सुश्रुत संहिता चौखम्बा — पृष्ठ 1121–1130

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1121–1130

पृष्ठ 1121

सुश्रुत संहिता चौखम्बा, पृष्ठ 1121 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

12 अ ० १७ ] Digitized by Arya न त Hidn Chennai and eGangotri एवं त्वशक्ये निर्हर्तुं दोषे प्रत्यागतेऽपि वा ॥ ६५ ॥

स्नेहाद्यैरुपपन्नस्य व्यधो भूयो विधीयते ।

ततो दृष्टेषु रूपेषु शलाका माहरेच्छनैः । ( ६६ ॥

घृतेनाभ्यज्य नयनं वस्त्रपट्टेन वेष्टयेत् 1 ) ९ ६३ post openalric ततो गृहे निराबाधे शतीतोत्तान एव च ॥ ६७ ॥ कुछ

उद्वारकासक्षवथुष्ठीवनोत्कम्पनानि च ।

तत्कोलं नाचरेदूध्व यन्त्रणा स्नेहपीतवत् ॥ ६८ ॥

त्र्यहात् त्र्यहाच्च धावेतं कषायैरनिलापहः ।

वायोर्भयात् त्र्यहादूध्व स्वेदयेदक्षि पूर्ववत् ॥ ६ ९ ॥

दशाहमेवं संयम्य हितं दृष्टिप्रसादनम् ।

पश्चात् कर्म च सेवेत लध्यन्नञ्चापि मात्रया ॥ ७० ॥

सिराव्यधविधौ पूर्वं नरा ये च विवर्जिताः । operation complica । न तेषां नीलिकां विध्येदन्यत्राभिहिताद्भिषक् ॥ ७१ ॥ leng

पूते शोणितेनाक्षि सिरावेधाद्विसर्पता ।

तत्र स्त्रीम्तन्ययष्ट्याह्नपक्वं सेके हितं घृतम् ॥ ७२ ॥

अपाङ्गासन्नविद्धे तु शोफशूलाश्रुरक्तताः ।

तत्रोपनाह " भ्रूमध्ये कुय्र्याच्चोष्णाज्यसेचनम् ॥ ७३ ॥

व्यधेनासन्नकृष्णेन रागः कृष्णं च पीडयते ।

तत्राधः शोर्धनं सेकः सर्पिषा रक्तमोक्षणम ॥ ७१ ॥

१ निराबाधे = धूलिधूमवातातपादिरहिते । २ तत्कालं = नेत्रे यावच्छलाकाऽवस्थिति • स्तावत्कालपर्यन्तम्, स्नेहपीतवत् = स्नेहपानवत्, मन्त्रणा = नियमः, ३ धावेत = प्रक्षालयेदित्यर्थः । ४ पूर्ववत् = बाह्यतो मृदु स्वेदयेत् । ५ एवम् = उत्तानशयना-दिना, दृष्टिप्रसादनं पश्चात्कर्म नस्यतर्पण शिरोबस्त्यादिकमिति सम्बन्धः । ६ इलैष्मिकेऽपि लिङ्गनाशे शस्त्रकर्मानर्हजनान् दर्शयति — सिरेति । सिराव्यध · विधौ पूर्वं ये च नरा बालस्थबिरादयो विवर्जितास्तेषां नीलिकां लिङ्गनाशम्, अभिहि • तादुक्ताद् दैवकृतच्छिद्रादन्यत्र भिषग् वैद्यो न विध्येदित्यर्थः । ७ दैवकृतच्छिद्रादन्यत्र नीलिकाव्यधे दोष प्रदर्शनपुरस्सरं चिकित्सितमभिधत्ते - पूयंत इति । विसर्पता शो. खितेनाक्षि पूर्यत इति सम्बन्धः । ८ उपनाहं = " गैरिकं सारिवा दूर्वा " इति वक्ष्य-माणप्रलेपम् । ९ श्रधःशोधनं = विरेचनम् । रक्तमोक्षणं त्वत्र जलौकोभिरेव CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1122

सुश्रुत संहिता चौखम्बा, पृष्ठ 1122 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां-९ ६४ Digitized by Arya Samaj Foundation Chennai and eGangotri Coutching eration du रुपये s ताला कितनी महानते ही १२ लाका CC - 0. Gurukul Kangri Collection, Haridwar [ अ ० १७ 1 ३ शलाकामनु = स्त्रीस्तन्ययष्टयाह्ने -तरुण: = दृष्टिना-७ तेनैव = काकोल्या-अथाप्युपरि विद्धे तु कैष्टा रुक् सम्प्रवर्त्तते । तत्र कोष्णेन हविषा परिषेकः प्रशस्यते ॥ ७५ ॥

शूलाश्रु रागास्त्वत्यर्थ मधोवेधेन पिच्छिलः ।

शैलाकामनुचास्रावस्तत्र पूर्वचिकित्सितम् ॥ ७६ ॥

रागाश्रवेदनास्तम्भहर्षाश्चातिर्विघट्टि ।

स्नेहस्वेदौ हितौ तत्र हितं चाप्यनुवासनम् ॥ ७७ ॥

दोषस्त्वधोऽपकृष्टोऽपि तरुणः पुनरुर्ध्वगः ।

कुर्य्याच्छुक्लारुणं नेत्रं तीव्ररुङ्नष्टदर्शनम् ॥ ७८ ॥

मधुरैस्तत्र सिद्धेन घृतेनाक्ष्णः प्रसेचनम् ।

शिरोबस्तिश्च तेनैवं दद्यान्मांसैश्च भोजनम् ॥ ७ ९ ॥

दोषस्तु सञ्जातबलो घनः सम्पूर्णमण्डलः ।

प्राप्य नश्येच्छलाकाम्रं तन्वभ्रमिर्व मारुतम् ॥ ८० ॥

" मूर्द्धाभिघातव्यायामव्यवायवमिमूर्च्छनैः ।

दोष: प्रत्येति कोपाच्च विद्धोऽतितरुणश्च II यः ॥। ८१ ॥

शलाका " कर्कशा शूलं, खरा दोषपरिप्लुतिम् ।

व्रणं विशालं स्थूलाग्रा, तीक्ष्णा हिंस्यादनेकधा ॥ ८२ ॥

जलास्रावन्तु " विषमा, क्रियासङ्गमथास्थिरा । बोध्यम् । १ कष्टा = अतिकष्टकरी । २ हविषा = घृतेनेत्यर्थः । शलाकाया अनन्तरम् । पूर्वचिकित्सितम् = अधः शोधनादिकं, त्यादिकं वा । ४ अतिविघट्टिते = प्रतिचालिते इत्यर्थः । ५ शमप्राप्तइत्यर्थः । ६ मधुरैः = काकोल्यादिप्रभृतिभिः । दिसिद्धघृतेनैवेत्यर्थः । ८ शस्त्रकर्मालिङ्गनाशं निर्दिशति - दोषस्त्विति । ९ यथा मारुतं प्राप्य तन्वभ्रं स्वल्पमेघः । १० निर्लिखितस्यापि दोषस्य पुनरावृत्तौ कारणानि दर्शयति-मूर्धेति । ११ तरुणः = लिङ्गनाशमप्राप्तः । १२ दुष्टशलाकाजनितव्यापदमाख्याति - शलाकेति । कर्कशा - कठोरा, शूलं करोतीति परेण सम्बन्धः । एवं सर्वत्र । दोषस्य परितः प्लुतिमागमनं दोषपरिप्लुतिम् । १३ अनैकधा अनेकप्रकारेण हिंस्यात् क्षतं करोतीत्यर्थः । १४ विषमा = तनुस्थूला,

पृष्ठ 1123

सुश्रुत संहिता चौखम्बा, पृष्ठ 1123 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १७ ] Digitized by Aryaउत्तरतन्त्रम् Foundation Chennai and eGangotri ९ ६५ 107 उत्तमालाकाकेलक्ष करोति, वजितो दोषैस्तस्मादेभिर्हिता भवेत् ॥ ८३ ॥

अष्टाङ्गुलायता मध्ये सूत्रेण परिवेष्टिता ।

अङ्गुष्ठपर्वसमिता वक्त्रयोर्मुकुलाकृतिः ॥ ८४ ॥

ताम्रायसी शातकुम्भी शलाका स्यादनन्दिता । बेधनठीकन होने " रौगः शोफोऽर्बुदञ्चोषो बुद्बुदं शूकराक्षिता ॥ ८५ ॥ उत्पक उपद्रव

अधिमन्थादयश्चान्ये रोगाः स्युर्व्यधदोषजाः ।

अहिताचारतो वाऽपि यथास्वं तानुपाचरेत् ॥ ८६ ॥

रुजायामचिरागे वा योगान् भूयो निबोध मे ।

गैरिकं सारिवा दूर्वा यवपिष्टं घृतं पयः ॥ ८७ ॥

सुखालेपः प्रयोज्योऽयं वेदनारागशान्तये ।

मृदुष्टैस्तिलैर्वाऽपि सिद्धार्थकसंमायुतैः ॥ ८८ ॥

मातुलुङ्गरसोपेतैः सुखाले पस्तदर्थकृत् ।

पयस्यासारिवापत्रमञ्जिष्ठामधुकैरपि ॥ ८ ९ ॥

अजाक्षीरान्वितैर्लेपः सुखोष्णः पर्थ्यं उच्यते ।

" दारुपद्मकशुण्ठीभिरेवमेव कृतोऽपि वा ॥ ९ ० ॥

द्राक्षामधुककुष्ठैर्वा " तद्वत् सैन्धवसंयुतैः ।

रोध सैन्धवमृ द्वीका मधुकैर्वाऽप्यजापयः ॥ ९ १ ॥

शृतं सेके प्रयोक्तव्यं रुजारागनिवारणम् । मधुकोत्पलकुष्ठैर्वा द्राक्षालाक्षासितायुतैः । क्रियासङ्गं = दृष्टयुपरोधम् । १ शस्त्रकर्मयोग्यशलाकामभिदधाति -वर्जितेति । एभिर्दोषैः कर्कशादिभिः । २ शातकुम्भी = सुवर्णमयी, शतकुम्भे पर्वतविशेषे भवं शातकुम्भं, ततो ङीप् । ' यं गर्भं सुषुवे गङ्गा पावकाद्दीप्ततेजसम् । तदुल्वं पर्वते न्यस्तं हिरण्यं समपद्यत । ' इति वायुपुराणम् । ३ दुष्टव्यधाद्दाराचारजा व्यापदो दर्शयति- राग इति । बुदबुदं = बुदबुदाकारो मांस निर्गमः, शुकराक्षिता = अधोदृष्टित्वम् । ४ यथास्वं यथादोषम् । ५ कर्कश -शलाकाजनितशूले दुष्टव्यधजे च रोगे चिकित्सां निर्दिशति - रुजायामिति । मे मत्सकाशात्, निबोध जानीहि । ६ सारिवा = उत्पलसारिवा । ७ सिद्धार्थकसमा -युतैः = सर्षपसंयुक्तैः । ८ पयस्या == श्रर्कपुष्पी, पत्रं = ' तेजपात ' इति ख्यातम् । ९ पथ्यः – हितकर इत्यथैः । १० दारु = दारुहरिदा, नामैकदेशे नाममात्रग्रहणात् । पद्मकं = पद्मकाष्ठम्, ‘ पद्माख ' इति ख्यातम् । ११ तद्वत् = लेपः पथ्य इत्यर्थः । १२ मृद्वी-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1124

सुश्रुत संहिता चौखम्बा, पृष्ठ 1124 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां ९ ६६ -Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० १७ ससैन्धवैः शृतं क्षीरं रुजारागनिबर्हणम् ॥ ९ २ ॥

शतावरी पृथक्पर्णीमुस्ताऽऽमलकपद्मकैः ।

साजक्षीरैः शृतं सर्पिर्दाहशूलनिबर्हणम् ॥ ९ ३ ॥

वातघ्नसिद्धे पयसि सिद्धं सर्पिश्चतुर्गुणे ।

काकोल्यादिप्रतीवापं तद् युञ्ज्यात् सर्वकैर्मसु ॥ ९ ४ ॥

शाम्यत्येवं न चेच्छूलं स्निग्धस्विन्नस्य मोक्षयेत् ।

ततः सिरौं दहेद्वाऽपि मतिमान् कीर्त्तितं यथा ॥ ९ ५ ॥

दृष्टेरतः प्रसादार्थमञ्जने शृणु मे शुभे ।

मेषशृङ्गस्य पुष्पाणि शिरीषधवयोरपि ॥ ९ ६ ॥

सुमनायाश्च पुष्पाणि मुक्ता वैदूर्य्यमेव च ।

अजाक्षीरेण सम्पिष्य ताम्र सप्ताहमावपेत् ॥ ९ ७ ॥

प्रविधाय च तद्वर्त्तोर्योजयेच्चाञ्जने भिषक् ।

स्रोतोजं ' विद्रुमं फेनं सागरस्य मनःशिलाम् ॥ ९ ८ ॥

हाष्ट प्रसादन मरिचानि च तद्वर्त्ताः कारयेच्चापि पूर्ववत् ।

दृष्टिस्थैर्यार्थमेतत्त विदध्यादञ्जने हितम् ॥ ९९ ॥

योग । भूयो वक्ष्यामि मुख्यानि विस्तरेणाजनानि च ।

कल्पे नानाप्रकाराणि तान्यपीह प्रयोजयेत् ॥ १०० ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे दृष्टिगतरोग-विज्ञानीयो नाम सप्तदशोऽध्यायः ॥ १७ ॥

का = द्राक्षेत्यर्थः । १ वातघ्नेर्भद्रदार्वादिभिः सिद्धे वातघ्नसिद्धे । २ नस्यालेपनादिसर्वकर्मस्वित्यर्थः I ३ औपनासिकामपाङ्गयां लालायां वा सिरां दहेदित्यर्थः । ४ अवशिष्टदोष दूषिताया दृष्टेः प्रसादनार्थमअनद्वयं निर्दिशति-मेषशृङ्गस्येति । मेषशृङ्गस्य = पुत्रजीवानुकारिवृक्षस्य । इत आरभ्य प्रथममञ्जन मु-च्यते । ५ सुमनाया: = मालत्याः । ६ आवपेत् = निदध्यात् । ७ स्रोतोर्ज = सौवीराञ्जनम्, यमुनास्रोतसि जातः कुलत्थाकार प्रस्तर विशेषः सौवीराञ्जनमुच्यते । इत प्रारभ्य द्वितीयमअनं बोध्यम् । सागरस्य फेनं = समुद्रफे-नम् । ८ नानाप्रकाराणि अनेकविधानि तान्यञ्जनानीति सम्बन्धः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतशालाक्यतन्त्रे सुधाऽऽख्यटिप्पन्यां सप्तदशोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1125

सुश्रुत संहिता चौखम्बा, पृष्ठ 1125 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १८ ] Digitized by Arya metion Chennai and eGangotri ९ ६७

अष्टादशोऽध्यायः ।

अथातः क्रियाकल्पं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

सर्वशास्त्रार्थतत्वज्ञस्तपोष्टिरुदारधीः । सम्पूर्ण वैश्वामित्रं शशासाथ शिष्यं काशिपतिर्मुनिः ॥ ३ ॥

तर्पणं पुटपाकश्च सेक आश्च्योतनाञ्जने ।

तत्र तत्रोपदिष्टानि तेषां व्यासं निबोध मे ॥ ४ ॥

संशुद्धदेह शिरसो जीर्णान्नस्य शुभे दिने ।

पूर्वा वाऽपराह्ने वा कार्य्यमक्ष्णोश्च तर्पणम् ॥ ५ ॥

वातातपरजोहीने वेश्मन्युत्तानशायिनः ।

आधारौ माषचूर्णेन क्लिन्नेन परिमण्डलौ ॥ ६ ॥

समौ दृढावसम्बाधौ कर्त्तव्यौ नेत्रकोशयोः ।

पूरयेद् घृतमण्डस्य विलीनस्य सुखोदके ॥ ७ ॥

अष्टादशोऽध्यायः । १ पूर्वाध्यायेषु नाममात्रेणाभिहितानि तर्पणादीनि विस्तरेण प्रतिपादयितुं क्रि-याकल्पनामाध्यायमधिकरोति - अथेति । क्रियाणां तर्पणपुटपाकसेकप्रभृतीनां कल्पनं करणं कल्पः क्रियाकल्पस्तम् । २ तपसा दृष्टिर्दर्शनं विशिष्टज्ञानोदयो यस्य स तपो-दृष्टिः, उदारा उत्कृष्टा धीः प्रज्ञा यस्य स उदारधीः । ३ वैश्त्रामित्रं = सुश्रुतम्, शशास = शिक्षितवान्, काशिपतिः = राजर्षिधन्वन्तरिः । ' ड्यापोः संज्ञाच्छन्द सोर्बहुलम् ’ इति ह्रस्वः । ४ तत्रतत्रोपदिष्टानि = वाताभिष्यन्दादौ सङ्क्षेपतोऽभिहितानि, व्यासं = विस्तरम् । ५ नेत्रे तर्पणं कथं कार्यमिति तद्विधि दर्शयति - संशुद्धेति । संशुद्धदेद्दशिरसः == सम्यक्शुद्धशरीरमस्तकस्य, सिरामोक्षण विरेकनिरूह शिरोविरेकैरित्यर्थः । ६ वेश्म. " नि = गृहे, ' गृहं गेहो दवसितं वेश्म सद्म निकेतनम् ' इत्यमरः । ७ नेत्र कोशयोः परित: क्लिन्नैन जलमर्दितेन माषचूर्णेन परिमण्डली वर्तुलौ समौ अनिम्नोन्नतौ दृढो छिद्ररहितौ असम्बाधौ आधारौ आलवाला कर्तव्यावित्यर्थः । ' आधारश्चाधिकरणेऽप्या-' लवालेऽम्बुधारणे ' इति मेदिनी । क्षेत्रादिसेकार्थं सेतुना बहुनालं जलं निरुध्य यत्र -स्थाप्यते स श्राधारो बद्धकन्दरादिः ' वांध - बन्ध ' इति ख्यातः ' टांका ' इति चेति भरतः । ८ घृतस्योपरितनो भागो घृतमण्ड इत्यभिधीयते । घृतमण्डस्येत्यत्र करणे षष्ठी, CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1126

सुश्रुत संहिता चौखम्बा, पृष्ठ 1126 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ६८ Digitized by Arya Samaj सुश्रुतसंहिताय inde Gangotri [ अ ० १८

आपक्ष्माप्रात्ततेः स्थाप्यं पञ्च तद्वाक्शतानि तु ।

स्वस्थे, कफे षट्, पित्तेऽष्टौ, दश वाते तदुत्तमम् ॥ ८ ॥

रोगस्थानविशेषेण केचित्कालं प्रचक्षते ।

यक्रमोपदिष्टेषु त्रीण्येकं पञ्च सप्त च ॥ ९ ॥

दश दृष्ट्यामथाष्टौ च वाक्शतानि विभावयेत् ।

ततश्चापाङ्गर्तैः स्नेहं स्रावयित्वाऽक्षि शोधयेत् ॥ १० ॥

स्विन्नेन यवपिष्टेन, स्नेहवीर्येरितं ततः ।

यथास्वं धूर्मंपानेन कफमस्य विशोधयेत् ॥ ११ ॥

एकाहं वा त्र्यहं वाऽपि पञ्चाहञ्चेष्यते परम् ।

तर्पणे तृप्तिलिङ्गानि नेत्रस्येमानि लक्षयेत् ॥ १२ ॥

सुखस्वप्नावबोधत्वं वैद्यं वर्णपाटवम् ।

१ ' निर्वृतिर्व्याधिविध्वंसः क्रियालाघवमेव च ॥ १३ ॥

" गुर्वाविलमतिस्निग्धमश्रुकण्डूपदेहवत् । घृतमण्डैरित्यर्थः । तथा च सुखोदके ईषदुष्णोदके विलीनैः घृतमण्डैः श्रापक्ष्माग्रात् पूरयेदिति सम्बन्धः । १ तर्पणं कियत्कालपर्यन्तं स्थापनीयमिति दर्शयति - तत इति । ततः = तपंणा-नन्तरम् । २ स्वमतं प्रदर्श्य परमतमाह – रोगेति । रोगस्थानविशेषेण = सन्धि-वर्त्मशुक्लकृष्णसर्वदृष्टिविभेदेन । ३ यथाक्रमोपदिष्टेषु = यथाक्रमोक्तेषु सन्ध्यादिरो-गस्थानेषु । अर्थात् सन्धौ त्रीणि वाक्शतानि वर्त्मन्येकं, शुक्ले पञ्च, कृष्णे सप्त, सर्वत्र दश, दृष्टयां दश, अष्टौ वा । ४ अङ्गितः = भ्रूपुच्छान्तप्रदॆशात् । ५ स्नेह-वीर्येण स्नेहशक्त्या ईरितं प्रेरितमिति स्नेहवीर्येरितं कफमिति सम्बन्ध: ।. ६ कफ प्रत्यनीकेन शिरोविरेचनधूमपानेनेत्यर्थः । ७ यानि दिनानि तर्पणप्रयोगस्तानि निर्दिशति - एकाहमिति । विदेहे विशेषः - " स्वस्थवृत्ते विधातव्यं द्वथन्तरं तर्पणं भवेत् । श्रहन्यहनि वातोत्थे, रक्तपित्ते दिनान्तरम् ॥ तर्पणं सन्निपातोत्थे द्वयन्तरं, व्यन्तरं कफे ॥ ” इति । सम्यक् तृप्तनेत्र लक्षणमभिदधाति -तर्पण इति । ९ वैशद्यं = निर्मलत्वम्, वर्णपाटवं = शुक्लादिवर्णस्य यथार्थतो ग्रहणम् । १० निर्वृतिः = स्वास्थ्येनावस्थितिः, ' अथ निर्वृतिः । मोक्षे मृत्यौ सुखे सौस्थे ' इति हेमचन्द्रः । व्याधिविध्वंसः = तत्तद्व्या-घिलक्षणोपरमः, क्रियालाघवं = निमेषोन्मेषादिक्रियालघुता । ११ अतितृप्तनेत्रलक्षण-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1127

सुश्रुत संहिता चौखम्बा, पृष्ठ 1127 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १८ ] Digitized by Arya Saldan Chennai and eGangotri ज्ञेयं दोषसमुत्क्लिष्टं नेत्रमत्यर्थतर्पितम् ॥ १४ ॥

रूक्षे माविलमस्राढ्यमसहं रूपदर्शने ।

व्याधिवृद्धिश्च तज्ज्ञेयं हीनतर्पितमक्षि च ॥ १५ ॥

अनयोर्दोषबाहुल्यात् प्रयतेत चिकित्सिते । ९ ६ ९ धूमनस्याञ्जनैः सेकैः रूक्षैः स्निग्धैश्च योगवित् ॥ १६ ॥

ताम्यत्यतिविशुष्कं यद्रक्षं यच्चातिदारुणम् ।

शीर्णपक्ष्माविलं जिह्मं रोगक्लिष्टञ्च यद् भृशम् ॥ १७ ॥

तदक्षि तर्पणादेव लभेतोर्जी मसंशयम् ।

दुर्दिनात्युष्णशीतेषु चिन्तायास भ्रमेषु च ॥ १८ ॥ ७

अशान्तोपद्रवे चाक्षिण तर्पणं न प्रशस्यते ।

पुटपाकस्तदैतेषु, नस्यं येषु च गर्हितम् ॥ १ ९ ॥ 4

तर्पणा न ये प्रोक्ताः स्नेहपानाक्षमाश्च ये ततः प्रशान्तदोषेषु पुटपाकक्षमेषु च ॥ २० ॥

पुटपाकः प्रयोक्तव्यो नेत्रेषु भिषजा भवेत् ।

स्नेहनो लेखनीयश्च रोपणीयश्च स त्रिधा ॥ २१ ॥

हितः स्निग्धोऽतिरूक्षस्य स्निग्धस्यापि च लेखनः । मभिधत्ते - गुर्विति । १ दोषसमुत्क्लिष्टं = दोषव्याप्तम् । २ हीनतृप्तनेत्रलक्षण-माख्याति— रूक्षमिति । आविलम् = आकुलम्, अस्राढ्यम् = अश्रुपूर्णम् । ३ अन--योः = हीनातितृप्तयोरित्यर्थः । ४ तर्पणविषयं निवेदयति - ताम्यतीति । ताम्यति तमोदर्शित्वेन खियति, प्रतिविशुष्कम् = श्रश्रुद्दीनम् । ५ जिझ = सिरादिसङ्कोचेन रूपक्रियासु जडम् । ६ ऊर्जा = . बलं, प्रकृतिभावमिति भावः । ७ तर्पणाविषयं दर्शयति - दुर्दिनेति । मेघाच्छन्नं दिनं दुर्दिनम् । चिन्तायां सम्भ्रमेषु चेति पाठान्तरम् । तत्र सम्भ्रमो भयम् । अथ तर्पणविषयं प्रतिपाद्य पुटपाकस्य विषयाविषयौ निरूपयति -पुटपाक इति । एतेषु पूर्वोक्तेषु " ताम्यत्यति विशुष्कम् " इत्यादितर्पणार्थेषु पुटपाकविषयः । पुट. पाकस्याविषयस्तु येषु नस्यं गर्हितमित्यादिः । तदुक्तं घूमनस्यकवलग्रह चिकित्सिते-“ नस्येन परिहर्तव्यो भुक्तवानपतपितोऽत्यर्थतरुणप्रतिश्यायी ” इत्यादिना । तर्पणा न ये प्रोक्ता चिन्ताभ्रमगृहीतादयः, स्नेहपानाक्षमाश्च ये दुर्बलारोचकिप्रभृतयः, ते पुटपाकं नार्हन्तीत्यर्थः । ९ पुटपाकस्यावस्थिकं कालं निर्दिश्य स्नेहनरोपणीय लेख • -CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1128

सुश्रुत संहिता चौखम्बा, पृष्ठ 1128 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां ९ ७० Digitized by Arya Samaj Foundation Chennai and eGangotri दृष्टेर्बलार्थमपरः पित्तासृग्णवातनुत् ॥ २२ ॥

स्नेहमांसवसामज्ज मेदःस्वोद्वौषधैः कृतः । [ अ ० १८ स्नेहनः पुटपाकस्तु धौर्यो द्वे वाक्शते तु सः ॥ २३ ॥

जाङ्गलानां यकृन्मांसैर्लेखनद्रव्यसंम्भृतैः ।

कृष्ण लोहरजस्ताम्रशङ्खविद्रुमसिन्धुजैः ॥ २४ ॥

समुद्रफेनकासीस स्रोतोजदधिमस्तुभिः ।

लेखनो वाक्शतं तस्य परं धारणमुच्यते ॥ २५ ॥

स्तन्ये॑जाङ्गलमध्वाज्यतिक्तद्रव्यविपाचितः ।

लेखनात्रिगुणं धार्य्यः पुटपाकस्तु रोपण: ॥ २६ ॥

वितरेत्तर्पणोक्तन्तु धूमं हित्वा तु रोपणम् ।

स्नेहस्वेदौ द्वयोः कार्यों, कार्यो नैव च रोपणे ॥ २७ ॥

एकोहं वा द्वययहं वाऽपि त्र्यहं वाऽप्यवचारणम् ।

यन्त्रणा तु क्रियाकलाद् द्विगुणं कालमिष्यते ॥ २८ ॥

" तेजांस्यनिलमाकाशमादशैँ भास्वराणि च ।

नेक्षेत तर्पिते नेत्रे पुटपाककृते तथा ॥ २ ९ ॥

मिथ्योपचाराद् नयोर्यो व्याधिरुपजायते ।

अञ्जनाश्चचोतनस्वेदैर्यथास्वं तमुपाचरेत् ॥ ३० ॥

नीयानां त्रिविधानामपि विषयं दर्शयति- हित इति । १ अपरः = रोपणीयपुट. पाकः । २ स्वाद्वौषधैः = काकोत्यादिप्रभृतिभिर्द्रव्यैः 1 ३ आपदमाम्राद्धार्य इत्यर्थः । ४ लेखनद्रव्यसम्भृतैः = व्योषादिलेखन द्रव्य भाविर्तः । ५ स्नेहनलेखनपुटपाकद्वयमभिधाय रोपणपुटपाकमाइ – स्तन्येति । स्तन्यं । -स्त्रीदुग्धम् । ६ त्रिगुणं = वाक्शतत्रयमित्यर्थः । ७ स्नेइनलेखनयोः पूर्वकर्म दर्श यति - वितरेदिति 1 । रोपणं पुटपाकं हित्वा तर्पणोक्तं यथादोषं स्निग्धं रूक्षं च धूमं द्वयोर्वितरेत् कुर्यात्, स्नेहस्वेदौ द्वयोरेव कार्यावित्यर्थः । ८ श्लैष्मिके नेत्ररोगे एकाहं, पैत्तिके द्वयहं, वातिके व्यहं वाडवचारणमित्यर्थः । १ स्नेहपानादिक्रियाका-लादित्यर्थः । १० पुटपाके परिवार्याणि निर्दिशति - तेजांसीति । तेजांसि = दीपप्र-मृतीनि, अनिलं = सम्मुखबातम्, श्रादर्श = दर्पणम्, भास्वराणि = सूर्यादीनि । ११ अ · नयोः - तर्पणपुटपाकयोरित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1129

सुश्रुत संहिता चौखम्बा, पृष्ठ 1129 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Pigitized by Arya Samaj pundation Chennai and eGangotri उत्तरतन्त्रम्

प्रसन्नवर्णं विशदं वातातपसहं लघु ।

सुखस्वप्नावबोध्यक्षि पुटपाकगुणान्वितम् ॥ ३१ ॥

अतियोगाद् रुजः शोफः पिडकास्तिमिरोद्गमः ।

पाको हर्षापि हीने दोषोद्गमस्तथा ॥ ३२ ॥

अत ऊर्ध्वं प्रवक्ष्यामि पुष्टपाकप्रसाधनम् । ९ ७१ द्वौ बिल्वमात्रौ श्लक्ष्णस्य पिण्डौ मांसस्य पेषितौ ॥ ३३ ॥

द्रव्याणां बिल्वमात्रन्तु द्रवाणां कुडवो मतः ।

तदैकध्यं समालोड्य पत्रैः सुपरिवेष्टितम् ॥ ३४ ॥

काश्मरी कुमुदैरण्डपद्मिनीकदलोभवैः ।

मृदावलिप्तमङ्गारैः खादिरैरवँकूलयेत् ॥ ३५ ॥

कतकाश्मन्तकैरण्डपाटलावृपबादरैः ।

सक्षीरद्रुमकाष्ठैर्वा गोमयैर्वाऽपि युक्तितः ॥ ३६ ॥

स्विन्नमुद्धृत्य निष्पीड्य रसमादाय तं नृणाम् ।

तर्पणोक्तेन विधिना यथावदवचारयेत् ॥ ३७ ॥

कनीनके निषेच्यः स्यान्नित्यमुत्तानशायिनः ।

रक्ते पित्ते च तौ ६ शीतौ कोष्णौ वातकफापहौ ॥ ३८ ॥

अत्युष्णतीक्ष्णौ सततं दाहपाककरौ स्मृतौ ।

अप्लुतौ शीतलौ चाश्रुस्तम्भरुग्घर्षकारकौ ॥ ३ ९ ॥

अतिमात्रौ के पायत्वसङ्कोचस्फुरणावही । १ पुटपाकस्य सम्यग्योगातियोगहीनयोगलक्षणमाख्याति - प्रसन्नेति । प्रसन्न · वर्णे = यथास्ववर्णम्, विशदं = दूषिकारहितम् । २ पुटपाकविधानं निरूपयति-अत इति । पुटपाकप्रसाधनं = पुटपाकनिष्पादनम् । ३ श्लक्ष्णस्य सूक्ष्मपिष्टस्य मांसस्य द्वौ पिण्डौ बिल्वमात्रौ प्रत्येकं पलप्रमाणौ कर्तव्यौ । तत्र यादृशः पुटपाकः कर्तव्यस्तदनुसारेण स्नेहनलेखनरोपणेषु पुटपाकेषु यथाक्रमं द्रव्याणां मधुरौषधलेखन-द्रव्यतिक्तद्रव्याणां बिल्बमात्रं पलप्रमाणं, द्रवाणां तु स्नेहवसाप्रभृतीनां कुडनः, अष्टौ पलानीत्यर्थः । ४ अवकूलयेत् = पचेदित्यर्थः । ५ युक्तिस्तु – “ पुटपाकस्य पाकोऽयं बहिरारक्तवर्णता " इति बोध्या । युक्ति -इत्यस्य श्रवकूलयेदित्यत्र सम्बन्धः । ६ 1 तौ = तर्पण पुटपाकौ । ७ तर्पणपुटपाकयो • पदो दर्शयति — अत्युष्णेति । अप्लुतौ = मन्दसर्पितौ । ९ कषायत्वं = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1130

