सुश्रुत संहिता चौखम्बा — पृष्ठ 1181–1190

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1181–1190

पृष्ठ 1181

सुश्रुत संहिता चौखम्बा, पृष्ठ 1181 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २८ ] Chennai: Digitized by Arya Samaj Foundation Chennai and eGangotri मृगादन्याश्च मूलानि प्रथितान्येव धारयेत् ॥ ७ ॥

१०२३

रक्तोनि माल्यानि तथा पताका रक्ताश्च गन्धा विविधाश्च भक्ष्याः ।

घण्टा च देवाय बलिर्निवेद्यः सकुक्कुटः स्कन्दग्रहे हिताय ॥ ८ ॥

स्नानं त्रिरात्रं निशि चत्वरेषु कुर्यात् पुरं शालिय वैर्नवैस्तु ।

अद्भिश्च गायत्र्यभिमन्त्रिताभिः प्रज्वालनं व्याहृतिभिश्च वह्नेः ॥ ९ ॥

रक्षौमतः प्रवक्ष्यामि बालानां पापनाशिनीम् ।

अहन्यहनि कर्त्तव्या या भिषग्भिरतन्द्रितैः ॥ १० ॥

तपसां तेजसां चैव यशसां वपुषां तथा ।

निर्धानं योऽव्यया देवः स ते स्कन्दः प्रसीदतु ॥ ११ ॥

ग्रहसेनापतिर्देवो देवसेनापतिर्विभुः ।

देवसेनारिपुहरः १० पातु त्वां भगवान् गुहः ॥ १२ ॥

देवदेवस्य महतः पावकस्य च यः सुतः ।

गङ्गोमाकृत्तिकानाञ्च स ते १ शर्म प्रयच्छतु ॥ १३ ॥

रक्तमाल्याम्बरः श्रीमान् रक्तचन्दनभूषितः ।

रक्तदिव्यवपुर्देवः पातु त्वां क्रौञ्चसूदनः ॥ १४ ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे स्कन्दप्रतिषेधो नाम ( द्वितीयोऽध्यायः, आदितः ) अष्टाविंशोऽध्यायः ॥ २८ ॥

वल्ली = गोलोमी, ' सफेद दूब ' इति ख्याता । १ मृगादन्याः = इन्द्रवारुण्याः । २ बलिं निर्दिशति - रक्तानीति । ३ ' नमः स्कन्दाय देवाय ग्रहाधिपतये नमः ' इति पूर्वोक्तमन्त्रेण बलिनिवेद्य इत्यर्थः । ४ कुर्यात्, किं? नवैः शालियवैः पुरं मण्डलमित्यर्थः । ५ गायत्र्यभिमन्त्रिताभिरद्भिश्च स्नानमिति सम्बन्धनीयम् । एतेन

श्लोकद्वयेन त्रिरात्रं बलिस्नान होमकर्तव्यतोपदिष्टा । ६ अथ बालानां रक्षाविधानम-भिधत्ते - रक्षेति । पापनाशिनीं रक्षामिति सम्बन्धः । रक्षा = स्वस्त्ययनं, रक्षणमन्त्र-७ अतन्द्रितैः = अनल सैः । निधानमिति तपसां तेजसां यशसां तथा

मित्यर्थः । वपुषामित्यत्र अन्वेति । ९ ग्रहाणां स्कन्दग्रहप्रभृतीनां सेनायाः पतिः ग्रहसेनापतिर्देवसेनापतिः । १० इरतीति द्दरः, देवसेनारिपूणां दैत्यानां इरो देवसेनारिपुहरः । ११ देवदेवस्य = महादेवस्य । १२ ‘ शर्मशातसुखानि च इत्यमरः । १३ क्रौनामानं पर्वतं सूदयति CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1182

सुश्रुत संहिता चौखम्बा, पृष्ठ 1182 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०२४ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri एकोनत्रिंशत्तमोऽध्यायः । [ अ ० २ ९ अथातः स्कन्दापस्मारप्रतिषेधं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

