सुश्रुत संहिता चौखम्बा — पृष्ठ 1021–1030
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1021–1030
पृष्ठ 1021
पाठ पढ़ें पाठ छिपाएँ
अ ० ६ ] कल्पस्थानम् che Digitized by Arya Samaj Foundation Chennai and eGangotri
सदा सर्वविषार्त्तानां सर्वथैवोपयुज्यते ।
एष तक्षकमुख्यानामपि दर्पाङ्कुशोऽगदः ॥ ७ ॥
विडङ्गत्रिफलादन्तीभद्रदारुहरेणवः ।
तालीशपत्र मञ्जिष्ठाकेशरोत्पलपद्मकम् ॥ ८ ॥
दाडिमं मालतीपुष्पं रजन्यौ सारिवे स्थिरे ।
प्रियङ्गुस्तरं कुष्ठं बृहत्यौ चैलवालुकम् ॥ ९ ॥
सचन्दनगवाक्षीभिरेतैः सिद्धं विषापहम् ।
सर्पिः कल्याणकं ह्येतद् ग्रहापस्मारनाशनम् ॥ १० ॥
पाण्ड्वामयगरश्वासमन्दाग्निज्वरकासनुत् ।
शोषिणमल्पशुक्राणां वन्ध्यानाञ्च प्रशस्यते ॥ ११ ॥
अपामार्गस्य बीजानि शिरीषस्य च माषकान् * ।
श्वेते ' द्वे काकमाचीञ्च गवां मूत्रेण पेषयेत् ॥ १२ ॥
सर्पिरेतैस्तु संसिद्धं विषसंशमनं परम् ।
अमृतं नाम विख्यातमपि सञ्जीवयेन्मृतम् ॥ १३ ॥
चन्दनागुरुणी कुष्ठं तगरं तिलपर्णिकम् ।
प्रपौण्डरीकं नलदं सरलं देवदारु च ॥ १४ ॥
भद्रश्रियं यवफलां भार्गी नीलीं सुगन्धिकाम् ।
कालेयकं पद्मकञ्च मधुकं नागरं जटाम् ॥ १५ ॥
पुन्नागैलैलवालूनि गैरिकं १'ध्यामकं बल! म् । ८६३ १ सर्वविषे कल्याणकं घृतमभिधत्ते - विडङ्गेति । २ स्थिरे = शालपण मूषि कपण च । ३ गवाक्षी = इन्द्रवारुणी । ४ सर्वविषे अनृताख्यं सर्विराह – अपामार्गस्येति । ५ कुत्सिता माषा मा षकास्तान् सादृश्यात्तद्बीजानीत्यर्थः । ६ श्वेते द्वे = श्वेता महाश्वेता चेति द्वयम्, काकमाची = ‘ मकोय ' इति ख्याता । मूत्रेण = घृतापेक्षया चतुर्गुणेन गोमूत्रेणेत्यर्थः । ७ सर्वविषे महासुगन्धिनामागदराजं वक्ति - चन्दनेति । तिलपर्णिकं = ' हुरहुर ' इति प्रसिद्धम् । ८ भद्रश्रियं = श्वेतचन्दनम्, यत्रफल = दुग्धिकाम्, कुटजमित्यर्थः सुश्रुतार्थसन्दीपने | नीली = नीलाञ्जलिकाम्, सुगन्धिकां = नाकुलीम् । ९ काले-यकं = पीतचन्दनम् । १० ध्यामकं = गन्धतृणम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1022
पाठ पढ़ें पाठ छिपाएँ
८६ ४ by Arya Samaj Fou सुश्रुतसंहितायां eGangotri [ अ ० ६ · ' तोयं सर्जरसं मांसीं शतपुष्पां हरेणुकाम् ॥ १६ ॥
तालीशपत्रं क्षुद्रैलां प्रियङ्गु सकुटन्नटम् ।
शिलोपुष्पं सशैलेयं पत्रं कालानुसारिवाम् ॥ १७ ॥
कटुत्रिकं शीतं शिवं काश्मर्यं कटुरोहिणीम् ।
सोमराजीमतिविषां पृथ्विकामिन्द्रवारुणीम् ॥ १८ ॥
उशीरं वरुणं मुस्तं कुस्तुम्बुरु नखं तथा ।
श्वेते ' हरिद्रे स्थौणेयं लाक्षाञ्च लवणानि च ॥११ ९ ॥
कुमुदोत्पलपद्मानि पुष्पञ्चापि तथाऽर्कजम् ।
चम्पकाशोक सुमनस्तिल्वकप्रसंवानि च ॥ २० ॥
पाटलीशाल्मलीशेलुशिरीषाणां तथैव च ।
