सुश्रुत संहिता चौखम्बा — पृष्ठ 1081–1090
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1081–1090
पृष्ठ 1081
पाठ पढ़ें पाठ छिपाएँ
अ ० ७ ] उत्तरतन्त्रम. । Digitized by Arya Samaj Foundation Chennai and eGangotri ९ २३
निमित्ततस्तत्र शिरोऽभितापाज्ज्ञेयस्त्वभिष्यन्दनिदर्शनैश्च ।
सुरर्षिगन्धर्व महोरगाणां सन्दर्शनेनापि च भास्वराणाम् ॥ ४३ ॥
हन्येत दृष्टिर्मनुजस्य यस्य स लिङ्गनाशस्त्वनिमित्तसंज्ञः ।
तत्राक्षि विस्पष्टमिवावभाति वैदूर्य्यवर्णा विमला च दृष्टिः ॥४४ ॥
विदीर्य्यते सीदति हीयते वा नृणामभीघातहता तु दृष्टिः ॥ ४५ ॥
इत्येते नयनगता मया विकाराः सख्याताः पृथगिह षटू च सप्ततिश्च । एतेषां पृथगि विस्तरेण सर्वं वक्ष्येऽहं तदनु चिकित्सितं यथावत् ॥ ४६ ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे दृष्टिगत-रोगविज्ञानीयो नाम सप्तमोऽध्यायः ॥ ७ ॥
सम्प्रदिष्टौ = कथितो, पदविकाध्याये इत्यर्थः । १ तत्र = तयोर्मध्ये, शिरोऽभितप्यते येन विषकुसुमगन्धवहपवनस्पर्शेनेति शिरोऽभितापस्तस्मात् । श्रभिष्यन्दनिदर्शनैः = श्रभिष्यन्दलक्षणैः । अयमप्यसाध्यः । २ अनिमित्तलिङ्गनाशं दर्शयति - सुरर्षीति । श्रयमप्यसाध्यः । ३ तत्र = श्रनिमित्तसन्ज्ञके, विस्पष्टमिव = पूर्वावस्थातो विशेषेण प्रसन्नभिव, वैदूर्यवर्णा = श्या · वा, प्रकृतिवर्णेत्यर्थः । विमला = विगतकाचादिमला । पूर्वावस्थातः शक्तिमात्रमुपह-न्यते, यतो देवादयो द्दयवयवमदूषयन्त एव शक्तिमात्रमुपघ्नन्तीति तात्पर्यम् । तदुक्तं चरके - “ देवादयोऽष्टौ हि महानुभावा न दूषयन्तः पुरुषस्य देहम् । विशन्त्यदृश्या-स्तरसा यथैव छायाऽऽतौ दर्पण सूर्यकान्तौ ॥ ” इति । ४ अभिघातजलिङ्गनाशलक्ष-णमाख्याति - विदीर्यंत इति । बाइयनिमित्तत्वेन त्रिदोषान्तर्भूतोऽयम् । ५३६ = शालाक्ये इत्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतशालाक्यतन्त्रे सुधाऽऽख्यटिप्पन्यां सप्तमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1082
पाठ पढ़ें पाठ छिपाएँ
९ २४ * सुश्रुतसंहितायां -Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ८
अष्टमोऽध्यायः ।
अथातश्चिकित्सितप्रविभागविज्ञानीयमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
षट्सप्ततिर्येऽभिहिता व्याधयो नामलक्षणैः ।
चिकित्सितमिदं तेषां समासव्यासतः शृणु ॥ ३ ॥
छेद्यास्तेषु दशैकश्च नव लेख्याः प्रकीर्त्तिताः ।
भेद्याः पञ्च विकाराः स्युर्व्यध्याः पञ्चदशैव तु ॥ ४ ॥
द्वादशाशस्त्रकृत्याश्च याप्याः सप्त भवन्ति हि ।
रोगा वर्जयितव्याः स्युर्दश पञ्च च जानता ।
असाध्यौ वा भवेतां तु याप्यौ चागन्तुसंज्ञितौ ॥ ५ ॥
