सुश्रुत संहिता चौखम्बा — पृष्ठ 1071–1080

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1071–1080

पृष्ठ 1071

सुश्रुत संहिता चौखम्बा, पृष्ठ 1071 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६ ] Digitized by Arya Samando Chennai and eGangotri ९ १३

निस्तोदनं स्तम्भन रोमहर्षसङ्घर्षपारुष्यशिरोऽभितापाः ।

विशुष्कभावः शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति ॥ ६ ॥

दाप्रपाको शिशिराभिनन्दा धूमायनं बाष्पसमुच्छ्रयश्च ।

उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति ॥ ७ ॥

उष्णाभिनन्दा गुरुताऽक्षिशोफः कण्डूपदेहो सितताऽतित्यम् ।

स्रावो मुहुः पिच्छिल एव चापि कफाभिपन्ने नयने भवन्ति ॥ ८ ॥

ताम्राश्रुता लोहितनेत्रता च राज्यः समन्तादतिलोहिताश्च ।

पित्तस्य लिङ्गानि च यानि तानि रक्ताभिपन्ने नयने भवन्ति ॥ ९ ॥

वृद्धैरेतैरभिष्यन्दैर्नराणामक्रियावताम् । or t तावन्तस्त्वधि मन्थाः स्युनयने तीव्र वेदनाः ॥ १० ॥

उत्पाटयत II इवात्यर्थं नेत्रं निर्मथ्यते तथा ।

शिरसोऽर्द्धं च तं विद्यादधिमन्थं स्वलक्षणैः " ॥ ११ ॥

१२ नेत्रमुत्पाट्यत इव मध्यतेऽरणिवच्च यत् ।

१३ सङ्घर्षतोदनिर्भेदमांससंरब्धमाविलम् ॥ १२ ॥

१ वाताभिष्यन्दलक्षणमाख्याति --- निस्तोदनमिति । श्रन्यत्र ' निस्तोदनस्तम्भ-नरोमहर्ष-- ' इति समस्तं पदम् । निस्तोदनं = सूचीव्यधनवद् व्यथा, स्तम्भनं = जडिमा, सङ्घर्षः = करकरिका, पारुष्यं = रूक्षता, शिरोऽभितापः = शिरोव्यथा । २ विशुष्कभावः = दूषिकाराहित्यम्, न तु आस्रावरहितत्वम्; शिशिराश्रुतेत्युक्तेः । वाताभिपन्ने = वातेनोपद्रुते । श्रयं साध्यः । ३ पित्ताभिष्यन्दलक्षणमाद - दाहेति । प्रपाकः = प्रकृष्टः पाकः, शिशिराभिनन्दा = शीतलेच्छा, धूमायनं = नेत्राद् धूमोद्गम इव, बाष्पसमुच्चयः = बाष्पबाहुल्यम् । साध्यमिदम् । ४ श्लेष्माभिष्यन्दलक्षणमाख्याति - उष्णेति । उष्णाभिनन्दा = उष्णेच्छा । ५ उपदेहः = दूषिकया लिप्तता । अयमपि साध्यः । ६ रक्ताभिष्यन्दलक्षणमभिद-घाति - ताम्रेति । ७ पित्तस्य लिङ्गानि = पित्ताभिष्यन्द लिङ्गानीत्यर्थः । एष साध्यः । ८ अधिमन्थानामभिष्यन्दजत्वं प्रतिपादयति-— वृद्धैरिति ॥९ तावन्तः – अभिष्य-न्दैर्वातपित्तकफरक्तजाश्चत्वार एवेत्यर्थः । १० अधिमन्थस्यापरं सामान्यलक्षणमाख्याति-उत्पाटयत इव । शिरसोऽर्घमुत्पाटयत इब, तथा निर्मथ्यते चेति सम्बन्धः । शिर · सोऽर्धमुत्पाटयत इव निर्मथ्यते चेति अधिमन्थानामभिष्यन्देभ्यो भेदः, स च चतुर्विधे. धिमन्थेषु बोद्धव्यः । ११ स्वलक्षणैः = यथोक्त वाताद्य भिष्यन्दलक्षणैरित्यर्थः । १२ वाताधिमन्थलक्षणं दर्शयति- नेत्रमिति । साध्योऽसौ । १३ सङ्घर्षः = ५८ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1072

सुश्रुत संहिता चौखम्बा, पृष्ठ 1072 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ १४ Digitized by Arya Samar " सुश्रुतसंहितायां hai and eGangotri [ अ ० ६

