सुश्रुत संहिता चौखम्बा — पृष्ठ 1161–1170

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1161–1170

पृष्ठ 1161

सुश्रुत संहिता चौखम्बा, पृष्ठ 1161 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

30. अ ० २४ ] Digitized by Arya Separation Chennai and eGangotri १००३

नारीप्रसङ्गः शिरसोऽभितापो धूमो रजः शीतमतिप्रतापः ।

सन्धारणं मूत्रपुरीषयोश्च सद्यः प्रतिश्यायनिदानमुक्तम् ॥ ३ ॥

चयङ्गता मूर्द्धनि मारुतादयः पृथक् समस्ताश्च तथैव शोणितम् ।

प्रकोप्यमाणा विविधैः प्रकोपणैर्नृणां प्रतिश्यायकरा भवन्ति हि ॥ ४ ॥

शिरोर्गुरुत्वं क्षवथोः प्रवर्त्तनं तथाऽङ्गमर्दः परिहृष्टरोमता ।

उपद्रवाञ्चाप्यपरे पृथग्विधा नृणां प्रतिश्यायपुरःसराः स्मृताः ॥५ ॥

श्रद्धा पिहिता नासा तनुस्रावप्रवर्त्तिनी ।

गलताल्वोष्ठशोषश्च निस्तोदः शङ्खयोस्तथा ॥ ६ ॥

स्वरोपघातश्च भवेत् प्रतिश्यायेऽनिलात्मके ।

उष्णः सपीतकः स्रावो नारणात् स्रवति पैत्तिके ॥ ७ ॥

कृशोऽतिपाण्डुः सन्तप्तो भवेत् तृष्णानिपीडितः ।

सधूमं सहसा वह्निं वमतीव च मानवः ॥ ८ ॥

यत्र स प्रतिश्यायः । तथा च चरकः - " घ्रागमूले स्थितः श्लेष्मा रुधिरं पित्तमेव च । मारुताध्मातशिरसः इयायते मारुतं प्रति । प्रतिश्यायस्ततो घोरो जायते देहकर्षणः ॥ ” इति । २ प्रतिश्यायस्य निदानं द्विविधं - सधोजनकम्, अपरं चयादिक्रमेण कालान्तर-जनकम्, तत्र प्राक् सद्योजनकनिदानमाह - नारीति । नारीष्वतिशयेन प्रवृत्तिर्नारी-प्रसङ्गः, शिरोऽभितप्यते येन स शिरोऽभितापो धूमादिः, रजो धूलिः, नासाप्रविष्टं हेतुः । २ चयादिकमनिदानमुपदिशति - चयङ्गता इति । चयं गताःस्वे स्वे स्थाने सचयं प्राप्ताः, चयादिक्रमो यथा - निदानात् सञ्चयः, सञ्चयात् प्रकोप, प्रको-25 पात् प्रसरः, प्रसरात् स्थानसंश्रयः, सश्रयाद् व्यक्तिः, ततो भेद इति । ३ विविधेः प्रकोपणैः = बलवद्विग्रह दिवास्वप्नादिभिरित्यर्थः । ४ प्रतिश्यायस्य पूर्वरूपं निर्दिशति - शिरोगुरुत्वमिति । क्षवथो: = छिक्कायाः, अङ्गमर्दो वेदनाविशेषः, परिहृष्टरोमता = ऊद्धषित रोमाञ्चः । ५ अपरे पृथग्विधा उप-द्रवाः घ्राणधूमायनमन्थादयो विदेदोक्ताः । तथा च तद्वाक्यम् - - ' " पूर्वरूपाणि दृश्यन्ते प्रतिश्याये भविष्यति । घ्राणधूमायनं मन्थः क्षवथुस्तालुदारणम् । कण्ठध्वंसो मुखस्रावः शिरसः पूरणं तथा ॥ ” इति । प्रतिश्यायपुरस्सराः = प्रतिश्यायपूर्वरूपाणि । ६ वातजप्रतिश्यायस्य लक्षणमभिधत्ते - आनद्धेति । श्रनद्धा = श्रवबद्धा, पिहिता = सपिधानेव । ७ निस्तोदः = सूचीष्यधनवदूष्यथा, शङ्खयोः = भ्रूपुच्छान्त-योरित्यर्थः उष्ण इति । सपीतकः = ईष-। पित्तप्रतिश्यायलक्षणमाख्याति -पीतः । ९ अतिपाण्डुः = घूसरः । १० मानवः सधूमं वह्निमिव सहसाऽकस्माद् वम-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1162

सुश्रुत संहिता चौखम्बा, पृष्ठ 1162 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१००४ Digitized by Arya Samaj सुश्रुतसंहितायां pation Chennai and eGangotri [ अ ० २४

