सुश्रुत संहिता चौखम्बा — पृष्ठ 1051–1060

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1051–1060

पृष्ठ 1051

सुश्रुत संहिता चौखम्बा, पृष्ठ 1051 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj Foundation Chennai and eGangotri अ ० ८ ] ८ ९ ३

कल्पस्थानम् ।

दष्टलक्षणमाख्यातं चिकित्सा चाप्यनन्तरम् ॥ १३ ९ ॥

सर्विंशमध्यायशतमेतदुक्तं विभागशः ।

इहोद्दिष्टाननिर्दिष्टानर्थान् वक्ष्याम्यथोत्तरे ॥ १४० ॥

सनातनत्वाद्वेदानामक्षरत्वात् तथैव च ।

तथा दृष्टफलत्वाच्च हितत्वादपि देहिनाम् ॥ १४१ ॥

वाक्समूहर्थविस्तारात् पूजितत्वाच्च देहिभिः ।

चिकित्सितात् पुण्यतमं न किञ्चिदपि शुश्रुमः ॥ १४२ ॥

ऋषेरिन्द्रप्रभावस्यामृर्तयोनेर्भिषग्गुरोः ।

धारयित्वा तु विमलं मतं परमसम्मतम् ।

उक्ताहारसंमाचार इह प्रेत्य च मोदते ॥ १४३ ॥

इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां कल्पस्थाने कोटकल्नो नामाष्टमोऽध्यायः ॥ ८ ॥

पिपीलिकाः षट्, मक्षिकाः षट्, मशकाः पञ्च, जलौकसो द्विविधाः, वृश्चिकास्त्रिंशत्, लूताः षोडश इति । ' सप्तषष्ठस्य ' इति पाठान्तरम् । १ एतत् = पूर्वतन्त्रम् । २ अनि ॰ दिंष्टान् = शालाक्यकौमारकाय चिकित्साभूत विद्याऽऽदीन् । ३ चिकित्सितस्य पुण्यतमत्वं प्रतिपादयति- सनातनत्वादिति । सनातनत्वात् = नित्यभवत्वात्, वेदानामित्यत्र आद्यङ्गशब्दौ लुप्तनिर्दिष्टौ तेन आयुर्वेदाङ्गानां शल्या-दीनामित्यर्थः । अश्चरत्वात् = अविचलनात्मकत्वात् । ४ दृष्ट फलत्वात् = प्रत्यक्षफ-लत्वात् । ५ वाक्समूहेऽर्थविस्तारो यस्मिन् स तथोक्तात् । ६ श्रमृतयोनैः = धन्व-न्तरेरित्यर्थः । ७ उक्तावाहारसमाचारौ विद्येतेऽस्येत्युक्ताहारसमाचारः पुरुषः इह इहलोके, प्रेत्य परलोके च मोदते हृष्यतीत्यर्थः । इति पण्डितश्रीकपिलदेवमिश्रतनुजन्मना मिश्रोपाहृश्री सुदामाशर्मणा निम्मितायां सुश्रुतसंहितायाः सुधाऽख्यटिप्पन्यां कल्पस्थाने कीटकल्पो नामाष्टमोऽध्यायः । समाप्तमिदं कल्पस्थानम् । XX CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1052

सुश्रुत संहिता चौखम्बा, पृष्ठ 1052 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj Foundation Chennai and eGangotri अथ उत्तरतन्त्रम् ।

प्रथमोऽध्यायः ।

अथात औपद्रविकमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

अध्यायानां शते विंशे यदुक्तमसकृन्मया ।

वक्ष्यामि बहुधा सम्यगुत्तरेऽर्थानिमानिति २ ॥ ३ ॥

इदानीं तत् प्रवक्ष्यामि तन्त्रमुत्तरमुत्तमम् ।

निखिलेनोपदिश्यन्ते यत्र रोगा पृथग्विधाः ॥ ४ ॥

शालाक्यतन्त्राभिहिता विदेहाधिपकीर्त्तिताः ।

ये च विस्तरतो दृष्टाः कुमौराबाध हेतवः ॥ ५ ॥

अथ, उत्तरतन्त्रम् । ( शालाक्यतन्त्रम् )