कुञ्चनास्फोट नाध्मानवेपथुव्यथनैर्युतम् ।

शिरसोऽर्द्धञ्च येन स्यादधिमन्थः स मारुतात् ॥ १३ ॥

रक्तेराजिचितं स्रावि वह्निनेवावदह्यते ।

यकृत्पिण्डोपमं दाहि क्षारेणोक्तमिव क्षपम् ॥ १४ ॥

प्रपक्वोच्छ्रनंवर्त्मान्तं सस्वेदं पीतदर्शनम् ।

मूर्च्छा शिरोदाहयुतं पित्तेनाक्ष्यधिमन्थितम् ॥ १५ ॥

शोफर्वन्नातिसंरब्धं स्रावकण्डूसमन्वितम् ।

शैत्य गौरव पैच्छिल्य दूषिकाहर्षणान्वितम् ॥ १६ ॥

रूपं पश्यति दुःखेन पांशुपूर्णमिवाविलम् ।

नासाध्मानशिरोदुःखयुतं श्लेष्माधिमन्थितम् ॥ १७ ॥

बन्धुजीवप्रतीकाशं ताम्यति स्पर्शनाक्षमम् ।

रक्तास्रावं सनिस्तोदं पश्यत्यग्निनिभा दिशः ॥ १८ ॥

रक्तमग्नारिष्ट्वच्च कृष्णभागश्च लक्ष्यते ।

यद्दीप्तं रक्तपर्यन्तं तद्रक्तेनाधिमन्थितम् ॥ १ ९ ॥

हन्याद् दृष्टिं सप्तरात्रात् कफोत्थोऽधीमन्थोऽसृक्सम्भवः पञ्चरात्रात् षड्रात्राद्वै मारुतोत्थो निहन्यान्मिथ्याचारात् पैत्तिकः S सद्य एव ॥ २० ॥

to ' कण्डूपदेहाश्रुयुतः पक्वोदुम्बरसन्निभः । करकरिका, तोदः = सूचीव्यधनवद् व्यथा, निर्भेद: = शस्त्रेण विदारणवद् वेदना, मांससंरब्धं = मांसशूनता, श्राविलं = मलयुतम् । १ पित्ताधिमन्थलक्षणं वक्ति-रक्तेति । साध्योऽयम् । २ क्षारेणाक्तं क्षारलिप्तं क्षतमिव दहनशीलमित्यर्थः । ३ प्रपक्कोच्छुनवरमा॑न्तं = पाकशोथाभिभूतवर्त्मप्रान्तम् । ४ श्लेष्माधिमन्थलक्षणं ब्रवी-ति — शोफवदिति । श्रयमपि साध्यः । नातिसंरब्धं = नात्यर्थरागवेदनम् । ५ दूः षिका = नैत्रमलम् । ६ रक्ताधिमन्थलक्षणमाख्याति — बन्धुजीवेति । एव साध्यः । बन्धुजीवः = ' दुपहरिया फूल ' इति प्रथते । ताम्यति = खिद्यति । ७ अरिष्टः = ‘ रीठा इति ख्यातः । तद्वत् कृष्णभागो लक्ष्यते । ८ स चाधिमन्थो यदात्मको यावता कालेन मिथ्याऽऽचाराद् दृष्टिं हन्ति, तं प्रति-पादयति - हन्यादिति । ९ सद्यःशब्देनात्र त्रिरात्रमुच्यते, वैद्यके सद्यः शब्दस्य त्रिरात्र सप्तरात्रवाचित्वात् । १० सशोफपाकलक्षणमभिधत्ते —कण्डिति । श्रयं CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1073

सुश्रुत संहिता चौखम्बा, पृष्ठ 1073 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५०६ ] Digitized by Arya Samanten Chennai and eGangotri दाहसंहर्षताम्रत्वशोफनिस्तोदगौरवैः ॥ २१ ॥

जुष्टो मुहुः स्रवेच्चास्रमुष्णशीताम्बु पिच्छिलम् । संरम्भी पच्यते यश्च नेत्रपाकः सशोफजः ॥ २२ ॥–