कुसुमं ' तृणमून्याश्चसुरभीसिन्धुवारजम् ॥ २१ ॥
धवाश्वकर्णपार्यानां पुष्पाणि तिनिशस्य च ।
गुग्गुलं कुङ्कुमं बिम्बीं सर्पाक्षीं गन्धनाकुलीम् ॥ २२ ॥
एतत् सम्भृत्य सम्भारं सूक्ष्मचूर्णानि कारयेत् ।
गोपित्तमधुसर्पिर्भिर्युक्तं शृङ्गे निधापयेत् ॥ २३ ॥
भग्नस्कन्धं विवृत्तात्क्षं मृत्योर्दंष्ट्रान्तरं गतम् ।
अनेनागद मुख्येन मनुष्यं पुनराहरेत् ॥ २४ ॥
एषोऽग्निकल्प " दुर्वारं क्रुद्धस्यामिततेजसः ।
विषं नागपतेर्हन्यात् प्रसभं वासुकेरपि ॥ २५ ॥
महासुगन्धिनामायं पञ्चाशीत्यङ्गसंयुतः । १ तोयं = हीबेरम् । २ शिला = मनःशिला, पुष्पं = पुष्ष कासीसम् ' कालानु. सारिवां = तगरम् । ३ शीतशिवं = कर्पूरम्, काश्मर्थं - ' खम्भारी ' इति ख्यातम् । कटुरोहिणी = ' कुटकी ' इति ख्याता । ४ पृथ्विकां = कृष्णजीरकम् । ५ श्वेते – श्वेता महाश्वेता चेति कटभीद्वयम्, स्थौणेयं = ग्रन्थिपर्णकम्, ' कुक रौंधा ' इति ख्यातम् । ६ प्रसवशब्देन पुष्पाणि फलानि च गृह्यन्ते । ७ तृशू-न्याः | == केतक्याः । ८ तिनिशस्य = स्यन्दनस्येत्यर्थः । ९ बिम्ब = ' कुन्दरू ' इति ख्याताम् । सर्पाक्षी = रास्नाभेदः, गन्धनाकुल = गन्धरास्नाम् । १० एषोऽगदः, श्रग्निकल्पं दुर्वारं विषं वासुकेरपि क्रुद्धस्य श्रमिततेजसो नागपतेः प्रसभं इन्यादिति CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1023
पाठ पढ़ें पाठ छिपाएँ
अ ० ६ ] Digitized by Arya Sa स्थान Phennai and eGangotri राजाऽगदानां सर्वेषां राज्ञो हस्ते भवेत् सदा ॥ २६ ॥
स्नातानुलिप्तस्तु नृपो भवेत् सर्वजनप्रियः ।
भ्राजिष्णुताञ्च लभते शत्रुमध्यगतोऽपि सन् ॥ २७ ॥
उष्वज्य विधिः कार्यो विषार्त्तानां विजानता ।
मुक्त्वा कीटविषं तेंद्धि शोतेनाभिप्रवर्द्धते ॥ २८ ॥
अन्नपानविधावुक्तमुपधायें शुभाशुभम् ।
शुभं देयं विषार्तेभ्यः विरुद्धेभ्यश्च वीरयेत् ॥ २ ९ ॥
फाणितं शिग्रुसौवीरम जीर्णाध्यशनं तथा ।
वर्जयेच्च समासेन नवधान्यादिकं गरणम् ॥ ३० ॥
दिवास्वप्नं व्यवायञ्च व्यायामं क्रोधमातपम् ।
सुरातिलकुलत्थांचं वर्जयेद्धि विषातुरः ॥ ३१ ॥
" प्रसन्नदोषं प्रकृतिस्थधातुमन्नाभिकाङ्क्ष १ " समसूत्रजिहम् । ८६५ योजना। १ इस्ते स्थापनप्रयोजनं तु विषजुष्टान्नपानादीनां पाणिस्पर्शेन निर्विषता-सिद्धयर्थम् । २ आदौ स्नातः पश्चादनुलिप्त इति स्नातानुलिप्तः । स्नानानुलेपनै सर्व जनप्रियत्व सम्पादनार्थम् । ३ विषार्तानां स्वेदं निषेधति - उष्णेति । कीटविषं विद्वाय विषान्तरपीडिताना-मुष्वज्य विधिः शीतविधानं कार्य इत्यर्थः । कीटविषं कोटकल्पाध्याये व्यक्तीभवि-प्यति। ४ तत् = कीटविषम् । ५ विषार्तानां पथ्यापथ्यानि निर्दिशति - अन्नेति । उपधार्य = आलोच्य, शुभाशुभं = हिताहितम् । ६ वारयेदित्यत्र विषानिति पदं वचनव्यत्यासेन श्राकृष्य अन्वेयम् । ७ नवधान्यादिर्व्रणितोपासनीयाध्याये प्रोक्तः । तद्यथा— “ नवधान्यमाषतिलकलाय कुलत्थनिष्पावहरितकशाकाम्ललवणकटुक गुडपिष्टवि-कृतिवल्लूरशुष्कशाकाजाविकानूपौदकमांसवसाशीतोदक कृशरापाय सदधिदुग्धठक्रप्रभृतीन् परिहरेत् । ” इति । माषादीनां धान्यश्वेऽपि नवधान्येत्यादौ पुनर्षान्यपदं पुराणाना-मपि तेषां निषेधार्थम् । ८ व्यवायं = मैथुनम् । ९ चकारेण पिण्याकमूल कल सुन. कलायकुसुम्भातसीशिशुमारकूर्म निष्पा व जम्ब्वाम्रात कचूतादिकानि च वर्जयेदिति निब-न्धसङ्ग्रहव्याख्याकारः । १० विषमुक्तलक्षणं दर्शयति - प्रसन्नेति । ढल्हण: - प्रसन्ना: स्वभावावस्थिता वातादिदोषा यस्य तं प्रसन्नदोषम् । ११ समसूत्रा जिह्वा यस्य स तं समसूत्रजिह्वम् । एतदुक्तं भवति - निर्विषस्य हि पुरुषस्य चित्तेन सह समसूत्रतया जिह्वा रसवे • ५५ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1024
पाठ पढ़ें पाठ छिपाएँ
८६६ by Arya Samaj Fou सुश्रुत संहिता यां resangotri [ अ ० ७ प्रसन्नवर्णेन्द्रियचित्तचेष्टं वैद्योऽवगच्छेदविषं मनुष्यम् ॥ ३२ ॥
इति सुश्रुतसंहितायां कल्पस्थाने दुन्दुभिस्वनीयकरूपो नाम षष्ठोऽध्यायः ॥६ ॥
सप्तमोऽध्यायः ।
अथातो मूषिककल्पं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
पूर्वं ' शुक्रविषा उक्ता मूषिका ये समासतः ।
नामलक्षणभैषज्यैरष्टादश निबोध मे ॥ ३ ॥
लालनः पुत्रकः कृष्णो हंसिरश्चिक्किरस्तथा ।
छुच्छुन्दरोऽलसश्चैव कषायदशनोऽपि च ॥ ४ ॥
कुलिङ्गश्चाजितश्चैव चपलः कपिलस्तथा ।
कोकिलोऽरुणसंज्ञश्च महाकृष्णस्तथोन्दुरः ॥ ५ ।
श्वेतेन महता सार्द्धं कपिलेनाखुना तथा ।
मूषिकश्च कपोताभस्तथैवाष्टादश स्मृताः ॥ ६ ॥
शुक्रं पतति यत्रैषां शुक्रस्पृष्टैः स्पृशन्ति वा । दिनी भवति, सविषस्य विषप्रभावेण दूषितचित्तत्खाज्जिह्वा रसवेदिनी न भवतीति । निबन्धसङ्ग्रहव्याख्याकारेण श्रतिसुन्दरमेतत्पद्यसमविषातुरलक्षणप्रतिपादकपद्यमुद्धृ. तम् – “ प्रवृद्धदोषं विकृतिस्थधातुमनन्नकाङ्क्ष क्षतसूत्र जिह्वम् । विरुद्धवर्णेन्द्रियवित्त-चेष्टं वैद्योऽवगच्छेत् सविषं मनुष्यम् ॥ ” इति । इति सुश्रुतसंहितायाः कल्पस्थानीय सुधाऽऽख्यटिप्पन्यां षष्ठोऽध्यायः । सप्तमोऽध्यायः । १ अष्टादशविधमूषकाणां नामानि निर्दिशति - पूर्वमिति । पूर्वं जङ्गमविषविज्ञा नीये “ मूषिकाः शुक्रविषाः " इत्युक्ता इत्यर्थः । २ अष्टाङ्गहृदयेऽप्यष्टादशविधा मूषका उक्ताः, परं तत्र नामभेदो दृश्यते । तद्यथा - " लालनश्चपलः पुत्रो इसिरश्चि. क्किरोजिरः । कषायदन्तः कुलकः कोकिलः कपिलोसितः ॥ श्ररुणः शबलः श्वेतः कपोतः पलितोन्दुरः । छुच्छुन्दरो रसालाख्यो दशाष्टौ चेति मूषिकाः ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1025
