सुश्रुत संहिता चौखम्बा — पृष्ठ 1191–1200
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1191–1200
पृष्ठ 1191
पाठ पढ़ें पाठ छिपाएँ
अ ० ३५ ] Digitized by Arya उत्तरतन्त्रम् । Foundation Chennai and eGangotri १०३३ जलाशयालया देवी पातु त्वां शीतपूतना ॥ ९ ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे शीतपूतनाप्रतिषेधो नाम ( अष्टमोऽध्यायः, आदितः ) चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥
पञ्चत्रिंशत्तमोऽध्यायः ।
अथोतो मुखमण्डिकाप्रतिषेधं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
कपित्थबिल्वक वांशीगन्धर्वहस्तकाः ।
कुबेराँक्षी च योज्याः स्युर्बालानां परिषेचने ॥ ३ ॥
स्वरसैभृङ्गवृक्षाणों तथाऽजहरिगन्धयोः ।
तैलं वसाञ्च संयोज्य पचेदभ्यञ्जने शिशोः ॥ ४ ॥
मधूलिकायां पयसि तुगाक्षीय गणे तथा ।
मंधुरे पञ्चमूले च कनीयसि घृतं पचेत् ॥ ५ ॥
मुद्गौदनाशया । १ जलाशय आलया निवासस्थानं वस्याः सा शीतपूतना देवी स्व बालं पातु रक्षतु । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कौमारतन्त्रे सुधाऽऽख्यटिप्पन्यां चतुस्त्रिशोऽध्यायः । पञ्चत्रिंशत्तमोऽध्यायः । २ शीतपूतनाप्रतिषेधानन्तरं नवग्रहाकृतिविज्ञानीयक्रमोक्तं मुखमण्डिकाप्रतिषेधम-विकरोति - अथात इति । ३ तर्कारी = श्ररणी, ' जया जयन्ती तर्कारी नादेयी वैज-यन्तिका ' इत्यमरः । वांशी = वंशलोचना, गन्धर्वस्य इस्त इव पत्रमस्येति गन्धर्वहस्तकः शुक्लैरण्ढः । ४ कुबेराक्षी पाटला । ५ वातदरबिल्वादिकानां भृङ्गाः पत्रभङ्गाः, तदुपयोगिका वृक्षा इति डल्हणः । ' भृङ्गं त्वक्पत्रं भृङ्गास्तु षिड्गधूम्याटमार्कवाः ' इति हैमः । भृङ्गवृक्षो भृङ्गराज इति सुश्रुतार्थसन्दीपनम् । श्रजइरिगन्धयोः = बस्तगन्धाऽ-श्वगन्धयोः । ६ मधूलिकायां = मूर्वायाम्, पयसि = गोदुग्धे, तुगाक्षीर्यो = वंशलोचनायाम् । ७ मधुरे == काकोल्यादिमधुरवर्ग, कनीयति पञ्चमूले = त्रिकण्टक बृहतीद्वय पृथक्पर्ण्यो CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1192
पाठ पढ़ें पाठ छिपाएँ
१०३४ by Arya Samaj F सुश्रुतसंहितायां reGangotri
• वचासरसः कुष्ठं सर्पिश्वोद्धूपनं हितम् ।
धारयेदपि जिह्वाश्च चेोषचीरल्लिसर्पजाः ॥ ६ ॥
॥ वकं चूर्णकं माल्यमञ्जनं पारदं तथा ।
मनःशिलाञ्चोपह हरेद्गोष्ठमध्ये बलिं तथा ७ ॥
पायसं सपुरोडाशं बल्यर्थमुपसंहरेत् ।
मन्त्रपूतौभिरद्भिश्च तत्रैव स्नपनं हितम् ॥ ८ ॥
