सुश्रुत संहिता चौखम्बा — पृष्ठ 1041–1050
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1041–1050
पृष्ठ 1041
पाठ पढ़ें पाठ छिपाएँ
अ ० ८ ] Digitized by Aryah Chennai and eGangotri ८८३ शाखादष्टे वेदना चोर्ध्वमेति दाहस्वेदौ दंशशोफो ज्वरश्च ॥ ६० ॥
रक्तः पीतः कापिलेनोदरेण सर्वे धूम्राः पर्वभिश्च त्रिभिः स्युः ॥ ३१ ॥
एते मूत्रोच्चारपृत्यण्डजाता मध्या ज्ञेयास्त्रिप्रकारोरगाणाम् ।
यस्यैतेषामन्वयाद्यः प्रसूतो दोषोत्पत्ति तत्स्वरूपां स कुर्यात् ॥ ६२ ॥
जिह्वाशोफो भोजनस्यावरोधो मूर्च्छा चोप्रा मध्यवीर्याभिदष्टे ।
श्वेतैश्वित्रः श्यामलो लोहिताभो रक्तः श्वेतो रक्तनोलोदरौ च ॥ ६३ ॥
पीतोऽरक्तो नीलपीतोऽपरस्तु रक्तो नीलो नीलशुक्लस्तथा च ।
रक्तो बभ्रुः पूर्वर्वच्चैकपर्वा यश्चापर्वा पर्वणी द्वे च यस्य ॥ ६४ ॥
नानारूपा वर्णतश्चापि घोरा ज्ञेयाश्चैते वृश्चिकाः प्राणचौराः ।
जन्मैतेषां सर्पकोर्थात् प्रदिष्टं देहेभ्यो वा वातितानां त्रिषेण ॥ ६५ ॥
एभिर्दष्टे सर्पवेर्गप्रवृत्तिः स्फोटोत्पत्तिर्भ्रान्तिदाहौ ज्वरश्च । खेभ्यः ँ कृष्णं शोणितं याति तीव्रं तस्मात् प्राणैस्त्यज्यते शीघ्रमेव ६६
" उग्रमध्यविषैर्दष्टं चिकित्सेत् सर्पदष्टवत् ।
आदंशं स्वेदितं चूर्णैः प्रच्छितं " प्रतिसारयेत् ॥ ६७ ॥
" रजनीसैन्धवव्योपशिरीपफलपुष्पजैः । II मातुलुङ्गाम्लगोमूत्रपिष्टञ्च सुरसाग्रजम् ॥ ६८ ॥
लेपे, स्वेदे सुखोष्णञ्च गोमयं हितमिष्यते ।
पाने क्षौद्रयुतं सर्पिः क्षीरं वा बहुशर्करम् ॥ ६ ९ ॥
२ मध्यविषवृश्चिकानां नामलक्षण. ३ उच्चारः = मलम् । ४ भोजनस्यावरोधः = भवेयुरित्यर्थः । १ शाखा हस्तपादकम् । कर्माणि निर्दिशति — रक्त इति । अनन्नाकाङ्क्षा! ५ तीक्ष्णविषवृश्चिकानां नामलक्षणकर्माणि दर्शययि - श्वेत इति । ' श्वेतस्तु सम-पीतोऽसौ रक्तेतरजपारुचिः ' इति शब्दाणवः । ६ पूर्ववत् = मध्यविषबृश्चिकवत्, जि-ह्वाशोफादि कुर्वन्तीत्यर्थः । ७ चकारेण त्रिपर्वाऽपि बोद्धया । ८ सर्पकोथात् = सर्पशटनादित्यर्थः । ९ सर्पवद्वेगानां प्रवृत्तिरिति सर्पवेगप्रवृत्तिः । १० खेभ्यः -स्रोतोभ्य इत्यर्थः । ११ उग्रमध्यविषवृश्चिकदष्टचिकित्सामभिदधाति - उग्रेति । १२ प्रतिसारयेत् = दुष्टरक्तप्रवर्तनार्थं घर्षयेदित्यर्थः । १३ प्रतिसारणद्रव्याण्येत्र वक्ति— रजनीति । रजनी = हरिद्रा । १४ सुरसाग्रजं = तुलसीबीजम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1042
पाठ पढ़ें पाठ छिपाएँ
८८४ Digitized by Arya Sam नुश्रुतसंहितायां e and eGangotri [ अ ० ८
दंश ' मन्दविषाणान्तु चक्रतैलेन सेचयेत् ।
विदारीगणसिद्धेन सुखोष्णेनाथवा पुनः ॥ ७० ॥
कुर्याच्चोत्कारिकोस्वेद विपन्नैरुपनाहयेत् ।
गुडोदकं वा सुहिमं चातुर्जातकसंयुतम् ॥ ७१ ॥
पानमस्मै प्रदातव्यं क्षीरं वा सगुडं हिमम् ।
