सुश्रुत संहिता चौखम्बा — पृष्ठ 1091–1100

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1091–1100

पृष्ठ 1091

सुश्रुत संहिता चौखम्बा, पृष्ठ 1091 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ११ ] उत्तरतन्त्रम् । ९ ३३ Digitized by Arya Samaj Foundation Chennai and eGangotri

पिष्टैर्जलेनाञ्जनवर्त्तयः स्युः पथ्याहरिद्रामधुकाञ्जनैर्वा ।

त्रीण्यूषणानि त्रिफला हरिद्रा विडङ्गसारश्च समानि च स्युः ॥ ७ ॥

बर्हिष्ठकुष्ठामरकोष्ठशङ्खपाठामलव्योषमनःशिलाश्च ।

पिष्ट्वाऽम्बुना वा कुसुमानि जातिकरञ्जशोभाञ्जनजानि युञ्ज्यात् ॥ ८ ॥

फलम्प्रकीर्यादथवाऽपि शियोः पुष्पञ्च तुल्यं बृहतीद्वयस्य ।

रसाञ्जनं सैन्धवचन्दनञ्च मनःशिलाऽऽले लशुनञ्च तुल्यम् ॥ ९ ॥

पिष्टाञ्जनार्थे कफजेषु धीमान्वन्तर्विदध्यान्नयनामयेषु । S रोगे ' बलासग्रथितेऽञ्जनज्ञैः कर्त्तव्यमेतत् सुविशुद्धकाये ॥ १० ॥

नीलान् यवान् गव्यपयोऽनुपीतान् शलाकिनः शुष्कतनून् विदा ।

तथाऽर्ज कौस्फोत कपित्थबिल्वनिर्गुण्डि जाती कुसुमानि चैव ॥ ११ ॥

तत्क्षारवत्सैन्धवतुत्थरोचनं पक्कं ' १० ' विदध्यादथ लोहनाड्या ।

एतद् बलासग्रथितेऽञ्जनं स्यादेषोऽनुकल्पस्तु फझिकादौ ॥ १२ ॥

महौषधं " मागधिकाञ्च मुस्तां ससैन्धवं यन्मरिचञ्च शुक्लम् ।

तन्मातुलुङ्गस्वरसेन पिष्टं नेत्राञ्जनं पिष्टकमाशु हन्यात् ॥ १३ ॥

फले " बृहत्या मगधोद्भवानां निधाय कल्कं फलपाककाले । १ त्रीण्यूषणानि = त्रिकटुकम् । २ अमरकाष्ठं = देवदारु । ३ प्रकीर्यात् = पूर्ति करजत् । पुष्पं चेति चकारेण फलं च बोध्यम्, ४ आलं = हरितालम् । ५ नय-नामयेषु = नेत्ररोगेषु । एवमेतत्पर्यन्तं सिन्धूत्थपथ्योषणवर्हिष्ठ जाती कुसुम प्रकीर्य फर-साञ्जनादीनि सप्तवर्त्यञ्जनान्युक्तानि । ६ बलासग्रथिते क्षारान्जनयोगमभिदधाति - रोग इति । ७ सिराव्यधविरेच. नादिभिः सुविशुद्धः कायो यस्य स तस्मिन् सुविशुद्धकाये । ८ श्रनुपीतान् = भावि-तान्, सप्ताहं भावना । ९ अर्जकः = वर्वरिकाकारो लघुमञ्जरोकः सूक्ष्मपत्रो निर्गन्धः श्वेत कुठेरकः । १० नीलयवादिभस्म प्रस्थप्रमाणम् उष्णोदके आढकप्रमाणे मेल-यित्वा यावत् क्षारोदकं तीक्ष्णं पिच्छिलं रक्तं च स्यात्, तावत् पुनः पुनः संस्राव्य तद् भस्मापहाय तत्र क्षारोद के सैन्धवतुत्थरोचनमावापं क्षारोदकाद् द्वात्रिंशद्भागं दत्त्वा पक्त्वा च लोहशलाकयाऽअनं कुर्यादित्यर्थः । ' लोइनाडया ' इत्यत्र ' लोदना-ड्याम् ' इति पाठान्तरम् । ११ पिष्टकरोगेऽञ्जनमभिदधाति - महौषधमिति । शुक्लं मरिचं = शोभाञ्जन. वीजम् । १२ अञ्जनान्तरं निर्दिशति - फले इति । फलपाककाले बृहत्या कण्टकार्याः CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1092

सुश्रुत संहिता चौखम्बा, पृष्ठ 1092 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ३४ -सुश्रुतसंहितायां Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ११ स्रोतोजयुक्तं च तदुद्धृतं स्यात्तद्वत्तु पिष्टे, विधिरेष चापि ॥ १४ ॥

