सुश्रुत संहिता चौखम्बा — पृष्ठ 1181–1190
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1181–1190
पृष्ठ 1181
पाठ पढ़ें पाठ छिपाएँ
अ ० २८ ] Chennai: Digitized by Arya Samaj Foundation Chennai and eGangotri मृगादन्याश्च मूलानि प्रथितान्येव धारयेत् ॥ ७ ॥
१०२३
रक्तोनि माल्यानि तथा पताका रक्ताश्च गन्धा विविधाश्च भक्ष्याः ।
घण्टा च देवाय बलिर्निवेद्यः सकुक्कुटः स्कन्दग्रहे हिताय ॥ ८ ॥
स्नानं त्रिरात्रं निशि चत्वरेषु कुर्यात् पुरं शालिय वैर्नवैस्तु ।
अद्भिश्च गायत्र्यभिमन्त्रिताभिः प्रज्वालनं व्याहृतिभिश्च वह्नेः ॥ ९ ॥
रक्षौमतः प्रवक्ष्यामि बालानां पापनाशिनीम् ।
अहन्यहनि कर्त्तव्या या भिषग्भिरतन्द्रितैः ॥ १० ॥
तपसां तेजसां चैव यशसां वपुषां तथा ।
निर्धानं योऽव्यया देवः स ते स्कन्दः प्रसीदतु ॥ ११ ॥
ग्रहसेनापतिर्देवो देवसेनापतिर्विभुः ।
देवसेनारिपुहरः १० पातु त्वां भगवान् गुहः ॥ १२ ॥
देवदेवस्य महतः पावकस्य च यः सुतः ।
गङ्गोमाकृत्तिकानाञ्च स ते १ शर्म प्रयच्छतु ॥ १३ ॥
रक्तमाल्याम्बरः श्रीमान् रक्तचन्दनभूषितः ।
रक्तदिव्यवपुर्देवः पातु त्वां क्रौञ्चसूदनः ॥ १४ ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे स्कन्दप्रतिषेधो नाम ( द्वितीयोऽध्यायः, आदितः ) अष्टाविंशोऽध्यायः ॥ २८ ॥
वल्ली = गोलोमी, ' सफेद दूब ' इति ख्याता । १ मृगादन्याः = इन्द्रवारुण्याः । २ बलिं निर्दिशति - रक्तानीति । ३ ' नमः स्कन्दाय देवाय ग्रहाधिपतये नमः ' इति पूर्वोक्तमन्त्रेण बलिनिवेद्य इत्यर्थः । ४ कुर्यात्, किं? नवैः शालियवैः पुरं मण्डलमित्यर्थः । ५ गायत्र्यभिमन्त्रिताभिरद्भिश्च स्नानमिति सम्बन्धनीयम् । एतेन
श्लोकद्वयेन त्रिरात्रं बलिस्नान होमकर्तव्यतोपदिष्टा । ६ अथ बालानां रक्षाविधानम-भिधत्ते - रक्षेति । पापनाशिनीं रक्षामिति सम्बन्धः । रक्षा = स्वस्त्ययनं, रक्षणमन्त्र-७ अतन्द्रितैः = अनल सैः । निधानमिति तपसां तेजसां यशसां तथा
मित्यर्थः । वपुषामित्यत्र अन्वेति । ९ ग्रहाणां स्कन्दग्रहप्रभृतीनां सेनायाः पतिः ग्रहसेनापतिर्देवसेनापतिः । १० इरतीति द्दरः, देवसेनारिपूणां दैत्यानां इरो देवसेनारिपुहरः । ११ देवदेवस्य = महादेवस्य । १२ ‘ शर्मशातसुखानि च इत्यमरः । १३ क्रौनामानं पर्वतं सूदयति CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1182
पाठ पढ़ें पाठ छिपाएँ
