सुश्रुत संहिता चौखम्बा — पृष्ठ 1051–1060
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1051–1060
पृष्ठ 1051
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj Foundation Chennai and eGangotri अ ० ८ ] ८ ९ ३
कल्पस्थानम् ।
दष्टलक्षणमाख्यातं चिकित्सा चाप्यनन्तरम् ॥ १३ ९ ॥
सर्विंशमध्यायशतमेतदुक्तं विभागशः ।
इहोद्दिष्टाननिर्दिष्टानर्थान् वक्ष्याम्यथोत्तरे ॥ १४० ॥
सनातनत्वाद्वेदानामक्षरत्वात् तथैव च ।
तथा दृष्टफलत्वाच्च हितत्वादपि देहिनाम् ॥ १४१ ॥
वाक्समूहर्थविस्तारात् पूजितत्वाच्च देहिभिः ।
चिकित्सितात् पुण्यतमं न किञ्चिदपि शुश्रुमः ॥ १४२ ॥
ऋषेरिन्द्रप्रभावस्यामृर्तयोनेर्भिषग्गुरोः ।
धारयित्वा तु विमलं मतं परमसम्मतम् ।
उक्ताहारसंमाचार इह प्रेत्य च मोदते ॥ १४३ ॥
इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां कल्पस्थाने कोटकल्नो नामाष्टमोऽध्यायः ॥ ८ ॥
पिपीलिकाः षट्, मक्षिकाः षट्, मशकाः पञ्च, जलौकसो द्विविधाः, वृश्चिकास्त्रिंशत्, लूताः षोडश इति । ' सप्तषष्ठस्य ' इति पाठान्तरम् । १ एतत् = पूर्वतन्त्रम् । २ अनि ॰ दिंष्टान् = शालाक्यकौमारकाय चिकित्साभूत विद्याऽऽदीन् । ३ चिकित्सितस्य पुण्यतमत्वं प्रतिपादयति- सनातनत्वादिति । सनातनत्वात् = नित्यभवत्वात्, वेदानामित्यत्र आद्यङ्गशब्दौ लुप्तनिर्दिष्टौ तेन आयुर्वेदाङ्गानां शल्या-दीनामित्यर्थः । अश्चरत्वात् = अविचलनात्मकत्वात् । ४ दृष्ट फलत्वात् = प्रत्यक्षफ-लत्वात् । ५ वाक्समूहेऽर्थविस्तारो यस्मिन् स तथोक्तात् । ६ श्रमृतयोनैः = धन्व-न्तरेरित्यर्थः । ७ उक्तावाहारसमाचारौ विद्येतेऽस्येत्युक्ताहारसमाचारः पुरुषः इह इहलोके, प्रेत्य परलोके च मोदते हृष्यतीत्यर्थः । इति पण्डितश्रीकपिलदेवमिश्रतनुजन्मना मिश्रोपाहृश्री सुदामाशर्मणा निम्मितायां सुश्रुतसंहितायाः सुधाऽख्यटिप्पन्यां कल्पस्थाने कीटकल्पो नामाष्टमोऽध्यायः । समाप्तमिदं कल्पस्थानम् । XX CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1052
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj Foundation Chennai and eGangotri अथ उत्तरतन्त्रम् ।
प्रथमोऽध्यायः ।
अथात औपद्रविकमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
अध्यायानां शते विंशे यदुक्तमसकृन्मया ।
वक्ष्यामि बहुधा सम्यगुत्तरेऽर्थानिमानिति २ ॥ ३ ॥
इदानीं तत् प्रवक्ष्यामि तन्त्रमुत्तरमुत्तमम् ।
निखिलेनोपदिश्यन्ते यत्र रोगा पृथग्विधाः ॥ ४ ॥
शालाक्यतन्त्राभिहिता विदेहाधिपकीर्त्तिताः ।
ये च विस्तरतो दृष्टाः कुमौराबाध हेतवः ॥ ५ ॥
अथ, उत्तरतन्त्रम् । ( शालाक्यतन्त्रम् )
मूकोऽपि वावदूको भवति यदीयां दयामुपादाय ।
वीणामण्डितपाणिः सा वाणी सद्गुणा जयति ॥