वार्त्ताकशिग्विन्द्रसुरौपटोलकिराततिक्तामलकीफलेषु ।

कौसीससामुद्ररसाञ्जनानि जात्यास्तथा क्षारकमेव चापि ॥ १५ ॥

प्रक्लिन्नवत्र्त्मन्युपदिश्यते तु योगाञ्जनं तन्मधुनाऽवघृष्टम् ।

नादेयमग्र्यं मरिचञ्च शुक्लं नेपालजाता च समप्रमाणा ॥ १६ ॥

समातुलुङ्गद्रव एष योग: कण्डं निइन्यात्सकृदञ्जनेन ।

Memus सशृङ्गवेरं सुरदारु मुस्तं सिन्धुप्रसूतं मुकुलानि जात्याः ॥ १७ ॥

12 सुराप्रपिष्टत्विदमञ्जनं हि कण्ड्वां च शोफे च हितं वदन्ति स्यभ्दाधिमन्थक्रममाचरेच्च सर्वेषु चैतेषु सदाऽप्रमत्तः ॥ १८ ॥

( विशेषतो नावनमेव कार्ये संसर्जनं चापि यथोपदिष्टम् । ) इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे कफाभिष्यन्दप्रतिषेधो नामैकादशोऽध्यायः ॥ ११ ॥

फलमादाय बीजं निष्कास्य तत्र स्रोतोजः सौवीराजनं तेन युक्तं मगधोद्भवानां करकं पिप्पलोकक्कं पूरयेत् । तत्कल्कं सप्तरात्रात्परमुद्धृतं तद्वद् महौषधवत् पिष्टकेऽञ्जनार्थं हितकरं स्यादित्यर्थः । १ कण्टकारिफलविधानमन्यस्मिन्नपि फलेऽतिदिशति - विधिरिति । २ इन्द्र-सुरा = इन्द्रवारुणी । ३ प्रक्लिन्नवर्त्मनि योगाअनमाख्याति - कासीसेति । जात्याः कोरकमिति सम्बन्धः । जातीकलिकेति तदर्थः । ४ नेत्रकण्डूचिकित्सामाह - नादे. यमिति । नद्यां भवं नादेयं सैन्धवम्, मरिचं शुक्लं = शोभाअनबीजम्, नेपाल • जाता = मनःशिला । ५ सिन्धुप्रसूत = सैन्धवमित्यर्थः । ६ पूर्वोक्तेषु रोगेषु विशेष-चिकित्सामभिधाय सामान्यचिकित्सामाचष्टे - स्यन्देति । ७ एतेषु = बलास • प्रथितपिष्टक प्रक्लिन्नवर्त्माख्यरोगेषु । चकारादन्येष्वपि श्लेष्मजनेत्ररोगेष्वतिदेशः । इति सुश्रुतसंहिताया उत्तरतन्त्रार्गत शालाक्यतन्त्रे सुधाऽऽरूपटिप्पन्या-मेदो s यायः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1093

सुश्रुत संहिता चौखम्बा, पृष्ठ 1093 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १२ उत्तरतन्त्रम् । Digitized by Arya Samaj Foundation Chennai and eGangotri

द्वादशोऽध्यायः ।

अर्थातो रक्ताभिष्यन्दप्रतिषेधं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

