सुश्रुत संहिता चौखम्बा — पृष्ठ 1031–1040
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1031–1040
पृष्ठ 1031
पाठ पढ़ें पाठ छिपाएँ
अ ० ७ ] Digitized by Arya Samp परथमम् pennai and eGangotri अर्कक्षोरयुतं ह्यस्य दद्याच्चापि विशोधनम् ॥ ५१ ॥
श्वेतां पुनर्नवाञ्चास्य दद्याद् धुत्तूरकायुताम् ।
पललं तिलतैलञ्च रूपिकोयाः पयो गुडः ॥ ५२ ॥
निहन्ति विषमालक मेघवृन्दमिवानिलः ।
मूलस्य शरैपुङ्खायाः कर्षं धत्तूर कार्द्धिकम् ॥ ५३ ॥
तण्डुलोदकमादाय पेषयेत्तण्डुलैः सह ।
उन्मत्तस्य पत्रैस्तु संवेष्ट्यापूपकं पचेत् ॥ ५४ ॥
खादेदौषधकाले च तमलर्कविषदूषितः । ८७३ करोति श्वविकारांस्तु तस्मिन् जीर्य्यति चौषधे ॥ ५५ ॥
विकाराः शिशिरे याप्या गृहे वारिविवर्जिते ।
ततः शान्तविकारस्तु स्नात्वा चैवापरेऽहनि ॥ ५६ ॥
शालिषष्टिकयोर्भक्तं क्षीरेणोष्णेन भोजयेत् ।
दिनत्रये पञ्चमे वा विधिरेषोऽर्द्धमात्रया ॥ ५७ ॥
कर्त्तव्यो भिषजाऽवश्यमलर्कविषनाशनः ।
कुप्येत् स्वयं विषं यस्य न स जीवति मानवः ॥ ५८ ' ॥
तस्मात् प्रकोपयेदाशु स्वयं यावत् प्रकुप्यति । बीजरत्नौषधीगर्भैः कुम्भैः शीताम्बुपूरितैः ॥ ५ ९ ।! १ अर्क क्षीरयुतं विशोधनमिति सम्बन्ध: । विशोधनं = विशोधनद्रव्यम्, तथा च क-फाधिक्ये वमनद्रव्यविशोधनं, पित्ताधिक्ये विरेचनद्रव्यविशोधनं च श्रकक्षीरयुतं दद्या. दित्यर्थः । २ रूपिकायाः इवेतार्कवृक्षस्य, पयः = दुग्धम् । ३ अलर्कस्येदमालर्कम् उग्मत्तकुक्कुर सम्बन्धि, ' अलर्को धवलार्के स्याद्योगोन्मादित कुक्कुरे ' इति विश्वः । ४ शरपुङ्खायाः ' सरफका ' इति ख्याताया मूलस्य कर्षे धत्तूरकस्य आधिकं कर्षार्धम् । ५ उन्मत्तकस्थ = धत्तूरकस्य, पत्रे ः- सप्तपर्णैः । ६ उन्मत्तश्वशृगालादिदष्टोत्पन्नविकारा इत्यर्थः । शिशिरे = सूर्य सन्तापरहिते शीतले काले । तदुक्तं दुन्दुभिस्वनीये – “ उष्णवर्ज्यो बिधिः कार्यो विषार्तानां विजा. नता " इति । ७ अलर्कविषजुष्टस्य देवव्यपाश्रयचिकित्सां निरूपयति- बीजेति । सङ्ग्रहेऽपि — ‘ श्रष्टोत्तरशतं वारान् सिद्धमन्त्राभिमन्त्रितैः । अष्टोत्तरशतोन्मानैः पुष्प • मालाऽवगुण्ठितैः ॥ गोचर्ममात्र के लिप्ते ज्वलितेऽग्नौ कुशास्तृते । स्थण्डिले सरितस्तीरे CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1032
पाठ पढ़ें पाठ छिपाएँ
८७४ by Arya Samaj Fou खुश्रुत संहितायां angotri स्नापयेत्तं नदीतीरे समन्त्रैर्वा चतुष्पथे । [ अ ० ७ बलिं निवेद्य तत्रापि पिण्याकं पललं दधि ॥ ६० ॥
माल्यानि च विचित्राणि मांसं पक्कामकं यथा ।
अलर्काधिपते! यक्ष! सारमेयगणाधिप! ॥। ६१ ॥
अलर्कजुष्टमेतन्मे निर्विषं कुरु माचिरात् ।
