सुश्रुत संहिता चौखम्बा — पृष्ठ 1101–1110

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1101–1110

पृष्ठ 1101

सुश्रुत संहिता चौखम्बा, पृष्ठ 1101 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १३ ] Arya, Digitized by An उत्तरतन्त्र ation Chennai and eGangotri ९ ४३

ततः प्रमृज्य प्लोतेन वर्त्म शस्त्रपदाङ्कितम् ।

लिखेच्छ्त्रेणे पत्रैर्वा, ततो रक्ते स्थिते पुनः ॥ ६ ॥

स्विन्नं मैनोह्राकासीसव्योषार्द्राञ्जनसैन्धवैः ।

श्लक्ष्णपिष्टैः समाक्षीकैः प्रतिसार्योष्णवारिणा ॥ ७ ॥

प्रक्षाल्य हविषा सिक्तं व्रणवैत् समुपाचरेत् ।

स्वेदावपीडप्रभृतींत्र्यहादूर्ध्वं प्रयोजयेत् ॥ ८ ॥

व्यासतस्ते समुद्दिष्टं विधनं लेख्यकर्मणि ।

असृगास्रावरहितं कण्डूशोफविवर्जितम् ॥ ९ ॥

समं नखनिभं वर्त्म लिखितं सम्यगिष्यते ।

रक्तमक्षि स्रवेत् स्कन्नं क्षताच्छस्त्रकृताद् धुवम् ॥ १० ॥

रागशोफपरिस्रावास्तिमिरं व्याध्यनिजयः । II वर्त्म श्यावं गुरु स्तब्धं कण्डूहर्षोपदेहवत् ॥ ११ ॥

ऽपि — " निवातेऽधिष्ठितस्याप्तैः शुद्धस्योत्तानशायिनः । बहिः कोष्णाम्बुतप्तेन स्वेदितं वर्त्म वाससा ॥ निर्भुज्य वस्त्रान्तरितं वामाङ्गुष्ठाङ्गुलीधृतम् । न स्रंसते चलति वा वस्मैवं सर्वतस्ततः ॥ ” इति । १ शस्त्रपदाङ्कितं = तिर्यङ् मण्डलाग्रेण शस्त्रपदाङ्कितं कृत्वेति शेषः । २ शस्त्रेण = मण्डलाग्रेणैव, पत्रैः = शोकादिपत्रैः । तदाह वाग्भटः - " मण्डलाग्रेण तत्तिर्यक् कृत्वा शस्त्रपदाङ्कितम् । लिखेत्तेनैव पत्रैर्वा शाकशेफालिकाऽऽदिजैः ॥ फेनेन तोयराशैर्वा पिचुना प्रमृजन्नसृक् । स्थिते रक्ते सुलिखितं सक्षौद्रैः प्रतिसारयेत् ॥ ” इति । ३ मनोह्वा = मनःशिला, श्रार्द्राजिनं - रसाञ्जनम् । ४ समाक्षीकैः = स्वर्णमाक्षिकसंयुतै. रित्यर्थः । माक्षीकैरित्यत्र दीर्घ श्रार्ष: । प्रतिसार्य - विघृष्येत्यर्थः ॥ ६ विधानं: = ५ व्रणवत् = सप्ताहं सद्योव्रणवत्, तदनन्तरं शारीरव्रणवत् स्वेदावपीढप्रभृति । वाग्भटस्तु - " घृतेनासिक्तमभ्यक्तं बध्नीयान्मधुसर्पिषा । ऊर्ध्वाधः कर्णयोर्दत्वा पिण्डी च यवसक्तुभिः ॥ द्वितीयेऽहनि मुक्तस्य परिषेकं यथायथम् । कुर्याच्चतुर्थे नस्यादीन् मुश्चेदेवाह्नि पञ्चमे ॥ " इत्याह । ७ अथ सम्यग्लिखितवर-लक्षणमभिदधाति — असृगिति । श्रसृगास्रावरहितं शोणितास्रावहीनम् । ८ समं = निम्नोन्नतारहितम्, नखनिभं = नखसदृशं वर्णंत इत्यर्थः । ९ दुर्लिखितवर्त्मलक्षणमाख्याति - रक्तमिति । स्कन्नं = स्त्यानमित्यर्थः । १० उप-देहः = दूषिकेत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1102

सुश्रुत संहिता चौखम्बा, पृष्ठ 1102 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj Foundation Chennai and eGangotri ९ ४४ सुश्रुतसंहितायां -[ अ ० १३