मन्थं स्यन्दं सिरोत्पातं सिराहर्षञ्च रक्तजैम् ।

एकैकेन विधानेन चिकित्सेच्चतुरो गदान् ॥ ३ ॥

व्याध्यार्त्ताश्चतुरोऽप्येतान स्निग्धान् कौम्भेने सर्पिषा ।

रसैरुदारैरथवा सिरामोक्षेण योजयेत् ॥ ४ ॥।

विरिक्तानां प्रकामञ्च शिरांस्येषां विशोधयेत् ।

वैरेचनिकैसिद्धेन सितायुक्तेन सर्पिषा ॥ ५ ॥

ततः प्रदेहाः परिषेचनानि नस्यानि धूमाश्च यथास्वमेव ।

आश्चयोतनाभ्यञ्जनंतर्पणानि स्निग्वाश्च कार्याः पुटपाकयोगाः ॥ ६ ॥

नीलोत्पलशीरकटङ्कटेरीकालो ययष्टीमधुमुस्तरोधैः ।

सपद्मकैधौत घृतप्रदिग्धैरक्ष्णोः प्रलेपं परितः प्रकुर्य्यात् ॥ ७ ॥

रुजायां चार्यंतिभृशं स्वेदाश्च मृदवो हिताः ।

अक्ष्णोः समन्ततः कार्यं पातनञ्च जलौकसाम् ॥ ८ ॥

घृतस्य महती मात्रा पीता चार्त्ति " नियच्छति ॥

पित्ताभिस्यन्दशमनो विधिश्चाप्युपपादितः ॥ ९ ॥

द्वादशोऽध्यायः । १ वातादिदोषकृतानभिष्यन्दानभिधाय पारिशेष्याद् रक्ताभिष्यन्दप्रतिषेधमधि-करोति — अथेति । २ रक्तजमिति विशेषणं मन्थं स्यन्दमित्यत्र अन्वेति, सिराहर्षं. सिरोत्पातयो रक्तजमात्रत्वेन प्रतिपादनात् । ३ कौम्भेन = एकादशोत्तरशत वर्षोषितेन, " कौम्भं तु शतवत्सरम् " इत्याचार्योक्त्या शतवर्षोषितेन वा । " एकादशशतं चैव वत्सरानुषितं घृतम् । रक्षोघ्नं कुम्भसर्पिः स्यात् " इति द्रवद्रव्यविध्यध्यायोक्तं स्मर्तं-व्यम् । ४ उदारैः = अधिकैः, रसैः = मांसर तैः, स्निग्धानित्यर्थः । ५ वैरेचनिकसिद्धेन - त्रिवृतादिद्रव्यसिद्धेन शिरोविरेचनद्रव्यसिद्धेन वेत्यर्थः । ६ अभ्यन्जनम् = प्रव्जनम् । ७ कटङ्कटेरी - दारुहरिद्रा, कालीयकम् = ' अगर ' इति ख्यातम् । ८ घौतघृतप्रदिग्धैः = शतधौत घृतमि रित्यर्थः । ९ श्रविभृशम् = श्रत्य -धिकम् । १० नियच्छति = निवारयति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1094

सुश्रुत संहिता चौखम्बा, पृष्ठ 1094 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ३६ सुश्रुतसंहितायां--[ अ ० १२ Digitized by Arya Samaj Foundation Chennai and eGangotri

कशेरुमधुकाभ्यां वा चूर्णमम्बेरसंवृतम् ।

न्यस्तैमप्स्वान्तरिक्षासु हितमाश्चचोतनम्भवेत् ॥ १० ॥

पाटल्यर्जनश्रीपर्णीधातकीधात्रिबिल्वतः ।

पुष्पाण्यथ बृहत्योश्च बिम्बीलोटीच्च तुल्यशः ॥ ११ ॥

समञ्जिष्ठानि मधुनौ पिष्टानीक्षुरसेन वा ।

रक्ताभिष्यन्दशान्त्यर्थमेतदञ्जनमिष्यते ॥ १२ ॥

चन्दनं कुमुदं पत्रं शिलाजतु सकुङ्कुमम् अयस्ताम्ररजस्तुत्थं निम्बनिर्यासमञ्जनम् ॥ १३!!

त्रपु कांस्यमलं चापि पिष्ट्वा पुष्परसेन तु ।

वि ला याः कृता वत्र्त्यः पूजिताश्चाञ्जने सदा ॥ १४ ॥

स्यादञ्जनं घृतं क्षौद्रं सिरोत्पातस्य भेषजम् ।

तद्वत्सैन्धवकासीसस्तन्यघृष्टञ्च पूजितम् ॥ १५ ॥

मधुना शङ्खनैपालीतुत्थदार्ग्यः ससैन्धवाः ।

रसः शिरीषपुष्पाच्च सुरामरिचमाक्षिकैः ॥ १६ ॥

युक्तन्तु मधुना वाऽपि गैरिकं हितमञ्जनम् ।

" सिराहर्षेऽञ्जनं कुर्यात् फाणितं मधुसंयुतम् ॥ १७ ॥

मधुना " तार्क्ष्यजं वाऽपि कासीसं वा ससैन्धवम् । १ श्रम्बर संवृतं = पोट्टलिकाकारवस्त्रबद्धम् । २ न्यस्तम् = श्राप्नुतम् । ३ श्री. पण = ' गम्भार ' इति ख्याता । ४ बिम्बीलोटो भिल्लोटो हिमाद्रिजो वृक्ष इति निबन्धसङ्ग्रहव्याख्याकारः । ५ मधुना = पुष्परसेन । ६ पत्रं = ' तेजपात ' ' इति ख्यातम् । ७ अञ्जनं = रसाब्जनम् । लेखनादिकर्मभेदेन वर्तिप्रमाणमुक्तं तन्त्रा-न्तरे— “ हरेणुमात्रा वर्तिः स्याल्लेखनस्य प्रमाणतः । प्रसादनस्य चाध्यर्ध्य द्विगुणा रोपणस्य तु ॥ ” इति । ८ प्राग् रक्ताभिष्यन्दरक्ताधिमन्थसिरोत्पात सिराहर्षाणां सामान्य चिकित्सां प्रति-पाद्य सिरोत्पाते विशेषचिकित्सामाख्याति - स्यादिति । श्रब्जनं = रसाञ्जनम् । ९ नैपाली = मनःशिला । १० सिराहर्षे विशेषचिकित्सितमाचष्टे - सिरेति । अत्र चत्वार्यञ्जनानि निर्दिष्टानि । फाणितं ' राब ' इति ख्यातम्, " इक्षो रसस्तु यः पक्कः किञ्चिद् गाढो बहुद्रवः । स एवेक्षुविकारेषु ख्यातः फाणित संज्ञया ॥ ” इति तल्लक्षणम् । ११ तार्यजं = रसाञ्जनम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1095