शिखिकुक्कुट बहरिण सैन्धवं तैलसर्पिषी ॥ ७२ ॥
धूमो हन्ति प्रयुक्तेस्तु शीघ्रं वृश्चिकजं विषम् ।
कुसुम्भपुष्पं रजनी निशी वा कोद्रवं तृणम् ॥ ७३ ॥
एभिर्धृताक्तै पस्तु पायुदेशे प्रयोजितः ।
नाशयेदाशु कीटोत्थं वृश्चिकस्य च यद्विषम् ॥ ७४ ॥।
लूताविषं घोरतमं दुर्विज्ञेयतमं च तत् ।
दुश्चिकित्स्यतमं चापि भिषग्भिर्मन्दबुद्धिभिः ॥ ७१ ॥
सविषं निर्विषञ्चैतदित्येवं परिशङ्किते ।
विषघ्नमेव कर्त्तव्यर्मंविरोधि यदौषधम् ॥ ७६ ॥
अगदानां 40 हि संयोगो विषजुष्टस्य युज्यते ।
निर्विषे मानवे युक्तोऽगदः सम्पद्यतेऽसुखम्.. ॥ ७७ ॥
तस्मात् सर्वप्रयत्नेन ज्ञातव्यो विषनिश्चयः ।
अज्ञात्वा विषसद्भावं भिषग् व्यापादयेन्नरम् ॥ ७८ ॥
प्रोद्भिद्यमानस्तु " यथाऽङ्कुरेण न व्यक्तजातिः प्रविभाति वृक्षः । १ मन्दविषवृश्चिकदष्टचिकित्सां ब्रवीति -- दंशमिति । चक्रतैलेन = चक्रपीडित-तिलतैलेन । २ विदार्यादिगणसिद्धेन तैलेनेत्यर्थः । ३ उत्कारिका - लप्सिकाऽडका -रा । ४ चातुर्जातकैस्त्वगेलापत्रकनागकेशरैः संयुतमित्यर्थः । ५ ' पिच्छब नपु'-सके ' इत्यमरः । ६ रजनीनिशेति पदद्वयेन हरिद्राद्वयं ग्राह्यम् । कोद्रवं तृणं को. द्रवपलाल इत्यर्थः । ७ पायुदेशे गुदप्रदेशे । ८ लूताविषस्य कष्टसाध्यत्वं प्रतिपादयति- लुतेति । घोरतमं = कष्टसाध्यम् । ९ धातुभिः सह यन्न विरुध्यते तदविरोधि । १० अगदप्रयोगे विषनिश्चयज्ञानावश्य-कतामुपदिशति - अगदानामिति । ११ अमुखं दुःखमित्यर्थः । १२ व्यापादयेत् = मारयेत् । १३ लूताविषस्य दुर्विज्ञेयत्वमभिदधाति -प्रोद्भिद्यमान इति । यथाऽङ्कुरेण CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1043
पाठ पढ़ें पाठ छिपाएँ
अ ० ८ ] Digitized by Aryanada on Chennai and eGangotri ८८५ तद् दुरालक्ष्यतमं हि तासां विषं शरीरे प्रविकीर्णमात्रम् ॥७ ९ ॥
ईषत्सकण्डू प्रचलं सकोठमव्यक्तवर्णं प्रथमेऽहनि स्यात् ।
अन्तेषु शूनं ' परिनिम्नमध्यं प्रव्यक्तरूपञ्च दिने द्वितीये ॥ ८० ॥
त्र्यहेण तद्दर्शयतीर्हं रूपं विषं चतुर्थेऽहनि कोपमेति ॥
अतोऽधिकेऽह्नि प्रकरोति जन्तोविषप्रकोपप्रभवान् विकारान् ॥ ८१ ॥
षष्ठे दिने विप्रसृतं तु सर्वान् मर्मप्रदेशान् भृशमावृणोति ।
तत् सप्तमेऽत्यर्थपरीतगात्रं व्यापादयेन्मर्त्यमतिप्रवृद्धम् ॥ ८२ ॥
यास्तीक्ष्णचण्डोग्रविषा हि लूतास्ताः सप्तरात्रेण नरं निहन्युः ।
अतोऽधिकेनापि निहन्युरन्या यासां विषं मध्यमवीर्यमुक्तम् ॥ ८३ ॥
यासां कनीयो विषवीर्य्यमुक्तं ताः पक्षमात्रेण विनाशयन्ति ।
तस्मात् प्रयत्नं भिषगत्र कुर्य्यादा ' ' दशपाताद्विषघातियोगैः ॥ ८४ ॥
