सुश्रुत संहिता चौखम्बा — पृष्ठ 1061–1070

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1061–1070

पृष्ठ 1061

सुश्रुत संहिता चौखम्बा, पृष्ठ 1061 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ] उत्तरतन्त्रम Digitized by Arya Samaj Foundation Chennai and eGangotri तथाऽशव शुष्कार्शस्तथैवाञ्जननामिका ॥ ५ ॥

बहलं वर्त्म यच्चापि व्याधिर्वर्त्मावबन्धकः ।

क्लिष्टकर्दमवर्त्माख्यौ श्याववर्त्म तथैव च ॥ ६ ॥

प्रक्लिन्नमपरिक्लिन्नं वर्त्म वातहतन्तु यत् ।

अर्बुदं निमिषश्चापि शोणितार्शश्च यत् स्मृतम् ॥ ७ ॥

लगणो विषनामा च पक्ष्मकोपस्तथैव च ।

एकविंशतिरित्येते विकौरा वर्त्मसंश्रयाः ॥ ८ ॥

नामभिस्ते समुद्दिष्टा ल गैस्तान् प्रचक्ष्महे ।

अभ्यन्तरमुखी बाह्योत्सङ्गेऽधो वर्त्मनश्च या ॥ ९ ॥

विज्ञेयोत्सङ्गिनी नाम तद्रूपपिडकाचिता ॥

कुम्भी बीजप्रतिमाः पिडका यास्तु वर्त्मजाः ॥ १० ॥

आध्मापयन्ति भिन्ना याः कुम्भीकपिडकास्तु ताः ।

स्राविण्यः कण्डुरा गुर्यो रक्तसर्षपसन्निभाः ।

पिडकाश्च रुजा त्यः पोथक्य इति संज्ञिताः ॥ ११ ॥

पिडकाभिः सुसूक्ष्माभिर्घनाभिरभिसंवृता । ब्रवीति -- उत्सङ्गिनीति । १. विकाराः = रोगाः । ९ ०३ २ उत्सङ्गिनीलक्षणमाख्याति - अभ्यन्तरेति । वत्र्त्मन एत्राभ्यन्तरे मुखं यस्याः सा श्रभ्यन्तरमुखी । ३ चकारेण विदेदोक्तकाठिन्यादिकं समुच्चीयते । तथा च विदेहः-“ वर्मोत्सङ्गे ऽघरे जन्तोः सन्तिपातात् प्रजायते । अभ्यन्तरमुखी स्थूला वाह्यतश्चापि दृश्यते ॥ पिका पिडकाभिश्च चिताऽन्याभिः समन्ततः । उत्सङ्गपिडका नाम कठिना मन्दवेदना । सा प्रभिन्ना स्रवेत् स्रावं कुक्कुटाण्डर सोपमन् ॥ ” इति । ४ कुम्भोकालक्षणं निर्दिशति - कुम्भीकेति । कुम्भीका कच्छदेशोद्भवा दा-डिमफलाकारफला लता, तद्वीजेन प्रतिमा यासां ता इत्यर्थः । सन्निपातजाः साध्याश्च । एषा त्रिदोषजा असाध्या चेति विजयरक्षितः । ५ पोथकीलक्षणं दर्शयति - त्रा-विण्य इति । स्राविण्यः = बहुस्रावाः, कण्डुराः = कण्डुयुक्ताः, गुर्व्यः = गौरवयुताः । ६ रुजावत्यः = रक्तसम्बन्धात् कफजा अपि वेदनाऽन्विता इत्यर्थः । एता श्रपि साध्याः । ७ वर्मशर्करालक्षणमभिदधाति - पिडकाभिरिति । विदेह: - " सुसूक्ष्मपिडका-कीर्णा या स्थूला पिडका खरा । जायते सन्निपातात्तु वर्त्मशर्करिकेति सा ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1062

सुश्रुत संहिता चौखम्बा, पृष्ठ 1062 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ०४ Digitized by Arya Sam सुश्रुतसंहितायां al and eGangotri [ अ ० ३ पिडका या खरौ स्थूला सा ज्ञेया वर्त्मशर्करा ॥ १२ ॥।

ऐर्वारुबीजप्रतिमाः पिडका मन्दवेदनाः ।

सूक्ष्माः खरौश्च वर्त्मस्थास्तदर्शो कीर्त्यते ॥ १३ ॥

दीर्घो'ऽङ्कुरः खरः स्तब्धो दारुणो वर्त्मसम्भवः ।

व्याधिरेष समाख्यातः शुष्कार्श इति संज्ञितः ॥ १४ ॥

दातोदवती ताम्रा पिडका वर्त्मसम्भवा ।

मृद्वी मन्दरुजा सूक्ष्मा ज्ञेया साऽञ्जननामिका ॥ १५ ॥

मपचीयते यस्य पिडकाभिः समन्ततः ।

सर्वंर्णाभिः समाभिश्च विद्याद् बहलवर्त्म तत् ॥ १६ ॥

कण्डूर्मताऽल्पतोदेन वर्त्मशोफेन यो नरः ।

न समं छादयेदक्षि भवेद् बन्धः स वर्त्मनः ॥ १७ ॥

मृर्द्वल्पवेदनं ताम्रं यद्वर्त्म सममेव च । १० अकस्माच्च " भवेद्रक्तं क्लिष्टवर्त्म तदादिशेत् ॥ १८ ॥