अकृता रूपवती सुभगा कामरूपिणी । ६ गोष्ठमध्यालयरता पातु त्वां मुखमण्डिका ॥ ९ ॥
[ अ ० ३६ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे मुखमण्डिकाप्रतिषेधो नाम ( नवमोऽध्यायः, आदितः ) पञ्चत्रिंशत्तमोऽध्यायः ॥ ३५ ॥
पत्रिंशत्तमोऽध्यायः ।
अथातो नैगमेषप्रतिषेधं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
विदारिगन्धा चेति द्रव्यसङ्ग्रहणीयाध्यायोक्ते । १ सर्जरस: = स्वर्णचूडो नीलाङ्गः, ' नीलकण्ठ ' इति लोके । २ चाषः =
नन्दनः पुष्टिवर्धनः । हेमतुण्डो मणिग्रीवः स्वस्तिकश्चापराजितः ॥
' राल ' इति ख्यातः । ' अशोकश्च विशोकश्च श्रष्टौ चाषस्य नामानि चाषं दृष्ट्वा तु यः पठेत् । अर्थसिद्धिर्भवेत्तस्य मिष्टमन्नं वराङ्गना ॥ ” इति । चीरलिः = ' चील ' इति प्रथते । ३ वर्णकः = रोचनिका, इरितालमित्यन्ये । चूर्णकम् = ‘ अवीर ’ इति बोध्यम्, अञ्जनं = रसाञ्जनम् । ४ गोष्ठमध्ये = गोशालामध्ये । ५ मन्त्रपूताभिः = गायव्यभिमन्त्रिताभिः । तत्रैव = गोष्ठमध्ये इत्यर्थः । ६ बालस्य रक्षामन्त्रं निर्दिशति - अलडकृतेति । अलङ्कृता = अलङ्कारयुक्ता, कामं यथेच्छं रूपमस्ति श्रस्या इति कामरूपिणी । ७ त्वां बालं पातु रक्षतु । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कौमारतन्त्रे सुधाऽऽख्यटिप्पन्यां पञ्चत्रिंशोऽध्यायः । षट्त्रिंशत्तमोऽध्यायः । = नवग्रहाकृतिविज्ञानीयक्रमागतं पारिशेष्यान्नैगमेषप्रतिषेधमधिकरोति - अथेति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1193
पाठ पढ़ें पाठ छिपाएँ
अ ० ३६ ] Digitized by Ary उक्त रक्तन्त्रि on Chennai and eGangotri १०३५
बिल्वाग्निमन्धपूतीकोः कार्याः स्युः परिषेचने ।
सुरा सबीजं धान्याम्लं परिषेफे च शस्यते ॥ ३ ॥
प्रियङ्गुसरे लाऽनन्ताशतपुष्पाकुटन्नटैः ।
पचेत्तैलं सगोमूत्रैर्दधिमस्त्वम्लकाञ्जिकैः ॥ ४ ॥
पञ्चमूलयका क्षीरे मधुरकेषु च ।
पचेद् घृतञ्च मेधावी खर्जूरीमस्तकेऽपि वा ॥ ५ ॥
वचां वयःस्थां गोमोमीं जटिलां चापि धारयेत् ।
उत्सादनं हितं चात्र स्कन्दापस्मारनाशनम् ॥ ६ ॥
सिद्धार्थ कवचाहिङ्गुकुष्ठचैवाक्षतैः सह ।
भल्लातकाजमोदाश्च हितमुद्धूपनं शिशोः ॥ ७ ॥
मर्कटोलूकगृध्राणां पुरीषाणि नवग्रहे ।
धूपः सुते जने कार्यो बालस्य हितमिच्छता ॥ ८ ॥
तिलतण्डुलकं माल्यं भक्ष्यांश्च विविधानपि ।
कुमारपितृमेषाय वृक्षमूले निवेदयेत् ॥ ९ ॥
अधस्ताद्वटवृक्षस्य स्नॅपनं चोपदिश्यते ।
बलिं " न्यग्रोधवृक्षेषु तिथौ षष्ठ्यां निवेदयेत् ॥ १० ॥
