सुश्रुत संहिता चौखम्बा — पृष्ठ 1101–1110
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1101–1110
पृष्ठ 1101
पाठ पढ़ें पाठ छिपाएँ
अ ० १३ ] Arya, Digitized by An उत्तरतन्त्र ation Chennai and eGangotri ९ ४३
ततः प्रमृज्य प्लोतेन वर्त्म शस्त्रपदाङ्कितम् ।
लिखेच्छ्त्रेणे पत्रैर्वा, ततो रक्ते स्थिते पुनः ॥ ६ ॥
स्विन्नं मैनोह्राकासीसव्योषार्द्राञ्जनसैन्धवैः ।
श्लक्ष्णपिष्टैः समाक्षीकैः प्रतिसार्योष्णवारिणा ॥ ७ ॥
प्रक्षाल्य हविषा सिक्तं व्रणवैत् समुपाचरेत् ।
स्वेदावपीडप्रभृतींत्र्यहादूर्ध्वं प्रयोजयेत् ॥ ८ ॥
व्यासतस्ते समुद्दिष्टं विधनं लेख्यकर्मणि ।
असृगास्रावरहितं कण्डूशोफविवर्जितम् ॥ ९ ॥
समं नखनिभं वर्त्म लिखितं सम्यगिष्यते ।
रक्तमक्षि स्रवेत् स्कन्नं क्षताच्छस्त्रकृताद् धुवम् ॥ १० ॥
रागशोफपरिस्रावास्तिमिरं व्याध्यनिजयः । II वर्त्म श्यावं गुरु स्तब्धं कण्डूहर्षोपदेहवत् ॥ ११ ॥
ऽपि — " निवातेऽधिष्ठितस्याप्तैः शुद्धस्योत्तानशायिनः । बहिः कोष्णाम्बुतप्तेन स्वेदितं वर्त्म वाससा ॥ निर्भुज्य वस्त्रान्तरितं वामाङ्गुष्ठाङ्गुलीधृतम् । न स्रंसते चलति वा वस्मैवं सर्वतस्ततः ॥ ” इति । १ शस्त्रपदाङ्कितं = तिर्यङ् मण्डलाग्रेण शस्त्रपदाङ्कितं कृत्वेति शेषः । २ शस्त्रेण = मण्डलाग्रेणैव, पत्रैः = शोकादिपत्रैः । तदाह वाग्भटः - " मण्डलाग्रेण तत्तिर्यक् कृत्वा शस्त्रपदाङ्कितम् । लिखेत्तेनैव पत्रैर्वा शाकशेफालिकाऽऽदिजैः ॥ फेनेन तोयराशैर्वा पिचुना प्रमृजन्नसृक् । स्थिते रक्ते सुलिखितं सक्षौद्रैः प्रतिसारयेत् ॥ ” इति । ३ मनोह्वा = मनःशिला, श्रार्द्राजिनं - रसाञ्जनम् । ४ समाक्षीकैः = स्वर्णमाक्षिकसंयुतै. रित्यर्थः । माक्षीकैरित्यत्र दीर्घ श्रार्ष: । प्रतिसार्य - विघृष्येत्यर्थः ॥ ६ विधानं: = ५ व्रणवत् = सप्ताहं सद्योव्रणवत्, तदनन्तरं शारीरव्रणवत् स्वेदावपीढप्रभृति । वाग्भटस्तु - " घृतेनासिक्तमभ्यक्तं बध्नीयान्मधुसर्पिषा । ऊर्ध्वाधः कर्णयोर्दत्वा पिण्डी च यवसक्तुभिः ॥ द्वितीयेऽहनि मुक्तस्य परिषेकं यथायथम् । कुर्याच्चतुर्थे नस्यादीन् मुश्चेदेवाह्नि पञ्चमे ॥ " इत्याह । ७ अथ सम्यग्लिखितवर-लक्षणमभिदधाति — असृगिति । श्रसृगास्रावरहितं शोणितास्रावहीनम् । ८ समं = निम्नोन्नतारहितम्, नखनिभं = नखसदृशं वर्णंत इत्यर्थः । ९ दुर्लिखितवर्त्मलक्षणमाख्याति - रक्तमिति । स्कन्नं = स्त्यानमित्यर्थः । १० उप-देहः = दूषिकेत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1102
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj Foundation Chennai and eGangotri ९ ४४ सुश्रुतसंहितायां -[ अ ० १३
नेत्र पाकमुदीर्णं वा कुर्वीताप्रतिकारिणः ।
एतद्दुर्लिखितं ज्ञेयं स्नेहयित्वा पुनर्लिखेत् ॥ १२ ॥
व्यावर्त्तते यदा वर्त्म पक्ष्म चापि विमुह्यति ।
स्यात् सरुक् स्रावबहुलं तदतिस्रावितं विदुः ॥ १३ ॥
स्नेहस्वेदादिरिष्टः स्यात् क्रमस्तत्रानिलापहः ।
वर्त्माविबन्धं क्लिष्टञ्च बहलं यच्च कीर्त्तितम् ॥ १४ ॥