सन्निपातजेयं साध्या च । १ खरा = खरस्पर्शा । २ अर्शोवत्मलक्षणं प्रतिपाद-यति — एर्वार्चिति । एर्वारुः = प्रीष्मकर्कटी । ३ खराः = तीक्ष्णाग्राः वमस्था इत्य-विशेषिताभिधानादन्तर्बहिश्च वर्त्मनो भवतीति गम्यते । तथा च विदेह: - " नीरुजा कठिना वरमपचमान्तर्बाह्यतोऽपि वा । पिडका सन्निपातेन तदर्शोवर्त्म निर्दिशेत् ॥ ” इति । इदं सन्निपातजं साध्यं च । ४ शुष्कार्शो लक्षणमाख्याति - दीर्घ इति । दारु-णः = बहुदुःखदः । अत्र विदेह: - " वरमभ्यन्तर्गतं त्वर्शः शुष्कं स्थूलं च दारुणम् । जायते सन्निपातेन तच्छ्रुष्कार्शः प्रकीर्तितम् ॥ ” इति । सन्निपातजमिदं साध्यं च । ५ श्रञ्जननामिकालक्षणमभिधत्ते - दाहेति । इयं रक्तजा साध्या च । ६ बद्दल-वर्त्मलक्षणं वक्ति - वत्र्मेति । इदमपि सन्निपातजं साध्यं च । ७ सवर्णाभिः = त्वक्समानवर्णाभिरित्यर्थः । वर्त्मबन्धलक्षणमाइ – कण्डूमतेति । वर्त्मशोफेनो-पलक्षितो नरः स चक्षुर्न समं छादयेत् छादयितुं शक्नुयादित्यर्थः । सन्निपातजोऽयं व्याधिः साध्यश्च । ९ क्लिष्टवत्र्मलक्षणं ब्रवीति - मृद्विति । एतद्रक्तजं साध्यं च । रक्तजत्वेऽप्यस्य अल्पवेदनश्वमधिककफ दूषितत्वाद्रक्तस्य । वर्मेति निमिवचनाद् वर्त्म-द्वयं ग्राह्यम् । तथा च निमि: - " इलेष्मदुष्टेन रक्तेन क्लिष्टं मांसमिवोभयम् । बन्धु-जीवनिभं वर्त्म क्लिष्टवर्त्म तदुच्यते ॥ ” इति । समम् = एककालम् । १० अकस्मात् = श्रनियमादित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1063

सुश्रुत संहिता चौखम्बा, पृष्ठ 1063 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ] Digitized by Arya Samaj Foundation Chennai and eGangotri