अर्शोऽन्वितं भवति वर्त्म तु यत्तथाऽर्शः शुष्कं तथाऽर्बुदमथो पिडकाः सिराजाः । जालं सिराजमपि पञ्चविधं तथाऽर्म छेद्या भवन्ति सह पर्वणिकामयेन ॥ ६ ॥
उसे ङ्गिनी बहलकर्दमवर्त्मनी च श्यावश्ञ्च यच्च पठितं त्विह बद्धव । क्लिष्टञ्च पोथकियुतं खलु यच्च वर्त्म कुम्भीकिनी च सह शर्करया च लेख्याः ॥ ७ ॥
अष्टमोऽध्यायः । १ छेद्यत्वादिना साध्यासाध्यत्वादिना च चिकित्सार्थः प्रविभागः प्रकर्षेण त्रिभ जनं, तस्य विज्ञानमवबोधो विद्यते यस्मिन्नध्याये तं चिकित्सितप्रविभागविज्ञानीयम् । २ हेतुपूर्वरूपोपशयसम्प्राप्तिभिर्लक्षणैरित्यर्थः । ३ नेत्ररोगाणां साध्यासाध्य वि. चारमाचष्टे – छेद्या इति । ४ चकाराद् द्वौ बाह्यजावशस्त्रकृत्याविति बोद्धयम् । ५ असाध्या रोगा वर्जयितव्या इत्यर्थः । ६ तानेव छेद्यान् रोगान् नामभिनिंदि-शति - अर्श इति । ७ पञ्चविधमर्म = प्रस्तार्यर्म - शुष्कार्म - रक्तार्म - प्रधिमांसाम-स्नाखर्म इति । ८• लेख्यान् रोगान् नामभिर्दर्शयन्नाह - उत्सङ्गिनीति | बद्दलकर्दमवत्र्त्मनी = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1083
पाठ पढ़ें पाठ छिपाएँ
अ ०८ ] Digitized by Arya Samaj Foundation Chennai and eGangotri उत्तरतन्त्रम् । श्लेष्मोपनाहलगणौ च बिसञ्च भेद्या ग्रन्थिश्च यः कृमिकृतोऽञ्जननामिका च । ओदौ सिरा निगदितास्तु ययोः प्रयोगे पाकौ च यौ नयनयोः पवनोऽन्यतश्च ॥ ८ ॥
पूयालसानिलविपर्य्ययमन्थसंज्ञाः
स्यन्दास्तु यान्त्युपशमं हि सिराव्यधेन ।
शुष्काक्षिपाककफपित्तविदग्धदृष्टि-ध्वम्लाख्यशुक्रसहितार्जुनपिष्टकेषु ॥ ९ ॥
अक्लिन्नवर्त्माहुतभुग्ध्वजं दर्शिशुक्ति-प्रक्लिन्नवर्त्मसु तथैव बलाससंज्ञे । आगन्तुनाऽऽमययुगेन च दूषितायां दृष्टौ न शस्त्रपतनं प्रवदन्ति तज्ज्ञाः ॥। १० ॥ सम्पश्यतः पडपि येऽभिहितास्तु काचा-स्ते पक्ष्मकोपसहितास्तु भवन्ति याप्याः । चत्वार एव पवनप्रभवास्त्व साध्या द्वौ पित्त कफनिमित्तज एक एव ॥ ९ २५ बहलव कदलवर्त्म चेत्यर्थः । १ भेद्यान् रोगानाख्याति - श्लेष्मेति । बिसं = बिसव । २ व्यध्यान् रोगानभिदधाति - आदाविति । ययोः प्रयोगे आदौ सिरा निगदितास्तौ सिरोत्पातसिराहर्षावित्यर्थः । मयनयोः पाकौ च यौ सशोफपाकः श्रशोफ-पाकश्चेत्यर्थः । पवनोऽन्यतः = अन्यतोवातः । ३ मन्थसंज्ञाः = चत्वारोऽधिमन्धाः, स-नन्दाः = चत्वारोऽभिष्यन्दाः । ४ अशस्त्रकृत्यान् नेत्ररोगानभिधत्ते - शुष्केति । अम्लाख्यः = अम्लाध्युषितः, शुक्रमव्रणमेव । ५ हुतभुग्ध्वजदर्शी = धूमदश । ६ शस्त्रपतनं = शस्त्रपातनमित्यर्थः । ७ याध्यान् रोगान् वक्ति - संपश्यत इति । षडपि वातपित्तकफरक्तसन्निपात-जपरिम्लायि संज्ञका ये काचाः पदमकोपसहिता श्रभिहितास्ते संपश्यतः पुरुषस्य याप्या भवन्तीति योजना | ८ श्रसाध्यान् रोगान्निर्दिशति - चत्वार इति । चत्वारः पव-नप्रभवा हत।