पोथ की श्चाप्यव लिखेत् प्रच्छयित्वाऽग्रतः शनैः ।
समं लिखेत्त मेधावी श्यावकर्दमवर्त्मनी ॥ १५ ॥
कुम्भीकिनीं शर्कराञ्च तथैवोत्सङ्गिनीमपि ।
कल्पयित्वा तु शस्त्रेण लिखेत् पश्चादतन्द्रितः ॥ १६ ॥
भवेयुर्वर्त्मसु च याः पिडकाः कठिना भृशम् ।
ह्रस्वास्ताम्राश्च ताः पक्वा भिन्द्यौद्भिन्ना लिखेदपि ॥ १७ ॥
तरुणीश्चाल्पसंरम्भाः पिडका बाह्यवर्त्मजाः ।
विदित्वैताः १ ° प्रशमयेत स्वेदालेपनशोधनैः ॥ १८ ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे लेख्यरोगप्रतिषेधो नाम त्रयोदशोऽध्यायः ॥ १३ ॥
१ अप्रतिकारिणः = अचिकित्स्यमानस्येत्यर्थः । २ प्रतिलिखितवत्मलक्षणम-भिधत्ते - व्यावर्तत इति । व्यावर्तते = विपरिवर्तते । " रुपदमवसदनं संसना-दतिलेखनात् । स्नेहस्वेदादिकस्तस्मिन्निष्टो वातहरः क्रमः ॥ ” इति वाग्मटोऽपि । ३ रोगविशेषे प्रच्छनपूर्वकं लेखनमुपदिशति - चत्मेति । वर्त्माविबन्धम्, क्लिष्टं = क्लिष्टवर्त्म, बद्दलं = बहलवर्म । ४ श्रवलिखेत् = वृद्धिपत्रादिभिः शस्त्रैर्लिखे त्, न तु पत्रादिभिरित्यर्थः । ५ श्यावकर्दमवत्र्त्मनोः समलेखनार्थमुपदिशति - सममिति । समम् = एकका-लम् । ६ कुम्भीकादौ छेदनपूर्वक लेखनं दर्शयति- कुम्भीकिनीमिति । ७ करप-यित्वा = छित्त्वा, शस्त्रेण = वृद्धिपत्रादिना शस्त्रेणेत्यर्थः । ८ कुत्रचिद् भेदनपूर्वकं लेखनमाख्याति - भवेयुरिति । ९ त्रोहिवक्त्रेण भिन्द्यादित्यर्थः । तदाइ वाग्भटः = " पिटिका त्रीहिवक्त्रेण भित्त्वा तु कठिनोन्नता: । निष्पीडयेदनु विधिः परिशेषस्तु पूर्ववत् ॥ ” इति । १० प्रशमयेत् = शान्ति नयेदित्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतशालाक्यतन्त्रे सुधाऽऽख्य- टिप्पन्यां त्रयोदशोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1103
पाठ पढ़ें पाठ छिपाएँ
अ ० १४ ] उत्तरतन्त्रम् । Digitized by Arya Samaj Foundation Chennai and eGangotri
चतुर्दशोऽध्यायः ।
अथातो भेद्यरोगप्रतिषेधं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
स्वेदयित्वा बिसग्रन्थिं छिद्राण्यस्य निराशयम् ।
पक्कं भित्त्वा तु शस्त्रेण सैन्धवेनावचूर्णयेत् ॥ ३ ॥।
कासीसमागधीपुष्पने पाल्येलायुतेन तु । ९ ४५ ततः क्षौद्रघृतं दत्त्वा सम्यग्बन्धमथाचरेत् ॥ ४ ॥
रोचनाक्षार तुत्थानि पिप्पल्यः क्षौद्रमेव च ।
प्रतिसारणमेकैकं भिन्ने लगण इष्यते ॥ ५ ॥
• महत्यपि च युञ्जीत क्षाराग्नी विधिकोविदः ।
स्विन्नां भिन्नां वनिष्पीड्य भिषगञ्जननासिकाम् ॥ ६ ॥
शिलैलानतसिन्धूत्थैः सत्क्षौद्रैः प्रतिसारयेत् ।
रसाञ्जनं॑ मधुभ्यां तु भित्त्वा वा शस्त्रकर्मवित् ॥ ७ ॥
प्रतिसाय्र्याञ्जनैर्युञ्ज्यादुष्णैर्दीपशिखोद्भवैः " ।
सम्यक " स्विन्ने कृमिग्रन्थौ भिन्ने स्यात् प्रतिसारणम् ॥ ८ ॥