क्लिष्टं पुनः पित्तयुतं विदद्देच्छोणितं यदा ।

तदा क्लिन्नत्वमापन्नमुच्यते वर्त्मकर्दमम् ॥ १ ९ ॥।

यद्वैर्त्म बाह्यतोऽन्तश्च श्यावं शूनं सवेदनम् ।

दाहकण्डूपरिक्लेदि श्याववर्मेति तन्मतम् ॥ २० ॥

अरुजं बाह्यतः शूनमन्तः क्लिन्नं स्रवत्यपि ।

कण्डूनिस्तोदभूयिष्ठं क्लिन्नवर्त्म तदुच्यते ॥ २१ ॥

धौतानि धौतानि सम्बध्यन्ते पुनः पुनः ।

वर्त्मान्यपरिपक्कानि विद्यादक्किन्नवर्त्म तत् ॥ २२ ॥

विमुक्तसन्धि निश्चेष्टं वर्त्म यस्य न मील्यते ।

एतद्वातहतं विद्यात् सरुजं यदि वाऽरुजम् ॥ २३ ॥

९ ०५ MM १ वमकर्दमलक्षणमभिदधाति - क्लिष्टमिति । क्लिष्टं क्लिष्टवत्मैव यदा पित्त. युतं शोणितं विदहेद् विरुद्धदाहेन संयोजयेत्, तदा क्लिन्नत्वमापन्नम् श्रार्द्रतां गतं वर्त्मकर्दम उच्यते इति सम्बन्धः । अयं पित्ताधिकसन्निपातजः साध्यश्च । २ श्या-ववर्त्मलक्षणं वक्ति — यद्वत्र्मेति । बहिरन्तश्च श्यावत्वं वातकृतम् । तथा च विदेह: -" दुष्टः श्लेष्मा मरुत्पित्तं वर्त्मनोश्चीयते यदा । श्रग्निदग्धनिभं श्यावं श्याववति तद्विदुः ॥ ” इति । एतद्वाताधिकदोषत्रयजन्यं साध्यं च । ३ क्लिन्नवर्त्मलक्षणं ब्रवीति - मरुजमिति । श्ररुजम् = ईषदव्यथम्, बाह्यतः शून = बहिः शोथयुक्तम् । क्वचिदस्य प्रक्लिन्नवरर्मेति नामभेदः । चक्षुष्येण पिल्ला-ख्यया पठितमिदम् । तथा हि-- " भृशं प्रक्लिद्यते वरमं कण्डूमन्मन्दवेदनम् । विद्यात् प्रक्लिन्नवत्र्मेति तत् पिल्लं सन्निपातजम् ॥ ” इति । विदेहवचनाद् अक्लिन्नवत्मैव पिल्लाख्यं, तस्य सन्निपातत्वात् । न तु प्रक्लिन्नवर्त्म, तस्य कफात्मकत्वात । इदं श्लेष्मजं साध्यं च । ४ श्रक्लिन्नवर्त्मलक्षणमभिदधाति यस्येति । यस्यरोगस्य वर्मानि तानि धौतानि पुनः पुनः प्रक्षालितानि बहिरन्तश्चापरिपक्कानि पाकर हितानि, तथाऽपि सम्बध्यन्ते श्रनह्यन्ते, पिल्लोपदेहेन संलग्नानि भवन्ति तदक्लिन्नवर्त्मविद्यादित्यर्थः । सन्निपातजं साध्यन्चेदम् । एतदेव पिल्लाख्यम् । तथा च विदेह: - " प्रक्षालितेऽथवा मृष्टे श्रानह्येत पुनः पुनः । अपरिक्लिन्नवर्मेति तत्पिल्लमिति निर्दिशेत् ॥ ” इति । क्वचित् पिल्लाख्यमन्यथा पठितम् - " पित्तश्लेष्मप्रकोपेण वर्त्मान्तः परिपाटयते । ताम्रं निर्लोम तच्चापि विशिष्टं पिल्ललक्षणम् ॥ ” इति । वाग्भटेन कुकूणकादीनामष्टादशानां पिल्लाख्या कृतेति बोध्या । ५ वाताहतवर्त्मलक्षणमाख्याति - विमुक्तेति । विमुक्तो विश्लिष्ट वर्त्मशुक्लगतः CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1064

सुश्रुत संहिता चौखम्बा, पृष्ठ 1064 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ०६ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३

वर्त्मान्तरस्थं विषमं ग्रन्थिभूतमवेदनम् ।

विज्ञेयमर्बुदं पुंसां सरक्तमवलम्बितम् ॥ २४ ॥

निमेषेणीः सिरा वायुः प्रविष्टो वर्त्मसंश्रयाः ।

चालयत्यति वर्त्मनि निमेषः स गदो मतः ॥ २५ ॥

छिन्नश्छिन्ना विवर्द्धन्ते वस्था मृदवोऽङ्कुराः ।

दाहकण्डूरुजोपेतास्तेऽर्शः शोणितसम्भवाः ॥ २६ ॥

अपौकः कठिनः स्थूलो ग्रन्थिर्वर्त्मभवोऽरुजः ।

सकण्डूः पिच्छिलः कोलप्रमाणो लगरणस्तु सः ॥ ६७ ॥

शूनं यद्र बहुभिः सूक्ष्मैश्छिद्रैः समन्वितम् । सन्धियंस्मात् तद् विमुक्तसन्धि स्थानच्युतसन्धि, निश्चेनिष्क्रियम् 9 निमेषोन्मेषर • हितमित्यर्थः । अत एव न मील्यते सङ्क चतीत्यर्थः । क्वचित् ' निमील्यते ' इति पाह । तत्र निमीलितमेव तिष्ठतीत्यर्थः । युक्तोऽयं पाठः । वातजमिदमसाध्यञ्च । १ वर्मा-र्बुदलक्षणं प्रतिपादयति - वत्मेति । वर्त्मान्तरस्थं = वत्मनोऽभ्यन्तरस्थम्, विषमं = कष्टकारि, ग्रन्थिभूतं === ग्रन्थिरूपेण स्थितम् अवेदनमिति ईषदर्थे नज्, तेन ग्रन्थि-रिवाल्पवेदनमित्यर्थः । सन्निपातजं साध्यं च । २ सरक्तं = पित्तानुबन्धात् किञ्चि द्रक्तमित्यर्थः । श्रवलम्बितं = वरर्माश्रितम् । ३ निमेषलक्षणमभिदधाति - निमेषिणीरिति । यदूवलेन निमेषोन्मेषौ भवतस्ताः सिरा निमेषिण्यः । वायुः वर्त्मसंश्रयाः निमेषिणीः सिराः प्रविष्टः सन् वर्मानि चाल यतीश्यन्त्रयः । ‘ वर्त्मसंश्रयाः ' इत्यत्र ' सन्धिसंश्रयाः ' इति पाठान्तरम् । तत्र सन्धि-संश्रया वर्त्मशुक्लगता इत्यर्थः । चक्षुष्येण चोन्मेषणीः सिरा इत्युक्तम् । तथा च तद्व · चनम् - " उन्मेषणी: सिरा वायुः प्रविश्य चावतिष्ठते । श्रत्यर्थं चालयेद्वर्त्म निमेषः स न सिध्यति ॥ ” इति । वातजोऽयमसाध्यश्च । ४ शोणिताशलक्षणं वक्ति - छिन्ना इति । ये शोणितसम्भवा मृदवो वर्त्मस्था अङ्कुरा अङ्कुराकारा मांसोच्छ्रयाः छिन्नारिछन्ना दाइकण्डूरुजेोपेताः सन्तो विवर्धन्ते तेऽङ्कुरा अर्शः शोणितार्श इत्यर्थः । इद रक्त जमसाध्यं च । तथा च विदेह: - " वायुः शोणितमादाय सिराणां प्रमुखे स्थितः । जनयत्यङ्कुरं ताम्रं वर्त्मनि च्छिन्नरोहणम् । तच्छोणितार्थोऽसाध्यं स्याद्रक्तस्राव्यथ नीरुजम् ॥ ” इति । ५ लगणलक्षणमाह-अपाक इति । व्याधिरयं इलेष्मजः साध्यश्च । तथा च सात्यकिः– “ वर्मोपरिष्टाद्यो ग्रन्थिः कठिनो न विपच्यते । नीरुजो लगणो नाम रोगः श्लेष्मसमुद्भवः ॥ ” इति । ६ विसवर्त्मलक्षणमभिधत्ते – शुनमिति । एतत् सन्निपातजं साध्यं च । सात्य-किस्तु -- “ बिसस्योपाचितस्येव बहुमांससिरामुखम् । बिसवत्र्मेति जानीयाद् दुश्चि. CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1065