मूकोऽपि वावदूको भवति यदीयां दयामुपादाय ।

वीणामण्डितपाणिः सा वाणी सद्गुणा जयति ॥

१ पञ्चस्थानात्मकं पूर्वतन्त्रं परिसमाप्य भगवता सुश्रुतेन “ अधिकृत्य कृतं यस्मा-तन्त्रमेतदुपद्रवान् । श्रपद्रविक इत्येव तस्याग्रयत्वान्निरुच्यते ॥ ” इति पूर्वं प्रतिज्ञात-त्वान्नानाविघार्थप्रतिपादकमुत्तरतन्त्रमधिकरोति - प्रथात इति । उपद्रवान् रोगान-धिकृत्य कृतोऽध्याय श्रपद्र विकस्तम् । उपद्रवाधिकृततन्त्रस्य प्रथमत्वादध्यायस्य निरुक्त्या ' श्रपद्रविक ' इति नामकरणम् । २ इमानर्थान् बहुधा उत्तरे सम्यग् वदया-मि, इति यद् यस्मात्कारणाद् मया श्रसकृद् वारं वारम् अध्यायानां शते विंशे पञ्च • स्थानात्मकपूर्वतन्त्रे इत्यर्थः । उक्तं कथितम्, तत्तस्मात्कारणादिदानीमुत्तममुत्तरं तन्त्रं प्रवक्ष्यामीति सम्बन्धः । ३ यत्र - - यस्मिन्नुत्तरतन्त्रे । ४ शलाकायाः कर्म शालाक्यम्, तत्प्रधानं तन्त्रं, तत्राभिहिताः शालाक्यतन्त्रा-भिहिताः । " शालाक्यं नामोर्ध्वजत्रु गतानां श्रवणनयनवदनत्राणादिसंश्रितानां व्या-घीनामुपशमनार्थम् " इत्युक्तं स्मर्तव्यम् । विदेद्दाधिपो निमिस्तेन कीर्तिताः प्रणीता विदेहाधिपकीर्तिताः । ५ कुमाराणां वालानामाबाधे हेतवः, स्कन्दग्रहप्रभृतय इत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1053

सुश्रुत संहिता चौखम्बा, पृष्ठ 1053 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १ ] Digitized by Aryana Formation Chennai and eGangotri ८ ९ ५

पैंट्सु कायचिकित्सासु ये चोक्ताः परमर्षिभिः ।

उपसर्गादयो रोगा ये चाप्यागन्तवः स्मृताः ॥ ६ ॥

त्रिषष्टी रससंसर्गाः स्वस्थवृत्तन्तथैव च ।

युक्तार्था युक्तयश्चैव दोषभेदास्तथैव च ॥ ७ ॥

यत्रोक्ता विविधा अर्था रोगसाधनहेतवः ।

महतस्तस्य तन्त्रस्य दुर्गार्धस्याम्बुधेरिव ॥ ८ ॥

आदावेवोत्तमाङ्गस्थान रोगानभिदधाम्यहम् ।

सङ्ख्यया लक्षणैश्चापि साध्यासाध्यक्रमेण च ॥ ९ ॥

विद्याद् द्वयङ्गलबाहुल्यं स्वाङ्गुष्ठोदरसम्मितम् ।

द्व्यङ्गुलं सर्वतः सार्द्धं भिषङ्नयनबुदबुदम् ॥। १० ॥

सुवृत्तं गोस्तनाकारं सर्वभूतगुणोद्भवम् ।

" भुवोऽग्नितो रक्तं वातात् कृष्णं सितं जलात् ॥ ११ ॥

१ षट्सु == वातपित्तकफसन्निपातशोणितागन्तुजभेदेन षड्विधा स्वित्यर्थः । २ परम · र्षिभिः = अग्निवेशभेडजातूकर्ण पराशरहारीतक्षारपाणिप्रभृतिभिरित्यर्थः । ३ उपसर्गा-दयः- ज्वरादयः । ४ आगन्तवः = मानसत्वेनोपदिष्टा उन्मादादयः । ५ युक्तार्थाः = प्रमाणोपपन्नार्थाः, युक्तयः = तम्त्रयुक्तयः । श्रस्याग्रे केषाञ्चन सम्मतपाठः— “ विदे हाधिपतिः श्रीमान् जनको नाम विश्रुतः । श्रालम्भयज्ञप्रवणः सोऽयजद् ब्राह्मणैर्वृतः ॥