पाठ पढ़ें पाठ छिपाएँ
अ ० ७ ॥ Digitized by Arya Samaj Foundation Chennai and eGangotri
" कल्पस्थानम् ।
नखदन्तादिभिस्तस्मिन् गात्रे रक्तं प्रदुष्यति ॥ ७ ॥
जायन्ते ग्रन्थयः शोफा: कर्णिको मण लानि च ।
पिडकोपचयश्चोत्रो विसर्पाः किटिभानि च ॥ ८ ॥
पर्वभेदो रुजस्तीत्रा मूर्च्छाऽङ्गसद्नं ज्वरः ।
दौर्बल्यमरुचिः श्वासो वमथुर्लोमहर्षणम् ॥। ९ ॥
दष्टरूपं समासोक्तमेतद्वासमतः शृणु ।
लालास्रावो लालनेन हिक्का छर्दिश्च जायते ॥ १० ॥
तण्डुलीयककल्कन्तु लिह्यात्तत्र समाक्षिकम् ।
पुत्रकेणाङ्गसादश्च पाण्डुवर्णैश्च जायते ॥ ११ ॥
चीर्यैते ग्रन्थिभिश्चाङ्गमाखुशावकसन्निभैः ।
शिरीषेङ्गुदकल्कन्तु लिह्यात्तत्र समाक्षिकम् ॥ १२ ॥
कृष्णेनं ॰ दंशे शोफोऽसृक्छर्दिः प्रायश्च दुर्दिने ।
शिरीषफलकुष्ठन्तु पिवेत् किशुकभस्मना " ॥ १३ ॥
" हंसिरेणान्नविद्वेषो जृम्भा रोम्णां च हर्षणम् ।
पिवेदारग्वधादिन्तु " सुवान्तस्तत्र मानवः ॥ १४ ॥
II ८६७ १ श्रादिशब्दाच्छुक्रस्पृष्टपुरीषमूत्राभ्यां च यदङ्गं स्पृशन्ति तदङ्गे रक्तं प्रदुष्यति । तथा च ढल्णोदूधृतालम्बायने – “ शुक्रेणाथ पुरीषेण मूत्रेणापि नखैस्तथा । दंष्ट्रा • भिर्वा क्षिपन्तीह सूषिकाः पञ्चधा विषम् ॥ ” इति । २ सामान्येन मूषकदष्टलक्षणं दर्शयति- जायन्त इति । ३ कर्णिका = कमल-मध्यबीजकोश कृतिमांसकन्दीत्यर्थः । ४ पर्वभेदः = ग्रन्थिस्फुटनम् । ५ लोमह र्षणं = रोमाञ्चः । तत्रान्तरे विशेष: -- " गर्भिण्या मूषिकया दष्टेऽम्लादिदोहदः, ऋतु. मस्या दष्टे रक्तमेहनमाध्मानं रतिशीलता च " इति । ६ लालनदष्टलक्षणं तच्चि-कित्सां च दर्शयति- लालेति । ७ तण्डुलीयकः = ' चौलाई ' इति ख्यातः । ८ पुत्रकदष्टलक्षणं तच्चिकित्सां च वक्ति - पुत्र केणेति । श्रङ्गसादः = भङ्गग्लानिः । ९ चीयते = व्याप्यते । १० कृष्णदष्टलक्षणं तच्चकित्सां च ब्रवीति - कृष्णेनेति । मेघाच्छादितं दिनं दुर्दिनं तस्मिन्नित्यर्थः । ११ किंशुकभस्मना = पलाशपुष्पभस्मोदकेन । १२ हंसि • रदष्टलक्षणं तच्चिकित्सां चाख्याति - हंसिरेणेति । श्रन्नविद्वेषः = प्रनन्नाभिलाषः । १३ सुष्ठु वान्तः सुवान्तः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1026
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj तसं हिताय pnde Gangotri ८६८ [ अ ० ७
चिक्किरेण शिरोदुःखं शोफो हिक्का वमिस्तथा ।
जालिनी मंदनाङ्कोटकपायैर्वामयेत्तु तम् ॥ १५ ॥
यवनालपेभीक्षारं बृहत्योश्चात्र दापयेत् ।
छुच्छुन्दरे तृट् छर्दिर्ध्वरो दौर्बल्यमेव च ॥ १६ ॥
ग्रीवास्तम्भः पृष्ठशोफो गन्धाज्ञानं विसूचिका ।
चव्यं हरीतकी शुण्ठी विडङ्गं पिप्पली मधु ॥ १७ ॥
