बुरु नखं तथा ।

श्वेते ' हरिद्रे स्थौणेयं लाक्षाञ्च लवणानि च ॥११ ९ ॥

कुमुदोत्पलपद्मानि पुष्पञ्चापि तथाऽर्कजम् ।

चम्पकाशोक सुमनस्तिल्वकप्रसंवानि च ॥ २० ॥

पाटलीशाल्मलीशेलुशिरीषाणां तथैव च ।

कुसुमं ' तृणमून्याश्चसुरभीसिन्धुवारजम् ॥ २१ ॥

धवाश्वकर्णपार्यानां पुष्पाणि तिनिशस्य च ।

गुग्गुलं कुङ्कुमं बिम्बीं सर्पाक्षीं गन्धनाकुलीम् ॥ २२ ॥

एतत् सम्भृत्य सम्भारं सूक्ष्मचूर्णानि कारयेत् ।

गोपित्तमधुसर्पिर्भिर्युक्तं शृङ्गे निधापयेत् ॥ २३ ॥

भग्नस्कन्धं विवृत्तात्क्षं मृत्योर्दंष्ट्रान्तरं गतम् ।

अनेनागद मुख्येन मनुष्यं पुनराहरेत् ॥ २४ ॥

एषोऽग्निकल्प " दुर्वारं क्रुद्धस्यामिततेजसः ।

विषं नागपतेर्हन्यात् प्रसभं वासुकेरपि ॥ २५ ॥

महासुगन्धिनामायं पञ्चाशीत्यङ्गसंयुतः । १ तोयं = हीबेरम् । २ शिला = मनःशिला, पुष्पं = पुष्ष कासीसम् ' कालानु. सारिवां = तगरम् । ३ शीतशिवं = कर्पूरम्, काश्मर्थं - ' खम्भारी ' इति ख्यातम् । कटुरोहिणी = ' कुटकी ' इति ख्याता । ४ पृथ्विकां = कृष्णजीरकम् । ५ श्वेते – श्वेता महाश्वेता चेति कटभीद्वयम्, स्थौणेयं = ग्रन्थिपर्णकम्, ' कुक रौंधा ' इति ख्यातम् । ६ प्रसवशब्देन पुष्पाणि फलानि च गृह्यन्ते । ७ तृशू-न्याः | == केतक्याः । ८ तिनिशस्य = स्यन्दनस्येत्यर्थः । ९ बिम्ब = ' कुन्दरू ' इति ख्याताम् । सर्पाक्षी = रास्नाभेदः, गन्धनाकुल = गन्धरास्नाम् । १० एषोऽगदः, श्रग्निकल्पं दुर्वारं विषं वासुकेरपि क्रुद्धस्य श्रमिततेजसो नागपतेः प्रसभं इन्यादिति CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1023

सुश्रुत संहिता चौखम्बा, पृष्ठ 1023 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६ ] Digitized by Arya Sa स्थान Phennai and eGangotri राजाऽगदानां सर्वेषां राज्ञो हस्ते भवेत् सदा ॥ २६ ॥

