सुश्रुत संहिता चौखम्बा — पृष्ठ 1161–1170
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1161–1170
पृष्ठ 1161
पाठ पढ़ें पाठ छिपाएँ
30. अ ० २४ ] Digitized by Arya Separation Chennai and eGangotri १००३
नारीप्रसङ्गः शिरसोऽभितापो धूमो रजः शीतमतिप्रतापः ।
सन्धारणं मूत्रपुरीषयोश्च सद्यः प्रतिश्यायनिदानमुक्तम् ॥ ३ ॥
चयङ्गता मूर्द्धनि मारुतादयः पृथक् समस्ताश्च तथैव शोणितम् ।
प्रकोप्यमाणा विविधैः प्रकोपणैर्नृणां प्रतिश्यायकरा भवन्ति हि ॥ ४ ॥
शिरोर्गुरुत्वं क्षवथोः प्रवर्त्तनं तथाऽङ्गमर्दः परिहृष्टरोमता ।
उपद्रवाञ्चाप्यपरे पृथग्विधा नृणां प्रतिश्यायपुरःसराः स्मृताः ॥५ ॥
श्रद्धा पिहिता नासा तनुस्रावप्रवर्त्तिनी ।
गलताल्वोष्ठशोषश्च निस्तोदः शङ्खयोस्तथा ॥ ६ ॥
स्वरोपघातश्च भवेत् प्रतिश्यायेऽनिलात्मके ।
उष्णः सपीतकः स्रावो नारणात् स्रवति पैत्तिके ॥ ७ ॥
कृशोऽतिपाण्डुः सन्तप्तो भवेत् तृष्णानिपीडितः ।
सधूमं सहसा वह्निं वमतीव च मानवः ॥ ८ ॥
यत्र स प्रतिश्यायः । तथा च चरकः - " घ्रागमूले स्थितः श्लेष्मा रुधिरं पित्तमेव च । मारुताध्मातशिरसः इयायते मारुतं प्रति । प्रतिश्यायस्ततो घोरो जायते देहकर्षणः ॥ ” इति । २ प्रतिश्यायस्य निदानं द्विविधं - सधोजनकम्, अपरं चयादिक्रमेण कालान्तर-जनकम्, तत्र प्राक् सद्योजनकनिदानमाह - नारीति । नारीष्वतिशयेन प्रवृत्तिर्नारी-प्रसङ्गः, शिरोऽभितप्यते येन स शिरोऽभितापो धूमादिः, रजो धूलिः, नासाप्रविष्टं हेतुः । २ चयादिकमनिदानमुपदिशति - चयङ्गता इति । चयं गताःस्वे स्वे स्थाने सचयं प्राप्ताः, चयादिक्रमो यथा - निदानात् सञ्चयः, सञ्चयात् प्रकोप, प्रको-25 पात् प्रसरः, प्रसरात् स्थानसंश्रयः, सश्रयाद् व्यक्तिः, ततो भेद इति । ३ विविधेः प्रकोपणैः = बलवद्विग्रह दिवास्वप्नादिभिरित्यर्थः । ४ प्रतिश्यायस्य पूर्वरूपं निर्दिशति - शिरोगुरुत्वमिति । क्षवथो: = छिक्कायाः, अङ्गमर्दो वेदनाविशेषः, परिहृष्टरोमता = ऊद्धषित रोमाञ्चः । ५ अपरे पृथग्विधा उप-द्रवाः घ्राणधूमायनमन्थादयो विदेदोक्ताः । तथा च तद्वाक्यम् - - ' " पूर्वरूपाणि दृश्यन्ते प्रतिश्याये भविष्यति । घ्राणधूमायनं मन्थः क्षवथुस्तालुदारणम् । कण्ठध्वंसो मुखस्रावः शिरसः पूरणं तथा ॥ ” इति । प्रतिश्यायपुरस्सराः = प्रतिश्यायपूर्वरूपाणि । ६ वातजप्रतिश्यायस्य लक्षणमभिधत्ते - आनद्धेति । श्रनद्धा = श्रवबद्धा, पिहिता = सपिधानेव । ७ निस्तोदः = सूचीष्यधनवदूष्यथा, शङ्खयोः = भ्रूपुच्छान्त-योरित्यर्थः उष्ण इति । सपीतकः = ईष-। पित्तप्रतिश्यायलक्षणमाख्याति -पीतः । ९ अतिपाण्डुः = घूसरः । १० मानवः सधूमं वह्निमिव सहसाऽकस्माद् वम-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1162
पाठ पढ़ें पाठ छिपाएँ
१००४ Digitized by Arya Samaj सुश्रुतसंहितायां pation Chennai and eGangotri [ अ ० २४
कफः कफकृते घ्राणाच्छुक्लः शीतः स्रवेन्मुहुः ।