दद्यात् संशोधनं तीक्ष्णमेवं स्नातस्य देहिनः ॥ ६२ ॥
अशुद्ध सुरूढेऽपि व्रणे कुप्यति तद्विषम् ।
श्वादयोऽभिहिता व्याला येऽत्र दंष्ट्राविषा मया ॥ ६३ ॥
अतः करोति दृष्टस्तु तेषां चेष्टां रुतं नरः ।
बहुशः प्रकुर्वाणो न चिराम्रियते च सः ॥ ६४ ॥।
नखदन्तक्षतं व्यालैर्यत् कृतं तद्विमर्दयेत् ।
सिञ्चेत्तैलेन कोष्णेनं ते हि वातप्रकोपकाः ॥। ६५ ॥
इति सुश्रुतसंहितायां कल्पस्थाने मूषिका कल्पो नाम सप्तमोऽध्यायः ॥ ७ ॥
स्नानं चास्य चतुष्पथे ॥ अलर्काधिपते यक्ष सारमेय गणाधिप । अलर्कजुष्टमेतन्मे निर्विषं कुरु माचिर।त् ॥ स्वाहेति मन्त्रोऽलर्कान्ते सर्वकर्मसु शस्यते । " इति । १ अशुद्धस्य व्रणस्येति तात्पर्यम् । २ दष्टस्य श्वादेश्चेष्टाकरणे कारणमा-ख्याति - श्वादय इति । मया अत्र ये दंष्ट्राविषा व्यालास्ते श्वादयः, श्वशब्दः प्रकारवाची, तेन श्वप्रकारा उन्मत्तश्वसदृशा बातपित्तप्रकोपणेनाभिहिता इत्यर्थः । ३ अत इति तृतीयान्तात्तसिल् । तया चातः इवादिभिर्दष्ट इति योजनेति द्वाराय-चन्द्रः । ४ बहुशः = अनेकवारम्, प्रतिकुर्वाणः = दष्टपशु शब्द मनुकुर्वन् । ५ सहे. तुकमुन्मत्तश्वादिचिकित्सितमभिधत्ते - नखेति । ६ तत् ( नखदन्तक्षतस्थानम् । ७ ' कोष्णेन = ईषदुष्णेनैत्यर्थः । इति सुश्रुतसंहितायाः कल्पस्थानीय सुधा ss ख्या टप्पयां सप्तमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1033
पाठ पढ़ें पाठ छिपाएँ
अ ० ८ ] Digitized by Arya कएवं स्थणम Chennai and eGangotri
अष्टमोऽध्यायः ।
अथातो कीटकल्पं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
सर्पाणा शुक्रविण्मूत्रशवपूत्यण्डसम्भवाः ।
वाय्वग्न्यम्बुप्रकृतयः कीटास्तु विविधाः स्मृताः ॥ ३ ॥
सर्वदोषप्रकृतिभिर्युक्तास्ते परिणामतः ।
कीटत्वेऽपि सुघोराः स्युः सर्व एव चतुर्विधाः ॥ ४ ॥
कुम्भीनसंस्तुण्डिकेरी शृङ्गी शतकुलीरकः ।
उच्चिटिङ्गोऽग्निनामा च चिञ्चिटिङ्गो मयूरिका ॥ ५ ॥
आवर्त्तकस्तथोरभ्रः सारिकामुखवैदलौ ।
शराबकुर्दोंऽभीराजिः परुषश्चित्रशीर्षकः ॥ ६ ॥
शतबाहुश्च यश्चापि रक्तराजिश्च कीर्त्तितः ।
अष्टादशेति वायव्याः कीटाः पवनकोपनाः ॥ ७ ॥
तैर्भवन्तीह दष्टानां रोगां वातनिमित्तजाः । अष्टमोऽध्यायः । ८७५ १ कीटाः क्रिमिभ्यः स्थूलाः क्षुद्रजन्तवस्तत्कल्पं कीटकल्पं व्याख्यास्यामः । २ तत्र कीटानामुत्पत्ति दर्शयति- सर्पाणामिति । सर्पाणां दवकरमण्डलिराजिलानाम् । चरकेऽपि —— “ सर्पाणामेव विण्मूत्रात् कीटाः स्युः कीटसम्मताः " इति । ३ वाय्वग्न्यम्बु-प्रकृतयः = वातपित्तकफस्वभावाः । ४ त्रिविधा इति पाठान्तरम् । परिणामशब्दात् पञ्चम्यास्तसिल्, परिणामतः । दवींकरादिभिन्नजातीयानां सर्पाणां सम्बन्धेन जातत्वात् पूर्वदवींकरादिरूपपरित्यागेन वैकरआख्येति रूपान्तरप्राप्तिः परिणामः । ५ दोषत्रयप्रकोपणेन सुघोरा इत्यर्थः । सम्मिलितसंख्यां दर्शयति — सर्व एव चतु. विषा इति । कीटानां सामान्यज्ञानोपायः ढल्हणोद्धृतालम्बायनोक्तो विलिख्यते— “ कृष्णाभिर्बिन्दुलेखाभिः पक्षैः पादैर्मुखैर्नखैः । शूकैः कण्टकलाङ्गुलैः संश्लिष्टैः पक्षरो-मभिः ॥ स्वनैः प्रमाणैः संस्थानैः लिङ्गेश्चापि शरीरगैः । विषवीर्यैश्व कीटानां रूपज्ञानं विभाव्यते ॥ ” इति । ६ तत्र चतुर्विधेषु वायव्यस्वभावानामष्टादश कीटानां नामानि निर्दिशति – कुम्भीनसेति । ७ रोगाः = तोदादयः, वातप्रकोपणानां कुम्भीनसा. CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1034
पाठ पढ़ें पाठ छिपाएँ
tized by Arya Samaj Foundaसुश्रुतसंहिता य angotri [ अ ० ८ कौण्डिन्यर्कः करणभको वरटी पत्रवृश्चिकः ॥ ८ ॥
विनासिका ब्राह्मणिका बिन्दुलो भ्रमरस्तथा ।
बाह्यकी पिच्चिटः कुम्भी वचः कीटोऽरिमेदकः ॥ ९ ॥
पद्मकीटो दुन्दुभिको मकरः शतपादकः ।
पञ्चालकः पाकमत्स्यः कृष्णतुण्डोऽथ गर्दभी ॥ १० ॥
क्लीतः कृमिसरारी च यश्चाप्युत्क्लेशकस्तथा ।
एते ह्यग्निप्रकृतयश्चतुर्विंशतिरेव च ॥ ११ ॥
तैर्भवन्तीह दष्टानां रोगाः पित्तनिमित्तजाः ।
विश्वम्भरः पञ्चशुक्लः पञ्चकृष्णोऽथ कोकिलः ॥ १२ ॥
सैरेयकः प्रचलकौ बलभः किटिभस्तथा ।
सूचीमुखः कृष्णगोधा यश्च काषायवासिकः ॥ १३ ॥
कीटो गर्दभकश्चैव तथा त्रोटक एव च ।
त्रयोदशैते सौम्याः स्युः कीटाः श्लेष्मप्रकोपणाः ॥ १४ ॥
तैर्भन्तीह दष्टानां रोगाः कफनिमित्तजाः ।
तुङ्गीनौसो विचिलकस्तालको वाहकस्तथा ॥ १५ ॥
कोष्टागारी क्रिमिकरो यश्च मण्डलपुच्छकः ।
तुङ्गनाभः सर्षपिको वल्गुलिः शम्बुकस्तथा ॥ १६ ॥
अग्निकीटश्च विज्ञेया द्वादश प्राणनाशनाः ।
तैर्भवन्तीह दष्टानां वेगज्ञानानि सर्पवत् ॥ १७ ॥
दीनां मध्ये शृङ्गयुचिच्चिटिङ्गशराब कुर्दचित्रशीर्षकान् वर्जयित्वा शेषाश्चतुर्दश मुखस • न्दशविषा इति ढल्हणः । १ श्राग्नेयस्वभवानां चतुर्विंशतिकीटानां नामानि दर्शयति - कौण्डिन्यक इति । २ रोगाः = ओषचोषादयः । पित्तप्रकोपणानां मध्ये कौण्डिन्यकवरटीभ्रमरपिच्चिटवर्चः • कीटमकरशतपदपञ्चालकपाकमत्स्यकृष्णतुण्डान् विहाय शेषाश्चतुर्दश मुखसन्दंशविषा इति निबन्धसङ्ग्रइव्याख्याकारः । १३ सौम्य स्वभावानां त्रयोदशकीटानां नामानि निरूपयति-- विश्वम्भर इति । ४ रोगाः = कण्डवादयः । श्लेष्मप्रकोपियां मध्ये विश्वम्भरप्रचलाककृष्णगोधाकाषायवासिकांश्चतुरो वर्जयित्वा नवान्ये मुखसन्दंशविषा इति तत्रैव । ५ सान्निपातिकानां द्वादशटीकानां नामानि कथयति - तुङ्गीनास इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1035