विषन्तु ' ' लालानखमूत्रदंारजः पुरीषैरथ चेन्द्रियेण । प्रोद्भिमानस्तु उत्पत्स्यमानस्तु वृक्षो न व्यक्ता प्रत्यक्षा जातिर्जन्म यस्य स प्रविभाती-त्यर्थः। १ प्रविकीर्णमात्रं = स्थितमात्रम्, श्रल्पविस्तृतमिति यावत् । २ लताविषस्य प्रथमादिसप्तदिनेषु पृथक् पृथग् लक्षणानि निरूपयति- ईषदिति । ईषत्सकण्डु = किञ्चित्कण्डूसहितम्, प्रचलं = प्रचलनस्वभावम्, | सको ठम् = ईषत्कोठयु · क्तम् । कोठस्तु - " वरटीद'टनिकाशः कण्डूमान् लोहितोऽस्रकफपित्तात् । क्षणिकोत्पा-दविनाश: कोठ इति निगद्यते तज्ज्ञैः ॥ ” इति तन्त्रान्तरे । ३ शूनं = शोथयुक्तम् । ४ वाग्भटे विशेष: - “ तृतीये सज्वरो रोमहर्षकृद्रक्तमण्डलः । शरावरूपस्तोदाढ्यो रोम-कूपेषु सस्रवः ॥ ” इति । ५ विप्रसृतं = प्रसरणयुक्तम् । ६ आवृणोति = व्याप्नोति । ७ अत्यर्थपरीतगात्रम् = अत्यन्तव्याप्तशरीरम् । : ८ तीक्ष्णमध्यमन्दविषाणां लूतानां कालावधिमभिधत्ते - या इति । तीक्ष्णखेन दाहपाकस्रावकरत्वेन चण्डत्वेनातिकोपकरत्वेन उग्रमसा विषं यासां तास्तीक्ष्णचण्डो-ग्रविषाः। ९ श्रधिकेनापि = प्राय एकादशरात्रेणापि । तथा च डल्हणोद्धृतालम्बाय-नः – “ लूतास्तीक्ष्णविषा हन्युः सप्ताष्टनवभिर्दिनैः । एकादशाहात्परतो विष यासां तु मध्यमम् ॥ ” इति । अष्टाङ्गहृदयेऽपि -- " तीक्ष्णमध्यावरत्वेन सा त्रिषा इन्त्युपेक्षिता । सप्ताहेन दशाहेन पक्षेण च परं क्रमात् ॥ ” इति । विषोपशमस्य कालाबधिमाह तत्रैव— “ एकविंशतिरात्रेण विषं शाम्यति सर्वथा " इति । १० आदंशपातात् = दंश-पातसमयमारभ्येत्यर्थः । ११ अधिष्ठानविशेषेण लूताविषस्य विशेषलक्षणानि निर्दिशति -- विषन्त्विति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1044
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj Equp ८८६ on Chennai and eGangotri [ अ ०८ सुश्रुतसंहिताया " सप्तप्रकारं विसृजन्ति लूतास्तदुग्रमध्यावर वीर्य्ययुक्तम् ॥ ८५ ॥
सकण्डुकोठं स्थिरमल्पमूलं लालाकृतं मन्दरुजं वदन्ति ।
शोफश्च कण्डूश्च पुलालिका च धूमायनं चैव नखाग्रदंशे ॥ ८६ ॥
दंशन्तु मूत्रेण सकृष्णमध्यं संरक्तपर्य्यन्तमवेहि दीर्णम् ।
दंष्ट्राभिरुग्रं कठिनं विवर्णं जानीहि दंशं स्थिर मण्डलञ्च ॥ ८७ ॥
रजः पुरीषेन्द्रियजं हि विद्धि स्फोटं विपक्वामलपीलुपाण्डुम् ।
एतावदेतत् समुदाहृतन्तु वक्ष्यामि लूताप्रभवं पुराणम् ॥ ८८ ॥
सामान्यतो दृष्टमसाध्यसाध्यं चिकित्सितञ्चापि यथाविशेषम् ॥ ८ ९ ॥
विश्वामित्रो नृपवरः कदाचिदृषिसत्तमम् ।
वशिष्ठं कोपयामास गत्वाऽऽश्रमपदं किल ॥ ९ २ ॥
कुपितस्य ' मुनेस्तस्य ललाटात् स्वेदबिन्दवः अपतन् दर्शनादेव रवैस्तत्समतेजसः ॥ ९ १ ॥ तृणे महर्षिणा ' ' लूने धेन्वर्थं सम्भृतेऽपि च ।
ततो जातास्त्विमा घोरा नानारूपा महाविषाः ।
अपकाराय वर्त्तन्ते नृपसाधनवाहने ॥ ९ २ ॥