तस्य यागप्रवृत्तस्य कुपितो भगवान् रविः । दृष्टि प्रणाशयामास सोऽनुतेपे महत्तपः ॥

दीप्तां शुस्तपसा तेन तोषितः प्रददौ पुनः । चतुर्वेदं प्रसन्नात्मा सर्वभूतानुकम्पया ॥ ” इति । ६ दुर्गाधस्य = अगाधस्य । ७ अत्र चकारेण हेतु चिकित्से समुच्चीयेते, साध्यासाध्यक्रमेण चेति चकारेण चिकित्सितेनेति समुच्चयः । ८ अक्षिगोलकं वर्णयति - विद्यादिति । द्व्यङ्गुलप्रमाणं बाहुल्यं स्थौल्यं यस्य तद् द्व्यङ्गुलबाहुल्यम् 9 अङ्गुलीनां स्थौल्यस्य वैषम्यात्पुनराह - स्वाङ्गुष्ठोदर सन्निभम् । ९ सर्वंत आयामविस्ताराभ्यां द्वयङ्गुलं सार्द्धमर्थं तृतीयाङ्गुलम्, आतुरोपक्रमणीये – “ द्वथ · ङ्गुलायतं च नयनम् ” इति यदुक्तं तद् वर्त्ममण्डलं गृहीत्वा गणनयाऽर्ध तृतीयाङ्गुलमिति-न विरुध्यते । नयनबुद्बुदं = नेत्रगोलकम् । श्रत्र नयनमण्डलमिति पाठान्तरम् । १० गो • स्तनाकारं = क्षीरपूर्णगोस्तनसदृशम्, सर्वभूतेभ्यस्तद् गुणेभ्यश्चोद्भवो यस्य तत् सर्व-भूतगुणोद्भवम् । सर्वभूतेभ्यो नेत्रगोलकं सिरास्नाय्वस्थिसहितं साश्रुमार्गमुत्पन्नं, " तद्गुणेभ्यश्च रक्तसितकृष्णगुणा उत्पन्ना इत्यर्थः । ५ येन भूतेन नयनगोलकमारभ्यते, येन च रक्तादय इति निरूपयति - पलमि--CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1054

सुश्रुत संहिता चौखम्बा, पृष्ठ 1054 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८ ९ ६ Foundation Digitized by Arya Samaj F सुश्रुतसंहिताया and eGangotri

आकाशादथुमार्गाश्च जायन्ते नेत्रबुदबुदे ।

' दृष्टिञ्चात्रतथा वक्ष्ये यथा ब्रूयाद्विशारदः ॥ १२ ॥

नेत्रायामत्रिभागन्तु कृष्णमण्डलमुच्यते । [ अ ० १ कृष्णात् सप्तममिच्छन्ति दृष्टिं दृष्टिविशारदाः ॥ १३ ॥

मण्डलानि च सन्धश्च पटलानि च लोचने ।

यथाक्रमं विजानीयात् पञ्च षट् च षडेव च ॥ १४ ॥

पक्ष्मैव श्वेत कृष्णदृष्टीनां मण्डलानि तु ।

अनूपूर्वन्तु ते ' मध्याञ्चत्वारोऽन्त्या यथोत्तरम् ॥ १५ ॥

पक्ष्मवत्मगतः सन्धिर्वर्त्मशुक्ल गतोऽपरः ।

शुक्लकृष्णगतस्त्वन्यः कृष्णदृष्टिगतोऽपरः ।

ततः कनीनर्कंगतः षष्ठश्च पाङ्गगः स्मृतः ॥ १६ ॥

द्वे वर्त्मपटले विद्याश्चत्वार्य्यन्यानि चाक्षिणि ।

जायते तिमिरं येषु " व्याधिः परमदारुणः ॥ १७ ॥

" तेजोजलाश्रितं बाह्यं तेष्वन्यत् पिशिताश्रितम् । ति । पलं = मांसम् " भुवः = पृथिव्याः | १ पूर्वाचार्यप्रतिपादितप्रमाणानुरूपं दृष्टिम-ण्डलं प्रतिपादयति- दृष्टिमिति । २ विशारदः = चतुर्वेदपण्डितः, विदेह इत्यर्थः । ३ सप्तमं = सप्तमभागम् । श्रातुरोपक्रमणीये- “ नवमस्तारकांशो दृष्टिः " इति तारकानव-मांशो दृष्टिः शल्यतन्त्रानुसारेण, तारकासप्तमांशो दृष्टिरिति शालाक्यसिद्धान्तेन तार-काशब्देन कृष्णविभागः । एवं च कृष्णसप्तमभागत्वेनापि " मसूर दलमात्रां तु " इत्य. त्रोक्ता मसुरार्धदलप्रमाणा दृष्टिरित्येक एवार्थः । ४ नेत्रमण्डलसन्धिपटलानां संख्यामाह - मण्डलानीति । लोचने पञ्च मण्डलानि, षट् सन्धीन्, षडेव पटलानि यथाक्रमं विजानीयादित्यर्थः । ५ तान्येव नेत्रगत • पञ्चमण्डलानि निर्दिशति - पक्ष्मेति । ६ ते = पदमादयो दृष्टयन्ताः, मध्याश्चत्वा · रः = कृष्णादयः, यथोत्तरम् = अन्त्याः । ७ नेत्रगतषट्सन्धीन् दर्शयति — पक्ष्मेति । ८ कनीनकगतः = नासासमीपवर्तिनेत्रान्तभागावस्थितः, अपाङ्गगः = नेत्रप्रान्तान्तः · स्थित इत्यर्थः । ‘ अपाङ्गस्त्वङ्गद्दीने स्यान्नेत्रान्ते तिलकेऽपि च ' इति मेदिनी । ९ षट पटलान्याख्याति — द्वे इति । १० येषु = चतुर्षु पटलेष्वित्यर्थः । ११ तिमिराश्रयभूतानि तान्येव चत्वारि पटलानि चिकित्साथै विभजते - तेज इति । तेजः शब्देन रक्तं, जलशब्देन रसो बोद्धव्यः । तेन तेजोबलाश्रितमित्यस्य रसरक्ताश्र -CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1055