कफः कफकृते घ्राणाच्छुक्लः शीतः स्रवेन्मुहुः ।

शुक्लावभासः शूनाक्षो भवेद् गुरुशिरोमुखः ॥ ९ ॥

शिरोगलौष्ठतालूनां कण्डूयनमतीव च ।

भूत्वा भूत्वा प्रतिश्यायो योऽकस्माद्विनिवर्त्तते ॥ १० ॥

सम्पक्वो वाऽप्यपक्वो वा स सर्वप्रभवः स्मृतः ।

लिङ्गानि चैव सर्वेषां पीनसानां च सर्वजे ॥ ११ ॥

रक्तजे तु प्रतिश्याये रक्तास्रावः प्रवर्त्तते ।

ताम्राक्षश्च भवेज्जन्तुरुरोघातं प्रपीडितः ॥ १२ ॥

दुर्गन्धोच्छ्वासवदनस्तथा गन्धान्न वेत्ति च ।

मूर्च्छन्तिं चात्र कृमयः श्वेताः स्निग्धास्तथाऽणवः ॥ १३ ॥

कृमिमूर्द्धविकारेण समानं चास्य लक्षणम् ।

प्रक्लिद्यति पुनर्नासा पुनश्च परिशुष्यति ॥ १४ ॥

मुहुरानद्यते ५० चापि मुहुर्वित्रियते तथा ।

निःश्वासोच्छ्वासदौर्गन्ध्यं तथा गन्धान्न वेत्ति च ॥ १५ ॥

तीति सम्बन्धः । १ इलेष्मजप्रतिश्यायलक्षणं वक्ति - कफ इति । कफकृते प्रतिश्याये प्राणाच्छुक्लः शीतः कफो मुहुर्वारं वारं स्रवेदित्यर्थः । २ शुक्लावभासः = श्वेतवपुः, शूनाक्षः = उच्छूननयनः । ३ सान्निपातिकप्रतिश्यायस्य लक्षणं ब्रवीति - भूत्वेति । अकस्मात् = कारखं विनैवेत्यर्थः । ४ सर्वंजे प्रतिश्याये सर्वेषां वातजादीनां प्रतिश्यायानां पीनसानां लिङ्गानि भवन्तीति योजना । अत्र यद्यपि दोषत्रयलिङ्गानि नोक्तानि तथाऽपि सर्व-प्रभवत्वाज्ज्ञेयानि । असाध्योऽयं सान्निपातिक प्रतिश्यायः । तदुक्तं विदेहे - " नृणां दुष्ट-प्रतिश्यायस्त्वसाध्यः सर्वजः स्मृतः ” इति । ५ रक्तजप्रतिश्यायलक्षणमभिदधाति - रक्तज इति । ६ उरोधातस्तन्त्रान्तर-पठितः, तेन प्रकर्षेण पीडितः । तथथा – “ उरःक्षतमुरः स्तम्भः पूतिकर्णकफोरसः । सकासः सज्वरो ज्ञेय उरोघातः सपीनसः ॥ ” इति । ७ मूर्च्छन्ति = पतन्ति, अणवः क्रिमयः = सूक्ष्माः क्रिमयः । ८ कृमिमूर्धविकारेण = कृमिजशिरोरोगेगेत्यर्थः । तस्य लक्षणं— “ निस्तुद्यते यस्य शिरोऽतिमात्रम् " इत्यादिना वच्यमाणम् । ९ दुष्टप्रतिश्यायलक्षणमुद्दिशति - प्रक्लिद्यतीति । १० श्रानह्यते = विबध्यते,. वित्रियते = अविबद्धा भवति । क्लेदशोषविबन्धाविवृतत्वानि नेककालं भवन्ति, किन्तु CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1163

सुश्रुत संहिता चौखम्बा, पृष्ठ 1163 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३४ ] Digitized by Arya तर Chennai and eGangotri १००५