यस्माल्लूनं तृणं प्राप्ता मुनेः प्रस्वेदविन्दवः । रजः = आतंवम्, इन्द्रियं = शुकम् ॥ चकाराद् श्वासेवापि बोद्धयम् । तथा च श्रष्टाङ्गः हृदये --— श्वासदंष्ट्राशकृन्मूत्रशुक्रलालानखार्तवैः । श्रष्टाभिरुद्वमत्येषा विषं वक्त्रैविंशेष • a: 11 " fa i १ सकण्डु कोठः = कण्डूसहित वरटीदष्टसदृशपिडका | कोठलक्षणम्-" वरटीदष्टनिकाशः कण्डूमान् लोहितोऽस्रकफपित्तात् । क्षणिकोत्पादविनाशः कोठ इति निगद्यते तज्ज्ञैः ॥ ” इति । २ पुलालिका = रोमहर्षः, धूमायनं गात्राणां धूमो -दमनमिबेत्यर्थः । ३ सरक्तपर्यन्त = सरक्तचतुष्पाश्र्व॑म् दो - विदीर्णमित्यर्थः । ४ विपक्वं च तदमलं निर्मलं पीलु तद्वत्पाण्डुस्तं विपक्कामलपीलुपाण्डुम् । ५ एताव-त् = इयत्प्रमाणम्, एतत् = सर्वलूताविषयकलालाऽऽदि सप्ताधिष्ठानम् । ६ लुतायाः प्रागुत्पत्तिं वर्णयति - वक्ष्यामीति । लूनाप्रभवं = लुनाऽऽद्युत्पत्ति. क'रणम्, पुराणं = पुरावृत्त मत्यर्थः । ७ बिशेषानतिक्रम्येति यथाविशेषम् । ८ मुनेः वसिष्ठस्य | ९ ‘ रवेस्तत्समतेजसः ' इत्यन्न ' ह्यधस्तात्तीक्ष्णवर्चसः ' इति पाठान्तरम् । १० महर्षिणा वसिष्ठेन लूने छिन्ने तृणे, अपि च धेन्वर्थं नन्दिनोभक्षणार्थमित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1045
पाठ पढ़ें पाठ छिपाएँ
अ ० ८ ] Digitized by Arya Sama Chennai and eGangotri तस्माल्लूतेति भाग्यन्ते सङ्ख्यया ताश्च षोडश ॥ ९ ३ ॥
कृच्छ्रसाध्यास्तथाऽसाध्या लूतास्तु द्विविधाः स्मृताः ।
तासामष्टौ कृच्छ्रसाध्या वयस्तावत्य एव तु ॥ ९ ४ ॥
त्रिमण्डला तथा श्वेता कपिला पीतिका तथा ।
आलमूत्रविषा रक्ता कसना चाष्टमी स्मृता ॥ ९ ५ ॥
ताभिर्दष्टे शिरोदुःखं कण्डूर्दंशे च वेदना । ८८७ भवन्ति च विशेषेण गदाः श्लैष्मिक वातिकाः ॥ ९ ६ ॥
सौवर्णको लाजवर्णा जालिन्येणीपदी तथा ।
कृष्णाऽग्निवर्णा काकाण्डा मालागुणाऽष्टमी तथा ॥ ९ ७ ॥
ताभिर्दष्टे दर्शकोथः प्रवृत्तिः क्षतजस्य च ।
ज्वरो दाहोऽतिसारश्च गदाः स्युश्च त्रिदोषजाः ॥ ९ ८ ॥
पिडका विविधाकारा मण्डलानि महान्ति च ।
महान्तो मृदवः शोफा रक्ताः श्यावाश्चलास्तथा ॥ ९९ ॥
सामान्यं सर्वलूतानामेतदादंशलक्षणम् । ' अर्थे कृते च शब्दौ द्वौ तादर्थ्ये परिकीर्तितौ ' । सम्भृते = सञ्चिते । १ अष्टाङ्गहृ-दये विशेषः— “ कीटेभ्यो दारुणतरा लूताः षोडशता जगुः । श्रष्टाविंशतिरित्येके ततोऽप्यन्ये तु भूयसीः । सहस्ररश्म्यनुचरा वदन्त्यन्ये सहस्रशः ॥ ” इति । ग्रन्थान्तरे लूनानामुत्पत्तिरन्यथा वर्णिता – “ अन्ये वदन्ति भुक्तस्य दुष्टस्यान्नस्य मूर्च्छनात्! सम्भवन्ति विषस्फोटा ये लूताकीटलक्षणम् । यथास्वं धारयन्तस्ते लूनाकीटाश्च कीर्तिताः ॥ ” इति । २ कृच्छ्रसाध्यासाध्यद्वयलूता दंशलक्षणमाख्याति — कृच्छ्रेति । “ कृच्छ्रसाध्या पृथग्दोषैरसाध्या निचयेन सा " इति वाग्भटः । ३ कृच्छ्रसाध्यानामष्टलूतानां नामानि निर्दिशति - त्रिमण्डलेति । ४ आलविषा मूत्रविषा चेति द्वे परिगणनीये । नामानि गणयति - सौवर्णिकेति । ६ दंशे दष्ट-५ असाध्यानामष्टलूतानां स्थाने कोथः पूतिप्रादुर्भाव इत्यर्थः । क्षतजस्य रुधिरस्य प्रवृत्तिः प्रवर्तनम् । रक्तप्रवृ · त्तिस्तु पक्कजम्बूनिभा बोद्धव्या । तदुक्तं वाग्भटे – “ पक्कजम्बूसवर्णं च दंशात्स्रवति शोणितम् ” इति । ७ विविधाकाराः = नानावर्णाः । तदाह - " श्वेताः पीताः सिव रक्ताः पिटिकाः श्वयथूद्भवाः " इति वाग्भटः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1046