नेत्र पाकमुदीर्णं वा कुर्वीताप्रतिकारिणः ।

एतद्दुर्लिखितं ज्ञेयं स्नेहयित्वा पुनर्लिखेत् ॥ १२ ॥

व्यावर्त्तते यदा वर्त्म पक्ष्म चापि विमुह्यति ।

स्यात् सरुक् स्रावबहुलं तदतिस्रावितं विदुः ॥ १३ ॥

स्नेहस्वेदादिरिष्टः स्यात् क्रमस्तत्रानिलापहः ।

वर्त्माविबन्धं क्लिष्टञ्च बहलं यच्च कीर्त्तितम् ॥ १४ ॥

पोथ की श्चाप्यव लिखेत् प्रच्छयित्वाऽग्रतः शनैः ।

समं लिखेत्त मेधावी श्यावकर्दमवर्त्मनी ॥ १५ ॥

कुम्भीकिनीं शर्कराञ्च तथैवोत्सङ्गिनीमपि ।

कल्पयित्वा तु शस्त्रेण लिखेत् पश्चादतन्द्रितः ॥ १६ ॥

भवेयुर्वर्त्मसु च याः पिडकाः कठिना भृशम् ।

ह्रस्वास्ताम्राश्च ताः पक्वा भिन्द्यौद्भिन्ना लिखेदपि ॥ १७ ॥

तरुणीश्चाल्पसंरम्भाः पिडका बाह्यवर्त्मजाः ।

विदित्वैताः १ ° प्रशमयेत स्वेदालेपनशोधनैः ॥ १८ ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे लेख्यरोगप्रतिषेधो नाम त्रयोदशोऽध्यायः ॥ १३ ॥

१ अप्रतिकारिणः = अचिकित्स्यमानस्येत्यर्थः । २ प्रतिलिखितवत्मलक्षणम-भिधत्ते - व्यावर्तत इति । व्यावर्तते = विपरिवर्तते । " रुपदमवसदनं संसना-दतिलेखनात् । स्नेहस्वेदादिकस्तस्मिन्निष्टो वातहरः क्रमः ॥ ” इति वाग्मटोऽपि । ३ रोगविशेषे प्रच्छनपूर्वकं लेखनमुपदिशति - चत्मेति । वर्त्माविबन्धम्, क्लिष्टं = क्लिष्टवर्त्म, बद्दलं = बहलवर्म । ४ श्रवलिखेत् = वृद्धिपत्रादिभिः शस्त्रैर्लिखे त्, न तु पत्रादिभिरित्यर्थः । ५ श्यावकर्दमवत्र्त्मनोः समलेखनार्थमुपदिशति - सममिति । समम् = एकका-लम् । ६ कुम्भीकादौ छेदनपूर्वक लेखनं दर्शयति- कुम्भीकिनीमिति । ७ करप-यित्वा = छित्त्वा, शस्त्रेण = वृद्धिपत्रादिना शस्त्रेणेत्यर्थः । ८ कुत्रचिद् भेदनपूर्वकं लेखनमाख्याति - भवेयुरिति । ९ त्रोहिवक्त्रेण भिन्द्यादित्यर्थः । तदाइ वाग्भटः = " पिटिका त्रीहिवक्त्रेण भित्त्वा तु कठिनोन्नता: । निष्पीडयेदनु विधिः परिशेषस्तु पूर्ववत् ॥ ” इति । १० प्रशमयेत् = शान्ति नयेदित्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतशालाक्यतन्त्रे सुधाऽऽख्य- टिप्पन्यां त्रयोदशोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1103

सुश्रुत संहिता चौखम्बा, पृष्ठ 1103 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १४ ] उत्तरतन्त्रम् । Digitized by Arya Samaj Foundation Chennai and eGangotri

चतुर्दशोऽध्यायः ।

अथातो भेद्यरोगप्रतिषेधं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

स्वेदयित्वा बिसग्रन्थिं छिद्राण्यस्य निराशयम् ।

पक्कं भित्त्वा तु शस्त्रेण सैन्धवेनावचूर्णयेत् ॥ ३ ॥।

कासीसमागधीपुष्पने पाल्येलायुतेन तु । ९ ४५ ततः क्षौद्रघृतं दत्त्वा सम्यग्बन्धमथाचरेत् ॥ ४ ॥