बिल्वः शिरीषो गोलोमी ' सुरसादिश्च यो गणः ।

परिषेके प्रयोक्तव्यः स्कन्दापस्मारशान्तये ॥ ३ ॥

सर्वगन्धविपक्कन्तु तैलमभ्यञ्जने हितम् ।

क्षीरवृक्ष कषाये च काकोल्यादौ गणे तथा ॥ ४ ॥

विपक्तव्यं घृतं चापि पानीयं पयसा सह ।

उत्सादनं वचाहिङ्गुयुक्तं स्कन्दग्रहे हितम् ॥ ५ ॥

गृधोलूकपुरीषाणि केशा हस्तिनखा घृतम् ।

वृषभस्य च रोमाणि योज्यान्युधूपनेऽपि च ॥ ६ ॥

अनन्तां कुक्कुट बिम्ब मर्कटीचापि धारयेत् । निहन्तीति क्रौञ्चसूदनः । ' स्कन्देन युद्धवा सुचिरं चित्रमायी सुमायिना । सशैलस्तस्य दैत्यस्य ख्यातश्चित्रेण कर्मणा । केतुतामगमत् तस्य नाम्ना क्रौञ्चः स उच्यते ॥ ' इति मृगेन्द्र संहिता । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कौमारतन्त्रे सुधाऽऽख्यटिप्पन्या-मष्टाविंशोऽध्यायः । एकोनत्रिंशत्तमोऽध्यायः । १ स्कन्दप्रतिषेधानन्तरं क्रमप्राप्तं स्कन्दापस्मार प्रतिषेधमधिकरोति - अथेति । अपगतः स्मारो यस्मादित्यपस्मारः, स्कन्दापस्मारः स्कन्दसखः, तस्य प्रतिषेधं चिकि · रिसतं स्कन्दापस्मारप्रतिषेधम् । २ गोलोमी = श्वेतदूर्वा, वचेत्यन्ये । सुरसादिर्द्रव्य-सङ्ग्रहणीयाध्यायोक्तो गणः । ३ क्षीरवृक्षकषाये न्यग्रोधोदुम्बरादिपञ्चककषाये चतुर्गुणे, पयसा चतुर्गुणेन दुग्धेन सह काकल्पादौ गणे कल्कीकृते स्नेह चतुर्थीशे घृतं विपक्तव्यम्, तच्च पानोयं पातव्यमित्यर्थः । ४ वचाहिङ्गुभ्यां युक्तं मिलितमुत्सादनमुद्वर्तनं स्कन्दग्रहे हितं भवतीत्यर्थः । ५ अन • न्ता = उत्पलसारिवा, विशल्येत्यन्ये । कुक्कुटी = कुक्कुटी शरीरवत् कुसुमचित्रा वल्ली स्फटि-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1183

सुश्रुत संहिता चौखम्बा, पृष्ठ 1183 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३० ] Digitized by Arya Sama ra Chennai and eGangotri पक्कापक्कानि मांसानि प्रसन्ना रुधिरं पयः ॥ ७ ॥

भूतोदनो निवेद्यश्च स्कन्दापस्मार १०२५ चतुष्पथे च कर्त्तव्यं स्नानमस्य यतात्मना ॥ ८ ॥

स्कन्दापस्मारसंज्ञो यः स्कन्दस्य दयितः सखा ।

विशाखसंज्ञश्च शिशोः शिवोऽस्तु विकृताननः ॥ ९ ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे स्कन्दापस्मारप्रतिषेधो नाम ( तृतीयोऽध्यायः, आदितः ) एकोनत्रिंशोऽध्यायः ॥ २ ९ ॥