१०२४ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri एकोनत्रिंशत्तमोऽध्यायः । [ अ ० २ ९ अथातः स्कन्दापस्मारप्रतिषेधं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
बिल्वः शिरीषो गोलोमी ' सुरसादिश्च यो गणः ।
परिषेके प्रयोक्तव्यः स्कन्दापस्मारशान्तये ॥ ३ ॥
सर्वगन्धविपक्कन्तु तैलमभ्यञ्जने हितम् ।
क्षीरवृक्ष कषाये च काकोल्यादौ गणे तथा ॥ ४ ॥
विपक्तव्यं घृतं चापि पानीयं पयसा सह ।
उत्सादनं वचाहिङ्गुयुक्तं स्कन्दग्रहे हितम् ॥ ५ ॥
गृधोलूकपुरीषाणि केशा हस्तिनखा घृतम् ।
वृषभस्य च रोमाणि योज्यान्युधूपनेऽपि च ॥ ६ ॥
अनन्तां कुक्कुट बिम्ब मर्कटीचापि धारयेत् । निहन्तीति क्रौञ्चसूदनः । ' स्कन्देन युद्धवा सुचिरं चित्रमायी सुमायिना । सशैलस्तस्य दैत्यस्य ख्यातश्चित्रेण कर्मणा । केतुतामगमत् तस्य नाम्ना क्रौञ्चः स उच्यते ॥ ' इति मृगेन्द्र संहिता । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कौमारतन्त्रे सुधाऽऽख्यटिप्पन्या-मष्टाविंशोऽध्यायः । एकोनत्रिंशत्तमोऽध्यायः । १ स्कन्दप्रतिषेधानन्तरं क्रमप्राप्तं स्कन्दापस्मार प्रतिषेधमधिकरोति - अथेति । अपगतः स्मारो यस्मादित्यपस्मारः, स्कन्दापस्मारः स्कन्दसखः, तस्य प्रतिषेधं चिकि · रिसतं स्कन्दापस्मारप्रतिषेधम् । २ गोलोमी = श्वेतदूर्वा, वचेत्यन्ये । सुरसादिर्द्रव्य-सङ्ग्रहणीयाध्यायोक्तो गणः । ३ क्षीरवृक्षकषाये न्यग्रोधोदुम्बरादिपञ्चककषाये चतुर्गुणे, पयसा चतुर्गुणेन दुग्धेन सह काकल्पादौ गणे कल्कीकृते स्नेह चतुर्थीशे घृतं विपक्तव्यम्, तच्च पानोयं पातव्यमित्यर्थः । ४ वचाहिङ्गुभ्यां युक्तं मिलितमुत्सादनमुद्वर्तनं स्कन्दग्रहे हितं भवतीत्यर्थः । ५ अन • न्ता = उत्पलसारिवा, विशल्येत्यन्ये । कुक्कुटी = कुक्कुटी शरीरवत् कुसुमचित्रा वल्ली स्फटि-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1183
पाठ पढ़ें पाठ छिपाएँ
अ ० ३० ] Digitized by Arya Sama ra Chennai and eGangotri पक्कापक्कानि मांसानि प्रसन्ना रुधिरं पयः ॥ ७ ॥
भूतोदनो निवेद्यश्च स्कन्दापस्मार १०२५ चतुष्पथे च कर्त्तव्यं स्नानमस्य यतात्मना ॥ ८ ॥
स्कन्दापस्मारसंज्ञो यः स्कन्दस्य दयितः सखा ।
विशाखसंज्ञश्च शिशोः शिवोऽस्तु विकृताननः ॥ ९ ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे स्कन्दापस्मारप्रतिषेधो नाम ( तृतीयोऽध्यायः, आदितः ) एकोनत्रिंशोऽध्यायः ॥ २ ९ ॥
त्रिंशत्तमोऽध्यायः ।
अथातः शकुनीप्रतिषेधं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
शकुन्यभिपरीतस्य कार्यो वैद्येन जानता ।