सुश्रुत संहिता चौखम्बा, पृष्ठ 1065 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

ऋ ०४ ] Digitized by Aryaton Chennai and eGangotri बिसमन्तर्जल इव बिसवर्त्येति तन्मतम् ॥ २८ ॥

दोषाः ' पक्ष्माशयगतास्तीक्ष्णाग्राणि खराणि च ।

निर्वर्त्तयैन्ति पक्ष्माणि तैर्घुष्टञ्चादि दूयते ॥ २ ९ ॥

उद्घृतैरुद्घृतैः ३ शान्तिः पक्ष्मभिश्चोपजायते । on वातातपानलद्वेषी पक्ष्मकोपः स उच्यते ॥ ३० ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रे वर्त्मगतरोगविज्ञानीयो नाम तृतीयोऽध्यायः ॥ ३ ॥

चतुर्थोऽध्यायः । ९ ०७ अथातः शुक्लगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ॥१ ॥

यथोवाच भगवान्धन्वन्तरिः ॥ २ ॥ gup.

अस्तारि शुक्ल क्षतजाधि मांसस्नाय्वर्मसंज्ञाः खलु पञ्च रोगाः ।

स्युः शुक्तिका चार्जुनपिष्टकौ च जालं सिराणां पिडकाञ्च याः स्युः ॥३ ॥

रोगा क्लासग्रंथितेन सार्द्धमेकादशाक्ष्णोः खलु शुक्लभागे । कित्स्यं त्रिदोषजम् ॥ " इत्याह । १ पदमकोपलक्षणं प्रतिपादयति- दोषा इति । सन्निपातजोऽयं व्याधिः साध्यश्च । पदमाशयो वर्त्म तद्भताः पक्ष्माशयगताः । २. नि वर्तयन्ति = नेत्रान्तः प्रवेशयन्ति । पक्ष्माणि = प्रतिवालान् । ३ उद्धृतैरुद्धृतैः = उन्मूलितैरुन्मूलितैः । अन्यत्र उपपदमनाम्ना पठितोऽयम् – “ पदमोपरोधो वातेन को डोऽन्तर्मुखरोगवान् । रोमैरन्तर्मुखैरन्यैरुपपदम मलैस्त्रिभिः ॥ ” इति । इति सुश्रुतसंहितायाः उत्तरतन्त्रान्तर्गतशालाक्यतन्त्रे सुधाऽऽख्यटिप्पन्यां तृतीयोऽध्यायः । चतुर्थोऽध्यायः । ४ क्रमप्राप्तं “ शुक्लभागे दशैकश्च " इति प्रागुक्तं निरूपयितुं शुक्लगतरोगवि--ज्ञानीयाध्यायमधिकरोति - अथेति । वर्त्ममण्डलाद् शुक्लमण्डलस्यानन्तर्यात् तद्गत • रोगविज्ञानीयाध्यायस्यारम्भो युक्त एव । ५ एकादशानां नेन्नशुक्ल भागगतरोगाणां नामानि निर्दिशति - प्रस्तारीति । प्रस्तार्यादिभिः पञ्चभिः सह श्रर्मशब्दस्य सम्ब-न्धः । ६ चकारात् सिराशब्दस्य अत्राक्षिप्य अन्वयात् सिरापिडकाश्चेत्यर्थः । ७ ब. लासग्रथितेन = बलासग्रथितनाम्नेत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1066