१ पञ्चस्थानात्मकं पूर्वतन्त्रं परिसमाप्य भगवता सुश्रुतेन “ अधिकृत्य कृतं यस्मा-तन्त्रमेतदुपद्रवान् । श्रपद्रविक इत्येव तस्याग्रयत्वान्निरुच्यते ॥ ” इति पूर्वं प्रतिज्ञात-त्वान्नानाविघार्थप्रतिपादकमुत्तरतन्त्रमधिकरोति - प्रथात इति । उपद्रवान् रोगान-धिकृत्य कृतोऽध्याय श्रपद्र विकस्तम् । उपद्रवाधिकृततन्त्रस्य प्रथमत्वादध्यायस्य निरुक्त्या ' श्रपद्रविक ' इति नामकरणम् । २ इमानर्थान् बहुधा उत्तरे सम्यग् वदया-मि, इति यद् यस्मात्कारणाद् मया श्रसकृद् वारं वारम् अध्यायानां शते विंशे पञ्च • स्थानात्मकपूर्वतन्त्रे इत्यर्थः । उक्तं कथितम्, तत्तस्मात्कारणादिदानीमुत्तममुत्तरं तन्त्रं प्रवक्ष्यामीति सम्बन्धः । ३ यत्र - - यस्मिन्नुत्तरतन्त्रे । ४ शलाकायाः कर्म शालाक्यम्, तत्प्रधानं तन्त्रं, तत्राभिहिताः शालाक्यतन्त्रा-भिहिताः । " शालाक्यं नामोर्ध्वजत्रु गतानां श्रवणनयनवदनत्राणादिसंश्रितानां व्या-घीनामुपशमनार्थम् " इत्युक्तं स्मर्तव्यम् । विदेद्दाधिपो निमिस्तेन कीर्तिताः प्रणीता विदेहाधिपकीर्तिताः । ५ कुमाराणां वालानामाबाधे हेतवः, स्कन्दग्रहप्रभृतय इत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1053
पाठ पढ़ें पाठ छिपाएँ
अ ० १ ] Digitized by Aryana Formation Chennai and eGangotri ८ ९ ५
पैंट्सु कायचिकित्सासु ये चोक्ताः परमर्षिभिः ।
उपसर्गादयो रोगा ये चाप्यागन्तवः स्मृताः ॥ ६ ॥
त्रिषष्टी रससंसर्गाः स्वस्थवृत्तन्तथैव च ।
युक्तार्था युक्तयश्चैव दोषभेदास्तथैव च ॥ ७ ॥
यत्रोक्ता विविधा अर्था रोगसाधनहेतवः ।
महतस्तस्य तन्त्रस्य दुर्गार्धस्याम्बुधेरिव ॥ ८ ॥
आदावेवोत्तमाङ्गस्थान रोगानभिदधाम्यहम् ।
सङ्ख्यया लक्षणैश्चापि साध्यासाध्यक्रमेण च ॥ ९ ॥
विद्याद् द्वयङ्गलबाहुल्यं स्वाङ्गुष्ठोदरसम्मितम् ।
द्व्यङ्गुलं सर्वतः सार्द्धं भिषङ्नयनबुदबुदम् ॥। १० ॥
सुवृत्तं गोस्तनाकारं सर्वभूतगुणोद्भवम् ।
" भुवोऽग्नितो रक्तं वातात् कृष्णं सितं जलात् ॥ ११ ॥
१ षट्सु == वातपित्तकफसन्निपातशोणितागन्तुजभेदेन षड्विधा स्वित्यर्थः । २ परम · र्षिभिः = अग्निवेशभेडजातूकर्ण पराशरहारीतक्षारपाणिप्रभृतिभिरित्यर्थः । ३ उपसर्गा-दयः- ज्वरादयः । ४ आगन्तवः = मानसत्वेनोपदिष्टा उन्मादादयः । ५ युक्तार्थाः = प्रमाणोपपन्नार्थाः, युक्तयः = तम्त्रयुक्तयः । श्रस्याग्रे केषाञ्चन सम्मतपाठः— “ विदे हाधिपतिः श्रीमान् जनको नाम विश्रुतः । श्रालम्भयज्ञप्रवणः सोऽयजद् ब्राह्मणैर्वृतः ॥
तस्य यागप्रवृत्तस्य कुपितो भगवान् रविः । दृष्टि प्रणाशयामास सोऽनुतेपे महत्तपः ॥