शुक्लावभासः शूनाक्षो भवेद् गुरुशिरोमुखः ॥ ९ ॥
शिरोगलौष्ठतालूनां कण्डूयनमतीव च ।
भूत्वा भूत्वा प्रतिश्यायो योऽकस्माद्विनिवर्त्तते ॥ १० ॥
सम्पक्वो वाऽप्यपक्वो वा स सर्वप्रभवः स्मृतः ।
लिङ्गानि चैव सर्वेषां पीनसानां च सर्वजे ॥ ११ ॥
रक्तजे तु प्रतिश्याये रक्तास्रावः प्रवर्त्तते ।
ताम्राक्षश्च भवेज्जन्तुरुरोघातं प्रपीडितः ॥ १२ ॥
दुर्गन्धोच्छ्वासवदनस्तथा गन्धान्न वेत्ति च ।
मूर्च्छन्तिं चात्र कृमयः श्वेताः स्निग्धास्तथाऽणवः ॥ १३ ॥
कृमिमूर्द्धविकारेण समानं चास्य लक्षणम् ।
प्रक्लिद्यति पुनर्नासा पुनश्च परिशुष्यति ॥ १४ ॥
मुहुरानद्यते ५० चापि मुहुर्वित्रियते तथा ।
निःश्वासोच्छ्वासदौर्गन्ध्यं तथा गन्धान्न वेत्ति च ॥ १५ ॥
तीति सम्बन्धः । १ इलेष्मजप्रतिश्यायलक्षणं वक्ति - कफ इति । कफकृते प्रतिश्याये प्राणाच्छुक्लः शीतः कफो मुहुर्वारं वारं स्रवेदित्यर्थः । २ शुक्लावभासः = श्वेतवपुः, शूनाक्षः = उच्छूननयनः । ३ सान्निपातिकप्रतिश्यायस्य लक्षणं ब्रवीति - भूत्वेति । अकस्मात् = कारखं विनैवेत्यर्थः । ४ सर्वंजे प्रतिश्याये सर्वेषां वातजादीनां प्रतिश्यायानां पीनसानां लिङ्गानि भवन्तीति योजना । अत्र यद्यपि दोषत्रयलिङ्गानि नोक्तानि तथाऽपि सर्व-प्रभवत्वाज्ज्ञेयानि । असाध्योऽयं सान्निपातिक प्रतिश्यायः । तदुक्तं विदेहे - " नृणां दुष्ट-प्रतिश्यायस्त्वसाध्यः सर्वजः स्मृतः ” इति । ५ रक्तजप्रतिश्यायलक्षणमभिदधाति - रक्तज इति । ६ उरोधातस्तन्त्रान्तर-पठितः, तेन प्रकर्षेण पीडितः । तथथा – “ उरःक्षतमुरः स्तम्भः पूतिकर्णकफोरसः । सकासः सज्वरो ज्ञेय उरोघातः सपीनसः ॥ ” इति । ७ मूर्च्छन्ति = पतन्ति, अणवः क्रिमयः = सूक्ष्माः क्रिमयः । ८ कृमिमूर्धविकारेण = कृमिजशिरोरोगेगेत्यर्थः । तस्य लक्षणं— “ निस्तुद्यते यस्य शिरोऽतिमात्रम् " इत्यादिना वच्यमाणम् । ९ दुष्टप्रतिश्यायलक्षणमुद्दिशति - प्रक्लिद्यतीति । १० श्रानह्यते = विबध्यते,. वित्रियते = अविबद्धा भवति । क्लेदशोषविबन्धाविवृतत्वानि नेककालं भवन्ति, किन्तु CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1163
पाठ पढ़ें पाठ छिपाएँ
अ ० ३४ ] Digitized by Arya तर Chennai and eGangotri १००५
एवं दुष्टप्रतिश्यायं जानीयात् कृच्छ्रसाधन॑म् ।
सर्व एव प्रतिश्याया नरस्याप्रतिकारिणः ॥ १६ ॥
कालेन रोगजनना जायन्ते दुष्टपीनसाः ।
बाधिर्य्यमान्ध्यमघ्राणं घोरांच नयनामयान् ॥
कासाग्निसादशोफांश्च वृद्धाः कुवन्ति पीनसाः ॥ १७ ॥
जैव प्रतिश्यायमपास्य सर्वमुपाचरेत्सर्पिष एव पानैः ।
स्वेदैर्विचित्रैर्वमनैश्च युक्तः कालोपपन्नैरवपीडनैश्च ॥ १८ ॥
अपच्यमानस्य हि पाचनार्थं स्वेदो हितोऽम्लैरहिमं च भोज्यम् ।
निषेव्यमाणं । पयसाऽऽर्द्रकं वा संम्पाचयेदिक्षुविकारयोगः ॥ १ ९ ॥
पक्कं घनं चाप्यवलम्बमानं शिरोविरेकैरपकर्षेयेत्तम् ।
विरेचनास्थापनधूमपानैरवेक्ष्य दोषान् कवलग्रहैश्च ॥ २० ॥