रोचनाक्षार तुत्थानि पिप्पल्यः क्षौद्रमेव च ।

प्रतिसारणमेकैकं भिन्ने लगण इष्यते ॥ ५ ॥

• महत्यपि च युञ्जीत क्षाराग्नी विधिकोविदः ।

स्विन्नां भिन्नां वनिष्पीड्य भिषगञ्जननासिकाम् ॥ ६ ॥

शिलैलानतसिन्धूत्थैः सत्क्षौद्रैः प्रतिसारयेत् ।

रसाञ्जनं॑ मधुभ्यां तु भित्त्वा वा शस्त्रकर्मवित् ॥ ७ ॥

प्रतिसाय्र्याञ्जनैर्युञ्ज्यादुष्णैर्दीपशिखोद्भवैः " ।

सम्यक " स्विन्ने कृमिग्रन्थौ भिन्ने स्यात् प्रतिसारणम् ॥ ८ ॥

चतुदशोऽध्यायः । १ लेख्यरोगप्रतिषेधानन्तरं " भेद्याः पञ्च विकाराः स्युः ” इति प्रतिपादितुं भेद्य-रोगप्रतिषेधमधिकरोति — अथेति । २ तत्र भेदने सामान्यविधिमभिदधाति - स्वेद-यित्वेति । विग्रन्थि पक्वं स्वेदयित्वेति सम्बन्धः । अस्य छिद्राणि निराशयं निरु. त्सङ्गं यथा स्यात्तथा भित्त्वा निराश्रयमिति पाठान्तरम् । ३ मागधी = पिप्पली, पुष्पं = रसाञ्जनम्, नेपाली = मनःशिला । ४ लगणस्य चिकित्सामाख्याति– रोचनेति । रोचना = गोरोचना, क्षारः = यवक्षारः । ५ व्रीहिमुखेन भिन्ने इत्यर्थः । ' " भिन्द्याल्लगणकुम्भीका बिसोत्सङ्गाज्ञ्जनालजीः ” इति वाग्भटः ] । ६ महत्यपि = मद्दालगणेऽपीत्यर्थः । ७ स्वयम्भिन्नाया अन्जननामिकायाश्चिकित्सां वक्ति - स्विन्नामिति । भिन्नां -स्वयम्भिन्नामित्यर्थः । विनिष्पीडथ = स्नेहस्वेदपूर्वकं निष्पीडनं कृत्वा । ८ शिला = मनःशिला, एला = लध्वेला, नतं = तगरम्, सिन्धूत्थं = सैन्धवम् । ९ श्रभिन्न-ञ्जननामिकाचिकित्सां दर्शयति- रसाञ्जनेति । रसाञ्जनमधुभ्यां प्रतिसार्येति सम्ब-व्धः । १० दीपशिखोद्भवैः = कज्जल संज्ञकाअनैः । ११ क्रिमिग्रन्थिचिकित्सां वक्ति— ६० CC - 0. Gurukul Kangri Collection, Haridwar VI

पृष्ठ 1104

सुश्रुत संहिता चौखम्बा, पृष्ठ 1104 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ४६ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri

त्रिफला तुत्थकासीस सैन्धवैश्च रसे क्रिया ।

भिखोपनाहं कफजं पिप्पलीमधुसैन्धवैः ॥ ९ ॥

लेखयेन्मण्डलाग्रेण समन्तात् प्रच्छयेदपि ।

संस्नेह्यं पत्रभङ्गैश्च स्वेदयित्वा यथासुखम् ॥ ५० ॥

आपाकाद्विधिनोक्तेन पञ्चभेद्यानुपाचरेत् । सर्वेष्वेतेषु विहितं विधानं स्नेहपूर्वकम् । [ अ ० १५. सम्पक्वे प्रयतो भूत्वा कुर्वीत व्रणरोपणम् ॥। ११ ॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे भेद्यरोगप्रतिषेधो नाम चतुर्दशोऽध्यायः ॥ १४ ॥

पञ्चदशोऽध्यायः ।

अर्थातश्छेद्यरोगप्रतिषेधं व्याख्यास्यामः ॥ १ ॥।

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

सम्यगिति । भिन्ने व्रीहिमुखादिभिरित्यर्थः । वाग्भटे — " कृमिग्रन्थि करीषेण स्विन्नं भित्त्वा विलिख्य च । त्रिफला क्षौद्र कासीससैन्धवैः प्रतिसारयेत् ॥ ” इति । १ रस-क्रिया = फाणिताकृतिः, सा च त्रिफलाक्काथे तुत्थकासीससैन्धवावापेन निष्पाद्या । २ श्लेष्मोपनाद्दचिकित्सितं निर्दिशति - भित्त्वेति । भित्त्वा = त्रीहिसुखेन दि-दार्य, पिप्पलीमधुसैन्धवैः प्रतिसारणं कार्यम् । तच्च लिखिते प्रच्छिते च सति बोद्धयम् । तथा च वाग्भट: - “ उपनाहं भिषक् स्त्रिन्नं भिन्नं त्रीहिमुखेन च । लेखयेन्मण्डलाग्रेण ततश्च प्रतिसारयेत् ॥ ” इति । ३ पञ्चसु भेद्यरोगेषु सामान्यविविमभिधत्ते - संस्ने -ह्येति । पत्रभङ्गैः - निम्बादिपत्रचूर्णैः । ४ उक्तेन विधिना = अपतर्पणादिसामान्य-शोथप्रतीकारेण, पञ्चभेद्यान = बिसग्रन्थिलगणाञ्जननामिकाक्रिमिग्रन्थिश्लेष्मोपनाह संज्ञ कान् । ५ स्नेहस्वेदरक्तास्रावविरेकादिविधानमित्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतशालाक्यतन्त्रे सुधाऽख्यटिपन्यां चतुर्दशोऽध्यायः । पञ्चदशोऽध्यायः । ६ पारिशेष्याच्छेद्यानां रोगाणां प्रतिषेधमधिकरोति - अथात इति । “ छेद्या-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1105

सुश्रुत संहिता चौखम्बा, पृष्ठ 1105 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १५ ] उत्तरतन्त्रम् । Digitized by Arya Samaj Foundation Chennai and eGangotri ९ ४७.

