सुश्रुत संहिता चौखम्बा — पृष्ठ 1031–1040

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1031–1040

पृष्ठ 1031

सुश्रुत संहिता चौखम्बा, पृष्ठ 1031 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ७ ] Digitized by Arya Samp परथमम् pennai and eGangotri अर्कक्षोरयुतं ह्यस्य दद्याच्चापि विशोधनम् ॥ ५१ ॥

श्वेतां पुनर्नवाञ्चास्य दद्याद् धुत्तूरकायुताम् ।

पललं तिलतैलञ्च रूपिकोयाः पयो गुडः ॥ ५२ ॥

निहन्ति विषमालक मेघवृन्दमिवानिलः ।

मूलस्य शरैपुङ्खायाः कर्षं धत्तूर कार्द्धिकम् ॥ ५३ ॥

तण्डुलोदकमादाय पेषयेत्तण्डुलैः सह ।

उन्मत्तस्य पत्रैस्तु संवेष्ट्यापूपकं पचेत् ॥ ५४ ॥

खादेदौषधकाले च तमलर्कविषदूषितः । ८७३ करोति श्वविकारांस्तु तस्मिन् जीर्य्यति चौषधे ॥ ५५ ॥

विकाराः शिशिरे याप्या गृहे वारिविवर्जिते ।

ततः शान्तविकारस्तु स्नात्वा चैवापरेऽहनि ॥ ५६ ॥

शालिषष्टिकयोर्भक्तं क्षीरेणोष्णेन भोजयेत् ।

दिनत्रये पञ्चमे वा विधिरेषोऽर्द्धमात्रया ॥ ५७ ॥

कर्त्तव्यो भिषजाऽवश्यमलर्कविषनाशनः ।

कुप्येत् स्वयं विषं यस्य न स जीवति मानवः ॥ ५८ ' ॥

तस्मात् प्रकोपयेदाशु स्वयं यावत् प्रकुप्यति । बीजरत्नौषधीगर्भैः कुम्भैः शीताम्बुपूरितैः ॥ ५ ९ ।! १ अर्क क्षीरयुतं विशोधनमिति सम्बन्ध: । विशोधनं = विशोधनद्रव्यम्, तथा च क-फाधिक्ये वमनद्रव्यविशोधनं, पित्ताधिक्ये विरेचनद्रव्यविशोधनं च श्रकक्षीरयुतं दद्या. दित्यर्थः । २ रूपिकायाः इवेतार्कवृक्षस्य, पयः = दुग्धम् । ३ अलर्कस्येदमालर्कम् उग्मत्तकुक्कुर सम्बन्धि, ' अलर्को धवलार्के स्याद्योगोन्मादित कुक्कुरे ' इति विश्वः । ४ शरपुङ्खायाः ' सरफका ' इति ख्याताया मूलस्य कर्षे धत्तूरकस्य आधिकं कर्षार्धम् । ५ उन्मत्तकस्थ = धत्तूरकस्य, पत्रे ः- सप्तपर्णैः । ६ उन्मत्तश्वशृगालादिदष्टोत्पन्नविकारा इत्यर्थः । शिशिरे = सूर्य सन्तापरहिते शीतले काले । तदुक्तं दुन्दुभिस्वनीये – “ उष्णवर्ज्यो बिधिः कार्यो विषार्तानां विजा. नता " इति । ७ अलर्कविषजुष्टस्य देवव्यपाश्रयचिकित्सां निरूपयति- बीजेति । सङ्ग्रहेऽपि — ‘ श्रष्टोत्तरशतं वारान् सिद्धमन्त्राभिमन्त्रितैः । अष्टोत्तरशतोन्मानैः पुष्प • मालाऽवगुण्ठितैः ॥ गोचर्ममात्र के लिप्ते ज्वलितेऽग्नौ कुशास्तृते । स्थण्डिले सरितस्तीरे CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1032

सुश्रुत संहिता चौखम्बा, पृष्ठ 1032 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८७४ by Arya Samaj Fou खुश्रुत संहितायां angotri स्नापयेत्तं नदीतीरे समन्त्रैर्वा चतुष्पथे । [ अ ० ७ बलिं निवेद्य तत्रापि पिण्याकं पललं दधि ॥ ६० ॥