शोफहीनानि लिङ्गानि नेत्रपा त्वशोफजे । ९ १५

उपेक्षणादति यदाऽधिमन्थो वातात्मकः सायति प्रसह्य ।

रुजाभिरुग्राभिरसाध्य एष हताधिमन्थः खलु नाम रोगः ॥ २३ ॥

अन्तैःसिराणां श्वसनः स्थितो दृष्टिं प्रतिक्षिपन् ।

हताधिमन्थं जनयेत्तमसाध्यं विदुर्बुधाः ॥ २४ ॥

पक्ष्मद्वयाक्षिभ्रुवमाश्रितस्तु यत्रानिलः सञ्चरति प्रदुष्टः ।

पर्यायशश्चापि रुजः करोति तं वातपर्यायमुदाहरन्ति ॥ २५ ॥

र्यंत् कूरिणतं दारुणरूक्षवर्त्म विलोकने चाविलदर्शनं यत् ।

सुदारुणं यत् प्रतिबोधने " च शुष्काक्षिपाकोपहतं तदक्षि ॥ २६ ॥

त्रिदोषजः साध्यश्च । उपदेहः = नेत्रभलम् । १ संरम्भी = शोथवान् । २ अशोफपाक-लक्षणं दर्शयति- शोफेति । शोफहीनानि = सशोफपाकलिङ्गानीत्यर्थः । श्रयमपि त्रिदोषजः साध्यश्च । ३ सकलाक्षि शोषलक्षणं इताधिमन्थं लक्षयति — उपेक्षणादिति । तन्त्रान्तरे— " अथवा शोषयेदक्षि क्षीणतेजोबलादयम् । तत्पद्ममिव संशुष्कमवसीदति लोचनम् । ताधिमन्थं तं विद्यादसाध्यं वातकोपतः ॥ ” इति विदेहः । ४ सादयति = शोषय. ति । ५ दृष्टिनिर्गमलक्षणं इताधिमन्थं दर्शयति - अन्त इति । तन्त्रान्तरे – “ अन्त •

गतः सिराणां तु यदा तिष्ठति मारुतः । स तदा नयनं प्राप्य शीघ्रं दृष्टि निरस्यति ॥

तस्यां निरस्यमानायां निर्मन्थन्निव मारुतः । नयनं निर्वमत्याशु शूलतोदाधिमन्थनैः ॥ ” इति विदेहः । ६ प्रतिक्षिपन् = निष्कासयन् । ७ वातपर्यायलक्षणमभिधत्ते - पक्ष्मेति । ८ पर्यायशः = क्रमशः, कदाचिद् भ्रुवि, कदाचिन्नेत्रे इत्यर्थः । एष साध्यः । ९ शुष्काक्षिपाकलक्षणमाह - यदिति । कूणितं = सङ्कोचितं सदित्यर्थः । दारुणं कठिनं रूक्षं च वातशोषाद् वरमं यस्य तद् दारुणरूक्षवर्मं । १० प्रतिबोधने = उन्मेषणे, शुष्केणाक्षिपा केनोपहतमिति शुष्काक्षि. पाकोपहतम् । सरक्तवातजन्योऽयं व्याधिः । यदाह तन्त्रान्तरे - " कूणितं खरवर्त्माक्षि कृच्छ्रोन्मीलाविलेक्षणम् । सदाहं सासृजाद् वाताच्छुष्कपाकान्वितं वदेत् ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar 3021

पृष्ठ 1074

सुश्रुत संहिता चौखम्बा, पृष्ठ 1074 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ १६ Digitized by Arya शुश्रुतसंहिताया Bennai and eGangotri [ अ ० ६

य॑स्यावटूकर्णशिरोहनुस्थो मन्यागतो वाऽप्यनिलोऽन्यतो वा ।

कुर्याद्रुजोऽति भ्रुवि लोचने वा तमन्यतोवातमुदाहरन्ति ॥ २७ ॥

अम्लेने भुक्तेन विदाहिना वा सञ्च्छाद्यते सर्वत एव नेत्रम् ।

शोफान्वितं लोहितकैः सनीलैरेताहगम्लाध्युषितं वदन्ति ॥ २८ ॥

अवेदना वाऽपि सवेदना वा यस्याक्षिराज्यो हि भवन्ति ताम्राः ।

मुहुर्विरज्यन्ति च ताः समन्ताद् व्याधिः सिरोत्पात इति प्रदिष्टः॥२९ ॥

मोहात् सिरोत्पात उपेक्षितस्तु जायेत रोगस्तु सिराप्रहर्षः ।

ताम्राच्छमस्रं स्रवति प्रगाढं तथा न शक्नोत्यभिवीक्षितुञ्च ॥ ३० ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रे सर्वगतरोगविज्ञानीयो नाम षष्ठोऽध्यायः ॥६ ॥

१ अन्यतोवातलक्षणं निर्दिशति — यस्येति । अवटुः = घाटा, दीर्घ श्रार्ष:, मन्या-गतः = ग्रीवायाः पार्श्वयोः सिरागतः, अन्यतः 1 उक्तप्रदेशादितरत्र, पृष्ठत इत्यर्थः । सप्तम्यर्थे तसिः । एष वातिकः साध्यश्च । विदेहेऽपि - " मन्ययोरन्तरे वायुरुत्थितः पृष्ठ-तोऽपि वा । करोति भेदं निस्तोदं शङ्ख चादयोर्भुवोस्तथा । तमाहुरन्यतोवातं रोगं दृष्टि-विदो जनाः ॥ ” इति । २ अम्लाध्युषितलक्षणमभिदधाति – अम्लेनेति । विदा-हिना = कटुकेन लवणेन वा । ३ अम्लेन अत्यन्तमध्युषितमम्लाध्युषितं पित्ताभ्युषि-तम्, करणे कार्योपचारादिति सारम् । ४ सितोत्पातलक्षणमाख्याति - अवेदनेति । श्रक्षिराज्यः = नेत्रसिराः । ५ वि. रज्यन्ति = विरक्ता भवन्ति, विशेषरक्ता भवन्तीत्यर्थः । रक्तजोऽयं साध्यश्च । ६ सिरा-हर्षलक्षणममिधत्ते - मोहादिति । श्रसावपि रक्तजः साध्यश्च । वाग्भटे सिरोपात-सिराहर्षयोर्लक्षणम्– “ रक्तराजीनिभं शुक्ले उष्यतेऽपि सवेदनम् । अशोथाश्रूपदेहं च सिरोत्पातः सशोणितम् ॥ उपेक्षितः सिरोत्पातो राजीस्ता पत्र वर्धयन् । कुर्यात्सास्रं सिराहर्षं तेनादयुद्वीक्षणाक्षमम् ॥ ” इति । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतशालाक्यतन्त्रे सुधाऽऽख्यटिप्पन्यां षष्ठोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1075