वेतसाम्रकपित्थानां निष्क्वाथः परिषेचने ॥ ३ ॥
करचितकुक्कुटाण्डतुल्यकन्देति डल्हणः । शाल्मलीत्यन्ये । मर्कटी = कपिकच्छुः, अपा · मार्ग इत्यपरे । धारयेत् शरीरे इति शेषः । १ प्रसन्ना = सुरा । २ श्रवटे = गर्ते इत्यर्थः । ३ यतात्मना संयतचित्तेन चतुष्पथे अस्य बालस्य स्नानं कर्तव्यं कारयितव्यमित्यर्थः । ४ बालस्य रक्षामन्त्रं निर्दिशति - स्कन्देति । स्कन्दस्य कार्तिकेयस्य दयितः प्रिय: ' दयितं वल्लभं प्रियम् ' इत्यमरः । सखा मित्रं यो विकृताननो विकरालमुखः स्कन्दापस्मारसंज्ञो विशाखसंज्ञः, अस्तीति शेषः । विशाखसंज्ञ इति स्कन्दापस्मारस्य नामान्तरम् । सः शिशोः शिवोऽस्तु कल्याणकृद् भवत्वित्यर्थः । ' श्वः श्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ' इत्यमरः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कौमारतन्त्रे सुधाऽऽख्यटिप्पन्या-मेकोनत्रिंशोऽध्यायः । त्रिंशत्तमोऽध्यायः । ५ क्रमप्राप्तं शकुनीप्रतिषेधमधिकरोति - अथात इति । ६ शकुन्यभिपरी-' तस्य - शकुनीग्रहव्याप्तस्य बालस्येत्यर्थः । ७ परिषेचनै निष्काथः कार्य इति सम्ब-६५ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1184
पाठ पढ़ें पाठ छिपाएँ
१०२६ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ०, ३०
कषायमधुरैस्तैलं कार्य्यमभ्यञ्जने शिशोः ।
मधुकोशीरहीवेर सारिवोत्पलपद्मकैः ॥ ४ ॥
रोध प्रियङ्गुमञ्जिष्ठागैरिकैः प्रदिहेच्छिशुम् ।
व्रणेषूक्तानि चूर्णानि पथ्यानि विविधानि च ॥ ५ ॥
स्कन्दग्रहे धूपनानि तानीहापि प्रयोजयेत् ।
शतावरीमृगैर्वारुनागदन्तीनिदिग्धिकाः ॥ ६ ॥
लक्ष्मणां संहदेवाञ्च बृहतीञ्चापि धारयेत् ।
तिलतण्डुलकं माल्यं हरितालं मनःशिला ॥ ७ ॥
बलिरेष करजेषु निवेद्यो नियतात्मना ।
निष्कुटे च प्रयोक्तव्यं स्नानमस्य यथाविधि ॥ ८ ॥
स्कन्दापस्मारशमनं “ घृतं चापीह पूजितम् । १० कुर्य्याच विविधां पूजां शकुन्याः " कुसुमैः शुभैः ॥ ९ ॥
न्धः । १ कषायाः न्यग्रोधादयः, मधुराणि काकोल्यादीनि तैः कषायमधुरैः । न्यग्रो. धादिपञ्चानां कषायः, काकोल्यादीनां कल्कश्च ग्राह्यः । २ मधुकं यष्टीमधु, उशीर = ' खस ' इति ख्यातम्, हीवेर: = ' हाऊत्रेर ' इति, सारिवा = ' श्रनन्तमूल ' इति, उत्पलं == नीलोत्पलम्, पद्मकं - पद्मकाष्ठम् । ३ प्रदिहेत् = प्रलिम्पेत् । ४ व्रणेषु = शकुनीग्रसितबालव्रणेषु, उक्तानि चूर्णानि द्वित्रणीयोक्तानि मिश्रको. क्तानि च शोधनरोपणानि चूर्णानि विविधानि पथ्यानि = प्रणितोपासनीयोक्तानि शालि