सुश्रुत संहिता चौखम्बा, पृष्ठ 1066 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ०८ Digitized by Arya Samaj सुश्रुतसंहित amare Gangotri [ अ ०४ प्रस्तौरि प्रथितमिहार्म शुक्लभागे विस्तीर्णं तेनु रुधिरप्रभं सनीलम् ४

/ शुक्लाख्यं मृदु कथयन्ति शुक्लभागे संश्वेतं सममिह वर्द्धते चिरेण ।

यन्मांसं प्रचयमुपैति शुक्लभागे पद्माभं तदुपदिशन्ति लोहितार्म ॥ ५ ॥

विस्तीर्णं मृदु बहलं यकृत्प्रकाशं श्यावं वा तदधिकमांसजार्म विद्यात् । शुक्ले, यत्पिशितमुपैति वृद्धिमेतत्स्नाय्वर्मेत्यभिपठितं खरं प्रपाण्डु । ६ । श्यावाः स्युः पिशितनिभाश्च बिन्दवो ये १ शुक्त्याभाः सितनयने स शुक्तिसंज्ञः । “ एको यः शशरुधिरोपमस्तु बिन्दु: प्रस्तार्यर्मलक्षणं दर्शयति - प्रस्तारीति । २ तनु = अबइलम्, रुधिरप्र-भं = रक्तवर्णम्, सनीलम् = ईषन्नोलम्, सहयोगेनाप्राधान्याद् ईषन्नीललोहितमि. त्यर्थः । “ समन्ताद्विस्तृतः श्यावो रक्तो वा मांससञ्चयः । सन्निपातेन दोषाणां प्रस्ता मं तदुच्यते ॥ ” इति निमिः । इदं सन्निपातजं साध्यं च । ३ शुक्लार्मलक्षणं दर्श. यति - शुक्लाख्यमिति । शुक्लाख्यं = शुक्लार्मेत्यर्थः । ४ सश्वेतं = किश्चिच्छवे-तम्, समं = समानम्, चिरेण = चिरकालेन, वर्धते श्लेष्मजस्वादित्यर्थः । ५ रक्ता र्मलक्षणं प्रतिपादयति - यदिति । प्रचयं वृद्धिम् । रक्तजमेतत् साध्यं च । ६ अधिमांसार्मंलक्षणमभिदधाति - विस्तीर्णमिति । विस्तीर्णे = विततम्, -मृदु = कोमलम्, बहलं ' = स्थूलम् । यकृत्प्रकाशम् = ईषत्कृष्णलोहितम् । श्यावं वेति बाशब्दः समुच्चये, तेन श्यावं लोहितं चेत्यर्थः । एतच्च त्रिदोषजं साध्यं च । ७ स्ना-खर्मलक्षणमाख्याति — शुक्ल इति । पिशितं = मांसम् । इदं प्रस्तार्यमोद्भवम् । तथा च विदेह: - " प्रस्तारिणोऽर्मणः स्रावं निरुणद्धि यदाऽनिलः । विना स्रावं विशुष्कं तत् स्नायर्मेति प्रकीर्तितम् ॥ ” इति । ८ शुक्तिका लक्षणमभिधत्ते - श्यावा इति । श्यावा: = पाण्डुश्यामाः पिशित निभाः = मांससमानदीप्तयः, शुक्त्याभाः - जलशुक्तिनिभाः । श्यावा इत्यादिवर्णत्रये विकल्पो बोध्यः । पित्तजोऽयं साध्यश्च । “ पित्तं कुर्यात् सिते विन्दूनसितश्यावपीत-कान् । मलाक्तादर्शतुल्यं वा सर्वे शुक्लं सदाइरुक् । रोगोऽयं शुक्तिका सन्ज्ञः सशकृ-भेदतृड्ज्वरः ॥ ” इति वाग्भटः । ९ अर्जुनलक्षणमाह - एक इति । शशरुधिरो-पमः- = शशरुधिरवल्लोदित इत्यर्थः । श्रयं रक्तजः साध्यश्च । तदुक्तम् - " शक्रगोप • निभं शुक्लेऽर्जुनं रक्तप्रकोपतः " इति । बिन्दुरूपत्वेऽनियम इति ज्ञेयम् । अत एव तन्त्रान्तरे— “ कृष्णभागे सितं बिन्दु शुक्लं विद्यात् कफात्मकम् । रक्तं च शुक्लभाग-स्थमर्जुनं शोणितोद्भवम् ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1067

सुश्रुत संहिता चौखम्बा, पृष्ठ 1067 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

27 अ ० ४ ] Digitized by Arya Samation Chennai and eGangotri ९ ० ९ शुक्लस्थो भवति तमर्जुनं वदन्ति ॥ ७ ॥

उत्सन्नः सलिलनिभोऽथ पिष्टशुक्लो विन्दुर्यो भवति स पिष्टकः सुवृत्तः । जोलाभः कठिनसिरो महान् सरक्तः सन्तानः स्मृत इव जालसंज्ञितस्तु ॥ ८ ॥