चतुदशोऽध्यायः । १ लेख्यरोगप्रतिषेधानन्तरं " भेद्याः पञ्च विकाराः स्युः ” इति प्रतिपादितुं भेद्य-रोगप्रतिषेधमधिकरोति — अथेति । २ तत्र भेदने सामान्यविधिमभिदधाति - स्वेद-यित्वेति । विग्रन्थि पक्वं स्वेदयित्वेति सम्बन्धः । अस्य छिद्राणि निराशयं निरु. त्सङ्गं यथा स्यात्तथा भित्त्वा निराश्रयमिति पाठान्तरम् । ३ मागधी = पिप्पली, पुष्पं = रसाञ्जनम्, नेपाली = मनःशिला । ४ लगणस्य चिकित्सामाख्याति– रोचनेति । रोचना = गोरोचना, क्षारः = यवक्षारः । ५ व्रीहिमुखेन भिन्ने इत्यर्थः । ' " भिन्द्याल्लगणकुम्भीका बिसोत्सङ्गाज्ञ्जनालजीः ” इति वाग्भटः ] । ६ महत्यपि = मद्दालगणेऽपीत्यर्थः । ७ स्वयम्भिन्नाया अन्जननामिकायाश्चिकित्सां वक्ति - स्विन्नामिति । भिन्नां -स्वयम्भिन्नामित्यर्थः । विनिष्पीडथ = स्नेहस्वेदपूर्वकं निष्पीडनं कृत्वा । ८ शिला = मनःशिला, एला = लध्वेला, नतं = तगरम्, सिन्धूत्थं = सैन्धवम् । ९ श्रभिन्न-ञ्जननामिकाचिकित्सां दर्शयति- रसाञ्जनेति । रसाञ्जनमधुभ्यां प्रतिसार्येति सम्ब-व्धः । १० दीपशिखोद्भवैः = कज्जल संज्ञकाअनैः । ११ क्रिमिग्रन्थिचिकित्सां वक्ति— ६० CC - 0. Gurukul Kangri Collection, Haridwar VI
पृष्ठ 1104
पाठ पढ़ें पाठ छिपाएँ
९ ४६ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri
त्रिफला तुत्थकासीस सैन्धवैश्च रसे क्रिया ।
भिखोपनाहं कफजं पिप्पलीमधुसैन्धवैः ॥ ९ ॥
लेखयेन्मण्डलाग्रेण समन्तात् प्रच्छयेदपि ।
संस्नेह्यं पत्रभङ्गैश्च स्वेदयित्वा यथासुखम् ॥ ५० ॥
आपाकाद्विधिनोक्तेन पञ्चभेद्यानुपाचरेत् । सर्वेष्वेतेषु विहितं विधानं स्नेहपूर्वकम् । [ अ ० १५. सम्पक्वे प्रयतो भूत्वा कुर्वीत व्रणरोपणम् ॥। ११ ॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे भेद्यरोगप्रतिषेधो नाम चतुर्दशोऽध्यायः ॥ १४ ॥
पञ्चदशोऽध्यायः ।
अर्थातश्छेद्यरोगप्रतिषेधं व्याख्यास्यामः ॥ १ ॥।
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
सम्यगिति । भिन्ने व्रीहिमुखादिभिरित्यर्थः । वाग्भटे — " कृमिग्रन्थि करीषेण स्विन्नं भित्त्वा विलिख्य च । त्रिफला क्षौद्र कासीससैन्धवैः प्रतिसारयेत् ॥ ” इति । १ रस-क्रिया = फाणिताकृतिः, सा च त्रिफलाक्काथे तुत्थकासीससैन्धवावापेन निष्पाद्या । २ श्लेष्मोपनाद्दचिकित्सितं निर्दिशति - भित्त्वेति । भित्त्वा = त्रीहिसुखेन दि-दार्य, पिप्पलीमधुसैन्धवैः प्रतिसारणं कार्यम् । तच्च लिखिते प्रच्छिते च सति बोद्धयम् । तथा च वाग्भट: - “ उपनाहं भिषक् स्त्रिन्नं भिन्नं त्रीहिमुखेन च । लेखयेन्मण्डलाग्रेण ततश्च प्रतिसारयेत् ॥ ” इति । ३ पञ्चसु भेद्यरोगेषु सामान्यविविमभिधत्ते - संस्ने -ह्येति । पत्रभङ्गैः - निम्बादिपत्रचूर्णैः । ४ उक्तेन विधिना = अपतर्पणादिसामान्य-शोथप्रतीकारेण, पञ्चभेद्यान = बिसग्रन्थिलगणाञ्जननामिकाक्रिमिग्रन्थिश्लेष्मोपनाह संज्ञ कान् । ५ स्नेहस्वेदरक्तास्रावविरेकादिविधानमित्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतशालाक्यतन्त्रे सुधाऽख्यटिपन्यां चतुर्दशोऽध्यायः । पञ्चदशोऽध्यायः । ६ पारिशेष्याच्छेद्यानां रोगाणां प्रतिषेधमधिकरोति - अथात इति । “ छेद्या-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1105
पाठ पढ़ें पाठ छिपाएँ
अ ० १५ ] उत्तरतन्त्रम् । Digitized by Arya Samaj Foundation Chennai and eGangotri ९ ४७.
