सुश्रुत संहिता चौखम्बा — पृष्ठ 1141–1150
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1141–1150
पृष्ठ 1141
पाठ पढ़ें पाठ छिपाएँ
अ ० १ ९ ] Digitized by Arya Sa पक्रम्यम् pennai and eGangotri सद्योहते नयन एष विधिस्तदूर्ध्वं स्यन्देरितो भवति दोषमवेक्ष्य कार्य्यः । अभ्याहतं नयनमीषद्धास्ये बाष्प-९ ८३ संस्वेदितं भवति तन्निरुजं क्षणेन ॥ ५ ॥..
सौध्यं क्षतं पटलमेकमुभे तु कृच्छ्रे त्रीणि क्षतानि पटलानि विवर्जयेत्तु । स्यात् पिच्चितञ्च नयनं ह्यति चावसन्नं स्रस्तं च्युतञ्च हृतदृक् च भवेत्तु याप्यम् ॥ ६ ॥
विस्तीर्णदृष्टितनुरागमसैत्प्रदर्शि
साध्यं यथास्थितमनाविलदर्शनञ्च ।
प्राणोपरोधवमनक्षुतकण्ठरोधै-रुन्नम्यमाशु नयनं यतिप्रविष्टम् ॥ ७ ॥
नेत्रे विलम्बिनि विधिर्विहितः पुरस्ता-दुच्छङ्घनं शिरसि वार्यवसेचनञ्च । र्वागेव बोध्यम् । १ वैद्य के सद्यः शब्दस्य सप्ताहपरकत्वात् सद्योहते सप्ताहादर्वांगे-बेत्यर्थः । तदूर्ध्वं = सप्तरात्रादूर्ध्वम्, स्यन्देरितः । वाताभिष्यन्दोक्तो विधिः । २ आ-स्वबाष्पेण मुखफूत्कारोष्मणा संस्वेदितमास्यवा'पसंस्वेदितम् । ३ नयनाभिघातस्य साध्यासाध्यत्वविचारं प्रकटयति - साध्यमिति । एकं पटलम् = श्राद्यं पटलम् उभे = प्राथद्वितीयपटले, त्रीणि = श्राद्यद्वितीयतृतीयपटलानि । ४ पिच्चितलक्षणमुक्तं प्राक् सद्योत्र गचिकित्सिते – “ प्रहारपीडनाभ्यां तु यदङ्गं पृथुतां गतम् । सास्थि तत् पिच्चितं विद्यान्मज्जरक्तपरिप्लुतम् ॥ ” इति । श्रवसन्नम् = श्रन्तः-प्रविष्टम्, स्रस्तं = शिथिलम्, च्युतम् = अवलम्बितम्, इतदृक्- विनष्टदृष्टिमण्डलम् । ५ श्रसत्प्रदर्शि = असाधुदर्शि । ६ अतिप्रविष्टनयन चिकित्सामाख्याति - प्राणेति । प्राणोपरोधः = श्वासावरोधः । ७ अतिनिर्गतनयनस्य चिकित्सामाचष्टे – नेत्र इति । विलम्बिनि = अतिनिर्गते, पुरस्तात् = सद्योव्रणचिकित्सिते ' भिन्ननेत्र मकर्मण्यमभिन्नं लम्बते तु यत् । तन्निवेश्य यथास्थानमव्याविद्धसिरं शनैः ॥ इत्यादिना विधिर्विदितः । उच्छिङ्घनं: = नासया बातस्यान्तःप्रवेशनम्, वार्यवसेचनं = शीतजलपरिषेक इत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1142
पाठ पढ़ें पाठ छिपाएँ
९ ८४ Digitized by Arya Samajs सुश्रुतसंहितायां =and eGangotri [ अ ० १ ९ षट्सप्ततिर्नयनजा य इमे प्रदिष्टा रोगा भवन्त्यमहतां महताञ्च तेभ्यः ॥ ८ ॥
Tautokan For लाविभव एव कुकूणकोऽन्यः । मुकणक स्तन्यप्रकोपकफमारुतपित्तरक्तै-रोगकावर्जन मृद्निाति नेत्रमतिकण्डुमथाक्षिकूटं culinga ay hong नासाललाटमपि तेन शिशुः स नित्यम् ॥ ९ ॥।
सूर्यप्रभां न सहते स्रवति प्रबद्ध, तस्याहरेद् रुधिरमाशु विनिर्लिखेच्च । क्षौद्रायुतैश्च कैटुभिः प्रतिसारयेत्तु मातुः शिशोरभिहितञ्च विधिं विदध्यात् ॥ १० ॥