त्रिंशत्तमोऽध्यायः ।

अथातः शकुनीप्रतिषेधं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

शकुन्यभिपरीतस्य कार्यो वैद्येन जानता ।

वेतसाम्रकपित्थानां निष्क्वाथः परिषेचने ॥ ३ ॥

करचितकुक्कुटाण्डतुल्यकन्देति डल्हणः । शाल्मलीत्यन्ये । मर्कटी = कपिकच्छुः, अपा · मार्ग इत्यपरे । धारयेत् शरीरे इति शेषः । १ प्रसन्ना = सुरा । २ श्रवटे = गर्ते इत्यर्थः । ३ यतात्मना संयतचित्तेन चतुष्पथे अस्य बालस्य स्नानं कर्तव्यं कारयितव्यमित्यर्थः । ४ बालस्य रक्षामन्त्रं निर्दिशति - स्कन्देति । स्कन्दस्य कार्तिकेयस्य दयितः प्रिय: ' दयितं वल्लभं प्रियम् ' इत्यमरः । सखा मित्रं यो विकृताननो विकरालमुखः स्कन्दापस्मारसंज्ञो विशाखसंज्ञः, अस्तीति शेषः । विशाखसंज्ञ इति स्कन्दापस्मारस्य नामान्तरम् । सः शिशोः शिवोऽस्तु कल्याणकृद् भवत्वित्यर्थः । ' श्वः श्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ' इत्यमरः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कौमारतन्त्रे सुधाऽऽख्यटिप्पन्या-मेकोनत्रिंशोऽध्यायः । त्रिंशत्तमोऽध्यायः । ५ क्रमप्राप्तं शकुनीप्रतिषेधमधिकरोति - अथात इति । ६ शकुन्यभिपरी-' तस्य - शकुनीग्रहव्याप्तस्य बालस्येत्यर्थः । ७ परिषेचनै निष्काथः कार्य इति सम्ब-६५ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1184

सुश्रुत संहिता चौखम्बा, पृष्ठ 1184 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०२६ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ०, ३०

कषायमधुरैस्तैलं कार्य्यमभ्यञ्जने शिशोः ।

मधुकोशीरहीवेर सारिवोत्पलपद्मकैः ॥ ४ ॥

रोध प्रियङ्गुमञ्जिष्ठागैरिकैः प्रदिहेच्छिशुम् ।

व्रणेषूक्तानि चूर्णानि पथ्यानि विविधानि च ॥ ५ ॥

स्कन्दग्रहे धूपनानि तानीहापि प्रयोजयेत् ।

शतावरीमृगैर्वारुनागदन्तीनिदिग्धिकाः ॥ ६ ॥

लक्ष्मणां संहदेवाञ्च बृहतीञ्चापि धारयेत् ।

तिलतण्डुलकं माल्यं हरितालं मनःशिला ॥ ७ ॥

बलिरेष करजेषु निवेद्यो नियतात्मना ।

निष्कुटे च प्रयोक्तव्यं स्नानमस्य यथाविधि ॥ ८ ॥

स्कन्दापस्मारशमनं “ घृतं चापीह पूजितम् । १० कुर्य्याच विविधां पूजां शकुन्याः " कुसुमैः शुभैः ॥ ९ ॥