दीप्तां शुस्तपसा तेन तोषितः प्रददौ पुनः । चतुर्वेदं प्रसन्नात्मा सर्वभूतानुकम्पया ॥ ” इति । ६ दुर्गाधस्य = अगाधस्य । ७ अत्र चकारेण हेतु चिकित्से समुच्चीयेते, साध्यासाध्यक्रमेण चेति चकारेण चिकित्सितेनेति समुच्चयः । ८ अक्षिगोलकं वर्णयति - विद्यादिति । द्व्यङ्गुलप्रमाणं बाहुल्यं स्थौल्यं यस्य तद् द्व्यङ्गुलबाहुल्यम् 9 अङ्गुलीनां स्थौल्यस्य वैषम्यात्पुनराह - स्वाङ्गुष्ठोदर सन्निभम् । ९ सर्वंत आयामविस्ताराभ्यां द्वयङ्गुलं सार्द्धमर्थं तृतीयाङ्गुलम्, आतुरोपक्रमणीये – “ द्वथ · ङ्गुलायतं च नयनम् ” इति यदुक्तं तद् वर्त्ममण्डलं गृहीत्वा गणनयाऽर्ध तृतीयाङ्गुलमिति-न विरुध्यते । नयनबुद्बुदं = नेत्रगोलकम् । श्रत्र नयनमण्डलमिति पाठान्तरम् । १० गो • स्तनाकारं = क्षीरपूर्णगोस्तनसदृशम्, सर्वभूतेभ्यस्तद् गुणेभ्यश्चोद्भवो यस्य तत् सर्व-भूतगुणोद्भवम् । सर्वभूतेभ्यो नेत्रगोलकं सिरास्नाय्वस्थिसहितं साश्रुमार्गमुत्पन्नं, " तद्गुणेभ्यश्च रक्तसितकृष्णगुणा उत्पन्ना इत्यर्थः । ५ येन भूतेन नयनगोलकमारभ्यते, येन च रक्तादय इति निरूपयति - पलमि--CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1054
पाठ पढ़ें पाठ छिपाएँ
८ ९ ६ Foundation Digitized by Arya Samaj F सुश्रुतसंहिताया and eGangotri
आकाशादथुमार्गाश्च जायन्ते नेत्रबुदबुदे ।
' दृष्टिञ्चात्रतथा वक्ष्ये यथा ब्रूयाद्विशारदः ॥ १२ ॥
नेत्रायामत्रिभागन्तु कृष्णमण्डलमुच्यते । [ अ ० १ कृष्णात् सप्तममिच्छन्ति दृष्टिं दृष्टिविशारदाः ॥ १३ ॥
मण्डलानि च सन्धश्च पटलानि च लोचने ।
यथाक्रमं विजानीयात् पञ्च षट् च षडेव च ॥ १४ ॥
पक्ष्मैव श्वेत कृष्णदृष्टीनां मण्डलानि तु ।
अनूपूर्वन्तु ते ' मध्याञ्चत्वारोऽन्त्या यथोत्तरम् ॥ १५ ॥
पक्ष्मवत्मगतः सन्धिर्वर्त्मशुक्ल गतोऽपरः ।
शुक्लकृष्णगतस्त्वन्यः कृष्णदृष्टिगतोऽपरः ।
ततः कनीनर्कंगतः षष्ठश्च पाङ्गगः स्मृतः ॥ १६ ॥
द्वे वर्त्मपटले विद्याश्चत्वार्य्यन्यानि चाक्षिणि ।
जायते तिमिरं येषु " व्याधिः परमदारुणः ॥ १७ ॥
" तेजोजलाश्रितं बाह्यं तेष्वन्यत् पिशिताश्रितम् । ति । पलं = मांसम् " भुवः = पृथिव्याः | १ पूर्वाचार्यप्रतिपादितप्रमाणानुरूपं दृष्टिम-ण्डलं प्रतिपादयति- दृष्टिमिति । २ विशारदः = चतुर्वेदपण्डितः, विदेह इत्यर्थः । ३ सप्तमं = सप्तमभागम् । श्रातुरोपक्रमणीये- “ नवमस्तारकांशो दृष्टिः " इति तारकानव-मांशो दृष्टिः शल्यतन्त्रानुसारेण, तारकासप्तमांशो दृष्टिरिति शालाक्यसिद्धान्तेन तार-काशब्देन कृष्णविभागः । एवं च कृष्णसप्तमभागत्वेनापि " मसूर दलमात्रां तु " इत्य. त्रोक्ता मसुरार्धदलप्रमाणा दृष्टिरित्येक एवार्थः । ४ नेत्रमण्डलसन्धिपटलानां संख्यामाह - मण्डलानीति । लोचने पञ्च मण्डलानि, षट् सन्धीन्, षडेव पटलानि यथाक्रमं विजानीयादित्यर्थः । ५ तान्येव नेत्रगत • पञ्चमण्डलानि निर्दिशति - पक्ष्मेति । ६ ते = पदमादयो दृष्टयन्ताः, मध्याश्चत्वा · रः = कृष्णादयः, यथोत्तरम् = अन्त्याः । ७ नेत्रगतषट्सन्धीन् दर्शयति — पक्ष्मेति । ८ कनीनकगतः = नासासमीपवर्तिनेत्रान्तभागावस्थितः, अपाङ्गगः = नेत्रप्रान्तान्तः · स्थित इत्यर्थः । ‘ अपाङ्गस्त्वङ्गद्दीने स्यान्नेत्रान्ते तिलकेऽपि च ' इति मेदिनी । ९ षट पटलान्याख्याति — द्वे इति । १० येषु = चतुर्षु पटलेष्वित्यर्थः । ११ तिमिराश्रयभूतानि तान्येव चत्वारि पटलानि चिकित्साथै विभजते - तेज इति । तेजः शब्देन रक्तं, जलशब्देन रसो बोद्धव्यः । तेन तेजोबलाश्रितमित्यस्य रसरक्ताश्र -CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1055
पाठ पढ़ें पाठ छिपाएँ
अ ० १ ] Digitized by Arya seat Chennai and eGangotri मेदम्तृतीयं पर्टलमाश्रितन्त्वस्थि चापरम् ॥ १८ ॥ '
पञ्चमांशसमं दृष्टेस्तेषां बाहुल्यमिष्यते ।
सिराणां कण्डराणाञ्च मेदसः कालकस्य च ॥ १ ९ ॥
गुणाः कालात्परः श्लेष्मा बन्धनेऽक्ष्णोः सिरायुतः ।
सिरौऽनुसारिभिर्दोषैर्विगुणैरुध्वमागतैः ॥ २० ॥
जायन्ते नेत्रभागेषु रोगाः परमदारुणाः ।
तत्राविलं ससंरम्भमश्रुकण्डूपदेहवत् ॥ २१ ॥
गुरुषातोद रागाद्यैर्जष्टञ्चाव्यक्तलक्षणैः ।
सशूलं वर्त्म कोषेषु शूकपूर्णामेव च ॥ २२ ॥
१० ८ ९ ७ न रोगों का ३०
विहन्यमानं " रूपे वा क्रियास्वति यथा पुरा ।
दृष्ट्वैव धीमान् बुध्येत दोषेणाधिष्ठितं तु तत् ॥ २३ ॥
तत्र ' ' सम्भवमासाद्य यथादोषं भिषग्जितम् " ।
विदध्यान्नेत्रजा रोगा बलवन्तः स्युरन्यथा ॥ २४ ॥
सङ्क्षेपत: " क्रियायोगो निदानपरिवर्जनम् । यमित्यर्थः । बाह्यं = नेत्रगोलकस्य प्रथमं पटलम्, अन्यत् = द्वितीयम् । पिशिताश्रि-तं मांससंश्रयम् । १ पटलं = त्वक्, मेदःसंश्रयम् । अपरं = चतुर्थम् । कालकास्थि-संस्थितम् । २ दृष्टेः = म्वाङ्गुष्ठोदरस्थूलस्य नेत्रस्य, पचमांशसमं तेषां चतुर्णां पट-लानां मिलितानामित्यर्थः । बाहुल्यं = स्थौल्यम् । ३ कालकस्य = कालकास्थनः । ४ कालात् = कृष्णभागात् परः = शुक्लभागः, बन्धने = परस्परं संहनने । ५ नेत्ररोगाणां सामान्यां सम्प्राप्तिं प्रतिपादयति - सिरेति । ६ नेत्रभागेषु = नेत्रस्य दृष्टाद्यवयवेषु । ७ नेत्ररोगाणां पूर्वरूपमाचष्टे — तत्रेति । श्राविलं = कलु-न्, अश्रुपूर्णमित्यर्थः । ससंरम्भम् = ईषद्रागवेदनम्, उपदेहो दूषिका विद्यतेऽस्येति उपदेहवत् । पत्रादिशब्दः गुरुत्वादिभिः प्रत्येकं सम्बध्यते, तेन गुरुत्वादिश्लेष्म-चिह्नेः, श्रोषादि पित्तचिह्नः, तोदादिवात चिह्नः, रागादिशोणितचि हैरित्यर्थो बोध्यः । ९ शुकपूर्णाभं = धान्यादीनां तीक्ष्णाग्रेण प्रपूरितमिव क्लेशावहमित्यर्थः । १० रूपे नीलपीतादौ क्रियासु दर्शनोन्मीलितादिषु यथा पुरा श्रासीत्, ततो विहन्यमानं विकृ · तिमापद्यमानमक्षि दृष्ट्वैवेति परेणान्वयः । ११ नेत्ररोगे पूर्वरूपे एव क्रिया कार्येत्युपदिशति – तत्रेति । १२ भिषग्जितं = भेषजमित्यर्थः क्रियायोग इत्यर्थः ॥ १३ संशोधनसंशमनादि ५७ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1056