निर्वार्तशय्यासनचेष्टनानि मूर्ध्वो गुरूष्णञ्च तथैव वासः ।
तीक्ष्णा विरेकाः शिरसः सधूमा रूक्षं यवान्नं विजया " च सेव्या ॥२१ ॥
" शीताम्बु योषिच्छिशिरावगाह चिन्ताऽतिरूक्षाशनवेगरोधान् ।
शोकञ्च मद्यानि नवानि चैव विवज्जयेत् पीनस रोगजुष्टः ॥ २२ ॥
यदा यदा यद्यद्दोषाधिक्यं भवति, तदा तदा तत्तद्दोषकृतः स स बोद्धव्य इति न ' विरोधः । १ कृच्छसाघनमसाध्यञ्च । २ प्रतिश्यायोपद्रवान्निर्दिशति - सर्व इति । अप्रतिकारिणः प्रतिक्रियामकुर्वतो - नरस्य सर्वे एव प्रतिश्यायाः कालेन कालान्तरेण रोगजनना भवन्ति, तथा ते एव प्रतिश्यायाः क्रमेण दुष्टपीनसा जायन्ते इति योज्यम् । ३ वृद्धाः प्रतिश्यायाः बाधिय दीनुपद्रवान् कुर्वन्तीत्यर्थः । ४ अथ प्रतिश्यायानां सामान्यं चिकित्सितमुपदिशति-नवमिति । नवं = सामम्, श्रपास्य परिहृत्येत्यर्थः । सर्वेषां प्रतिश्यायानां वाता-स्मकत्वाद् नवं प्रतिश्यायं परित्यज्य सर्वत्र सर्पिःपानमुपदिशति । ५ कालोपपन्नैः = कालयोग्यैरित्यर्थः । : -६ नवप्रतिश्याये पाचनमाह - अपच्येति । श्रहिमं भोज्यम् = उष्णं भोजनम् । ७ पयसा क्षीरेण इक्षुविकारयोगैर्गुडादिभिर्निषेव्यमाणमार्द्रकं सम्पाचयेति सम्बन्धः । = पंकप्रतिश्यायस्य निर्हरणमाख्याति - पक्वमिति । घनंसान्द्रम् । ९ पक्क तिश्याये सेव्यानि वर्णयति - निवातेति । चेष्टनं = क्रीडनम् । १० विजया = हरीतकीत्यर्थः । ११ प्रतिश्याये वर्ज्यानि निर्दिशति - शीतेति । शीताम्बु = शीतल-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1164
पाठ पढ़ें पाठ छिपाएँ
१००६ by Arya Samaj सुश्रुतसंहिता nangotri छङ्गसादज्वर गौरवार्त्तमरोचकारत्यतिसारयुक्तम् । [ अ ० २४ विलङ्घनैः पाचनदीपनीयैरुपाचरेत् पीनसिनं यथावत् ॥ २३ ॥
द्रवैर्वातकफोपसृष्टं प्रच्छदयेत् पीनसिनं वयःस्थम् ।
उपद्रवांश्चापि यथोपदेशं स्वैर्भेषजैर्भोजनसंविधानैः ।
जयेद्विदित्वा मृदुतां गतेषु प्राग्लक्षणेपूक्तमथादिशेच्च ॥ २४ ॥
वातिके तु प्रतिश्याये पिबेत् सर्पिर्यथाक्रमम् ।
पञ्चभिर्लवणैः सिद्धं प्रथमेन गणेन च ॥ २५ ॥
नस्यादिषु विधिं कृत्स्नमवेक्षेतादितेरिर्तम् ।
पित्तरक्तोत्थयोः पेयं सर्पिर्मधुरकैः श्रुतम् ॥ २६ ॥
परिषेकान् प्रदेहांश्च कुर्यादपि च शीतलान् ।
श्री सर्जरसपत्तङ्गप्रियङ्गमधुशर्कराः ॥ २७ ॥
द्राक्षामधूलिकागोजी श्रीपर्णी मधुकैस्तथा । I I युज्यन्ते कवलाश्चात्र ' ' विरेको मधुरैरपि ॥ २८ ॥।
१ श्ववत्वक्त्रिफलाश्यामातिल्व कैर्मधुकेन च । जलम्, योषित् = स्त्री, शिशिरावगाह: - शिशिरत स्नानम्, बेगावरोधः = दीनां सन्धारणमित्यर्थः । • मलमूत्रा • १ सोपद्रवस्य पक्वप्रतिश्यायस्यावस्थिकं चिकित्सितं वक्ति - छर्दीति 1 । अरतिः = अनवस्थितचित्तत्वम्, ‘ स्वाभीष्टवस्त्वलाभेन चेतसो याऽनवस्थिति: । अरतिः सा इति । २ पक्वप्रतिश्याये वमनावस्थां दर्शयति- बह्निति । वयःस्थं तरुणम्, प्रच्छर्दयेत् । ३ प्राग्लक्षणेषु = शिरोगुरुत्वादिषु गलतालुवेदनासु च सर्वेषु पूर्वरूपेषु । ४ वातिक प्रतिश्यायचिकित्सामाख्याति - वातिक इति । यथाक्रमं = स्नेहपानक्रमेणेत्यर्थः । ५ प्रथमेन गणेन = विदारिगन्धादिगणेन । ६ श्रदितेरितम् = श्रदिंतचिकित्सितोक्तम् । ७ पैत्तिकरक्तोत्थप्रतिश्यायचिकित्सामाचष्टे - पित्तेति । मधुरकैः मधुरवर्गाभि हितैः काकोल्य । दिभिरित्यर्थः । ९ प्रदेद्दान् प्रलेपान् । ८ श्रीः = ' गुगुल ' इति । प्रथते । सर्जरसः = ‘ राल ' इति लोके । पत्तङ्गं = रक्तचन्दनम् । १० मधूलिका = ' गुडूची,. गोजी = गोजिह्वा, श्रीपण = गम्भारी, मधुकः = यष्टीमधु । ११ अत्र = पित्तरक्तकृतयोः प्रतिश्याययोः । मधुरैः = काकोल्यादिभिरित्यर्थः । १२ पित्तरक्तोत्थयोः प्रतिश्याययोर्नस्यार्थं तैलमुपदिशति - धवेति । घवत्वक् == CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1165
पाठ पढ़ें पाठ छिपाएँ
अ ० २४ ] Digitized by Arya Sun Chennai and eGangotri श्रीपर्णीरजनीमिश्रैः क्षीरे दशगुणे पचेत् ॥ २ ९ ॥
' तैलं कालोपेपन ' तन्नस्यं स्यादनयोहितम् ।
कैफजे सर्पिषा स्निग्धं तिलमाषविपक्कया ॥ ३० ॥।
वाग्वा वामयेद्वान्तः कफघ्नं क्रममाचरेत् ।
उभे बले बृहत्यौ च विडङ्ग सत्रिकण्टकम् ॥ ३१ ॥
श्वेतामूलं सदाभंद्रां वर्षाभूचात्र संहरेत् ।
तैलमेभिर्विपक्वं तु नस्यमस्योपकल्पयेत् ॥ ३२ ॥
“ रला किणिही दारुनिकुम्भेदिभिः कृताः ।
वोपयोज्याः स्युर्धूमपानें यथाविधि ॥ ३३ ॥।
सर्पींषि कटुविक्तानि तीक्ष्णधूमाः कटूनि च ।
भेषजान्युपयुक्तानि हन्युः सर्वप्रकोपजम् ॥ ३४ ॥
रसाञ्जने सातिविषे मुस्तायां भद्रदारुणि ।
तैलं विपक्वं नत्यार्थे विदध्याच्चात्रं बुद्धिमान् ॥ ३५ ॥
मुस्ता " तेजोवती पाठा कट्फलं कटुका वचा ।
सर्षपाः पिप्पलीमूलं पिप्पल्यः सैन्धवाग्निकौ ॥ ३६ ॥
तुत्थं करञ्जबीजञ्च लवणं भद्रदारु च ।
एतैः कृतं कषायन्तु कवले सम्प्रयोजयेत् ॥ ३७ ॥
२००७ घववल्कलम्, श्यामा श्याममूला त्रिवृत, तिल्वकः = लोध्रः । १ घवत्वगादिकर कै-स्तैलचतुर्थीशैर्दशगुणे क्षीरे चतुर्गुणं जलमपि दत्वा तैलं पचेदित्यर्थः । २ कालोप पन्नं = नस्यकालयोग्यम्, अनयोः = रक्तपित्तोत्थयोः प्रतिश्याययोः । ३ श्लेष्मजप्रतिश्यायचिकित्सितं प्रतिपादयति - कफज इति । ४ यवाग्वा = कृसरया, वमनौषधमिश्रया वामयेत्, कफघ्नं क्रमम् = अन्नसंसर्जनाख्यम्, आचरेत् । ५ सत्रिकण्टकं = गोक्षुरकसहितम् । ६ सदाभद्रा - गम्भारी, हाराणचन्द्रस्तु - सदा-भद्रामित्यत्र ' सहां भद्राम् ' इति पाठं मत्वा सहा मुद्गपर्णी, भद्रा रास्ना, इति व्या. ख्याति कटभी, दारु = देवदारु, निकुम्भा = । ७ सरला = त्रिवृत्, किणिही दन्तीत्यर्थः । ८ सान्निपातिक प्रतिश्यायचिकित्सितमाख्याति — सर्पषीति । कटुतिक्तद्रव्यसिद्धानि । ९ श्रत्र = सान्निपातिकप्रतिश्याये । कटुतिक्तानि = १० सान्निपातिक CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1166