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां ८८८ Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ८ विशेषलक्षणं तासां वक्ष्यामि सचिकित्सितम् ॥ १०० ॥
त्रिमण्डलाया दंशेऽसृक् कृष्णं स्रवेति दीर्यते ।
बाधिय्र्यं कलुषा दृष्टिस्तथा दाहश्च नेत्रयोः ॥ १०१ ॥
तत्रार्कमूलं रजनी नौकुली पृश्निपर्णिका ।
पानकर्मणि शस्यन्ते नस्याले पाञ्जनेषु च ॥ १०२ ॥
श्वेतायाः पिडका दंशे श्वेता कण्डूमती भवेत् ।
दाहमूर्च्छाज्वरवती विसर्पक्लेदरुक्करी ॥ १२३ ॥
तत्र चन्दनरास्नैलाहरेणुनलवञ्जुलाः ।
कुष्ठं लामज्जकं वक्रं नलदं चागदो हितः ॥ १०४ ॥
आर्दशे पिडका ताम्रा कपिलायाः स्थिरा भवेत् ।
शिरसो गौरवं दाहस्तिमिरं भ्रम एव च ॥ १०५ ॥
तत्र पद्मककुष्ठैलाकरञ्जककुभत्वचः ।
११“ स्थिराऽर्कपर्ण्यपामार्गदूर्वा ब्राह्मया विषापहाः ॥ १०३ ॥
" आदंशे पीतिकायास्तु पिडका पीतिका स्थिरा ।
भवेच्छर्दिव्वरः शूलं मूर्ध्नि रक्ते तथाऽक्षिणी " ॥ १०७ ॥
। तष्टाः कुटजोशी " पद्मकवञ्जुलाः ।
" शिरीषकिरिणहीशेलुकदम्बककुभत्वचः ॥ १०८ ॥
१ त्रिमण्डलाद लक्षण तच्चिकिरसां च वक्ति - विशेषेति । २ स्रवति क्षरति, दीर्यते = चर्मं विदीर्यते इत्यर्थः । ३ नाकुली = रास्ना | ४ चकारात्परि-घेकॆऽपि । ५ श्वेतादष्टलक्षणं तच्चिकित्सां च ब्रवीति - श्वेताया इति । ६ नलः = ' नरसल - नरकुल ' इति ख्यातः । वन्जुलः - जलवेतसः । ७ लामज्जकम् = - उशीर • वत्पीतच्छवितृणविशेषः, वक्रं = तगरम्, नलदम् = उशीरम् । कपिला दष्टल-क्षणं तच्चिकित्सां चाभिधत्ते - आदेश इति । ९ ककुभः = प्रर्जुनः, वस्तुतोऽर्जु • नककुभयोः परस्परं भेदमेवाङ्गीकुर्वन्ति तज्ज्ञाः ॥ १० स्थिरा = शालपर्णी, अर्काभानि तीक्ष्णानि पर्णानि सन्त्यस्या इत्यर्कपर्णी । ११ पीतिकादष्टलक्षणं तच्चिकित्सां चाख्याति - आदेश ] इति । १२ तथाऽक्षिणी रक्ते भवत इत्यर्थः । अत्र ' रक्ते स्यातां च लोचने ' इति पाठान्तरम् । १३ तुङ्गं = पद्मकेसरम्, पुन्नागफलमिति सुश्रुतार्थसन्दीपनम् । १४ किणिनो ब्रणान् जिहीते CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1047
पाठ पढ़ें पाठ छिपाएँ
अ ० ८ ] Digitized by Arya क्लब स्थान Chennai and eGangotri
रक्तमण्डनिभे दंशे पिडकाः सर्षपा इव ।
जायन्ते तालुशोषश्च दाह चालविषार्दिते ॥ १० ९ ॥
तत्र प्रियङ्गुहीबेरकुष्ठलामज्ज वैजुलाः ।
अगदः शतपुष्पा च सपिप्पलवाङ्कुराः ॥ ११० ॥
पूर्ति मूत्रविषादशो विसर्पी कृष्णशोणितः ।
कासश्वास व मी मूज्वरदाहसमन्वितः ॥ १११ ॥