. स्निग्धं भुक्तवतो ह्यन्नमुपविष्टस्य यत्नतः ।

संरोषयेत्तु नयनं भिषक् चूर्णैस्तु लोवणैः ॥ ३ ॥

ततः संरोषितं तूर्णं सुस्विन्नं परिघट्टितम् ।

अमैं यत्र वलोजातं तत्रैतल्लगयेद्भिषक् ॥ ४ ॥

अपाङ्गं प्रेक्षमाणस्य बडिशेन समाहितः ।

मुण्ड्याऽऽदाय मेधावी सूचीसूत्रेण वा पुनः ॥ ५॥ ७

न चोत्थापयता क्षिप्रं कार्यमभ्युन्नतं तु तँत् 1 शस्त्राबाधभयाच्चास्य वर्त्मनी ग्राहयेद् दृढम् ॥। ६ ॥

ततः प्रशिथिलीभूतं त्रिभिरेव विलम्बितम् ।

उल्लिखन्मण्डलाग्रेण तीक्ष्णेन परिशोधयेत् ॥ ७ ॥

विमुक्तं सर्वतश्चापि कृष्णाच्छुक्लाच्च मण्डलात् ।

नीत्वा कनीनकोपान्तं छिन्द्यान्नातिकनीनकम् ॥ ८ ॥

" चतुर्भागस्थिते मांसे नाक्षि व्यापत्तिमृच्छति । स्तेषु दशैकश्च " इति प्रागुक्त्या एकादश छेद्यरोगाः । १ श्रर्मणां छेदने प्राक्कर्म निर्दिशति — स्निग्धमिति । वाग्भटे तु - " उत्तानस्येतरत् स्विन्नं ससिन्धुत्थेन चाजितम् । रसेन बीजपूरस्य निमील्याक्षि विमर्दयेत् ॥ ” इति । २ लावणैः संरो-षयेदिति सम्बन्धः । संरोषयेत् = अमलीकरणार्थं सङ्क्षोभयेदित्यर्थः । ३ श्रच्छेदन-विधिमभिदधाति — तत इति । संरोषितं = अर्मशिथिलीकरणार्थं सङ्क्षोभितम्, परि-षट्टितं = सन्दंशाग्रेण इतस्ततः चालितम् । ४ वलीजातं = शिथिलं चर्मव्यक्तम्, ' जातं व्यक्तौ जन्मसु ' इति मेदिनी । लगयेत् = बढिशेन संयोजयेत् । ५ यदि बढिशं नासाद्यते, तदा पक्षान्तरमाह - मुचुण्डयेति । मुचुण्डया = सूक्ष्म • कण्टकमुखेन सन्दंशयन्त्रेणेत्यर्थः । मुचुण्डीलक्षणं वाग्भटे - " मुचुण्डी सूक्ष्मदन्तर्जुम रुचकभूषणा । गम्भीरव्रणमांसानामर्मणः शेषितस्य च " इत्युक्तम् । ६ तदर्म त्रुटनभिया क्षिप्रं झटिति श्रभ्युन्नतं न कार्यमित्यर्थः । ७ यन्त्रेण ग्राइयेदित्यर्थः । ८ प्रशिथिलीभूतं विमुक्तनयनगोलका श्लेषम्, त्रिभिर्वडिशादिभिरेवविलम्बितं धृतम् । ९ परिशो धयेत् = उन्मूलयेत् । १० व्यापत्तिभयात् कनीनिकामनतिक्रान्तं यथा स्यात्तथा छि. न्द्यात्, मण्डलाग्रेणेत्यर्थः । ११ कियान् मांसः संरक्ष्यो येन कनीनकं संरक्षितं स्या-दिति दर्शयति- चतुरिति । नयनगोलकस्योपरितने मांसे चतुर्भागेन स्थिते इत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1106

सुश्रुत संहिता चौखम्बा, पृष्ठ 1106 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ४८ सुश्रुतसंहितायां— Digitized by Arya Samaj Foundation Chennai and eGangotri कनीनकवधास्रं नाडी वाऽप्युपजायते ॥ ९ ॥

हीनच्छेदात् पुनर्वृद्धिं शीघ्रमेवाधिगच्छति । [ अ ० १५ अर्म यज्जालवह्यापि तदप्युन्माये लम्बितम् ॥ १० ॥