तं ' वामयेत्तु मधुसैन्धवसम्प्रयुक्तैः ।
पीतं पयः खलु फलैः खरमञ्जरीणाम् ॥ ११ ॥
स्यात्पिप्पलीलवणमाक्षिकसंयुतैर्वा नैनं वमन्तमपि वार्मायतुं यतेत । १ पूर्वोक्तमुपसंहरन् प्रसङ्गाद्वालानां स्तन्यादिदोषजातं कुकूणकं नाम रोग विशे षमधिकरोति - षडिति । येइमे षट्सप्ततिर्नयनजा रोगाः प्रदिष्टास्ते श्रमहतां बालानां मद्दतां च भवन्ति तेभ्यो रोगेभ्योऽन्यः स्तन्यप्रकोपकफमारुतपित्तरक्तैः बालाक्षिममव एव कुकूणकः, अस्तोति शेषः । २ कुकूणकस्य लक्षणं तच्चिकित्सां चाभिदधाति - मृद्नातीति । अक्षिकूटं = नैत्रगोलकम् । ३ प्रबद्धं निरन्तरं स्रवति अश्रूणि विमुवति, तस्य रुधिरम् आइरेत् जलौकोभिरिति शेषः । विनिर्लिखेद् गोजोशेफालिकापत्रादिभिरित्यर्थः । ४ कटु-भिः = त्रिकटुकैः, प्रतिसारयेत् = ईषत् प्रलेपयेत् । शिशोर्मातुरभिहितं विधिं “ स्तन्ये गते विकृतिमाशु भिषक् " " तेषु च यथाऽभिहितं मृदच्छेदनीयमौषधं मात्रया क्षीरपस्य " इत्यादिकं विदध्यात् । ५ क्षीरपस्य बालस्य स्तन्यसात्म्यत्वात् स्तन्ययुक्तमेव वमनं निर्दिशति — तमि. ति । मधुसैन्धवसम्प्रयुक्तैः पिप्पलीलवणमाक्षिकसंयुतैर्वा खरमञ्जरीणां फलैरपामार्ग-फलचूर्णैः सहः पयः स्तन्यं पीतं तं बालं वामयेदित्यर्थः । ६ स्वयं वमन्तं प्रकारा CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1143
पाठ पढ़ें पाठ छिपाएँ
अ ० १ ९ ] Digitized by Arya fotion Chennai and eGangotri दत्त्वा वचामशनदुग्धभुजे प्रयोज्य -मूततः फलयुतं वमनं विधिज्ञैः ॥ १२ ॥
जेम्ब्वा धात्र्यणुदलैः परिधावनार्थं
कार्य्यं कषायमवसेचनमेव चापि ।
औश्च्योतने च हितमत्र घृतं गुडूची-सिद्धं तथाऽऽहुरपि च त्रिफला विपक्कम् ॥ १३ ॥
नेपालजामरिचशङ्खरसाञ्जनानि सिन्धुप्रसृतगुडमाक्षिकसंयुतानि । स्यादञ्जनं मधुरसामधुकाम्रकै कृष्णायसं घृतयो मधु वाऽपि दग्धम् ॥ १४ ॥
व्यो पलाण्डु मधुकं लवणोत्तमञ्च लाक्षाञ्च गैरिकयुतां गुटिकाञ्जनं वा । निम्बच्छदं मधुकदावि सताम्रलोध्र-९ ८५ मिच्छन्ति चात्र भिषजोऽनशतुल्यम् ॥ १५ ॥
न्तरेण वामयितुमेनं बालं न यतेत, यत्नं न कुर्यादित्यर्थः । १ क्षीरान्नादस्य अन्नादस्य च वमनं वक्ति - दत्त्वेति । श्रशनदुग्धभुजे = क्षीरान्नादायेत्यर्थः । फलयुतं = मदनफलसंयुतम् । २ कुकूणके वर्त्मनः प्रक्षालनपरिषेकार्थं कषायमाख्याति-जम्ब्विति । श्रणुदलैः = कोमलपत्रैः परिधावनार्थं = प्रक्षालनार्थम्, श्रवसेचनं = परिषेक इत्यर्थः । ३ अक्षिपूरणार्थमकल्कघृतद्वयमभिदधाति – आश्च्योतन इति । त्रिफलावि-पक्वं त्रिफलाक्काथसिद्धं घृतमिति सम्बन्धः । त्रिफलाविपक्त्रं द्वितीयमञ्जनम् । ४ कुकूणकेऽञ्जनमभिधत्ते – नेपालजेति । नेपालजा = मनःशिला । ५ मधुरसा = मूर्वा । ६ चूर्णाञ्जनं निर्दिशति – कृष्णेति । कृष्णायसं = कृष्णलोद्दचूर्णमन्तर्धूम-दग्धमित्यर्थः । “ लौइचूर्णं च सर्पिश्च मधु क्षीरं च दाइयेत् । एतच्चूर्णाअनं पिष्टं कुमा-राणां कुकूणके ॥ ” इति विदेहः । ७ गुटिकाञ्जनं दर्शयति - व्योषमिति । व्योषं = त्रिकटुकम्, लवणोत्तमं = सैन्धवम् निम्बच्छदमित्यादिनाऽपरं वर्त्यअनं । ८ गुटिकाब्जनं = वर्यञ्जनम् । ९ वक्ति । मधुकं च दाव चेति मधुकदावि, दावपदेन हरिद्राद्वयं ग्राह्यम् । १० अञ्जनं = गुटिकाब्जनम्, अंशतुल्यं = निम्बच्दादिकं समभागम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1144
पाठ पढ़ें पाठ छिपाएँ
९ ८६ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri स्रोतोज शङ्खदधि सैन्धवमर्द्धपक्षं शुक्रं शिशोर्नदति भावितमञ्जनेन । स्यन्दे कफादभिहितं क्रममाचरेच्च [ अ ० १ ९ बालस्य रोगकुशलोऽक्षिगदं जिघांसुः ॥ १६ ॥
समुद्र इव गम्भीरं नैव शक्यं चिकित्सितम् ।
वक्तुं निरवशेषेण श्लोकानामयुतैरपि ॥ १७ ॥
सहस्रैरपि वा प्रोक्तमर्थमल्पमतिर्नरः ।
तर्कप्रन्थार्थरहितो नैव गृह्णात्यपण्डितः ॥ १८ ॥
तदिदं बहुगूढार्थं चिकित्साबीज मीरितम् ।
कुशलेनाभिपन्नं तद्बहुधाऽभिप्ररोहति ॥ १ ९ ॥
तस्मान्मतिमता नित्यं नानाशास्त्रार्थदर्शिना ।
सर्वमृद्यमगाधार्थं शास्त्रमार्गमबुद्धिना ॥ २० ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे नयनाभिघात-चिकित्सितं नामकोनविंशोऽध्यायः ॥ १ ९ ॥ १ बालानां शुक्रलेखनार्थमञ्जनमुपदिशति – स्रोतोजेति । स्रोतोजं रसाञ्जनम्-अर्द्धपक्षं सार्द्धसप्तरात्रं भावितं सत् अञ्जनेन शिशोः शुक्रं नुदति । बालस्य अक्षिगदं कुकूणकं जिघांसू रोगकुशलो वैद्यः कफात् स्यन्दे कफाभिष्यन्देऽभिहितं क्रममाचरेच्चे. त्यर्थः । डल्हणोक्ता वृद्धवैद्यसम्मता कल्पना - गव्येन दध्ना पिष्टाभ्यां शङ्ख सैन्धवाभ्यां स्रोतोजं रसाञ्जनमर्थं पक्षं सार्द्धसप्तरात्र मसकृल्लेपयेत् । ततोऽनन्तरं तत्स्रोतोजं रसाञ्जनं पिष्ट्वा वर्ति: कार्या, साऽअनैन शिशोः शुक्रं नुदति स्फोटयतीत्यर्थः । २ नेत्रचिकित्सितमुपसंहरन् स्तौति - समुद्रेति । समुद्र इव गम्भीरं श्लोकानां सहस्रैरप्ययुतैः श्लोककोटयाऽपि निरवशेषेण वक्तु ं नैव शक्यमित्यर्थः । प्रोक्तमर्थ. ३ मल्पमतिर्नरस्तर्केण ऊहेन यो ग्रन्थार्थः शास्त्रार्थस्तेन रहितो नैव गृह्णातीत्यर्थः । ४ चिकित्साबीजभूतमित्यर्थः । ५ नानाशास्त्राणि शालाक्यादीनि तेषामर्थदर्शिना । ६ श्रागमः श्राप्तान शास्त्रं तत्र बुद्धिर्यस्य तेन प्रागमबुद्धिना, तदुक्तम्- " सिद्धं सिद्धेः प्रमाणैस्तु हितं चात्र परत्र च । श्रागमः शास्त्रमाप्तानामाप्तास्तत्त्वार्थवेदिनः ॥ ” इति । अपि च- " सृष्टिश्च प्रलयश्चैव देवतानां तथाऽर्चनम् । साधनं चैव सर्वेषां पुरश्चरणमेव च ॥ षट्कर्म साधनं चैव ध्यानयोगश्चतुर्विधः । सप्तभिर्लक्षयेयुंक्तमागमं तद्विदुर्बुधाः ॥ ” इति । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतशालाक्यतन्त्रे सुधाऽऽख्यटिप्पन्या-मेकोनविंशोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1145