माल्यानि च विचित्राणि मांसं पक्कामकं यथा ।

अलर्काधिपते! यक्ष! सारमेयगणाधिप! ॥। ६१ ॥

अलर्कजुष्टमेतन्मे निर्विषं कुरु माचिरात् ।

दद्यात् संशोधनं तीक्ष्णमेवं स्नातस्य देहिनः ॥ ६२ ॥

अशुद्ध सुरूढेऽपि व्रणे कुप्यति तद्विषम् ।

श्वादयोऽभिहिता व्याला येऽत्र दंष्ट्राविषा मया ॥ ६३ ॥

अतः करोति दृष्टस्तु तेषां चेष्टां रुतं नरः ।

बहुशः प्रकुर्वाणो न चिराम्रियते च सः ॥ ६४ ॥।

नखदन्तक्षतं व्यालैर्यत् कृतं तद्विमर्दयेत् ।

सिञ्चेत्तैलेन कोष्णेनं ते हि वातप्रकोपकाः ॥। ६५ ॥

इति सुश्रुतसंहितायां कल्पस्थाने मूषिका कल्पो नाम सप्तमोऽध्यायः ॥ ७ ॥

स्नानं चास्य चतुष्पथे ॥ अलर्काधिपते यक्ष सारमेय गणाधिप । अलर्कजुष्टमेतन्मे निर्विषं कुरु माचिर।त् ॥ स्वाहेति मन्त्रोऽलर्कान्ते सर्वकर्मसु शस्यते । " इति । १ अशुद्धस्य व्रणस्येति तात्पर्यम् । २ दष्टस्य श्वादेश्चेष्टाकरणे कारणमा-ख्याति - श्वादय इति । मया अत्र ये दंष्ट्राविषा व्यालास्ते श्वादयः, श्वशब्दः प्रकारवाची, तेन श्वप्रकारा उन्मत्तश्वसदृशा बातपित्तप्रकोपणेनाभिहिता इत्यर्थः । ३ अत इति तृतीयान्तात्तसिल् । तया चातः इवादिभिर्दष्ट इति योजनेति द्वाराय-चन्द्रः । ४ बहुशः = अनेकवारम्, प्रतिकुर्वाणः = दष्टपशु शब्द मनुकुर्वन् । ५ सहे. तुकमुन्मत्तश्वादिचिकित्सितमभिधत्ते - नखेति । ६ तत् ( नखदन्तक्षतस्थानम् । ७ ' कोष्णेन = ईषदुष्णेनैत्यर्थः । इति सुश्रुतसंहितायाः कल्पस्थानीय सुधा ss ख्या टप्पयां सप्तमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1033

सुश्रुत संहिता चौखम्बा, पृष्ठ 1033 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ८ ] Digitized by Arya कएवं स्थणम Chennai and eGangotri