शुक्लैस्थाः सितपिडकाः सिरावृताया-स्ता विद्यादसितसमीपजाः सिराजाः । कांस्याभो भवति सितेऽम्बुबिन्दुतुल्यः सज्ञेयोऽमृदुररुजो बलासकाख्यः ॥ ९ ॥

p. इति सुश्रुतसंहितायामुत्तरतन्त्रे शुक्लगतरोगविज्ञानीयो नाम चतुर्थोऽध्यायः ॥४ ॥

१ पिष्टकलक्षणं ब्रवीति - उत्सन्न इति । उत्सन्नः = सलिलनिभः = उन्नतः जलवत् स्वच्छः, पिष्टशुक्लः - तण्डुल पिष्टवच्छुक्लः । कफजोऽयं साध्यश्च । तन्त्रान्त-शत् कफवातजोऽयम् । तथा च माधव कर: - " इलेष्ममारुतकोपेन शुक्ले पिष्टं समुन्नतम् | पिष्टवत् पिष्टकं विद्धि मलाक्कादर्शसन्निभम् ॥ ” इति । २ सिराजाललक्षणमाख्याति - जालाभ इति । अनुलोमविलोम सिरानिचयरचि--तनिरन्तरविवरगवाक्षीभावात् जालस्येव आभा श्राकृतिर्यस्य स तथा । | सरक्तः = - ईषल्लोहितः, सन्तनोति श्राच्छादयतीति सम्तानः । रक्तजोऽयं साध्यश्च । ३ सिरा-जपिडकालक्षणमाचष्टे - शुक्लस्था इति । सित पिडकाः = सितवर्णाः पिडकाः, सिरा-कृताः = सिराव्याप्ताः, असितसमीपजाः = कृष्ण भागाभ्य शुक्लजाः, सिराजा वास्तु-स्थितसिरापरिवृतत्वेन, न तु साक्षात् सिराजाता इत्यर्थः । त्रिदोषजोऽयं साध्यश्च । ४ बलासग्रथितलक्षणमभिधत्ते - कांस्याम इति । कांस्यस्येवाभा दीप्तिर्यस्य स तथा, श्वेत इत्यर्थः । श्रम्बुबिन्दुतुल्यः = मनागुन्नतत्वाद्वारिविन्दुसदृशः, श्रमृदुः = कठिनः, अरुजः = वेदनारहितः, एतद्विशेषणद्वयं कफानिलजत्वात् । तथा च विदेहः-“ मारुतोत्पीडितः श्लेष्मा शुक्लभागे व्यवस्थितः । जलबिन्दुरिवोच्छूनो ममृदुः कफस-म्भवः ॥ ” इति । श्लेष्मजोऽयं साध्यश्च । श्रत्र सिर ेातसिराहर्षौ वाग्भटेन पठितौ । तथा हि - " रक्तराजीनिभं शुक्ले उ'यतेऽपि सवेदनम् । श्रशोथाश्रूपदेहं च सिरोत्पातः सशोणितम् ॥ उपेक्षितः सिरोत्पातो राजीस्ता एवं वर्धयन् । कुर्यात् साखं सिराहर्षं तेनाच्युद्वीक्षणाक्षमम् ॥ ” इति । इति सुश्रुतसंहिताया उत्तरतन्त्रार्गत शालाक्यतन्त्रे सुधाऽऽख्यटिप्पन्यां चतुर्थोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1068

सुश्रुत संहिता चौखम्बा, पृष्ठ 1068 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ १० Digitized by Arya Samaj Four mp. सुश्रुतसंहिताया " Anai and eGangotri [ अ ०५

पञ्चमोऽध्यायः ।

अर्थातः कृष्णगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

यत्सव्रणं शुक्रमथाब्रणं वा पाकात्ययश्चाप्यजका तथैव ।

चत्वार एतेऽभिहिता विकाराः कृष्णाश्रयाः सङ्ग्रर्हतः पुरस्तात् ॥३ ॥

निमरूपं हि भवेत्तु कृष्णे सूच्येव विद्धं प्रतिभाति यद् वै 1 स्रावं स्रवेदुष्णमतीव रुक् च तत् सव्रणं शुक्रमुदाहरन्ति ॥ ४ ॥