११ अजाननश्चलाक्षिभ्रूः कामरूपी महायशाः । मेषाननोऽयं ग्रह इति ग्रहोत्पत्त्यध्याये वक्ष्यते । १ पूतीकः = = नक्तमालः । २ सरला = शुक्ला त्रिवृत्, अनन्ता - उत्पलसारिवा, शतपुष्पा = ' सौंफ ' इति ख्याता | कुटन्नटं = तगरम्, श्योनाक इत्यन्ये । दधिमस्त्वम्ल काञ्जिकैः गोमूत्रैश्च प्रत्येकं समं तैलं प्रिय-ङ्ग्वादिकल्कं तैलचतुर्थीशं प्रक्षिप्य पचेत् । ३ पञ्चमूलद्वयक्काथे दशमूलक्काथे त्रिगुणे, क्षीरे घृतसमे मधुरकेषु काकोल्यादिषु ख-र्जूरी मस्तके खर्जूरीमज्जनि वा पानार्थं घृतं पचेदित्यर्थः । तत्र काकोल्यादिकल्कः स्नै · इचतुर्थांशः, खर्जूरीमज्जा वा चतुर्थांशः । ४ वयःस्था = गुडूची, दरीत कोति सुश्रुतार्थस. न्दीपनम् । गोलोमी = श्वेतदूर्वा, जटिला = जटामांसी ॥५ उत्सादनमुद्वर्तनं, वचाहि-जुयुतं स्कन्दापस्मारनाशनं । द्वितमत्रनैगमेषग्रहजुष्टेऽस्तीत्यर्थः । ६ सिद्धार्थकः = श्वेतसर्षपः, अक्षतैः = यवैरित्यर्थः । ७ सुप्ते जने - श्रर्द्धरात्रे । ८ क्षीरवृक्षमूले इत्यर्थः । ९ गायत्र्यभिमन्त्रितजलेन स्नपनमित्यर्थः । १० बलि = " तिलतण्डुलकं माल्यं इरितालं मनःशिला ” इति शकुनीप्रतिषेधोक्तम् । ११ बालस्य रक्षामन्त्रं दर्शयति— CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1194
पाठ पढ़ें पाठ छिपाएँ
१०३ by Arya Samaj Found सुश्रुत संहितायां cangotri [ अ ० ३७ बालं बालेपिता देवो नैगमेषोऽभिरक्षतु ॥ ११ ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे नैगमेषप्रतिषेधो नाम ( दशमोऽध्यायः, आदितः ) षट्त्रिंशोऽध्यायः ॥ ३६ ॥
सप्तत्रिंशत्तमोऽध्यायः ।
अथातो ग्रहोत्पत्तिमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
नव स्कन्दादयः प्रोक्ता बालानां य इमे ग्रहाः ।
श्रीमन्तो दिव्यवपुषो नारीपुरुषविग्रहाः ॥ ३ ॥
एते गुहस्य रक्षार्थ कृत्तिकोमाऽग्निशूलिभिः ।
सृष्टाः शरवणस्थस्य रक्षितस्यात्मतेजसा ॥४ ॥
स्त्रीविग्रहा ग्रहा ये मयेरिताः । तु नानारूपा अजेति । श्रजाननः = मेषाननः । १ बालपिता बालस्य पिता देवो नैगमेषो बालम • भिरक्षतु सर्वतः पात्वित्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कौमारतन्त्रे सुधाऽख्यटिप्पन्यां षट्त्रिंशोऽध्यायः । सप्तत्रिंशत्तमोऽध्यायः । २ नवग्रहाकृतिविज्ञानीये ‘ उत्पत्ति कारणं चैव ' इत्युररीकृतत्वात् सम्प्रति ग्रहोप-त्यध्यायमधिकरोति — अथात इति । ग्रहाणां स्कन्दादीनामुत्पत्ति