सुश्रुत संहिता चौखम्बा, पृष्ठ 1075 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ७ ] ९ १७ Digitized by Arya Samaj Foundation Chennai and eGangotri उत्तरतन्त्र in Chennai:

सप्तमोऽध्यायः ।

अथातो दृष्टिगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

मसूरदलमात्रान्तु पञ्चभूतप्रसादजाम् ।

खद्योतविस्फुलिङ्गाभामिद्धां तेजोभिरव्ययैः ॥ ३ ॥

वृतां पटना ह्येने विवराकृतिम् ।

शीतसात्म्यां नृणां दृष्टिमा हुर्नयनचिन्तकाः ॥ ४ ॥

रोगांस्तदाश्रयान् घोरान् षट् च षट् च प्रचक्ष्महे ।

पटलानुप्रविष्टस्य तिमिरस्य च लक्षणम् ॥ ५ ॥

सिरोभिरभिसम्प्राप्य विगुणोऽभ्यन्तरे भृशम् । सप्तमोऽध्यायः । १ क्रमप्राप्तं " दृष्टिजा द्वादशैव तु " इति प्रागुक्तं प्रतिपादितुं दृष्टिगतरोगविज्ञानी. यमध्यायमधिकरोति — अथेति । २ तत्र नेत्रदृष्टिप्रमाणं दर्शयति- मसूरेति! मसूरदलमात्रां = मसूरार्धदलप्रमाणाम्, तथा च निमि: - " पञ्चभूतात्मिका दृष्टिर्मसू-राधे दलोन्मितिः ” इति । पञ्चभूतप्रसादजां = प्रसन्नपञ्च भूतात्मिकाम्, खद्योतो ज्योति-रिङ्गणः, विस्फुलिङ्गोऽग्निकणः, तयोरिव श्राभा दीप्तिर्यस्यास्तां तथोक्तां, निमेषे खद्यो • तवत, उन्मेषे च विद्योतमानत्वाद् विस्फुलिङ्गवदित्यर्थः । श्रव्ययैः = उपचयापचयर • हितैः, निर्विकारैरित्यर्थः । तेजोभिरिद्धां = तेजोविशिष्टामित्यर्थः । इद्धमित्यत्र सिद्धा-मिति पाठे उत्पन्नामित्यथों बोद्धयः । | ३ बाइयेन = रसरक्ताश्रयेण प्रथमपटलेन, यदाद प्राक् - " तेजोजलाश्रितं बाइयं तेष्वन्यत् पिशिताश्रितम् " इत्यादिना स्वयमेव । विवरस्य छिद्रस्याकृतिरिवाकृतिर्यस्याः सातां विवराकृतिम् । यद्यपि वायपटलावृतत्वादृदृष्टे रूपग्रहणसामर्थ्योपघातः प्राप्तः, तथाऽपि पटलस्यात्यन्ताच्छत्वाद् रोमकू रविवरान्तरत्वाच्च तेजःपरमाणूनां बहिश्चरत्वे रूपग्रहणसामर्थ्यं दृष्टेन हन्यते इति डल्द्दणः । ४ शीतेन सात्म्यां हितां शीतसा-त्म्याम् । यद्यपि शीतेन तेजोऽभिघातस्तथाऽपोइ एककार्यकरणार्थं सहोत्पन्नयोर्जला-ग्न्योर्न विरोधः । ५ दृष्टिगतरोगाणां सङ्ख्यामाख्याति - रोगानिति । तदाश्रयान् = दृष्ट्याश्रयान्, घोरान् = अतिशयक्लेशकरान् " षट् च षट् च = द्वादशैत्यर्थः । ६ पटलानुप्रविष्ट-स्य = पटलचतुष्टयप्रविष्टस्य । ७ प्रथमपटलगततिमिरलक्षणं दर्शयति - सिरादिभिरिति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1076

सुश्रुत संहिता चौखम्बा, पृष्ठ 1076 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ १८ Digitized by Arya Samaj सुश्रुतसंहितायां Chernal and eGangotri [ अ ० ७ प्रथमे पर्टले दोषो यस्य दृष्टौ व्यवस्थितः ॥ ६ ॥