अष्टमोऽध्यायः ।

अथातो कीटकल्पं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

सर्पाणा शुक्रविण्मूत्रशवपूत्यण्डसम्भवाः ।

वाय्वग्न्यम्बुप्रकृतयः कीटास्तु विविधाः स्मृताः ॥ ३ ॥

सर्वदोषप्रकृतिभिर्युक्तास्ते परिणामतः ।

कीटत्वेऽपि सुघोराः स्युः सर्व एव चतुर्विधाः ॥ ४ ॥

कुम्भीनसंस्तुण्डिकेरी शृङ्गी शतकुलीरकः ।

उच्चिटिङ्गोऽग्निनामा च चिञ्चिटिङ्गो मयूरिका ॥ ५ ॥

आवर्त्तकस्तथोरभ्रः सारिकामुखवैदलौ ।

शराबकुर्दोंऽभीराजिः परुषश्चित्रशीर्षकः ॥ ६ ॥

शतबाहुश्च यश्चापि रक्तराजिश्च कीर्त्तितः ।

अष्टादशेति वायव्याः कीटाः पवनकोपनाः ॥ ७ ॥

तैर्भवन्तीह दष्टानां रोगां वातनिमित्तजाः । अष्टमोऽध्यायः । ८७५ १ कीटाः क्रिमिभ्यः स्थूलाः क्षुद्रजन्तवस्तत्कल्पं कीटकल्पं व्याख्यास्यामः । २ तत्र कीटानामुत्पत्ति दर्शयति- सर्पाणामिति । सर्पाणां दवकरमण्डलिराजिलानाम् । चरकेऽपि —— “ सर्पाणामेव विण्मूत्रात् कीटाः स्युः कीटसम्मताः " इति । ३ वाय्वग्न्यम्बु-प्रकृतयः = वातपित्तकफस्वभावाः । ४ त्रिविधा इति पाठान्तरम् । परिणामशब्दात् पञ्चम्यास्तसिल्, परिणामतः । दवींकरादिभिन्नजातीयानां सर्पाणां सम्बन्धेन जातत्वात् पूर्वदवींकरादिरूपपरित्यागेन वैकरआख्येति रूपान्तरप्राप्तिः परिणामः । ५ दोषत्रयप्रकोपणेन सुघोरा इत्यर्थः । सम्मिलितसंख्यां दर्शयति — सर्व एव चतु. विषा इति । कीटानां सामान्यज्ञानोपायः ढल्हणोद्धृतालम्बायनोक्तो विलिख्यते— “ कृष्णाभिर्बिन्दुलेखाभिः पक्षैः पादैर्मुखैर्नखैः । शूकैः कण्टकलाङ्गुलैः संश्लिष्टैः पक्षरो-मभिः ॥ स्वनैः प्रमाणैः संस्थानैः लिङ्गेश्चापि शरीरगैः । विषवीर्यैश्व कीटानां रूपज्ञानं विभाव्यते ॥ ” इति । ६ तत्र चतुर्विधेषु वायव्यस्वभावानामष्टादश कीटानां नामानि निर्दिशति – कुम्भीनसेति । ७ रोगाः = तोदादयः, वातप्रकोपणानां कुम्भीनसा. CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1034

सुश्रुत संहिता चौखम्बा, पृष्ठ 1034 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

tized by Arya Samaj Foundaसुश्रुतसंहिता य angotri [ अ ० ८ कौण्डिन्यर्कः करणभको वरटी पत्रवृश्चिकः ॥ ८ ॥

विनासिका ब्राह्मणिका बिन्दुलो भ्रमरस्तथा ।

बाह्यकी पिच्चिटः कुम्भी वचः कीटोऽरिमेदकः ॥ ९ ॥

पद्मकीटो दुन्दुभिको मकरः शतपादकः ।

पञ्चालकः पाकमत्स्यः कृष्णतुण्डोऽथ गर्दभी ॥ १० ॥

क्लीतः कृमिसरारी च यश्चाप्युत्क्लेशकस्तथा ।

एते ह्यग्निप्रकृतयश्चतुर्विंशतिरेव च ॥ ११ ॥

तैर्भवन्तीह दष्टानां रोगाः पित्तनिमित्तजाः ।

विश्वम्भरः पञ्चशुक्लः पञ्चकृष्णोऽथ कोकिलः ॥ १२ ॥

सैरेयकः प्रचलकौ बलभः किटिभस्तथा ।

सूचीमुखः कृष्णगोधा यश्च काषायवासिकः ॥ १३ ॥

कीटो गर्दभकश्चैव तथा त्रोटक एव च ।

त्रयोदशैते सौम्याः स्युः कीटाः श्लेष्मप्रकोपणाः ॥ १४ ॥

तैर्भन्तीह दष्टानां रोगाः कफनिमित्तजाः ।

तुङ्गीनौसो विचिलकस्तालको वाहकस्तथा ॥ १५ ॥

कोष्टागारी क्रिमिकरो यश्च मण्डलपुच्छकः ।

तुङ्गनाभः सर्षपिको वल्गुलिः शम्बुकस्तथा ॥ १६ ॥

अग्निकीटश्च विज्ञेया द्वादश प्राणनाशनाः ।

तैर्भवन्तीह दष्टानां वेगज्ञानानि सर्पवत् ॥ १७ ॥

दीनां मध्ये शृङ्गयुचिच्चिटिङ्गशराब कुर्दचित्रशीर्षकान् वर्जयित्वा शेषाश्चतुर्दश मुखस • न्दशविषा इति ढल्हणः । १ श्राग्नेयस्वभवानां चतुर्विंशतिकीटानां नामानि दर्शयति - कौण्डिन्यक इति । २ रोगाः = ओषचोषादयः । पित्तप्रकोपणानां मध्ये कौण्डिन्यकवरटीभ्रमरपिच्चिटवर्चः • कीटमकरशतपदपञ्चालकपाकमत्स्यकृष्णतुण्डान् विहाय शेषाश्चतुर्दश मुखसन्दंशविषा इति निबन्धसङ्ग्रइव्याख्याकारः । १३ सौम्य स्वभावानां त्रयोदशकीटानां नामानि निरूपयति-- विश्वम्भर इति । ४ रोगाः = कण्डवादयः । श्लेष्मप्रकोपियां मध्ये विश्वम्भरप्रचलाककृष्णगोधाकाषायवासिकांश्चतुरो वर्जयित्वा नवान्ये मुखसन्दंशविषा इति तत्रैव । ५ सान्निपातिकानां द्वादशटीकानां नामानि कथयति - तुङ्गीनास इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1035