स्नातानुलिप्तस्तु नृपो भवेत् सर्वजनप्रियः ।

भ्राजिष्णुताञ्च लभते शत्रुमध्यगतोऽपि सन् ॥ २७ ॥

उष्वज्य विधिः कार्यो विषार्त्तानां विजानता ।

मुक्त्वा कीटविषं तेंद्धि शोतेनाभिप्रवर्द्धते ॥ २८ ॥

अन्नपानविधावुक्तमुपधायें शुभाशुभम् ।

शुभं देयं विषार्तेभ्यः विरुद्धेभ्यश्च वीरयेत् ॥ २ ९ ॥

फाणितं शिग्रुसौवीरम जीर्णाध्यशनं तथा ।

वर्जयेच्च समासेन नवधान्यादिकं गरणम् ॥ ३० ॥

दिवास्वप्नं व्यवायञ्च व्यायामं क्रोधमातपम् ।

सुरातिलकुलत्थांचं वर्जयेद्धि विषातुरः ॥ ३१ ॥

" प्रसन्नदोषं प्रकृतिस्थधातुमन्नाभिकाङ्क्ष १ " समसूत्रजिहम् । ८६५ योजना। १ इस्ते स्थापनप्रयोजनं तु विषजुष्टान्नपानादीनां पाणिस्पर्शेन निर्विषता-सिद्धयर्थम् । २ आदौ स्नातः पश्चादनुलिप्त इति स्नातानुलिप्तः । स्नानानुलेपनै सर्व जनप्रियत्व सम्पादनार्थम् । ३ विषार्तानां स्वेदं निषेधति - उष्णेति । कीटविषं विद्वाय विषान्तरपीडिताना-मुष्वज्य विधिः शीतविधानं कार्य इत्यर्थः । कीटविषं कोटकल्पाध्याये व्यक्तीभवि-प्यति। ४ तत् = कीटविषम् । ५ विषार्तानां पथ्यापथ्यानि निर्दिशति - अन्नेति । उपधार्य = आलोच्य, शुभाशुभं = हिताहितम् । ६ वारयेदित्यत्र विषानिति पदं वचनव्यत्यासेन श्राकृष्य अन्वेयम् । ७ नवधान्यादिर्व्रणितोपासनीयाध्याये प्रोक्तः । तद्यथा— “ नवधान्यमाषतिलकलाय कुलत्थनिष्पावहरितकशाकाम्ललवणकटुक गुडपिष्टवि-कृतिवल्लूरशुष्कशाकाजाविकानूपौदकमांसवसाशीतोदक कृशरापाय सदधिदुग्धठक्रप्रभृतीन् परिहरेत् । ” इति । माषादीनां धान्यश्वेऽपि नवधान्येत्यादौ पुनर्षान्यपदं पुराणाना-मपि तेषां निषेधार्थम् । ८ व्यवायं = मैथुनम् । ९ चकारेण पिण्याकमूल कल सुन. कलायकुसुम्भातसीशिशुमारकूर्म निष्पा व जम्ब्वाम्रात कचूतादिकानि च वर्जयेदिति निब-न्धसङ्ग्रहव्याख्याकारः । १० विषमुक्तलक्षणं दर्शयति - प्रसन्नेति । ढल्हण: - प्रसन्ना: स्वभावावस्थिता वातादिदोषा यस्य तं प्रसन्नदोषम् । ११ समसूत्रा जिह्वा यस्य स तं समसूत्रजिह्वम् । एतदुक्तं भवति - निर्विषस्य हि पुरुषस्य चित्तेन सह समसूत्रतया जिह्वा रसवे • ५५ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1024

सुश्रुत संहिता चौखम्बा, पृष्ठ 1024 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८६६ by Arya Samaj Fou सुश्रुत संहिता यां resangotri [ अ ० ७ प्रसन्नवर्णेन्द्रियचित्तचेष्टं वैद्योऽवगच्छेदविषं मनुष्यम् ॥ ३२ ॥

