सुश्रुत संहिता चौखम्बा — पृष्ठ 1041–1050

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1041–1050

पृष्ठ 1041

सुश्रुत संहिता चौखम्बा, पृष्ठ 1041 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ८ ] Digitized by Aryah Chennai and eGangotri ८८३ शाखादष्टे वेदना चोर्ध्वमेति दाहस्वेदौ दंशशोफो ज्वरश्च ॥ ६० ॥

रक्तः पीतः कापिलेनोदरेण सर्वे धूम्राः पर्वभिश्च त्रिभिः स्युः ॥ ३१ ॥

एते मूत्रोच्चारपृत्यण्डजाता मध्या ज्ञेयास्त्रिप्रकारोरगाणाम् ।

यस्यैतेषामन्वयाद्यः प्रसूतो दोषोत्पत्ति तत्स्वरूपां स कुर्यात् ॥ ६२ ॥

जिह्वाशोफो भोजनस्यावरोधो मूर्च्छा चोप्रा मध्यवीर्याभिदष्टे ।

श्वेतैश्वित्रः श्यामलो लोहिताभो रक्तः श्वेतो रक्तनोलोदरौ च ॥ ६३ ॥

पीतोऽरक्तो नीलपीतोऽपरस्तु रक्तो नीलो नीलशुक्लस्तथा च ।

रक्तो बभ्रुः पूर्वर्वच्चैकपर्वा यश्चापर्वा पर्वणी द्वे च यस्य ॥ ६४ ॥

नानारूपा वर्णतश्चापि घोरा ज्ञेयाश्चैते वृश्चिकाः प्राणचौराः ।

जन्मैतेषां सर्पकोर्थात् प्रदिष्टं देहेभ्यो वा वातितानां त्रिषेण ॥ ६५ ॥

एभिर्दष्टे सर्पवेर्गप्रवृत्तिः स्फोटोत्पत्तिर्भ्रान्तिदाहौ ज्वरश्च । खेभ्यः ँ कृष्णं शोणितं याति तीव्रं तस्मात् प्राणैस्त्यज्यते शीघ्रमेव ६६

" उग्रमध्यविषैर्दष्टं चिकित्सेत् सर्पदष्टवत् ।

आदंशं स्वेदितं चूर्णैः प्रच्छितं " प्रतिसारयेत् ॥ ६७ ॥

" रजनीसैन्धवव्योपशिरीपफलपुष्पजैः । II मातुलुङ्गाम्लगोमूत्रपिष्टञ्च सुरसाग्रजम् ॥ ६८ ॥

लेपे, स्वेदे सुखोष्णञ्च गोमयं हितमिष्यते ।

पाने क्षौद्रयुतं सर्पिः क्षीरं वा बहुशर्करम् ॥ ६ ९ ॥

२ मध्यविषवृश्चिकानां नामलक्षण. ३ उच्चारः = मलम् । ४ भोजनस्यावरोधः = भवेयुरित्यर्थः । १ शाखा हस्तपादकम् । कर्माणि निर्दिशति — रक्त इति । अनन्नाकाङ्क्षा! ५ तीक्ष्णविषवृश्चिकानां नामलक्षणकर्माणि दर्शययि - श्वेत इति । ' श्वेतस्तु सम-पीतोऽसौ रक्तेतरजपारुचिः ' इति शब्दाणवः । ६ पूर्ववत् = मध्यविषबृश्चिकवत्, जि-ह्वाशोफादि कुर्वन्तीत्यर्थः । ७ चकारेण त्रिपर्वाऽपि बोद्धया । ८ सर्पकोथात् = सर्पशटनादित्यर्थः । ९ सर्पवद्वेगानां प्रवृत्तिरिति सर्पवेगप्रवृत्तिः । १० खेभ्यः -स्रोतोभ्य इत्यर्थः । ११ उग्रमध्यविषवृश्चिकदष्टचिकित्सामभिदधाति - उग्रेति । १२ प्रतिसारयेत् = दुष्टरक्तप्रवर्तनार्थं घर्षयेदित्यर्थः । १३ प्रतिसारणद्रव्याण्येत्र वक्ति— रजनीति । रजनी = हरिद्रा । १४ सुरसाग्रजं = तुलसीबीजम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1042

सुश्रुत संहिता चौखम्बा, पृष्ठ 1042 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८८४ Digitized by Arya Sam नुश्रुतसंहितायां e and eGangotri [ अ ० ८