दृष्टेः ' समीपे न भवेत्तु यच्च न चावगाढं न च संस्रवेद्धि ।

अवेदनावन्न च युग्भ्रंशुक्रं तत्सिद्धिमाप्नोति कदाचिदेव ॥ ५ ॥

विच्छिन्नमध्यं पिशितावृतं वा चलं सिरासक्तमदृष्टिकृच्च । पञ्चमोऽध्यायः । १ अथ क्रमागतं “ चत्वारः कृष्णभागजाः " इति सङ्क्षेपतः प्रागुक्तं स्फुटीकृत्य बोधनार्थं कृष्णभागगतरोगविज्ञानीयमध्याय मधिकरोति - अथात इति । २ तत्र चतुर्णां कृष्णभागगतरोगाणां नामानि निर्दिशति - यदिति । शुक्रं = ' फूली ' इति प्रथते । ' शुक्रः स्याद् भार्गवे ज्येष्ठमासे वैश्वानरे पुमान् । रेतोऽक्षिरुभिदोः क्लीबम् ' इति मेदिनी । शुकुमिति पाठान्तरम् । ३ सङ्ग्रदतः = सङ्क्षेपत । इत्यर्थः । ४ सव्रणशुक्रलक्षणमाख्याति - निमग्नेति । निमग्नरूपमिति शुक्रविशेषणम् । अन्तःप्रविष्टरूपमिति तदर्थः । रूपग्रहणमाभासनिषेधार्थम् । सूच्येव विद्धमिति वर्तु. लखख्यापनाय, सूचीव्यधनवद्वेदनादर्शनाय च । स्रावम् = अश्रू वात्मकम् । स्रवेदित्य-नैनैव स्रावो बोध्यते, पुनः स्रावपदं निरन्तरस्रावबोधनाय । एतद्रक्तजमसाध्यं च । अत्र विदेहः— “ रक्तराजीनिभं कृष्णे छिन्नाभं यत्र लक्ष्यते । सूच्यग्रेणेव तच्छुक्रमुष्णा--श्रुस्रावि सव्रणम् ॥ ” इति । ५ असाध्यतया निर्दिष्टस्य सव्रणशुक्रस्य अवस्थावशेन कादाचित्कसिद्धिमभिद-धाति — दृष्टेरिति । न चावगाढम् = एकत्बग्गतम्, न च संस्रवेत् = न चात्यन्तं स्रवेत्, किन्तु किञ्चिदेव स्रवेदित्यर्थः । ६ न च युग्मशुक्रम् = श्रयुग्मशुकमेकमित्यर्थः । एवं विधं कदाचित् सिध्यति, एतद्विपरीतं न सिद्ध्यतीति भावः । ७ सव्रणशुक्रस्य श्रसाध्यत्वलक्षणं वक्ति - विच्छिन्नेति । विच्छिन्नमध्यं = विशीर्णमासत्वान्निम्न-मध्यम्, पिशितावृतम् = उन्नत मांसरूपतया वेष्टितम्, सिरासक्तमत एव, चलम् = अन-वस्थितम्, यतः सिरा स्वभावतश्चलाः, तदाश्रितं शुक्रमपि चलमिति भावः । श्रदृष्टिकृत् = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1069

सुश्रुत संहिता चौखम्बा, पृष्ठ 1069 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ०५ ] Digitized by Arya SandHoundation Chennai and eGangotri ९ ११ द्वित्वग्र्गतं लोहितमन्ततश्च चिरोत्थितञ्चापि विवर्जनीयम् ॥ ६ ॥

उष्णोश्रुपातः पिडका च कृष्णे यस्मिन् भवेन्मुद्गनिभञ्च शुक्रम् । तदप्यसाध्यं प्रबदन्ति केचिदन्यच्च यत्तित्तिरिपक्षतुल्यम् ॥ ७ ॥.