इति सुश्रुतसंहितायां कल्पस्थाने दुन्दुभिस्वनीयकरूपो नाम षष्ठोऽध्यायः ॥६ ॥

सप्तमोऽध्यायः ।

अथातो मूषिककल्पं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

पूर्वं ' शुक्रविषा उक्ता मूषिका ये समासतः ।

नामलक्षणभैषज्यैरष्टादश निबोध मे ॥ ३ ॥

लालनः पुत्रकः कृष्णो हंसिरश्चिक्किरस्तथा ।

छुच्छुन्दरोऽलसश्चैव कषायदशनोऽपि च ॥ ४ ॥

कुलिङ्गश्चाजितश्चैव चपलः कपिलस्तथा ।

कोकिलोऽरुणसंज्ञश्च महाकृष्णस्तथोन्दुरः ॥ ५ ।

श्वेतेन महता सार्द्धं कपिलेनाखुना तथा ।

मूषिकश्च कपोताभस्तथैवाष्टादश स्मृताः ॥ ६ ॥

शुक्रं पतति यत्रैषां शुक्रस्पृष्टैः स्पृशन्ति वा । दिनी भवति, सविषस्य विषप्रभावेण दूषितचित्तत्खाज्जिह्वा रसवेदिनी न भवतीति । निबन्धसङ्ग्रहव्याख्याकारेण श्रतिसुन्दरमेतत्पद्यसमविषातुरलक्षणप्रतिपादकपद्यमुद्धृ. तम् – “ प्रवृद्धदोषं विकृतिस्थधातुमनन्नकाङ्क्ष क्षतसूत्र जिह्वम् । विरुद्धवर्णेन्द्रियवित्त-चेष्टं वैद्योऽवगच्छेत् सविषं मनुष्यम् ॥ ” इति । इति सुश्रुतसंहितायाः कल्पस्थानीय सुधाऽऽख्यटिप्पन्यां षष्ठोऽध्यायः । सप्तमोऽध्यायः । १ अष्टादशविधमूषकाणां नामानि निर्दिशति - पूर्वमिति । पूर्वं जङ्गमविषविज्ञा नीये “ मूषिकाः शुक्रविषाः " इत्युक्ता इत्यर्थः । २ अष्टाङ्गहृदयेऽप्यष्टादशविधा मूषका उक्ताः, परं तत्र नामभेदो दृश्यते । तद्यथा - " लालनश्चपलः पुत्रो इसिरश्चि. क्किरोजिरः । कषायदन्तः कुलकः कोकिलः कपिलोसितः ॥ श्ररुणः शबलः श्वेतः कपोतः पलितोन्दुरः । छुच्छुन्दरो रसालाख्यो दशाष्टौ चेति मूषिकाः ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1025

सुश्रुत संहिता चौखम्बा, पृष्ठ 1025 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ७ ॥ Digitized by Arya Samaj Foundation Chennai and eGangotri