एवं दुष्टप्रतिश्यायं जानीयात् कृच्छ्रसाधन॑म् ।

सर्व एव प्रतिश्याया नरस्याप्रतिकारिणः ॥ १६ ॥

कालेन रोगजनना जायन्ते दुष्टपीनसाः ।

बाधिर्य्यमान्ध्यमघ्राणं घोरांच नयनामयान् ॥

कासाग्निसादशोफांश्च वृद्धाः कुवन्ति पीनसाः ॥ १७ ॥

जैव प्रतिश्यायमपास्य सर्वमुपाचरेत्सर्पिष एव पानैः ।

स्वेदैर्विचित्रैर्वमनैश्च युक्तः कालोपपन्नैरवपीडनैश्च ॥ १८ ॥

अपच्यमानस्य हि पाचनार्थं स्वेदो हितोऽम्लैरहिमं च भोज्यम् ।

निषेव्यमाणं । पयसाऽऽर्द्रकं वा संम्पाचयेदिक्षुविकारयोगः ॥ १ ९ ॥

पक्कं घनं चाप्यवलम्बमानं शिरोविरेकैरपकर्षेयेत्तम् ।

विरेचनास्थापनधूमपानैरवेक्ष्य दोषान् कवलग्रहैश्च ॥ २० ॥

निर्वार्तशय्यासनचेष्टनानि मूर्ध्वो गुरूष्णञ्च तथैव वासः ।

तीक्ष्णा विरेकाः शिरसः सधूमा रूक्षं यवान्नं विजया " च सेव्या ॥२१ ॥

" शीताम्बु योषिच्छिशिरावगाह चिन्ताऽतिरूक्षाशनवेगरोधान् ।

शोकञ्च मद्यानि नवानि चैव विवज्जयेत् पीनस रोगजुष्टः ॥ २२ ॥

यदा यदा यद्यद्दोषाधिक्यं भवति, तदा तदा तत्तद्दोषकृतः स स बोद्धव्य इति न ' विरोधः । १ कृच्छसाघनमसाध्यञ्च । २ प्रतिश्यायोपद्रवान्निर्दिशति - सर्व इति । अप्रतिकारिणः प्रतिक्रियामकुर्वतो - नरस्य सर्वे एव प्रतिश्यायाः कालेन कालान्तरेण रोगजनना भवन्ति, तथा ते एव प्रतिश्यायाः क्रमेण दुष्टपीनसा जायन्ते इति योज्यम् । ३ वृद्धाः प्रतिश्यायाः बाधिय दीनुपद्रवान् कुर्वन्तीत्यर्थः । ४ अथ प्रतिश्यायानां सामान्यं चिकित्सितमुपदिशति-नवमिति । नवं = सामम्, श्रपास्य परिहृत्येत्यर्थः । सर्वेषां प्रतिश्यायानां वाता-स्मकत्वाद् नवं प्रतिश्यायं परित्यज्य सर्वत्र सर्पिःपानमुपदिशति । ५ कालोपपन्नैः = कालयोग्यैरित्यर्थः । : -६ नवप्रतिश्याये पाचनमाह - अपच्येति । श्रहिमं भोज्यम् = उष्णं भोजनम् । ७ पयसा क्षीरेण इक्षुविकारयोगैर्गुडादिभिर्निषेव्यमाणमार्द्रकं सम्पाचयेति सम्बन्धः । = पंकप्रतिश्यायस्य निर्हरणमाख्याति - पक्वमिति । घनंसान्द्रम् । ९ पक्क तिश्याये सेव्यानि वर्णयति - निवातेति । चेष्टनं = क्रीडनम् । १० विजया = हरीतकीत्यर्थः । ११ प्रतिश्याये वर्ज्यानि निर्दिशति - शीतेति । शीताम्बु = शीतल-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1164

सुश्रुत संहिता चौखम्बा, पृष्ठ 1164 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१००६ by Arya Samaj सुश्रुतसंहिता nangotri छङ्गसादज्वर गौरवार्त्तमरोचकारत्यतिसारयुक्तम् । [ अ ० २४ विलङ्घनैः पाचनदीपनीयैरुपाचरेत् पीनसिनं यथावत् ॥ २३ ॥

द्रवैर्वातकफोपसृष्टं प्रच्छदयेत् पीनसिनं वयःस्थम् ।

उपद्रवांश्चापि यथोपदेशं स्वैर्भेषजैर्भोजनसंविधानैः ।

जयेद्विदित्वा मृदुतां गतेषु प्राग्लक्षणेपूक्तमथादिशेच्च ॥ २४ ॥

वातिके तु प्रतिश्याये पिबेत् सर्पिर्यथाक्रमम् ।

पञ्चभिर्लवणैः सिद्धं प्रथमेन गणेन च ॥ २५ ॥

नस्यादिषु विधिं कृत्स्नमवेक्षेतादितेरिर्तम् ।

पित्तरक्तोत्थयोः पेयं सर्पिर्मधुरकैः श्रुतम् ॥ २६ ॥

परिषेकान् प्रदेहांश्च कुर्यादपि च शीतलान् ।

श्री सर्जरसपत्तङ्गप्रियङ्गमधुशर्कराः ॥ २७ ॥

द्राक्षामधूलिकागोजी श्रीपर्णी मधुकैस्तथा । I I युज्यन्ते कवलाश्चात्र ' ' विरेको मधुरैरपि ॥ २८ ॥।