धिमन्धनिमिषगम्भीरिकावातहतवरर्मसंज्ञकाः, द्वौ पित्तजी हस्वजाड्यज-लस्राव, कफनिमित्तज एक एव, कफखावाख्यः । श्रष्टाकाश्चत्वारो रुधिरजा रक्तस्रा • बाजकाजातशोणितार्शः सव्रणशुक्र संज्ञकाः, तावन्तश्चत्वारः त्रिदोषजाः पूयास्रावनकु • CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1084
पाठ पढ़ें पाठ छिपाएँ
९ २६ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां-अष्टार्द्धका रुधिरजाश्च गदास्त्रिदोषा-स्तावन्त एव गदितावपि बाह्यजौ द्वौ ॥ ११ ॥
[ अ ० ९. इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे चिकित्सित-प्रविभागविज्ञानीयो नामाष्टमोऽध्यायः ॥ ८ ॥
am
नवमोऽध्यायः ।
अथातो वाताभिष्यन्दप्रतिषेधं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
पुराणसर्पिषा स्निग्धौ स्यन्दाधीमन्थपीडितौ ।
स्वेदयित्वा यथान्यायं सिरामोक्षेण योजयेत् ॥ ३ ॥
सम्पादयेद्वस्तिभिस्तु सम्यक् स्नेहविरेचितौ । लान्ध्याक्षिपाकात्यालजीसंज्ञकाः, बाह्यजौ श्रागन्तुजौ । " सनिमित्तोऽनिमित्तश्च द्वावसायौ तु बाह्यजौ ” इत्युक्तम् । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतशालाक्यतन्त्रे सुधाऽख्यटिप्पन्या-मष्टमोऽध्यायः । नवमोऽध्यायः । १ नयनरोगाणामभिष्यन्दमूलत्वादुद्देशक्रमं हित्वा दोषकमापेक्षया प्रथमं तावद् वाताभिष्यन्दप्रतिषेधमधिकरोति - अथात इति । अत्रादिशब्दो लुप्तो निर्दिष्टस्तेन वाताभिष्यन्दादिप्रतिषेधं व्याख्यास्याम इत्यर्थः । प्रतिषेधश्चिकित्सितम् । २ अभि-ष्यन्दाधिमन्थयोः सामान्यचिकित्सामाह - पुराणेति । पुराणसपिंषा = वर्षोषितघृते · नैत्यर्थः । तदुक्तम् — “ वर्षादूव भवेदाज्यं पुराणं तत् त्रिदोषनुत् ” इति । ३ यथा-न्यायं = यथाशास्त्रम् । तन्त्रान्तरे विशेषः – “ स्वेदः प्रलेपस्तिक्तान्नं धूमो दिनचतु-ष्टयम् । लङ्घनं चाक्षिरोगाणामामानां पाचनानि षट् ॥ श्रञ्जनं सर्पिषः पानं कषायं गुरुभोजनम् । नैत्ररोगेषु सामेषु स्नानं च परिवर्जयेत् ॥ ” इति | विदेहेऽपि – “ प्रागे-वाक्ष्यामये भक्तं त्रिरात्रमगुरु स्मृतम् । उपवासख्यहं वा स्यान्नक्तं वाऽप्यशनं हितम् ॥ ततश्चतुर्थे दिवसे व्याधौ सञ्जातलक्षणे । यथोक्तास्तु क्रियाः कार्या नस्यसेकाअनादिकाः ॥ ” -इति । सिरा उपनासिका लालाट्या आापाड्या वा तस्या मोक्षणं तेन । ४ स्नेहब-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1085
पाठ पढ़ें पाठ छिपाएँ
अ ० ९ ] Digitized by Arya Samaj Eoundation Chennai and eGangotri ९ २७ ' उत्तरतन्त्रम तर्पणैः पुटपाकैश्च धूमैराश्च्योतनैस्तथा ॥ ४ ॥