अङ्कोटबीजं च तथा पिवेदत्र विषापहम् ।
ग्रीवास्तम्भोऽलसेनोर्ध्ववायुर्दशे रुजा ज्वरः ॥ १८ ॥
महागदं ससर्पिष्कं लिह्यात्तत्र समाक्षिकम् ।
निद्रा कषायदन्तेन हृच्छोष: कार्श्यमेव च ॥ १ ९ ॥
क्षौद्रोपेताः शिरीषैस्य लिह्यात् सारफलत्वचः ।
कुलिङ्गेन " रुजः शोफो राज्यश्च दंश नण्डले ॥ २० ॥
सहे " ससिन्धुवारे च लिह्यात् तत्र समाक्षिके ।
१२ अजितेनाङ्गकृष्णत्वं छर्दिर्मूर्च्छा च हृद्ग्रहः ॥ २१ ॥
" स्नुक्क्षीरपिष्टां पालिन्दीं मञ्जिष्ठां मधुना लिहेत् ।
चपलेन ' " भवेच्छर्दिर्मूर्च्छा च सह तृष्णया ॥ २२ ॥
चौद्रेण त्रिफलां लिह्याद्भद्रकाष्टजटाऽन्विताम् । II १ चिक्किरदष्टलक्षणं तच्चिकित्सा चाभिधत्ते - चिकिरेणेति । २ जालिनी = ' तरोई ' इति ख्याता । ३ ऋषभी = ' केवांछ ' इति प्रथते । क्षारः = क्षारोदकमित्यर्थः । वृहत्योश्चेत्यत्र चकारेण क्षारस्य सम्बन्धः । ४ छुच्छुन्दरदष्टलक्षणं तच्चिकित्सां च प्रतिपादयति — छुच्छुन्दरेणेति । ५ श्रङ्को ठवीजं = निकोचकदीजम् । ६ अलसदष्टलक्षणं तच्चिकित्सां चाभिदधाति— ग्रीवेति। ७ महागदः पञ्चमाध्याये " त्रिवृद्धिशल्ये मधुकं हरिद्रे " इत्यादिना कथितः । = कषायदन्तदष्टलक्षणं तच्चिकित्सां चाह - निद्रेति । ९ शिरीषस्य सारफलत्वच इति सम्बन्धः । १० कुलिङ्गदष्टलक्षणं तच्चिकित्सां चाभिधत्ते — कुलिङ्गेनेति । राज्यः = रेखा इत्यर्थः । | ११ सहे = मुद्गपणींमाषपण्य, सिन्धुवार:: -निर्गुण्डी । १२ अजितदष्टलक्षणं तच्चिकित्सां चाभिदवाति - अजितेनेति । १३ स्तु-कू - सेहुण्डः, पालिन्दी = त्रिवृत् । १४ चपलदष्टलक्षणं तच्चिकित्सां चाचष्टे - चपलेनेति । CC - 0. Gurukul Kangri Collection, Haridwar भद्रकाष्ठं = देवदारु,
पृष्ठ 1027
पाठ पढ़ें पाठ छिपाएँ
अ ० ७ ] Digitized by Arya Samahennai and eGangotri कपिलेन व्रणे कोथो ज्वरो ग्रन्थ्युद्गमः सतृड् ॥ २३ ॥
लिह्यान्मधुयुतां श्वेतां श्वेतां चापि पुनर्नवाम् ।
ग्रन्थयः कोकिलेनोमा ज्वरो दाहश्च दारुणः ॥ २४ ॥
वर्षाभूनीलिनीकाथ कल्कसिद्धं घृतं पिवेत् ।
अरुणेनानिलः क्रुद्धो वातजान् कुरुते गदान् ॥ २५ ॥
महाकृष्णेन पित्तञ्च श्वेतेन कफ एव च ।
महता कपिलेनासृक् कपोतेन चतुष्टयम् ॥ २६ ॥
भवन्ति चैषां दंशेषु ग्रन्थिमण्डलकर्णिकाः ' ।
पिडकोपचयश्चयः शोफश्च भृशदारुणः ॥ २७ ॥
दधिक्षीरघृतप्रस्थास्त्रयः प्रत्येकशो मताः ।
करञ्जारग्वधव्योषबृहत्यंशुमतीस्थिराः " ॥ २८ ॥
निष्काथ्य चैषां क्वाथस्य चतुर्थांशः पुनर्भवेत् ।
त्रिवृद्गोज्यमृतावक्रसर्पगन्धाः समृत्तिकाः " ॥ २ ९ ॥
कपित्थदाडिमत्वक् च श्लक्ष्णपिष्टाः प्रदापयेत् ।
तत् सर्वमेकतः कृत्वा शनैर्मृद्वग्निना पचेत् ॥ ३० ॥