सुश्रुत संहिता चौखम्बा, पृष्ठ 1095 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १२ ] उत्तरतन्त्रम् । Digitized by Arya Samaj Foundation Chennai and eGangotri वेत्राम्लेस्तन्यसंयुक्तं फाणितन्तु ससैन्धवम् ॥ १८ ॥

पैत्तं विधिमशेषेण कुर्य्यादर्जुनशान्तये ।

इक्षुक्षौद्रसितास्तन्यदार्वीमधुकसैन्धवैः ॥ १ ९ ॥

सेकाञ्जनं चात्र हितमैम्लैराश्च्योतनं तथा ।

सितामधुक कँट्वङ्गमस्तु क्षौद्राम्लसैन्धवैः ॥ २० ॥

बीजपूरककोलाम्लदाडिमाम्लैश्च युक्तितः । ९ ३७ एकशो वा द्विशो वाऽपि योर्जितं वा त्रिभिस्त्रिभिः ॥ २१ ॥

स्फटिक विद्रमं शो मधुकं मधु चैव हि ।

शङ्खक्षौद्रसितायुक्तः सामुद्रः फेन एव च ॥ २२ ॥

द्वाविमौ विहितो योगाव अनेऽर्जनाशनौ ।

सैन्धवक्षौद्रकर्तकाः सक्षौद्रं वा रसाञ्जनम् ॥ २३ ॥

कासीसं मधुना वाऽपि योज्यमन्त्राञ्जने सदा । १० लोर्हचूर्णानि सर्वाणि धातवो लवणानि च ॥ २४ ॥

अवसादन १ वेत्राम्लम् = प्रम्लवेतसम् । २ रक्तार्जुनचिकित्सामभिदधाति - पैत्तमिति । पैत्तं विधि = पित्ताभिष्यन्दोक्तविधानम् । ३ अम्लैः = अम्लवर्गोंक्तदाडिमादिभिः । -४ कट्वङ्गः = श्योनाकः । ५ बीजपूरकं = मातुलुङ्गफलम् । ६ पूर्वोक्तैः सितादि-दाडिमाम्लपर्यन्तैयस्तैः समस्तैर्वा युक्तितो दोषबलाद्यपेक्षया योजितं प्रयुक्तमाश्च्योतनं हितकरमिति समुदितार्थः । ७ विशिष्टो दुर्वृक्षोऽस्त्यस्येति विदुमः प्रवालः ' द्यद्रुभ्यां मः ' इति मप्रत्ययः । शङ्खः = कम्बुः । ' भूतादिमिन्द्रियादिं च द्विधाऽहङ्कारमीश्वरः । बिभर्ति शङ्खरूपेण ' शार्ङ्गरूपेण च स्थितम् ॥ ' इति विष्णुपुराणम् । प्रसङ्गाद् श्रीदेवीभागवतायुक्तं शङ्खो-त्पत्यादिकमुच्यते — ' प्रस्थिभिः शङ्खचूडस्य शङ्खजातिर्बभूव ह । नानाप्रकाररूपेण शश्वत् पूता सुरार्चने ॥ प्रशस्तं शङ्खतोयं च देवानां प्रीतिदं परम् | तीर्थतोयस्वरूपं च पवित्रं शम्भुना विना ॥ शङ्खशब्दो भवेद्यत्र तत्र लक्ष्मीः सुसंस्थिरा । स स्नातः सर्व-तीर्थेषु यः स्नातः शङ्खवारिणा ॥ शङ्खो हरेरधिष्ठानं यतः शङ्खस्ततो हरिः । तत्रैव वसते लक्ष्मीर्दूरीभूतममङ्गलम् ॥ स्त्रीणां च शङ्खध्वनिभिः शूद्राणां च विशेषतः । भीता रुष्टा याति लक्ष्मीः स्थलमन्यत् स्थलात्ततः ॥ ” इति । = कतकः = पयः प्रसादी, ' निर्मली ' इति भाषायाम् । ९ अर्जुनरोगे लेखाञ्जनमाख्याति - लोहेति । १० घातवः– “ सुवर्णैरूप्यताम्राणि ' गज CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1096