पाठ पढ़ें पाठ छिपाएँ
20 अ ० ८ ] Digitized by Arya Samaj Foundation Chennai and eGangotri कल्पस्थानम् ।
तास्ताश्च वेदनास्तीत्रा रोगा वै सान्निपातिकाः ।
क्षाराग्निदग्धवद् दंशो २ ' रक्तपीतसितारुणः ॥ १८ ॥
ज्वराङ्गमर्दरोमाञ्चवेदनाभिः समन्वितः ।
छर्द्यतीसारतृष्णा च दाहो मूच्छाविजृम्भिका ॥ १ ९ ॥
वेपथुश्वासहिक्काश्च दाहः शीतञ्च दारुणम् ।
पिडकोपचयः शोफो ग्रन्थयो मण्डलानि च ॥ २० ॥
दद्रवः कर्णिकौश्चैव विसर्पाः किटिभानि च ।
तैर्भवन्तीह दष्टानां यथास्वञ्चाप्युपद्रवाः ॥ २१ ॥
येऽन्ये तेषीं विशेषास्तु तूर्णं तेषां समादिशेत् ।
दूषीविषप्रकोपाच्च तथैव विषलेपनात् ॥ २२ ॥
लिङ्ग तीक्ष्णविषेष्वेतच्छृणु मन्दविषेष्वतः ।
प्रसेकोऽरोचकश्छर्दिःशिरोगौरवशीतकाः ॥ २३ ॥
८७७ १ तास्ताः = तोददाहकण्ड्वादिका वेदनाः, रोगाः = ज्वरादयः । सर्वदोषप्रकृतिकानां मध्ये बाह्रकसर्षपशम्बूकान् वर्जयित्वा नव मुखसन्दंशविषा इति च तत्रैव । दंशो २ दष्टस्थानम् स दंशः पित्ताद् रक्तपीतवर्णः, कफात् सितः, वाताद् अरुणो बोद्धयः । विशिष्टकृतिवर्णाः कतिचित् कीटाः प्रदश्यन्ते - " अजाप्रतिमरूपो यः शूकद्दीन--स्त्वरोमशः । सितः शरकुलीरस्तु वेडचूर्णविषः स्मृतः ॥ गैरिकाभो महाकोटः सपक्षो मार्जितोदरः । खेचरो मुदशूकश्च कौरिण्डन्य इति स स्मृतः ॥ कुरण्ट पुष्पवर्णाभः सपक्षो मार्जितोदरः । तुण्डशूकविषः कोटः कोष्ठागारीति संज्ञितः ॥ लाक्षारुधिरवर्णाभः श्वेत-बिन्दुविचित्रितः । क्षुद्रको ह्यग्निसङ्काशेो भ्राजते निशि चाग्निवत् ॥ कीटः खद्योत -इत्युक्तो दष्टस्तेनापि दह्यते । दंष्ट्राविषः श्वेतबिन्दुः सपक्षः षट्पदः खगः ॥ स तु वै शम्बुको नाम कालकः सप्तमण्डलः । चतुष्पादो दीर्घपत्र उल्ललाटो बहुप्रजः ॥ वृक्षालयो दन्तविषः कृकलास इति स्मृतः । चन्द्राभः कृकलासोऽन्यस्तद्भेदस्तु त्रिकण्टकः ॥ ” इति । ३ चतुर्विधतीविष कोटलक्षणं ब्रवीति — ज्वरेति । ४ कर्णिकाः = कमलम. व्यबीजकोशाकृतिमांसकन्दी । ५ यथास्वं = कीटदोषानुसारेणेत्यर्थः । ६ तेषां तीक्ष्ण-विषकीटानां विशेषास्तुङ्गीनासादिभ्यः पृथग्भूता येऽन्ये कुम्भीनसादय:, तेषाम् ' उप-द्रवान् ' इति शेषः, दूषोधिषप्रकोपमभिवीक्ष्य तथैव विषस्य लेपनमाहारमभिवीक्ष्य तूर्णं समादिशेदित्यर्थः । दूबीविषप्रकोपाद् विषलेपनादित्युभयत्र ल्यब्लोपे पश्चमी । ७ मन्दविषकीटलक्षणमाख्याति - प्रसेकेति । अल्पं शीतं शीतकः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1036
पाठ पढ़ें पाठ छिपाएँ
Ped by Arya Samaj Foundatio to सुश्रुतसंहितायां [ अ ० ८