छिन्द्याद्वक्रेण शस्त्रेण वर्त्मशुक्लान्तमाश्रितम् ।

प्रतिसारणमक्ष्णोस्तु ततः कार्यमनन्तरम् ॥ ११ ॥।

यावनालैम्य चूर्णेन त्रिकटोलवणस्य च! स्वेदयित्वा ततः पश्चाद् बध्नीयात् कुशलो भिषक् ॥ १२ ॥

दोषतुंबलकालज्ञः स्नेहं दत्त्वा यथाहितम् ।

व्रणवत् संविधानन्तु तस्य कुर्यादतः परम् ॥ १३ ॥

त्र्यहान्मुक्त्वा करस्वेदं दत्त्वा शोधनमाचरेत् ।

करञ्जबीजामलकमधुकैः साधितं पयः ॥ १४ ॥

हितमाश्च चोतनं शूले द्विरंहः क्षौद्रसंयुतम् ।

मधुकोत्पलकिञ्जल्कदूर्वा कल्कैश्च मूर्द्धनि ॥ १५ ॥

प्रलेपः सघृतः शीतः क्षीरपिष्टः प्रशस्यते ।

लेख्याञ्जनैरपहरेदर्मशेषं भवेद्यदि ॥ १६ ॥

अर्म ' ' चाल्पं दधिनिभं नीलं रक्तमथापि वा ।

धूसरं तनु यच्चापि शुक्रवत् तदुपाचरेत् ॥ १७ ॥

१ अस्रं = शोणितम्, नाडो = नाडीव्रणः । २ अवस्थाविशेष प्रतिपादयति ---अर्मेति । यदमं जालवद् मत्स्यबन्धनजालवदित्यर्थः । व्यापि व्यापनस्वभावं तदपि उन्मार्ग्य सैन्धवचूर्णेनावघृष्य वक्रेण शस्त्रेण बढिशेन लम्बितं धृतं मण्डलाग्रेण छिन्द्यादित्यर्थः । ३ छेदनानन्तरं प्रतिसारणविधिं वक्ति - प्रतीति । ४ यावना-लस्य = यवक्षारस्य । ५ संविधानं = शोधनरोपणादिकम् । ६ श्रावस्थिकशूल चिकित्सा मुपदिशति - करजेति । ७ द्विरहः सायं प्रातर्वा -रद्वयं सूर्यप्रकाशे एव । ८ तस्मिन् शूले शिरोलेपं ब्रवीति - मधुकेति । मधुकः = यष्टिमधु, उत्पलं = नीलकमलम्, किञ्जल्कः = पद्मकेसरम् । १ लेख्याअनं रक्ताभि ष्यन्दप्रतिषेधोक्तं " लोहचूर्णानि सर्वाणि धातवो लवणानि च ' इति । १० शुक्रचिकित्सामर्मण्यप्यतिदिशति - अर्मेति । वाग्भटेऽपि - " अर्मोक्तं पञ्चधा तत्तु तनु धूमाविलं च यत् । रक्तं दधिनिभं यच्च शक्रत्रत्तस्य भेषजम् ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1107

सुश्रुत संहिता चौखम्बा, पृष्ठ 1107 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १५ ] Digitized by Arya Sa युएस qhennai and eGangotri