१ श्ववत्वक्त्रिफलाश्यामातिल्व कैर्मधुकेन च । जलम्, योषित् = स्त्री, शिशिरावगाह: - शिशिरत स्नानम्, बेगावरोधः = दीनां सन्धारणमित्यर्थः । • मलमूत्रा • १ सोपद्रवस्य पक्वप्रतिश्यायस्यावस्थिकं चिकित्सितं वक्ति - छर्दीति 1 । अरतिः = अनवस्थितचित्तत्वम्, ‘ स्वाभीष्टवस्त्वलाभेन चेतसो याऽनवस्थिति: । अरतिः सा इति । २ पक्वप्रतिश्याये वमनावस्थां दर्शयति- बह्निति । वयःस्थं तरुणम्, प्रच्छर्दयेत् । ३ प्राग्लक्षणेषु = शिरोगुरुत्वादिषु गलतालुवेदनासु च सर्वेषु पूर्वरूपेषु । ४ वातिक प्रतिश्यायचिकित्सामाख्याति - वातिक इति । यथाक्रमं = स्नेहपानक्रमेणेत्यर्थः । ५ प्रथमेन गणेन = विदारिगन्धादिगणेन । ६ श्रदितेरितम् = श्रदिंतचिकित्सितोक्तम् । ७ पैत्तिकरक्तोत्थप्रतिश्यायचिकित्सामाचष्टे - पित्तेति । मधुरकैः मधुरवर्गाभि हितैः काकोल्य । दिभिरित्यर्थः । ९ प्रदेद्दान् प्रलेपान् । ८ श्रीः = ' गुगुल ' इति । प्रथते । सर्जरसः = ‘ राल ' इति लोके । पत्तङ्गं = रक्तचन्दनम् । १० मधूलिका = ' गुडूची,. गोजी = गोजिह्वा, श्रीपण = गम्भारी, मधुकः = यष्टीमधु । ११ अत्र = पित्तरक्तकृतयोः प्रतिश्याययोः । मधुरैः = काकोल्यादिभिरित्यर्थः । १२ पित्तरक्तोत्थयोः प्रतिश्याययोर्नस्यार्थं तैलमुपदिशति - धवेति । घवत्वक् == CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1165

सुश्रुत संहिता चौखम्बा, पृष्ठ 1165 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २४ ] Digitized by Arya Sun Chennai and eGangotri श्रीपर्णीरजनीमिश्रैः क्षीरे दशगुणे पचेत् ॥ २ ९ ॥

' तैलं कालोपेपन ' तन्नस्यं स्यादनयोहितम् ।

कैफजे सर्पिषा स्निग्धं तिलमाषविपक्कया ॥ ३० ॥।

वाग्वा वामयेद्वान्तः कफघ्नं क्रममाचरेत् ।

उभे बले बृहत्यौ च विडङ्ग सत्रिकण्टकम् ॥ ३१ ॥

श्वेतामूलं सदाभंद्रां वर्षाभूचात्र संहरेत् ।

तैलमेभिर्विपक्वं तु नस्यमस्योपकल्पयेत् ॥ ३२ ॥

“ रला किणिही दारुनिकुम्भेदिभिः कृताः ।

वोपयोज्याः स्युर्धूमपानें यथाविधि ॥ ३३ ॥।

सर्पींषि कटुविक्तानि तीक्ष्णधूमाः कटूनि च ।

भेषजान्युपयुक्तानि हन्युः सर्वप्रकोपजम् ॥ ३४ ॥

रसाञ्जने सातिविषे मुस्तायां भद्रदारुणि ।

तैलं विपक्वं नत्यार्थे विदध्याच्चात्रं बुद्धिमान् ॥ ३५ ॥

मुस्ता " तेजोवती पाठा कट्फलं कटुका वचा ।

सर्षपाः पिप्पलीमूलं पिप्पल्यः सैन्धवाग्निकौ ॥ ३६ ॥

तुत्थं करञ्जबीजञ्च लवणं भद्रदारु च ।

एतैः कृतं कषायन्तु कवले सम्प्रयोजयेत् ॥ ३७ ॥

२००७ घववल्कलम्, श्यामा श्याममूला त्रिवृत, तिल्वकः = लोध्रः । १ घवत्वगादिकर कै-स्तैलचतुर्थीशैर्दशगुणे क्षीरे चतुर्गुणं जलमपि दत्वा तैलं पचेदित्यर्थः । २ कालोप पन्नं = नस्यकालयोग्यम्, अनयोः = रक्तपित्तोत्थयोः प्रतिश्याययोः । ३ श्लेष्मजप्रतिश्यायचिकित्सितं प्रतिपादयति - कफज इति । ४ यवाग्वा = कृसरया, वमनौषधमिश्रया वामयेत्, कफघ्नं क्रमम् = अन्नसंसर्जनाख्यम्, आचरेत् । ५ सत्रिकण्टकं = गोक्षुरकसहितम् । ६ सदाभद्रा - गम्भारी, हाराणचन्द्रस्तु - सदा-भद्रामित्यत्र ' सहां भद्राम् ' इति पाठं मत्वा सहा मुद्गपर्णी, भद्रा रास्ना, इति व्या. ख्याति कटभी, दारु = देवदारु, निकुम्भा = । ७ सरला = त्रिवृत्, किणिही दन्तीत्यर्थः । ८ सान्निपातिक प्रतिश्यायचिकित्सितमाख्याति — सर्पषीति । कटुतिक्तद्रव्यसिद्धानि । ९ श्रत्र = सान्निपातिकप्रतिश्याये । कटुतिक्तानि = १० सान्निपातिक CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1166