सुश्रुत संहिता चौखम्बा, पृष्ठ 1096 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ३८ चिकता ८ सुश्रुतसंहितायां -[ अ ० १२ CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri

रत्नानि दन्ताः शृङ्गाणि गणश्चाप्यवसादनः ।

कुक्कुटाण्डकपालानि लशुनं कटुकेत्रयम् ॥ २५ ॥

करञ्जबीज मेला च लेख्याञ्जनमिदं स्मृतम् ।

पुटपाकावसानेन रक्तविस्रावणादिना ॥ २६ ॥

सम्पादितस्य विधिना कृत्स्नेन स्यन्देघातिना । त अनाच्छुक्रमणं कुशलो भिषक् ॥ २७ ॥

उत्तार्नमवगाढं वा कर्कशं वाऽपि सव्रणम् ।

शिरीषबीजमरिचपिप्पली सैन्धवैरपि ॥ २८ ॥

शुक्रस्य घर्षणं कार्य्यमथवा सैन्धवेन तु ।

कुर्यात्ताम्ररजः शङ्ख शिलामरिच सैन्धवैः ॥ २ ९ ॥

अन्य्याद् द्विगुणितैरेभिरञ्जनं शुक्रनाशनम् ।

कुर्यादञ्जनयोगो वा सम्यक् श्लोकार्द्धिकाविमौ ॥ ३० ॥

शङ्खकोलास्थि कतकद्राक्षामधुकमाक्षिकैः । हरितालं मनःशिला । गैरिकाञ्जनकासीसती सलोहाः सहिङ्गुलाः । गन्धको कमि त्याद्या धातवो गिरिसम्भवाः ॥ ” इति । लवणानि = लवणवर्गोत्तानि सैन्धवादीनि पञ्च । १ रत्नानि - ' वज्र ' गारुत्मतं पुष्पं रागो माणिक्यमेव च । इन्द्रनीलञ्च गोमेदस्तथा वैदूर्यमित्यपि । मौक्तिकं विद्रुमश्चेति रत्नान्युक्तानि वै नव ॥ ' इति । दन्ताः गजा दीनां दन्ता इत्यर्थः । शृङ्गाणि = गवादीनां विषाणानि, अवसादनः = मिश्रकाध्या • योक्तः कासीसादिगण इत्यर्थः । २ कटुकत्रयं = त्रिकटुकम् । ३ लेख्याञ्जनयोग्यातुरं निर्दिशति - पुढेति । पुटपाक एवावसानं यस्य स तथोक्तेन पुटपाकान्तेनेत्यर्थः । ४ स्यन्दघातिना = श्रभिष्यन्दघात शीलेन, विधिनैश्यस्य विशेषणम् । स च विधिस्तन्त्रान्तरे - " ततः प्रदेहान् परिषेचनानि नत्यानि धूमाश्च यथास्वमेव । आइच्योतनाभ्यञ्जनतर्पणानि तथैव कार्याः पुटपाकयोगाः ॥ इति । ५ श्रपहरेत् = चिकित्स्येत् । ६ श्रवणशुक्रचिकित्सितमभिवाय सत्रयचिकित्सितं वति - उत्तानमिति । उत्तानम् = एकपटलगतम्, श्रवगाढं = द्वित्र्यादिपटलगतम्, कर्कशं = कठिनं, सव्रणं पूर्वोक्तेन विधिना लेखयेदित्यर्थः । ७ जारितं ताम्रं ताम्र-रजः, शिला = मनःशिला । अर्थात् सैन्धवाद् द्विगुणं मरिचं, चतुर्गुणा मनःशिला, श्रष्टगुणः शङ्खः,

पृष्ठ 1097

सुश्रुत संहिता चौखम्बा, पृष्ठ 1097 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १२ ] Digitized by Arya Sama तरतन्त्रम् chen Foundation Chennai and eGangotri ९ ३ ९ क्षौद्रदैन्तार्णवमल शिरीषकुसुमैरपि ॥ ३१ ॥

क्षारोञ्जनं वा वितरेद्बलाशग्रथितापहम् ।

मुद्गान् वा निस्तुषान् भृष्टान् शङ्खक्षौद्रसमायुतान् ॥ ३२ ॥

मधूकसारं मधुना योजयेच्चाञ्जने सदा । बिभीतकास्थिमज्जा वा सक्षौद्रः शुक्रनाशनः ॥ ३३ ॥ -शङ्खशुक्तिमधुद्राक्षामधुकं कतकानि च ।