पाठ पढ़ें पाठ छिपाएँ
अ ० २० ] Digitized by Arya Sam खतरसम् and eGangotri
विंशतितमोऽध्यायः ।
अर्थातः कर्णगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
..के शूलं प्रणादश्च बाधिर्य्यं क्ष्वेड एव च ।
कर्णस्रावः कर्णकण्डूः कर्णवर्चस्तथैव च ॥ ३ ॥
कृमिकर्णप्रतीनाहौ विद्रधिद्विविधस्तथा ।
कर्णपाकः प्रतिकर्णस्तथैवाश्चतुर्विधम् ॥ ४ ॥
कर्णादं सप्तविधं शोफश्चापि चतुर्विधः । ९ ८७ एते कर्णगता रोगा अष्टाविंशतिरीरिताः ॥ ५ ॥
संमीरिणः श्रोतगतोऽन्यथाचरः समन्ततः शूलमतीव कर्णयोः ।
करोति दोषैश्च यथास्वमावृतः स कर्णशूलः कथितो दुराचरः ॥ ६ ॥
यहाँ तु नाडीषु विमार्गमागतः स एव शब्दाभिवहासु तिष्ठति । विंशतितमोऽध्यायः । १ इन्द्रियगतरोगसामान्याद् श्रोत्रगतरोगविज्ञानीयमधिकरोति — अथेति । गत-शब्द आश्रयवचनः, तेन कर्णाश्रितरोगविज्ञानमधिकृत्य कृतोऽध्यायः कर्णंगतरोगविज्ञा • नीयस्तम् । २ तत्रादौ कर्णगतरोगाणां नामानि निर्दिशति - कर्णशूलमिति । ३ दोषविद्रधिः क्षतविद्रधिश्चेवि भेदेन विद्रधिद्विविध इत्यर्थः । ४ वातपित्तकफ सन्निपातैरर्शश्चतुर्विधमित्यर्थः । ५ कर्णार्बुदं सप्तविधम् – वातेन पित्तेन कफेन चापि रक्तेन मांसेन च मेदसा च । सप्तमं सर्वात्मकम् । वातपित्तकफ सन्निपातैः शोफश्चापि चतुर्विधः । तद् वदयति— “ दोषैस्त्रिभिस्तैः पृथगेकशश्च ब्रूयात्तथाऽर्शासि तथैव शोफान् । शालाक्यसिद्धान्तमवेक्ष्य चापि सर्वात्मकं सप्तममर्बुदं तु ॥ ” इति । ६ कष्टशूलस्य! कर्णसाध्यत्वात् प्राक् तल्लक्षणमभिधत्ते - समीरण इति 1 । समी-रणो वायुः श्रोत्रगतः श्रोत्रप्राप्तोऽन्यथाचरन् विमार्गगः समन्ततः कर्णयोरतीव शूलं करोतीति सम्बन्धः । दोषैः कफपित्तरकैर्यथास्वमावृतः स कर्णशूलो दुराचरो दुःखेन श्राचर्यंते उपचर्यते इति कथितः । कर्णशुलस्य कष्टसाध्यत्वं मूर्च्छाऽऽद्युपद्रवयोगाद् बोध्यम् । तथा च विदेह: - " मूर्च्छा दाहो, ज्वरः कासो हृल्लासो वमथुस्तथा । उप-द्रवाः कर्णशूले भवन्त्येते मरिष्यतः ॥ ” इति । ७ कर्णनादलक्षणमभिदधाति - यदेति । यदा तु स एव वायुः शब्दाभिवद्दासु नाडीषु विमार्गमागतः शिरः प्राप्तस्तिष्ठतीति सम्बन्धः । तथा च विदेहः – “ शिरोगतो CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1146
पाठ पढ़ें पाठ छिपाएँ
९ ८८ Digitized by Arya Samaj सुश्रुत सहिताया Gangotri [ अ ० २० शृणोति शब्दान् विविधांस्तदा नरः प्रणादमेनं कथयन्ति चामयम् ॥७ ॥
स शब्दानुवहा यदा सिराः कफानुयातो व्यनुसृत्य तिष्ठति ।
तदा नरस्याप्रतिकारसेविनो भवेत्तु बाधिर्यमसंशयं खलु ॥ ८ ॥
श्रमात्क्षयाद्रक्षकषाय भोजनात्समीरणः शब्दपथे प्रतिष्ठितः ।
विरिक्तशीर्षस्य च शीतसेविनः करोति हि क्ष्वेडेंमतीव कर्णयोः ॥ ९ ॥
शिरोऽभिघातादथवा निमज्जतो जले प्रपाकादथवाऽपि विद्रधेः ।
स्रवेत्तु पूयं श्रवणोऽनिलावृतः स कर्णसंस्राव इति प्रकीर्त्तितः ॥ १० ॥
कफेन कण्डूः प्रचितेन कर्णयोर्भृशं भवेत् स्रोतसि कर्णसंज्ञिते ।
विशोषिते श्लेष्मणि पित्ततेजसा नृणां भवेत्स्रोतँसि कणगूथकः ॥ ११ ॥
स कर्णविको द्रवतां यदागतो विलायितो घ्राणमुखं प्रपद्यते ।
यदा वायुः श्रोत्रयोः प्रतिपद्यते । तदा तु विविधान् शब्दान् समीरयति कर्णयोः ॥
भृङ्गारक्रौञ्चनादं वा मण्डूककाकयोस्तथा । तन्त्री मृदङ्गशब्दं वा सामतूर्यस्वनं तथा ॥
गीताध्ययनवंशानां निर्घोषं वेडनं तथा । श्रपामिव पतन्तीनां शकटस्येव गच्छतः ॥
श्वसतामिव सर्पाणां सदृशः श्रूयते स्वनः । " इति । १ बाधिर्यलक्षणमाख्याति — स एवेति । स एव वायुः कफानुयातः कफानुगतः शब्दानुवद्दाः सिरा व्यनुसृत्य विविधमार्गमावृत्य तिष्ठतीति सम्बन्धः । अप्रति-२ कारसेविनः = अचिकित्स्यतः । ३ कर्णक्ष्वेडलक्षणमाचष्टे - श्रमादिति । क्षयात् = धातुक्षयात् । श्रयं पित्तादिदोष संसृष्टवातजन्यः । कर्णनादे केवलवातजन्ये नानाश. ब्दात् शृणोति, कर्णच्वेडे नियमेन वेणुशब्दमिति तयोर्भेदोऽवगन्तव्यः । तदाह विदेहः— “ मारुतः कफपित्ताभ्यां संसृष्टः शोणितेन च । कर्णदवेडं सञ्जनयेत् देवेडनं वेणुघोषवत् ॥ ” इति । ४ वेढम् = श्रव्यक्तशब्दम् । ५ कर्णस्रावलक्षणं वक्ति - शिर इति । शिरोऽभिघातात् शिरसि दण्डादिना वातादिना वा कर्णसंश्रविणां सिरास्नाब्वादीनामुपघातात्, अथवा जले निमज्जतः, अथवा विद्रधेः कर्णविद्रधेः प्रपाकादनिलार्दितः श्रवणः पूयं भवेत्, सकर्णसंस्राव इति रोगः प्रकीर्तित इत्यर्थः । ६ कर्णकण्डूकर्णगूथकयोर्लक्षणे ब्रवीति - कफेनेति 1 । कर्णयोः प्रचितेन सचि • तेन कफेन कर्णसंज्ञिते स्रोतसि कर्णस्रोतसि भृशं कण्डूर्भवेदिति सम्बन्धनीयम् । ७ प्रचितेनेति लिङ्गव्यत्यासेन अध्याहार्य स्रोतसि सञ्चिते श्लेष्मणि पित्ततेजसा विशो-षिते सति कर्णेगूथको भवेदिति सम्बन्धः । = कर्णप्रतिनाइलक्षणं प्रतिपादयति-स इति । विलायितः = स्नेहस्वेदाभ्यां विलीनीकृतः सन्, त्राणं च मुखं च घ्राणमुखं CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1147
पाठ पढ़ें पाठ छिपाएँ
अ ० २० ] Digitized by Arya Samaj Foundation Chennai and eGangotri उत्तरतन्त्रम् । ९ ८ ९ तदा स कर्णप्रतिनाहसंज्ञितो भवेद्विकारः शिरसोऽभितापनः ॥ १२ ॥
यदा तु मूर्च्छन्त्यथवाऽपि जन्तवः सृजन्त्यपत्यान्यथ वाऽपि मक्षिकाः ।
तदञ्जनत्वाच्छ्रवणो निरुच्यते भिषग्भिराद्यैः ३ कृमिकर्णकोऽगदः ॥ १३ ॥
ताभिघातप्रभवस्तु विद्रधिर्भवेत्तथा दोषकृतोऽपरः पुनः ।