पिडक कोठकण्डूनां जन्म दोषविभागतः ।
श्योगैर्नानाविधैरेषां चूर्णानि गरमादिशेत् ॥ २४ ॥
दूषीविषप्रकाराणां तथा चाप्यनुलेपनात् ।
एकजातीनतस्तूर्ध्वं कीटान् वक्ष्यामि भेदतः ॥ २५ ॥
सामान्यतो दष्टलिङ्गैः साध्यासाध्य क्रमेण च ।
त्रिकँण्टः करिणी चापि हस्तिकक्षोऽपराजितः ।
चत्वार एते कणभा व्याख्यातास्तीत्रवेदनाः ः ॥ २६ ॥
तैर्दष्टस्य श्वयथुरङ्गमर्दो गुरुता गात्राणां दंशः कृष्णश्च भवति ॥ २७ ॥
“ तिसूर्यकः, पिङ्गाभासो, बहुवर्णो, निरुपमो, गोधेरक इति पञ्च गौधेरकाः । तैर्दष्टस्य शोफो दाहरुजौ च भवतः, गोधेर केणैतदेव ग्रन्थिप्रादुर्भावो ज्वरश्च ॥ २८ ॥
गलगोलिका - श्वेता, कृष्णा, रक्तराजी, रक्तमण्डला, सर्व-श्वेता, सर्पपिकेत्येवं षट् । ताभिर्दष्टे सर्पपिकावर्जं दाहशोफक्लेदा भवन्ति, सर्षपिकया हृदयपीडाऽतिसारश्च । तासु मध्ये सर्षपिका प्राणहरी ॥ २ ९ ॥ १ जन्म = उत्पत्तिः, दोष विभागतः = कीटदोषभेदेनेत्यर्थः । २ कीटदेहचूर्णानां नानौषधियोगात्तथाऽनुलेपनादपि गरत्वं प्रतिपादयति--योगैरिति । तन्त्रान्तरे = “ यश्चैतानत्ति चूर्णैर्वा चूर्ण्यते लिप्यतेऽथवा । मूत्रादिभिः स्वस्य दूषीविषलिङ्गं समादिशेत् ॥ ” इति । ३ भेदशब्दात् त्यब्लोपे पञ्चमी, ततस्त. सिल, भेदं वीक्ष्येत्यर्थः । ४ चतुबिंधकणभनामानि तद्दष्टलक्षणं च दर्शयति- त्रिक. कइति । ५ चतुष्पदानामेषां चतुर्विधकणभाख्यकीटानां तीव्रवेदनाकरत्वेऽपि साध्यत्वं बोध्यम्। ६ पञ्चविधगोधेरकनामानि तद्दष्टलक्षणं च निर्दिशति - प्रति सूर्यक इति । तन्त्रान्तरे गोधेरकलक्षणम् - " कृष्णसर्पेण गोधायां भवेद्यस्तु चतुष्पदः । सर्पो गौधे रको नाम तेन दष्टो न जीवति ॥ ” इति । कैश्चित् पाठान्तरं पठ्यते - “ प्रतिसूर्यः पिङ्गनासो बहुलोमा महाशिराः । तथा निरुपमश्चेति पञ्च गौधेरकाः स्मृताः ॥ तैर्भ-वन्तीह दष्टानां वेगज्ञानानि सर्पवत् । रुजश्च विविधाकारा ग्रन्थयश्च सुदारुणाः ॥ ” इति । ७ षडूविघगल गोलीनामानि दद्दष्टलक्षणं चाह - श्वेतेति । गलगोलिकां ज्येष्ठा-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1037
पाठ पढ़ें पाठ छिपाएँ
BTO ] Digitized by Arya Samal Foundation Chennai and eGangotri ८७ ९ शतपद्यैस्तु — परुषा, कृष्णा, चित्रा, कपिला, पीतिका, रक्ता, श्वेता, अग्निप्रभा इत्यष्टौ । ताभिर्दष्टे, शोफो वेदना दाहश्र हृदये, श्वेताग्निप्रभाभ्यामेतदेव दाहो मूर्च्छा चातिमात्रं श्वेतपिडकोत्प-त्तिश्च ॥ ३० ॥
मण्डूको: - कृष्णः, सारः, कुहको, हरितो, रक्तो, यवव-भो, भृकुटी, कोटिकश्चेत्यष्टौ । तैर्दष्टस्य दंशे कण्डूर्भवति पीत-फेनागमश्च वक्त्रात्, भृकुटीकोटिकाभ्यामेतदेव दाहश्छर्दिर्मूर्च्छा चातिमात्रम् ॥ ३१ ॥