द्वित्वग्गते सशुले वा वातघ्नं तर्पणं हितम ॥ ३४ ॥ —

वंशजारुष्करौ तालं नारिकेलञ्च दाहयेत् ।

विस्राव्य क्षौरवच्चूर्ण भावयेत्करभास्थिजम् ॥ ३५ ॥

बहुगोऽञ्जनमेतत्स्याच्छुक्रवैवर्ण्यनाशनम् । वैवर्यनांश अर्जकां पार्श्वतो विद्वां सूच्या विस्राव्य चोदकम् ॥ ३६ ॥

व्रणं गोमांसचूर्णेन पूरयेत् सर्पिषा सह ।

बहुशोऽवलिखेचापि वर्त्मास्योपगतं यदि ॥ ३७ ॥

II ' सशोफश्चाप्यशोपश्च द्वौ पाकौ यौ प्रकीर्त्तितौ । iigm Vigm षोडशगुणं ताम्ररज इति । १ दन्तः = गोदन्तः, श्रणवमलं = समुद्रफेनम् । २ क्षाराअनं = श्लेष्माभिष्यन्दे " नीलान् यवान् गव्यपयोऽनुपीतान् " इत्याद्युक्तम् । ३ मधुकं = ष्टमधु । ४ द्वित्वग्गते = द्विपटलाश्रिते शुक्रे । ५ वंशजः = बंशाङ्कुर इत्यर्थः । श्ररुष्करः = भल्लातकः । ६ तिलनालदीपितानां वंशजादीनां भस्म करभास्थिचूर्णसमं प्रत्यद्दमाकृष्य षड्गुणोदकेऽष्टगुणोदके वा निःक्काथयेत् । ततः पादशेषं बहुवारं विस्राव्य स्वस्थेन तेनोदकेन सप्ताहं करभास्थिचूर्णं भावयित्वाऽऽतपे शोषयेत् । ततस्तच्चूर्णं पुनः सन्चूर्णं मध्वक्तशलाकाऽऽदिना शुकदेशमात्रं घर्षयित्वा त्रिफलोदकेन नयनं प्रक्षाल-येत् । ७ एतेन शुक्रस्य वैवर्ण्य शुक्लतां विनाश्य कृष्णतां समुत्पादयतीत्यर्थः; न तु शुकं नाशयतीति भावः । असाध्यस्य अजकाजातस्य चिकित्सामुपदिशति – अजकामिति । श्रज • काजातमित्यर्थः । तन्त्रान्तरे विशेषः - " सर्वथाऽनुपशान्तां तु दहेत् स्वर्णशलाकया । अजकां पार्श्वतो विद्ध्वा ततो रन्धं समाचरेत् ॥ ” इति । ९ अस्य अजकाजातस्य, चतुण्डम्, उपगतमुच्चतां प्राप्तमित्यर्थः । १० नैत्रपाकचिकित्सितमभिदधाति— -सशोफ इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1098

सुश्रुत संहिता चौखम्बा, पृष्ठ 1098 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ४० Digitized by Arya Samaj सुश्रुतसंहितायांand eGangotri [ अ ० १२ स्नेहम्वेदोपपन्नस्य तत्र विद्ध्वा सिरां भिषक् ॥ ३८ ॥

सेकाश्चयोतननस्यानि पुटपाकांश्च कारयेत् ।

सर्वतश्चापि शुद्धस्य कर्त्तव्यमिदमञ्जनम् ॥ ३ ९ ॥

ताम्रपात्रस्थितं मासं सर्पिः सैन्धवसंयुतम् ।

मैरेयं वाऽपि दध्येवं दध्युत्तरकमेव वा ॥। ४० ॥

घृतं कांस्यमलोपेतं स्तन्यं वाऽपि ससैन्धवम् । मधूकसारं मधुना तुल्यांशं गैरिकेण वा ॥ ४१ ॥.