चेर्माभं बहुलं यत्तु स्नायुमांसघनावृतम् ।

छेद्यमेव तदर्भ स्यात् कृष्णमण्डलगञ्च यत् ॥ १८ ॥

विशुद्धे वर्णमक्लिष्टं क्रियास्वति गतक्लमम् ।

छिन्नेऽर्मणि भवेत् सम्यग्यथास्वमनुपद्रवम् ॥ १ ९- ॥

सिरौजाले सिरा यास्तु कठिनास्ताश्च बुद्धिमान् ।

उल्लिखेन्मण्डलाग्रेण बडिशेनावलम्बिता: ॥ २० ॥।

सिरासु पिङका जाता या न सिध्यन्ति भेषजैः ॥

अव मण्डलाग्रेण तासां छेदनमिष्यते ॥ २१ ॥

रोगयोश्चैर्तयोः कार्यमर्मोक्तं प्रतिसारणम् ।

विधिश्वापि यथादोषं लेखनद्र्व्यसम्भृतः ॥ २२ ॥

संन्धौ संवेद्य शस्त्रेण पर्वणीकां विचक्षणः ।

उत्तरे च त्रिर्भागे च बडिशेनावलम्बिताम् ॥ २३ ॥

९ ४ ९ । १ छेदनार्हं मर्म निर्दिशति - चर्माभमिति I । चर्माभं = चर्मखण्डसदृशम्, बद्दलं = स्थू • लम्, स्नायुमांसाभ्यां घनं यथा स्यादेवमावृतं स्नायुमांसाभ्यां घनं यथा स्यादेवमा • वृतं स्नायुमांसघनावृतम् । २ सम्यक् छिन्नार्मलक्षणमाइ – विशुद्धेति । श्रक्लिष्टं = क्लेशरहितम्, क्रियासु = निमेषोन्मेषादिषु । १३ सिराजालच्छेदनविधि दर्शयति-सिरेति । वुद्धिमान् वैद्यः सिराजाले याः कठिनाः सिरास्ता बढिशयन्त्रेण अवल-म्बिता धृता मण्डलाग्रेण उद् ऊर्ध्वं लिखेच्छिन्द्यादित्यर्थः । छेदनमिदं स्निग्धस्विन्न-शिथिलीकृत नेत्रस्यैव बोद्धयम् । ४ सिराजपिडकाच्छेदनविधिमभिदधाति - सिरास्त्विति । " सिराजाले सिरा यान्तु कठिना लेखनौषधैः । न सिद्ध्यन्त्यर्मवत्तासां पिटिकानां च साधनम् ॥ ” इति । वाग्भटः । ५ श्रर्मवत् = " स्निग्धं भुक्तवतो ह्यन्नमुपविष्टस्य यत्नतः " इत्याद्यर्मोक • पूर्वकर्मवत्, मण्डलाग्रेण छेदनमिष्यते इत्यर्थः । ६ एतयोः = सिराजालसिरापिड -कयोः, अर्मोक्तं == ‘ यावनालस्य चूर्णेन त्रिकटोलवणस्य च ' इत्यादिकम् । ७ लेख-नद्रव्यसम्भृतः = लेखनद्रव्य निष्पादितः । “ रक्तस्यन्दवदुरपातहर्षं जालार्जुने क्रिया ” इति वाग्भटः । ८ पर्वणिकाच्छेदनविधिमाख्याति – सन्धाविति । सन्धौ = कृष्णशुक्लसन्धौ, संस्वेद्य == सम्यक् स्वेदनं कृत्वा । ९ उत्तरे त्रिभागे = उपरितनभागत्रितये, बाह्यस-न्धित्रिभागे इत्यर्थः । तथा च वाग्भट: - " पर्वणी बडिशेनात्ता बाह्यसन्धित्रिभागतः । वृद्धिपत्रेण वर्ध्याऽर्थे स्यादश्रुगतिरन्यथा । चिकित्सा चार्मवत् क्षौद्रसैन्धवप्रतिसारि • CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1108

सुश्रुत संहिता चौखम्बा, पृष्ठ 1108 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ५० Digitized by Arya Sa स्युश्रुतसंहितायां maiand eGangotri [ अ ० १५