विश्वम्भराभिर्दष्टे दंशः सर्षपाकाराभिः पिडकाभिः सरुजा-भिश्चीयते, शीतज्वरार्त्तश्च पुरुषो भवति ॥ ३२ ॥
अण्डुकाभिर्दष्टे तोददाहकण्डूश्वयथवो भवन्ति मोहश्च ।
कण्डूमकाभिर्दष्टे पीताङ्गश्छद्येतीसारज्वरादिभिरभिहन्यते ।
शुकवृ - तादिभिर्दष्टे कण्डूकोठाः प्रवर्द्धन्ते शूकश्चात्र लक्ष्यते ॥ ३३ ॥
• पिपीलिका: - स्थूलशीर्षा, संवाहिका, ब्राह्मणिका अङ्गुलिका, कपिलिका, चित्रवर्णेति षट् । ताभिर्दष्टे दंशे श्वयथुरग्निस्पर्शव-द्दाहशोफौ भवतः ॥ ३४ ॥
मक्षिकाः— कान्तारिका, कृष्णा, पिङ्गला, मधूलिका, काषायी, स्थालिकेत्येवं षट् । ताभिर्दष्टस्य कण्डूशोफदाहरुजो भवन्ति, स्था-लिकाकापायीभ्यामेतदेव श्यावपिडकोत्पत्तिरुपद्रवाश्च ज्वरादयो भवन्ति, काषायी स्थालिका च प्राणहरे ॥ ३५ ॥
मित्याहुः । अन्ये तु सरटमाहुरिति चक्रपाणिः । १ शतपदी = कर्ण जलौका । २ म. ण्डूकोत्पत्तिमाह तन्त्रान्तरे – “ वर्षमाणे सृजेच्छुकं प्रावृट्काले महोरगः । ततः शरत्प्र-तप्तायां भूमौ मण्डो जलस्य हि । तस्मिन् मण्डोदके जाता मण्डूकास्तेन संशिताः ॥ ” इति मण्डूको गोगतिस्तज्ज्ञैः कोटिकः परिकीर्तितः । तेन । ३ कोटिकल क्षणम् - " दष्टस्य मरणं नास्ति तस्य प्रतिक्रिया ॥ ” इति । ४ दंशः = दष्टस्थान मित्यर्थः । ५ “ असम्यग्वमनोदीर्णपित्तश्लेष्मविनिग्रहैः । मण्डलानि सकण्डूनि रागवन्ति बहूनि च । उत्कोठः सानुबन्धश्च कोठ इत्यभिधीयते ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1038
पाठ पढ़ें पाठ छिपाएँ
८८० Digitized by Arya सुश्रुतसहिताया mai and eGangotri [ अ ० ८ मर्शकाः - सामुद्रः, परिमण्डलो, हस्तिमशकः, कृष्णः, पार्व-तीय इति पञ्च । तैर्दष्टस्य तीव्रा कण्डूर्दशशोफश्च, पार्वतीयस्तु कीट: प्राणहरैस्तुल्यलक्षणः ॥ ३६ ॥
नखावकृष्टेऽत्यर्थं पिडकादाहपाका भवन्ति । जलौकसां दृष्ट-लक्षणमुक्तं चिकित्सितञ्च ॥ ३७ ॥
भवन्ति चात्र ।
गोधेरकः स्थालिका च ये च श्वेताग्निसप्रभे ।
भृकुटी कोटिकश्चैव न सिध्यन्त्येकजातिषु ॥ ३८ ॥
• शव मूत्रपुरीषैस्तु सविषैरवमर्षनात् ।
स्युः कण्डूदाहकोठारुःपिडकातोदवेदनाः ॥ ३ ९ ॥
प्रक्लेदेवांस्तथा स्रावो भृशं सम्पाचयेत् त्वचम् ।
दिग्धविद्धुंक्रियास्तत्र यथावदवचारयेत् ॥ ४० ॥
नावसन्नं न चोत्सन्नमतिसंरम्भवेदनम् ।
दंशादौ विपरीतात्तिं कीटदृष्टं सुबाधकम् ॥ ४१ ॥