" कल्पस्थानम् ।

नखदन्तादिभिस्तस्मिन् गात्रे रक्तं प्रदुष्यति ॥ ७ ॥

जायन्ते ग्रन्थयः शोफा: कर्णिको मण लानि च ।

पिडकोपचयश्चोत्रो विसर्पाः किटिभानि च ॥ ८ ॥

पर्वभेदो रुजस्तीत्रा मूर्च्छाऽङ्गसद्नं ज्वरः ।

दौर्बल्यमरुचिः श्वासो वमथुर्लोमहर्षणम् ॥। ९ ॥

दष्टरूपं समासोक्तमेतद्वासमतः शृणु ।

लालास्रावो लालनेन हिक्का छर्दिश्च जायते ॥ १० ॥

तण्डुलीयककल्कन्तु लिह्यात्तत्र समाक्षिकम् ।

पुत्रकेणाङ्गसादश्च पाण्डुवर्णैश्च जायते ॥ ११ ॥

चीर्यैते ग्रन्थिभिश्चाङ्गमाखुशावकसन्निभैः ।

शिरीषेङ्गुदकल्कन्तु लिह्यात्तत्र समाक्षिकम् ॥ १२ ॥

कृष्णेनं ॰ दंशे शोफोऽसृक्छर्दिः प्रायश्च दुर्दिने ।

शिरीषफलकुष्ठन्तु पिवेत् किशुकभस्मना " ॥ १३ ॥

" हंसिरेणान्नविद्वेषो जृम्भा रोम्णां च हर्षणम् ।

पिवेदारग्वधादिन्तु " सुवान्तस्तत्र मानवः ॥ १४ ॥

II ८६७ १ श्रादिशब्दाच्छुक्रस्पृष्टपुरीषमूत्राभ्यां च यदङ्गं स्पृशन्ति तदङ्गे रक्तं प्रदुष्यति । तथा च ढल्णोदूधृतालम्बायने – “ शुक्रेणाथ पुरीषेण मूत्रेणापि नखैस्तथा । दंष्ट्रा • भिर्वा क्षिपन्तीह सूषिकाः पञ्चधा विषम् ॥ ” इति । २ सामान्येन मूषकदष्टलक्षणं दर्शयति- जायन्त इति । ३ कर्णिका = कमल-मध्यबीजकोश कृतिमांसकन्दीत्यर्थः । ४ पर्वभेदः = ग्रन्थिस्फुटनम् । ५ लोमह र्षणं = रोमाञ्चः । तत्रान्तरे विशेष: -- " गर्भिण्या मूषिकया दष्टेऽम्लादिदोहदः, ऋतु. मस्या दष्टे रक्तमेहनमाध्मानं रतिशीलता च " इति । ६ लालनदष्टलक्षणं तच्चि-कित्सां च दर्शयति- लालेति । ७ तण्डुलीयकः = ' चौलाई ' इति ख्यातः । ८ पुत्रकदष्टलक्षणं तच्चिकित्सां च वक्ति - पुत्र केणेति । श्रङ्गसादः = भङ्गग्लानिः । ९ चीयते = व्याप्यते । १० कृष्णदष्टलक्षणं तच्चकित्सां च ब्रवीति - कृष्णेनेति । मेघाच्छादितं दिनं दुर्दिनं तस्मिन्नित्यर्थः । ११ किंशुकभस्मना = पलाशपुष्पभस्मोदकेन । १२ हंसि • रदष्टलक्षणं तच्चिकित्सां चाख्याति - हंसिरेणेति । श्रन्नविद्वेषः = प्रनन्नाभिलाषः । १३ सुष्ठु वान्तः सुवान्तः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1026

सुश्रुत संहिता चौखम्बा, पृष्ठ 1026 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj तसं हिताय pnde Gangotri ८६८ [ अ ० ७

चिक्किरेण शिरोदुःखं शोफो हिक्का वमिस्तथा ।

जालिनी मंदनाङ्कोटकपायैर्वामयेत्तु तम् ॥ १५ ॥

यवनालपेभीक्षारं बृहत्योश्चात्र दापयेत् ।

छुच्छुन्दरे तृट् छर्दिर्ध्वरो दौर्बल्यमेव च ॥ १६ ॥

ग्रीवास्तम्भः पृष्ठशोफो गन्धाज्ञानं विसूचिका ।

चव्यं हरीतकी शुण्ठी विडङ्गं पिप्पली मधु ॥ १७ ॥

अङ्कोटबीजं च तथा पिवेदत्र विषापहम् ।

ग्रीवास्तम्भोऽलसेनोर्ध्ववायुर्दशे रुजा ज्वरः ॥ १८ ॥

महागदं ससर्पिष्कं लिह्यात्तत्र समाक्षिकम् ।

निद्रा कषायदन्तेन हृच्छोष: कार्श्यमेव च ॥ १ ९ ॥

क्षौद्रोपेताः शिरीषैस्य लिह्यात् सारफलत्वचः ।

कुलिङ्गेन " रुजः शोफो राज्यश्च दंश नण्डले ॥ २० ॥

सहे " ससिन्धुवारे च लिह्यात् तत्र समाक्षिके ।

१२ अजितेनाङ्गकृष्णत्वं छर्दिर्मूर्च्छा च हृद्ग्रहः ॥ २१ ॥

" स्नुक्क्षीरपिष्टां पालिन्दीं मञ्जिष्ठां मधुना लिहेत् ।

चपलेन ' " भवेच्छर्दिर्मूर्च्छा च सह तृष्णया ॥ २२ ॥

चौद्रेण त्रिफलां लिह्याद्भद्रकाष्टजटाऽन्विताम् । II १ चिक्किरदष्टलक्षणं तच्चिकित्सा चाभिधत्ते - चिकिरेणेति । २ जालिनी = ' तरोई ' इति ख्याता । ३ ऋषभी = ' केवांछ ' इति प्रथते । क्षारः = क्षारोदकमित्यर्थः । वृहत्योश्चेत्यत्र चकारेण क्षारस्य सम्बन्धः । ४ छुच्छुन्दरदष्टलक्षणं तच्चिकित्सां च प्रतिपादयति — छुच्छुन्दरेणेति । ५ श्रङ्को ठवीजं = निकोचकदीजम् । ६ अलसदष्टलक्षणं तच्चिकित्सां चाभिदधाति— ग्रीवेति। ७ महागदः पञ्चमाध्याये " त्रिवृद्धिशल्ये मधुकं हरिद्रे " इत्यादिना कथितः । = कषायदन्तदष्टलक्षणं तच्चिकित्सां चाह - निद्रेति । ९ शिरीषस्य सारफलत्वच इति सम्बन्धः । १० कुलिङ्गदष्टलक्षणं तच्चिकित्सां चाभिधत्ते — कुलिङ्गेनेति । राज्यः = रेखा इत्यर्थः । | ११ सहे = मुद्गपणींमाषपण्य, सिन्धुवार:: -निर्गुण्डी । १२ अजितदष्टलक्षणं तच्चिकित्सां चाभिदवाति - अजितेनेति । १३ स्तु-कू - सेहुण्डः, पालिन्दी = त्रिवृत् । १४ चपलदष्टलक्षणं तच्चिकित्सां चाचष्टे - चपलेनेति । CC - 0. Gurukul Kangri Collection, Haridwar भद्रकाष्ठं = देवदारु,