सुश्रुत संहिता चौखम्बा, पृष्ठ 1130 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ७२ Digitized by Arya Samaj सुतसंहितायांand eGangotri [ अ ० १८ हीन प्रमाणौ दोषाणामुत्क्लेशजननौ भृशम् ॥ ४० ॥

युक्तौ कृतौ दाहशोफरुग्घर्षस्रावनाशनौ ।

कण्डूपदेहदूषीको रक्तराजिविनाशनौ ॥। ४१ ॥

तस्मात् परिहरन् दोषान् विदध्यात्तौ सुखावहौ ।

व्यापदश्च यथादोषं नस्यधूमाञ्जनैर्जयेत् ॥ ४२ ॥

आद्यन्तैयोश्चाप्यनयोः स्वेद उष्णाम्बुचैलिकः ।

तथा हितोऽवसाने च धूमः श्लेष्मसमुच्छ्रितौ ॥ ४३ ॥

यदोषोपयुक्तन्तु नातिप्रबलमोजसा ।

रोगमाश्च्योतनं हन्ति सेकस्तु बलवत्तरम् ॥ ४४ ॥

तौ त्रिधैवोपयुज्येते रोगेषु पुटपाकवत् ।

सप्त चाष्टौ वा बिन्दवः स्नैहिके दश ॥। ४५ ॥

आश्च्योतने प्रयोक्तव्या द्वादशैव तु रोपणे ।

सेकस्य " द्विगुणः कालः पुटपाकात् परो मतः ॥ १६ ॥

रागत्वम् । १ तर्पणपुटपाकयोर्गुणानाह - युक्ताविति । युक्तौ = दोषरहितत्वेन न्याय्यौ। २ दूषीका = नेत्रमलः, दूषयति, ' दुष वैकृत्ये ' इति ण्यन्तात् ' दोषो णौ ' इत्यू-त्वम् ' कषिदूषिभ्यामीकन् ' इति ईकन् । ह्रस्वेकारघटितदूषिकाशब्दे ण्वुल्, ' श्रच इ: इत्यौणादिक इ: । ३ दोषान् = पूर्वोक्तानत्युष्णतीच्णादिकान्, तौ = तर्पणपुटपाकौ । ४ दाइपाकादिका व्यापद इत्यर्थः । ५ तर्पणपुटपाकयोः पूर्वकर्मं पश्चात्कर्म च निर्दिशति --- आद्यन्तयोरिति । अन योः = तर्पणपुटपाकयोः, स्वेदः, कथम्भूतः - उष्णाम्बुचैलिकः उष्णाम्बुना सिक्तं चेलं शाकपार्थिवादिः, ' तदर्हति ' इति ठक्, उत्तरपदवृद्धिः । ६ क्रमागतयोराश्च्योतन. सेकयोर्गुणानभिदधाति- यथेति । यथादोषोपयुक्तं = वातादिजे नेत्ररोगे तत्तद्दोषप्रत्य-नीकभेषजसिद्धद्रवप्रयोजितम्, आश्च्योतनं पूरणमिति सम्बन्धः । ७ सेकः = परिषेकः, अत्र यथादोषोपयुक्तमिति पदं लिङ्ग - त्यासेन सम्बन्धनीयम् । विदेहे विशेषः– “ प्रागेवादयामये कार्यं त्रिरात्रं लघुभोजनम् । उपवासस्त्र्यहं वा स्यान्नक्तं वाऽप्यशनं त्र्यहम् ॥ ततश्चतुर्थे दिवसे व्याधि सन्जातलक्षणम् । समोच्या. इच्योतनैः सेकैर्यथास्वमुपपादयेत् ॥ ” इति । ८ तौ श्राश्च्योतनसेको वातादिजे नेत्र रोगे पुटपाकवत् स्नेहनलेखन रोपणभेदात् त्रिभिः प्रकारैरुपयुज्येते इत्यर्थः । ९ श्राश्च्यो-तनै बिन्दुसङ्ख्यामाख्याति - लेखन इति । लेखने - लेखनाश्च्योतने । १० परिषे-CC - 0. Gurukul Kangri Collection, Haridwar