दंश ' मन्दविषाणान्तु चक्रतैलेन सेचयेत् ।

विदारीगणसिद्धेन सुखोष्णेनाथवा पुनः ॥ ७० ॥

कुर्याच्चोत्कारिकोस्वेद विपन्नैरुपनाहयेत् ।

गुडोदकं वा सुहिमं चातुर्जातकसंयुतम् ॥ ७१ ॥

पानमस्मै प्रदातव्यं क्षीरं वा सगुडं हिमम् ।

शिखिकुक्कुट बहरिण सैन्धवं तैलसर्पिषी ॥ ७२ ॥

धूमो हन्ति प्रयुक्तेस्तु शीघ्रं वृश्चिकजं विषम् ।

कुसुम्भपुष्पं रजनी निशी वा कोद्रवं तृणम् ॥ ७३ ॥

एभिर्धृताक्तै पस्तु पायुदेशे प्रयोजितः ।

नाशयेदाशु कीटोत्थं वृश्चिकस्य च यद्विषम् ॥ ७४ ॥।

लूताविषं घोरतमं दुर्विज्ञेयतमं च तत् ।

दुश्चिकित्स्यतमं चापि भिषग्भिर्मन्दबुद्धिभिः ॥ ७१ ॥

सविषं निर्विषञ्चैतदित्येवं परिशङ्किते ।

विषघ्नमेव कर्त्तव्यर्मंविरोधि यदौषधम् ॥ ७६ ॥

अगदानां 40 हि संयोगो विषजुष्टस्य युज्यते ।

निर्विषे मानवे युक्तोऽगदः सम्पद्यतेऽसुखम्.. ॥ ७७ ॥

तस्मात् सर्वप्रयत्नेन ज्ञातव्यो विषनिश्चयः ।

अज्ञात्वा विषसद्भावं भिषग् व्यापादयेन्नरम् ॥ ७८ ॥

प्रोद्भिद्यमानस्तु " यथाऽङ्कुरेण न व्यक्तजातिः प्रविभाति वृक्षः । १ मन्दविषवृश्चिकदष्टचिकित्सां ब्रवीति -- दंशमिति । चक्रतैलेन = चक्रपीडित-तिलतैलेन । २ विदार्यादिगणसिद्धेन तैलेनेत्यर्थः । ३ उत्कारिका - लप्सिकाऽडका -रा । ४ चातुर्जातकैस्त्वगेलापत्रकनागकेशरैः संयुतमित्यर्थः । ५ ' पिच्छब नपु'-सके ' इत्यमरः । ६ रजनीनिशेति पदद्वयेन हरिद्राद्वयं ग्राह्यम् । कोद्रवं तृणं को. द्रवपलाल इत्यर्थः । ७ पायुदेशे गुदप्रदेशे । ८ लूताविषस्य कष्टसाध्यत्वं प्रतिपादयति- लुतेति । घोरतमं = कष्टसाध्यम् । ९ धातुभिः सह यन्न विरुध्यते तदविरोधि । १० अगदप्रयोगे विषनिश्चयज्ञानावश्य-कतामुपदिशति - अगदानामिति । ११ अमुखं दुःखमित्यर्थः । १२ व्यापादयेत् = मारयेत् । १३ लूताविषस्य दुर्विज्ञेयत्वमभिदधाति -प्रोद्भिद्यमान इति । यथाऽङ्कुरेण CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1043

सुश्रुत संहिता चौखम्बा, पृष्ठ 1043 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ८ ] Digitized by Aryanada on Chennai and eGangotri ८८५ तद् दुरालक्ष्यतमं हि तासां विषं शरीरे प्रविकीर्णमात्रम् ॥७ ९ ॥