सुश्रुत संहिता चौखम्बा, पृष्ठ 1055 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १ ] Digitized by Arya seat Chennai and eGangotri मेदम्तृतीयं पर्टलमाश्रितन्त्वस्थि चापरम् ॥ १८ ॥ '

पञ्चमांशसमं दृष्टेस्तेषां बाहुल्यमिष्यते ।

सिराणां कण्डराणाञ्च मेदसः कालकस्य च ॥ १ ९ ॥

गुणाः कालात्परः श्लेष्मा बन्धनेऽक्ष्णोः सिरायुतः ।

सिरौऽनुसारिभिर्दोषैर्विगुणैरुध्वमागतैः ॥ २० ॥

जायन्ते नेत्रभागेषु रोगाः परमदारुणाः ।

तत्राविलं ससंरम्भमश्रुकण्डूपदेहवत् ॥ २१ ॥

गुरुषातोद रागाद्यैर्जष्टञ्चाव्यक्तलक्षणैः ।

सशूलं वर्त्म कोषेषु शूकपूर्णामेव च ॥ २२ ॥

१० ८ ९ ७ न रोगों का ३०

विहन्यमानं " रूपे वा क्रियास्वति यथा पुरा ।

दृष्ट्वैव धीमान् बुध्येत दोषेणाधिष्ठितं तु तत् ॥ २३ ॥

तत्र ' ' सम्भवमासाद्य यथादोषं भिषग्जितम् " ।

विदध्यान्नेत्रजा रोगा बलवन्तः स्युरन्यथा ॥ २४ ॥

सङ्क्षेपत: " क्रियायोगो निदानपरिवर्जनम् । यमित्यर्थः । बाह्यं = नेत्रगोलकस्य प्रथमं पटलम्, अन्यत् = द्वितीयम् । पिशिताश्रि-तं मांससंश्रयम् । १ पटलं = त्वक्, मेदःसंश्रयम् । अपरं = चतुर्थम् । कालकास्थि-संस्थितम् । २ दृष्टेः = म्वाङ्गुष्ठोदरस्थूलस्य नेत्रस्य, पचमांशसमं तेषां चतुर्णां पट-लानां मिलितानामित्यर्थः । बाहुल्यं = स्थौल्यम् । ३ कालकस्य = कालकास्थनः । ४ कालात् = कृष्णभागात् परः = शुक्लभागः, बन्धने = परस्परं संहनने । ५ नेत्ररोगाणां सामान्यां सम्प्राप्तिं प्रतिपादयति - सिरेति । ६ नेत्रभागेषु = नेत्रस्य दृष्टाद्यवयवेषु । ७ नेत्ररोगाणां पूर्वरूपमाचष्टे — तत्रेति । श्राविलं = कलु-न्, अश्रुपूर्णमित्यर्थः । ससंरम्भम् = ईषद्रागवेदनम्, उपदेहो दूषिका विद्यतेऽस्येति उपदेहवत् । पत्रादिशब्दः गुरुत्वादिभिः प्रत्येकं सम्बध्यते, तेन गुरुत्वादिश्लेष्म-चिह्नेः, श्रोषादि पित्तचिह्नः, तोदादिवात चिह्नः, रागादिशोणितचि हैरित्यर्थो बोध्यः । ९ शुकपूर्णाभं = धान्यादीनां तीक्ष्णाग्रेण प्रपूरितमिव क्लेशावहमित्यर्थः । १० रूपे नीलपीतादौ क्रियासु दर्शनोन्मीलितादिषु यथा पुरा श्रासीत्, ततो विहन्यमानं विकृ · तिमापद्यमानमक्षि दृष्ट्वैवेति परेणान्वयः । ११ नेत्ररोगे पूर्वरूपे एव क्रिया कार्येत्युपदिशति – तत्रेति । १२ भिषग्जितं = भेषजमित्यर्थः क्रियायोग इत्यर्थः ॥ १३ संशोधनसंशमनादि ५७ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1056