' पञ्चानामरुणादीनां विषमेतद् व्यपोहति । १० ८६ ९ जटा = जटामांसी । १ कपिलदष्टलक्षणं तच्चिकित्सा चाख्याति - कपिलेनेति । कोथः = शटनम् । २ श्वेतां = श्वेतरयन्दाम् । द्वितीयश्वेतापदं पुनर्नवाया विशेष-नम् । ३ कोकिलदष्टलक्षणं तचिकित्सां च निर्दिशति - ग्रन्थय इति । ४ नीलिनी = ' नील ' इति ख्याता । ५ श्ररुण - महाकृष्ण - श्वेत- महाकपिल - कपोतानां पञ्चानां दष्टलक्षणानि तच्चि -कित्साश्च निरूपयति - अरुणेनेति । ६ चकाराद् वावजोऽपि रोगो बोद्धयः । ७ वातपित्तकफरक्तजचतुष्टयमित्यर्थः । कणिका - कमलमध्य बीजकोशाकृति-मांसकन्दी | ९ प्रत्येकशः = एकैकशः । १० अंशुमती = शालपर्णी, स्थिरा = मूषक-पणीं । एषां करआदिद्रव्याणां प्रत्येकशः द्विपलिकं भागं सलिलाढके निष्काथ्य चतु. शावशिष्टः कर्तव्यः । ११ गोजी = गोजिह्वा, अमृता = गुडूची, वक्रं = तगरम्, सर्प गन्धा = नाकुलो, ‘ नाकुली सर्पगन्धा च सुगन्धा भोगगन्धिका । सँव सर्पसुगन्धेति ” इति तन्त्रान्तरम् । समृत्तिकाः = कृष्णमृत्तिका सहिताः । १२ श्लक्ष्णविष्टाः सूक्ष्मपिष्टा इत्यर्थः १३ मृदग्निना == मन्दाग्निना । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1028
पाठ पढ़ें पाठ छिपाएँ
८७० सुश्रुतसंहितायां Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ७ काकादनीकाकमाच्योः स्वरसेष्वथवा कृतम् ॥ ३१ ॥
सिराश्च स्रावयेत् प्राप्ताः कुर्यात् संशोधनानि च ।
सर्वेषाञ्च विधिः कार्य्यो सूषिकाणां विषेष्वयम् ॥ ३२ ॥
" दग्ध्वा विस्रावयेद् दंशं प्रच्छितञ्च प्रलेपयेत् ।
शिरीषरजनी कुठे कुङ्कुमैरमृतायुतैः ॥ ३३ ॥
छर्दनं जालिनीक्वाथैः शुकाख्याऽङ्कोठयोरपि ।
शुकाख्यौ कोषवत्योश्च मूलं मदन एव च ॥ ३४ ॥
देवदालीफलचैव दध्ना पीत्वा विषं वमेत् ।
सर्वमूषिकदष्टानामेष योगः सुखावहः ॥ ३५ ॥
फैलं वचा देवदाली कुठं गोमूत्रपेषितम् ।
पूर्वकल्पेन योज्याः स्युः सर्वोन्दुरुविषच्छिदः ॥ ३६ ॥
विरेचने त्रिवृद्दन्तीत्रिफला कल्क इष्यते ।
" शिरोविरेचने सारः शिरीषस्य फलानि च ॥ ३१ ॥
१ द्वितीयं घृत वक्ति - काकादनीति | काकादनी गुजा, काकमाची ' मकोय ' इति ख्याता, तयोः काकादनीकाकमाच्योः । २ श्रयं = सिराव्यधादिको विधिः । ३ मूषकविषे दाइ - विस्रावण - प्रलेपनानि निर्दिशति -- दुग्ध्येति । अग्नितप्तेन घृतेन दग्ध्वेत्यर्थः । अष्टाङ्गहृदये काण्डेन दर्पणेन वा दाह उक्तः— C ' आखुना दष्टमात्रस्य दंशं काण्डेन दाहयेत् । दर्पणेनाथवा तीव्ररुजा स्यात्कर्णिकाड • न्यथा ॥ " इति । ४ अष्टाङ्गहृदये कुठस्थाने वक्रमुक्तम् । तद्यथा - " दग्धं विस्रा वयेद्द्वंशं प्रच्छिन्नं च प्रलेपयेत् । शिरीषरजनोव क्रकुङ्कुमा मृतवल्लिभिः ॥ ” इति, तत्र वक्रं तगरमित्यर्थः । ५ मूषकविषे वमनयोगान् दर्शयति - छर्दनमिति । छर्दनं = वमनम्, जालि-नक्काथैः कटुकोशात की क्काथै रित्यर्थः ॥ मूषकविषे H ६ शुकाख्या = शिरीष इत्यर्थः शुकाख्यादिं योगं वक्ति – शुकाख्येति । शुकाख्या ग्रन्थिपर्णमिति सुश्रुतार्थंसन्दीप-नम् । शुकाख्या शुकजिह्नेति शब्दार्थचिन्तामणिः । कोषवती - कोशातकी, ' तरोई ' इति ख्याता । ७ मूषकविषे फलादियोगमाह -- फलमिति । फलं = मदनफलम् । ८ पूर्वकल्पेन दध्ना पीत्वा विषं वमेदिति । ९ मूषकविषे विरेचनयोगं दर्शयति- विरेचन इति । त्रिवृत् = ' निसोत ' इत्युद्युष्यते । १० शिरोविरेचनम. धिकरोति - शिर इति । सारः = मज्जा । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1029
पाठ पढ़ें पाठ छिपाएँ
अ ० ७७ ] Digitized by Arya Samaj Foundation Chennai and eGangotri Sare पस्थानम् Ther
हितैस्त्रिकटुकाढ्यश्च गोमयस्वरसोऽञ्जने ।
कपित्थंगोमयरसौ लिह्यान्माक्षिकसंयुतौ ॥ ३८ ॥
रसाञ्जनहरिद्रेन्द्रयवर्केट्वीषु वा कृतम् ।
प्रातः सातिविषं कल्कं लिह्यान्माक्षिकसंयुतम् ॥ ३ ९ ॥
तण्डुलीयकमूलेषु सर्पिः सिद्धं पिवेन्नरः ।
आस्फोर्त मूलसिद्धं वा पञ्चकापित्थमेव वा ॥ ४० ॥
मूषिकाणां विषं प्रायः कुप्यत्यश्रेष्वनिर्हृतम् ।
तत्राप्येष विधिः कार्य्यो यश्च दूषीविषापहः ॥ ४१! ॥
स्थिराणां रुजतां वाऽपि व्रणानां कर्णिकां भिषक् ।
पाटयित्वा यथादोषं व्रणवचापि शोधयेत् ॥ ४२ ॥
9
वशृगालतरक्ष्वृक्षव्याघ्रादीनां यदाऽनिलः ।
श्लेष्मप्रदुष्टो मुष्णांति संज्ञां संज्ञावहाश्रितः ॥ ४३ ॥
तदा प्रस्रस्तलांगूल हनुस्कन्धोऽतिलालवान् । ८०१ १ अञ्जने त्रिकटुकादियोगमाह - हित इति । हितः = हितकारकः । योगोऽयमष्टाङ्ग-हृदयेऽपि- “ अन्जनं गोमयरसो व्योष सूक्ष्मरजोऽन्वितः " इति । २ संशमनमुपपादयति-कपित्थेति । ३ कट्वी = अशोकरोहिणी, ' कुटकी ' इति ख्याता । ४ श्रास्फोतमूल-सिद्धं === कोविदारमूलक्काथसिद्धम्, कपित्थस्य फलमूलपुष्पत्वक्पत्राणां कल्ककषाय-सिद्धं घृतं पञ्चकापित्थम् । " आस्फोटमूलसिद्धं वा पञ्चकापिरथमेव वा ” इत्यष्टाङ्गहृदये पाठ: । श्रास्फोटमूलमर्कमूलमित्यरुणदत्तः । ५ अनिर्हृतं = वमनविरेचनादिनाऽसं-शोधितम् । मूषकविषं किञ्चिदपि शेष चेद् वातादीनां यथास्वं कालेषु वृद्धिकारणेषु प्रकुप्यतीति विशेषोऽष्टाङ्गहृदये - " सशेषं मूषकविषं प्रकुप्यत्यनदर्शने । यथायथं वा कालेषु दोषाणां वृद्धि हेतुषु ॥ ” इति । ६ सूपकविषकर्णिकाचिकित्प्तामभिदधाति - स्थिराणामिति । कर्णिका प्रागुक्ता । ७ ' उन्मत्तश्वशृगालादिदष्टलक्षणं दर्शयति - श्वेति । श्रादिशब्देन वृकचित्रकादिर्दि -स्रपशवो संज्ञावद्दाश्रितः संज्ञाव दस्रोतोगत इत्यर्थः । गृह्यन्ते । ८ मुष्णाति = इरति, तन्त्रान्तरम् - " व्याधितेन श्वादिना दष्टस्य श्लेष्मा प्रकुपितचेतोवाहिनीधे मनोरनुप्र विश्य संज्ञानाशमापादयति सद्यः कालान्तराद्वा " इति । ९ लागलं पुच्छं शेफो वा हनुश्च स्कन्धश्चेति लाङ्गूल हनुस्कन्धाः, प्रस्रस्ताः स्थानच्युता लाङ्गूलहनुस्कन्धा व्यस्य स तथोक्तः । ‘ लागूलं पुच्छशेफयो: ' इति मेदिनी । बाहुलकात् प - फ - प्रत्यया-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1030