ईषत्सकण्डू प्रचलं सकोठमव्यक्तवर्णं प्रथमेऽहनि स्यात् ।

अन्तेषु शूनं ' परिनिम्नमध्यं प्रव्यक्तरूपञ्च दिने द्वितीये ॥ ८० ॥

त्र्यहेण तद्दर्शयतीर्हं रूपं विषं चतुर्थेऽहनि कोपमेति ॥

अतोऽधिकेऽह्नि प्रकरोति जन्तोविषप्रकोपप्रभवान् विकारान् ॥ ८१ ॥

षष्ठे दिने विप्रसृतं तु सर्वान् मर्मप्रदेशान् भृशमावृणोति ।

तत् सप्तमेऽत्यर्थपरीतगात्रं व्यापादयेन्मर्त्यमतिप्रवृद्धम् ॥ ८२ ॥

यास्तीक्ष्णचण्डोग्रविषा हि लूतास्ताः सप्तरात्रेण नरं निहन्युः ।

अतोऽधिकेनापि निहन्युरन्या यासां विषं मध्यमवीर्यमुक्तम् ॥ ८३ ॥

यासां कनीयो विषवीर्य्यमुक्तं ताः पक्षमात्रेण विनाशयन्ति ।

तस्मात् प्रयत्नं भिषगत्र कुर्य्यादा ' ' दशपाताद्विषघातियोगैः ॥ ८४ ॥

विषन्तु ' ' लालानखमूत्रदंारजः पुरीषैरथ चेन्द्रियेण । प्रोद्भिमानस्तु उत्पत्स्यमानस्तु वृक्षो न व्यक्ता प्रत्यक्षा जातिर्जन्म यस्य स प्रविभाती-त्यर्थः। १ प्रविकीर्णमात्रं = स्थितमात्रम्, श्रल्पविस्तृतमिति यावत् । २ लताविषस्य प्रथमादिसप्तदिनेषु पृथक् पृथग् लक्षणानि निरूपयति- ईषदिति । ईषत्सकण्डु = किञ्चित्कण्डूसहितम्, प्रचलं = प्रचलनस्वभावम्, | सको ठम् = ईषत्कोठयु · क्तम् । कोठस्तु - " वरटीद'टनिकाशः कण्डूमान् लोहितोऽस्रकफपित्तात् । क्षणिकोत्पा-दविनाश: कोठ इति निगद्यते तज्ज्ञैः ॥ ” इति तन्त्रान्तरे । ३ शूनं = शोथयुक्तम् । ४ वाग्भटे विशेष: - “ तृतीये सज्वरो रोमहर्षकृद्रक्तमण्डलः । शरावरूपस्तोदाढ्यो रोम-कूपेषु सस्रवः ॥ ” इति । ५ विप्रसृतं = प्रसरणयुक्तम् । ६ आवृणोति = व्याप्नोति । ७ अत्यर्थपरीतगात्रम् = अत्यन्तव्याप्तशरीरम् । : ८ तीक्ष्णमध्यमन्दविषाणां लूतानां कालावधिमभिधत्ते - या इति । तीक्ष्णखेन दाहपाकस्रावकरत्वेन चण्डत्वेनातिकोपकरत्वेन उग्रमसा विषं यासां तास्तीक्ष्णचण्डो-ग्रविषाः। ९ श्रधिकेनापि = प्राय एकादशरात्रेणापि । तथा च डल्हणोद्धृतालम्बाय-नः – “ लूतास्तीक्ष्णविषा हन्युः सप्ताष्टनवभिर्दिनैः । एकादशाहात्परतो विष यासां तु मध्यमम् ॥ ” इति । अष्टाङ्गहृदयेऽपि -- " तीक्ष्णमध्यावरत्वेन सा त्रिषा इन्त्युपेक्षिता । सप्ताहेन दशाहेन पक्षेण च परं क्रमात् ॥ ” इति । विषोपशमस्य कालाबधिमाह तत्रैव— “ एकविंशतिरात्रेण विषं शाम्यति सर्वथा " इति । १० आदंशपातात् = दंश-पातसमयमारभ्येत्यर्थः । ११ अधिष्ठानविशेषेण लूताविषस्य विशेषलक्षणानि निर्दिशति -- विषन्त्विति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1044

सुश्रुत संहिता चौखम्बा, पृष्ठ 1044 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj Equp ८८६ on Chennai and eGangotri [ अ ०८ सुश्रुतसंहिताया " सप्तप्रकारं विसृजन्ति लूतास्तदुग्रमध्यावर वीर्य्ययुक्तम् ॥ ८५ ॥

सकण्डुकोठं स्थिरमल्पमूलं लालाकृतं मन्दरुजं वदन्ति ।

शोफश्च कण्डूश्च पुलालिका च धूमायनं चैव नखाग्रदंशे ॥ ८६ ॥

दंशन्तु मूत्रेण सकृष्णमध्यं संरक्तपर्य्यन्तमवेहि दीर्णम् ।

दंष्ट्राभिरुग्रं कठिनं विवर्णं जानीहि दंशं स्थिर मण्डलञ्च ॥ ८७ ॥

रजः पुरीषेन्द्रियजं हि विद्धि स्फोटं विपक्वामलपीलुपाण्डुम् ।

एतावदेतत् समुदाहृतन्तु वक्ष्यामि लूताप्रभवं पुराणम् ॥ ८८ ॥

सामान्यतो दृष्टमसाध्यसाध्यं चिकित्सितञ्चापि यथाविशेषम् ॥ ८ ९ ॥

विश्वामित्रो नृपवरः कदाचिदृषिसत्तमम् ।

वशिष्ठं कोपयामास गत्वाऽऽश्रमपदं किल ॥ ९ २ ॥

कुपितस्य ' मुनेस्तस्य ललाटात् स्वेदबिन्दवः अपतन् दर्शनादेव रवैस्तत्समतेजसः ॥ ९ १ ॥ तृणे महर्षिणा ' ' लूने धेन्वर्थं सम्भृतेऽपि च ।