पाठ पढ़ें पाठ छिपाएँ
८ ९ ८ Digitized by Arya Samaj Foundation Chennai and eGangotri " सुश्रुतसंहिताया [ अ ० १ वातादीनां प्रतीघातः प्रोक्तो विस्तरैतः पुन. ॥ २५ ॥
उष्णोभितप्तस्य जलप्रवेशाद् दूरे क्षणात् स्वप्नविपर्य्ययाच्च ।
प्रसक्तसंरोदनकोपशोकक्लेशाभिघातादतिमैथुनाच्च ॥ २६ ॥
शुक्तारनालाम्लकुलत्थमाषनिषेव रणाद्वेगविनिग्रहाच्च ।
स्वेदादथो धूमनिषेवणाच्च छदैर्विघाताद्वमनातियोगात् ।
बाष्पग्रहात् सूक्ष्म निरीक्षणाच्च नेत्रे विकारान् जनयन्ति दोषाः ॥ २७ ॥
वार्ताद्दश तथा पित्तात् कफाच्चैव त्रयोदश ।
रक्तात् षोडश विज्ञेयाः सर्वजाः पञ्चविंशतिः ॥ २८ ॥
तथा बाह्यौ पुनद्वौ च रोगाः षट्सप्ततिः स्मृताः ।
हताधिमन्थो निमिषो दृष्टिर्गम्भीरका च या ॥ २ ९ ॥
यच्च वातहतं वत्मै न ते सिध्यन्ति वातजाः ।
याप्योऽथ तन्मयः काचः साध्याः स्युः सान्यमारुताः ॥ ३० ॥
शुष्काक्षिपाकाधीमन्थस्यन्दमारुतपर्य्ययाः ।
असाध्यो ' ' ह्रस्वजाड्यो यो जलस्रावश्च पैत्तिकः ॥ ३१ ॥
परिम्लायी च नीलश्च याप्यः काचोऽथ तन्मयः । १ विस्तरतो विस्तरेण पुनः वातादीनां प्रतीघातो येनौषधप्रयोगेण वातादीनां विघातः सः क्रियायोगः प्रोक्त इत्यर्थः । २ नेत्ररोगनिदानानि वक्ति - उष्णेति । उष्णेनातपादिना सन्तप्तदेह उष्णाभितप्तस्तस्य तथोक्तस्य, जलप्रवेशात् = जलावगाह · नात्, शीतावृतदेइस्योर्ध्वगतेनोष्मणा नयन तेज सोऽभिभवाच्चक्षू रोगोदय इति भावः । दूरेक्षणात = दूरस्थद्रव्यदर्शनात्, स्वप्नविपर्ययात् = रात्रिजागरणाद्दिवास्वप्नाच्चेत्यर्थः । ३ क्लेशः कामक्रोधादिदुःखं, तेनाभितापः पीडा तस्मात् । ४ स्विद्यतेऽनेनेति स्वे-दोऽग्न्यादिस्तस्मात् । ५ बाष्पप्रदात = अश्रुवेगधारणात् यदुक्तम्- " आनन्दजं वाऽप्यथ • शोकजं वा नेत्रोदकं प्राप्तममुष्चतो हि । शिरोगुरुत्वं नयनामयाश्च भवन्ति तीव्राः सह पीनसेन " इति तन्त्रान्तरे । ६ नेत्ररोगाणां संख्यामाख्याति - वातादिति । ७ बाह्यौ = बहिर्निमित्तभव, एकोऽभिघातोत्पन्नः सनिमित्तः, श्रन्यः सुरर्षिगन्धर्वादिदर्शनाभिहतशक्तिरनिमित्तः । इमे षट्सप्ततीरोगा ये नामादितो निर्दिश्यन्ते । तन्त्रान्तरेऽष्टसप्तती रोगा उक्ताः, तेऽपि प्रदर्श्यन्ते । ८ वातजन्य नेत्ररोगाणां साध्यासाध्ये विचारयति - हतेति । ९ तन्मयः == वातात्मक इत्यर्थः । १० पित्तजन्यनेत्ररोगाणां साध्यासाध्यविचारं दर्श-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1057
पाठ पढ़ें पाठ छिपाएँ
अ ० १ ] Digitized by Arya Samaj सिम् Ghennai and eGangotri ८ ९९ अभिष्यन्दोऽधिमन्थोऽम्लाध्युषितं शुक्तिको च या ॥ ३२ ॥
दृष्टिः पित्तविदग्धा च धूमदर्शी च सिद्ध्यति ।