सुश्रुत संहिता चौखम्बा, पृष्ठ 1035 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

20 अ ० ८ ] Digitized by Arya Samaj Foundation Chennai and eGangotri कल्पस्थानम् ।

तास्ताश्च वेदनास्तीत्रा रोगा वै सान्निपातिकाः ।

क्षाराग्निदग्धवद् दंशो २ ' रक्तपीतसितारुणः ॥ १८ ॥

ज्वराङ्गमर्दरोमाञ्चवेदनाभिः समन्वितः ।

छर्द्यतीसारतृष्णा च दाहो मूच्छाविजृम्भिका ॥ १ ९ ॥

वेपथुश्वासहिक्काश्च दाहः शीतञ्च दारुणम् ।

पिडकोपचयः शोफो ग्रन्थयो मण्डलानि च ॥ २० ॥

दद्रवः कर्णिकौश्चैव विसर्पाः किटिभानि च ।

तैर्भवन्तीह दष्टानां यथास्वञ्चाप्युपद्रवाः ॥ २१ ॥

येऽन्ये तेषीं विशेषास्तु तूर्णं तेषां समादिशेत् ।

दूषीविषप्रकोपाच्च तथैव विषलेपनात् ॥ २२ ॥

लिङ्ग तीक्ष्णविषेष्वेतच्छृणु मन्दविषेष्वतः ।

प्रसेकोऽरोचकश्छर्दिःशिरोगौरवशीतकाः ॥ २३ ॥

८७७ १ तास्ताः = तोददाहकण्ड्वादिका वेदनाः, रोगाः = ज्वरादयः । सर्वदोषप्रकृतिकानां मध्ये बाह्रकसर्षपशम्बूकान् वर्जयित्वा नव मुखसन्दंशविषा इति च तत्रैव । दंशो २ दष्टस्थानम् स दंशः पित्ताद् रक्तपीतवर्णः, कफात् सितः, वाताद् अरुणो बोद्धयः । विशिष्टकृतिवर्णाः कतिचित् कीटाः प्रदश्यन्ते - " अजाप्रतिमरूपो यः शूकद्दीन--स्त्वरोमशः । सितः शरकुलीरस्तु वेडचूर्णविषः स्मृतः ॥ गैरिकाभो महाकोटः सपक्षो मार्जितोदरः । खेचरो मुदशूकश्च कौरिण्डन्य इति स स्मृतः ॥ कुरण्ट पुष्पवर्णाभः सपक्षो मार्जितोदरः । तुण्डशूकविषः कोटः कोष्ठागारीति संज्ञितः ॥ लाक्षारुधिरवर्णाभः श्वेत-बिन्दुविचित्रितः । क्षुद्रको ह्यग्निसङ्काशेो भ्राजते निशि चाग्निवत् ॥ कीटः खद्योत -इत्युक्तो दष्टस्तेनापि दह्यते । दंष्ट्राविषः श्वेतबिन्दुः सपक्षः षट्पदः खगः ॥ स तु वै शम्बुको नाम कालकः सप्तमण्डलः । चतुष्पादो दीर्घपत्र उल्ललाटो बहुप्रजः ॥ वृक्षालयो दन्तविषः कृकलास इति स्मृतः । चन्द्राभः कृकलासोऽन्यस्तद्भेदस्तु त्रिकण्टकः ॥ ” इति । ३ चतुर्विधतीविष कोटलक्षणं ब्रवीति — ज्वरेति । ४ कर्णिकाः = कमलम. व्यबीजकोशाकृतिमांसकन्दी । ५ यथास्वं = कीटदोषानुसारेणेत्यर्थः । ६ तेषां तीक्ष्ण-विषकीटानां विशेषास्तुङ्गीनासादिभ्यः पृथग्भूता येऽन्ये कुम्भीनसादय:, तेषाम् ' उप-द्रवान् ' इति शेषः, दूषोधिषप्रकोपमभिवीक्ष्य तथैव विषस्य लेपनमाहारमभिवीक्ष्य तूर्णं समादिशेदित्यर्थः । दूबीविषप्रकोपाद् विषलेपनादित्युभयत्र ल्यब्लोपे पश्चमी । ७ मन्दविषकीटलक्षणमाख्याति - प्रसेकेति । अल्पं शीतं शीतकः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1036

सुश्रुत संहिता चौखम्बा, पृष्ठ 1036 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Ped by Arya Samaj Foundatio to सुश्रुतसंहितायां [ अ ० ८