ततो जातास्त्विमा घोरा नानारूपा महाविषाः ।

अपकाराय वर्त्तन्ते नृपसाधनवाहने ॥ ९ २ ॥

यस्माल्लूनं तृणं प्राप्ता मुनेः प्रस्वेदविन्दवः । रजः = आतंवम्, इन्द्रियं = शुकम् ॥ चकाराद् श्वासेवापि बोद्धयम् । तथा च श्रष्टाङ्गः हृदये --— श्वासदंष्ट्राशकृन्मूत्रशुक्रलालानखार्तवैः । श्रष्टाभिरुद्वमत्येषा विषं वक्त्रैविंशेष • a: 11 " fa i १ सकण्डु कोठः = कण्डूसहित वरटीदष्टसदृशपिडका | कोठलक्षणम्-" वरटीदष्टनिकाशः कण्डूमान् लोहितोऽस्रकफपित्तात् । क्षणिकोत्पादविनाशः कोठ इति निगद्यते तज्ज्ञैः ॥ ” इति । २ पुलालिका = रोमहर्षः, धूमायनं गात्राणां धूमो -दमनमिबेत्यर्थः । ३ सरक्तपर्यन्त = सरक्तचतुष्पाश्र्व॑म् दो - विदीर्णमित्यर्थः । ४ विपक्वं च तदमलं निर्मलं पीलु तद्वत्पाण्डुस्तं विपक्कामलपीलुपाण्डुम् । ५ एताव-त् = इयत्प्रमाणम्, एतत् = सर्वलूताविषयकलालाऽऽदि सप्ताधिष्ठानम् । ६ लुतायाः प्रागुत्पत्तिं वर्णयति - वक्ष्यामीति । लूनाप्रभवं = लुनाऽऽद्युत्पत्ति. क'रणम्, पुराणं = पुरावृत्त मत्यर्थः । ७ बिशेषानतिक्रम्येति यथाविशेषम् । ८ मुनेः वसिष्ठस्य | ९ ‘ रवेस्तत्समतेजसः ' इत्यन्न ' ह्यधस्तात्तीक्ष्णवर्चसः ' इति पाठान्तरम् । १० महर्षिणा वसिष्ठेन लूने छिन्ने तृणे, अपि च धेन्वर्थं नन्दिनोभक्षणार्थमित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1045

सुश्रुत संहिता चौखम्बा, पृष्ठ 1045 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ८ ] Digitized by Arya Sama Chennai and eGangotri तस्माल्लूतेति भाग्यन्ते सङ्ख्यया ताश्च षोडश ॥ ९ ३ ॥

कृच्छ्रसाध्यास्तथाऽसाध्या लूतास्तु द्विविधाः स्मृताः ।

तासामष्टौ कृच्छ्रसाध्या वयस्तावत्य एव तु ॥ ९ ४ ॥

त्रिमण्डला तथा श्वेता कपिला पीतिका तथा ।

आलमूत्रविषा रक्ता कसना चाष्टमी स्मृता ॥ ९ ५ ॥

ताभिर्दष्टे शिरोदुःखं कण्डूर्दंशे च वेदना । ८८७ भवन्ति च विशेषेण गदाः श्लैष्मिक वातिकाः ॥ ९ ६ ॥

सौवर्णको लाजवर्णा जालिन्येणीपदी तथा ।

कृष्णाऽग्निवर्णा काकाण्डा मालागुणाऽष्टमी तथा ॥ ९ ७ ॥

ताभिर्दष्टे दर्शकोथः प्रवृत्तिः क्षतजस्य च ।

ज्वरो दाहोऽतिसारश्च गदाः स्युश्च त्रिदोषजाः ॥ ९ ८ ॥

पिडका विविधाकारा मण्डलानि महान्ति च ।

महान्तो मृदवः शोफा रक्ताः श्यावाश्चलास्तथा ॥ ९९ ॥

सामान्यं सर्वलूतानामेतदादंशलक्षणम् । ' अर्थे कृते च शब्दौ द्वौ तादर्थ्ये परिकीर्तितौ ' । सम्भृते = सञ्चिते । १ अष्टाङ्गहृ-दये विशेषः— “ कीटेभ्यो दारुणतरा लूताः षोडशता जगुः । श्रष्टाविंशतिरित्येके ततोऽप्यन्ये तु भूयसीः । सहस्ररश्म्यनुचरा वदन्त्यन्ये सहस्रशः ॥ ” इति । ग्रन्थान्तरे लूनानामुत्पत्तिरन्यथा वर्णिता – “ अन्ये वदन्ति भुक्तस्य दुष्टस्यान्नस्य मूर्च्छनात्! सम्भवन्ति विषस्फोटा ये लूताकीटलक्षणम् । यथास्वं धारयन्तस्ते लूनाकीटाश्च कीर्तिताः ॥ ” इति । २ कृच्छ्रसाध्यासाध्यद्वयलूता दंशलक्षणमाख्याति — कृच्छ्रेति । “ कृच्छ्रसाध्या पृथग्दोषैरसाध्या निचयेन सा " इति वाग्भटः । ३ कृच्छ्रसाध्यानामष्टलूतानां नामानि निर्दिशति - त्रिमण्डलेति । ४ आलविषा मूत्रविषा चेति द्वे परिगणनीये । नामानि गणयति - सौवर्णिकेति । ६ दंशे दष्ट-५ असाध्यानामष्टलूतानां स्थाने कोथः पूतिप्रादुर्भाव इत्यर्थः । क्षतजस्य रुधिरस्य प्रवृत्तिः प्रवर्तनम् । रक्तप्रवृ · त्तिस्तु पक्कजम्बूनिभा बोद्धव्या । तदुक्तं वाग्भटे – “ पक्कजम्बूसवर्णं च दंशात्स्रवति शोणितम् ” इति । ७ विविधाकाराः = नानावर्णाः । तदाह - " श्वेताः पीताः सिव रक्ताः पिटिकाः श्वयथूद्भवाः " इति वाग्भटः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1046