पृष्ठ 1027

सुश्रुत संहिता चौखम्बा, पृष्ठ 1027 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ७ ] Digitized by Arya Samahennai and eGangotri कपिलेन व्रणे कोथो ज्वरो ग्रन्थ्युद्गमः सतृड् ॥ २३ ॥

लिह्यान्मधुयुतां श्वेतां श्वेतां चापि पुनर्नवाम् ।

ग्रन्थयः कोकिलेनोमा ज्वरो दाहश्च दारुणः ॥ २४ ॥

वर्षाभूनीलिनीकाथ कल्कसिद्धं घृतं पिवेत् ।

अरुणेनानिलः क्रुद्धो वातजान् कुरुते गदान् ॥ २५ ॥

महाकृष्णेन पित्तञ्च श्वेतेन कफ एव च ।

महता कपिलेनासृक् कपोतेन चतुष्टयम् ॥ २६ ॥

भवन्ति चैषां दंशेषु ग्रन्थिमण्डलकर्णिकाः ' ।

पिडकोपचयश्चयः शोफश्च भृशदारुणः ॥ २७ ॥

दधिक्षीरघृतप्रस्थास्त्रयः प्रत्येकशो मताः ।

करञ्जारग्वधव्योषबृहत्यंशुमतीस्थिराः " ॥ २८ ॥

निष्काथ्य चैषां क्वाथस्य चतुर्थांशः पुनर्भवेत् ।

त्रिवृद्गोज्यमृतावक्रसर्पगन्धाः समृत्तिकाः " ॥ २ ९ ॥

कपित्थदाडिमत्वक् च श्लक्ष्णपिष्टाः प्रदापयेत् ।

तत् सर्वमेकतः कृत्वा शनैर्मृद्वग्निना पचेत् ॥ ३० ॥

' पञ्चानामरुणादीनां विषमेतद् व्यपोहति । १० ८६ ९ जटा = जटामांसी । १ कपिलदष्टलक्षणं तच्चिकित्सा चाख्याति - कपिलेनेति । कोथः = शटनम् । २ श्वेतां = श्वेतरयन्दाम् । द्वितीयश्वेतापदं पुनर्नवाया विशेष-नम् । ३ कोकिलदष्टलक्षणं तचिकित्सां च निर्दिशति - ग्रन्थय इति । ४ नीलिनी = ' नील ' इति ख्याता । ५ श्ररुण - महाकृष्ण - श्वेत- महाकपिल - कपोतानां पञ्चानां दष्टलक्षणानि तच्चि -कित्साश्च निरूपयति - अरुणेनेति । ६ चकाराद् वावजोऽपि रोगो बोद्धयः । ७ वातपित्तकफरक्तजचतुष्टयमित्यर्थः । कणिका - कमलमध्य बीजकोशाकृति-मांसकन्दी | ९ प्रत्येकशः = एकैकशः । १० अंशुमती = शालपर्णी, स्थिरा = मूषक-पणीं । एषां करआदिद्रव्याणां प्रत्येकशः द्विपलिकं भागं सलिलाढके निष्काथ्य चतु. शावशिष्टः कर्तव्यः । ११ गोजी = गोजिह्वा, अमृता = गुडूची, वक्रं = तगरम्, सर्प गन्धा = नाकुलो, ‘ नाकुली सर्पगन्धा च सुगन्धा भोगगन्धिका । सँव सर्पसुगन्धेति ” इति तन्त्रान्तरम् । समृत्तिकाः = कृष्णमृत्तिका सहिताः । १२ श्लक्ष्णविष्टाः सूक्ष्मपिष्टा इत्यर्थः १३ मृदग्निना == मन्दाग्निना । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1028