मनःशिलाऽऽलैमधुककुष्ठचन्दनपद्मकैः ॥
मधुमिश्रैः सलामज्जैरगदस्तत्र कीर्त्तितः ॥ ११२ ॥
आपाण्डुपिडको दंशो दाहक्लेदसमन्वितः ।
रक्ताया रक्तपर्यन्तो विज्ञेयो रक्तसंयुतः ॥ ११३ ॥
कार्यस्तत्रागद्स्तोयं चन्दनोशीर पद्मकैः ।
तथैवार्जुनशेलुभ्यां त्वग्भिराम्रातकस्य च ॥ ११४ ॥
पिच्छिलं कसना दंशाद्रुधिरं शीतलं स्रवेत् ।
कासश्वासौ च तत्रोक्तं रक्तलूताचिकित्सितम् ॥ ११५ ॥
" पुरीषगन्धिरल्पासृक् कृष्णाया दंश एव तु ।
ज्वरसूच्छवमी दाहकासश्वाससमन्वितः ॥ ११६ ॥
" तत्रैलोवक्रसर्पाक्षीगन्धनाकुलिचन्दनैः । ८८ ९ महासुगन्धिसहितैः १२ प्रत्याख्यायागदः स्मृतः ॥ ११७ ॥
इति किणिही अपामार्गः, शेलुः = श्लेष्मातकः । २ आालविषादष्टलक्षणं तच्चिकित्सां चाभिदधाति - रक्तेति । २ वन्जुलः = जलवेतसः । ३ मूत्रविषादष्टलक्षणं तच्चिकित्सां चाख्याति — पूतिरिति । पूतिः = शटनम् । ४ श्रलं - हरितालम् । ५ रक्तादष्टलक्षणं तच्चिकित्सां च दर्शयति-- आपाण्डुविति । ६ तोयं = ' नेत्र वाला ' इति ख्यातम् । ७ श्राम्रातकस्य = कपीतनस्य, ' अमड़ा ' इति ख्यातस्येत्यर्थः । ८ कसनादष्ट लक्षणं तच्चिकित्सां च निरूपयति- पिच्छिलमिति । ९ रक्तलूताचि • कित्सितं - तोय चन्दनादिका चिकित्सेत्यर्थः । १० असाध्यत्वेन प्रतिपादितेषु सौव. र्णिकादिष्वष्टसु मध्ये कृष्णाऽग्निवर्णे कदाचित कृच्छ्रेण सिद्धयत इति क्रमं हित्वा ग्राक् कृष्णादष्टलक्षणं तच्चिकित्सां चोपदिशति - पुरीषेति । ११ वक्रं = तगरम्, सर्पाक्षी = लोहितपुष्पा शङ्खपुष्पीभेदः, गन्धनाकुलिः = रास्ना । १२ महासुगन्धिः दुन्दुभिस्वनीये " चन्दनागुरुणी कुष्ठम् " इत्यादिना प्रतिपादित-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1048
पाठ पढ़ें पाठ छिपाएँ
८ ९ ० Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया [ श्र ० ८
' दंशे दाहोऽग्निवर्णायाः स्रावोऽत्यर्थं ज्वरस्तथा ।
चोषकण्डूरोमहर्षा दाहविस्फोटसंयुतः ॥ ११८ ॥
कृष्णाप्रशेमनं चात्र प्रत्याख्याय प्रयोजयेत् ।
सारिवोशीरयष्ट्याह्वचन्दनोत्पलपद्मकम् ॥ ११ ९ ॥
सर्वासामेव युञ्जीत विषे श्लेष्मातकत्वचम् ।
भिषक् सर्वप्रकारेण तथा चाक्षीवपिप्पलम् ॥ १२० ॥
कृच्छ्रसाध्यविषा ह्यष्टौ प्रोक्ता द्वे च यदृच्छया ।
अवार्य्यविषवीय्र्याणां लक्षणानि निबोध मे ॥ १२१ ॥
ध्यामः सौवर्णिकादंशः सफेनो मत्स्यगन्धकः ।
श्वासः कासो ज्वरस्तृष्णा मूर्च्छा चात्र सुदारुणा ॥। १२२ ॥
आदंशे लाजवर्णाया ध्यामं पूति स्रवेदसृक् ।
दाहो छतिसारश्च शिरोदुःखञ्च जायते ॥ १२३ ॥