न्धः । १ कषायाः न्यग्रोधादयः, मधुराणि काकोल्यादीनि तैः कषायमधुरैः । न्यग्रो. धादिपञ्चानां कषायः, काकोल्यादीनां कल्कश्च ग्राह्यः । २ मधुकं यष्टीमधु, उशीर = ' खस ' इति ख्यातम्, हीवेर: = ' हाऊत्रेर ' इति, सारिवा = ' श्रनन्तमूल ' इति, उत्पलं == नीलोत्पलम्, पद्मकं - पद्मकाष्ठम् । ३ प्रदिहेत् = प्रलिम्पेत् । ४ व्रणेषु = शकुनीग्रसितबालव्रणेषु, उक्तानि चूर्णानि द्वित्रणीयोक्तानि मिश्रको. क्तानि च शोधनरोपणानि चूर्णानि विविधानि पथ्यानि = प्रणितोपासनीयोक्तानि शालि मुद्दाडिम सैन्धवादीनि । ५ धूपनानि = “ सर्षपाः सर्पनिर्मोको बचा काका-दनी घृतम् ” इति स्कन्दग्रहोक्तानि । ६ मृगैर्वारुः = इन्द्रवारुणी, नागदन्तीदन्ती-भेदः, निदिग्धिका = कण्टकारिका । ७ सहदेवा = पीतपुष्पा बला, बृहतो = स्थूलफला कण्टकारिका । ८ करन्जेषु = नक्तमालमूलेष्वित्यर्थः । नियतात्मना = उपवासादिशु-चिना, तदुक्तम्– “ सोपवासः शुचिनक्तं सशस्त्रो निर्हरेद् बलिम् ” इति । ९ निष्कुटे = गृहोपवने, ' गृहारामास्तु निष्कुट ।: ' इत्यमरः । यथाविधि = नवैः शालियवैर्निर्मिते मण्डले गायत्र्यभिमन्त्रिताभिरद्भिः स्कन्दग्र होक्तविधानेन स्नानमि-त्यर्थः । १० “ दैवदारुणि रास्नायां मधुरेषु द्रुमेषु च ” इत्यादिषु सिद्धं घृतमित्यर्थः । चापीति चकारेण “ सोमवल्लीमिन्द्रवल्लीं शमीं बिल्वस्य कण्टकान् । मृगादन्याश्च मूलानि ग्रथितान्येव धारयेत् ॥ ” इति समुच्चीयते । ११ कुसुमैः = जातीपुष्प-नीलोत्पलादिपुष्पैरित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1185

सुश्रुत संहिता चौखम्बा, पृष्ठ 1185 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३१ ] Digitized by Arya Saal Chennai and eGangotri १०२७

अन्तरीक्षचरा देवी सर्वालङ्कारभूषिता ।

अयोमुखी तीक्ष्णतुण्डा शकुनी ते प्रसीदतु ॥ १० ॥

दुर्दर्शना महाकाया पिङ्गौती भैरवस्वरा ।

लम्बोदरी शङ्कुकर्णी शकुनी ते प्रसीदतु ॥ ११ ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे शकुनीप्रतिषेधो नाम ( चतुर्थोऽध्यायः, आदितः ) त्रिंशोऽध्यायः ॥ ३० ॥

एकत्रिंशत्तमोऽध्यायः ।

अथातो रेवतीप्रतिषेधं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

अश्वगन्धा च शृङ्गी च सारिवा सपुनर्नवा ।

सँहे तथा विदारी च कषायाः सेचने हिताः ॥ ३ ॥

तैलमभ्यञ्जने कार्य्यं कुष्ठे सर्जरसेऽपि च ।

पलङ्कषायां नलदे तथा गिरिकदम्बके ॥ ४ ॥

धवाश्वकर्णककुभधातकीतन्दुकीषु च ।

काकोल्यादिगणे चैत्र ११ पानीयं सर्पिरिष्यते ॥ ५ ॥

१ बालरक्षामन्त्रमुद्दिशति - अन्तरीक्षेति । श्रन्तरीक्षे श्राकाशे चरतीति अन्त-रोक्षचरा । २ श्रत्र ' अधोमुखी ' इति पाठान्तरम् । तीक्ष्णतुण्डा तीक्ष्णं तुण्डं मुखं यस्याः सा । ३ पिङ्गे पिङ्गलवर्णेऽक्षिणी यस्याः सा पिङ्गाक्षी । ४ शङ्कुवत् कर्णौ यस्याः सा शङ्कुकर्णी ' । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कौमारतन्त्रे सुधाऽऽख्यटिप्पन्यां त्रिंशत्तमोऽध्यायः । एकत्रिशत्तमोऽध्यायः । ५ क्रमागतत्वाच्छकुनीप्रतिषेधानन्तरं रेवतीप्रतिषेधमधिकरोति - अथात इति । ६ अश्वगन्धा = ‘ असगन्ध ' इति ख्याता । शृङ्गी = कर्कटशृङ्गी 1 । ७ सहे = मुद्गपर्णी माषपण च । ८ सर्जरसः = सालरसः, ' राल ' इति ख्यातः । ९ पलङ्कषायां = गोक्षुरके, नलदे = जटामांस्याम्, गिरिः = गिरिकर्णिके, कदम्बकः = ' कदम्ब ' इति ख्यातः । गिरिकदम्बो महाकदम्ब इत्यन्ये । १० अश्वकर्णः = सालभेदः । ककुभः = श्रर्जुनः, तिन्दुक्की = ‘ तेन्दू ' इति ख्याता । ११ पानीयं = पातव्यमित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1186