सुश्रुत संहिता चौखम्बा, पृष्ठ 1028 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८७० सुश्रुतसंहितायां Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ७ काकादनीकाकमाच्योः स्वरसेष्वथवा कृतम् ॥ ३१ ॥

सिराश्च स्रावयेत् प्राप्ताः कुर्यात् संशोधनानि च ।

सर्वेषाञ्च विधिः कार्य्यो सूषिकाणां विषेष्वयम् ॥ ३२ ॥

" दग्ध्वा विस्रावयेद् दंशं प्रच्छितञ्च प्रलेपयेत् ।

शिरीषरजनी कुठे कुङ्कुमैरमृतायुतैः ॥ ३३ ॥

छर्दनं जालिनीक्वाथैः शुकाख्याऽङ्कोठयोरपि ।

शुकाख्यौ कोषवत्योश्च मूलं मदन एव च ॥ ३४ ॥

देवदालीफलचैव दध्ना पीत्वा विषं वमेत् ।

सर्वमूषिकदष्टानामेष योगः सुखावहः ॥ ३५ ॥

फैलं वचा देवदाली कुठं गोमूत्रपेषितम् ।

पूर्वकल्पेन योज्याः स्युः सर्वोन्दुरुविषच्छिदः ॥ ३६ ॥

विरेचने त्रिवृद्दन्तीत्रिफला कल्क इष्यते ।

" शिरोविरेचने सारः शिरीषस्य फलानि च ॥ ३१ ॥

१ द्वितीयं घृत वक्ति - काकादनीति | काकादनी गुजा, काकमाची ' मकोय ' इति ख्याता, तयोः काकादनीकाकमाच्योः । २ श्रयं = सिराव्यधादिको विधिः । ३ मूषकविषे दाइ - विस्रावण - प्रलेपनानि निर्दिशति -- दुग्ध्येति । अग्नितप्तेन घृतेन दग्ध्वेत्यर्थः । अष्टाङ्गहृदये काण्डेन दर्पणेन वा दाह उक्तः— C ' आखुना दष्टमात्रस्य दंशं काण्डेन दाहयेत् । दर्पणेनाथवा तीव्ररुजा स्यात्कर्णिकाड • न्यथा ॥ " इति । ४ अष्टाङ्गहृदये कुठस्थाने वक्रमुक्तम् । तद्यथा - " दग्धं विस्रा वयेद्द्वंशं प्रच्छिन्नं च प्रलेपयेत् । शिरीषरजनोव क्रकुङ्कुमा मृतवल्लिभिः ॥ ” इति, तत्र वक्रं तगरमित्यर्थः । ५ मूषकविषे वमनयोगान् दर्शयति - छर्दनमिति । छर्दनं = वमनम्, जालि-नक्काथैः कटुकोशात की क्काथै रित्यर्थः ॥ मूषकविषे H ६ शुकाख्या = शिरीष इत्यर्थः शुकाख्यादिं योगं वक्ति – शुकाख्येति । शुकाख्या ग्रन्थिपर्णमिति सुश्रुतार्थंसन्दीप-नम् । शुकाख्या शुकजिह्नेति शब्दार्थचिन्तामणिः । कोषवती - कोशातकी, ' तरोई ' इति ख्याता । ७ मूषकविषे फलादियोगमाह -- फलमिति । फलं = मदनफलम् । ८ पूर्वकल्पेन दध्ना पीत्वा विषं वमेदिति । ९ मूषकविषे विरेचनयोगं दर्शयति- विरेचन इति । त्रिवृत् = ' निसोत ' इत्युद्युष्यते । १० शिरोविरेचनम. धिकरोति - शिर इति । सारः = मज्जा । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1029

सुश्रुत संहिता चौखम्बा, पृष्ठ 1029 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ७७ ] Digitized by Arya Samaj Foundation Chennai and eGangotri Sare पस्थानम् Ther