पिडक कोठकण्डूनां जन्म दोषविभागतः ।

श्योगैर्नानाविधैरेषां चूर्णानि गरमादिशेत् ॥ २४ ॥

दूषीविषप्रकाराणां तथा चाप्यनुलेपनात् ।

एकजातीनतस्तूर्ध्वं कीटान् वक्ष्यामि भेदतः ॥ २५ ॥

सामान्यतो दष्टलिङ्गैः साध्यासाध्य क्रमेण च ।

त्रिकँण्टः करिणी चापि हस्तिकक्षोऽपराजितः ।

चत्वार एते कणभा व्याख्यातास्तीत्रवेदनाः ः ॥ २६ ॥

तैर्दष्टस्य श्वयथुरङ्गमर्दो गुरुता गात्राणां दंशः कृष्णश्च भवति ॥ २७ ॥

“ तिसूर्यकः, पिङ्गाभासो, बहुवर्णो, निरुपमो, गोधेरक इति पञ्च गौधेरकाः । तैर्दष्टस्य शोफो दाहरुजौ च भवतः, गोधेर केणैतदेव ग्रन्थिप्रादुर्भावो ज्वरश्च ॥ २८ ॥

गलगोलिका - श्वेता, कृष्णा, रक्तराजी, रक्तमण्डला, सर्व-श्वेता, सर्पपिकेत्येवं षट् । ताभिर्दष्टे सर्पपिकावर्जं दाहशोफक्लेदा भवन्ति, सर्षपिकया हृदयपीडाऽतिसारश्च । तासु मध्ये सर्षपिका प्राणहरी ॥ २ ९ ॥ १ जन्म = उत्पत्तिः, दोष विभागतः = कीटदोषभेदेनेत्यर्थः । २ कीटदेहचूर्णानां नानौषधियोगात्तथाऽनुलेपनादपि गरत्वं प्रतिपादयति--योगैरिति । तन्त्रान्तरे = “ यश्चैतानत्ति चूर्णैर्वा चूर्ण्यते लिप्यतेऽथवा । मूत्रादिभिः स्वस्य दूषीविषलिङ्गं समादिशेत् ॥ ” इति । ३ भेदशब्दात् त्यब्लोपे पञ्चमी, ततस्त. सिल, भेदं वीक्ष्येत्यर्थः । ४ चतुबिंधकणभनामानि तद्दष्टलक्षणं च दर्शयति- त्रिक. कइति । ५ चतुष्पदानामेषां चतुर्विधकणभाख्यकीटानां तीव्रवेदनाकरत्वेऽपि साध्यत्वं बोध्यम्। ६ पञ्चविधगोधेरकनामानि तद्दष्टलक्षणं च निर्दिशति - प्रति सूर्यक इति । तन्त्रान्तरे गोधेरकलक्षणम् - " कृष्णसर्पेण गोधायां भवेद्यस्तु चतुष्पदः । सर्पो गौधे रको नाम तेन दष्टो न जीवति ॥ ” इति । कैश्चित् पाठान्तरं पठ्यते - “ प्रतिसूर्यः पिङ्गनासो बहुलोमा महाशिराः । तथा निरुपमश्चेति पञ्च गौधेरकाः स्मृताः ॥ तैर्भ-वन्तीह दष्टानां वेगज्ञानानि सर्पवत् । रुजश्च विविधाकारा ग्रन्थयश्च सुदारुणाः ॥ ” इति । ७ षडूविघगल गोलीनामानि दद्दष्टलक्षणं चाह - श्वेतेति । गलगोलिकां ज्येष्ठा-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1037

सुश्रुत संहिता चौखम्बा, पृष्ठ 1037 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

BTO ] Digitized by Arya Samal Foundation Chennai and eGangotri ८७ ९ शतपद्यैस्तु — परुषा, कृष्णा, चित्रा, कपिला, पीतिका, रक्ता, श्वेता, अग्निप्रभा इत्यष्टौ । ताभिर्दष्टे, शोफो वेदना दाहश्र हृदये, श्वेताग्निप्रभाभ्यामेतदेव दाहो मूर्च्छा चातिमात्रं श्वेतपिडकोत्प-त्तिश्च ॥ ३० ॥

मण्डूको: - कृष्णः, सारः, कुहको, हरितो, रक्तो, यवव-भो, भृकुटी, कोटिकश्चेत्यष्टौ । तैर्दष्टस्य दंशे कण्डूर्भवति पीत-फेनागमश्च वक्त्रात्, भृकुटीकोटिकाभ्यामेतदेव दाहश्छर्दिर्मूर्च्छा चातिमात्रम् ॥ ३१ ॥