नस्य॒स्नेहपरीषेकैः शिरोबस्तिभिरेव च ।
वातघ्नानूपजलजमांसाम्लकाथसेचनैः ॥ ५ ॥
स्नेहैश्चतुर्भिरुष्णैश्च तत्पीताम्बरधारणैः ।
पयोभिर्वेसवारैश्च शाल्वणैः पायसैस्तथा ॥ ६ ॥
भिषक् सम्पादयेदेतावुपनाहैश्च पूजितैः ।
ग्राम्यानूपौदकर सैः स्निग्धैः फलरसान्वितैः ॥ ७ ॥
सुसंस्कृतैः " पयोभिश्च तयोराहार इष्यते ।
तथा चोपरिभक्तम्य सर्पिःपानं प्रशस्यते ॥ ८ ॥
त्रिफलाक्काथसंसिद्धं केवलं जीर्णमेव वा ।
सिद्धं वातहरैः क्षीरं प्रथमेन गणेनं वा ॥ २ ॥
स्नेहास्तैलाद्विना सिद्धा वातघ्नैस्तर्पणे हिताः ।
स्नैहिकः पुटपाकश्च धूमो नस्यञ्च तद्विधम् ॥ १० ॥
नस्यादिषु स्थिराक्षीरमधुरैस्तैलमिष्यते ।
एरण्डपल्लवे मूले त्वचि वाऽऽजं पयः श्रुतम् ॥। ११ ॥
कण्टकाय्र्याश्च मूलेषु सुखोष्णं सेचने हितम् ।
" सैन्धवोदीच्ययष्ट्याह्नपिप्पलीभिः शृतं पयः ॥ १२ ॥
हितमर्दोदकं * सेके तथाऽऽश्च्योतनमेव च ।
ह्रीवेरवक्रमञ्जिष्ठोदुम्बरत्वक्षु साधितम् ॥ १३ ॥
.११ स्तिभिर्निरूहैर्वेत्यर्थः । १ श्रश्च्योतनं = पूरणम् । २ वाताभिष्यन्दाधिमन्ययोविंशेष चिकित्सामाचष्टे - वातघ्नेतिः । ३ तपीता. म्बरधारणैः = चतुःस्नेह सिक्त कवलिकाऽऽकारवस्त्रधारणैरित्यर्थः । ४ फलरसान्वितैः-दाडिमामलकरससंयुतैः । ५ शतावरी शृङ्गवेरादिद्रव्य संस्कृतैरित्यर्थः । तयोः = अभि-ष्यन्दाधिमन्थयोः । ६ केवलम् = श्रसंस्कृतम् । ७ प्रथमेन गणेन = विदारिगन्धा-दिगणेन । ८ तर्पणद्रव्याणि दर्शयति - स्नैहिक इति । स्नैहिकः पुटपाकः क्रियाकल्पे निवेदयिष्यते । ९ स्थिरा = शालपर्णी, मधुरः = मधुरवर्गः । १० आइच्योतनद्रव्याणि निर्दिशति - सैन्धवेति । उदीच्यः = ' नागरमोथा ' । इति ख्यातः । ११ अर्धमुदकं यस्मिन् पयसि तदर्थोदकम् । सैन्धवादिद्रव्यप्रमाणं क्षीराद • | ष्टमांशम् । १२ होबेरं = बालकम्, वक्रं = तगरम् । श्रष्टाङ्गहृदये - " होवे रवक्रशार्ङ्गष्टो-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1086
पाठ पढ़ें पाठ छिपाएँ
९ २८ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां -[ अ ० ९
साम्भरछागं पयो वाऽपि शूलाश्च्योतनमुत्तमम् ।
मधुकं रजनीं पथ्यों देवदारुं च पेषयेत् ॥ १४ ॥
आजेन पयसा श्रेष्ठमभिष्यन्दे तदञ्जनम् ।
गैरिकं सैन्धवं कृष्णां नागरञ्च यथोत्तेरम् ॥ १५ ॥
द्विगुणं पिष्टमद्भिस्तु गुटिकाञ्जनमिष्यते । -स्नेहाञ्जनं हितं चात्र वक्ष्यते तद्यथाविधि ॥ १६ ॥
रोगो यश्चान्यतोवातो यश्च मारुतपर्य्ययः ।
अनेनैव विधानेन भिषक्तावपि साधयेत् ॥ १७ ॥
पूर्वभक्तं हितं सर्पिः क्षीरं वाऽप्यथ भोजने ।
वृक्षादन्यां कपित्थे च पञ्चमूले महत्यपि ॥ १८ ॥