असाध्यः कफजः स्रावो याप्यः काचश्च तन्मयः ॥ ३३ ॥
अभिष्यन्दोऽधिमन्थश्च बलासग्रथितञ्च यत् ।
दृष्टिः श्लेष्मविदग्धा च पोथक्यो लगणश्च यः ॥ ३४ ॥
क्रिमिग्रन्थिपरिक्लिन्नवर्त्मशुक्ला पिष्टकाः ।
श्लेष्मोपनाहः साध्यास्तु कथिताः श्लेष्मजेषु तु ॥ ३५ ॥
रक्तस्रावोऽजकाजातं शोणितार्शोत्ररणान्वितम् ।
शुक्रं न साध्यं काचश्च याप्यस्तज्जः प्रकीर्त्तितः ॥ ३६ ॥
मन्थस्यन्दौ क्लिष्टवर्त्म हर्षोत्पतौ तथैव च ।
सिराजाताऽञ्जनाख्या च सिराजालञ्च यत् स्मृतम् ॥ ३७ ॥
पर्वण्यथाव्रणं शुकं शोणितार्मार्जुनश्च यः ।
एते साध्या विकारेषु रक्तजेषु भवन्ति हि ॥ ३८ ॥
पूयास्रावो नाकुलान्ध्यमक्षिपाकात्ययोऽलजी ।
असाध्याः सर्वजा याप्याः काचः कोपश्च पक्ष्मणः ॥ ३ ९ ॥
वर्त्मावबन्धो यो व्याधिः सिरासु पिडका च या ।
प्रस्तार्यर्माधि मांसास्नाय्वर्मोत्सङ्गिनी च या ॥। ४० ॥
पूयालसश्चाबुर्दश्च श्यावकर्दमवर्त्मनी ।
तथाऽर्शोवर्त्म शुष्कार्शः शर्करा वर्त्म यच्च वै ॥ ४१ ॥
सशोफश्चाप्यशोफश्च पाको बहुलवर्त्म च ।
अक्लिन्नवर्त्म कुम्भीका बिसवर्त्म च सिध्यति ॥ ४२ ॥
सनिमित्तोऽनिमित्तश्च द्वावसाध्यौ तु बाह्यजौ पटसप्ततिर्विकाराणामेषां सङ्ग्रहकीर्तिता ॥ ४३ ॥
यति - असाध्य इति । १ शुक्तिका = शुक्ल भागगता । २ श्लेष्मजनेत्ररोगाणां साध्या-साध्ये विचारयति — असाध्य इति । ३ श्ले ० मजेषु = कफजेषु त्रयोदश मध्ये | ४ रक्तजनेत्ररोगाणां साध्यासाध्यविचारमाचष्टे - रक्तेति । ५ रक्त जेषु. Sy षोढसु शोणितेषु मध्ये । ६ सान्निपातिक नेत्र रोगाणां साध्यासाध्यविचारं प्रदर्शयति-पूयेति । ७ काचः पक्ष्मणः कोपश्च याप्य इत्यन्वयः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1058
पाठ पढ़ें पाठ छिपाएँ
९ ०० Digitized by Arya Samaj Foundation Chennai and eGangotri ' सुश्रुतसंहिताया-[ अ ० २
नैव सन्ध्याश्रयास्तेषु वर्त्मजास्त्वेकविंशतिः ।
शुक्लभागे दशैकश्च चत्वारः कृष्णभागजाः ॥ ४४ ॥
सर्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु ।
बाह्यजौ द्वौ समाख्यातौ रोगौ परमदारुणौ ।
भूय एतान् प्रवक्ष्यामि सङ्ख्यारूपचिकित्सितैः ॥ ४५ ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे औपद्रविको नाम प्रथमोऽध्यायः ॥ १ ॥
द्वितीयोऽध्यायः ।
अथातः सन्धिगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
प्रयासः सोपनाहः स्रावाः पर्वणिकाऽलजी ।
क्रिमिग्रन्थिश्च विज्ञेया रोगाः सन्धिगता नव ॥ ३ ॥
१ सन्ध्याद्याश्रयभेदेन नेत्ररोगसंख्यानमाख्याति - नवेति । तन्त्रान्तरे— “ द्वादश
व्याधयो दृष्टौ तत्रैवान्यौ गदावुभौ । कृष्णमार्गे तु चत्वारो दशैकः शुक्ल भागजाः ॥