. स्निग्धं भुक्तवतो ह्यन्नमुपविष्टस्य यत्नतः ।
संरोषयेत्तु नयनं भिषक् चूर्णैस्तु लोवणैः ॥ ३ ॥
ततः संरोषितं तूर्णं सुस्विन्नं परिघट्टितम् ।
अमैं यत्र वलोजातं तत्रैतल्लगयेद्भिषक् ॥ ४ ॥
अपाङ्गं प्रेक्षमाणस्य बडिशेन समाहितः ।
मुण्ड्याऽऽदाय मेधावी सूचीसूत्रेण वा पुनः ॥ ५॥ ७
न चोत्थापयता क्षिप्रं कार्यमभ्युन्नतं तु तँत् 1 शस्त्राबाधभयाच्चास्य वर्त्मनी ग्राहयेद् दृढम् ॥। ६ ॥
ततः प्रशिथिलीभूतं त्रिभिरेव विलम्बितम् ।
उल्लिखन्मण्डलाग्रेण तीक्ष्णेन परिशोधयेत् ॥ ७ ॥
विमुक्तं सर्वतश्चापि कृष्णाच्छुक्लाच्च मण्डलात् ।
नीत्वा कनीनकोपान्तं छिन्द्यान्नातिकनीनकम् ॥ ८ ॥
" चतुर्भागस्थिते मांसे नाक्षि व्यापत्तिमृच्छति । स्तेषु दशैकश्च " इति प्रागुक्त्या एकादश छेद्यरोगाः । १ श्रर्मणां छेदने प्राक्कर्म निर्दिशति — स्निग्धमिति । वाग्भटे तु - " उत्तानस्येतरत् स्विन्नं ससिन्धुत्थेन चाजितम् । रसेन बीजपूरस्य निमील्याक्षि विमर्दयेत् ॥ ” इति । २ लावणैः संरो-षयेदिति सम्बन्धः । संरोषयेत् = अमलीकरणार्थं सङ्क्षोभयेदित्यर्थः । ३ श्रच्छेदन-विधिमभिदधाति — तत इति । संरोषितं = अर्मशिथिलीकरणार्थं सङ्क्षोभितम्, परि-षट्टितं = सन्दंशाग्रेण इतस्ततः चालितम् । ४ वलीजातं = शिथिलं चर्मव्यक्तम्, ' जातं व्यक्तौ जन्मसु ' इति मेदिनी । लगयेत् = बढिशेन संयोजयेत् । ५ यदि बढिशं नासाद्यते, तदा पक्षान्तरमाह - मुचुण्डयेति । मुचुण्डया = सूक्ष्म • कण्टकमुखेन सन्दंशयन्त्रेणेत्यर्थः । मुचुण्डीलक्षणं वाग्भटे - " मुचुण्डी सूक्ष्मदन्तर्जुम रुचकभूषणा । गम्भीरव्रणमांसानामर्मणः शेषितस्य च " इत्युक्तम् । ६ तदर्म त्रुटनभिया क्षिप्रं झटिति श्रभ्युन्नतं न कार्यमित्यर्थः । ७ यन्त्रेण ग्राइयेदित्यर्थः । ८ प्रशिथिलीभूतं विमुक्तनयनगोलका श्लेषम्, त्रिभिर्वडिशादिभिरेवविलम्बितं धृतम् । ९ परिशो धयेत् = उन्मूलयेत् । १० व्यापत्तिभयात् कनीनिकामनतिक्रान्तं यथा स्यात्तथा छि. न्द्यात्, मण्डलाग्रेणेत्यर्थः । ११ कियान् मांसः संरक्ष्यो येन कनीनकं संरक्षितं स्या-दिति दर्शयति- चतुरिति । नयनगोलकस्योपरितने मांसे चतुर्भागेन स्थिते इत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1106
पाठ पढ़ें पाठ छिपाएँ
९ ४८ सुश्रुतसंहितायां— Digitized by Arya Samaj Foundation Chennai and eGangotri कनीनकवधास्रं नाडी वाऽप्युपजायते ॥ ९ ॥
हीनच्छेदात् पुनर्वृद्धिं शीघ्रमेवाधिगच्छति । [ अ ० १५ अर्म यज्जालवह्यापि तदप्युन्माये लम्बितम् ॥ १० ॥
छिन्द्याद्वक्रेण शस्त्रेण वर्त्मशुक्लान्तमाश्रितम् ।
प्रतिसारणमक्ष्णोस्तु ततः कार्यमनन्तरम् ॥ ११ ॥।
यावनालैम्य चूर्णेन त्रिकटोलवणस्य च! स्वेदयित्वा ततः पश्चाद् बध्नीयात् कुशलो भिषक् ॥ १२ ॥