विश्वम्भराभिर्दष्टे दंशः सर्षपाकाराभिः पिडकाभिः सरुजा-भिश्चीयते, शीतज्वरार्त्तश्च पुरुषो भवति ॥ ३२ ॥

अण्डुकाभिर्दष्टे तोददाहकण्डूश्वयथवो भवन्ति मोहश्च ।

कण्डूमकाभिर्दष्टे पीताङ्गश्छद्येतीसारज्वरादिभिरभिहन्यते ।

शुकवृ - तादिभिर्दष्टे कण्डूकोठाः प्रवर्द्धन्ते शूकश्चात्र लक्ष्यते ॥ ३३ ॥

• पिपीलिका: - स्थूलशीर्षा, संवाहिका, ब्राह्मणिका अङ्गुलिका, कपिलिका, चित्रवर्णेति षट् । ताभिर्दष्टे दंशे श्वयथुरग्निस्पर्शव-द्दाहशोफौ भवतः ॥ ३४ ॥

मक्षिकाः— कान्तारिका, कृष्णा, पिङ्गला, मधूलिका, काषायी, स्थालिकेत्येवं षट् । ताभिर्दष्टस्य कण्डूशोफदाहरुजो भवन्ति, स्था-लिकाकापायीभ्यामेतदेव श्यावपिडकोत्पत्तिरुपद्रवाश्च ज्वरादयो भवन्ति, काषायी स्थालिका च प्राणहरे ॥ ३५ ॥

मित्याहुः । अन्ये तु सरटमाहुरिति चक्रपाणिः । १ शतपदी = कर्ण जलौका । २ म. ण्डूकोत्पत्तिमाह तन्त्रान्तरे – “ वर्षमाणे सृजेच्छुकं प्रावृट्काले महोरगः । ततः शरत्प्र-तप्तायां भूमौ मण्डो जलस्य हि । तस्मिन् मण्डोदके जाता मण्डूकास्तेन संशिताः ॥ ” इति मण्डूको गोगतिस्तज्ज्ञैः कोटिकः परिकीर्तितः । तेन । ३ कोटिकल क्षणम् - " दष्टस्य मरणं नास्ति तस्य प्रतिक्रिया ॥ ” इति । ४ दंशः = दष्टस्थान मित्यर्थः । ५ “ असम्यग्वमनोदीर्णपित्तश्लेष्मविनिग्रहैः । मण्डलानि सकण्डूनि रागवन्ति बहूनि च । उत्कोठः सानुबन्धश्च कोठ इत्यभिधीयते ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1038

सुश्रुत संहिता चौखम्बा, पृष्ठ 1038 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८८० Digitized by Arya सुश्रुतसहिताया mai and eGangotri [ अ ० ८ मर्शकाः - सामुद्रः, परिमण्डलो, हस्तिमशकः, कृष्णः, पार्व-तीय इति पञ्च । तैर्दष्टस्य तीव्रा कण्डूर्दशशोफश्च, पार्वतीयस्तु कीट: प्राणहरैस्तुल्यलक्षणः ॥ ३६ ॥

नखावकृष्टेऽत्यर्थं पिडकादाहपाका भवन्ति । जलौकसां दृष्ट-लक्षणमुक्तं चिकित्सितञ्च ॥ ३७ ॥