१ दष्टानुप्रविषैः कोटैः सर्पवत् समुपाचरेत् । १ प्रसङ्गान्मशकमक्षिकानाशकधूपः प्रदश्यते - " त्रिफलाऽर्जुन पुष्पाणि भल्लात-कशिरीषकम् । लाक्षा सर्जरसश्चैव विडङ्गश्चैव गुग्गुलुः । एते मक्षिकाणां मशकानां च नाशनम् ॥ ” इति । २ नखावकृष्टविषलक्षणमाख्याति - नखेति । नखावकृष्टे == नखैः कण्डूयनॆन परिक्षते इत्यर्थः । ३ जलौकावचारणीयाध्याये उक्तमित्यर्थः । ४ ए. कजातिष्वसाध्यानि निर्दिशति - गोधेरक इति । स्थालिका चेति चकारेण काषायी, ये चेति चकारेण गलगोलिकाऽम्तर्गतसर्षपिका, कोटिकश्चेति चकारेण जलौकःसु अनुक्ता इन्द्रायुधा च समुच्चीयते । ५ शवमूत्रपुरीषविषकीटावमर्शनलक्षणं तच्चिकित्सां च वक्ति — शवेति । ६ स-विषचूर्णावमृष्टप्रदेशे प्रक्लेदवानित्यर्थः । ७ दिग्धविद्धक्रिया पञ्चमाध्याये " तेषां युक्त्वा पूतिमांसान्यपोह्य " इत्यादिनोक्ता द्रष्टव्या । सुसाध्य कीटदष्टलक्षणं वक्ति-नावसन्नमिति । नावसन्नं = न निम्नं, न चोरसन्नं = नाप्यत्युन्नतम् । ९ शादी दंशाद्यवस्थायां विपरीतार्तिः, अर्थादनुग्रविषदष्टे तीव्रातिर्भवति, उग्रविषदष्टे तु मन्दा-तिरिति तात्पर्यम् । सुबाधकं = कृच्छ्रसाध्यम् । १० उग्रविषकीटदष्टचिकित्सामाचष्टे - दष्टानिति । सर्पवत् = सर्पदष्टवदित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1039
पाठ पढ़ें पाठ छिपाएँ
अ ० ८ ] Digitized by Arya Samaj पस्थाम epnai and eGangotri ८८१ त्रिविधानान्तु पूर्वेषां त्रैविध्येनं क्रिया हिताः ॥ ४२ ॥
स्वेदमालेपनं सेकं चोष्णमत्रावचारयेत् ॥ ] अन्यत्र मूच्छितोद्देशात् पाककोथप्रपीडितात् ॥ ४३ ॥
विषघ्नञ्च विधिं सव बहुशः शोधनानि च ।
शिरीषकटुकाकुष्टवचारजनिसैन्धवैः ॥ ४४ ॥
क्षीरमज्जवसासर्पिःशुण्ठीपिप्पलिदारुषु ।
उत्कारिका स्थिरौदौ वा सुकृता स्वेदने हिता ॥ ४५ ॥
न स्वेदयेत चादशं धूमं वक्ष्यामि वृश्चिके ।
अगदानेक जातीषु प्रवक्ष्यामि पृथक् पृथक् ॥ ४६ ॥
कुष्ठ वक्रं वचा पाठा बिल्वमूलं सुवर्चिका ।
गृहधूमं हरिद्रे द्वे त्रिकण्टकविषे हिताः ॥ ४७ ॥
रजन्यागारधूमश्च वक्रं कुष्टं पलाशजम् ।
गलगोलिकदष्टानामगदो विषनाशनः ॥ ४८ ॥
कुङ्कुमं तगरं शिग्रु ह पद्मकं रजनीद्वयम् ।
अगदो जलपिष्टोऽयं शतपद्विषनाशनः ॥ ४ ९ ॥
मेषशृङ्गी वचा पाठा निचुलो " रोहिणी जलम् ।
सर्वमण्डूकदष्टानामगदोऽयं विषापहः ॥ ५० ॥
धवाश्वगन्धाऽतिबलावलासातिगु हागुहाः ।
विश्वम्भराभिर्दष्टानामगदोऽयं विषापहः ॥ ५१ ॥
शिरीषं तगरं कुष्ठं शालिपर्णी सहा निशे १२ ।
अहिण्डुकाभिर्दष्टानामगदो विषनाशनः ॥ ५२ ॥
१ त्रैविध्येन = वातादिभेदेन । २ कीटदष्टे सामान्यचिकित्सितमभिधत्ते - स्वेदमिति । ३ मूच्छितात् = प्रवृद्धात् अन्यत्र मूच्छिते न कुर्यादित्यर्थः । ४ विधि = पानन-स्याभ्यन्जनादि संशमनविधानमित्यर्थः । ५ दारु == दारुहरिद्रेत्यर्थः । ६ स्थिरादौ = शालपर्ण्यादौ, स्यिरादिर्द्रव्यसङ्ग्रहणीयाध्याये “ विदारिगन्धा विदारी विश्वदेवा ” इत्यादिना बोध्यः । ७ वक्रं = तगरम् । ८ पलाशजं बीजमित्यर्थः । ९ शिग्रुः = शोभाञ्जनः । १० निचुलः = जलवेतसः, रोहिणी = हरीतकी, जलं = ' नेत्रवाला ' इति ख्यातम् । ११ अतिगुद्दा = शालपर्णी, गुहा = पृश्निपणीं । १२ निशे = हरिद्रादारुद-५६ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1040