सुश्रुत संहिता चौखम्बा, पृष्ठ 1166 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१००८ by Arya Samaj F सुश्रुतसंहितायां Gangotri

हितं मूर्द्धविरेके च तैलमेभिर्विपाचितम् ।

चीरमर्द्धजले काथ्यं जाङ्गलैमृगपक्षिभिः ॥ ३८ ॥

पुष्पैर्विमिश्रं जलजैर्वातघ्नैरौषधैरपि । [ अ ० २४ हिमे क्षीरावशिष्टेऽस्मिन् घृतमुत्पाद्य यत्नतः ॥ ३ ९ ॥

सर्वगन्धसिताऽनन्तामधुकं चन्दनं तथा ।

आवाप्य विपचेद् भूयो दशतीरन्तु तद्घृतम् ॥। ४० ॥

नस्ये प्रयुक्तमुद्रिक्तान् प्रतिश्यायान् व्यपोहति ।

यथास्वं दोषशमनैस्तैलं कुर्य्याच्च यत्नतः । ४१ ॥

समूत्रपित्ताश्चद्दिष्टाः क्रियाः क्रमिषु योजयेत् ।

यापनार्थं कृमिघ्नानि भेषजानि च बुद्धिमान् ॥ ४२ ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे प्रतिश्यायप्रतिषेधो नाम चतुर्विंशतितमोऽध्यायः ॥ २४ ॥

प्रतिश्याये मुस्तादियोगं दर्शयति - मुस्तेति । तेजोवती = चविका । १ एभिर्मुस्ता • दिभिः कल्कीकृतैर्विपाचितं तैलं मूर्धविरेके शिरोविरेचने दितमित्यर्थः । २ सर्वप्रतिश्याये दशक्षीरं घृतमभिदधाति - क्षीरमिति । क्षीरं जाङ्गलैर्मृगपक्षि-भिरेणलावादिभिरष्टगुणम्, “ द्रव्यादष्टगुणं क्षीरं क्षीरात्तोयं चतुर्गुणम् ” इति यथध्य · स्ति, तथाऽप्यत्र क्षीरादर्थं जलं, जलजैः पुष्पैनीलोत्पलादिभिः, वातघ्नैः विदारीगन्धा-दिभिर्विमिश्रं कृत्वा, क्षीरावशिष्टे घृतमुत्पाद्य तद्दुग्धं सथित्वा सर्वगन्धा एलादिपरि-पठिताः, सिताः शर्कराः, श्रनन्ता उत्पलसारिवा, चन्दनं रक्तचन्दम्, आवाप्य प्रक्षि-ध्य, तदुद्घृतं क्षीरमथनादुत्पन्नं घृतं भूयो विपचेत् । ३ व्यपोहति = श्रपहरति । ४ रक्तप्रतिश्याये क्रिमिघ्नविधिमभिधत्ते - समूत्रेति । समूत्रपित्ता: = गोमूत्रपि-तयुक्ताः । ५ कृमिघ्नानि भेबजानि = सुरसादीनीत्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतशालाक्यतन्त्रे सुधाऽऽख्यटिप्पन्यां चतुर्विंशोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1167

सुश्रुत संहिता चौखम्बा, पृष्ठ 1167 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २५ ] Digitized by Arya Samaj Foundation Chennai and eGangotri १०० ९ उत्तरतन्त्र ation