सुश्रुत संहिता चौखम्बा, पृष्ठ 1056 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८ ९ ८ Digitized by Arya Samaj Foundation Chennai and eGangotri " सुश्रुतसंहिताया [ अ ० १ वातादीनां प्रतीघातः प्रोक्तो विस्तरैतः पुन. ॥ २५ ॥

उष्णोभितप्तस्य जलप्रवेशाद् दूरे क्षणात् स्वप्नविपर्य्ययाच्च ।

प्रसक्तसंरोदनकोपशोकक्लेशाभिघातादतिमैथुनाच्च ॥ २६ ॥

शुक्तारनालाम्लकुलत्थमाषनिषेव रणाद्वेगविनिग्रहाच्च ।

स्वेदादथो धूमनिषेवणाच्च छदैर्विघाताद्वमनातियोगात् ।

बाष्पग्रहात् सूक्ष्म निरीक्षणाच्च नेत्रे विकारान् जनयन्ति दोषाः ॥ २७ ॥

वार्ताद्दश तथा पित्तात् कफाच्चैव त्रयोदश ।

रक्तात् षोडश विज्ञेयाः सर्वजाः पञ्चविंशतिः ॥ २८ ॥

तथा बाह्यौ पुनद्वौ च रोगाः षट्सप्ततिः स्मृताः ।

हताधिमन्थो निमिषो दृष्टिर्गम्भीरका च या ॥ २ ९ ॥

यच्च वातहतं वत्मै न ते सिध्यन्ति वातजाः ।

याप्योऽथ तन्मयः काचः साध्याः स्युः सान्यमारुताः ॥ ३० ॥

शुष्काक्षिपाकाधीमन्थस्यन्दमारुतपर्य्ययाः ।

असाध्यो ' ' ह्रस्वजाड्यो यो जलस्रावश्च पैत्तिकः ॥ ३१ ॥

परिम्लायी च नीलश्च याप्यः काचोऽथ तन्मयः । १ विस्तरतो विस्तरेण पुनः वातादीनां प्रतीघातो येनौषधप्रयोगेण वातादीनां विघातः सः क्रियायोगः प्रोक्त इत्यर्थः । २ नेत्ररोगनिदानानि वक्ति - उष्णेति । उष्णेनातपादिना सन्तप्तदेह उष्णाभितप्तस्तस्य तथोक्तस्य, जलप्रवेशात् = जलावगाह · नात्, शीतावृतदेइस्योर्ध्वगतेनोष्मणा नयन तेज सोऽभिभवाच्चक्षू रोगोदय इति भावः । दूरेक्षणात = दूरस्थद्रव्यदर्शनात्, स्वप्नविपर्ययात् = रात्रिजागरणाद्दिवास्वप्नाच्चेत्यर्थः । ३ क्लेशः कामक्रोधादिदुःखं, तेनाभितापः पीडा तस्मात् । ४ स्विद्यतेऽनेनेति स्वे-दोऽग्न्यादिस्तस्मात् । ५ बाष्पप्रदात = अश्रुवेगधारणात् यदुक्तम्- " आनन्दजं वाऽप्यथ • शोकजं वा नेत्रोदकं प्राप्तममुष्चतो हि । शिरोगुरुत्वं नयनामयाश्च भवन्ति तीव्राः सह पीनसेन " इति तन्त्रान्तरे । ६ नेत्ररोगाणां संख्यामाख्याति - वातादिति । ७ बाह्यौ = बहिर्निमित्तभव, एकोऽभिघातोत्पन्नः सनिमित्तः, श्रन्यः सुरर्षिगन्धर्वादिदर्शनाभिहतशक्तिरनिमित्तः । इमे षट्सप्ततीरोगा ये नामादितो निर्दिश्यन्ते । तन्त्रान्तरेऽष्टसप्तती रोगा उक्ताः, तेऽपि प्रदर्श्यन्ते । ८ वातजन्य नेत्ररोगाणां साध्यासाध्ये विचारयति - हतेति । ९ तन्मयः == वातात्मक इत्यर्थः । १० पित्तजन्यनेत्ररोगाणां साध्यासाध्यविचारं दर्श-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1057

सुश्रुत संहिता चौखम्बा, पृष्ठ 1057 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १ ] Digitized by Arya Samaj सिम् Ghennai and eGangotri ८ ९९ अभिष्यन्दोऽधिमन्थोऽम्लाध्युषितं शुक्तिको च या ॥ ३२ ॥