अव्यक्तानि स रूपाणि सर्वाण्येव प्रपश्यति ।

दृष्टिर्भृशं विह्वलति द्वितीयं पटलं गते ॥ ७ ॥

मक्षिका मशकान् केशान् जालकानि च पश्यति ।

मण्डलानि पताकांश्च मॅरीचीः कुण्डलानि च ॥ ८ ॥

परिप्लँवांश्च विविधान् वर्षमभ्रं तमांसि च ।

दूरस्थान्यपि रूपाणि मन्यते च समीपतः ॥ ९ ॥

समीपस्थानि दूरे च दृष्टेर्गोचरं विभ्रमात् ।

यत्नवानपि चात्यर्थं सूचीर्पाशं न पश्यति ॥ १० ॥

ऊर्ध्वं पश्यति नाधस्तात्तृतीयं पटलं गते ।

महान्त्यपि च रूपाणि च्छादितानीव वाससा ॥ ११ ॥

अभिसम्प्राप्य = सम्यग् गत्वा, विगुणः = दुष्टः, अभ्यन्तरे = सवाभ्यन्तरे । १ पटले कालकास्थिसंश्रये; न तु बाह्ये; तत्र प्रथमं दोषलक्षणानुपलब्धेः । तथा च विदेहः— " यथा दोषाः प्रकुपिताः प्राप्य: रूपवद्दे सिरे । दृष्टेरन्तरमाद्यं तु पटलं समभिद्रुताः । एकैक्रमनुपद्यन्ते पर्यायात पटलान्तरम् ॥ ” इति । ' प्रथमे पटले ' इत्यादिग्रन्थात् पूर्व केचित् “ सिराभिरभिसम्प्राप्य विगुणोऽभ्यन्तरे भृशम् ” इति श्लोकार्थं सम्प्राप्तिरूपं पठन्ति सुश्रुते, तच्च “ सिरानुसारिभिर्दोषैरित्यनेनैव गतार्थमित्यनार्षे टीकाकारैर्व्या-ख्यातम् ' इति मधुकोशकारौ । २ रूपाणि = रूपवन्ति द्रव्याणि, अव्यक्तरूपाण्यपि तानि वातेन वच्यमाणभ्रमरारुणवर्णादियुक्तानि, पित्तेन श्रादित्यखद्योता दिपीतनील-वर्णानि, कफेन सितवर्णानि, रक्तेन रक्तवर्णानि, सन्निपातेन चित्रवर्णानि, एवं द्वितीय. तृतीयचतुर्थ पटलेष्वपि व्याख्येयम् । ३ द्वितीयपटलगततिमिरलक्षणं वक्ति - दृष्टिरिति । विह्वति पुनः पुनरसम्य • ग्रूपं गृह्णाति । द्वितीयं पटलं मांसरक्ताश्रयम् । विह्वलत्वमेत्र विवृणोति - मक्षिका इत्या • दिना । ४ जालकानि = मर्कटलालारचितजालकाकाराणि । ५ मरोची: = मृगतृष्णाः । मरीचीनिति पाठे चन्द्रादिरश्मी नित्यर्थः । ६ परिप्लवान् = चञ्चलान नक्षत्रान्, वि-विधान् = ऊर्ध्वाधस्तिर्यग्गत श्लेष्मा दिदोषवर्णे ननानाविधान् वर्षे = वृष्टिः, अभ्रं = मेवः, वर्षादीन् असन्त्यपि सन्तीव पश्यतीति तात्पर्यम् । ७ गोचरविभ्रमात् = विषयविभ्रमात् । ८ सूचीपाशं = सूचीरन्ध्रमित्यर्थः । ९ तृतीय पटलगततिमिरलक्षणमाह – ऊर्ध्वमिति । तृतीयं पटलं = मेद आश्रितम् । 1 CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1077

सुश्रुत संहिता चौखम्बा, पृष्ठ 1077 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ७ ] Digitized by Arya Samaj Foundation Chennai and eGangotri ९ १ ९ उत्तरतन्त्रमा