वर्त्मन्येको विंशतिश्च पक्ष्मजौ द्वौ प्रकीर्तितौ । नव सन्धिषु सर्वस्मिन् नेत्रे सप्तदशो-दिताः ॥ एवं नेत्रे समस्ताः स्युरष्टसप्ततिरामयाः ॥ ” इति । इति सुश्रुतसंहितायाः उत्तरतन्त्रान्तर्गत बाल क्यतन्त्रे सुधाऽऽख्यटिप्पन्यां प्रथमोऽध्यायः । द्वितीयोऽध्यायः । २ पूर्वाध्याये ‘ नवसन्ध्याश्रयास्त्रेषु " इत्युक्तं प्रतिगदितुं सन्धिगतरोगविज्ञानीय-- मध्यायमधिकरोति — अथेति । सन्धयस्तु – “ पदमवर्त्मगतः सन्धिवर्त्म शुक्ल गतो. ऽपरः । शुक्लकृष्णगतश्चान्यः कृष्णदृष्टिगतोऽपि च । मतः कनीनकगतः षष्ठश्चापाङ्गसं-श्रितः ॥ ” इति । तत्र सन्धिगतनेत्ररोगाणां नामानि निर्दिशति - पुयालस इति । ३ अन्यत्र क्रिमिग्रन्थिरित्यत्र जन्तुग्रन्थिरिति नामान्तरं दृश्यते । तद्यथा - " पूयालसः - सोपनाहः स्रावाश्चत्वार एव च । पर्वणिकाऽलजी जन्तुग्रन्थिः सन्धौ नबामयाः ॥ ” CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1059
पाठ पढ़ें पाठ छिपाएँ
अ ० २ ] ९ ०१ Digitized by Arya Sand Foundation Chennai and eGangotri पक्कैः शोफः सन्धिजः संस्रवेद् यः स्वान्द्रं पूयं पूति पूयालसः सः ग्रन्थिर्नाल्पो दृष्टिसन्धावपाकः कण्डूप्रायो नीरुजस्तूपनाहः ॥ ४ ॥
गत्वौ सन्धीनश्रुमार्गेण दोषाः कुर्युः स्रावान् रुग्विहीनान् कनीनात् ।
तान् वै स्रावान् नेत्रनाडीमथैके । तस्या लिङ्गं कीर्त्तयिष्ये चतुर्धा ॥ ५ ॥
पाकः सन्धौ संस्रवेद् यश्च पूयं पूयास्रावो नैकरूपः प्रदिष्टः ।
श्वेतं सान्द्रं पिच्छिलं संस्रवेद्यः श्लेष्मास्रावो नीरुजः सः प्रदिष्टः ॥ ६ ॥
रक्तास्रावः शोणितोत्थः सरक्तमुष्णं नाल्पं संस्रवेन्नातिसान्द्रम् ।
पीताभासं नीलमुष्णं जलाभं पित्तास्रावः संस्रवेत् सन्धिर्मध्यात् ॥७ ॥
ताम्री तन्वी दाहशूलोपपन्ना रक्ताज्ज्ञेया पर्वणी वृत्तशोफा ।
जाता सन्धौ कृष्णशुक्लेऽलजी स्यात्तस्मिन्नेव ख्यापिता पूर्वलिङ्गैः ॥८ ॥
इति । १ पूवालसलक्षणमाख्याति - पक्व इति । श्रयं सन्निपातजन्यः साध्यश्च । सन्धिजः == कनीनकसन्धिजातः । यदाह विदेह: - " शोथक्लेद समाविष्टं तोदभेदसमाकु • लम् । “ पूयालसं तु तं विद्यात् सन्धौ कानोनके नृणाम् ॥ ” इति । २ उपनाहलक्षणं दर्शयति - ग्रन्थिरिति । कफजन्योऽयं साध्यश्च । नाल्पः = महान्, दृष्टिसन्धौ = दृष्टिविवरे जलकोष्ठपटोपरि, श्रपाकः = ईषत्पाकः, नीरुजः = ईषद्वे. दनः; “ वायुः श्लेष्माणमादाय दृष्टिसन्धौ व्यवस्थितः । अरुणं कठिनं ग्रन्थि जनयत्य-ल्पवेदनम् ॥ ” इति विदेहवचनात् । ३ चतुर्णी नेत्रस्रावाणां लक्षणानि वक्ति - गत्येति । एते चत्वारोऽप्यसाध्याः । सन्धीनिति बहुत्वेन सर्व एव सन्धयो गृह्यन्ते । अश्रुमार्गश-ब्देन सिरा बोध्या । तथा च " अश्रुस्रावः सिरा गत्वा नैत्रसन्धिषु तिष्ठति । ततः कनीनकं गत्वा चाश्रु कृत्वा कनीनके । ततः स्रवत्यथोस्रावं यथादोषमवेदनम् ॥ इति विदेइः । केवलेन वातेनासम्भवाद् वातिकस्रावो न भवतीति वोध्यम् । ४ वदन्तीति शेषः । ५ नैकरूपः = सन्निपातजत्वाद् बहुरूप इत्यर्थः । ६ सन्धिमध्यात् = कनीनक-सन्धिमध्यात् । ७ पर्वण्यलज्योर्लक्षणमभिदधाति - ताम्रेति । इयं रक्तजा कफानिलजा च । ८ तस्मिन्नेव = कृष्णशुक्लयोरेव सन्धौ, पूर्वलिङ्गे: - पर्वणीलिङ्गैः । अनयोः स्थानल-क्षणाभ्यामैक्येऽपि पदंणी तन्वी, अलजी स्थूलेति भेदः । तथा च विदेह: - " शुक्लकृष्णा • न्तसन्धौ तु चीयन्तेऽसृक्कफानिलाः । पर्वणीपिडका तैस्तु जायते त्वङ्कुरोपमा । ताम्रा सदाह चोषोष्णपीतकाश्रुसमाकुला । कफपित्ते तु सम्मूच्छर्थ सह रक्तेन मारुतः । शुक्ल-कृष्णान्तसन्धौ तु जनयेद् गोस्तनाकृतिम् । पिडकामलजी तां तु विद्धि तोदाश्रु-सङ्कुलाम् ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1060
पाठ पढ़ें पाठ छिपाएँ
९ ०२ Digitized by Arya Samaj सुश्रुतसंहितायां-and eGangotri [ अ ० ३
क्रिमिंग्रन्थिर्वर्त्मनः पक्ष्मणश्च कण्डं कुर्युः क्रिमयः सन्धिजाताः ।
नानारूपा वर्त्मशुक्लस्य सन्धौ चरन्तोऽन्तर्नयनं दूषयन्ति ॥ ९ ॥
- इति सुश्रुत संहितायामुत्तरतन्त्रे सन्धिगतरोगविज्ञानीयो नाम द्वितीयोऽध्यायः ॥२ ॥
Alin
तृतीयोऽध्यायः ।
अथातो वर्त्मगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
पृथग्दोषाः समस्ता वा यदा वर्त्मव्यपाश्रयाः ।
सिरा व्याप्यावतिष्ठन्ते वस्वधिक मूच्छिताः ॥ ३ ॥
विवद्धर्चं मांसं रक्तञ्च तदा वर्त्मव्यपाश्रयान् ।
विकाराञ्जनयन्त्याशु नामतस्तान्निबोधत ॥ ४ ॥
उत्सङ्गिन्यथ कुम्भीका पोथक्यो वर्त्मशर्करा । १ क्रिमिग्रन्थिलक्षणमभिधत्ते - क्रिमीति । कफजोऽयं साध्यश्च । वत्र्त्मनः पक्ष्मणश्च सन्धिजाता इति सम्बन्ध: । विदेह: - " वरमशुक्लस्य सन्धौ तु ग्रन्थिः पित्तकफात्मकः । ऊष्मणा पच्यते गाढं तत्र मूर्च्छन्ति जन्तवः ॥ सुसूक्ष्मजातचरणा वर्त्मपदमसमाश्रयाः । ततस्ते पूयसंसृष्टाः पतन्ति क्रिमयस्तथा ॥ लक्षणैर्विविधैर्युक्ताः सन्निपातसमुत्थिताः । क्रिमिग्रन्थि तु तं विद्याद्देहिनां नेत्रदूषणम् ॥ ” इति । २ चरन्तः भक्षयन्तः, ' चर गतिभक्षणयोः ' इति धातुः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतशालाक्यतन्त्रे सुधा ss व्य टिप्पन्यां द्वितीयोऽध्यायः । तृतीयोऽध्यायः । ३ ‘ वर्त्मजास्त्वेकविंशतिः " इति क्रमागतत्वादधुना वर्त्मगतरोगविज्ञानीयमधिकरो-ति - अथेति । नयनगोलकावरकं निमेषोन्मेष । श्रयं पटलद्वयं वर्त्म उच्यते । द्वे वर्त्म • नी, " वर्त्मनी नयनच्छदौ ' इति कोशः । ४ तत्र तावद्वर्त्मरोगाणां सम्प्राप्ति वक्ति-पृथगिति। ५ श्रयोपसर्गस्य मध्यार्थकत्वाद् वर्त्मव्यपाश्रया वर्त्ममध्यगता इत्यर्थः । ६ अधिकमूच्छिताः = अतिशयप्रकुपिताः । ७ एकविंशतिवर मंगतरोगाणां नामानि CC - 0. Gurukul Kangri Collection, Haridwar