सुश्रुत संहिता चौखम्बा, पृष्ठ 1046 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां ८८८ Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ८ विशेषलक्षणं तासां वक्ष्यामि सचिकित्सितम् ॥ १०० ॥

त्रिमण्डलाया दंशेऽसृक् कृष्णं स्रवेति दीर्यते ।

बाधिय्र्यं कलुषा दृष्टिस्तथा दाहश्च नेत्रयोः ॥ १०१ ॥

तत्रार्कमूलं रजनी नौकुली पृश्निपर्णिका ।

पानकर्मणि शस्यन्ते नस्याले पाञ्जनेषु च ॥ १०२ ॥

श्वेतायाः पिडका दंशे श्वेता कण्डूमती भवेत् ।

दाहमूर्च्छाज्वरवती विसर्पक्लेदरुक्करी ॥ १२३ ॥

तत्र चन्दनरास्नैलाहरेणुनलवञ्जुलाः ।

कुष्ठं लामज्जकं वक्रं नलदं चागदो हितः ॥ १०४ ॥

आर्दशे पिडका ताम्रा कपिलायाः स्थिरा भवेत् ।

शिरसो गौरवं दाहस्तिमिरं भ्रम एव च ॥ १०५ ॥

तत्र पद्मककुष्ठैलाकरञ्जककुभत्वचः ।

११“ स्थिराऽर्कपर्ण्यपामार्गदूर्वा ब्राह्मया विषापहाः ॥ १०३ ॥

" आदंशे पीतिकायास्तु पिडका पीतिका स्थिरा ।

भवेच्छर्दिव्वरः शूलं मूर्ध्नि रक्ते तथाऽक्षिणी " ॥ १०७ ॥

। तष्टाः कुटजोशी " पद्मकवञ्जुलाः ।

" शिरीषकिरिणहीशेलुकदम्बककुभत्वचः ॥ १०८ ॥

१ त्रिमण्डलाद लक्षण तच्चिकिरसां च वक्ति - विशेषेति । २ स्रवति क्षरति, दीर्यते = चर्मं विदीर्यते इत्यर्थः । ३ नाकुली = रास्ना | ४ चकारात्परि-घेकॆऽपि । ५ श्वेतादष्टलक्षणं तच्चिकित्सां च ब्रवीति - श्वेताया इति । ६ नलः = ' नरसल - नरकुल ' इति ख्यातः । वन्जुलः - जलवेतसः । ७ लामज्जकम् = - उशीर • वत्पीतच्छवितृणविशेषः, वक्रं = तगरम्, नलदम् = उशीरम् । कपिला दष्टल-क्षणं तच्चिकित्सां चाभिधत्ते - आदेश इति । ९ ककुभः = प्रर्जुनः, वस्तुतोऽर्जु • नककुभयोः परस्परं भेदमेवाङ्गीकुर्वन्ति तज्ज्ञाः ॥ १० स्थिरा = शालपर्णी, अर्काभानि तीक्ष्णानि पर्णानि सन्त्यस्या इत्यर्कपर्णी । ११ पीतिकादष्टलक्षणं तच्चिकित्सां चाख्याति - आदेश ] इति । १२ तथाऽक्षिणी रक्ते भवत इत्यर्थः । अत्र ' रक्ते स्यातां च लोचने ' इति पाठान्तरम् । १३ तुङ्गं = पद्मकेसरम्, पुन्नागफलमिति सुश्रुतार्थसन्दीपनम् । १४ किणिनो ब्रणान् जिहीते CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1047

सुश्रुत संहिता चौखम्बा, पृष्ठ 1047 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ८ ] Digitized by Arya क्लब स्थान Chennai and eGangotri