हितैस्त्रिकटुकाढ्यश्च गोमयस्वरसोऽञ्जने ।

कपित्थंगोमयरसौ लिह्यान्माक्षिकसंयुतौ ॥ ३८ ॥

रसाञ्जनहरिद्रेन्द्रयवर्केट्वीषु वा कृतम् ।

प्रातः सातिविषं कल्कं लिह्यान्माक्षिकसंयुतम् ॥ ३ ९ ॥

तण्डुलीयकमूलेषु सर्पिः सिद्धं पिवेन्नरः ।

आस्फोर्त मूलसिद्धं वा पञ्चकापित्थमेव वा ॥ ४० ॥

मूषिकाणां विषं प्रायः कुप्यत्यश्रेष्वनिर्हृतम् ।

तत्राप्येष विधिः कार्य्यो यश्च दूषीविषापहः ॥ ४१! ॥

स्थिराणां रुजतां वाऽपि व्रणानां कर्णिकां भिषक् ।

पाटयित्वा यथादोषं व्रणवचापि शोधयेत् ॥ ४२ ॥

9

वशृगालतरक्ष्वृक्षव्याघ्रादीनां यदाऽनिलः ।

श्लेष्मप्रदुष्टो मुष्णांति संज्ञां संज्ञावहाश्रितः ॥ ४३ ॥

तदा प्रस्रस्तलांगूल हनुस्कन्धोऽतिलालवान् । ८०१ १ अञ्जने त्रिकटुकादियोगमाह - हित इति । हितः = हितकारकः । योगोऽयमष्टाङ्ग-हृदयेऽपि- “ अन्जनं गोमयरसो व्योष सूक्ष्मरजोऽन्वितः " इति । २ संशमनमुपपादयति-कपित्थेति । ३ कट्वी = अशोकरोहिणी, ' कुटकी ' इति ख्याता । ४ श्रास्फोतमूल-सिद्धं === कोविदारमूलक्काथसिद्धम्, कपित्थस्य फलमूलपुष्पत्वक्पत्राणां कल्ककषाय-सिद्धं घृतं पञ्चकापित्थम् । " आस्फोटमूलसिद्धं वा पञ्चकापिरथमेव वा ” इत्यष्टाङ्गहृदये पाठ: । श्रास्फोटमूलमर्कमूलमित्यरुणदत्तः । ५ अनिर्हृतं = वमनविरेचनादिनाऽसं-शोधितम् । मूषकविषं किञ्चिदपि शेष चेद् वातादीनां यथास्वं कालेषु वृद्धिकारणेषु प्रकुप्यतीति विशेषोऽष्टाङ्गहृदये - " सशेषं मूषकविषं प्रकुप्यत्यनदर्शने । यथायथं वा कालेषु दोषाणां वृद्धि हेतुषु ॥ ” इति । ६ सूपकविषकर्णिकाचिकित्प्तामभिदधाति - स्थिराणामिति । कर्णिका प्रागुक्ता । ७ ' उन्मत्तश्वशृगालादिदष्टलक्षणं दर्शयति - श्वेति । श्रादिशब्देन वृकचित्रकादिर्दि -स्रपशवो संज्ञावद्दाश्रितः संज्ञाव दस्रोतोगत इत्यर्थः । गृह्यन्ते । ८ मुष्णाति = इरति, तन्त्रान्तरम् - " व्याधितेन श्वादिना दष्टस्य श्लेष्मा प्रकुपितचेतोवाहिनीधे मनोरनुप्र विश्य संज्ञानाशमापादयति सद्यः कालान्तराद्वा " इति । ९ लागलं पुच्छं शेफो वा हनुश्च स्कन्धश्चेति लाङ्गूल हनुस्कन्धाः, प्रस्रस्ताः स्थानच्युता लाङ्गूलहनुस्कन्धा व्यस्य स तथोक्तः । ‘ लागूलं पुच्छशेफयो: ' इति मेदिनी । बाहुलकात् प - फ - प्रत्यया-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1030