सितं यदा भात्यसितप्रदेशे स्यन्दात्मकं नातिरुगभ्रयुक्तम् ।

विहायसीवाच्छधनानुकारि तदत्रणं साध्यतमं वदन्ति ॥ ८ ॥

गम्भीरजातं बहलञ्च शुक्रं चिरोत्थितञ्चापि वदन्ति कृच्छ्रम् ।

सञ्च्छाद्यते श्वेतनिभेन सर्व दोषेण यस्यासितमण्डलन्तु ॥ ९ ॥

तमक्षिपाकात्ययमक्षिको ८ समुत्थितं तीव्ररुजं वदन्ति । पुरीषप्रतिमो रुजावान् सलोहितो लोहितपिच्छिलाभ्रुः । दर्शनाभावकारि । १ द्वित्वग्गतं === पटलद्वयगतम्, अन्ततः = प्रान्तेषु लोद्दितम् । २ द्विपटलाश्रितस्य लक्षणं दर्शयति - उष्णेति | विदेहः – “ एकत्वग्गतमेवं स्याद् द्वित्वग्गतमिदं भवेत् । चोषोष्णस्रावदादास्तु तृष्णा च पिडकोद्गमः । व्यक्तमुद्गफला. कारं शुक्रं द्वित्वग्गतं भवेत् ॥ ” इति । एतेन मूले मुद्गनिभं च शुक्लमिति द्वित्वग्गतं बोध्यम् । ३ यच्च अन्यच्छुक्रं तित्तिरिपक्षतुल्यं तदप्यसाध्यं केचिद्वदन्तीत्यन्वयः । ४ श्रव्रणशुक्रलक्षणमाख्याति - सितमिति । स्यन्दात्मकम् = अभिष्यन्दहेतुकम् सर्वेषां नयनरोगाणामभिष्यन्दहेतुकत्वे, अस्य नियमबोधनार्थं स्यन्दात्मकमिति । ५ विहायसीव = आकाश इव, ' पुंस्याकाशविहायसी ' इत्यमरः । प्रच्छधनानुकारि = प्रतनुमेघखण्डानुकारि । छाराणचन्द्रस्तु - ' अच्छघनानुकारि ' इत्यत्र ' अभ्रदलानुकारि ' इति पाठं पठित्वा व्याख्याति - श्रभ्रं नामोपधातुविशेषः, तच्च श्वेंत मेवेह प्रत्येतव्यम्, सितदृष्टान्तानुगतत्वेनोपात्तत्वात् । तस्य दलं पत्रं तदनुकर्तुं शीलमस्येत्यभ्रदलानुकारि श्वेताभ्रमिवेति निष्कर्षः । एतेनैतदुक्तं भवति - स्वभावादुपर्युपरिविन्यस्तत्वेन फलकभू-तस्योपधातुविशेषस्याभ्रस्य पत्राकारस्तनुकऽशस्तत्प्रतीकाशं मेघखण्डं यथा नीलत्वेन गोलत्वेन चाध्यस्ते आकाशे प्रतिभाति, तथैवासितप्रदेशे कृष्णमण्डले यत् सित-माभाति तदेवावणं शुक्रमुच्यत इति । ६ गम्भीरजातं = द्वित्रित्वग्गतम्, बद्दलं = पुष्टमित्यर्थः । ७ अक्षिपाकात्ययलक्षणं ब्रवीति - सञ्च्छाद्यत इति । सन्निपातजोऽयमसाध्यश्च । दोषेण = दोषत्रितयेनेत्यर्थः । ८ अक्षिकोपसमुत्थितम् = अभिष्यन्दादुत्पन्नम् । ९ श्रज-काजातलक्षणमाह - अजेति । श्रजापुरीषप्रतिमः = शुष्क ाजपुरीषतुल्यः, सलोहितः -CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1070

सुश्रुत संहिता चौखम्बा, पृष्ठ 1070 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ १२ Digitized by Arya Samaj सुश्रुतसंहिताया and eGangotri [ अ ० ६ · विदार्य कृष्णं प्रेचयोऽभ्युपैति तञ्चाजकाजातमिति व्यवस्येत् ॥१० ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रे कृष्णगतरोगविज्ञानीयो नाम पञ्चमोऽध्यायः ॥ ५ ॥

षष्ठोऽध्यायः ।

अथौतः सर्वगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

स्यन्दौस्तु चत्वार इहोपदिष्टास्तावन्त एवेह तथाऽधिमन्थाः ।

शोफान्वितोऽशोफयुतश्च पाकावित्येवमेते दश सम्प्रदिष्टाः ॥ ३ ॥

हताधिमन्थोऽनिलपर्ययश्च शुष्काक्षिपाकोऽन्यत एव वातः ।

दृष्टिस्तथाऽम्लाध्युषिता सिराणामुत्पातहर्षावपि सर्वभागाः ॥ ४ ॥

प्रायेण सर्वे नयनामयास्तु भवन्त्यभिष्यन्दनिमित्तंमूला: ।

तस्मादभिष्यन्दमुदीर्यमाणमुपाचरेदाशु हिताय धीमान् ॥ ५ ॥

ईषल्लोहितावभासः । १ प्रचयः उद्गमः, तृतीयत्वग्गतत्वेन मेदलः प्रचयो बोद्धव्यः । श्रभ्युपैति समन्तादागच्छति । कफजोऽयमसाध्यश्च । अत्र विदेहः— “ कृष्णेऽऽक्ष्णोर्यद्भवेच्छुक्रं छागलीविट्समप्रभम् । सान्द्रपिच्छिलरक्तास्रं त्रिखग्गमज • केति सा ॥ ” इति । इति सुश्रुतसंहितायाः उत्तरतन्त्रान्तर्गतशालाक्यतन्त्रे सुधाऽख्यटिप्पन्यां पञ्चमोऽध्यायः । षष्ठोऽध्यायः । २ अनुक्रमागतं " सर्वाश्रयाः सप्तदश " इति प्रागुक्तं व्याख्यातुं सर्वगतरोगविज्ञा नीयमध्यायमधिकरोति—- अथेति । गतशब्द श्राश्रयवचन:, तेन सर्वाश्रयरोगविज्ञानीय इत्यर्थः । ३ सर्वगतनेत्ररोगाणां नामानि निर्दिशति - स्यन्दास्त्विति । स्यन्दाः = श्रभिष्यन्दा इत्यर्थः । ४ सर्वभागाः = सर्वाधिष्ठाना इत्यर्थः । ५ अभिध्यन्दस्य सर्वनेत्ररोगमूलत्वं प्रतिपादयति — प्रायेणेति । ६ अभिष्यन्दाश्च तन्निमित्तानि च, तान्येव मूलं येषां ते तथोक्ताः । निमित्तशब्देन दुष्टा दोषा दोषप्रकोपणानि च ग्राइया-णि । ७ उदीर्यमाणम् = उत्पद्यमानमित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar