सुश्रुत संहिता चौखम्बा — पृष्ठ 1121–1130
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1121–1130
पृष्ठ 1121
पाठ पढ़ें पाठ छिपाएँ
12 अ ० १७ ] Digitized by Arya न त Hidn Chennai and eGangotri एवं त्वशक्ये निर्हर्तुं दोषे प्रत्यागतेऽपि वा ॥ ६५ ॥
स्नेहाद्यैरुपपन्नस्य व्यधो भूयो विधीयते ।
ततो दृष्टेषु रूपेषु शलाका माहरेच्छनैः । ( ६६ ॥
घृतेनाभ्यज्य नयनं वस्त्रपट्टेन वेष्टयेत् 1 ) ९ ६३ post openalric ततो गृहे निराबाधे शतीतोत्तान एव च ॥ ६७ ॥ कुछ
उद्वारकासक्षवथुष्ठीवनोत्कम्पनानि च ।
तत्कोलं नाचरेदूध्व यन्त्रणा स्नेहपीतवत् ॥ ६८ ॥
त्र्यहात् त्र्यहाच्च धावेतं कषायैरनिलापहः ।
वायोर्भयात् त्र्यहादूध्व स्वेदयेदक्षि पूर्ववत् ॥ ६ ९ ॥
दशाहमेवं संयम्य हितं दृष्टिप्रसादनम् ।
पश्चात् कर्म च सेवेत लध्यन्नञ्चापि मात्रया ॥ ७० ॥
सिराव्यधविधौ पूर्वं नरा ये च विवर्जिताः । operation complica । न तेषां नीलिकां विध्येदन्यत्राभिहिताद्भिषक् ॥ ७१ ॥ leng
७
पूते शोणितेनाक्षि सिरावेधाद्विसर्पता ।
तत्र स्त्रीम्तन्ययष्ट्याह्नपक्वं सेके हितं घृतम् ॥ ७२ ॥
अपाङ्गासन्नविद्धे तु शोफशूलाश्रुरक्तताः ।
तत्रोपनाह " भ्रूमध्ये कुय्र्याच्चोष्णाज्यसेचनम् ॥ ७३ ॥
व्यधेनासन्नकृष्णेन रागः कृष्णं च पीडयते ।
तत्राधः शोर्धनं सेकः सर्पिषा रक्तमोक्षणम ॥ ७१ ॥
१ निराबाधे = धूलिधूमवातातपादिरहिते । २ तत्कालं = नेत्रे यावच्छलाकाऽवस्थिति • स्तावत्कालपर्यन्तम्, स्नेहपीतवत् = स्नेहपानवत्, मन्त्रणा = नियमः, ३ धावेत = प्रक्षालयेदित्यर्थः । ४ पूर्ववत् = बाह्यतो मृदु स्वेदयेत् । ५ एवम् = उत्तानशयना-दिना, दृष्टिप्रसादनं पश्चात्कर्म नस्यतर्पण शिरोबस्त्यादिकमिति सम्बन्धः । ६ इलैष्मिकेऽपि लिङ्गनाशे शस्त्रकर्मानर्हजनान् दर्शयति — सिरेति । सिराव्यध · विधौ पूर्वं ये च नरा बालस्थबिरादयो विवर्जितास्तेषां नीलिकां लिङ्गनाशम्, अभिहि • तादुक्ताद् दैवकृतच्छिद्रादन्यत्र भिषग् वैद्यो न विध्येदित्यर्थः । ७ दैवकृतच्छिद्रादन्यत्र नीलिकाव्यधे दोष प्रदर्शनपुरस्सरं चिकित्सितमभिधत्ते - पूयंत इति । विसर्पता शो. खितेनाक्षि पूर्यत इति सम्बन्धः । ८ उपनाहं = " गैरिकं सारिवा दूर्वा " इति वक्ष्य-माणप्रलेपम् । ९ श्रधःशोधनं = विरेचनम् । रक्तमोक्षणं त्वत्र जलौकोभिरेव CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1122
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां-९ ६४ Digitized by Arya Samaj Foundation Chennai and eGangotri Coutching eration du रुपये s ताला कितनी महानते ही १२ लाका CC - 0. Gurukul Kangri Collection, Haridwar [ अ ० १७ 1 ३ शलाकामनु = स्त्रीस्तन्ययष्टयाह्ने -तरुण: = दृष्टिना-७ तेनैव = काकोल्या-अथाप्युपरि विद्धे तु कैष्टा रुक् सम्प्रवर्त्तते । तत्र कोष्णेन हविषा परिषेकः प्रशस्यते ॥ ७५ ॥