स रक्तपीतारुणमस्रमास्रवेत् प्रतोदधूमायनदाह चोषवान् ॥ १४ ॥
भवेत् प्रपाकः खलु पित्तकोपतो विकोथविक्लेदकरञ्च कर्णयोः ।
स्थिते कफे स्रोतसि पित्ततेजसा विलाय्यमाने भृशसम्प्रतापवान् ॥
अवेद्नो वाऽप्यथवा सवेदनो घनं स्रवेत् पूति च पूतिकर्णकः ॥ १५ ॥
प्रदिष्टलिङ्गान्यसि तत्त्वतस्तथैव शोफार्ब दलिङ्गमीरितम् ।
मया पुरस्तात्प्रसमीक्ष्य योजयेदिहैव तावत् प्रयतो भिषग्वरः ॥ १६ ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्र कर्णगतरोगविज्ञानीयो नाम विंशतितमोऽध्यायः ॥ २० ॥
प्रपद्यते । १ शिरसोऽभितापनः = सकलशिरोविकारकारी । अयं कफमारुताभ्यां सन्नि · पातेन वा । तथा च विदेह: - " कफाद् वा मारुताद्वाऽपि सन्निपातेन वा पुनः " इति । २ क्रिमिकर्णलक्षणमुपदिशति यदेति । मूर्च्छन्ति = उच्छिता भवन्ति, जन्तवः = -मांसशोणितको जाः क्रिमयः, अपत्यानि = सूक्ष्मक्रिमान् । ३ श्राद्यैभिषग्भिविदेद्दा. दिभिस्तदञ्जनत्वात् क्रिमिलक्षणत्वात् श्रवणः क्रिमिकर्णको निरुच्यते इति सम्बन्धः । अयं सान्निपातिकः । तथा च विदेहः - " श्लेष्मपित्तजलोन्मिश्रे कोथे शोणितमांसजे । मूर्च्छन्ति जन्ऩवस्तत्र कृष्णास्तामाः सितारुणाः । भक्षयन्तीव ते कर्णं कुर्वन्तो विविधा रजः । क्रिमिक तु तं विद्यात् सन्निपातप्रकोपजम् ॥ ” इति । ४ कर्णविद्रधिलक्षणमाह - क्षतेति । क्षताभिघातप्रभवः = क्षतप्रभवोऽभिघातप्र-भवश्चेत्यर्थः । क्षताभिघातप्रभवयोरागन्तुकत्वादेकत्वमेव बोध्यम् । अपरः = द्वितीयः, - दोष कृतः = दोष जनितः ॥ ५ कर्णपाकपूतिकर्णयोर्लक्षयेऽभिदधाति - भवेदिति । ६ स्रोतसि कर्ण कुहरे स्थिते कफे पित्ततेजसा विलाय्यमाने सति भृशसन्प्रतापवान् अवे-दनः सवेदनो वा पूतिकर्णः घनं निरन्तरं पूर्ति पूयं स्रवेत् स्रावयेदित्यर्थः । ७ कर्णगतशोथार्बुदार्शसामतिदेशेन लक्षणमाह – प्रदिष्टेति । शोफार्बुदयोर्लिङ्गं -लक्षणमिति शोफार्बुदलिङ्गम् । ८ प्रसमोदय = सम्यग्विचार्येत्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतशालाक्यतन्त्रे सुधाऽऽख्यटिप्पन्यां विंशतितमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1148
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya ९९ ० सुश्रुतसंहिता ai nai and eGangotri [ अ ० २१
एकविंशतितमोऽध्यायः ।
अथातः कर्णगतरोगप्रतिषेधं व्याख्यास्यामः ॥ १ ॥
• यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
सामान्यं कर्णरोगेषु घृतपानं रसायनम् ।
अव्यायामोऽशिरःस्नानं ब्रह्मचर्य्यम कत्थनम् ॥ ३ ॥
कर्णशूले प्रणादे च बाधिर्य्यक्ष्वेडयोरपि ।
चतुर्णामपि रोगाणां सामान्यं भेषजं विदुः ॥ ४ ॥
स्निग्धं वातहरैः खेदैर्नरं स्नेहविरेचितम् ।
नाडीस्वेदैरुपचरेत्पिण्डस्वेदैस्तथैव च ॥ ५ ॥
विल्वैरण्डार्कवर्षाभूद धित्थोन्मत्तशित्रुभिः ।