सुश्रुत संहिता चौखम्बा, पृष्ठ 1186 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०२८ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३१

कुलत्थाः शङ्खचूर्णञ्च प्रदेहः सार्वगन्धिकः ।

गृध्रोलूकपुरीषाणि यवा यवे फलो घृतम् ॥ ६ ॥

सन्ध्ययोरुभयोः काय्यैमेतदुद्धपनं शिशोः ।

वरुणारिष्टकँमयं रुचकं सैन्दुकं तथा ॥ ७ ॥

सततं धारयेच्चापि कृतं वा पौत्रजीविकम् ।

शुक्लाः सुमनसो लाजाः पयः शाल्योदनं तथा ॥ ८ ॥

बलिर्निवेद्यो गोतीर्थे रेवत्यै प्रयतात्मना ।

सङ्गमे च भिषक् स्नानं कुर्य्याद् धात्रीकुमारयोः ॥ ९ ॥

नानावस्त्रधरा देवी चित्रमाल्यानुलेपना ।

चलत्कुण्डलिनी श्यामा रेवती ते प्रसीदतु ॥ १० ॥

उपासते यां सततं देव्यो विविधभूषणः ।

लम्बा कराला विनता तथैव बहुपुत्रिका ।

रेवती शुष्कनामा या सा ते देवी " प्रसीदतु ॥। ११ ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे रेवतीप्रतिषेधो नाम ( पञ्चमोऽध्यायः, आदितः ) एकत्रिंशोऽध्यायः ॥ ३१ ॥

१ प्रदेइः = प्रलेपः, सर्वगन्धेन संसृष्टः सार्वगन्धिकः । “ चातुर्जातककर्पूरकक्को-लागुरुकुङ्कुमम् । लवङ्गसद्दितं चैव सर्वगन्धं विनिर्दिशेत् ॥ ” इति । २ यवफलः = वंशः । ३ वरुणारिष्टकमयं वरुणनिम्बकाष्ठघटितं तथा सैन्दुकं सिन्धुवारकाष्टघटितं रुचकं माल्यं धारयेदिति सम्बन्धः । रुचको बीजपूरे च निष्के दन्तकपोतयोः । न द्वयोः सज्जिकाक्षारेऽप्यश्वाभरणमाल्ययोः । सौवर्चलेऽपि मङ्गल्यद्रव्येऽपि कटकेऽपि च ॥ ' इति मेदिनी । ४ पुत्रञ्जीव: ' जीयापोता ' इति ख्यातस्तरकाष्ठकृतं पौत्रजीविकं रुचकं वेत्यर्थः । ५ सुमनसः = पुष्पाणि । ६ गोतीर्थे = गोशालायाम् । ७ सङ्गमे = नदीद्वयसङ्गमने, कुर्यात् = कारयेदित्यर्थः । = बालस्य रक्षामन्त्रमुद्दिशति - नानेति । धरतीति धरा, नानावस्त्राणां घरेति नानावस्त्रधरा । ९ विविधभूषणा देव्यः अन्या देव्यः सततं यां रेवतीम् उपासते सेवन्ते इति योज्यम् । १० प्रसीदतु = प्रसन्ना भवश्वित्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतकौमारतन्त्रे सुधाऽख्यटिप्पन्या-मेकत्रिंशोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1187