पाठ पढ़ें पाठ छिपाएँ
१००८ by Arya Samaj F सुश्रुतसंहितायां Gangotri
हितं मूर्द्धविरेके च तैलमेभिर्विपाचितम् ।
चीरमर्द्धजले काथ्यं जाङ्गलैमृगपक्षिभिः ॥ ३८ ॥
पुष्पैर्विमिश्रं जलजैर्वातघ्नैरौषधैरपि । [ अ ० २४ हिमे क्षीरावशिष्टेऽस्मिन् घृतमुत्पाद्य यत्नतः ॥ ३ ९ ॥
सर्वगन्धसिताऽनन्तामधुकं चन्दनं तथा ।
आवाप्य विपचेद् भूयो दशतीरन्तु तद्घृतम् ॥। ४० ॥
नस्ये प्रयुक्तमुद्रिक्तान् प्रतिश्यायान् व्यपोहति ।
यथास्वं दोषशमनैस्तैलं कुर्य्याच्च यत्नतः । ४१ ॥
समूत्रपित्ताश्चद्दिष्टाः क्रियाः क्रमिषु योजयेत् ।
यापनार्थं कृमिघ्नानि भेषजानि च बुद्धिमान् ॥ ४२ ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे प्रतिश्यायप्रतिषेधो नाम चतुर्विंशतितमोऽध्यायः ॥ २४ ॥
प्रतिश्याये मुस्तादियोगं दर्शयति - मुस्तेति । तेजोवती = चविका । १ एभिर्मुस्ता • दिभिः कल्कीकृतैर्विपाचितं तैलं मूर्धविरेके शिरोविरेचने दितमित्यर्थः । २ सर्वप्रतिश्याये दशक्षीरं घृतमभिदधाति - क्षीरमिति । क्षीरं जाङ्गलैर्मृगपक्षि-भिरेणलावादिभिरष्टगुणम्, “ द्रव्यादष्टगुणं क्षीरं क्षीरात्तोयं चतुर्गुणम् ” इति यथध्य · स्ति, तथाऽप्यत्र क्षीरादर्थं जलं, जलजैः पुष्पैनीलोत्पलादिभिः, वातघ्नैः विदारीगन्धा-दिभिर्विमिश्रं कृत्वा, क्षीरावशिष्टे घृतमुत्पाद्य तद्दुग्धं सथित्वा सर्वगन्धा एलादिपरि-पठिताः, सिताः शर्कराः, श्रनन्ता उत्पलसारिवा, चन्दनं रक्तचन्दम्, आवाप्य प्रक्षि-ध्य, तदुद्घृतं क्षीरमथनादुत्पन्नं घृतं भूयो विपचेत् । ३ व्यपोहति = श्रपहरति । ४ रक्तप्रतिश्याये क्रिमिघ्नविधिमभिधत्ते - समूत्रेति । समूत्रपित्ता: = गोमूत्रपि-तयुक्ताः । ५ कृमिघ्नानि भेबजानि = सुरसादीनीत्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतशालाक्यतन्त्रे सुधाऽऽख्यटिप्पन्यां चतुर्विंशोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1167
पाठ पढ़ें पाठ छिपाएँ
अ ० २५ ] Digitized by Arya Samaj Foundation Chennai and eGangotri १०० ९ उत्तरतन्त्र ation
पञ्चविंशतितमोऽध्यायः ।
अथातः शिरोरोगविज्ञानीयमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
शिरो रुजति मर्त्यानां वातपित्तकफैस्त्रिभिः ।
सन्निपातेन रक्तेन क्षयेण क्रिमिभिस्तथा ॥ ३ ॥
सूर्यावर्त्तानन्तवातार्द्धावभेदकशङ्खकैः ।
एकादशप्रकारस्य लक्षणं सम्प्रवक्ष्यते ॥ ४ ॥
यस्यानिमित्तं शिरसो रुजश्च भवन्ति तात्रा निशि चातिमात्रम् ।
चैन्धोपतापैश्च भवेद्विशेषः शिरोऽभितापः स समीरणेन ॥ 11
यस्योष्णं मङ्गारचितं यथैव दह्येत धूप्येत शिरोऽक्षिनासम् ।
शीतेन रात्रौ च भवेद्विशेषः शिरोऽभितापः स तु पित्तकोपात् ॥ ६ ॥