प्राप्तिमधिकृत्य कृतोऽध्यायो ग्रहोत्पत्तिस्तम् । तद्धितप्रत्ययस्य लुक् । ३ बालग्रहाणां नवानामुत्पत्ति वर्णयति - नवेति । ४ विग्रहः = शरीरम्, पुरुषशरीराः, स्त्रीशरीरा इत्यर्थः । तत्र स्कन्द – स्कन्दापस्मार - नैगमेषाः पुरुषशरीरधारिणः, अवशिष्टाः शकुनी - रेवती - पूतना-ऽन्धपूतना - शीतपूतना - मुखमण्डिका इति षट् स्त्रीशरीरधारिणो ग्रहाः । ५ कृत्तिकोमाऽग्निशुलिभिः श्रात्मतेजसा स्वशक्त्या रक्षितस्य शरवयस्थस्य ग्रहस्य रक्षार्थम् एते ग्रहाः सृष्टा इति सम्बन्धः । उमापदं गङ्गाया अप्युपलक्षणम्, अनन्तरं ‘ गङ्गोमाकृत्तिकानाम् ' इत्युक्तेः । शरवणे स्थितस्य गुद्दस्य कथा वामनपुराणे चतुःपञ्चा-शत्तमेऽध्याये ' दिव्ये शरवणे स्थितः ' इत्यादिनाऽनुसन्धेया । ६ मया = धन्वन्तरिणा । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1195
पाठ पढ़ें पाठ छिपाएँ
अ ० ३७ ] Digitized by Arya उ लागत tion Chennai and eGangotri १०३७ गङ्गोमाकृत्तिकानां ते ' भागा राजसतामसाः ॥ ५ ॥
नैगमेषस्तु पार्वत्या सृष्टो मेषाननो ग्रहः ।
कुमारेधारी देवस्य गुहस्यात्मसमः सखा ॥ ६ ॥
स्कन्दापस्मारसंज्ञो यः सोऽग्निनाऽग्निसमद्युतिः ।
स च स्कन्दसखा नाम विशाख इति चोच्यते ॥ ७ ॥
स्कन्दः सृष्टो भगवता देवेन त्रिपुरारिणौ ।
बिभर्ति चापरां संज्ञां कुमार इति स ग्रहः ॥। ८ ॥
बाललीलाधरो योऽयं देवो रुद्राग्निसम्भवः ।
मिथ्याऽऽचारेषु भगवान् स्वयं नैष प्रवर्त्तते ॥ ९ ॥
कुर्मारः स्कन्दसामान्यादत्र केचिदपण्डिताः ।
गृह्णातीत्यल्पविज्ञाना ब्रुवते देहचिन्तकाः ॥ १० ॥
ततो भगवति स्कन्दे सुरसेनापती कृते ।
उपतस्थुग्रहाः सर्वे दीप्तशक्तिधरं गुहम् ॥ ११ ॥
ऊचुः प्राञ्जलयश्चैनं वृत्तिं नः संविधत्स्व वै ।
तेषामर्थे " ततः स्कन्दः शिवं देवमचोदयत् ॥ १२ ॥
१ ते = स्त्रीविग्रहाः, भागाः = अंशाः, राजसतामसाः = रजस्तमोमयभूयिष्ठा इत्य • र्थः । पुरुषविग्रहा ग्रहास्तु रजस्तमोमयाः, न तु तेषु तयोर्भयिष्ठत्वम् । २ कुमारधारी = कुमारपालयिता । ३ सः स्कन्दापस्मारोऽग्निना सृष्ट इत्यर्थः । ४ त्रिपुरारिणा शूलिना, शिवेनेति यावत् । ५ मिथ्या आचारा येषां ते तेषु मिथ्याऽऽचारेषु बालावेशात्मकेषु पापाचारेष्वित्यर्थः । स्वयमेष भगवान् कार्तिकेयो न प्रवर्तते, किन्तु तद्रक्षकाः स्कन्दस्कन्दापस्मारादय एव प्रवर्तन्ते । ६ ये तु स्कन्दग्रहस्य स्कन्द इति कुमार इति च कार्तिकेयसमानं नामधेयं दृष्ट्वा भगवान् कार्तिकेय एव