मुद्दाडिम सैन्धवादीनि । ५ धूपनानि = “ सर्षपाः सर्पनिर्मोको बचा काका-दनी घृतम् ” इति स्कन्दग्रहोक्तानि । ६ मृगैर्वारुः = इन्द्रवारुणी, नागदन्तीदन्ती-भेदः, निदिग्धिका = कण्टकारिका । ७ सहदेवा = पीतपुष्पा बला, बृहतो = स्थूलफला कण्टकारिका । ८ करन्जेषु = नक्तमालमूलेष्वित्यर्थः । नियतात्मना = उपवासादिशु-चिना, तदुक्तम्– “ सोपवासः शुचिनक्तं सशस्त्रो निर्हरेद् बलिम् ” इति । ९ निष्कुटे = गृहोपवने, ' गृहारामास्तु निष्कुट ।: ' इत्यमरः । यथाविधि = नवैः शालियवैर्निर्मिते मण्डले गायत्र्यभिमन्त्रिताभिरद्भिः स्कन्दग्र होक्तविधानेन स्नानमि-त्यर्थः । १० “ दैवदारुणि रास्नायां मधुरेषु द्रुमेषु च ” इत्यादिषु सिद्धं घृतमित्यर्थः । चापीति चकारेण “ सोमवल्लीमिन्द्रवल्लीं शमीं बिल्वस्य कण्टकान् । मृगादन्याश्च मूलानि ग्रथितान्येव धारयेत् ॥ ” इति समुच्चीयते । ११ कुसुमैः = जातीपुष्प-नीलोत्पलादिपुष्पैरित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1185
पाठ पढ़ें पाठ छिपाएँ
अ ० ३१ ] Digitized by Arya Saal Chennai and eGangotri १०२७
अन्तरीक्षचरा देवी सर्वालङ्कारभूषिता ।
अयोमुखी तीक्ष्णतुण्डा शकुनी ते प्रसीदतु ॥ १० ॥
दुर्दर्शना महाकाया पिङ्गौती भैरवस्वरा ।
लम्बोदरी शङ्कुकर्णी शकुनी ते प्रसीदतु ॥ ११ ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे शकुनीप्रतिषेधो नाम ( चतुर्थोऽध्यायः, आदितः ) त्रिंशोऽध्यायः ॥ ३० ॥
एकत्रिंशत्तमोऽध्यायः ।
अथातो रेवतीप्रतिषेधं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
अश्वगन्धा च शृङ्गी च सारिवा सपुनर्नवा ।
सँहे तथा विदारी च कषायाः सेचने हिताः ॥ ३ ॥
तैलमभ्यञ्जने कार्य्यं कुष्ठे सर्जरसेऽपि च ।
पलङ्कषायां नलदे तथा गिरिकदम्बके ॥ ४ ॥
धवाश्वकर्णककुभधातकीतन्दुकीषु च ।
काकोल्यादिगणे चैत्र ११ पानीयं सर्पिरिष्यते ॥ ५ ॥
१ बालरक्षामन्त्रमुद्दिशति - अन्तरीक्षेति । श्रन्तरीक्षे श्राकाशे चरतीति अन्त-रोक्षचरा । २ श्रत्र ' अधोमुखी ' इति पाठान्तरम् । तीक्ष्णतुण्डा तीक्ष्णं तुण्डं मुखं यस्याः सा । ३ पिङ्गे पिङ्गलवर्णेऽक्षिणी यस्याः सा पिङ्गाक्षी । ४ शङ्कुवत् कर्णौ यस्याः सा शङ्कुकर्णी ' । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कौमारतन्त्रे सुधाऽऽख्यटिप्पन्यां त्रिंशत्तमोऽध्यायः । एकत्रिशत्तमोऽध्यायः । ५ क्रमागतत्वाच्छकुनीप्रतिषेधानन्तरं रेवतीप्रतिषेधमधिकरोति - अथात इति । ६ अश्वगन्धा = ‘ असगन्ध ' इति ख्याता । शृङ्गी = कर्कटशृङ्गी 1 । ७ सहे = मुद्गपर्णी माषपण च । ८ सर्जरसः = सालरसः, ' राल ' इति ख्यातः । ९ पलङ्कषायां = गोक्षुरके, नलदे = जटामांस्याम्, गिरिः = गिरिकर्णिके, कदम्बकः = ' कदम्ब ' इति ख्यातः । गिरिकदम्बो महाकदम्ब इत्यन्ये । १० अश्वकर्णः = सालभेदः । ककुभः = श्रर्जुनः, तिन्दुक्की = ‘ तेन्दू ' इति ख्याता । ११ पानीयं = पातव्यमित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1186
पाठ पढ़ें पाठ छिपाएँ
१०२८ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३१
कुलत्थाः शङ्खचूर्णञ्च प्रदेहः सार्वगन्धिकः ।
गृध्रोलूकपुरीषाणि यवा यवे फलो घृतम् ॥ ६ ॥
सन्ध्ययोरुभयोः काय्यैमेतदुद्धपनं शिशोः ।
वरुणारिष्टकँमयं रुचकं सैन्दुकं तथा ॥ ७ ॥
सततं धारयेच्चापि कृतं वा पौत्रजीविकम् ।
शुक्लाः सुमनसो लाजाः पयः शाल्योदनं तथा ॥ ८ ॥
बलिर्निवेद्यो गोतीर्थे रेवत्यै प्रयतात्मना ।
सङ्गमे च भिषक् स्नानं कुर्य्याद् धात्रीकुमारयोः ॥ ९ ॥
नानावस्त्रधरा देवी चित्रमाल्यानुलेपना ।
चलत्कुण्डलिनी श्यामा रेवती ते प्रसीदतु ॥ १० ॥
उपासते यां सततं देव्यो विविधभूषणः ।
लम्बा कराला विनता तथैव बहुपुत्रिका ।
रेवती शुष्कनामा या सा ते देवी " प्रसीदतु ॥। ११ ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे रेवतीप्रतिषेधो नाम ( पञ्चमोऽध्यायः, आदितः ) एकत्रिंशोऽध्यायः ॥ ३१ ॥
१ प्रदेइः = प्रलेपः, सर्वगन्धेन संसृष्टः सार्वगन्धिकः । “ चातुर्जातककर्पूरकक्को-लागुरुकुङ्कुमम् । लवङ्गसद्दितं चैव सर्वगन्धं विनिर्दिशेत् ॥ ” इति । २ यवफलः = वंशः । ३ वरुणारिष्टकमयं वरुणनिम्बकाष्ठघटितं तथा सैन्दुकं सिन्धुवारकाष्टघटितं रुचकं माल्यं धारयेदिति सम्बन्धः । रुचको बीजपूरे च निष्के दन्तकपोतयोः । न द्वयोः सज्जिकाक्षारेऽप्यश्वाभरणमाल्ययोः । सौवर्चलेऽपि मङ्गल्यद्रव्येऽपि कटकेऽपि च ॥ ' इति मेदिनी । ४ पुत्रञ्जीव: ' जीयापोता ' इति ख्यातस्तरकाष्ठकृतं पौत्रजीविकं रुचकं वेत्यर्थः । ५ सुमनसः = पुष्पाणि । ६ गोतीर्थे = गोशालायाम् । ७ सङ्गमे = नदीद्वयसङ्गमने, कुर्यात् = कारयेदित्यर्थः । = बालस्य रक्षामन्त्रमुद्दिशति - नानेति । धरतीति धरा, नानावस्त्राणां घरेति नानावस्त्रधरा । ९ विविधभूषणा देव्यः अन्या देव्यः सततं यां रेवतीम् उपासते सेवन्ते इति योज्यम् । १० प्रसीदतु = प्रसन्ना भवश्वित्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतकौमारतन्त्रे सुधाऽख्यटिप्पन्या-मेकत्रिंशोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1187