दोषतुंबलकालज्ञः स्नेहं दत्त्वा यथाहितम् ।
व्रणवत् संविधानन्तु तस्य कुर्यादतः परम् ॥ १३ ॥
त्र्यहान्मुक्त्वा करस्वेदं दत्त्वा शोधनमाचरेत् ।
करञ्जबीजामलकमधुकैः साधितं पयः ॥ १४ ॥
हितमाश्च चोतनं शूले द्विरंहः क्षौद्रसंयुतम् ।
मधुकोत्पलकिञ्जल्कदूर्वा कल्कैश्च मूर्द्धनि ॥ १५ ॥
प्रलेपः सघृतः शीतः क्षीरपिष्टः प्रशस्यते ।
लेख्याञ्जनैरपहरेदर्मशेषं भवेद्यदि ॥ १६ ॥
अर्म ' ' चाल्पं दधिनिभं नीलं रक्तमथापि वा ।
धूसरं तनु यच्चापि शुक्रवत् तदुपाचरेत् ॥ १७ ॥
१ अस्रं = शोणितम्, नाडो = नाडीव्रणः । २ अवस्थाविशेष प्रतिपादयति ---अर्मेति । यदमं जालवद् मत्स्यबन्धनजालवदित्यर्थः । व्यापि व्यापनस्वभावं तदपि उन्मार्ग्य सैन्धवचूर्णेनावघृष्य वक्रेण शस्त्रेण बढिशेन लम्बितं धृतं मण्डलाग्रेण छिन्द्यादित्यर्थः । ३ छेदनानन्तरं प्रतिसारणविधिं वक्ति - प्रतीति । ४ यावना-लस्य = यवक्षारस्य । ५ संविधानं = शोधनरोपणादिकम् । ६ श्रावस्थिकशूल चिकित्सा मुपदिशति - करजेति । ७ द्विरहः सायं प्रातर्वा -रद्वयं सूर्यप्रकाशे एव । ८ तस्मिन् शूले शिरोलेपं ब्रवीति - मधुकेति । मधुकः = यष्टिमधु, उत्पलं = नीलकमलम्, किञ्जल्कः = पद्मकेसरम् । १ लेख्याअनं रक्ताभि ष्यन्दप्रतिषेधोक्तं " लोहचूर्णानि सर्वाणि धातवो लवणानि च ' इति । १० शुक्रचिकित्सामर्मण्यप्यतिदिशति - अर्मेति । वाग्भटेऽपि - " अर्मोक्तं पञ्चधा तत्तु तनु धूमाविलं च यत् । रक्तं दधिनिभं यच्च शक्रत्रत्तस्य भेषजम् ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1107
पाठ पढ़ें पाठ छिपाएँ
अ ० १५ ] Digitized by Arya Sa युएस qhennai and eGangotri
चेर्माभं बहुलं यत्तु स्नायुमांसघनावृतम् ।
छेद्यमेव तदर्भ स्यात् कृष्णमण्डलगञ्च यत् ॥ १८ ॥
विशुद्धे वर्णमक्लिष्टं क्रियास्वति गतक्लमम् ।
छिन्नेऽर्मणि भवेत् सम्यग्यथास्वमनुपद्रवम् ॥ १ ९- ॥
सिरौजाले सिरा यास्तु कठिनास्ताश्च बुद्धिमान् ।
उल्लिखेन्मण्डलाग्रेण बडिशेनावलम्बिता: ॥ २० ॥।
सिरासु पिङका जाता या न सिध्यन्ति भेषजैः ॥
अव मण्डलाग्रेण तासां छेदनमिष्यते ॥ २१ ॥
रोगयोश्चैर्तयोः कार्यमर्मोक्तं प्रतिसारणम् ।
विधिश्वापि यथादोषं लेखनद्र्व्यसम्भृतः ॥ २२ ॥
संन्धौ संवेद्य शस्त्रेण पर्वणीकां विचक्षणः ।
उत्तरे च त्रिर्भागे च बडिशेनावलम्बिताम् ॥ २३ ॥
९ ४ ९ । १ छेदनार्हं मर्म निर्दिशति - चर्माभमिति I । चर्माभं = चर्मखण्डसदृशम्, बद्दलं = स्थू • लम्, स्नायुमांसाभ्यां घनं यथा स्यादेवमावृतं स्नायुमांसाभ्यां घनं यथा स्यादेवमा • वृतं स्नायुमांसघनावृतम् । २ सम्यक् छिन्नार्मलक्षणमाइ – विशुद्धेति । श्रक्लिष्टं = क्लेशरहितम्, क्रियासु = निमेषोन्मेषादिषु । १३ सिराजालच्छेदनविधि दर्शयति-सिरेति । वुद्धिमान् वैद्यः सिराजाले याः कठिनाः सिरास्ता बढिशयन्त्रेण अवल-म्बिता धृता मण्डलाग्रेण उद् ऊर्ध्वं लिखेच्छिन्द्यादित्यर्थः । छेदनमिदं स्निग्धस्विन्न-शिथिलीकृत नेत्रस्यैव बोद्धयम् । ४ सिराजपिडकाच्छेदनविधिमभिदधाति - सिरास्त्विति । " सिराजाले सिरा यान्तु कठिना लेखनौषधैः । न सिद्ध्यन्त्यर्मवत्तासां पिटिकानां च साधनम् ॥ ” इति । वाग्भटः । ५ श्रर्मवत् = " स्निग्धं भुक्तवतो ह्यन्नमुपविष्टस्य यत्नतः " इत्याद्यर्मोक • पूर्वकर्मवत्, मण्डलाग्रेण छेदनमिष्यते इत्यर्थः । ६ एतयोः = सिराजालसिरापिड -कयोः, अर्मोक्तं == ‘ यावनालस्य चूर्णेन त्रिकटोलवणस्य च ' इत्यादिकम् । ७ लेख-नद्रव्यसम्भृतः = लेखनद्रव्य निष्पादितः । “ रक्तस्यन्दवदुरपातहर्षं जालार्जुने क्रिया ” इति वाग्भटः । ८ पर्वणिकाच्छेदनविधिमाख्याति – सन्धाविति । सन्धौ = कृष्णशुक्लसन्धौ, संस्वेद्य == सम्यक् स्वेदनं कृत्वा । ९ उत्तरे त्रिभागे = उपरितनभागत्रितये, बाह्यस-न्धित्रिभागे इत्यर्थः । तथा च वाग्भट: - " पर्वणी बडिशेनात्ता बाह्यसन्धित्रिभागतः । वृद्धिपत्रेण वर्ध्याऽर्थे स्यादश्रुगतिरन्यथा । चिकित्सा चार्मवत् क्षौद्रसैन्धवप्रतिसारि • CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1108
पाठ पढ़ें पाठ छिपाएँ
९ ५० Digitized by Arya Sa स्युश्रुतसंहितायां maiand eGangotri [ अ ० १५
छिन्द्यात् ततोऽर्द्धम स्यादश्रुनाडी ह्यतोऽन्यथा ।
प्रतिसारणमत्रापि सैन्धवक्षौद्रमिष्यते ॥ २४ ॥
लेखनीयानिर्चाणनि व्याधिशेषस्य भेषजम् ।
शैङ्खं समुद्रफेनञ्च मण्डूकीञ्च समुद्रजाम् ॥ २५ ॥
स्फटिकं कुरुविन्दञ्च प्रवालाश्मन्तकन्तथा ।
वैदूर्य्यं ' पुलकं मुक्तामयस्ताम्ररजांसि च ॥ २६ ॥
समभागानि सम्पिष्य सार्द्धं स्रोतोऽञ्जनेन तु ।
चूर्णाञ्जनं कारथित्वा भाजने मेषैशृङ्गजे ॥ २७ ॥
संस्थाप्योभर्यंतः कालमञ्जयेत् सततं बुधः ।
अर्माणि पिडकां हन्यात् सिराजालानि तेन वै ॥ २८ ॥
अर्शस्तथा यच्च नाम्ना शुष्कार्शोऽर्बुदमेव च । ता । " इति । १ ततः भागत्रितयस्यार्धं भागमित्येतत् । अग्रे उपरिष्टाच्छिन्द्यात् । अत्राग्रे इति विशेषणं भागत्रितयस्याधः सार्द्धं भागं परिहर्तुम् । तस्मिन् हि छिन्ने सन्धेस्तस्य विश्लेषादवकाशं लब्ध्वान्तवर्ती सुकुमारो जलकोष्ठपटः शुक्लकृष्णमण्डल-प्रान्ततः प्रपीडितो मनाक् छिद्यते रात्रिन्दिवं जलमास्रावयितुम्, तदिदमुच्यते- -स्था--दश्रुनाडीति । श्रश्रु चक्षुर्जलं तदर्था शुक्लकृष्णगता नाडी अश्रुनाडीति सुश्रुतार्थ -सन्दीपनम् । २ अर्मणि तान्येव लेखनीयचूर्णानि निर्दिशति - शङ्खमिति । समुद्रजां मण्डू-कीं = शुक्तिमित्यर्थः । ३ कुरुविन्दं = पद्मरागमणिम्, श्रइमन्तकं 8123 मणिविशेषम् । ४ वैदूर्यै = विडालनेत्रसदृशम् । अस्य लक्षणमुक्तम्-- ' एकं वेणुपलाशकोमलरुचा - मायूरकण्ठत्विषा मार्जारक्षणपिङ्गलच्छविजुषा ज्ञेय त्रिधा छायया । यद् गात्रं गुरुतां दधावि नितरां स्निग्धं तु दोषोज्झितं वैदूर्य विशदं वदन्ति सुधियः स्वच्छञ्च तच्छो-भनम् ॥ ' ' इति । प्रसङ्गात् कुलक्षणं बोध्यम्- ' विच्छायं मृच्छिलागर्भं लघु रूक्षं च सक्षतम् । सत्रासं परुषं कृष्णं वैदूर्य दूरतां नयेत् ॥ ' इति । तत्परीक्षा तु — ' घृष्टं यदात्मना स्वच्छं स्त्रच्छायां निकषाश्मनि । स्फुटं प्रदर्शयेदेतद्वैदूर्यं जात्यमुच्यते ॥ ’ इति । विशेषो गारुडे युक्तिकल्पतरौ द्रष्टव्यः । पुलकं स्फटिकम् । वैदूर्यं पुलकमित्यत्र ' वैदूर्योपलकम् ' इति परेषां सम्मतपाठः । ५ मेषशृङ्ग इङ्गुदीभेदस्तन्निर्मिते भाजने पात्रे इत्यर्थः । मेषविषाणरचिते भाजने इत्यन्ये । ६ उभयतः कालं = दिनस्य कालद्वयमित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1109
पाठ पढ़ें पाठ छिपाएँ
अ ० १६ ] Digitized by Arya Samaj Foundation Chennai and eGangotri उत्तरतन्त्रम् । ९ ५१ अशवले कर्म अभ्यन्तरं वर्त्मशया विधानं तेषु वक्ष्यते ॥ २ ९ ॥
वर्मोपवेद्य निर्भुज्य सूच्योत्क्षिप्य प्रयत्नतः ।
मण्डलाग्रेण तीक्ष्णेन मूले भिन्द्याद्भिषग्वरः ॥ ३० ॥
ततः सैन्धवकासीसकृष्णाभिः प्रतिसारयेत् ।
स्थिते च रुधिरे वर्त्म दहेत् सम्यक् शलाकया ॥ ३१ ॥
क्षारेणावलिखेच्चापि व्याधिशेषो भवेद्यदि ।
तीक्ष्णैरुभर्यंतो भागैस्ततो दोषमधिक्षिपेत् ॥ ३२ ॥
वितरेच्च यथादोषमभिष्यन्दक्रियाविधिम् ।
शस्त्रकर्मण्युपरते मासञ्च स्यात् सुयन्त्रितः ॥ ३३ ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे छेद्यरोगप्रतिषेधो नाम पञ्चदशोऽध्यायः ॥ १५ ॥
पोडशोऽध्यायः । -अर्थातः पक्ष्मकोपप्रतिषेधं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
याप्यस्तु यो वत्मभवा विकारः पक्ष्मप्रकापाऽभिहितः पुरस्तात् । १ वमर्शःप्रभृतीनां छेदनविधिमुपदिशति - अभ्यन्तरमिति । वत्र्त्मशयाः = वर्त्माभ्यन्तराश्रयाः । २ विधानं दर्शयति - वत्र्मेति । " दहेदशान्तौ निर्भुज्य वर्त्मदोषाश्रयां वलीम् । सन्दर्शनाधिकं पदम हला तस्याश्रयं दहेत् ॥ " इत्यष्टान--हृदयम् । निर्भुज्य = उत्तानीकृत्य । ३ भिन्द्यात् = छिन्द्यादित्यर्थः । ४ उभयतो-भागैः = वमनविरेचनैरित्यर्थः । ५ सुयन्त्रितः = पथ्याहारविहार युक्त इत्यर्थः 1 इति सुश्रुतसंहिताया, उत्तरतन्त्रान्तर्गतशालाक्यतन्त्रे सुधाऽऽख्यटिप्पन्यां पञ्चदशोऽध्यायः । षोडशोऽध्यायः । ६ छेधरोगप्रतिषेधानन्तरं परमकोपप्रतिषेधमधिकरोति — अथेति । पचम वर्त्म-- गतलोममाला तत्कोपस्य प्रतिषेधस्तम् । पदमकोपस्य छेद्यत्वेन छेधरोगप्रतिषेधे एव प्रतिपाद्यतया पृथगध्यायारम्भोऽग्निक्षारकृत्यत्वेन याप्यत्वेन च बोद्धयः । ७ पदमकोपे शस्त्रकर्म विधानमभिदधाति - याप्य इति । ८ पुरस्तात् - - वर्त्मगतरोगविज्ञानोये । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1110