शूलाश्रु रागास्त्वत्यर्थ मधोवेधेन पिच्छिलः ।
शैलाकामनुचास्रावस्तत्र पूर्वचिकित्सितम् ॥ ७६ ॥
रागाश्रवेदनास्तम्भहर्षाश्चातिर्विघट्टि ।
स्नेहस्वेदौ हितौ तत्र हितं चाप्यनुवासनम् ॥ ७७ ॥
दोषस्त्वधोऽपकृष्टोऽपि तरुणः पुनरुर्ध्वगः ।
कुर्य्याच्छुक्लारुणं नेत्रं तीव्ररुङ्नष्टदर्शनम् ॥ ७८ ॥
मधुरैस्तत्र सिद्धेन घृतेनाक्ष्णः प्रसेचनम् ।
शिरोबस्तिश्च तेनैवं दद्यान्मांसैश्च भोजनम् ॥ ७ ९ ॥
दोषस्तु सञ्जातबलो घनः सम्पूर्णमण्डलः ।
प्राप्य नश्येच्छलाकाम्रं तन्वभ्रमिर्व मारुतम् ॥ ८० ॥
" मूर्द्धाभिघातव्यायामव्यवायवमिमूर्च्छनैः ।
दोष: प्रत्येति कोपाच्च विद्धोऽतितरुणश्च II यः ॥। ८१ ॥
शलाका " कर्कशा शूलं, खरा दोषपरिप्लुतिम् ।
व्रणं विशालं स्थूलाग्रा, तीक्ष्णा हिंस्यादनेकधा ॥ ८२ ॥
जलास्रावन्तु " विषमा, क्रियासङ्गमथास्थिरा । बोध्यम् । १ कष्टा = अतिकष्टकरी । २ हविषा = घृतेनेत्यर्थः । शलाकाया अनन्तरम् । पूर्वचिकित्सितम् = अधः शोधनादिकं, त्यादिकं वा । ४ अतिविघट्टिते = प्रतिचालिते इत्यर्थः । ५ शमप्राप्तइत्यर्थः । ६ मधुरैः = काकोल्यादिप्रभृतिभिः । दिसिद्धघृतेनैवेत्यर्थः । ८ शस्त्रकर्मालिङ्गनाशं निर्दिशति - दोषस्त्विति । ९ यथा मारुतं प्राप्य तन्वभ्रं स्वल्पमेघः । १० निर्लिखितस्यापि दोषस्य पुनरावृत्तौ कारणानि दर्शयति-मूर्धेति । ११ तरुणः = लिङ्गनाशमप्राप्तः । १२ दुष्टशलाकाजनितव्यापदमाख्याति - शलाकेति । कर्कशा - कठोरा, शूलं करोतीति परेण सम्बन्धः । एवं सर्वत्र । दोषस्य परितः प्लुतिमागमनं दोषपरिप्लुतिम् । १३ अनैकधा अनेकप्रकारेण हिंस्यात् क्षतं करोतीत्यर्थः । १४ विषमा = तनुस्थूला,
पृष्ठ 1123
पाठ पढ़ें पाठ छिपाएँ
अ ० १७ ] Digitized by Aryaउत्तरतन्त्रम् Foundation Chennai and eGangotri ९ ६५ 107 उत्तमालाकाकेलक्ष करोति, वजितो दोषैस्तस्मादेभिर्हिता भवेत् ॥ ८३ ॥
अष्टाङ्गुलायता मध्ये सूत्रेण परिवेष्टिता ।
अङ्गुष्ठपर्वसमिता वक्त्रयोर्मुकुलाकृतिः ॥ ८४ ॥
ताम्रायसी शातकुम्भी शलाका स्यादनन्दिता । बेधनठीकन होने " रौगः शोफोऽर्बुदञ्चोषो बुद्बुदं शूकराक्षिता ॥ ८५ ॥ उत्पक उपद्रव
अधिमन्थादयश्चान्ये रोगाः स्युर्व्यधदोषजाः ।
अहिताचारतो वाऽपि यथास्वं तानुपाचरेत् ॥ ८६ ॥
रुजायामचिरागे वा योगान् भूयो निबोध मे ।
गैरिकं सारिवा दूर्वा यवपिष्टं घृतं पयः ॥ ८७ ॥
सुखालेपः प्रयोज्योऽयं वेदनारागशान्तये ।
मृदुष्टैस्तिलैर्वाऽपि सिद्धार्थकसंमायुतैः ॥ ८८ ॥
मातुलुङ्गरसोपेतैः सुखाले पस्तदर्थकृत् ।
पयस्यासारिवापत्रमञ्जिष्ठामधुकैरपि ॥ ८ ९ ॥
अजाक्षीरान्वितैर्लेपः सुखोष्णः पर्थ्यं उच्यते ।
" दारुपद्मकशुण्ठीभिरेवमेव कृतोऽपि वा ॥ ९ ० ॥