पाठ पढ़ें पाठ छिपाएँ
अ ० ३२ ] Digitized by Arya व्यस्त र सम् hennai and eGangotri
द्वात्रिंशत्तमोऽध्यायः ।
अर्थातः पूतनाप्रतिषेधं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
कपोतवैङ्काऽरलुको वरुणः पारिभद्रकः ।
औस्फोता चैव योज्याः स्युर्बालानां परिषेचने ॥ ३ ॥
वचा वयःस्था गोलोमी हरितालं मनःशिला कुष्ठं सर्जरसश्चैव तैलार्थे वर्ग इष्यते ॥ ४ ॥
हितं घृतं तुगोक्षीर्य्यां सिद्धं मधुरकेषु च ।
कुष्ठतालीशख दिरचन्दनस्यन्दने तथा ॥ ५ ॥
देवदारुवचाहिङ्गुकुष्टं गिरिकदम्बकः ।
एलाहरेण चापि योज्या उद्धूपने सदा ॥ ६ ॥
गन्धनाकुलिकुम्भीके मज्जानो बदरस्य च ।
कर्कटास्थि घृतञ्चापि धूपनं सर्षपैः सह ॥ ७ ॥
काकार्दनीं चित्रफलां विम्बीं गुञ्जाञ्च धारयेत् ।
मत्स्योदनञ्च कुर्वीत कृशरां " पललं तथा ।
शरावसम्पुटे कृत्वा बलिं शून्यगृहे हरेत् ॥ ८ ॥
द्वात्रिंशत्तमोऽध्यायः । १०२ ९ १ रेवतीप्रतिषेधानन्तरं क्रमागतं पूतनाप्रतिषेधमधिकरोति — अथात इति । २ कपोतवङ्का = ब्रह्मसुवचला, ब्राह्मीत्यन्ये । श्ररलुकः = ' सोनापाठा ' इति ख्यातः । वरुणः = ‘ बरना ' इति ख्यातः । पारिभद्रकः = निम्बः । ३ श्रास्फोता = सारिवा । ४ वयःस्था = ब्राह्मी, गोलोमी - श्वेतदूर्वा । ५ तुगाक्षोर्यो = वंशलोचनायाम्, मधुरकेषु = काकोल्यादिमधुरवर्गेषु । तत्र तुगाक्षीर्याः कषायः, काकोल्यादिवर्गस्य कल्को ग्राह्यः । ६ गिरिः - गिरिकर्णिका, कदम्बकः = कदम्बः, गिरिकदम्बो महा-कदम्ब इत्यन्ये । ७ हरेणवः = रेणुकाः, निर्गुण्डाबीजमित्यर्थः । ८ गन्धनाकुली - रास्ना, कुम्भी-का = वारिपणीं । ९ काकादनी = श्वेतगुआ, चित्रफला = इन्द्रवारुणी, कण्टकारी-त्यन्ये । १० पललं = तिलचूर्णम् । ' पललं पङ्कमसियोः । तिलचूर्णे पललस्तु राक्षसे ” CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1188
पाठ पढ़ें पाठ छिपाएँ
१०३० सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३३
उच्छिष्टेनाभिषेकेण शिशोः स्नपनमिष्यते ।
पूज्या च पूतना देवी बलिभिः सोपहारकैः ॥ ९ ॥
मेलिनाऽम्बरसंवीता मलिना रूक्षमूर्द्धजा ।
शून्यागाराश्रिता देवी दारकं पातु पूतना ॥ १० ॥
दुर्दशेंना सुदुर्गन्धा कराला मेघकालिका ।
भिन्नगौराश्रया देवी दारकं पातु पूतना ॥ ११ ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे ( षष्ठोऽध्यायः, आदितः ) द्वात्रिंशोऽध्यायः ॥ ३२ ॥
त्रयस्त्रिंशत्तमोऽध्यायः ।