भवन्ति चात्र ।

गोधेरकः स्थालिका च ये च श्वेताग्निसप्रभे ।

भृकुटी कोटिकश्चैव न सिध्यन्त्येकजातिषु ॥ ३८ ॥

• शव मूत्रपुरीषैस्तु सविषैरवमर्षनात् ।

स्युः कण्डूदाहकोठारुःपिडकातोदवेदनाः ॥ ३ ९ ॥

प्रक्लेदेवांस्तथा स्रावो भृशं सम्पाचयेत् त्वचम् ।

दिग्धविद्धुंक्रियास्तत्र यथावदवचारयेत् ॥ ४० ॥

नावसन्नं न चोत्सन्नमतिसंरम्भवेदनम् ।

दंशादौ विपरीतात्तिं कीटदृष्टं सुबाधकम् ॥ ४१ ॥

१ दष्टानुप्रविषैः कोटैः सर्पवत् समुपाचरेत् । १ प्रसङ्गान्मशकमक्षिकानाशकधूपः प्रदश्यते - " त्रिफलाऽर्जुन पुष्पाणि भल्लात-कशिरीषकम् । लाक्षा सर्जरसश्चैव विडङ्गश्चैव गुग्गुलुः । एते मक्षिकाणां मशकानां च नाशनम् ॥ ” इति । २ नखावकृष्टविषलक्षणमाख्याति - नखेति । नखावकृष्टे == नखैः कण्डूयनॆन परिक्षते इत्यर्थः । ३ जलौकावचारणीयाध्याये उक्तमित्यर्थः । ४ ए. कजातिष्वसाध्यानि निर्दिशति - गोधेरक इति । स्थालिका चेति चकारेण काषायी, ये चेति चकारेण गलगोलिकाऽम्तर्गतसर्षपिका, कोटिकश्चेति चकारेण जलौकःसु अनुक्ता इन्द्रायुधा च समुच्चीयते । ५ शवमूत्रपुरीषविषकीटावमर्शनलक्षणं तच्चिकित्सां च वक्ति — शवेति । ६ स-विषचूर्णावमृष्टप्रदेशे प्रक्लेदवानित्यर्थः । ७ दिग्धविद्धक्रिया पञ्चमाध्याये " तेषां युक्त्वा पूतिमांसान्यपोह्य " इत्यादिनोक्ता द्रष्टव्या । सुसाध्य कीटदष्टलक्षणं वक्ति-नावसन्नमिति । नावसन्नं = न निम्नं, न चोरसन्नं = नाप्यत्युन्नतम् । ९ शादी दंशाद्यवस्थायां विपरीतार्तिः, अर्थादनुग्रविषदष्टे तीव्रातिर्भवति, उग्रविषदष्टे तु मन्दा-तिरिति तात्पर्यम् । सुबाधकं = कृच्छ्रसाध्यम् । १० उग्रविषकीटदष्टचिकित्सामाचष्टे - दष्टानिति । सर्पवत् = सर्पदष्टवदित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1039

सुश्रुत संहिता चौखम्बा, पृष्ठ 1039 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ८ ] Digitized by Arya Samaj पस्थाम epnai and eGangotri ८८१ त्रिविधानान्तु पूर्वेषां त्रैविध्येनं क्रिया हिताः ॥ ४२ ॥

स्वेदमालेपनं सेकं चोष्णमत्रावचारयेत् ॥ ] अन्यत्र मूच्छितोद्देशात् पाककोथप्रपीडितात् ॥ ४३ ॥

विषघ्नञ्च विधिं सव बहुशः शोधनानि च ।

शिरीषकटुकाकुष्टवचारजनिसैन्धवैः ॥ ४४ ॥

क्षीरमज्जवसासर्पिःशुण्ठीपिप्पलिदारुषु ।

उत्कारिका स्थिरौदौ वा सुकृता स्वेदने हिता ॥ ४५ ॥

न स्वेदयेत चादशं धूमं वक्ष्यामि वृश्चिके ।

अगदानेक जातीषु प्रवक्ष्यामि पृथक् पृथक् ॥ ४६ ॥

कुष्ठ वक्रं वचा पाठा बिल्वमूलं सुवर्चिका ।

गृहधूमं हरिद्रे द्वे त्रिकण्टकविषे हिताः ॥ ४७ ॥

रजन्यागारधूमश्च वक्रं कुष्टं पलाशजम् ।

गलगोलिकदष्टानामगदो विषनाशनः ॥ ४८ ॥

कुङ्कुमं तगरं शिग्रु ह पद्मकं रजनीद्वयम् ।

अगदो जलपिष्टोऽयं शतपद्विषनाशनः ॥ ४ ९ ॥

मेषशृङ्गी वचा पाठा निचुलो " रोहिणी जलम् ।

सर्वमण्डूकदष्टानामगदोऽयं विषापहः ॥ ५० ॥

धवाश्वगन्धाऽतिबलावलासातिगु हागुहाः ।

विश्वम्भराभिर्दष्टानामगदोऽयं विषापहः ॥ ५१ ॥

शिरीषं तगरं कुष्ठं शालिपर्णी सहा निशे १२ ।

अहिण्डुकाभिर्दष्टानामगदो विषनाशनः ॥ ५२ ॥

१ त्रैविध्येन = वातादिभेदेन । २ कीटदष्टे सामान्यचिकित्सितमभिधत्ते - स्वेदमिति । ३ मूच्छितात् = प्रवृद्धात् अन्यत्र मूच्छिते न कुर्यादित्यर्थः । ४ विधि = पानन-स्याभ्यन्जनादि संशमनविधानमित्यर्थः । ५ दारु == दारुहरिद्रेत्यर्थः । ६ स्थिरादौ = शालपर्ण्यादौ, स्यिरादिर्द्रव्यसङ्ग्रहणीयाध्याये “ विदारिगन्धा विदारी विश्वदेवा ” इत्यादिना बोध्यः । ७ वक्रं = तगरम् । ८ पलाशजं बीजमित्यर्थः । ९ शिग्रुः = शोभाञ्जनः । १० निचुलः = जलवेतसः, रोहिणी = हरीतकी, जलं = ' नेत्रवाला ' इति ख्यातम् । ११ अतिगुद्दा = शालपर्णी, गुहा = पृश्निपणीं । १२ निशे = हरिद्रादारुद-५६ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1040