सक्षीरं कर्कटरसे सिद्धं चात्र घृतं पिबेत् ।
सिद्धं वा हितमत्राहुः पत्तूरात्गलाग्निकैः ॥ १ ९ ॥
सक्षीरं मेषशृङ्गया व सर्पिर्वीरतरेण वा ।
सैन्धवं ' ' दारु शुण्ठी च मातुलुङ्गरसो घृतम् ॥ २० ॥
स्तन्योदकाभ्यां कर्त्तव्यं शुष्कपाके तदञ्जनम् ।
पूजितं सर्पिषश्चात्र पानमक्ष्णोश्च तर्पणम् ॥ २१ ॥
दुम्बरत्वत्तु साधितम् । साम्भसा पयसाऽऽजेन शूलाश्च्योतनमुत्तमम् ॥ ” इति । १ पथ्य = हरीतकीम् । २ यथोत्तरमिति श्रग्रिमपादादिस्थद्विगुणमित्यनेन सम्ब • ध्यते। ३ वक्ष्यते क्रियाकपे इति शेषः । ४ विधानेन = पूर्वोक्तवाताभिष्यन्दवि • धिनेत्यर्थः ॥। ५ अन्यतोवातमारुतपर्ययोः सामान्यां प्रतिक्रियामुक्त्वा विशेष चिकित्सामाख्याति-पूर्वेति । भक्तस्य अन्नस्य पूर्वं पूर्वभक्तं, भोजनात् प्रागित्यर्थः । ६ वृक्षादनी - ' श्रा काशबेल ' इति ख्याता । ७ कर्कटः कुलीरस्तद्रसे । ८ पत्तूर: = शालिञ्चश । कवि. शेषः, श्रार्तगलः = ‘ कालीकटसरैया ' इति लोके, अग्निकः = अजमोदा । ९ वाशब्दः पक्षान्तरं बोधयति । पत्तूरादीनां कषाये क्षीरे च साधितं घृतम्, अथ सझीरें मेषशृ · ङ्गौक्काथे साधितं, वा वीरतरेण वीरणमूनेन साधितं सर्पिरित्यर्थः । १० शुष्कपाकचिकित्सामाचष्टे – सैन्धवमिति । सैन्धवादिद्रव्य त्रयकल्कं घृतेन सम्मिश्रय मातुलुङ्गरसे पिष्ट्वा संशोष्य स्तन्योदकाभ्यां द्रवोकृत्य अञ्जनं कार्यमिति सा · CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1087
पाठ पढ़ें पाठ छिपाएँ
अ ० १० ] Digitized by Arya St स्तन्य Chennai and eGangotri
घृतेन जीवनीयेन नस्यं तैलेन चाणुना ।
परिषेके हितञ्चात्र पयः शीतं ससैन्धवम् ॥। २२ ॥
रजनीदारुसिद्धं वा सैन्धवेने समायुतम् ।
सर्पिर्युतं स्तन्यघृष्टमञ्जनं वा महौषधम् ॥ २३ ॥
वसा वाऽऽनूपजलजा सैन्धवेन समायुता । ९ २ ९ मिश्रित चिच्छुष्कपाके तदञ्जनम् ॥ २४ ॥
पर्व॑नप्रभवा रोगा ये केचिद् दृष्टिनाशनाः ।
बीजेनानेन मेधावी तेषु कर्म प्रयोजयेत् ॥ २५ ॥
इति सुश्रुत संहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे वाताभिष्यन्दप्रतिषेधो नाम नवमोऽध्यायः ॥ ९ ॥
दशमोऽध्यायः ।
अथौतः पित्ताभिष्यन्दप्रतिषेधं व्याख्यास्यामः ॥ १ ॥
" यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
पित्तस्यन्दे पैत्तिके चाधिमन्थे रक्तास्रावः स्रंसनंञ्चापि कार्यम् ।
अक्ष्णोः सेकॉलेपनस्याञ्जनानि पैत्ते च स्याद्यद्विसर्पे विधानम् ॥ ३ ॥