दशस्तु जालिन्या राजिमानवदीयते । स्तत्सहितैरित्यर्थः । १ श्रग्निवर्णादष्टलक्षणं तच्चिकित्सां चाचष्टे - दंश इति । २ कृष्णाप्रशमनं = कृष्णलूतावच्चिकित्सितम् " प्रत्याख्याय = " यावदुच्छ्वसिति प्राणी तावत्कुर्यात्प्रतिक्रियाम् । कदाचिद्दैवयोगेन दृष्टारिष्टोऽपि जीवति ॥ " इत्यादिकमुप-दिश्येति भावः । ३ पूर्वोक्तानां दंशलूतानां विशिष्टं चिकित्सितमुक्त्वाऽधुना सामान्यमपि दर्शयति-सर्वासामिति । ४ अक्षीवाद् महानिम्बाद् शोभाञ्जनाद्वा जातस्तमञ्जीवपिप्पलम् । ' अक्षीवं वशिरे, शिग्रौ नाऽमत्ते पुनरन्यवत् ' इति मेदिनी । तन्त्रान्तरे -- " लुनाविषेषु सर्वेषु पाननस्याञ्जनादिना । प्रयोज्यः पिप्पलोऽक्षीवाज्जातः शेलुत्वचोऽथवा ॥ ” इति । अत्र हाराणचन्द्रस्तु — ‘ तथा च क्षीरपिप्पलम् ' इति पाठं मत्वा क्षीरपिप्पलं, पिप्पलक्षी-रमश्वत्थक्षीरमित्येतदिति व्याख्याति । ५ अवशिष्टानामसाध्यविषाणां लूतानां दष्ट-लक्षणानि निरूपयति — कृच्छ्रेति । ६ श्रवार्यमप्रतिहतं विषस्य वीर्यं शक्तिर्यासां तास्तासाम्, अवशिष्टानां षट्सङ्ख्यकानामित्यर्थः । ७ सौवर्णिकादष्टलक्षणमाचष्टे - ध्याम इति । ध्यामः = दग्धेष्टकादिसमवर्णः, ' ध्यामं दमनके गन्धतृणे श्यामेऽभिधेयवत् ' इति विश्वः । लाजवर्णादष्टलक्षणं ब्रवीति — आदंश इति । पृति = दुर्गन्धयुक्तम् । ९ जालिनीदृष्टलक्षणमाइ - घोर CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1049
पाठ पढ़ें पाठ छिपाएँ
अ ० ८ ] Digitized by Arya Samar ghennai and eGangotri ८ ९ १ स्तम्भ्ः श्वासस्त॑मोवृद्धिस्तालुश च जायते ॥ १२४ ॥
एणीद्यास्तथा देशा भवेत् कृष्णतिलाकृतिः ।
तृष्णामूर्च्छाज्वरच्छर्दिका सश्वाससमन्वितः ॥ १२५ ॥
दश: काकाण्डिकादण्टे पाण्डुरक्तोऽतिवेदनः ।
तृण्मूर्च्छाश्वासहृद्रोगहिक्का कासाः स्युरुच्छ्रितः ॥ १२६ ॥
मालागुणादेशो धूमगन्धोऽतिवेदनः ।
बहुधा च विशीर्येत दाहमूर्च्छाज्वरान्वितः ॥ १२७ ॥
असाध्यास्वप्यभिहितं प्रत्याख्यायाशु योजयेत् ।
दोषोच्द्रार्यविशेषेण दाहच्छेदविवर्जितम् ॥ १२८ ॥
सायाभिराभिर्लताभिर्दष्टमात्रस्य देहिनः ।
वृद्धिपत्रेण मतिमान् सम्यगादंशमुद्धरेत् ॥ १२ ९ ॥
अमणि विधानज्ञो वर्जितस्य ज्वरादिभिः ।
दंशस्योत्कर्त्तनं कुर्यादल्पश्वयथुकस्य च ॥ १३० ॥
मधुसैन्धवसंयुक्रगदैर्लेपयेत्ततः ।
प्रियङ्गुरजनीकुष्ठसमङ्गा " मधुकैस्तथा ॥ १३१ ॥
सारिवां मधुकं द्राक्षां १२ पयस्यां क्षीरमोरटम् ।
विदारीगोक्षुरक्षौद्रमधुकं पाययेत वा ॥ १३२ ॥
इति । राजी रेखा । १ तमोवृद्धिः = नेत्राग्रे वारं वारं तमोवर्द्धनम् । २ एणी. पदोदष्टलक्षणमभिदधाति — एणीति ॥ क्रमागतयोः कृष्णाग्निवर्णयोर्लक्षणादिकं प्राक् प्रदर्शितम् । ३ काकाण्डादष्टलक्षणमभिधत्ते - दंश इति । ४ उच्छ्रिताः = प्रवृद्वाः । ५ मा लागुणादष्टलक्षणं वक्ति - रक्त इति । ६ विशीर्येत == शीर्णो भवेदित्यर्थः । ७ अ साध्यानामपि लूतानां प्रत्याख्याय चिकित्सा कार्येत्युरदिशति - असाध्या स्विति । श्रसाध्यासु = मोवर्णिकादिषु । - दोषोच्छ्रायविशेषेण = वातादिदोषवर्द्धनानुसारेणे-त्यर्थः ॥ ९ कृच्छ्रसाध्यानां तात्कालिकं चिकित्सितमुपदिशति - साध्याभिरिति अष्टाङ्गहृदये विशेषः— " अथाशु लूतादष्टस्य शस्त्रेणादंशमुद्धरेत् । दहेच्च जाम्बवौष्ठा-“ चैर्न तु पित्तोत्तरं दहेत् ॥ ” इति । १० अगदैः = दुन्दुभिस्वनी योक्तेर्महासुगन्ध्यादिभिः, ततः = - छेदानन्तरम् । ११ समङ्गा = वरादक्रान्ता । १२ पयस्था = अर्कपुष्पी, क्षीरका-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1050