छिन्द्यात् ततोऽर्द्धम स्यादश्रुनाडी ह्यतोऽन्यथा ।

प्रतिसारणमत्रापि सैन्धवक्षौद्रमिष्यते ॥ २४ ॥

लेखनीयानिर्चाणनि व्याधिशेषस्य भेषजम् ।

शैङ्खं समुद्रफेनञ्च मण्डूकीञ्च समुद्रजाम् ॥ २५ ॥

स्फटिकं कुरुविन्दञ्च प्रवालाश्मन्तकन्तथा ।

वैदूर्य्यं ' पुलकं मुक्तामयस्ताम्ररजांसि च ॥ २६ ॥

समभागानि सम्पिष्य सार्द्धं स्रोतोऽञ्जनेन तु ।

चूर्णाञ्जनं कारथित्वा भाजने मेषैशृङ्गजे ॥ २७ ॥

संस्थाप्योभर्यंतः कालमञ्जयेत् सततं बुधः ।

अर्माणि पिडकां हन्यात् सिराजालानि तेन वै ॥ २८ ॥

अर्शस्तथा यच्च नाम्ना शुष्कार्शोऽर्बुदमेव च । ता । " इति । १ ततः भागत्रितयस्यार्धं भागमित्येतत् । अग्रे उपरिष्टाच्छिन्द्यात् । अत्राग्रे इति विशेषणं भागत्रितयस्याधः सार्द्धं भागं परिहर्तुम् । तस्मिन् हि छिन्ने सन्धेस्तस्य विश्लेषादवकाशं लब्ध्वान्तवर्ती सुकुमारो जलकोष्ठपटः शुक्लकृष्णमण्डल-प्रान्ततः प्रपीडितो मनाक् छिद्यते रात्रिन्दिवं जलमास्रावयितुम्, तदिदमुच्यते- -स्था--दश्रुनाडीति । श्रश्रु चक्षुर्जलं तदर्था शुक्लकृष्णगता नाडी अश्रुनाडीति सुश्रुतार्थ -सन्दीपनम् । २ अर्मणि तान्येव लेखनीयचूर्णानि निर्दिशति - शङ्खमिति । समुद्रजां मण्डू-कीं = शुक्तिमित्यर्थः । ३ कुरुविन्दं = पद्मरागमणिम्, श्रइमन्तकं 8123 मणिविशेषम् । ४ वैदूर्यै = विडालनेत्रसदृशम् । अस्य लक्षणमुक्तम्-- ' एकं वेणुपलाशकोमलरुचा - मायूरकण्ठत्विषा मार्जारक्षणपिङ्गलच्छविजुषा ज्ञेय त्रिधा छायया । यद् गात्रं गुरुतां दधावि नितरां स्निग्धं तु दोषोज्झितं वैदूर्य विशदं वदन्ति सुधियः स्वच्छञ्च तच्छो-भनम् ॥ ' ' इति । प्रसङ्गात् कुलक्षणं बोध्यम्- ' विच्छायं मृच्छिलागर्भं लघु रूक्षं च सक्षतम् । सत्रासं परुषं कृष्णं वैदूर्य दूरतां नयेत् ॥ ' इति । तत्परीक्षा तु — ' घृष्टं यदात्मना स्वच्छं स्त्रच्छायां निकषाश्मनि । स्फुटं प्रदर्शयेदेतद्वैदूर्यं जात्यमुच्यते ॥ ’ इति । विशेषो गारुडे युक्तिकल्पतरौ द्रष्टव्यः । पुलकं स्फटिकम् । वैदूर्यं पुलकमित्यत्र ' वैदूर्योपलकम् ' इति परेषां सम्मतपाठः । ५ मेषशृङ्ग इङ्गुदीभेदस्तन्निर्मिते भाजने पात्रे इत्यर्थः । मेषविषाणरचिते भाजने इत्यन्ये । ६ उभयतः कालं = दिनस्य कालद्वयमित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1109

सुश्रुत संहिता चौखम्बा, पृष्ठ 1109 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १६ ] Digitized by Arya Samaj Foundation Chennai and eGangotri उत्तरतन्त्रम् । ९ ५१ अशवले कर्म अभ्यन्तरं वर्त्मशया विधानं तेषु वक्ष्यते ॥ २ ९ ॥

वर्मोपवेद्य निर्भुज्य सूच्योत्क्षिप्य प्रयत्नतः ।

मण्डलाग्रेण तीक्ष्णेन मूले भिन्द्याद्भिषग्वरः ॥ ३० ॥

ततः सैन्धवकासीसकृष्णाभिः प्रतिसारयेत् ।

स्थिते च रुधिरे वर्त्म दहेत् सम्यक् शलाकया ॥ ३१ ॥

क्षारेणावलिखेच्चापि व्याधिशेषो भवेद्यदि ।

तीक्ष्णैरुभर्यंतो भागैस्ततो दोषमधिक्षिपेत् ॥ ३२ ॥

वितरेच्च यथादोषमभिष्यन्दक्रियाविधिम् ।

शस्त्रकर्मण्युपरते मासञ्च स्यात् सुयन्त्रितः ॥ ३३ ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे छेद्यरोगप्रतिषेधो नाम पञ्चदशोऽध्यायः ॥ १५ ॥

पोडशोऽध्यायः । -अर्थातः पक्ष्मकोपप्रतिषेधं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

याप्यस्तु यो वत्मभवा विकारः पक्ष्मप्रकापाऽभिहितः पुरस्तात् । १ वमर्शःप्रभृतीनां छेदनविधिमुपदिशति - अभ्यन्तरमिति । वत्र्त्मशयाः = वर्त्माभ्यन्तराश्रयाः । २ विधानं दर्शयति - वत्र्मेति । " दहेदशान्तौ निर्भुज्य वर्त्मदोषाश्रयां वलीम् । सन्दर्शनाधिकं पदम हला तस्याश्रयं दहेत् ॥ " इत्यष्टान--हृदयम् । निर्भुज्य = उत्तानीकृत्य । ३ भिन्द्यात् = छिन्द्यादित्यर्थः । ४ उभयतो-भागैः = वमनविरेचनैरित्यर्थः । ५ सुयन्त्रितः = पथ्याहारविहार युक्त इत्यर्थः 1 इति सुश्रुतसंहिताया, उत्तरतन्त्रान्तर्गतशालाक्यतन्त्रे सुधाऽऽख्यटिप्पन्यां पञ्चदशोऽध्यायः । षोडशोऽध्यायः । ६ छेधरोगप्रतिषेधानन्तरं परमकोपप्रतिषेधमधिकरोति — अथेति । पचम वर्त्म-- गतलोममाला तत्कोपस्य प्रतिषेधस्तम् । पदमकोपस्य छेद्यत्वेन छेधरोगप्रतिषेधे एव प्रतिपाद्यतया पृथगध्यायारम्भोऽग्निक्षारकृत्यत्वेन याप्यत्वेन च बोद्धयः । ७ पदमकोपे शस्त्रकर्म विधानमभिदधाति - याप्य इति । ८ पुरस्तात् - - वर्त्मगतरोगविज्ञानोये । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1110