रक्तमण्डनिभे दंशे पिडकाः सर्षपा इव ।

जायन्ते तालुशोषश्च दाह चालविषार्दिते ॥ १० ९ ॥

तत्र प्रियङ्गुहीबेरकुष्ठलामज्ज वैजुलाः ।

अगदः शतपुष्पा च सपिप्पलवाङ्कुराः ॥ ११० ॥

पूर्ति मूत्रविषादशो विसर्पी कृष्णशोणितः ।

कासश्वास व मी मूज्वरदाहसमन्वितः ॥ १११ ॥

मनःशिलाऽऽलैमधुककुष्ठचन्दनपद्मकैः ॥

मधुमिश्रैः सलामज्जैरगदस्तत्र कीर्त्तितः ॥ ११२ ॥

आपाण्डुपिडको दंशो दाहक्लेदसमन्वितः ।

रक्ताया रक्तपर्यन्तो विज्ञेयो रक्तसंयुतः ॥ ११३ ॥

कार्यस्तत्रागद्स्तोयं चन्दनोशीर पद्मकैः ।

तथैवार्जुनशेलुभ्यां त्वग्भिराम्रातकस्य च ॥ ११४ ॥

पिच्छिलं कसना दंशाद्रुधिरं शीतलं स्रवेत् ।

कासश्वासौ च तत्रोक्तं रक्तलूताचिकित्सितम् ॥ ११५ ॥

" पुरीषगन्धिरल्पासृक् कृष्णाया दंश एव तु ।

ज्वरसूच्छवमी दाहकासश्वाससमन्वितः ॥ ११६ ॥

" तत्रैलोवक्रसर्पाक्षीगन्धनाकुलिचन्दनैः । ८८ ९ महासुगन्धिसहितैः १२ प्रत्याख्यायागदः स्मृतः ॥ ११७ ॥

इति किणिही अपामार्गः, शेलुः = श्लेष्मातकः । २ आालविषादष्टलक्षणं तच्चिकित्सां चाभिदधाति - रक्तेति । २ वन्जुलः = जलवेतसः । ३ मूत्रविषादष्टलक्षणं तच्चिकित्सां चाख्याति — पूतिरिति । पूतिः = शटनम् । ४ श्रलं - हरितालम् । ५ रक्तादष्टलक्षणं तच्चिकित्सां च दर्शयति-- आपाण्डुविति । ६ तोयं = ' नेत्र वाला ' इति ख्यातम् । ७ श्राम्रातकस्य = कपीतनस्य, ' अमड़ा ' इति ख्यातस्येत्यर्थः । ८ कसनादष्ट लक्षणं तच्चिकित्सां च निरूपयति- पिच्छिलमिति । ९ रक्तलूताचि • कित्सितं - तोय चन्दनादिका चिकित्सेत्यर्थः । १० असाध्यत्वेन प्रतिपादितेषु सौव. र्णिकादिष्वष्टसु मध्ये कृष्णाऽग्निवर्णे कदाचित कृच्छ्रेण सिद्धयत इति क्रमं हित्वा ग्राक् कृष्णादष्टलक्षणं तच्चिकित्सां चोपदिशति - पुरीषेति । ११ वक्रं = तगरम्, सर्पाक्षी = लोहितपुष्पा शङ्खपुष्पीभेदः, गन्धनाकुलिः = रास्ना । १२ महासुगन्धिः दुन्दुभिस्वनीये " चन्दनागुरुणी कुष्ठम् " इत्यादिना प्रतिपादित-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1048

सुश्रुत संहिता चौखम्बा, पृष्ठ 1048 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८ ९ ० Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया [ श्र ० ८