द्राक्षामधुककुष्ठैर्वा " तद्वत् सैन्धवसंयुतैः ।
रोध सैन्धवमृ द्वीका मधुकैर्वाऽप्यजापयः ॥ ९ १ ॥
शृतं सेके प्रयोक्तव्यं रुजारागनिवारणम् । मधुकोत्पलकुष्ठैर्वा द्राक्षालाक्षासितायुतैः । क्रियासङ्गं = दृष्टयुपरोधम् । १ शस्त्रकर्मयोग्यशलाकामभिदधाति -वर्जितेति । एभिर्दोषैः कर्कशादिभिः । २ शातकुम्भी = सुवर्णमयी, शतकुम्भे पर्वतविशेषे भवं शातकुम्भं, ततो ङीप् । ' यं गर्भं सुषुवे गङ्गा पावकाद्दीप्ततेजसम् । तदुल्वं पर्वते न्यस्तं हिरण्यं समपद्यत । ' इति वायुपुराणम् । ३ दुष्टव्यधाद्दाराचारजा व्यापदो दर्शयति- राग इति । बुदबुदं = बुदबुदाकारो मांस निर्गमः, शुकराक्षिता = अधोदृष्टित्वम् । ४ यथास्वं यथादोषम् । ५ कर्कश -शलाकाजनितशूले दुष्टव्यधजे च रोगे चिकित्सां निर्दिशति - रुजायामिति । मे मत्सकाशात्, निबोध जानीहि । ६ सारिवा = उत्पलसारिवा । ७ सिद्धार्थकसमा -युतैः = सर्षपसंयुक्तैः । ८ पयस्या == श्रर्कपुष्पी, पत्रं = ' तेजपात ' इति ख्यातम् । ९ पथ्यः – हितकर इत्यथैः । १० दारु = दारुहरिदा, नामैकदेशे नाममात्रग्रहणात् । पद्मकं = पद्मकाष्ठम्, ‘ पद्माख ' इति ख्यातम् । ११ तद्वत् = लेपः पथ्य इत्यर्थः । १२ मृद्वी-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1124
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां ९ ६६ -Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० १७ ससैन्धवैः शृतं क्षीरं रुजारागनिबर्हणम् ॥ ९ २ ॥
शतावरी पृथक्पर्णीमुस्ताऽऽमलकपद्मकैः ।
साजक्षीरैः शृतं सर्पिर्दाहशूलनिबर्हणम् ॥ ९ ३ ॥
वातघ्नसिद्धे पयसि सिद्धं सर्पिश्चतुर्गुणे ।
काकोल्यादिप्रतीवापं तद् युञ्ज्यात् सर्वकैर्मसु ॥ ९ ४ ॥
शाम्यत्येवं न चेच्छूलं स्निग्धस्विन्नस्य मोक्षयेत् ।
ततः सिरौं दहेद्वाऽपि मतिमान् कीर्त्तितं यथा ॥ ९ ५ ॥
दृष्टेरतः प्रसादार्थमञ्जने शृणु मे शुभे ।
मेषशृङ्गस्य पुष्पाणि शिरीषधवयोरपि ॥ ९ ६ ॥
सुमनायाश्च पुष्पाणि मुक्ता वैदूर्य्यमेव च ।
अजाक्षीरेण सम्पिष्य ताम्र सप्ताहमावपेत् ॥ ९ ७ ॥
प्रविधाय च तद्वर्त्तोर्योजयेच्चाञ्जने भिषक् ।
स्रोतोजं ' विद्रुमं फेनं सागरस्य मनःशिलाम् ॥ ९ ८ ॥
हाष्ट प्रसादन मरिचानि च तद्वर्त्ताः कारयेच्चापि पूर्ववत् ।
दृष्टिस्थैर्यार्थमेतत्त विदध्यादञ्जने हितम् ॥ ९९ ॥
योग । भूयो वक्ष्यामि मुख्यानि विस्तरेणाजनानि च ।
कल्पे नानाप्रकाराणि तान्यपीह प्रयोजयेत् ॥ १०० ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे दृष्टिगतरोग-विज्ञानीयो नाम सप्तदशोऽध्यायः ॥ १७ ॥