अथातोऽन्धपूतनाप्रतिषेधं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
तिक्त द्रुमपत्राणां कार्य्यः क्वाथोऽवसेचने ।
सुरा सौवीरकं कुष्ठं हरितालं मनःशिला ॥ ३ ॥
तथा सर्जरसश्चैव तैलार्थमुपदिश्यते । इतिहैमः । १ उच्छिष्टेन = श्राचमनावशिष्टेन, अभिषेकेण = ज लेनेत्यर्थः । २ बालस्य रक्षामन्त्रं निर्दिशति - मलिनेति । मलिनाम्बरसंवीता = मलिन-वस्त्राच्छादिता, रूक्षमूर्धंजा = रूक्षकेशा । ३ दारकं = बालम्, ' दारको भेदके पुत्रे ' इतिहैम: । ४ भिन्नागारे आश्रयो यस्याः सा भिन्नागाराश्रया, पूतना देवी दारकं बालं पातु रक्षतु । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतको नारतन्त्रे सुधारूपटिप्पन्यां द्वात्रिंशोऽध्यायः । त्रयस्त्रिंशत्तमोऽध्यायः । ५ पूतनासामान्यात् क्रमागतमन्धपूतनाप्रतिषेधमधिकरोति — अथेति । ६ ति तकद्रुमाणां निम्बादिवृक्षाणां पत्राणि तेषां क्काथोऽवसेचने कार्य इत्यर्थः । ७ सौवी--रकं - काञ्जिकभेदः । यथा- - ' " सौवीरस्तु यवैरामैः पक्वैर्वा निस्तुषैः कृतम् । गोधूमै • रपि सौवीरमाचार्याः केचिदूचिरे ॥ ” इति । सुरासौवीरके तैलात् प्रत्येकं चतुर्गुणे, CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1189
पाठ पढ़ें पाठ छिपाएँ
अ ० ३३ ] Digitized by Arya युक्त tion Chennai and eGangotri १०३ पिप्पल्यः पिप्पलीमूलं वर्गो मधुरेको मधु ॥ ४ ॥
शालपर्णी बृहत्यौ च घृतार्थमुपदिश्यते ।
सर्वगन्धैः प्रदेहश्च गात्रेष्वक्ष्णोश्च शीतेलैः ॥ ५ ॥
पुरोषं कौक्कुटं केशश्चर्म सर्पत्वचन्तथा ।
जीर्णा भिक्षुसङ्घार्टी धूपनायोपकल्पयेत् ॥ ६ ॥
कुक्कुटीं मर्कटीं शिम्बीमनन्ताश्चापि धारयेत् ।
सांसमांमं तथा पक्कं शोणितञ्च चतुष्पथे ॥ ७ ॥
निवेद्यमन्तश्च गृहे शिशो रक्षानिमित्ततः ।
शिशोश्च स्नपनं कुर्य्यात् सर्वगन्धोदकैः शुभैः ॥ ८ ॥
कराला पिङ्गला मुण्डा कषायाम्बरवासिनी ।
देवी बालमिमं प्रीता संरक्षत्वन्धपूतना । ९ ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रेऽन्धपूतनाप्रतिषेधो नाम ( सप्तमोऽध्यायः, आदितः ) त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
कुष्टादीनि करकद्रव्याणि तानि च तैलचतुर्थीनि । मधु = माक्षिकम् तस्य च शोतीभूते घृते प्रक्षेपः । १ मधुरकः =- काकोल्यादिः, २ शीतलैः कुमुदोत्पलादिभिरन्यैरपि द्रव्यैरित्यर्थः । ३ भिक्षुसङ्घार्टी = शाक्यभिक्षोः परिव्राजकस्य वा जीर्णवस्त्रम् । ४ कुक्कुटी = कुक्कुटीशरीरवत् स्फटि-करचितकुक्कुटाण्डसदृशकन्दा कुसुमचित्रा वल्लीति डल्दणः । शात्मलीत्यन्ये । मर्कटी = कपिकच्छूः, अपामार्ग इत्यन्ये । अनन्ता = उत्पलसारिवा । । ५ अन्तः गृहे = भिन्नागाराभ्यन्तरे । ६ शिशोश्चेति चकारेण धात्र्याश्च स्न. पनं कुर्यादित्यर्थः । ७ बालस्य रक्षामन्त्रमुपदिशति -करालेति । ८ अन्धपूतना देवी प्रीता सती इमं बालं संरक्षतु पालयत्विति सम्बन्धः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतकौमारतन्त्रे सुधाऽऽख्यटिप्पन्यां त्रयस्त्रिशोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1190
पाठ पढ़ें पाठ छिपाएँ
१०३ Bgitized by Arya Samaj Foun सुश्रुतसंहितायां cango Chennai and eGangotri
चतुस्त्रिंशत्तमोऽध्यायः ।
अथातः शीतपूतनाप्रतिषेधं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
कपित्थं सुवेहां बिम्बीं तथा बिल्वं प्रचीबलम् ।
नन्दीं भल्लातकञ्चापि परिषेके प्रयोजयेत् ॥ ३ ॥
बस्तमूत्रं गवां मूत्रं मुम्तञ्च सुरदारु च ।
कुष्ठञ्च सर्वगन्धांश्च तैलार्थमवचारयेत् ॥ ४ ॥
रोहिंगीसर्जखदिरपलाशककुभत्वचः । [ अ ० ३४ निष्क्वाथ्य तस्मिन्निष्क्वाथे सतीरं विपचेद् घृतम् ॥ ५ ॥
गृध्रोलूकपुरीषाणि वस्तर्गन्धामहेस्त्वचः ।
निम्बपत्राणि मधुकं धूपनाथ प्रयोजयेत् ॥ ६ ॥
धारयेदपि लम्बाञ्च गुञ्जां काकादनीं तथा ।
नद्यां मुद्गकृतैश्चान्नैस्तर्पये च्छीतपूतनाम् ॥ ७ ॥
देव्यै देयश्चोपहारो वारुणी रुधिरं तथा ।
जलाशयन्ते बालस्य स्नपनं चोपदिश्यते ॥ ८ ॥
" मुद्गौदनाशना देवी सुराशोणितपायिनी । चतुस्त्रिंशत्तमोऽध्यायः । १ श्रन्धपूतनाप्रतिषेधानन्तरं पूतनासामान्याच्छीत पूतनाप्रतिषेधमधिकरोति- -अ · थात इति । २ सुवहा = रास्ना, बिम्बी = बिम्बीफलम्, प्रचीबलः = मत्स्याक्षकः, प्रचीयते बलमनयेति प्रचीबला, पृषोदरादिः । प्रचीबला बल्या तुरगगन्धा चेति यावत्, तस्य फलं प्रचीबलमिति सुश्रुतार्थं सन्दीपनम् । ३ नन्दी = नन्दीवृक्षः । ४ सुरदारु = देवदारु । ५ रोहिणी = कट्फलः, सर्जः: - साल:, ' साले तु सर्जकार्याश्वकर्णकाः सस्य संवरः ' इत्यमरः । ककुभः = श्रर्जु-नः । रोहिण्यादीनां त्वचः । ६ बस्तगन्धा = अजगन्धा, अहेस्त्वचः = सर्पकन्चुकाः । ७ लम्बा = तिक्ततुम्बी, काकादनी = श्वेतगुञ्जा । ८ शीतपूतना जलाशयाधिवासिनो, श्रतो नद्यां मुद्गकृतेरन्नैर्भक्ष्यैस्तां तर्पयेदित्यर्थः । ९ जलाशयान्ते = नदीनिकटे । १० बालस्य रक्षामन्त्रमाह- - मुद्गौदनेति । मुद्गौदनमशनं भोजनं यस्याः सा CC - 0. Gurukul Kangri Collection, Haridwar