कर्णनासाऽक्षियुक्तानि विपरीतानि वीक्षते ।

यथादोषेञ्च रज्येत दृष्टिर्दोषे बलीयसि ॥ १२ ॥

अधःस्थिते समीपस्थं दूरस्थोपरिस्थिते ।

पार्श्वस्थिते तथा दोषे पार्श्वस्थानि न पश्यति ॥ १३ ॥

समन्ततः स्थिते दोषे सङ्कुलँानीव पश्यति ।

दृष्टिमध्यगते दोषे स एकं मन्यते द्विधा ॥ १४ ॥

द्विधास्थिते त्रिधा पश्येद् बहुधा चानवैस्थिते ।

तिमिर्राख्यः स वै दोषश्चतुर्थं पटलङ्गतः ॥ १५ ॥

रुणद्धि सर्वतो दृष्टिं लिङ्गनाशः स उच्यते ।

तस्मिन्नपि तमोभूते नातिरूढे महागदे ॥ १६ ॥

चन्द्रादित्यौ सनक्षत्रावन्तरीक्षे च विद्युतः ।

निर्मलानि च तेजांसि भ्राजिष्णूनि च पश्यति ॥ १७ ॥

एव लिङ्गनाशस्तु नीलिकाकाच संज्ञितः । ऊर्ध्वमपि यादृक् पश्यति तादृगाह - सुमहान्तीति । १ विपरीतानि = छिन्न करपादादी-नि । २ विदॆहो विशेषमुक्तवान्- " यथास्वं रज्यते दृष्टिर्दोषैस्त्रिपटलस्थितैः । चतुर्थ पटल-प्राप्तैर्मण्डलं रज्यते तु तैः ॥ ” इति । ३ श्रधःस्थिते समीपस्थं दूरस्थं च न पश्य-तीति सम्बन्धः । ४ सङ्कुलानि = अन्यान्यरूपेणैव मिश्राणि । ५ श्रनवस्थिते = अनिय · तावस्थाने, चञ्चले इत्यर्थः । ६ चतुर्थ पटलगत तिमिरलक्षणं वक्ति - तिमिरेति I । दोषा = रोग:, ' दोषा अपि रोगसंज्ञां लभन्ते ' इति शास्त्रात् । चतुर्थं पटलं = कालका स्थिश्रितम् ७ लिङ्गयते ज्ञायतेऽनेनेति लिङ्गं चक्षुरिन्द्रियशक्तिः, तस्य नाशो यस्मिन् स लिङ्गनाशो दोषः । अतः परं ' वदन्ति ' इति शेषः । तमोभूते = रूपस्यानुपलम्भादन्धकारसदृशे, भूतशब्दस्य सादृश्यवाचकत्वात् । ' भूतं प्राण्यतीते समे त्रिषु ' इत्यमरः । नातिरूढे = नातिवृद्धे | ८ भ्राजिष्णूनि = दीप्तिमन्ति वस्तूनि । ९ तस्यैव लिङ्गनाशस्यापरं सज्ञा. द्वयं प्रतिपादयति - स इति । नीलिका विशेषिता काचसन्ज्ञा सञ्जाता यस्य स इति गदाधरः । एतेन तृतीय पटलस्थदोषे काचसन्ज्ञा, चतुर्थे तु सा नीलिकया विशिष्यते इति फलति । निमि: - " काच इत्येष विज्ञेयो याप्यस्त्रिपटलोत्थितः । चतुर्थ पटल प्राप्त लिङ्गनाशः स उच्यते । प्रत्याख्येयश्च कफजो व्याधिः साध्यस्तु तद्विदा ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1078

सुश्रुत संहिता चौखम्बा, पृष्ठ 1078 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां-९ २० Digitized by Arya Samaj Foundation Chennai and eGangotri तत्रे वातेन रूपाणि भ्रमन्तीव स पश्यति ॥ १८ ॥

२ आविलान्यरुणोभानि व्याविद्धानि च मानवः ।

पित्तेनादित्यखद्योत शक्रचापतडिद्गुणान् ॥ १ ९ ॥

शिखिबर्हविचित्राणि नीलकृष्णानि पश्यति । [ अ ० ७ कफेन पश्येद्रूपाणि स्निग्धानि च सितानि च ॥ २० ॥