का = द्राक्षेत्यर्थः । १ वातघ्नेर्भद्रदार्वादिभिः सिद्धे वातघ्नसिद्धे । २ नस्यालेपनादिसर्वकर्मस्वित्यर्थः I ३ औपनासिकामपाङ्गयां लालायां वा सिरां दहेदित्यर्थः । ४ अवशिष्टदोष दूषिताया दृष्टेः प्रसादनार्थमअनद्वयं निर्दिशति-मेषशृङ्गस्येति । मेषशृङ्गस्य = पुत्रजीवानुकारिवृक्षस्य । इत आरभ्य प्रथममञ्जन मु-च्यते । ५ सुमनाया: = मालत्याः । ६ आवपेत् = निदध्यात् । ७ स्रोतोर्ज = सौवीराञ्जनम्, यमुनास्रोतसि जातः कुलत्थाकार प्रस्तर विशेषः सौवीराञ्जनमुच्यते । इत प्रारभ्य द्वितीयमअनं बोध्यम् । सागरस्य फेनं = समुद्रफे-नम् । ८ नानाप्रकाराणि अनेकविधानि तान्यञ्जनानीति सम्बन्धः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतशालाक्यतन्त्रे सुधाऽऽख्यटिप्पन्यां सप्तदशोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1125
पाठ पढ़ें पाठ छिपाएँ
अ ० १८ ] Digitized by Arya metion Chennai and eGangotri ९ ६७
अष्टादशोऽध्यायः ।
अथातः क्रियाकल्पं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
सर्वशास्त्रार्थतत्वज्ञस्तपोष्टिरुदारधीः । सम्पूर्ण वैश्वामित्रं शशासाथ शिष्यं काशिपतिर्मुनिः ॥ ३ ॥
तर्पणं पुटपाकश्च सेक आश्च्योतनाञ्जने ।
तत्र तत्रोपदिष्टानि तेषां व्यासं निबोध मे ॥ ४ ॥
संशुद्धदेह शिरसो जीर्णान्नस्य शुभे दिने ।
पूर्वा वाऽपराह्ने वा कार्य्यमक्ष्णोश्च तर्पणम् ॥ ५ ॥
वातातपरजोहीने वेश्मन्युत्तानशायिनः ।
आधारौ माषचूर्णेन क्लिन्नेन परिमण्डलौ ॥ ६ ॥
समौ दृढावसम्बाधौ कर्त्तव्यौ नेत्रकोशयोः ।
पूरयेद् घृतमण्डस्य विलीनस्य सुखोदके ॥ ७ ॥
अष्टादशोऽध्यायः । १ पूर्वाध्यायेषु नाममात्रेणाभिहितानि तर्पणादीनि विस्तरेण प्रतिपादयितुं क्रि-याकल्पनामाध्यायमधिकरोति - अथेति । क्रियाणां तर्पणपुटपाकसेकप्रभृतीनां कल्पनं करणं कल्पः क्रियाकल्पस्तम् । २ तपसा दृष्टिर्दर्शनं विशिष्टज्ञानोदयो यस्य स तपो-दृष्टिः, उदारा उत्कृष्टा धीः प्रज्ञा यस्य स उदारधीः । ३ वैश्त्रामित्रं = सुश्रुतम्, शशास = शिक्षितवान्, काशिपतिः = राजर्षिधन्वन्तरिः । ' ड्यापोः संज्ञाच्छन्द सोर्बहुलम् ’ इति ह्रस्वः । ४ तत्रतत्रोपदिष्टानि = वाताभिष्यन्दादौ सङ्क्षेपतोऽभिहितानि, व्यासं = विस्तरम् । ५ नेत्रे तर्पणं कथं कार्यमिति तद्विधि दर्शयति - संशुद्धेति । संशुद्धदेद्दशिरसः == सम्यक्शुद्धशरीरमस्तकस्य, सिरामोक्षण विरेकनिरूह शिरोविरेकैरित्यर्थः । ६ वेश्म. " नि = गृहे, ' गृहं गेहो दवसितं वेश्म सद्म निकेतनम् ' इत्यमरः । ७ नेत्र कोशयोः परित: क्लिन्नैन जलमर्दितेन माषचूर्णेन परिमण्डली वर्तुलौ समौ अनिम्नोन्नतौ दृढो छिद्ररहितौ असम्बाधौ आधारौ आलवाला कर्तव्यावित्यर्थः । ' आधारश्चाधिकरणेऽप्या-' लवालेऽम्बुधारणे ' इति मेदिनी । क्षेत्रादिसेकार्थं सेतुना बहुनालं जलं निरुध्य यत्र -स्थाप्यते स श्राधारो बद्धकन्दरादिः ' वांध - बन्ध ' इति ख्यातः ' टांका ' इति चेति भरतः । ८ घृतस्योपरितनो भागो घृतमण्ड इत्यभिधीयते । घृतमण्डस्येत्यत्र करणे षष्ठी, CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1126