सर्पिः सैन्धवताम्राणि योषित्स्तन्ययुतानि वा ।

दौडिमारेवताश्मन्तकोलाम्लैञ्च ससैन्धवाम् ।

रसक्रियां वा वितरेत्सम्यक्पाकजिघांसया ॥। ४२ ॥

मासं सैन्धवसंयुक्तं स्थितं सर्पिषि नागरम् ।

आश्च्योतनाञ्जनं योज्यमबलाक्षीरसंयुतम् ॥ ४३ ॥

जात्याः पुष्पं सैन्धवं शृङ्गवेरं कृष्णाबीजं कीटशत्रोश्च सारम ।

एतत् पिष्टं नेत्रपा केऽञ्जनार्थं क्षौद्रोपेतं निविशङ्कं प्रयोज्यम् ॥ ४४ ॥

प्रयालसे " शोणितमोक्षणञ्च हितं तथैवाप्युपनाहनञ्च ।

कृत्स्नो " विधिश्वेक्षणपाकघाती यथाविधानं भिषजा प्रयोज्यः ॥ ४५ ॥

१ अपाङ्गयामपिनासिक्यां लालाट्यां वा सिरामित्यर्थः । २ पूर्वोक्तयोः सशो. फाशोफयोरन्जनं दर्शयति- सर्वत इति । सर्वतश्चापि शुद्धस्य = अन्तःपरिमार्ज-नबहिःपरिमार्जनाभ्यां शुद्धस्येत्यर्थः । ३ मैरेयो नाम सुराऽऽसवयोः प्रत्येकनिष्पा-दितयोरेकीकृत्य पुनः सन्धानान्मैरेयः । दध्युत्तरकं = दधिसरः । ४ मधूकता -रः = यष्टिमधुसत्त्वम् । ५ रसक्रियामाख्याति - दाडिमेति । फाणितीभूतः काथो र सक्रियोच्यते । आरेवतः === आरग्वधः, अश्मन्तकः === अम्लोटकः ६ श्रश्च्योतनं निर्दिशति - मासमिति । अत्र मांसमिति पाठान्तरम् । ७ श्रब-लाक्षीरसंयुतं = स्त्रीदुग्धयुक्तम् । ८ शृङ्गवेरम् = आर्द्रकम्, कृष्णबीजं = पिप्प-लीबीजम्, कीटशत्रोः = विडङ्गस्येत्यर्थः । ९ निर्विशङ्कं = निःशङ्कमित्यर्थः । १० प्यालसे चिकित्सामभिदधाति - पूयेति । अत्र शोणितमोक्षण स्नेहस्वेद-पूर्वकमवसेयम् । उपनाद्दनं = प्रलेपो बन्धनं वेत्यर्थः । तच्च यथादोषहरव्रणशोधनचक्षुः ष्यद्रव्यैरेव बोध्यम् । ११ विधिः - अन्तःशुद्धिकरं बहिःशुद्धिकरं च सकलं विधानमि--CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1099

सुश्रुत संहिता चौखम्बा, पृष्ठ 1099 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १२ ] Digitized by Arya Samaj Foundation Chennai and eGangotri उत्तरतन्त्रम् । ९ ४१