दृष्टिः पित्तविदग्धा च धूमदर्शी च सिद्ध्यति ।

असाध्यः कफजः स्रावो याप्यः काचश्च तन्मयः ॥ ३३ ॥

अभिष्यन्दोऽधिमन्थश्च बलासग्रथितञ्च यत् ।

दृष्टिः श्लेष्मविदग्धा च पोथक्यो लगणश्च यः ॥ ३४ ॥

क्रिमिग्रन्थिपरिक्लिन्नवर्त्मशुक्ला पिष्टकाः ।

श्लेष्मोपनाहः साध्यास्तु कथिताः श्लेष्मजेषु तु ॥ ३५ ॥

रक्तस्रावोऽजकाजातं शोणितार्शोत्ररणान्वितम् ।

शुक्रं न साध्यं काचश्च याप्यस्तज्जः प्रकीर्त्तितः ॥ ३६ ॥

मन्थस्यन्दौ क्लिष्टवर्त्म हर्षोत्पतौ तथैव च ।

सिराजाताऽञ्जनाख्या च सिराजालञ्च यत् स्मृतम् ॥ ३७ ॥

पर्वण्यथाव्रणं शुकं शोणितार्मार्जुनश्च यः ।

एते साध्या विकारेषु रक्तजेषु भवन्ति हि ॥ ३८ ॥

पूयास्रावो नाकुलान्ध्यमक्षिपाकात्ययोऽलजी ।

असाध्याः सर्वजा याप्याः काचः कोपश्च पक्ष्मणः ॥ ३ ९ ॥

वर्त्मावबन्धो यो व्याधिः सिरासु पिडका च या ।

प्रस्तार्यर्माधि मांसास्नाय्वर्मोत्सङ्गिनी च या ॥। ४० ॥

पूयालसश्चाबुर्दश्च श्यावकर्दमवर्त्मनी ।

तथाऽर्शोवर्त्म शुष्कार्शः शर्करा वर्त्म यच्च वै ॥ ४१ ॥

सशोफश्चाप्यशोफश्च पाको बहुलवर्त्म च ।

अक्लिन्नवर्त्म कुम्भीका बिसवर्त्म च सिध्यति ॥ ४२ ॥

सनिमित्तोऽनिमित्तश्च द्वावसाध्यौ तु बाह्यजौ पटसप्ततिर्विकाराणामेषां सङ्ग्रहकीर्तिता ॥ ४३ ॥

यति - असाध्य इति । १ शुक्तिका = शुक्ल भागगता । २ श्लेष्मजनेत्ररोगाणां साध्या-साध्ये विचारयति — असाध्य इति । ३ श्ले ० मजेषु = कफजेषु त्रयोदश मध्ये | ४ रक्तजनेत्ररोगाणां साध्यासाध्यविचारमाचष्टे - रक्तेति । ५ रक्त जेषु. Sy षोढसु शोणितेषु मध्ये । ६ सान्निपातिक नेत्र रोगाणां साध्यासाध्यविचारं प्रदर्शयति-पूयेति । ७ काचः पक्ष्मणः कोपश्च याप्य इत्यन्वयः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1058

सुश्रुत संहिता चौखम्बा, पृष्ठ 1058 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ०० Digitized by Arya Samaj Foundation Chennai and eGangotri ' सुश्रुतसंहिताया-[ अ ० २

नैव सन्ध्याश्रयास्तेषु वर्त्मजास्त्वेकविंशतिः ।

शुक्लभागे दशैकश्च चत्वारः कृष्णभागजाः ॥ ४४ ॥

सर्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु ।

बाह्यजौ द्वौ समाख्यातौ रोगौ परमदारुणौ ।

भूय एतान् प्रवक्ष्यामि सङ्ख्यारूपचिकित्सितैः ॥ ४५ ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे औपद्रविको नाम प्रथमोऽध्यायः ॥ १ ॥