' दंशे दाहोऽग्निवर्णायाः स्रावोऽत्यर्थं ज्वरस्तथा ।

चोषकण्डूरोमहर्षा दाहविस्फोटसंयुतः ॥ ११८ ॥

कृष्णाप्रशेमनं चात्र प्रत्याख्याय प्रयोजयेत् ।

सारिवोशीरयष्ट्याह्वचन्दनोत्पलपद्मकम् ॥ ११ ९ ॥

सर्वासामेव युञ्जीत विषे श्लेष्मातकत्वचम् ।

भिषक् सर्वप्रकारेण तथा चाक्षीवपिप्पलम् ॥ १२० ॥

कृच्छ्रसाध्यविषा ह्यष्टौ प्रोक्ता द्वे च यदृच्छया ।

अवार्य्यविषवीय्र्याणां लक्षणानि निबोध मे ॥ १२१ ॥

ध्यामः सौवर्णिकादंशः सफेनो मत्स्यगन्धकः ।

श्वासः कासो ज्वरस्तृष्णा मूर्च्छा चात्र सुदारुणा ॥। १२२ ॥

आदंशे लाजवर्णाया ध्यामं पूति स्रवेदसृक् ।

दाहो छतिसारश्च शिरोदुःखञ्च जायते ॥ १२३ ॥

दशस्तु जालिन्या राजिमानवदीयते । स्तत्सहितैरित्यर्थः । १ श्रग्निवर्णादष्टलक्षणं तच्चिकित्सां चाचष्टे - दंश इति । २ कृष्णाप्रशमनं = कृष्णलूतावच्चिकित्सितम् " प्रत्याख्याय = " यावदुच्छ्वसिति प्राणी तावत्कुर्यात्प्रतिक्रियाम् । कदाचिद्दैवयोगेन दृष्टारिष्टोऽपि जीवति ॥ " इत्यादिकमुप-दिश्येति भावः । ३ पूर्वोक्तानां दंशलूतानां विशिष्टं चिकित्सितमुक्त्वाऽधुना सामान्यमपि दर्शयति-सर्वासामिति । ४ अक्षीवाद् महानिम्बाद् शोभाञ्जनाद्वा जातस्तमञ्जीवपिप्पलम् । ' अक्षीवं वशिरे, शिग्रौ नाऽमत्ते पुनरन्यवत् ' इति मेदिनी । तन्त्रान्तरे -- " लुनाविषेषु सर्वेषु पाननस्याञ्जनादिना । प्रयोज्यः पिप्पलोऽक्षीवाज्जातः शेलुत्वचोऽथवा ॥ ” इति । अत्र हाराणचन्द्रस्तु — ‘ तथा च क्षीरपिप्पलम् ' इति पाठं मत्वा क्षीरपिप्पलं, पिप्पलक्षी-रमश्वत्थक्षीरमित्येतदिति व्याख्याति । ५ अवशिष्टानामसाध्यविषाणां लूतानां दष्ट-लक्षणानि निरूपयति — कृच्छ्रेति । ६ श्रवार्यमप्रतिहतं विषस्य वीर्यं शक्तिर्यासां तास्तासाम्, अवशिष्टानां षट्सङ्ख्यकानामित्यर्थः । ७ सौवर्णिकादष्टलक्षणमाचष्टे - ध्याम इति । ध्यामः = दग्धेष्टकादिसमवर्णः, ' ध्यामं दमनके गन्धतृणे श्यामेऽभिधेयवत् ' इति विश्वः । लाजवर्णादष्टलक्षणं ब्रवीति — आदंश इति । पृति = दुर्गन्धयुक्तम् । ९ जालिनीदृष्टलक्षणमाइ - घोर CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1049

सुश्रुत संहिता चौखम्बा, पृष्ठ 1049 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ८ ] Digitized by Arya Samar ghennai and eGangotri ८ ९ १ स्तम्भ्ः श्वासस्त॑मोवृद्धिस्तालुश च जायते ॥ १२४ ॥

एणीद्यास्तथा देशा भवेत् कृष्णतिलाकृतिः ।

तृष्णामूर्च्छाज्वरच्छर्दिका सश्वाससमन्वितः ॥ १२५ ॥

दश: काकाण्डिकादण्टे पाण्डुरक्तोऽतिवेदनः ।

तृण्मूर्च्छाश्वासहृद्रोगहिक्का कासाः स्युरुच्छ्रितः ॥ १२६ ॥

मालागुणादेशो धूमगन्धोऽतिवेदनः ।

बहुधा च विशीर्येत दाहमूर्च्छाज्वरान्वितः ॥ १२७ ॥

असाध्यास्वप्यभिहितं प्रत्याख्यायाशु योजयेत् ।

दोषोच्द्रार्यविशेषेण दाहच्छेदविवर्जितम् ॥ १२८ ॥

सायाभिराभिर्लताभिर्दष्टमात्रस्य देहिनः ।

वृद्धिपत्रेण मतिमान् सम्यगादंशमुद्धरेत् ॥ १२ ९ ॥

अमणि विधानज्ञो वर्जितस्य ज्वरादिभिः ।

दंशस्योत्कर्त्तनं कुर्यादल्पश्वयथुकस्य च ॥ १३० ॥

मधुसैन्धवसंयुक्रगदैर्लेपयेत्ततः ।

प्रियङ्गुरजनीकुष्ठसमङ्गा " मधुकैस्तथा ॥ १३१ ॥

सारिवां मधुकं द्राक्षां १२ पयस्यां क्षीरमोरटम् ।

विदारीगोक्षुरक्षौद्रमधुकं पाययेत वा ॥ १३२ ॥

इति । राजी रेखा । १ तमोवृद्धिः = नेत्राग्रे वारं वारं तमोवर्द्धनम् । २ एणी. पदोदष्टलक्षणमभिदधाति — एणीति ॥ क्रमागतयोः कृष्णाग्निवर्णयोर्लक्षणादिकं प्राक् प्रदर्शितम् । ३ काकाण्डादष्टलक्षणमभिधत्ते - दंश इति । ४ उच्छ्रिताः = प्रवृद्वाः । ५ मा लागुणादष्टलक्षणं वक्ति - रक्त इति । ६ विशीर्येत == शीर्णो भवेदित्यर्थः । ७ अ साध्यानामपि लूतानां प्रत्याख्याय चिकित्सा कार्येत्युरदिशति - असाध्या स्विति । श्रसाध्यासु = मोवर्णिकादिषु । - दोषोच्छ्रायविशेषेण = वातादिदोषवर्द्धनानुसारेणे-त्यर्थः ॥ ९ कृच्छ्रसाध्यानां तात्कालिकं चिकित्सितमुपदिशति - साध्याभिरिति अष्टाङ्गहृदये विशेषः— " अथाशु लूतादष्टस्य शस्त्रेणादंशमुद्धरेत् । दहेच्च जाम्बवौष्ठा-“ चैर्न तु पित्तोत्तरं दहेत् ॥ ” इति । १० अगदैः = दुन्दुभिस्वनी योक्तेर्महासुगन्ध्यादिभिः, ततः = - छेदानन्तरम् । ११ समङ्गा = वरादक्रान्ता । १२ पयस्था = अर्कपुष्पी, क्षीरका-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1050