पाठ पढ़ें पाठ छिपाएँ
८७ by Arya Samaj Four वुक्षुतसंहितायां engotri [ अ ० ७ अत्यर्थबधिरोऽन्धश्च सोऽन्योन्यमभिधावति ॥ ४४ ॥
तेनोन्मत्तेन दष्टस्य दंष्ट्रिणो सविषेण तु ।
सुप्तता जायते दंशे कृष्णञ्चातिस्रवत्य सृक् ॥ ४५ ॥
दिग्धविद्धस्य लिङ्गेन प्रायशश्चोपलक्षितः ।
येनं चापि भवेद्दष्टम्तस्य चेष्टां रुतं नरः ॥ ४६ ॥
बहुशः ` प्रतिकुर्वाणः क्रियाहीनो विनश्यति ।
दंष्ट्रिणौ येन दृष्टश्च तद्रूपं यस्तु पश्यति ॥ ४७ ॥
अप्सु वा यदि वाऽऽदर्शे रिष्टं तस्य विनिर्दिशेत् ।
त्रस्यत्यकस्माद् योऽभीक्ष्णं दृष्ट्वा पृष्ट्वाऽपि 8 वा जलम् ॥४८ ॥
जलत्रासन्तु विद्यात्तं रिष्टं तदपि कीर्त्तितम् ।
अदष्टो वा जलत्रासी न कथञ्चन सिध्यति ॥। ४ ९ ॥
प्रसुप्तोऽथोत्थितो वाऽपि स्वस्थ स्वस्तो न सिध्यति ।
दंश विस्राव्य तैर्दष्टे सर्पिषा परिदाहितम् ॥ ५० ॥
प्रदिह्याद्गदैः, सर्पिः पुराणं पापयेत च । भ्यामदन्तावप्येतौ ( शेपशेफौ ) । श्रत एव ' शेपपुच्छ ' इति वार्तिकं सङ्गच्छते इति रामाश्रमीकारः । श्रतिलालवान् = अत्यन्तं लालास्रावयुक्तः । १ श्ररिष्टं वर्णयति - येनेति । येन = हिंस्रपशुना, तस्य = दष्टहिंस्रपशोरित्यर्थः । २ प्रतिकुर्वाणः = दष्टहिंस्र पशु शब्द मनुकुर्वन् क्रियया निजशरीरव्यापारेण हीन इति क्रियाहीनः । ३ अरिष्टान्तरं निर्दिशति — दंष्ट्रिणेति । वाग्भटेऽपि— “ दष्टो येन तु तच्चेष्टारुतं कुर्वन् विनश्यति । पश्यंस्तमेव चाकरमादादर्शसलिलादिषु ॥ " इति । ४ अपि-शब्दाज्जलशब्दश्रवणेनापि । तदुक्तमष्टाङ्गहृदये - " योऽद्भयत्र सेददष्टोऽपि शब्दसं • स्पर्शदर्शनैः । जलसंत्रासनामानं दष्टं तमपि वर्जयेत् ॥ ” इति । जलं विनाऽपि जलत्रा. सरोगः श्लेष्मसञ्चयाज्जायते । तथा चोक्तं तन्त्रान्तरे - " बुद्धिस्थानं यदा इलेष्मा केवलं प्रतिपद्यते । तदा बुद्धौ निरुद्धायां श्लेष्मणाऽधिष्ठितो नरः ॥ जाग्रत् सुप्तोऽथवाऽऽ. त्मानं मज्जन्तमिव मन्यते । सलिले त्रस्यति तदा जलत्रासं तु तं विदुः ॥ श्लेष्मघ्नं तत्र कर्तव्यं शोधनं शमनानि च । श्राहारस्य विधानेन यावत् स प्रकृति व्रजेत् ॥ " इति । ५ स्वस्थः = स्वस्थावस्थः । ६ उन्मत्तश्व शृगालादिदष्टचिकित्सामधिकरोति - दंशमिति । ७ सर्पिषा = श्व. शृगालादिविषशेषनाशाय श्रग्नितप्त घृतेनेत्यर्थः । ८ श्रगदैः = पूर्वोक्तमहागदादिभिः । CC - 0. Gurukul Kangri Collection, Haridwar