पञ्चविंशतितमोऽध्यायः ।

अथातः शिरोरोगविज्ञानीयमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

शिरो रुजति मर्त्यानां वातपित्तकफैस्त्रिभिः ।

सन्निपातेन रक्तेन क्षयेण क्रिमिभिस्तथा ॥ ३ ॥

सूर्यावर्त्तानन्तवातार्द्धावभेदकशङ्खकैः ।

एकादशप्रकारस्य लक्षणं सम्प्रवक्ष्यते ॥ ४ ॥

यस्यानिमित्तं शिरसो रुजश्च भवन्ति तात्रा निशि चातिमात्रम् ।

चैन्धोपतापैश्च भवेद्विशेषः शिरोऽभितापः स समीरणेन ॥ 11

यस्योष्णं मङ्गारचितं यथैव दह्येत धूप्येत शिरोऽक्षिनासम् ।

शीतेन रात्रौ च भवेद्विशेषः शिरोऽभितापः स तु पित्तकोपात् ॥ ६ ॥

शिरोगलं यस्य कफोपदिग्धं गुरु प्रतिष्टब्धमथो हिमञ्च । पञ्चविंशतितमोऽध्यायः । २ शिरः संश्रितान् श्रवणादिगतरोगानभिधाय ऊजत्रुगत पारिशेष्यादाश्रयभूत-शिरोरोगविज्ञानीयमधिकरोति - अथेति 1 । शिरोरोगा एकादश । २ तत्रादौ शिरोरो-गाणां नामानि निर्दिशति - शिर इति 1 । शिरो रुजति मर्त्यानामित्यत्र शिरोरोगास्तु जायन्ते इति पाठान्तरम् । वातपित्तकफैरित्युक्तेस्त्रित्वबोधेऽपि पुनस्त्रिभिरिति पदं सर्वेषां शिरोरोगाणां सन्निप तजत्वख्यापनार्थम् । वातादिभेदश्चौरकय्यात् । तदुक्तम्— " सर्व एव शिरोरोगाः सन्निपातसमुत्थिताः । श्ररकटय [ दोषलिङ्गैस्ते कीर्तितास्वद्विदा दशः ॥ ” इति । ३ क्षयेण = रसादिक्षयेणेत्यर्थः । ४ वातिकशिरोरोगलक्षणमाख्याति - यस्येति । श्रनिमित्तम् = अतर्कित विप्रकृष्ट-निमित्तम्, निशि चातिमात्रं - रात्रौ शीतेन वायोराविक्यादत्यन्तं व्यथा भवति, वायोः शीतयोनित्वादिति तात्पर्यम् । ५_ बन्धः = वस्त्रादिभिर्बन्धनम्, उपतापः-स्वेदनम् । शिरोऽभितापः = शिरः पीडेत्यर्थः । ६ पैत्तिकशिरोरोगलक्षणमभिधत्ते— यस्योष्णमिति । अङ्गारचितं = ज्वलदङ्गाराच्छन्नमिवेत्यर्थः । धूप्येत = धूमपूर्णमिव भवेत्, शिरश्च श्रक्षि च नासा चेति शिरोऽक्षिनासम् । प्राण्यङ्गत्वादेकवद्भावः । ७ श्लेष्मजशिरोरोगलक्षणमभिदधाति - शिरोगलमिति । कफोपदिग्धम् = अन्तः— कफोपलिप्तम्, गुरु = भारयुतम्, प्रतिष्टब्धं = बद्धमित्र, हिमं = हिमस्पर्शम् । ६४ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1168

सुश्रुत संहिता चौखम्बा, पृष्ठ 1168 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०१० सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० २५ शूर्नाक्षिकूटं वदनञ्च यस्य शिरोऽभितापः स कफप्रकोपात् ॥ ७ ॥