सुश्रुत संहिता चौखम्बा, पृष्ठ 1187 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३२ ] Digitized by Arya व्यस्त र सम् hennai and eGangotri

द्वात्रिंशत्तमोऽध्यायः ।

अर्थातः पूतनाप्रतिषेधं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

कपोतवैङ्काऽरलुको वरुणः पारिभद्रकः ।

औस्फोता चैव योज्याः स्युर्बालानां परिषेचने ॥ ३ ॥

वचा वयःस्था गोलोमी हरितालं मनःशिला कुष्ठं सर्जरसश्चैव तैलार्थे वर्ग इष्यते ॥ ४ ॥

हितं घृतं तुगोक्षीर्य्यां सिद्धं मधुरकेषु च ।

कुष्ठतालीशख दिरचन्दनस्यन्दने तथा ॥ ५ ॥

देवदारुवचाहिङ्गुकुष्टं गिरिकदम्बकः ।

एलाहरेण चापि योज्या उद्धूपने सदा ॥ ६ ॥

गन्धनाकुलिकुम्भीके मज्जानो बदरस्य च ।

कर्कटास्थि घृतञ्चापि धूपनं सर्षपैः सह ॥ ७ ॥

काकार्दनीं चित्रफलां विम्बीं गुञ्जाञ्च धारयेत् ।

मत्स्योदनञ्च कुर्वीत कृशरां " पललं तथा ।

शरावसम्पुटे कृत्वा बलिं शून्यगृहे हरेत् ॥ ८ ॥

द्वात्रिंशत्तमोऽध्यायः । १०२ ९ १ रेवतीप्रतिषेधानन्तरं क्रमागतं पूतनाप्रतिषेधमधिकरोति — अथात इति । २ कपोतवङ्का = ब्रह्मसुवचला, ब्राह्मीत्यन्ये । श्ररलुकः = ' सोनापाठा ' इति ख्यातः । वरुणः = ‘ बरना ' इति ख्यातः । पारिभद्रकः = निम्बः । ३ श्रास्फोता = सारिवा । ४ वयःस्था = ब्राह्मी, गोलोमी - श्वेतदूर्वा । ५ तुगाक्षोर्यो = वंशलोचनायाम्, मधुरकेषु = काकोल्यादिमधुरवर्गेषु । तत्र तुगाक्षीर्याः कषायः, काकोल्यादिवर्गस्य कल्को ग्राह्यः । ६ गिरिः - गिरिकर्णिका, कदम्बकः = कदम्बः, गिरिकदम्बो महा-कदम्ब इत्यन्ये । ७ हरेणवः = रेणुकाः, निर्गुण्डाबीजमित्यर्थः । ८ गन्धनाकुली - रास्ना, कुम्भी-का = वारिपणीं । ९ काकादनी = श्वेतगुआ, चित्रफला = इन्द्रवारुणी, कण्टकारी-त्यन्ये । १० पललं = तिलचूर्णम् । ' पललं पङ्कमसियोः । तिलचूर्णे पललस्तु राक्षसे ” CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1188

सुश्रुत संहिता चौखम्बा, पृष्ठ 1188 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०३० सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३३

उच्छिष्टेनाभिषेकेण शिशोः स्नपनमिष्यते ।

पूज्या च पूतना देवी बलिभिः सोपहारकैः ॥ ९ ॥

मेलिनाऽम्बरसंवीता मलिना रूक्षमूर्द्धजा ।

शून्यागाराश्रिता देवी दारकं पातु पूतना ॥ १० ॥

दुर्दशेंना सुदुर्गन्धा कराला मेघकालिका ।

भिन्नगौराश्रया देवी दारकं पातु पूतना ॥ ११ ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे ( षष्ठोऽध्यायः, आदितः ) द्वात्रिंशोऽध्यायः ॥ ३२ ॥