पाठ पढ़ें पाठ छिपाएँ
९ ६८ Digitized by Arya Samaj सुश्रुतसंहिताय inde Gangotri [ अ ० १८
आपक्ष्माप्रात्ततेः स्थाप्यं पञ्च तद्वाक्शतानि तु ।
स्वस्थे, कफे षट्, पित्तेऽष्टौ, दश वाते तदुत्तमम् ॥ ८ ॥
रोगस्थानविशेषेण केचित्कालं प्रचक्षते ।
यक्रमोपदिष्टेषु त्रीण्येकं पञ्च सप्त च ॥ ९ ॥
दश दृष्ट्यामथाष्टौ च वाक्शतानि विभावयेत् ।
ततश्चापाङ्गर्तैः स्नेहं स्रावयित्वाऽक्षि शोधयेत् ॥ १० ॥
स्विन्नेन यवपिष्टेन, स्नेहवीर्येरितं ततः ।
यथास्वं धूर्मंपानेन कफमस्य विशोधयेत् ॥ ११ ॥
एकाहं वा त्र्यहं वाऽपि पञ्चाहञ्चेष्यते परम् ।
तर्पणे तृप्तिलिङ्गानि नेत्रस्येमानि लक्षयेत् ॥ १२ ॥
सुखस्वप्नावबोधत्वं वैद्यं वर्णपाटवम् ।
१ ' निर्वृतिर्व्याधिविध्वंसः क्रियालाघवमेव च ॥ १३ ॥
" गुर्वाविलमतिस्निग्धमश्रुकण्डूपदेहवत् । घृतमण्डैरित्यर्थः । तथा च सुखोदके ईषदुष्णोदके विलीनैः घृतमण्डैः श्रापक्ष्माग्रात् पूरयेदिति सम्बन्धः । १ तर्पणं कियत्कालपर्यन्तं स्थापनीयमिति दर्शयति - तत इति । ततः = तपंणा-नन्तरम् । २ स्वमतं प्रदर्श्य परमतमाह – रोगेति । रोगस्थानविशेषेण = सन्धि-वर्त्मशुक्लकृष्णसर्वदृष्टिविभेदेन । ३ यथाक्रमोपदिष्टेषु = यथाक्रमोक्तेषु सन्ध्यादिरो-गस्थानेषु । अर्थात् सन्धौ त्रीणि वाक्शतानि वर्त्मन्येकं, शुक्ले पञ्च, कृष्णे सप्त, सर्वत्र दश, दृष्टयां दश, अष्टौ वा । ४ अङ्गितः = भ्रूपुच्छान्तप्रदॆशात् । ५ स्नेह-वीर्येण स्नेहशक्त्या ईरितं प्रेरितमिति स्नेहवीर्येरितं कफमिति सम्बन्ध: ।. ६ कफ प्रत्यनीकेन शिरोविरेचनधूमपानेनेत्यर्थः । ७ यानि दिनानि तर्पणप्रयोगस्तानि निर्दिशति - एकाहमिति । विदेहे विशेषः - " स्वस्थवृत्ते विधातव्यं द्वथन्तरं तर्पणं भवेत् । श्रहन्यहनि वातोत्थे, रक्तपित्ते दिनान्तरम् ॥ तर्पणं सन्निपातोत्थे द्वयन्तरं, व्यन्तरं कफे ॥ ” इति । सम्यक् तृप्तनेत्र लक्षणमभिदधाति -तर्पण इति । ९ वैशद्यं = निर्मलत्वम्, वर्णपाटवं = शुक्लादिवर्णस्य यथार्थतो ग्रहणम् । १० निर्वृतिः = स्वास्थ्येनावस्थितिः, ' अथ निर्वृतिः । मोक्षे मृत्यौ सुखे सौस्थे ' इति हेमचन्द्रः । व्याधिविध्वंसः = तत्तद्व्या-घिलक्षणोपरमः, क्रियालाघवं = निमेषोन्मेषादिक्रियालघुता । ११ अतितृप्तनेत्रलक्षण-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1127
पाठ पढ़ें पाठ छिपाएँ
अ ० १८ ] Digitized by Arya Saldan Chennai and eGangotri ज्ञेयं दोषसमुत्क्लिष्टं नेत्रमत्यर्थतर्पितम् ॥ १४ ॥
रूक्षे माविलमस्राढ्यमसहं रूपदर्शने ।
व्याधिवृद्धिश्च तज्ज्ञेयं हीनतर्पितमक्षि च ॥ १५ ॥
अनयोर्दोषबाहुल्यात् प्रयतेत चिकित्सिते । ९ ६ ९ धूमनस्याञ्जनैः सेकैः रूक्षैः स्निग्धैश्च योगवित् ॥ १६ ॥