सुश्रुत संहिता चौखम्बा, पृष्ठ 1110 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ५२ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० १६ तत्रोपविष्टस्य नरस्य चर्म वर्मोपरिष्टादनुतिर्यगेव ॥ ३ ॥

भ्रुवोरधस्तात् परिमुच्य भागौ पक्ष्माश्रितं चैकमतोऽवकृन्तेत् ।

कनीनकाऽपाङ्गसमं समन्ताद् यवाकृति स्निग्धतनोर्नरस्य ॥ ४ ॥

उत्कृत्य शस्त्रेण यवप्रमाणं बालेन सीव्येद्भिषगप्रमत्तः ।

दत्त्वा च सर्पिर्मधुनाऽवशेषं कुर्य्याद्विधानं विहितं व्रणे यत् ॥ ५ ॥

ललाटदेशे च निबद्धपट्टे प्राक्स्यूतमत्राप्यपरञ्च बद्ध्वा ।

स्थैर्य्यं गँते चाप्यथ शस्त्रमार्गे बालान् विमुचेत् I कुशलोऽभिवीक्ष्य । ] ॥

एवं न चेच्छाम्यति तस्य वर्त्म निर्भुज्य दोषोपहतां बलिञ्च ।

ततोऽग्निना वा प्रतिसारयेत्तां क्षारेण वा सम्यगवेक्ष्य धीरः ॥ ७ ॥

छित्त्वा समं वाऽप्युपपक्ष्ममालां सम्यग् गृहीत्वा बडिशैस्त्रिभिस्तु ।

पध्याफलेन प्रतिसारयेत्तु घृष्टेन वा तौवरकेण सम्यक् ॥ ८ ॥

= पचमप्रकोपे । २ एकं भागमित्यर्थः । ३ बालेन = अश्वपुच्छलोग्ना । १ तत्र ४ स्थैर्ये गते = कठिनीभूते, संरूढे इति यावत् । ५ विमुन्चेत् = अपकर्षेत् । वाग्भटे – “ पदमरोधे प्रवृद्धेषु शुद्धदेहस्य रोमसु । उत्सृज्य द्वौ भ्रुवोऽवस्ताद् भागौ भागं च पक्ष्मतः । यवमात्रं यवाकारं तिर्यक् छिदवा-ऽऽर्द्रवाससा ॥ अपनेयमसूक् तस्मिन्नल्पीभवति शोणिते । सीव्येत् कुटिलया सूच्या मुद्गमात्रान्तरैः पदैः ॥ बध्वा ललाटे पट्टे च तत्र सीवनसूत्रकम् । नातिगाढश्लथ सूच्या निक्षिपेदथ योजयेत् ॥ मधुसर्पिः कवलिकां न चास्मिन् बन्धमाचरेत् । न्यग्रो-घादिकषायैश्च सक्षीरैः सेचयेद्रजि ॥ पञ्चमे दिवसे सूत्रमपनीयावचूर्णयेत् । गैरिकेण व्रणं युब्ज्यात्तीक्ष्णं नस्याञ्जनादि च ॥ ” इति विशेषोऽपि । ६ पदमकोपे शस्त्रकर्मणाऽशाम्यति अग्निचार विधिमभिधत्ते - एवमिति । ७ प्रतिसारयेद् = घर्षयेत्, तां = वलिम्, अवेक्ष्य = विमृश्य, नाधिकं नापि च होनमिति भावः । ८ भेषजकर्मोपदिशति - छित्त्वेति । छित्वा = द्विधाकृत्य, उत्पाटयेति यावत् । उपपक्ष्ममालां = पदमकोपम्, या देशभेदेन ' परिवाल ' इत्युधुष्यते । एतल्ल-क्षणं वर्त्मवातरोगविज्ञानीये – “ दोषाः पदमाशयगतास्तीक्ष्णाग्राणि खराणि च । निर्व र्तयन्ति पक्ष्माणि तैर्घुष्टं चाक्षि दूयते ॥ ” इति । सुश्रुतार्थसन्दीपनकारस्तु — ' उपपदममालम् ' इति पाठं मत्वा ' पक्ष्मश्रेण्याः समीप मुपपदममालम् । मालाश्रेणीति पर्यायौ ' इति व्याख्याति । ९ घृष्टेन अम्बुनीति शेषः । श्रत्र पिष्टेनेति पाठान्तरम् । तौवरकेण = तुवरकफलेनेत्यर्थः । श्रत्र मधुमेहचिकित्सि-CC - 0. Gurukul Kangri Collection, Haridwar