शिरोगलं यस्य कफोपदिग्धं गुरु प्रतिष्टब्धमथो हिमञ्च । पञ्चविंशतितमोऽध्यायः । २ शिरः संश्रितान् श्रवणादिगतरोगानभिधाय ऊजत्रुगत पारिशेष्यादाश्रयभूत-शिरोरोगविज्ञानीयमधिकरोति - अथेति 1 । शिरोरोगा एकादश । २ तत्रादौ शिरोरो-गाणां नामानि निर्दिशति - शिर इति 1 । शिरो रुजति मर्त्यानामित्यत्र शिरोरोगास्तु जायन्ते इति पाठान्तरम् । वातपित्तकफैरित्युक्तेस्त्रित्वबोधेऽपि पुनस्त्रिभिरिति पदं सर्वेषां शिरोरोगाणां सन्निप तजत्वख्यापनार्थम् । वातादिभेदश्चौरकय्यात् । तदुक्तम्— " सर्व एव शिरोरोगाः सन्निपातसमुत्थिताः । श्ररकटय [ दोषलिङ्गैस्ते कीर्तितास्वद्विदा दशः ॥ ” इति । ३ क्षयेण = रसादिक्षयेणेत्यर्थः । ४ वातिकशिरोरोगलक्षणमाख्याति - यस्येति । श्रनिमित्तम् = अतर्कित विप्रकृष्ट-निमित्तम्, निशि चातिमात्रं - रात्रौ शीतेन वायोराविक्यादत्यन्तं व्यथा भवति, वायोः शीतयोनित्वादिति तात्पर्यम् । ५_ बन्धः = वस्त्रादिभिर्बन्धनम्, उपतापः-स्वेदनम् । शिरोऽभितापः = शिरः पीडेत्यर्थः । ६ पैत्तिकशिरोरोगलक्षणमभिधत्ते— यस्योष्णमिति । अङ्गारचितं = ज्वलदङ्गाराच्छन्नमिवेत्यर्थः । धूप्येत = धूमपूर्णमिव भवेत्, शिरश्च श्रक्षि च नासा चेति शिरोऽक्षिनासम् । प्राण्यङ्गत्वादेकवद्भावः । ७ श्लेष्मजशिरोरोगलक्षणमभिदधाति - शिरोगलमिति । कफोपदिग्धम् = अन्तः— कफोपलिप्तम्, गुरु = भारयुतम्, प्रतिष्टब्धं = बद्धमित्र, हिमं = हिमस्पर्शम् । ६४ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1168
पाठ पढ़ें पाठ छिपाएँ
१०१० सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० २५ शूर्नाक्षिकूटं वदनञ्च यस्य शिरोऽभितापः स कफप्रकोपात् ॥ ७ ॥
शिरोऽभितापे त्रितयप्रवृत्ते सर्वाणि लिङ्गानि समुद्भवन्ति ।
रक्तात्मकः पित्तसमानलिङ्गः स्पर्शासहत्वं शिरसो भवेच्च ॥ ८ ॥
वसौबलासक्षतसम्भवानां शिरोगतानामिह सङ्क्षयेण ।
क्षयप्रवृत्तः शिरसोऽभितापः कष्टो भवेदुग्ररुजोऽतिमात्रम् ॥ ९ ॥
संस्वेर्दनच्छर्दनधूमनस्यैर सृग्विमोक्षैश्च विवृद्धिमेति ।
निस्तुद्यते यस्य शिरोऽतिमात्रं सम्मक्ष्यमाणं स्फुटतीव चान्तः ॥ १० ॥
घ्राणाच गच्छेत्सलिलं सरक्तं शिरोऽभितापः कृमिभिः स घोरः ।
सूर्योदयं या प्रतिमन्दमन्दमतिभ्रुवं रुक् समुपैति गाढम् ॥ ११ ॥
१ शूनाक्षिकूटं = शोथयुतनेत्रगोलकम् । २ सान्निपातिकशिरोरोगलक्षणं वक्ति-शिर इति । सर्वाणि लिङ्गानि = अनन्तरोक्तानि वातजादिलक्षणानि । “ वाताच्छूलं भ्रमः कम्पः पित्ताद्द्दाहो मदस्तृषा । कफाद् गुरुत्वं तन्द्रा च शिरोरोगे त्रिदोषजे ॥ ” इति चरकः । ३ रक्तजशिरोरोगलक्षणमुपदिशति - रक्तेति । स्पर्शासत्वमिति पैत्तिकशिरो. रोगाधिकं लक्षणं बोध्यम् । ४ क्षयजशिरोरोगस्य लक्षणमुद्दिशति - वसेति । वसा देहस्नेहस्योपलक्षणम्, तेन मेदोमज्जशुक्रमस्तिष्काण्यपि गृह्यन्ते । ५ कष्टः कष्ट. साध्य इत्यर्थः । उग्ररुजः = तीव्रवेदनः । ६ संस्वेदनच्छर्दनधूमनस्यैः कफक्षयः, नागरादितीव्रधूमेन वसामस्तिष्कादिक्षयः, सिरामोक्षादिभिरसृक्क्षयः । श्रत एव एतैः संस्वेदनादिभिः क्षयजस्य वृद्धिः । विदेहेऽपि - " भ्रमति तुद्यते शून्यं शिरो विभ्रान्त. नेत्रता । मूर्च्छा गात्रावसादश्च शिरोरोगे क्षयात्मके ॥ ” इति । " स्त्रीप्रसङ्गादभिघा-तादथवा देहकर्मणा । क्षिप्रं सञ्जायते कृच्छ्रः शिरोरोगः क्षयात्मकः । वातपित्तात्मकं लिङ्गं व्यामिश्रं तत्र लक्षयेत् ॥ ” इति चक्षुष्यः । - ७ क्रिमिजशिरोरोगलक्षणमाह - निस्तुद्यत इति । निस्तुद्यते = व्यथ्यते, सम्भ · क्ष्यमाणं = क्रिमिभिर्दश्यमानमित्यर्थः । स्फुटतीव = शीर्यत इत्र, स्फुरतीवेति पाठे मनाक् चलतीवेत्यर्थो बोध्यः ८ चकारेण क्रिमिनिर्गमोऽपि बोधयः । तदुक्तं चरके-" क्रिमिरोगातुरं विद्यात् क्रिमीणां दर्शनेन च " इति । ९ सूर्यावर्तलक्षणं प्रतिपादयति - सूर्योदयमिति । सूर्योदयं प्रति लक्षीकृत्य या रुक श्रक्षिभुवं समुपैतीति सम्बन्धः । प्रक्षिणी च भ्रुवौ चेत्यक्षिभ्रुवम् । प्राण्यङ्ग • त्वादेकवद्भावः । सूर्योदये प्रातर्मन्दं मन्दं यथा स्यात्तथा रुजां समुपैति, अंशुमता च सूर्येण सह गाढं यथा भवति तथा वर्धते । अर्थात् - यथा सूर्यो वर्धते तथा वेदना CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1169
पाठ पढ़ें पाठ छिपाएँ
अ ० २५ ] Sanon Chennai a Digitized by Arya Samaj Foundation Chennai and eGangotri २०११
विवर्द्धते चांशुमता सहैव सूर्यावृत्तौ विनिवर्त्तते च ।
शीतेन शान्ति लभते कदाचिदुष्णेन जन्तुः सुखमाप्नुयाच्च ॥१२ ॥
तं भास्करावर्तमुदाहरन्ति सवोत्मकं कष्टतमं विकारम् ।
दोषस्तु दुष्टात्रय एव मन्यां सम्पीड्य घाटासु रुजां सुतीत्राम् ॥ १३ ॥
कुर्वन्ति साक्षिभुवि शङ्खदेशे स्थितिं करोत्याशु विशेषतस्तु ।
गण्डस्य पार्श्वे तु करोति कम्पं हनुग्रहं लोचनजांश्च रोगान् ॥ १४ ॥
अनन्तवातं तमुदाहरन्ति दोषत्रयोत्थं शिरसो विकारम् ।
यस्योत्तमाङ्गार्द्धमतीव जन्तो: सम्भेदतोदभ्रमशूलजुष्टम् ॥ १५ ॥
पक्षाद् दशाहादथवाऽप्यकस्मात्तस्यार्द्धभेदं त्रियाद्वयवस्येत् । प्रवृद्धा भवति, सूर्यस्यापवृत्तौ सायाह्ने विनिवर्तते शाम्यतीति । अत्र निमि: -- " सूर्य सो-मात्मकौ नित्यं स्वहेतू पित्तमारुतौ । कुर्वते वेदनां तीव्रां दिनात् पूर्वाह्न एव तु ॥ श्रा दिव्यतेजसा युक्ते निवृत्तेऽपि च भास्करे । स्रोतसां विवृतश्वाच्च ततः श्लेष्माऽधिगच्छ-ति ॥ उद्गतो मातरिश्वा च स्वमार्गे प्रतिपद्यते । तस्मान्मध्यदिनादूध वेदनाऽत्र प्रशा-म्यति ॥ " इति । १ सर्वात्मकं = सन्निपातजम् । विदेहे सूर्यावर्तविपर्ययोऽपि पठयते । तद्यथा— “ तत्र वातानुगं पित्तं चितं शिरसि तिष्ठति । मध्याह्ने तेजसाऽर्कस्य तद्विवृद्धं शिरोरुजम् ॥ करोति पैत्तिकीं घोरां संशाम्यति दिनक्षये । अस्तं गते प्रभाहीने सूर्ये वायुर्विवर्धते ॥ पित्तं शान्तिमवाप्नोति ततः शाम्यति वेदना । एष पित्तानिलकृतः सूर्यावर्तविपर्ययः ॥ ” इति । अयमत्र सूर्यावर्त एवान्तर्भावनीयः, चातुर्थिके चातुर्थिकविपर्ययवदिति श्रीकण्ठः । २ अनन्तवातलक्षणमभिदधाति - दोषास्त्विति । दुष्टा दोषास्त्रय एव मन्यां ग्रीवासिराद्वयं सम्पीड्य घाटासु ग्रीवापश्चाद्भागेषु सुतोत्रां रुजां कुर्वन्ति, योऽक्षिवि शङ्खदेशे च आशु स्थितिमारब्धत्वं विशेषतः करोति तथा यो गण्डस्य कपोलस्य पार्श्वे एकदेशे कम्पं हनुग्रहादिकं च करोति, तं दोषत्रयोत्थं शिरसो विकारमनन्तवातमुदा-हरन्तीति योजना | ३ अर्धावभेदलक्षणं ब्रवीति - यस्येति । उत्तमाङ्गार्थ = शिरोऽर्धम्, ' उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम् ' इत्यमरः । ४ त्रितयादित्यत्र द्वितयादिति पाठः । अत्र विदेहः - " शिरसोऽन्यतरे पार्श्वे कुपितो मारुतो यदा । श्लेष्मणा रुध्यते जन्तोस्तोदस्फुटनदालनैः ॥ शूलावदारणैर्गाढमर्थं तदवरुध्यते । नयनं चावदीर्येत सोऽ.. र्घ भेदः कफानिलात् ॥ तथा त्र्यहात् स पश्चाहात् पक्षान्मासाच्च देहिनाम् । ” इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1170
पाठ पढ़ें पाठ छिपाएँ
१०१२ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० २६ • शङ्खाश्रितो वायुरुदीर्णवेगः कृतानुयात्रः कफपित्तरक्तैः ॥ १६ ॥
रुजः सुतीब्राः प्रतनोति मूर्ध्नि विशेषतश्चापि हि शङ्खयोस्तु ।
सुकष्टमेनं खलु शङ्खकाख्यं महर्षयो वेदविदः पुराणाः ॥ १७ ॥
व्याधिं वदन्त्युद्गतमृत्युकैल्पं भिषक्सहस्रैरपि दुर्निवारम् ॥ १८ ॥
· इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे शिरोरोगविज्ञानीयो नाम पञ्चविंशोऽध्यायः ॥ २५ ॥
षडविंशतितमोऽध्यायः ।
अथातः शिरोरोगप्रतिषेधं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
वातव्याधिविधिः कार्य्यः शिरोरोगेऽनिलात्मके ।
पयोऽनुपानं सेवेत घृतं तैलमथापि वा ॥ ३ ॥
मुद्गान कुलत्थान्माषांश्च खादेच्च निशि केवलान् । १ शङ्खकलक्षणमभिदधाति - शङ्खेति । कफपित्तरक्तैः कृताऽनुयात्रा येन स कृतानुयात्रो वायुरिति सम्बन्धः । २ शङ्खयोः = भ्रूपुच्छान्तयोरित्यर्थः । ३ उद्गत-- मृत्युकल्पम् = उपस्थितमृत्युसदृशम् । अस्य व्याधेस्त्रिरात्राभ्यन्तरे विकल्पितासाध्य-त्वम्, त्रिरात्रात्परमसाध्यत्वम् । तथा च विदेह: - " चीयते तु सदा पित्तं शङ्खयोरनि-लाचितम् । निरुणद्धि ततो मर्म परिपूरितमुल्बणम् ॥ ततः शङ्खौ प्ररुज्येते दह्येत इव वह्निना । सूचीभिरिव तुद्येते निकृत्येत इवासिना ॥ शङ्खको नाम शिरसि व्याधिरेष: सुदारुणः । तृष्णामूर्च्छाज्वरकरस्त्रिरात्रात्परमन्तकृत् ॥ कुशलेन तूपक्रान्तस्त्रिरात्रादेव जीवति । " इति । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतशालाक्यतन्त्रे सुधाऽऽख्यटिप्पन्यां पञ्चविंशोऽध्यायः । षड्विंशतितमोऽध्यायः । ४ पूर्वाध्याये शिरोरोगविज्ञानमभिधाय तच्चिकित्सां प्रतिपादितुं शिरोरोगप्रतिषेध-अधिकरोति — अथेति । प्रतिषेधः - चिकित्सितमित्यर्थः । ५ वातिकशिरोरोग चि. " कित्सां दर्शयति - वातेति । वातव्याधिविधिः स्नेहस्वेदाभ्यङ्गपरिषेकादिबाह्यः, स्नेह-CC - 0. Gurukul Kangri Collection, Haridwar