पाठ पढ़ें पाठ छिपाएँ
९ ५२ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० १६ तत्रोपविष्टस्य नरस्य चर्म वर्मोपरिष्टादनुतिर्यगेव ॥ ३ ॥
भ्रुवोरधस्तात् परिमुच्य भागौ पक्ष्माश्रितं चैकमतोऽवकृन्तेत् ।
कनीनकाऽपाङ्गसमं समन्ताद् यवाकृति स्निग्धतनोर्नरस्य ॥ ४ ॥
उत्कृत्य शस्त्रेण यवप्रमाणं बालेन सीव्येद्भिषगप्रमत्तः ।
दत्त्वा च सर्पिर्मधुनाऽवशेषं कुर्य्याद्विधानं विहितं व्रणे यत् ॥ ५ ॥
ललाटदेशे च निबद्धपट्टे प्राक्स्यूतमत्राप्यपरञ्च बद्ध्वा ।
स्थैर्य्यं गँते चाप्यथ शस्त्रमार्गे बालान् विमुचेत् I कुशलोऽभिवीक्ष्य । ] ॥
एवं न चेच्छाम्यति तस्य वर्त्म निर्भुज्य दोषोपहतां बलिञ्च ।
ततोऽग्निना वा प्रतिसारयेत्तां क्षारेण वा सम्यगवेक्ष्य धीरः ॥ ७ ॥
छित्त्वा समं वाऽप्युपपक्ष्ममालां सम्यग् गृहीत्वा बडिशैस्त्रिभिस्तु ।
पध्याफलेन प्रतिसारयेत्तु घृष्टेन वा तौवरकेण सम्यक् ॥ ८ ॥
= पचमप्रकोपे । २ एकं भागमित्यर्थः । ३ बालेन = अश्वपुच्छलोग्ना । १ तत्र ४ स्थैर्ये गते = कठिनीभूते, संरूढे इति यावत् । ५ विमुन्चेत् = अपकर्षेत् । वाग्भटे – “ पदमरोधे प्रवृद्धेषु शुद्धदेहस्य रोमसु । उत्सृज्य द्वौ भ्रुवोऽवस्ताद् भागौ भागं च पक्ष्मतः । यवमात्रं यवाकारं तिर्यक् छिदवा-ऽऽर्द्रवाससा ॥ अपनेयमसूक् तस्मिन्नल्पीभवति शोणिते । सीव्येत् कुटिलया सूच्या मुद्गमात्रान्तरैः पदैः ॥ बध्वा ललाटे पट्टे च तत्र सीवनसूत्रकम् । नातिगाढश्लथ सूच्या निक्षिपेदथ योजयेत् ॥ मधुसर्पिः कवलिकां न चास्मिन् बन्धमाचरेत् । न्यग्रो-घादिकषायैश्च सक्षीरैः सेचयेद्रजि ॥ पञ्चमे दिवसे सूत्रमपनीयावचूर्णयेत् । गैरिकेण व्रणं युब्ज्यात्तीक्ष्णं नस्याञ्जनादि च ॥ ” इति विशेषोऽपि । ६ पदमकोपे शस्त्रकर्मणाऽशाम्यति अग्निचार विधिमभिधत्ते - एवमिति । ७ प्रतिसारयेद् = घर्षयेत्, तां = वलिम्, अवेक्ष्य = विमृश्य, नाधिकं नापि च होनमिति भावः । ८ भेषजकर्मोपदिशति - छित्त्वेति । छित्वा = द्विधाकृत्य, उत्पाटयेति यावत् । उपपक्ष्ममालां = पदमकोपम्, या देशभेदेन ' परिवाल ' इत्युधुष्यते । एतल्ल-क्षणं वर्त्मवातरोगविज्ञानीये – “ दोषाः पदमाशयगतास्तीक्ष्णाग्राणि खराणि च । निर्व र्तयन्ति पक्ष्माणि तैर्घुष्टं चाक्षि दूयते ॥ ” इति । सुश्रुतार्थसन्दीपनकारस्तु — ' उपपदममालम् ' इति पाठं मत्वा ' पक्ष्मश्रेण्याः समीप मुपपदममालम् । मालाश्रेणीति पर्यायौ ' इति व्याख्याति । ९ घृष्टेन अम्बुनीति शेषः । श्रत्र पिष्टेनेति पाठान्तरम् । तौवरकेण = तुवरकफलेनेत्यर्थः । श्रत्र मधुमेहचिकित्सि-CC - 0. Gurukul Kangri Collection, Haridwar