सुश्रुत संहिता चौखम्बा, पृष्ठ 1040 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८८२ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri कण्डूमकाभिर्दष्टानां रात्रौ शीताः क्रिया हिताः । [ अ ० ८ दिवा ते नैव सिध्यन्ति ' सूर्य्यरश्मिबलार्दिताः ॥ ५३ ॥

वक्रं कुष्ठमपामार्गः शूकवृन्तविषेऽगदः ।

भृङ्गस्वरसपिष्टा वा कृष्णवल्मीकमृत्तिका ॥ ५४ ॥

पिपीलिकाभिर्दष्टानां मक्षिकामशकैस्तथा ।

गोमूत्रेण युतो लेपः कृष्णवल्मीकमृत्तिका ॥ ५५ ॥

नखावघृष्ट सञ्जाते शोफे भृङ्गरसो हितः ।

प्रतिसूर्यकदष्टानां सर्पदष्टवदाचरेत् ' ।

त्रिविधा वृश्चिकाः प्रोक्ता मन्द मध्य महाविपाः ॥ ५६ ॥

गोशँकृत्कोथजा मन्दा मध्याः काष्ठेष्टिकोद्भवाः ।

सर्पकोथोद्भवास्तीक्ष्णा ये चान्ये विषसम्भवाः ॥ ५७ ॥

मन्दौ द्वादश मध्यास्तु त्रयः पञ्चदशोत्तमाः ।

दश विंशतिरित्येते सङ्ख्यया परिकीत्तिताः ॥ ५८ ॥

कृष्णः श्यावः कर्बुरः पाण्डुवर्णो गोमूत्राभः कर्कशो मेचकैश्च ।

पीतो धूम्रो रोमशः शाड्वलाभो रक्तः श्वेतेनोदरेणेति मन्दाः ॥ ५ ९ ॥

युक्ताश्चैते वृश्चिकाः पुच्छदेशे स्युर्भूयोभिः पवभिश्चेतरेभ्यः । एभिर्दष्टे वेदना वेपथुश्च गात्रस्तम्भः कृष्णरक्तागमश्च । रिद्रे । १ सूर्यरश्मिभिर्बलं येषां ते तैः सूर्यरश्मिबलैः कण्डूमकैरर्दिताः पीडिताः । २ नखावघृष्टेन नखपरिक्षतेन सब्जाते । ३ चिकित्सितमाचरेदित्यर्थः । ४ वृश्चिकोत्पत्तिं निरूपयति- गोशकृदिति 1 । गोशब्दो महिष्यादीनां तथा शक-च्छब्दो महिष्यादिमलस्योपलक्षणम् । श्रत्र – “ सर्पकोथोद्भवास्तीब्रा दिग्धविद्धविषै-हते 1 । कोथे मध्या गवादीनां शकृत्कोथेऽवराः स्मृताः वृश्चि ॥ ” इति पाठान्तरम् । ५ कसङ्ख्यामाख्याति - मन्दा इति । अत्र गयदासस्तु पाठान्तरं पठति — “ त्रयोदश प्राणहरास्त्रयो मध्यास्तथाऽपरे । मन्दवीर्या दशेकश्च वृश्चिका विषवेदिभिः । सप्तविंशति-रित्येते सङ्ख्यया परिकीर्तिताः ॥ ” इति । ६ दश विंशतिः = त्रिंशदित्यर्थः । ७ मन्दविषवृश्चिकानां नामलक्षणकर्माणि नि. दिशति - कृष्ण इति । कर्बुरः = नानावर्णः । ८ मेचकः = कृष्णनीलवर्णः, शब्दार्णवे स्पष्टमाइ — ‘ मेचकः कृष्णनीलः स्यादतसीपुष्पसन्निभः ' इति । ९ एते द्वादश मन्दा वृश्चिकाः, इतरेभ्यो वृश्चिकेभ्यः पुच्छदेशे भूयोभिर्बहुभिः पर्वभिर्युक्ताः स्युरुपलक्षिता CC - 0. Gurukul Kangri Collection, Haridwar