सुश्रुत संहिता चौखम्बा, पृष्ठ 1030 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८७ by Arya Samaj Four वुक्षुतसंहितायां engotri [ अ ० ७ अत्यर्थबधिरोऽन्धश्च सोऽन्योन्यमभिधावति ॥ ४४ ॥

तेनोन्मत्तेन दष्टस्य दंष्ट्रिणो सविषेण तु ।

सुप्तता जायते दंशे कृष्णञ्चातिस्रवत्य सृक् ॥ ४५ ॥

दिग्धविद्धस्य लिङ्गेन प्रायशश्चोपलक्षितः ।

येनं चापि भवेद्दष्टम्तस्य चेष्टां रुतं नरः ॥ ४६ ॥

बहुशः ` प्रतिकुर्वाणः क्रियाहीनो विनश्यति ।

दंष्ट्रिणौ येन दृष्टश्च तद्रूपं यस्तु पश्यति ॥ ४७ ॥

अप्सु वा यदि वाऽऽदर्शे रिष्टं तस्य विनिर्दिशेत् ।

त्रस्यत्यकस्माद् योऽभीक्ष्णं दृष्ट्वा पृष्ट्वाऽपि 8 वा जलम् ॥४८ ॥

जलत्रासन्तु विद्यात्तं रिष्टं तदपि कीर्त्तितम् ।

अदष्टो वा जलत्रासी न कथञ्चन सिध्यति ॥। ४ ९ ॥

प्रसुप्तोऽथोत्थितो वाऽपि स्वस्थ स्वस्तो न सिध्यति ।

दंश विस्राव्य तैर्दष्टे सर्पिषा परिदाहितम् ॥ ५० ॥

प्रदिह्याद्गदैः, सर्पिः पुराणं पापयेत च । भ्यामदन्तावप्येतौ ( शेपशेफौ ) । श्रत एव ' शेपपुच्छ ' इति वार्तिकं सङ्गच्छते इति रामाश्रमीकारः । श्रतिलालवान् = अत्यन्तं लालास्रावयुक्तः । १ श्ररिष्टं वर्णयति - येनेति । येन = हिंस्रपशुना, तस्य = दष्टहिंस्रपशोरित्यर्थः । २ प्रतिकुर्वाणः = दष्टहिंस्र पशु शब्द मनुकुर्वन् क्रियया निजशरीरव्यापारेण हीन इति क्रियाहीनः । ३ अरिष्टान्तरं निर्दिशति — दंष्ट्रिणेति । वाग्भटेऽपि— “ दष्टो येन तु तच्चेष्टारुतं कुर्वन् विनश्यति । पश्यंस्तमेव चाकरमादादर्शसलिलादिषु ॥ " इति । ४ अपि-शब्दाज्जलशब्दश्रवणेनापि । तदुक्तमष्टाङ्गहृदये - " योऽद्भयत्र सेददष्टोऽपि शब्दसं • स्पर्शदर्शनैः । जलसंत्रासनामानं दष्टं तमपि वर्जयेत् ॥ ” इति । जलं विनाऽपि जलत्रा. सरोगः श्लेष्मसञ्चयाज्जायते । तथा चोक्तं तन्त्रान्तरे - " बुद्धिस्थानं यदा इलेष्मा केवलं प्रतिपद्यते । तदा बुद्धौ निरुद्धायां श्लेष्मणाऽधिष्ठितो नरः ॥ जाग्रत् सुप्तोऽथवाऽऽ. त्मानं मज्जन्तमिव मन्यते । सलिले त्रस्यति तदा जलत्रासं तु तं विदुः ॥ श्लेष्मघ्नं तत्र कर्तव्यं शोधनं शमनानि च । श्राहारस्य विधानेन यावत् स प्रकृति व्रजेत् ॥ " इति । ५ स्वस्थः = स्वस्थावस्थः । ६ उन्मत्तश्व शृगालादिदष्टचिकित्सामधिकरोति - दंशमिति । ७ सर्पिषा = श्व. शृगालादिविषशेषनाशाय श्रग्नितप्त घृतेनेत्यर्थः । ८ श्रगदैः = पूर्वोक्तमहागदादिभिः । CC - 0. Gurukul Kangri Collection, Haridwar