कासी सिन्धुप्रभवार्द्रकैस्तु हितं भवेदञ्जनमेव चात्र ।

क्षौद्रान्वितैरेभिरथोपयुञ्ज्यादन्यत्तु ताम्राय सचूर्णयुक्तैः ॥ ४६ ॥

स्नेहादिभिः सम्यगपास्य दोषांस्तृप्तिं विधायाथ यथास्वमेव ।

प्रक्लिन्नवर्त्मानमुपक्रमेत सेकाञ्जनाश्च्योतननस्यधूमैः ॥ ४७ ॥

मुस्तहरिद्रामधुकप्रियङ्गसिद्धार्थरोधोत्पलसारिवाभिः ।

क्षुण्णौभिराश्च्योतनमेव कार्य्यमत्राञ्जनं चाञ्जनमाक्षिकं स्यात् ॥ ४८ ॥

पत्रं फलञ्चामलकस्य पक्त्वा क्रियां विदध्यादथवाऽञ्जनार्थे ।

वंशस्य मूलेन रसक्रियां वार्त्तीकृतां ताम्रकपालपक्काम् ॥ ४ ९ ॥

- रसक्रियां वा त्रिफलाविपक्कां पलाशपुष्पैः खरमञ्जरेर्वा ।

पिष्ट्वा छगल्याः पयसामलं वा कांसस्य दग्ध्वा सह तान्तत्वेन ॥५० ॥

प्रत्यञ्जनं तन्मरिचैरुपेतं चूर्णेन ताम्रस्य सहोपयोज्यम् ।

समुद्रफेनं १० लवणोत्तमञ्च शङ्खोऽथ मुद्गो मरिचश्च शुक्लम् ॥ ५१ ॥

चूर्णाञ्जनं जाड्यमथापि कण्डूम क्लिन्नवर्त्मान्युपहन्ति शोघ्रम् ।

प्रक्लिन्नवर्त्मन्यपि चैत एव " योगाः प्रयोज्याश्च समीक्ष्य दोषम् ॥५२ ॥

त्यर्थः । १ पुयालसे कासीसादिरसक्रियाऽब्जनमभिधत्ते - कासीसेति । सिन्धुप्रभ • : = = सैन्धवलवणः । २ एभिः = कासीसादिभिः । ताम्रायसचूर्णयुक्तैः चौद्रान्वितै-रेभिरिति सम्बन्धः । ३ प्रक्लिन्नवर्त्म चिकित्सामाचष्टे - स्नेहादिभिरिति । स्नेश-दिभिः = स्नेहसिराव्यधविरेक शिरोविरे कास्थापनैरित्यर्थः । ४ तत्र सेकाइच्योतनद्रव्याणि दर्शयति - मुस्तेति । मधुकः = यष्टिमधु, सिद्धा · र्थः = सर्षपः । ५ क्षुण्णाभिः = श्रन्तरीक्षास्वप्सु अन्यस्मिन् वा न्यस्ताभिः, अब्जन-माक्षिकमित्यत्र अञ्जनं रसान्जनम् । ६ रसक्रियाऽजनमुपदिशति - पत्रमिति । क्रिर्या = रसक्रियामित्यर्थः । ७ ताम्रकपालपक्क == तामूकटाह परिपक्कान् । अर्थात् पा-केन तावच्छोषयेद् यावत् वर्तिकरणयोग्या न भवेत् । ८ खरमञ्जरेः = अपामार्गस्य । अत्र पुनः पुनरभिहितवाशब्देन पृथक् पृथग् रसक्रियायोगो बोद्धव्यः । ९ श्रधुना तीक्ष्णाव्जनेन दुर्बलस्य नेत्रस्य प्रत्यन्जनमाह - पिष्ट्वेति । छग-ल्याः = श्रजायाः, पयसा = क्षीरेण, कांसस्य मलं वा, तान्तवेन = कार्पासवस्त्रेण, सद दग्ध्वेत्यर्थः । १० प्रक्लिन्नवर्त्मनि चूर्णाअनं निर्दिशति - समुद्रति । लवणोत्तमं =: सैन्धवम्, शुक्लं मरिचं शोभान्जन बीजम् । ११ योगाः = कफहरा योगा इत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1100

सुश्रुत संहिता चौखम्बा, पृष्ठ 1100 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ४२ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां-[ अ ० १३ सकज्जलं ताम्रेघटे च घृष्टं सर्पिर्युतं तुत्थकमञ्जनं च ॥ ५३ ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे रक्ताभिष्यन्दप्रतिषेधो नाम द्वादशोऽध्यायः ॥ १२ ॥

an स्क्रेपिंग

त्रयोदशोऽध्यायः ।

अथोतो लेख्यरोगप्रतिषेधं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

नव येऽभिहिता लेख्याः सामान्यास्तेष्वयं विधिः ।

स्निग्धैवान्तविरिक्तस्य निवातातपसद्मनि ॥ ३ ॥

( आप्तैर्दृढं गृहीतस्य वेश्मन्युत्तानशायिनः ॥ )

सुखोदकप्रतप्तेन वामसा सुसमाहितः ।

स्वेदयेद्वर्त्म निर्भुज्य वामाङ्गुष्ठाङ्गुलिस्थितम् ॥ ४ ॥

अङ्गुल्यङ्गुष्ठकाभ्यान्तु निर्भुग्नं वर्त्म यत्नतः ।

प्लोतान्तराभ्यां न यथा चलति संस्रतेऽपि वा ॥ ५ ॥

१ तामघटे = तामूपात्रे, तुत्थकमअनमित्यत्र अञ्जनं रसाञ्जनमित्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतशालाक्यतन्त्रे सुधाऽख्यटिप्पन्यां द्वादशोऽध्यायः । त्रयोदशोऽध्यायः । P २ “ छेद्यास्तेषु दशैकश्च नव लेख्याः प्रकीर्तिताः ” इति वचनेन प्राक् प्रतिपादना हणां छेद्यरोगाणां प्रतीकारक्रमं हित्वा लेख्याजनप्रसङ्गाद् छेद्यादिरोगेष्वपि प्रथमाव स्थायां लेखनोपयोगाच्च प्राक् लेख्यरोगप्रतिषेधमधिकरोति — अथेति । तत्रादौ ३ वर्त्मलेखनविधिमभिधत्ते- नवेति । “ अर्शोऽन्वितं भवति वर्त्म तु यत्तथाऽर्शः ’ ” इत्यादिना प्राक् चिकित्सितप्रविभागविज्ञानीये नव लेख्यरोगा श्रभिहिताः । स्नि.. ४ ग्धवान्तविरक्तस्येत्यत्र स्नेहानन्तरं स्वेदोऽपि कार्यः । ५ निर्भुज्य = उत्तानीकृत्य । ६ प्लोतान्तराभ्यां वस्त्रान्तरिताभ्यामङ्गुल्यङ्गुष्ठाभ्यां यथा न चलति न कन्पते, वा न स्रंस्रते नाधः पतति, तथा वर्त्म यत्नतो निर्भुग्नमुत्तानं कुर्यादित्यर्थः । श्रष्टाङ्गहृदये CC - 0. Gurukul Kangri Collection, Haridwar