बस्तगन्धोऽश्वगन्धाभ्यां तर्कारीयववेणुभिः ॥ ६ ॥
आरनालशृतैरेभिर्नाडीस्वेदः प्रयोजितः ।
कफवातसमुत्थानं कर्णशूलं निरस्यति ॥ ७ ॥
एकविंशतितमोऽध्यायः । १ " रोगमादौ परीक्षेत ततोऽनन्तरमौषधम् " इत्युक्त्या कर्णगतरोगचिकित्सितमार-. भ्यते — अथेति 1 । कर्णंगत रोगाणां प्रतिषेधश्चिकित्सितम् । २ तत्रादौ करोगे सा-मान्यचिकित्सितमभिदधाति - सामान्यमिति । हाराणचन्द्रस्तु — रसायनमित्यत्र रसाशनमिति पाठं पठित्वा मांसरसेन भोजनमिति व्याख्याति । ३ अकत्थनम् == श्रभाषणमित्यर्थः । ४ वातजानां चतुर्णां कर्णशूल - प्रणाद- बाधिर्य - दवेडानां सामान्यचिकित्सामा-ख्याति - कर्णेति । ५ सामान्यं भेषजमेव दर्शयति - स्निग्धमिति । स्नेहपानाभ्य-ङ्गाभ्यां स्निग्वमित्यर्थः । स्नेहैरेरण्डतैलादिभिविरेचितम् । ६ नाडीस्वेदस्तु — " व्या-मार्धमात्रा त्रिर्वक्रा हस्तिहस्तसमाकृतिः । स्वेदनार्थे हिता नाडी कैलिओ । इस्तिशुण्डि -का ॥ ” इति स्वेदावचारणीये उक्तः । पिण्डस्वेदैः = कृसरापायसादिभिः । ७ नाडीस्वेदोपयोगिद्रव्याणि निर्दिशति - बिल्वेति । वर्षाभूः - श्वेतपुनर्नवा, दधित्थः = कपित्थः, दधिवर्णो द्रवस्तिष्ठत्यस्मिन्निति श्रन्वर्थता | ' सुपिस्थ: ' इति कः । उन्मत्तः = धत्तूरः । ८ बस्तस्य गन्ध इव गन्धोऽस्या वस्तगन्धा अजगन्धा, अश्वगन्धा = ‘ श्रसगन्ध ' इत्युद्घुष्यते । तर्कारी = श्ररणी, यववेणुः = कुधान्यवर्गपठितो वंशफलम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1149
पाठ पढ़ें पाठ छिपाएँ
अ ० २१ ] Digitized by Arya in Chennai and eGangotri
मी कुक्कुटलावानां मांसजैः पयसाऽपि वा ।
पिण्डैः स्वेदञ्च कुर्वीत कर्णशूलनिवारणम् ॥ ८ ॥
अश्वत्थपत्रखल्लं वा विधाय बहुपत्रकम् ।
तदङ्गारैः सुसम्पूर्ण निदध्याच्छ्रवणोपरि ॥ ९ ॥
यत्तैलं च्यवते तस्मात् खल्लादङ्गारतापितात् ।
तत्प्राप्तं श्रवणस्रोतः सद्यो गृह्णाति वेदनाम् ॥ १० ॥
क्षौमँगुग्गुल्वगुरुभिः सघृतैर्धूपयेच्च तम् ।
भक्तोपरि हितं सर्पिर्बस्तिकर्म च पूजितम् ॥ ११ ॥
निरन्नो निशि तत्सर्पिः पीत्वोपरि पिबेत् पयः ।
मूर्द्धबस्तिषु नस्ये च मस्तिष्के परिषेचने ॥ १२ ॥
शतपाकं बलातैलं प्रशस्तञ्चापि भोजने ।
कण्टकारीमजाक्षीरे पक्त्वा क्षीरेण तेन च ॥ १३ ॥
विपचेत् कुक्कुटवसां कर्णयोस्तत् प्रपूरणम् ।
तण्डुलीयकमूलानि फलमङ्कोलजन्तथा ॥ १४ ॥
अहिंस्राकेन्दुकमूलं सरलं देवदारु च ।
लशुनं शृङ्गवेरञ्च तथा वंशवलेखनम् ॥ १५ ॥
कल्कैरेषां तथाऽम्लैश्च पचेत् स्नेहं " चतुर्विधम् ।
वेदनायाः प्रशान्त्यर्थं हितं तत् कर्णपूरणम् ॥ १६ ॥