त्रयस्त्रिंशत्तमोऽध्यायः ।

अथातोऽन्धपूतनाप्रतिषेधं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

तिक्त द्रुमपत्राणां कार्य्यः क्वाथोऽवसेचने ।

सुरा सौवीरकं कुष्ठं हरितालं मनःशिला ॥ ३ ॥

तथा सर्जरसश्चैव तैलार्थमुपदिश्यते । इतिहैमः । १ उच्छिष्टेन = श्राचमनावशिष्टेन, अभिषेकेण = ज लेनेत्यर्थः । २ बालस्य रक्षामन्त्रं निर्दिशति - मलिनेति । मलिनाम्बरसंवीता = मलिन-वस्त्राच्छादिता, रूक्षमूर्धंजा = रूक्षकेशा । ३ दारकं = बालम्, ' दारको भेदके पुत्रे ' इतिहैम: । ४ भिन्नागारे आश्रयो यस्याः सा भिन्नागाराश्रया, पूतना देवी दारकं बालं पातु रक्षतु । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतको नारतन्त्रे सुधारूपटिप्पन्यां द्वात्रिंशोऽध्यायः । त्रयस्त्रिंशत्तमोऽध्यायः । ५ पूतनासामान्यात् क्रमागतमन्धपूतनाप्रतिषेधमधिकरोति — अथेति । ६ ति तकद्रुमाणां निम्बादिवृक्षाणां पत्राणि तेषां क्काथोऽवसेचने कार्य इत्यर्थः । ७ सौवी--रकं - काञ्जिकभेदः । यथा- - ' " सौवीरस्तु यवैरामैः पक्वैर्वा निस्तुषैः कृतम् । गोधूमै • रपि सौवीरमाचार्याः केचिदूचिरे ॥ ” इति । सुरासौवीरके तैलात् प्रत्येकं चतुर्गुणे, CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1189

सुश्रुत संहिता चौखम्बा, पृष्ठ 1189 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३३ ] Digitized by Arya युक्त tion Chennai and eGangotri १०३ पिप्पल्यः पिप्पलीमूलं वर्गो मधुरेको मधु ॥ ४ ॥

शालपर्णी बृहत्यौ च घृतार्थमुपदिश्यते ।

सर्वगन्धैः प्रदेहश्च गात्रेष्वक्ष्णोश्च शीतेलैः ॥ ५ ॥

पुरोषं कौक्कुटं केशश्चर्म सर्पत्वचन्तथा ।

जीर्णा भिक्षुसङ्घार्टी धूपनायोपकल्पयेत् ॥ ६ ॥

कुक्कुटीं मर्कटीं शिम्बीमनन्ताश्चापि धारयेत् ।

सांसमांमं तथा पक्कं शोणितञ्च चतुष्पथे ॥ ७ ॥

निवेद्यमन्तश्च गृहे शिशो रक्षानिमित्ततः ।

शिशोश्च स्नपनं कुर्य्यात् सर्वगन्धोदकैः शुभैः ॥ ८ ॥

कराला पिङ्गला मुण्डा कषायाम्बरवासिनी ।

देवी बालमिमं प्रीता संरक्षत्वन्धपूतना । ९ ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रेऽन्धपूतनाप्रतिषेधो नाम ( सप्तमोऽध्यायः, आदितः ) त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥

कुष्टादीनि करकद्रव्याणि तानि च तैलचतुर्थीनि । मधु = माक्षिकम् तस्य च शोतीभूते घृते प्रक्षेपः । १ मधुरकः =- काकोल्यादिः, २ शीतलैः कुमुदोत्पलादिभिरन्यैरपि द्रव्यैरित्यर्थः । ३ भिक्षुसङ्घार्टी = शाक्यभिक्षोः परिव्राजकस्य वा जीर्णवस्त्रम् । ४ कुक्कुटी = कुक्कुटीशरीरवत् स्फटि-करचितकुक्कुटाण्डसदृशकन्दा कुसुमचित्रा वल्लीति डल्दणः । शात्मलीत्यन्ये । मर्कटी = कपिकच्छूः, अपामार्ग इत्यन्ये । अनन्ता = उत्पलसारिवा । । ५ अन्तः गृहे = भिन्नागाराभ्यन्तरे । ६ शिशोश्चेति चकारेण धात्र्याश्च स्न. पनं कुर्यादित्यर्थः । ७ बालस्य रक्षामन्त्रमुपदिशति -करालेति । ८ अन्धपूतना देवी प्रीता सती इमं बालं संरक्षतु पालयत्विति सम्बन्धः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतकौमारतन्त्रे सुधाऽऽख्यटिप्पन्यां त्रयस्त्रिशोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1190