गौरचामरगौराणि श्वेताभ्रप्रतिमानि च ।

पश्येदसूक्ष्माण्यत्यथ व्यभ्रे चैवाभ्रसम्प्लवम् ॥ २१ ॥

सलिलप्लावितानीव परिजाडयौनि मानवः ।

तथा रक्तेन रक्तानि तमांसि विविधानि च ॥ २२ ॥

हरितश्याव कृष्णानि धूमधूम्राणि चेक्षते ।

सन्निपातेन चित्राणि विप्लुतानि च पश्यति ॥ २३ ॥

बहुधा वा द्विधा वाऽपि सर्वाण्येव समन्ततः ।

हीनाधिकाङ्गान्यथवा ज्योतींष्यपि च पश्यति ॥ २४ ॥

पित्तं कुर्य्यात् परिम्लायि मूच्छितं रक्ततेजसा ।

पीता दिशस्तथोद्यन्तमादित्यमिव पश्यति ॥ २५ ॥

१ वातादितिमिरलक्षणमभिदधाति -- तत्रेति । २ अरुणाभानि = किञ्चिद्रक्का-नि, व्याविद्धानि = कुटिलानि । ३ खद्योतः == ज्योतिरिङ्गणः, शक्रचापः = इन्द्रधनुः, तडित् = विद्युत्, गुणान् = रूपाणि, आदित्यादीनां रूपाणीत्यर्थः । ४ गौरचामर-गौराणि = सितचामरवच्छ्वेतानि । ५ असूक्ष्माणि = स्थूलानि । ६ परिजाड्यानि = परित: स्तिमितानि । ७ धूमधूत्राणि = धूमवेष्टितानीव । ८ चित्राणि नानावर्णानि विप्लुतानि = सर्वतोऽवकीर्णानि । ९ पित्तेनापरं परिम्लायिसन्ज्ञकं तिमिरमभिधत्ते - वित्तमिति । मूचितं = मि-श्रितम् । विदेद्दः– “ पि ं रक्तप्रसादेन मूच्छेविखा च मारुतम् । एष याप्यः स्मृतः काचो म्लायोनाम्ना शरीरिणाम् ॥ ” इति । अन्यत्र रक्तपित्ताभ्यामुक्तम् - " विदवाति परिम्लायि पित्तं रक्तेन सङ्गतम् । तेन पीता दिशः पश्येदुद्यन्तमिव भास्करम् ॥ ” इति । एक एवासौ परिम्लायी रोगोऽरागप्राप्तः सन् तिमिराख्यः, रागप्राप्तस्तु काचा · ख्यः, स एव किञ्चिद्दर्शननाशकारी लिङ्गनाशः । सर्वाण्येव तिमिराणि प्रथमद्वितीय-पटलगतानि साध्यानि । तृतीयपटल गवानि रागप्राप्त्या यदा काचाख्यानि भवन्ति तदा याप्यानि । तथा च तन्त्रान्तरे - " तृतीयं पटलं प्राप्तं तिमिरं रागि जायते । श्ररागि CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1079

सुश्रुत संहिता चौखम्बा, पृष्ठ 1079 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ०७ ] उत्तरतन्त्रम् । Digitized by Arya Samaj Foundation Chennai and eGangotri विकीर्य्यमाणान् खद्योतैवृक्षांस्तेजोभिरेव च । ९ २१ वक्ष्यामि षड्विधं रागलिङ्गनाशमतः परम् ॥ २६ ॥

रागोऽरुणो मारुतजः प्रदिष्टः पित्तात् परिम्लौय्यथवाऽपि नीलः ।

कफात् सितः शोणितजस्तु रक्तः समस्तदोषोऽथ विचित्ररूपः ॥ २७ ॥

रक्तजं मण्डलं दृष्टौ स्थूलकाचानलप्रभम् ।

परिम्लायिनि रोगे स्यान्म्लाय्यानीलैञ्च मण्डलम् ॥ २८ ॥

दोषक्षयात् कदाचित् स्यात् स्वयं तत्र च दर्शनम् ।

अरुणं मण्डलं वाताच्चञ्चलं परुषं तथा ॥ २ ९ ॥

पित्तान्मण्डलमानीलं कांस्याभं पीतमेव वा ।

श्लेष्मणा, बहुलं स्निग्धं शङ्खकुन्देन्दुपाण्डुरम् ॥ ३० ॥

चलत्पद्यपलाशस्थः शुक्लो बिन्दुरिवाम्भसः ।

सङ्कुचत्यातपेऽत्यर्थं छायायां विस्तृतो भवेत् ॥ ३१ ॥

मृद्यमाने च नयने मण्डलं तद्विसर्पति ।

प्रवालपद्मपत्राभं मण्डलं शोणितात्मकम् ॥ ३२ ॥

दृष्टिरागो भवेच्चित्रो लिङ्गनाशे त्रिदोषजे ।

यथास्वं दोषलिङ्गानि सर्वेष्वेव भवन्ति हि ॥। ३३ ॥

षड् लिङ्गनाशा: षडिमे च " रोगा दृष्ट्याश्रयाः षट् च षडेव च स्युः तथा नरः " पित्तविदग्धदृष्टिः कफेन चान्यस्त्वथ धूमदर्शी ॥ ३४ ॥

तिमिरं साध्यमाद्यं पटलमाश्रितम् । कृच्छ्र ं द्वितीये रागि स्यात्तृतीये याप्यमुच्यते ॥ ” इति । १. विकीर्यमाणान् = श्राच्छाद्यमानान् । २ वातादिभेदेन षड्विधं तिमिरमभिधाय रागैः षड्विधमभिः घाति - वक्ष्यामीति । ३ परिम्लायी == पीतवर्णः । ४ पूर्वोक्तपित्तजनितपरिम्लायिनो लक्षणमाह - रक्तजमि-ति । रक्तजं = रक्तप्रसादाज्जातम्, स्थूलकाचानलप्रभं = बाहुल्येन स्थूलकाचाभं, वर्णेन अनलप्रभमित्यर्थः । ५ श्रनोलं - किञ्चिन्नोलम् । ६ दोषभेदेन लिङ्गनाश-लक्षणानि दर्शयति- अरुणमिति । ७ बहलं स्थूलम् । ८ प्रवालपद्मपत्राभं = रक्तपद्मपुष्पदलाभमित्यर्थः । ९ वातादिवर्णविभेदेन चित्रत्वं बोध्यम् । १० रोगाः = वक्ष्यमाणाः पित्तविदग्धदृष्टयादयः । एवं दृष्ट्या श्रयाः षट् च षडेव द्वादशेत्यर्थः । ११ पित्तविदग्धदृष्टिः दिवान्धः, कफेन अन्यो विदग्धदृष्टिः रात्र्यन्धः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1080