ताम्यत्यतिविशुष्कं यद्रक्षं यच्चातिदारुणम् ।
शीर्णपक्ष्माविलं जिह्मं रोगक्लिष्टञ्च यद् भृशम् ॥ १७ ॥
तदक्षि तर्पणादेव लभेतोर्जी मसंशयम् ।
दुर्दिनात्युष्णशीतेषु चिन्तायास भ्रमेषु च ॥ १८ ॥ ७
अशान्तोपद्रवे चाक्षिण तर्पणं न प्रशस्यते ।
पुटपाकस्तदैतेषु, नस्यं येषु च गर्हितम् ॥ १ ९ ॥ 4
तर्पणा न ये प्रोक्ताः स्नेहपानाक्षमाश्च ये ततः प्रशान्तदोषेषु पुटपाकक्षमेषु च ॥ २० ॥
पुटपाकः प्रयोक्तव्यो नेत्रेषु भिषजा भवेत् ।
स्नेहनो लेखनीयश्च रोपणीयश्च स त्रिधा ॥ २१ ॥
हितः स्निग्धोऽतिरूक्षस्य स्निग्धस्यापि च लेखनः । मभिधत्ते - गुर्विति । १ दोषसमुत्क्लिष्टं = दोषव्याप्तम् । २ हीनतृप्तनेत्रलक्षण-माख्याति— रूक्षमिति । आविलम् = आकुलम्, अस्राढ्यम् = अश्रुपूर्णम् । ३ अन--योः = हीनातितृप्तयोरित्यर्थः । ४ तर्पणविषयं निवेदयति - ताम्यतीति । ताम्यति तमोदर्शित्वेन खियति, प्रतिविशुष्कम् = श्रश्रुद्दीनम् । ५ जिझ = सिरादिसङ्कोचेन रूपक्रियासु जडम् । ६ ऊर्जा = . बलं, प्रकृतिभावमिति भावः । ७ तर्पणाविषयं दर्शयति - दुर्दिनेति । मेघाच्छन्नं दिनं दुर्दिनम् । चिन्तायां सम्भ्रमेषु चेति पाठान्तरम् । तत्र सम्भ्रमो भयम् । अथ तर्पणविषयं प्रतिपाद्य पुटपाकस्य विषयाविषयौ निरूपयति -पुटपाक इति । एतेषु पूर्वोक्तेषु " ताम्यत्यति विशुष्कम् " इत्यादितर्पणार्थेषु पुटपाकविषयः । पुट. पाकस्याविषयस्तु येषु नस्यं गर्हितमित्यादिः । तदुक्तं घूमनस्यकवलग्रह चिकित्सिते-“ नस्येन परिहर्तव्यो भुक्तवानपतपितोऽत्यर्थतरुणप्रतिश्यायी ” इत्यादिना । तर्पणा न ये प्रोक्ता चिन्ताभ्रमगृहीतादयः, स्नेहपानाक्षमाश्च ये दुर्बलारोचकिप्रभृतयः, ते पुटपाकं नार्हन्तीत्यर्थः । ९ पुटपाकस्यावस्थिकं कालं निर्दिश्य स्नेहनरोपणीय लेख • -CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1128
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां ९ ७० Digitized by Arya Samaj Foundation Chennai and eGangotri दृष्टेर्बलार्थमपरः पित्तासृग्णवातनुत् ॥ २२ ॥
स्नेहमांसवसामज्ज मेदःस्वोद्वौषधैः कृतः । [ अ ० १८ स्नेहनः पुटपाकस्तु धौर्यो द्वे वाक्शते तु सः ॥ २३ ॥
जाङ्गलानां यकृन्मांसैर्लेखनद्रव्यसंम्भृतैः ।
कृष्ण लोहरजस्ताम्रशङ्खविद्रुमसिन्धुजैः ॥ २४ ॥
समुद्रफेनकासीस स्रोतोजदधिमस्तुभिः ।
लेखनो वाक्शतं तस्य परं धारणमुच्यते ॥ २५ ॥
स्तन्ये॑जाङ्गलमध्वाज्यतिक्तद्रव्यविपाचितः ।
लेखनात्रिगुणं धार्य्यः पुटपाकस्तु रोपण: ॥ २६ ॥
वितरेत्तर्पणोक्तन्तु धूमं हित्वा तु रोपणम् ।
स्नेहस्वेदौ द्वयोः कार्यों, कार्यो नैव च रोपणे ॥ २७ ॥
एकोहं वा द्वययहं वाऽपि त्र्यहं वाऽप्यवचारणम् ।
यन्त्रणा तु क्रियाकलाद् द्विगुणं कालमिष्यते ॥ २८ ॥
" तेजांस्यनिलमाकाशमादशैँ भास्वराणि च ।