सुश्रुत संहिता चौखम्बा, पृष्ठ 1190 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०३ Bgitized by Arya Samaj Foun सुश्रुतसंहितायां cango Chennai and eGangotri

चतुस्त्रिंशत्तमोऽध्यायः ।

अथातः शीतपूतनाप्रतिषेधं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

कपित्थं सुवेहां बिम्बीं तथा बिल्वं प्रचीबलम् ।

नन्दीं भल्लातकञ्चापि परिषेके प्रयोजयेत् ॥ ३ ॥

बस्तमूत्रं गवां मूत्रं मुम्तञ्च सुरदारु च ।

कुष्ठञ्च सर्वगन्धांश्च तैलार्थमवचारयेत् ॥ ४ ॥

रोहिंगीसर्जखदिरपलाशककुभत्वचः । [ अ ० ३४ निष्क्वाथ्य तस्मिन्निष्क्वाथे सतीरं विपचेद् घृतम् ॥ ५ ॥

गृध्रोलूकपुरीषाणि वस्तर्गन्धामहेस्त्वचः ।

निम्बपत्राणि मधुकं धूपनाथ प्रयोजयेत् ॥ ६ ॥

धारयेदपि लम्बाञ्च गुञ्जां काकादनीं तथा ।

नद्यां मुद्गकृतैश्चान्नैस्तर्पये च्छीतपूतनाम् ॥ ७ ॥

देव्यै देयश्चोपहारो वारुणी रुधिरं तथा ।

जलाशयन्ते बालस्य स्नपनं चोपदिश्यते ॥ ८ ॥

" मुद्गौदनाशना देवी सुराशोणितपायिनी । चतुस्त्रिंशत्तमोऽध्यायः । १ श्रन्धपूतनाप्रतिषेधानन्तरं पूतनासामान्याच्छीत पूतनाप्रतिषेधमधिकरोति- -अ · थात इति । २ सुवहा = रास्ना, बिम्बी = बिम्बीफलम्, प्रचीबलः = मत्स्याक्षकः, प्रचीयते बलमनयेति प्रचीबला, पृषोदरादिः । प्रचीबला बल्या तुरगगन्धा चेति यावत्, तस्य फलं प्रचीबलमिति सुश्रुतार्थं सन्दीपनम् । ३ नन्दी = नन्दीवृक्षः । ४ सुरदारु = देवदारु । ५ रोहिणी = कट्फलः, सर्जः: - साल:, ' साले तु सर्जकार्याश्वकर्णकाः सस्य संवरः ' इत्यमरः । ककुभः = श्रर्जु-नः । रोहिण्यादीनां त्वचः । ६ बस्तगन्धा = अजगन्धा, अहेस्त्वचः = सर्पकन्चुकाः । ७ लम्बा = तिक्ततुम्बी, काकादनी = श्वेतगुञ्जा । ८ शीतपूतना जलाशयाधिवासिनो, श्रतो नद्यां मुद्गकृतेरन्नैर्भक्ष्यैस्तां तर्पयेदित्यर्थः । ९ जलाशयान्ते = नदीनिकटे । १० बालस्य रक्षामन्त्रमाह- - मुद्गौदनेति । मुद्गौदनमशनं भोजनं यस्याः सा CC - 0. Gurukul Kangri Collection, Haridwar