पाठ पढ़ें पाठ छिपाएँ
८ ९ २ Digitized by Arya Samai Foundation Chennai and eGangotri " सुश्रुत संहिताया " क्षीरिणां त्वक्कषायेण सुशीतेन च सेचयेत् । [ अ ० ८ उपद्रवान् यथादोषं विषैन्नैरेव साधयेत् ॥ १३३ ॥
नस्यौञ्जनाभ्यञ्जनपानधूमं तथाऽवपीडं कवलग्रहञ्च ।
संशोधनञ्चोभयतः प्रगाढं कुर्यात्सिरामोक्षणमेव चात्र ॥ १३४ ॥
कीटदव्रणान् सर्वानहिदष्टव्रणानि च ।
आदाहपाकात्तान् सर्वाञ्चिकित्सेद् दुष्टवद्भिषक् ॥ १३५ ॥
विनिर्वृत्ते ततः शोफे कर्णिकापातनं हितम् ।
निम्बपन्नं त्रिवृद्दन्ती कुसुम्भं कुसुमं मधु ॥ १३६ ॥
गुग्गुलुः सैन्धवं किंण्वं वर्चः पारावतस्य च ।
विषवृद्धिकरञ्चान्नं १० " हित्वा सम्भोजनं हितम् ॥ १३७ ॥
विषेभ्यैः खलु सर्वेभ्यः कर्णिकामरुजां स्थिराम् ।
प्रच्छयित्वा मधून्मिश्रैः " शोधनीयैरुपाचरेत् ॥ १३८ ॥
सप्तषष्टस्य " कीटानां शतस्यैतद्विभागशः । कोलीति दाराणचन्द्रः । क्षीरमोरटः दीर्घमूलो लताप्रभेदः । १ क्षीरिणां = न्यग्रो-धोदुम्बराश्वत्थपारिषप्लक्षपादपानामित्यर्थः । २ विषघ्नैरगदैरित्यर्थः । 1 ३ लूताषु दशविधमुपक्रममाख्याति - नस्येति । ४ उभयतः संशोधनं = बम · नविरेचनाख्यम् । ५ " सर्वतोऽपहरेद्रक्तं शृङ्गाद्यैः सिरयाऽपि च " इति वाग्भटः । ६ कीटदष्टव्रणादिषु दुष्टव्रणव च्चिकित्सार्थमुपदिशति - कीटेति । ७ दुष्टवत् = दुष्ट-व्रणवदित्यर्थः । ८ निवृत्तदाहादौ व्रणे विषोत्पन्नकणिकायाश्चिकित्सामाचष्टे-विनिवृत्त इति । ९ किण्वं = सुराबीजम् । पारावतस्य वर्चः = कपोतविट् । वाग्भटे— “ निवृत्ते | दाहशोफादौ कणिकां पातयेद् व्रणात् । कुसुम्भपुष्पं गोदन्तः-स्वर्णक्षीरी कपोतविट् ॥ त्रिवृता सैन्धवं दन्ती कर्णिकापातनं तथा । मूलमुत्तरवारुण्या वंशनिर्लेखसंयुतम् ॥ ” इति । १० तिलकुलत्थाद्यन्नमित्यर्थः । . ११ कफवातोत्थकर्णिकाचिकित्सामाचष्टे - विषेभ्य इति । १२ दन्तीमूलमदन-फलकल्कादिशोधनीयैरित्यर्थः । १३ कीटकल्पमुपसंहरन्नाह - सप्तेति 1 । सप्ताधिका षष्टिः सप्तषष्टिस्ततोऽर्श श्रादिभ्योऽच् सप्तषष्टः, सप्तषष्टस्य शतस्य सप्तषष्ट्यधिकशत-स्येत्यर्थः । यथा — वायव्याः कीटा अष्टादश, श्राग्नेयाश्चतुर्विंशाः, सौम्यास्त्रयोदश, सान्निपातिका द्वादश, कणभाश्चत्वारः, गोधेरकाः पश्र्च, षट्, शतपद्येोऽष्टौ गलगोल्यः मण्डूका अष्टौ, विश्वम्भरा एका, श्रहिण्डुका एका, कण्डूमका एका, शूकवृन्ता एका, CC - 0. Gurukul Kangri Collection, Haridwar