नेक्षेत तर्पिते नेत्रे पुटपाककृते तथा ॥ २ ९ ॥
मिथ्योपचाराद् नयोर्यो व्याधिरुपजायते ।
अञ्जनाश्चचोतनस्वेदैर्यथास्वं तमुपाचरेत् ॥ ३० ॥
नीयानां त्रिविधानामपि विषयं दर्शयति- हित इति । १ अपरः = रोपणीयपुट. पाकः । २ स्वाद्वौषधैः = काकोत्यादिप्रभृतिभिर्द्रव्यैः 1 ३ आपदमाम्राद्धार्य इत्यर्थः । ४ लेखनद्रव्यसम्भृतैः = व्योषादिलेखन द्रव्य भाविर्तः । ५ स्नेहनलेखनपुटपाकद्वयमभिधाय रोपणपुटपाकमाइ – स्तन्येति । स्तन्यं । -स्त्रीदुग्धम् । ६ त्रिगुणं = वाक्शतत्रयमित्यर्थः । ७ स्नेइनलेखनयोः पूर्वकर्म दर्श यति - वितरेदिति 1 । रोपणं पुटपाकं हित्वा तर्पणोक्तं यथादोषं स्निग्धं रूक्षं च धूमं द्वयोर्वितरेत् कुर्यात्, स्नेहस्वेदौ द्वयोरेव कार्यावित्यर्थः । ८ श्लैष्मिके नेत्ररोगे एकाहं, पैत्तिके द्वयहं, वातिके व्यहं वाडवचारणमित्यर्थः । १ स्नेहपानादिक्रियाका-लादित्यर्थः । १० पुटपाके परिवार्याणि निर्दिशति - तेजांसीति । तेजांसि = दीपप्र-मृतीनि, अनिलं = सम्मुखबातम्, श्रादर्श = दर्पणम्, भास्वराणि = सूर्यादीनि । ११ अ · नयोः - तर्पणपुटपाकयोरित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1129
पाठ पढ़ें पाठ छिपाएँ
Pigitized by Arya Samaj pundation Chennai and eGangotri उत्तरतन्त्रम्
प्रसन्नवर्णं विशदं वातातपसहं लघु ।
सुखस्वप्नावबोध्यक्षि पुटपाकगुणान्वितम् ॥ ३१ ॥
अतियोगाद् रुजः शोफः पिडकास्तिमिरोद्गमः ।
पाको हर्षापि हीने दोषोद्गमस्तथा ॥ ३२ ॥
अत ऊर्ध्वं प्रवक्ष्यामि पुष्टपाकप्रसाधनम् । ९ ७१ द्वौ बिल्वमात्रौ श्लक्ष्णस्य पिण्डौ मांसस्य पेषितौ ॥ ३३ ॥
द्रव्याणां बिल्वमात्रन्तु द्रवाणां कुडवो मतः ।
तदैकध्यं समालोड्य पत्रैः सुपरिवेष्टितम् ॥ ३४ ॥
काश्मरी कुमुदैरण्डपद्मिनीकदलोभवैः ।
मृदावलिप्तमङ्गारैः खादिरैरवँकूलयेत् ॥ ३५ ॥
कतकाश्मन्तकैरण्डपाटलावृपबादरैः ।
सक्षीरद्रुमकाष्ठैर्वा गोमयैर्वाऽपि युक्तितः ॥ ३६ ॥
स्विन्नमुद्धृत्य निष्पीड्य रसमादाय तं नृणाम् ।
तर्पणोक्तेन विधिना यथावदवचारयेत् ॥ ३७ ॥
कनीनके निषेच्यः स्यान्नित्यमुत्तानशायिनः ।
रक्ते पित्ते च तौ ६ शीतौ कोष्णौ वातकफापहौ ॥ ३८ ॥
अत्युष्णतीक्ष्णौ सततं दाहपाककरौ स्मृतौ ।
अप्लुतौ शीतलौ चाश्रुस्तम्भरुग्घर्षकारकौ ॥ ३ ९ ॥
अतिमात्रौ के पायत्वसङ्कोचस्फुरणावही । १ पुटपाकस्य सम्यग्योगातियोगहीनयोगलक्षणमाख्याति - प्रसन्नेति । प्रसन्न · वर्णे = यथास्ववर्णम्, विशदं = दूषिकारहितम् । २ पुटपाकविधानं निरूपयति-अत इति । पुटपाकप्रसाधनं = पुटपाकनिष्पादनम् । ३ श्लक्ष्णस्य सूक्ष्मपिष्टस्य मांसस्य द्वौ पिण्डौ बिल्वमात्रौ प्रत्येकं पलप्रमाणौ कर्तव्यौ । तत्र यादृशः पुटपाकः कर्तव्यस्तदनुसारेण स्नेहनलेखनरोपणेषु पुटपाकेषु यथाक्रमं द्रव्याणां मधुरौषधलेखन-द्रव्यतिक्तद्रव्याणां