द्वितीयोऽध्यायः ।

अथातः सन्धिगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

प्रयासः सोपनाहः स्रावाः पर्वणिकाऽलजी ।

क्रिमिग्रन्थिश्च विज्ञेया रोगाः सन्धिगता नव ॥ ३ ॥

१ सन्ध्याद्याश्रयभेदेन नेत्ररोगसंख्यानमाख्याति - नवेति । तन्त्रान्तरे— “ द्वादश

व्याधयो दृष्टौ तत्रैवान्यौ गदावुभौ । कृष्णमार्गे तु चत्वारो दशैकः शुक्ल भागजाः ॥

वर्त्मन्येको विंशतिश्च पक्ष्मजौ द्वौ प्रकीर्तितौ । नव सन्धिषु सर्वस्मिन् नेत्रे सप्तदशो-दिताः ॥ एवं नेत्रे समस्ताः स्युरष्टसप्ततिरामयाः ॥ ” इति । इति सुश्रुतसंहितायाः उत्तरतन्त्रान्तर्गत बाल क्यतन्त्रे सुधाऽऽख्यटिप्पन्यां प्रथमोऽध्यायः । द्वितीयोऽध्यायः । २ पूर्वाध्याये ‘ नवसन्ध्याश्रयास्त्रेषु " इत्युक्तं प्रतिगदितुं सन्धिगतरोगविज्ञानीय-- मध्यायमधिकरोति — अथेति । सन्धयस्तु – “ पदमवर्त्मगतः सन्धिवर्त्म शुक्ल गतो. ऽपरः । शुक्लकृष्णगतश्चान्यः कृष्णदृष्टिगतोऽपि च । मतः कनीनकगतः षष्ठश्चापाङ्गसं-श्रितः ॥ ” इति । तत्र सन्धिगतनेत्ररोगाणां नामानि निर्दिशति - पुयालस इति । ३ अन्यत्र क्रिमिग्रन्थिरित्यत्र जन्तुग्रन्थिरिति नामान्तरं दृश्यते । तद्यथा - " पूयालसः - सोपनाहः स्रावाश्चत्वार एव च । पर्वणिकाऽलजी जन्तुग्रन्थिः सन्धौ नबामयाः ॥ ” CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1059

सुश्रुत संहिता चौखम्बा, पृष्ठ 1059 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २ ] ९ ०१ Digitized by Arya Sand Foundation Chennai and eGangotri पक्कैः शोफः सन्धिजः संस्रवेद् यः स्वान्द्रं पूयं पूति पूयालसः सः ग्रन्थिर्नाल्पो दृष्टिसन्धावपाकः कण्डूप्रायो नीरुजस्तूपनाहः ॥ ४ ॥

गत्वौ सन्धीनश्रुमार्गेण दोषाः कुर्युः स्रावान् रुग्विहीनान् कनीनात् ।

तान् वै स्रावान् नेत्रनाडीमथैके । तस्या लिङ्गं कीर्त्तयिष्ये चतुर्धा ॥ ५ ॥

पाकः सन्धौ संस्रवेद् यश्च पूयं पूयास्रावो नैकरूपः प्रदिष्टः ।

श्वेतं सान्द्रं पिच्छिलं संस्रवेद्यः श्लेष्मास्रावो नीरुजः सः प्रदिष्टः ॥ ६ ॥

रक्तास्रावः शोणितोत्थः सरक्तमुष्णं नाल्पं संस्रवेन्नातिसान्द्रम् ।

पीताभासं नीलमुष्णं जलाभं पित्तास्रावः संस्रवेत् सन्धिर्मध्यात् ॥७ ॥

ताम्री तन्वी दाहशूलोपपन्ना रक्ताज्ज्ञेया पर्वणी वृत्तशोफा ।

जाता सन्धौ कृष्णशुक्लेऽलजी स्यात्तस्मिन्नेव ख्यापिता पूर्वलिङ्गैः ॥८ ॥

इति । १ पूवालसलक्षणमाख्याति - पक्व इति । श्रयं सन्निपातजन्यः साध्यश्च । सन्धिजः == कनीनकसन्धिजातः । यदाह विदेह: - " शोथक्लेद समाविष्टं तोदभेदसमाकु • लम् । “ पूयालसं तु तं विद्यात् सन्धौ कानोनके नृणाम् ॥ ” इति । २ उपनाहलक्षणं दर्शयति - ग्रन्थिरिति । कफजन्योऽयं साध्यश्च । नाल्पः = महान्, दृष्टिसन्धौ = दृष्टिविवरे जलकोष्ठपटोपरि, श्रपाकः = ईषत्पाकः, नीरुजः = ईषद्वे. दनः; “ वायुः श्लेष्माणमादाय दृष्टिसन्धौ व्यवस्थितः । अरुणं कठिनं ग्रन्थि जनयत्य-ल्पवेदनम् ॥ ” इति विदेहवचनात् । ३ चतुर्णी नेत्रस्रावाणां लक्षणानि वक्ति - गत्येति । एते चत्वारोऽप्यसाध्याः । सन्धीनिति बहुत्वेन सर्व एव सन्धयो गृह्यन्ते । अश्रुमार्गश-ब्देन सिरा बोध्या । तथा च " अश्रुस्रावः सिरा गत्वा नैत्रसन्धिषु तिष्ठति । ततः कनीनकं गत्वा चाश्रु कृत्वा कनीनके । ततः स्रवत्यथोस्रावं यथादोषमवेदनम् ॥ इति विदेइः । केवलेन वातेनासम्भवाद् वातिकस्रावो न भवतीति वोध्यम् । ४ वदन्तीति शेषः । ५ नैकरूपः = सन्निपातजत्वाद् बहुरूप इत्यर्थः । ६ सन्धिमध्यात् = कनीनक-सन्धिमध्यात् । ७ पर्वण्यलज्योर्लक्षणमभिदधाति - ताम्रेति । इयं रक्तजा कफानिलजा च । ८ तस्मिन्नेव = कृष्णशुक्लयोरेव सन्धौ, पूर्वलिङ्गे: - पर्वणीलिङ्गैः । अनयोः स्थानल-क्षणाभ्यामैक्येऽपि पदंणी तन्वी, अलजी स्थूलेति भेदः । तथा च विदेह: - " शुक्लकृष्णा • न्तसन्धौ तु चीयन्तेऽसृक्कफानिलाः । पर्वणीपिडका तैस्तु जायते त्वङ्कुरोपमा । ताम्रा सदाह चोषोष्णपीतकाश्रुसमाकुला । कफपित्ते तु सम्मूच्छर्थ सह रक्तेन मारुतः । शुक्ल-कृष्णान्तसन्धौ तु जनयेद् गोस्तनाकृतिम् । पिडकामलजी तां तु विद्धि तोदाश्रु-सङ्कुलाम् ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1060