रम् । १ शालाक्यतन्त्रोक्तेन अणुतेलेन, न तु वातव्याध्युपदिष्टेनेति भावः । २ ' ई-घत्सैन्धवेनेत्यर्थः । ३ नागरोन्मिश्रिता = शुण्ठीयुक्ता, ' बसा ' इति पूर्वेण सम्बन्धः । ४ सर्ववातजनेत्ररोगेषु वाताभिष्यन्दचिकित्सामतिदिशति - पवनेति । दृष्टिनाशनाः -तिमिरकाचादय इत्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतशालाक्यतन्त्रे सुधाऽऽख्यटिप्पन्यां नवमोऽध्यायः । दशमोऽध्यायः । ५ अथ दोषक्रमागतं पित्ताभिष्यन्दप्रतिषेधमधिकरोति - अथात इति । अत्रापि श्रादिशब्दो लुप्तनिर्दिष्टः, एवमग्रिमेष्वपि श्रध्यायेषु श्रादिशब्दो लुप्तनिर्दिष्टये द्रष्टव्यः । ६ पित्ताभिष्यन्दचिकित्सतमारभ्यते -- पित्तेति । पित्तस्यन्दे = पित्ताभिष्यन्दे । ७ स्रं-सनं = विरेचनम् । सेकाले पनस्यानानि पित्तहराण्येव कार्याणि । विधानं = " क-५ ९ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1088
पाठ पढ़ें पाठ छिपाएँ
९ ३०Digitized by Arya Samaj F सुश्रुतसंहिताय and esangotri hennai [ अ ० १०
गुन्द्री शालि शैवलं शैलभेदं दावमेलामुत्पलं रोघ्रमभ्रम् ।
पद्मात्पत्रं शर्करा दर्भमित्तुं तालं रोध्रं वेतसं पद्मकञ्च ॥ ४ ॥
द्राक्षां क्षौद्रं चन्दनं यष्टिका योषित्तीरं रात्र्यनन्ते च पिष्ट्वा ।
सर्पिःसिद्धं तर्पणे सेकनस्ये शस्तं क्षीरं सिद्धमेतेषु चाजम् ॥ ५
योज्यो वर्गो व्यस्त एषोऽन्यथा वा
सम्यङ्नस्येऽष्टार्द्ध सङ्ख्येऽपि नित्यम् ।
क्रियाः सर्वाः पित्तर्य्यः प्रशस्ता-त्र्यहाच्चोद्ध्व क्षीरसर्पिश्च नस्यम् ॥ ६ ॥
पालाशं स्याच्छोणितं चाञ्जनार्थे शल्लक्या वा शकॅराक्षौद्रयुक्तम् ।
रसक्रियां शर्कराक्षौद्रयुक्तां पालिन्द्यां वा मधुके वाऽपि कुर्यात् ॥ ७ ॥
मुस्ता फेनः सागरस्योत्पलञ्च कृमिघ्नैलाधात्रिबीजाद्रसश्च ।
तालीशैलागैरिकोशीरशङ्खैरेवं युञ्ज्यादञ्जनं स्तन्यपिष्टैः ॥ ८ ॥
चूर्णं कुर्य्यादञ्जनार्थे रँसो वा स्तन्योपेतो धातकीस्यन्दनाभ्याम् ।
योषित्स्तन्यं १ “ शातकुम्भं विघृष्टं क्षौद्रोपेतं कैशुकञ्चापि पुष्पम् ॥ ९ ॥
सेरु । शृङ्गाटकपद्मगुन्द्रा " " हीवेरलामज्जक चन्दनानि ” इति विसर्पादिचिकित्सितो-तविधिः । १ तत्र पित्ताभिष्यन्दयौगिकद्रव्याणि दर्शयति - गुन्द्रामिति । गुन्द्रा = एरका, निर्ग्रन्थितृणविंशेषः, ‘ एरका गुन्द्रमूला च शिम्बी गुन्द्रा शरीति च ' इति नामान्तराणि । शैवलं = दूर्वा, शैलभेदः = पाषाणभेदः, अभ्रं = ' नागरमोथा ' इति लोके । २ चन्द-नं = रक्तचन्दनम्, " " रात्रिः = हरिद्रा, अनन्ता = उत्पलसारिवा । ३ व्यस्तः - अस. मस्तः, अन्यथा = समस्त ', नस्येऽष्टार्थ संख्ये - शिरोविरेचनप्रतिमर्षाव पीढप्रधमन संज्ञके नस्यचतुष्टये इत्यर्थः । ४ क्षीरमथनोत्थसर्पिः क्षीरसर्पिः । अत्र नस्यपदमाइच्योत-नसेकाञ्जनादीनामुपलक्षणम् । ५ पालाशं पलाशपुष्पोद्भवं, शोणितं स्वरतं, शोणित-सारूण्य दिति भावः । शल्लकी गजभक्ष्यो लताभेदः । श्रस्या गुणा: - " शल्लकी तुवरा शीता पित्तश्लेष्मातिसारजित् । रक्तपित्तत्रणहरी पुष्टिकृत् समुदीरिता । " इति । ६ रसक्रिया = घनीभूतकाथः, फाणिताकृतिरिति यावत् । " गृहीत्वा क्वाथकल्पेन क्वाथं पूतं पुनः पुनः । क्वाथयेत् फाणिताकारमेषा प्रोक्ता रसकिया ॥ ” इति तल्लक्षणम् । पालिन्दी | = श्यामा त्रिवृत् । ७ कृमिघ्नः = ' वायविडङ्ग ' इति, बीज: = ' विजय सार ' इति ख्यातः । ८ स्तन्यपिष्टैः = दुग्धपिष्टैरित्यर्थः । ९ रसः = रसक्रिया । १० शा. CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1089
पाठ पढ़ें पाठ छिपाएँ
अ ० १० ] Digitized by Arya Sara aor Chennai and eGangotri ९ ३१
रोधं द्राक्षां शर्करामुत्पलञ्च नायः क्षीरे यष्टिकाह्वं वचाञ्च ।
पिष्ट्वा क्षीरे वर्णकैश्य त्वचं च तोयोन्मिश्रे चन्दनोदुम्बरे च ॥ १० ॥
कार्यः फेनः सागरस्याञ्जनार्थे नारीस्तन्ये माक्षिके चापि घृष्टः ।
योषित्स्तन्ये स्थापितं यष्टिकाह रोधं द्राक्षां शर्करामुत्पलञ्च ॥११ ॥
क्षौमाबद्धं पथ्यमाश्चचोतने वा सपिर्घुष्टं यष्टिका सरोघ्रम् ।
तोयोन्मिश्राः काश्मरीधात्रिपथ्यास्तद्वच्चाहुः कट्फलञ्चाम्बुनैव ॥ १२ ॥
ऍषोऽम्लाख्येऽनुक्रमश्चापि शुक्तौ कार्यः सर्वः स्यात्सिरामोक्षवः १३ /
सर्पिः पेयं त्रैफलं तैल्वकं वा पेयं वा स्यात् केवलं यत् पुराणम् ।
दोषे ऽधस्ताच्छुक्तिकायामपास्ते शीतैर्द्रव्यैरञ्जनं कार्यमाशु ॥ १४ ॥
वैदूर्य्यं यत् स्फाटिकं वैद्रुमञ्च मौक्तं शाङ्ख ' राजतं शातकुम्भम् ।
चूर्णं सूक्ष्मं शर्कराक्षौद्रयुक्तं शुक्ति हन्यादञ्जनं चैतदाशु ॥ १५ ॥
युज्यत्सर्पिर्धूमदर्शी नरस्तु शेषं कुर्य्याद्रक्तपित्ते विधानम् । तकुम्भं = सुवर्णम् । १ वर्णकस्य = ' वरना ' इति ख्यातस्य तोयोन्मिश्रे = वालकमि · श्रिते । अत्र नारीक्षोरे पिष्टं रीघ्रादिव चाऽन्तं प्रथममञ्जनम्, नारीक्षीरे पिष्टा वर्णकत्व द्वितीयम्, अवशिष्टं तृतीयमञ्जनं बोध्यम् । २ श्रनन्तरोक्तं यष्टिमधुकादिद्रव्यं भृशतरं चूर्णितं क्षौमवस्त्रवद्धं नारीस्तन्यप्लुतमाश्च्योतने पथ्यं हितकरमित्यर्थः । ३ काश्मरी गम्भारी, ‘ गम्भार ' इति ख्याता । ४ अथ अम्लाध्युषितशुक्त्योः सामान्य चिकित्सितमभिधत्ते - एष इति । एषः = पूर्वोक्तः, अनुक्रमः = चिकित्सितम् । ५ शस्त्रकृत्येषु पठितत्वात् सिरा मोक्षवर्जनमिति भावः । ६ अम्लाध्युषितस्य विशेषचिकित्सां दर्शयति - सर्पिरिति । त्रैफलं तैल्वकं वा सर्पिः संशोधनार्थ, केवलं पुराणसर्पिः संशमनार्थं च बोध्यम् । ७ ] शुक्ति. काया विशेषचिकित्सामाह - दोष इति । शुक्तिकायामधस्ताद् दोषे अपास्ते निर्हृते, विरेचनैनेति शेषः । शीतैर्द्रव्यैराशु श्रव्जनं कार्यम् । यानि शीतद्रव्याणि तानि निर्दिशति - वैदूर्यमिति । वैदूर्यलक्षणम् — ' एकं वेणुपलाश कोमलरुचा मायूर. कण्ठस्विषा मार्जारेक्षणपिङ्गलच्छविजुषा ज्ञेयं त्रिधा छायया । यद् गात्रं गुरुतां दधाति नितरां स्निग्धं तु दोषोज्झितं वैदूर्य विशदं वदन्ति सुधियः स्वच्छं च तच्छो-श्मनम् ॥ ' इति । वैदूर्यपरीक्षणं यथा - " घृष्टं यदात्मना स्वच्छं स्वच्छायां निकषा -नि! स्फुटं प्रदर्शयेदेतद्वैदूर्ये जात्यमुच्यते ॥ ” इति । एवमन्येषामपि लक्षणं परीक्षणा-दिकं चान्यतोऽवसेयम् । ९ धूमदर्शिनश्चिकित्सामाख्याति — युज्यादिति । सर्पिः पित्तहरद्रव्यसंसिद्धं CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1090
पाठ पढ़ें पाठ छिपाएँ
९ ३२० igitized by Arya Samaj Fou सुश्रुतसंहितायां Langotri [ अ ० ११ यच्चैवान्यत् पित्तहृच्चापि सर्वं यद्वीसर्पे पैत्तिके वैविधानम् ॥ १६ ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे पित्ताभिष्यन्दप्रतिषेधो नाम दशमोऽध्यायः ॥ १० ॥
एकादशोऽध्यायः ।
अथातः श्लेष्माभिष्यन्दप्रतिषेधं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
स्यन्दाधिमन्थौ कफजौ प्रवृद्धौ जयेत् सिराणामथ मोक्षणेन ।
स्वेदावपीडाञ्जनधूमसेकप्रलेपयोगैः कवलप्रहैश्च ॥ ३ ॥
रूक्षैस्तथाऽऽश्चयोतनसंविधानैस्तथैव रूक्षैः पुटपाकयोगैः ।
त्र्यहात्र्यहाच्चाप्यपतर्पणान्ते प्रातस्तयोस्तिक्त घृतं प्रशस्तम् ॥ ४ ॥
तदन्नपानञ्च समाचरेद्धि यच्छ्लेष्मणो नैव करोति वृद्धिम् ।
कुटन्नटास्फोटफ रिज्झबिल्वपत्तूर पिल्वर्ककपित्थभङ्गैः ॥ ५ ॥
स्वेदं विदध्यादथवाऽनुलेप वर्हिष्ठशुण्ठी सुरकाष्ठकुष्ठैः ।
सिन्धूर्त्यहिङ्गुत्रिफलामधूकप्रपौण्डरीकाञ्जनतुत्थताम्रैः ॥ ६ ॥
बोध्यम् । रक्तपित्ते विधानं - रक्ताभिष्यन्दे पित्ताभिव्यन्दे च यच्चिकित्सित बिधान-मुक्तं तदित्यर्थः । शेषं सुगमम् । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतशालाक्यतन्त्रे सुधाऽऽख्यटिप्पन्यां दशमोऽध्यायः । एकादशोऽध्यायः । १ दोषक्रमप्राप्तं श्लेष्माभिष्यन्दप्रतिषेधमधिकरोति - अथेति । अत्रापि आदिशब्दो लुप्तनिर्दिष्टः । २ श्लेष्मजाभिष्यन्दाधिमन्थयोश्चिकित्सां दर्शयति —– स्यन्देति । ३ तिक्तघृतं कुष्ठचिकित्सिते महातिक्त घृतानन्तरमुक्तम् । ४ स्वेदद्रव्याणि निर्दिश ति — कुटन्नटेति । कुटन्नटं = तगरम्, श्योनाक इत्यन्ये । श्रास्फोटः = श्वेतार्कः, फणि-ज्झकः = तीक्ष्णगन्धः, ‘ मरुवक ' इति लोके । पत्तूरः = शालिञ्च शाकविशेषः । ५ बहिं ॰ षं = ह्रीवेरम् । ६ सप्तवत्यञ्जनानि वक्ति - सिन्धूत्थेति । सिन्धूत्थं = सैन्धवम् । CC - 0. Gurukul Kangri Collection, Haridwar