शिरोऽभितापे त्रितयप्रवृत्ते सर्वाणि लिङ्गानि समुद्भवन्ति ।

रक्तात्मकः पित्तसमानलिङ्गः स्पर्शासहत्वं शिरसो भवेच्च ॥ ८ ॥

वसौबलासक्षतसम्भवानां शिरोगतानामिह सङ्क्षयेण ।

क्षयप्रवृत्तः शिरसोऽभितापः कष्टो भवेदुग्ररुजोऽतिमात्रम् ॥ ९ ॥

संस्वेर्दनच्छर्दनधूमनस्यैर सृग्विमोक्षैश्च विवृद्धिमेति ।

निस्तुद्यते यस्य शिरोऽतिमात्रं सम्मक्ष्यमाणं स्फुटतीव चान्तः ॥ १० ॥

घ्राणाच गच्छेत्सलिलं सरक्तं शिरोऽभितापः कृमिभिः स घोरः ।

सूर्योदयं या प्रतिमन्दमन्दमतिभ्रुवं रुक् समुपैति गाढम् ॥ ११ ॥

१ शूनाक्षिकूटं = शोथयुतनेत्रगोलकम् । २ सान्निपातिकशिरोरोगलक्षणं वक्ति-शिर इति । सर्वाणि लिङ्गानि = अनन्तरोक्तानि वातजादिलक्षणानि । “ वाताच्छूलं भ्रमः कम्पः पित्ताद्द्दाहो मदस्तृषा । कफाद् गुरुत्वं तन्द्रा च शिरोरोगे त्रिदोषजे ॥ ” इति चरकः । ३ रक्तजशिरोरोगलक्षणमुपदिशति - रक्तेति । स्पर्शासत्वमिति पैत्तिकशिरो. रोगाधिकं लक्षणं बोध्यम् । ४ क्षयजशिरोरोगस्य लक्षणमुद्दिशति - वसेति । वसा देहस्नेहस्योपलक्षणम्, तेन मेदोमज्जशुक्रमस्तिष्काण्यपि गृह्यन्ते । ५ कष्टः कष्ट. साध्य इत्यर्थः । उग्ररुजः = तीव्रवेदनः । ६ संस्वेदनच्छर्दनधूमनस्यैः कफक्षयः, नागरादितीव्रधूमेन वसामस्तिष्कादिक्षयः, सिरामोक्षादिभिरसृक्क्षयः । श्रत एव एतैः संस्वेदनादिभिः क्षयजस्य वृद्धिः । विदेहेऽपि - " भ्रमति तुद्यते शून्यं शिरो विभ्रान्त. नेत्रता । मूर्च्छा गात्रावसादश्च शिरोरोगे क्षयात्मके ॥ ” इति । " स्त्रीप्रसङ्गादभिघा-तादथवा देहकर्मणा । क्षिप्रं सञ्जायते कृच्छ्रः शिरोरोगः क्षयात्मकः । वातपित्तात्मकं लिङ्गं व्यामिश्रं तत्र लक्षयेत् ॥ ” इति चक्षुष्यः । - ७ क्रिमिजशिरोरोगलक्षणमाह - निस्तुद्यत इति । निस्तुद्यते = व्यथ्यते, सम्भ · क्ष्यमाणं = क्रिमिभिर्दश्यमानमित्यर्थः । स्फुटतीव = शीर्यत इत्र, स्फुरतीवेति पाठे मनाक् चलतीवेत्यर्थो बोध्यः ८ चकारेण क्रिमिनिर्गमोऽपि बोधयः । तदुक्तं चरके-" क्रिमिरोगातुरं विद्यात् क्रिमीणां दर्शनेन च " इति । ९ सूर्यावर्तलक्षणं प्रतिपादयति - सूर्योदयमिति । सूर्योदयं प्रति लक्षीकृत्य या रुक श्रक्षिभुवं समुपैतीति सम्बन्धः । प्रक्षिणी च भ्रुवौ चेत्यक्षिभ्रुवम् । प्राण्यङ्ग • त्वादेकवद्भावः । सूर्योदये प्रातर्मन्दं मन्दं यथा स्यात्तथा रुजां समुपैति, अंशुमता च सूर्येण सह गाढं यथा भवति तथा वर्धते । अर्थात् - यथा सूर्यो वर्धते तथा वेदना CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1169

सुश्रुत संहिता चौखम्बा, पृष्ठ 1169 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २५ ] Sanon Chennai a Digitized by Arya Samaj Foundation Chennai and eGangotri २०११