सुश्रुत संहिता चौखम्बा, पृष्ठ 1060 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ०२ Digitized by Arya Samaj सुश्रुतसंहितायां-and eGangotri [ अ ० ३

क्रिमिंग्रन्थिर्वर्त्मनः पक्ष्मणश्च कण्डं कुर्युः क्रिमयः सन्धिजाताः ।

नानारूपा वर्त्मशुक्लस्य सन्धौ चरन्तोऽन्तर्नयनं दूषयन्ति ॥ ९ ॥

- इति सुश्रुत संहितायामुत्तरतन्त्रे सन्धिगतरोगविज्ञानीयो नाम द्वितीयोऽध्यायः ॥२ ॥

Alin

तृतीयोऽध्यायः ।

अथातो वर्त्मगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

पृथग्दोषाः समस्ता वा यदा वर्त्मव्यपाश्रयाः ।

सिरा व्याप्यावतिष्ठन्ते वस्वधिक मूच्छिताः ॥ ३ ॥

विवद्धर्चं मांसं रक्तञ्च तदा वर्त्मव्यपाश्रयान् ।

विकाराञ्जनयन्त्याशु नामतस्तान्निबोधत ॥ ४ ॥

उत्सङ्गिन्यथ कुम्भीका पोथक्यो वर्त्मशर्करा । १ क्रिमिग्रन्थिलक्षणमभिधत्ते - क्रिमीति । कफजोऽयं साध्यश्च । वत्र्त्मनः पक्ष्मणश्च सन्धिजाता इति सम्बन्ध: । विदेह: - " वरमशुक्लस्य सन्धौ तु ग्रन्थिः पित्तकफात्मकः । ऊष्मणा पच्यते गाढं तत्र मूर्च्छन्ति जन्तवः ॥ सुसूक्ष्मजातचरणा वर्त्मपदमसमाश्रयाः । ततस्ते पूयसंसृष्टाः पतन्ति क्रिमयस्तथा ॥ लक्षणैर्विविधैर्युक्ताः सन्निपातसमुत्थिताः । क्रिमिग्रन्थि तु तं विद्याद्देहिनां नेत्रदूषणम् ॥ ” इति । २ चरन्तः भक्षयन्तः, ' चर गतिभक्षणयोः ' इति धातुः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतशालाक्यतन्त्रे सुधा ss व्य टिप्पन्यां द्वितीयोऽध्यायः । तृतीयोऽध्यायः । ३ ‘ वर्त्मजास्त्वेकविंशतिः " इति क्रमागतत्वादधुना वर्त्मगतरोगविज्ञानीयमधिकरो-ति - अथेति । नयनगोलकावरकं निमेषोन्मेष । श्रयं पटलद्वयं वर्त्म उच्यते । द्वे वर्त्म • नी, " वर्त्मनी नयनच्छदौ ' इति कोशः । ४ तत्र तावद्वर्त्मरोगाणां सम्प्राप्ति वक्ति-पृथगिति। ५ श्रयोपसर्गस्य मध्यार्थकत्वाद् वर्त्मव्यपाश्रया वर्त्ममध्यगता इत्यर्थः । ६ अधिकमूच्छिताः = अतिशयप्रकुपिताः । ७ एकविंशतिवर मंगतरोगाणां नामानि CC - 0. Gurukul Kangri Collection, Haridwar