सुश्रुत संहिता चौखम्बा, पृष्ठ 1080 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ २२ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ७

यो ह्रस्वजाड्यो नकुलान्धता च गभ्भीरसंज्ञा च तथैव दृष्टिः ।

पित्तेनं दुष्टेन गतेन दृष्टि पीता भवेद्यस्य नरस्य दृष्टिः ॥ ३५ ॥

पीतानि रूपाणि च मन्यते यः स मानवः पित्तविदग्धदृष्टिः ।

प्राप्ते तृतीयं पटलं तु दोषे ' दिवा न पश्येन्निशि वीक्षते च ॥ ३६ ॥

रात्रौ स शीतानुगृहीतदृष्टिः पित्ताल्पभावादपि तानि पश्येत् ।

तथौ नरः श्लेष्मविदग्धदृष्टिस्तान्येव शुक्लानि हि मन्यते तु ॥ ३७ ॥

त्रिषु स्थितोऽल्पः पटलेषु दोषो ' नक्तान्ध्यमापादयति प्रसह्य ।

दिवा स सूर्य्यानुगृहीतचक्षुरीक्षेत रूपाणि कफाल्पभावात् ॥ ३८ ॥

शोकज्वरायासशिरोऽभितापैरभ्याहता यस्य नरस्य दृष्टिः ।

सधूमकौन् पश्यति सर्वभावांस्तं धूमदर्शीति वदन्ति रोगम् ॥ ३ ९ ॥

सं ह्रस्वजाड्यो दिवसेषु कृच्छ्रात् हस्वानि रूपाणि च येन पश्येत् ।

विद्योर्तते येन नरस्य दृष्टिर्दोषाभिपन्ना नकुलस्य यद्वत् ॥ ४० ॥

चित्राणि रूपाणि दिवा स पश्येत् स वै विकारो नकुलान्ध्यसंज्ञः ।

दृष्टिर्विरूप श्वसनोपसृष्टा सङ्कुच्यतेऽभ्यन्तरतश्च याति ॥ ४१ ॥

रुजावगाढा " च तमक्षिरोगं गम्भीरिकेति प्रवदन्ति तज्ज्ञाः ।

बाह्यौ " पुनर्द्वाविह सम्प्रदिष्टौ निमित्ततश्चाप्यनिमित्ततश्च ॥ ४२ ॥

-१ पित्तविदग्धदृष्टिलक्षणमाख्याति - पित्तेनेति । दुष्टेन = वृद्धेनेत्यर्थः । २ दो. षे = पित्ते इत्यर्थः । ३ श्लेष्मविदग्धदृष्टिलक्षणं ब्रवीति — तथेति । ४ दोषः = श्लेष्मा । ५ धूमदर्शिनो लक्षणमभिधत्ते - शोकेति । ६ धूमेन सह वर्तन्ते इति सधूमकास्तान् सधूमकान्, सर्वभावान् = पदार्थान् । पित्तजोऽयं साध्यश्च । ७ हस्व-जाडयलक्षणमाख्याति — स इति । सः पुरुषः । पैत्तिकोऽयमसाध्यश्च । तथा च विदेइः– “ नक्तमन्धास्तु चत्वारो ये पुरस्तात् प्रकीर्तिताः । तेषामसाध्यो नकुलो हस्व-जाढ्यस्तथैव च ॥ विशेषेण भवेयातां द्वौ चतुःपटलाश्रितौ । तौ च सम्प्राप्तरागत्वाद-साध्यौ परिकीर्तितौ ॥ ” इति । ८ नकुलान्ध्य लक्षणं निर्दिशति - विद्योतत इति । नकुलस्य यद्वद्यथा दृष्टि-विद्योतते वर्णेन प्रतिभासते, तथाऽस्य नरस्य दोषाभिपन्ना दोषैर्व्याप्ता दृष्टिरित्यर्थः । त्रिदोषजोऽयमसाध्यश्च । ९ गम्भीरिक लक्षणमाचष्टे - दृष्टिरिति । विरूपा = वि • कृतरूपा, श्वसनोपसृष्टा = वातोपगता । १० रुजावगाढा = गम्भीरवेदनाऽन्विता । सक-पटलगतवातजन्येयमसाध्या च । ११ श्रागन्तुविमिरलक्षणमभिधत्ते - बाह्याविति । CC - 0. Gurukul Kangri Collection, Haridwar