सुश्रुत संहिता चौखम्बा, पृष्ठ 1050 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८ ९ २ Digitized by Arya Samai Foundation Chennai and eGangotri " सुश्रुत संहिताया " क्षीरिणां त्वक्कषायेण सुशीतेन च सेचयेत् । [ अ ० ८ उपद्रवान् यथादोषं विषैन्नैरेव साधयेत् ॥ १३३ ॥

नस्यौञ्जनाभ्यञ्जनपानधूमं तथाऽवपीडं कवलग्रहञ्च ।

संशोधनञ्चोभयतः प्रगाढं कुर्यात्सिरामोक्षणमेव चात्र ॥ १३४ ॥

कीटदव्रणान् सर्वानहिदष्टव्रणानि च ।

आदाहपाकात्तान् सर्वाञ्चिकित्सेद् दुष्टवद्भिषक् ॥ १३५ ॥

विनिर्वृत्ते ततः शोफे कर्णिकापातनं हितम् ।

निम्बपन्नं त्रिवृद्दन्ती कुसुम्भं कुसुमं मधु ॥ १३६ ॥

गुग्गुलुः सैन्धवं किंण्वं वर्चः पारावतस्य च ।

विषवृद्धिकरञ्चान्नं १० " हित्वा सम्भोजनं हितम् ॥ १३७ ॥

विषेभ्यैः खलु सर्वेभ्यः कर्णिकामरुजां स्थिराम् ।

प्रच्छयित्वा मधून्मिश्रैः " शोधनीयैरुपाचरेत् ॥ १३८ ॥

सप्तषष्टस्य " कीटानां शतस्यैतद्विभागशः । कोलीति दाराणचन्द्रः । क्षीरमोरटः दीर्घमूलो लताप्रभेदः । १ क्षीरिणां = न्यग्रो-धोदुम्बराश्वत्थपारिषप्लक्षपादपानामित्यर्थः । २ विषघ्नैरगदैरित्यर्थः । 1 ३ लूताषु दशविधमुपक्रममाख्याति - नस्येति । ४ उभयतः संशोधनं = बम · नविरेचनाख्यम् । ५ " सर्वतोऽपहरेद्रक्तं शृङ्गाद्यैः सिरयाऽपि च " इति वाग्भटः । ६ कीटदष्टव्रणादिषु दुष्टव्रणव च्चिकित्सार्थमुपदिशति - कीटेति । ७ दुष्टवत् = दुष्ट-व्रणवदित्यर्थः । ८ निवृत्तदाहादौ व्रणे विषोत्पन्नकणिकायाश्चिकित्सामाचष्टे-विनिवृत्त इति । ९ किण्वं = सुराबीजम् । पारावतस्य वर्चः = कपोतविट् । वाग्भटे— “ निवृत्ते | दाहशोफादौ कणिकां पातयेद् व्रणात् । कुसुम्भपुष्पं गोदन्तः-स्वर्णक्षीरी कपोतविट् ॥ त्रिवृता सैन्धवं दन्ती कर्णिकापातनं तथा । मूलमुत्तरवारुण्या वंशनिर्लेखसंयुतम् ॥ ” इति । १० तिलकुलत्थाद्यन्नमित्यर्थः । . ११ कफवातोत्थकर्णिकाचिकित्सामाचष्टे - विषेभ्य इति । १२ दन्तीमूलमदन-फलकल्कादिशोधनीयैरित्यर्थः । १३ कीटकल्पमुपसंहरन्नाह - सप्तेति 1 । सप्ताधिका षष्टिः सप्तषष्टिस्ततोऽर्श श्रादिभ्योऽच् सप्तषष्टः, सप्तषष्टस्य शतस्य सप्तषष्ट्यधिकशत-स्येत्यर्थः । यथा — वायव्याः कीटा अष्टादश, श्राग्नेयाश्चतुर्विंशाः, सौम्यास्त्रयोदश, सान्निपातिका द्वादश, कणभाश्चत्वारः, गोधेरकाः पश्र्च, षट्, शतपद्येोऽष्टौ गलगोल्यः मण्डूका अष्टौ, विश्वम्भरा एका, श्रहिण्डुका एका, कण्डूमका एका, शूकवृन्ता एका, CC - 0. Gurukul Kangri Collection, Haridwar