९९ १ १ पिण्डस्वेदोपयोगिद्रव्याणि वक्ति - मीनेति । मांसजैः पिण्डैः, पयसा वा घनीभूतेन क्षीरपिण्डेन स्वेदं कुर्वीतेत्यर्थः । २ वातजकर्णशूले स्नेहस्वेदमुपदिशति - अश्वत्थेति । श्रयं भावः – तैलाक्तै-घृताक्तैवऽश्वत्थपत्रैश्चतुरङ्गुलमधः कल । यमात्र च्छिद्रं कोटराकारं पात्रं ज्वलदङ्गारेण प्रपृर्यं तत् खल्लच्छिद्रं कर्णविवराभिमुखं कृत्वा श्रग्निसन्तापाच्च्युतेन तैलेन घृतेन वा श्रवणस्रोतः सद्योवेदनां दूरीकरोतीति । ३ कर्णस्वेदस्य पश्चात्कर्माह - क्षौमेति । क्षौमम् = अतसीवस्त्रम् । ४ शिरोबस्तिकर्मेत्यर्थः । ५ स्नेहपिचुलोतादिनाऽवचा • रिते शिरोबस्तिविशेषे मस्तिष्के इत्यर्थः । ६ बलातैलं मूढगर्भचिकित्सितोक्तम् । ७ कतिपयकर्णपूरणयोगान्निर्दिशति - कण्टेति । कण्टकारी छगलीक्षीरे क्षीरपाक-विधिना पक्त्वेत्यर्थः । ८ केन्दुकः = विन्दुकः । ९ वंशावलेखनं = वंशत्वक् । १० च • तुर्विधः स्नेहः = घृततैलव सामज्जाख्यः । तदुक्तम् – “ स्नेहश्चतुर्विधः प्रोक्तो घृतं तैलं. CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1150
पाठ पढ़ें पाठ छिपाएँ
९९ २ Sa Digitized by Arya s सुश्रुतसंहिताय me and eGangotri [ अ ० २१
लशुनार्द्रकशिभ्रूणां मुरङ्गया मूलकस्य च ।
कदल्याः स्वरसः श्रेष्ठः कैदुष्णः कर्णपूरणे ॥ १७ ॥
शृङ्गवेररसः क्षौद्रं सैन्धवं तैलमेव च ।
कदुष्णं कर्णयोर्देयमेतद्वा वेदनापहम् ॥ १८ ॥
वंशावलेखनायुक्ते मूत्रे चाजाविके भिषक् ।
सर्पिः पचेत्तेन कर्ण पूरयेत् कर्णशूलिनः ॥ १ ९ ॥
महतः पञ्चमूलस्य काण्डमष्टादशाङ्गुलम् ।
क्षौमेणावेष्ट्य संसिच्य तैलेनादीपयेत्ततः ॥ २० ॥
यत्तैलं च्यवते तेभ्यो ' धृतेभ्यो भाजनोपरि ।
ज्ञेयं तद्दीपिकातैलं सद्यो गृह्णाति वेदनाम् ॥ २१ ॥
कुर्य्यादेवं भद्रकाष्ठे कुष्ठे काष्ठे च सारले ।
मतिमान् दीपिकातैलं कर्णशूलनिबर्हणम् ॥ २२ ॥
रानम्लपिष्टांस्तैलाक्तान् लवणान्वितान् ।
सन्निदध्यात् स्नुहीकाण्डे कोरिते तच्छदावृते ॥ २३ ॥
पुटपाकक्रमस्विन्नान् पीडयेदार सागमात् ।
सुखोष्णं तद्रसं कर्णे दापयेच्छूलशान्तये ॥ २४ ॥
कपित्थमातुलुङ्गाम्लशृङ्गवेररसैः शुभैः ।
सुखोष्णैः पूरयेत् कर्णं तच्छूलविनिवृत्तये ॥ २५ ॥
कर्ण कोष्णेन चुक्रेण पूरयेत् कर्णशूलिनः ।
समुद्रफेनचूर्णेन युक्त्या चाप्यवचूर्णयेत् ॥ २६ ॥
वसा तथा । मज्जा च " इति । १ मुरङ्गी == रक्तशोभाञ्जनः । ष्णः । लशुनादीनां षण्णां स्वरसा व्यस्ताः समस्ता वा देयाः । १३ दीपिका तैलमुपदिशति - महत इति । ण्टुकपाटलाः काश्मर्यश्च । स्यादुमा क्षुमा ' इत्यमरः । २ कदुष्णः = ईषदु. महत्पञ्चमूलं - बिल्वाग्निमन्थटि-४ क्षुमाया वस्त्रं क्षौमं तेन त्रिभागभावेष्ट्य, ' अतसी ५ श्रधोमुखं धृतेभ्य इत्यर्थः । ६ चकारेण श्रगुर्वैरण्डाग्नि-मन्थकाष्ठानां समुच्चयः । ७ स्नुहीकाण्डे = सेहुण्डखण्डे, कोरिते = कृतकोटरे, तच्छ-दावृते = सेहुण्डपत्राच्छादिते । ८ श्ररसागमात् = रसनिस्सरणपर्यन्तम् । ९ चुक्रेण = CC - 0. Gurukul Kangri Collection, Haridwar