बिल्बमात्रं पलप्रमाणं, द्रवाणां तु स्नेहवसाप्रभृतीनां कुडनः, अष्टौ पलानीत्यर्थः । ४ अवकूलयेत् = पचेदित्यर्थः । ५ युक्तिस्तु – “ पुटपाकस्य पाकोऽयं बहिरारक्तवर्णता " इति बोध्या । युक्ति -इत्यस्य श्रवकूलयेदित्यत्र सम्बन्धः । ६ 1 तौ = तर्पण पुटपाकौ । ७ तर्पणपुटपाकयो • पदो दर्शयति — अत्युष्णेति । अप्लुतौ = मन्दसर्पितौ । ९ कषायत्वं = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1130
पाठ पढ़ें पाठ छिपाएँ
९ ७२ Digitized by Arya Samaj सुतसंहितायांand eGangotri [ अ ० १८ हीन प्रमाणौ दोषाणामुत्क्लेशजननौ भृशम् ॥ ४० ॥
युक्तौ कृतौ दाहशोफरुग्घर्षस्रावनाशनौ ।
कण्डूपदेहदूषीको रक्तराजिविनाशनौ ॥। ४१ ॥
तस्मात् परिहरन् दोषान् विदध्यात्तौ सुखावहौ ।
व्यापदश्च यथादोषं नस्यधूमाञ्जनैर्जयेत् ॥ ४२ ॥
आद्यन्तैयोश्चाप्यनयोः स्वेद उष्णाम्बुचैलिकः ।
तथा हितोऽवसाने च धूमः श्लेष्मसमुच्छ्रितौ ॥ ४३ ॥
यदोषोपयुक्तन्तु नातिप्रबलमोजसा ।
रोगमाश्च्योतनं हन्ति सेकस्तु बलवत्तरम् ॥ ४४ ॥
तौ त्रिधैवोपयुज्येते रोगेषु पुटपाकवत् ।
सप्त चाष्टौ वा बिन्दवः स्नैहिके दश ॥। ४५ ॥
आश्च्योतने प्रयोक्तव्या द्वादशैव तु रोपणे ।
सेकस्य " द्विगुणः कालः पुटपाकात् परो मतः ॥ १६ ॥
रागत्वम् । १ तर्पणपुटपाकयोर्गुणानाह - युक्ताविति । युक्तौ = दोषरहितत्वेन न्याय्यौ। २ दूषीका = नेत्रमलः, दूषयति, ' दुष वैकृत्ये ' इति ण्यन्तात् ' दोषो णौ ' इत्यू-त्वम् ' कषिदूषिभ्यामीकन् ' इति ईकन् । ह्रस्वेकारघटितदूषिकाशब्दे ण्वुल्, ' श्रच इ: इत्यौणादिक इ: । ३ दोषान् = पूर्वोक्तानत्युष्णतीच्णादिकान्, तौ = तर्पणपुटपाकौ । ४ दाइपाकादिका व्यापद इत्यर्थः । ५ तर्पणपुटपाकयोः पूर्वकर्मं पश्चात्कर्म च निर्दिशति --- आद्यन्तयोरिति । अन योः = तर्पणपुटपाकयोः, स्वेदः, कथम्भूतः - उष्णाम्बुचैलिकः उष्णाम्बुना सिक्तं चेलं शाकपार्थिवादिः, ' तदर्हति ' इति ठक्, उत्तरपदवृद्धिः । ६ क्रमागतयोराश्च्योतन. सेकयोर्गुणानभिदधाति- यथेति । यथादोषोपयुक्तं = वातादिजे नेत्ररोगे तत्तद्दोषप्रत्य-नीकभेषजसिद्धद्रवप्रयोजितम्, आश्च्योतनं पूरणमिति सम्बन्धः । ७ सेकः = परिषेकः, अत्र यथादोषोपयुक्तमिति पदं लिङ्ग - त्यासेन सम्बन्धनीयम् । विदेहे विशेषः– “ प्रागेवादयामये कार्यं त्रिरात्रं लघुभोजनम् । उपवासस्त्र्यहं वा स्यान्नक्तं वाऽप्यशनं त्र्यहम् ॥ ततश्चतुर्थे दिवसे व्याधि सन्जातलक्षणम् । समोच्या. इच्योतनैः सेकैर्यथास्वमुपपादयेत् ॥ ” इति । ८ तौ श्राश्च्योतनसेको वातादिजे नेत्र रोगे पुटपाकवत् स्नेहनलेखन रोपणभेदात् त्रिभिः प्रकारैरुपयुज्येते इत्यर्थः । ९ श्राश्च्यो-तनै बिन्दुसङ्ख्यामाख्याति - लेखन इति । लेखने - लेखनाश्च्योतने । १० परिषे-CC - 0. Gurukul Kangri Collection, Haridwar