विवर्द्धते चांशुमता सहैव सूर्यावृत्तौ विनिवर्त्तते च ।

शीतेन शान्ति लभते कदाचिदुष्णेन जन्तुः सुखमाप्नुयाच्च ॥१२ ॥

तं भास्करावर्तमुदाहरन्ति सवोत्मकं कष्टतमं विकारम् ।

दोषस्तु दुष्टात्रय एव मन्यां सम्पीड्य घाटासु रुजां सुतीत्राम् ॥ १३ ॥

कुर्वन्ति साक्षिभुवि शङ्खदेशे स्थितिं करोत्याशु विशेषतस्तु ।

गण्डस्य पार्श्वे तु करोति कम्पं हनुग्रहं लोचनजांश्च रोगान् ॥ १४ ॥

अनन्तवातं तमुदाहरन्ति दोषत्रयोत्थं शिरसो विकारम् ।

यस्योत्तमाङ्गार्द्धमतीव जन्तो: सम्भेदतोदभ्रमशूलजुष्टम् ॥ १५ ॥

पक्षाद् दशाहादथवाऽप्यकस्मात्तस्यार्द्धभेदं त्रियाद्वयवस्येत् । प्रवृद्धा भवति, सूर्यस्यापवृत्तौ सायाह्ने विनिवर्तते शाम्यतीति । अत्र निमि: -- " सूर्य सो-मात्मकौ नित्यं स्वहेतू पित्तमारुतौ । कुर्वते वेदनां तीव्रां दिनात् पूर्वाह्न एव तु ॥ श्रा दिव्यतेजसा युक्ते निवृत्तेऽपि च भास्करे । स्रोतसां विवृतश्वाच्च ततः श्लेष्माऽधिगच्छ-ति ॥ उद्गतो मातरिश्वा च स्वमार्गे प्रतिपद्यते । तस्मान्मध्यदिनादूध वेदनाऽत्र प्रशा-म्यति ॥ " इति । १ सर्वात्मकं = सन्निपातजम् । विदेहे सूर्यावर्तविपर्ययोऽपि पठयते । तद्यथा— “ तत्र वातानुगं पित्तं चितं शिरसि तिष्ठति । मध्याह्ने तेजसाऽर्कस्य तद्विवृद्धं शिरोरुजम् ॥ करोति पैत्तिकीं घोरां संशाम्यति दिनक्षये । अस्तं गते प्रभाहीने सूर्ये वायुर्विवर्धते ॥ पित्तं शान्तिमवाप्नोति ततः शाम्यति वेदना । एष पित्तानिलकृतः सूर्यावर्तविपर्ययः ॥ ” इति । अयमत्र सूर्यावर्त एवान्तर्भावनीयः, चातुर्थिके चातुर्थिकविपर्ययवदिति श्रीकण्ठः । २ अनन्तवातलक्षणमभिदधाति - दोषास्त्विति । दुष्टा दोषास्त्रय एव मन्यां ग्रीवासिराद्वयं सम्पीड्य घाटासु ग्रीवापश्चाद्भागेषु सुतोत्रां रुजां कुर्वन्ति, योऽक्षिवि शङ्खदेशे च आशु स्थितिमारब्धत्वं विशेषतः करोति तथा यो गण्डस्य कपोलस्य पार्श्वे एकदेशे कम्पं हनुग्रहादिकं च करोति, तं दोषत्रयोत्थं शिरसो विकारमनन्तवातमुदा-हरन्तीति योजना | ३ अर्धावभेदलक्षणं ब्रवीति - यस्येति । उत्तमाङ्गार्थ = शिरोऽर्धम्, ' उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम् ' इत्यमरः । ४ त्रितयादित्यत्र द्वितयादिति पाठः । अत्र विदेहः - " शिरसोऽन्यतरे पार्श्वे कुपितो मारुतो यदा । श्लेष्मणा रुध्यते जन्तोस्तोदस्फुटनदालनैः ॥ शूलावदारणैर्गाढमर्थं तदवरुध्यते । नयनं चावदीर्येत सोऽ.. र्घ भेदः कफानिलात् ॥ तथा त्र्यहात् स पश्चाहात् पक्षान्मासाच्च देहिनाम् । ” इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1170

सुश्रुत संहिता चौखम्बा, पृष्ठ 1170 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०१२ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० २६ • शङ्खाश्रितो वायुरुदीर्णवेगः कृतानुयात्रः कफपित्तरक्तैः ॥ १६ ॥

रुजः सुतीब्राः प्रतनोति मूर्ध्नि विशेषतश्चापि हि शङ्खयोस्तु ।

सुकष्टमेनं खलु शङ्खकाख्यं महर्षयो वेदविदः पुराणाः ॥ १७ ॥

व्याधिं वदन्त्युद्गतमृत्युकैल्पं भिषक्सहस्रैरपि दुर्निवारम् ॥ १८ ॥

· इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे शिरोरोगविज्ञानीयो नाम पञ्चविंशोऽध्यायः ॥ २५ ॥

षडविंशतितमोऽध्यायः ।

अथातः शिरोरोगप्रतिषेधं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

वातव्याधिविधिः कार्य्यः शिरोरोगेऽनिलात्मके ।

पयोऽनुपानं सेवेत घृतं तैलमथापि वा ॥ ३ ॥

मुद्गान कुलत्थान्माषांश्च खादेच्च निशि केवलान् । १ शङ्खकलक्षणमभिदधाति - शङ्खेति । कफपित्तरक्तैः कृताऽनुयात्रा येन स कृतानुयात्रो वायुरिति सम्बन्धः । २ शङ्खयोः = भ्रूपुच्छान्तयोरित्यर्थः । ३ उद्गत-- मृत्युकल्पम् = उपस्थितमृत्युसदृशम् । अस्य व्याधेस्त्रिरात्राभ्यन्तरे विकल्पितासाध्य-त्वम्, त्रिरात्रात्परमसाध्यत्वम् । तथा च विदेह: - " चीयते तु सदा पित्तं शङ्खयोरनि-लाचितम् । निरुणद्धि ततो मर्म परिपूरितमुल्बणम् ॥ ततः शङ्खौ प्ररुज्येते दह्येत इव वह्निना । सूचीभिरिव तुद्येते निकृत्येत इवासिना ॥ शङ्खको नाम शिरसि व्याधिरेष: सुदारुणः । तृष्णामूर्च्छाज्वरकरस्त्रिरात्रात्परमन्तकृत् ॥ कुशलेन तूपक्रान्तस्त्रिरात्रादेव जीवति । " इति । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतशालाक्यतन्त्रे सुधाऽऽख्यटिप्पन्यां पञ्चविंशोऽध्यायः । षड्विंशतितमोऽध्यायः । ४ पूर्वाध्याये शिरोरोगविज्ञानमभिधाय तच्चिकित्सां प्रतिपादितुं शिरोरोगप्रतिषेध-अधिकरोति — अथेति । प्रतिषेधः - चिकित्सितमित्यर्थः । ५ वातिकशिरोरोग चि. " कित्सां दर्शयति - वातेति । वातव्याधिविधिः स्नेहस्वेदाभ्यङ्गपरिषेकादिबाह्यः, स्नेह-CC - 0. Gurukul Kangri Collection, Haridwar