पाठ पढ़ें पाठ छिपाएँ
८८२ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri कण्डूमकाभिर्दष्टानां रात्रौ शीताः क्रिया हिताः । [ अ ० ८ दिवा ते नैव सिध्यन्ति ' सूर्य्यरश्मिबलार्दिताः ॥ ५३ ॥
वक्रं कुष्ठमपामार्गः शूकवृन्तविषेऽगदः ।
भृङ्गस्वरसपिष्टा वा कृष्णवल्मीकमृत्तिका ॥ ५४ ॥
पिपीलिकाभिर्दष्टानां मक्षिकामशकैस्तथा ।
गोमूत्रेण युतो लेपः कृष्णवल्मीकमृत्तिका ॥ ५५ ॥
नखावघृष्ट सञ्जाते शोफे भृङ्गरसो हितः ।
प्रतिसूर्यकदष्टानां सर्पदष्टवदाचरेत् ' ।
त्रिविधा वृश्चिकाः प्रोक्ता मन्द मध्य महाविपाः ॥ ५६ ॥
गोशँकृत्कोथजा मन्दा मध्याः काष्ठेष्टिकोद्भवाः ।
सर्पकोथोद्भवास्तीक्ष्णा ये चान्ये विषसम्भवाः ॥ ५७ ॥
मन्दौ द्वादश मध्यास्तु त्रयः पञ्चदशोत्तमाः ।
दश विंशतिरित्येते सङ्ख्यया परिकीत्तिताः ॥ ५८ ॥
कृष्णः श्यावः कर्बुरः पाण्डुवर्णो गोमूत्राभः कर्कशो मेचकैश्च ।
पीतो धूम्रो रोमशः शाड्वलाभो रक्तः श्वेतेनोदरेणेति मन्दाः ॥ ५ ९ ॥
युक्ताश्चैते वृश्चिकाः पुच्छदेशे स्युर्भूयोभिः पवभिश्चेतरेभ्यः । एभिर्दष्टे वेदना वेपथुश्च गात्रस्तम्भः कृष्णरक्तागमश्च । रिद्रे । १ सूर्यरश्मिभिर्बलं येषां ते तैः सूर्यरश्मिबलैः कण्डूमकैरर्दिताः पीडिताः । २ नखावघृष्टेन नखपरिक्षतेन सब्जाते । ३ चिकित्सितमाचरेदित्यर्थः । ४ वृश्चिकोत्पत्तिं निरूपयति- गोशकृदिति 1 । गोशब्दो महिष्यादीनां तथा शक-च्छब्दो महिष्यादिमलस्योपलक्षणम् । श्रत्र – “ सर्पकोथोद्भवास्तीब्रा दिग्धविद्धविषै-हते 1 । कोथे मध्या गवादीनां शकृत्कोथेऽवराः स्मृताः वृश्चि ॥ ” इति पाठान्तरम् । ५ कसङ्ख्यामाख्याति - मन्दा इति । अत्र गयदासस्तु पाठान्तरं पठति — “ त्रयोदश प्राणहरास्त्रयो मध्यास्तथाऽपरे । मन्दवीर्या दशेकश्च वृश्चिका विषवेदिभिः । सप्तविंशति-रित्येते सङ्ख्यया परिकीर्तिताः ॥ ” इति । ६ दश विंशतिः = त्रिंशदित्यर्थः । ७ मन्दविषवृश्चिकानां नामलक्षणकर्माणि नि. दिशति - कृष्ण इति । कर्बुरः = नानावर्णः । ८ मेचकः = कृष्णनीलवर्णः, शब्दार्णवे स्पष्टमाइ — ‘ मेचकः कृष्णनीलः स्यादतसीपुष्पसन्निभः ' इति । ९ एते द्वादश मन्दा वृश्चिकाः, इतरेभ्यो वृश्चिकेभ्यः पुच्छदेशे भूयोभिर्बहुभिः पर्वभिर्युक्ताः स्युरुपलक्षिता CC - 0. Gurukul Kangri Collection, Haridwar