बालेषु प्रवर्तते इत्याहुस्तान् प्रति कथयति — कुमार इति । कुमारः कार्तिकेयः स्कन्दसामान्यात् स्कन्दग्रइनामतुल्यत्वाद् बालं गृह्णातीति केचिदप-ण्डिता देहचिन्तका ब्रुवते, तेऽल्पविज्ञाना श्रज्ञा इत्यर्थः । ७ सुराणां सेनायाः पतौ स्वामिनि सुरसेनापतौ स्कन्दे कृते सति । ८ उपतस्थुः = वृत्तीच्छया श्रागता इत्यर्थः ' वृत्तिर्वर्तनजीवने । ९ नः = श्रस्माकम्, वृत्ति = वर्तनम् जीविकोपायम्, इत्यमरः । संविधत्स्व = कुरु । १० दतः = ग्रहकर्तृकवृत्तिप्रार्थनाऽनन्तरम्, देवं शिवम् श्रचोदयत् प्रार्थयामास । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1196
पाठ पढ़ें पाठ छिपाएँ
१०३८ Digitized by Arya Samajसुश्रुतसंहितायां ndec deGangotri [ अ ० ३७
ततो ग्रहांस्तानुवाच भगवान् भगनेत्रहृत् ।
तिर्यग्योनिं मानुषञ्च दैवञ्च त्रितयं जगत् ॥ १३ ॥
परस्परोपकारेण वर्त्तते धार्य्यतेऽपि च ।
देवा मनुष्यान् प्रीणन्ति तैय्र्य्यग्योनींस्तथैव च ॥ १४ ॥
वर्त्तमानैर्यथाकालं शीतवर्षोष्णमारुतैः ।
इज्याऽखलिनमस्कारजपहोमत्रतादिभिः ॥ १५ ॥
राः सम्यक् प्रयुक्तैश्च प्रीणन्ति त्रिदिवेश्वरान् ।
भागधेयं विभक्तञ्च " शेषं किञ्चिन्न विद्यते ॥ १६ ॥
तद् युष्माकं शुभा वृत्तिर्बालेष्वेव भविष्यति ।
कुलेषु येषु नेज्यन्ते देवाः पितर एव च ॥ १७ ॥
ब्राह्मणाः साधवश्चैव गुरवोऽतिथयस्तथा ।
निवृत्ताचारशौचेषु परपाकोपजीविषु ॥ १८ ॥
उत्सन्नबलिभिक्षेषु भिन्नकांस्योपभोजिषु ।
गृहेषु तेषु ये बालास्तान् गृह्णीध्वमशङ्किताः ॥ १ ९ ॥
तत्र वो विपुला ' वृत्तिः पूजा चैव भविष्यति ।
एवं ग्रहाः समुत्पन्ना बालान् गृह्णन्ति चाप्यतः ॥ २० ॥
ग्रहो सृष्टा बालास्तु दुश्चिकित्स्यतमा मताः ।
वैकल्यं ॰ मरणं चापि ध्रुवं स्कन्दग्रहे मतम् ॥ २१ ॥
१ भगनेत्रहृत् = भगनयनहारी, शिव इत्यर्थः । २ परस्परोपकारेण == अन्योन्यो पकारेण, यथा तिर्यग्योनयो गवादयः क्षेत्रकर्षणादिना मनुष्यानुपकुर्वन्ति, मनुष्याश्च माषादिदानेन तिर्यग्योनीनुपकुर्वन्ति । ३ देवमानुषयोः परस्परमुपकारं दर्शयन् प्राक् मानुषेषु देवोपकारमाइ – देवा इति I । तैर्यग्योनीन् = पशुपक्षियोनीन्। ४ देवेषु मानुषोपकारं निरूपयति-नरा इति । सम्यक्प्रयुक्तैः = वेदोक्तविधानेन सम्यक्साधितैरित्यर्थः । ५ शेषम. विभक्तं किञ्जिद् भागधेयम् अंशसमूहो न विद्यते । ६ यतो यूयं बालरक्षार्थं सृष्टास्तत्तस्मात्कारणादित्यर्थः । ७ उरसन्ने बलिभिक्षे येषु तेषु उत्सन्नबलिभिक्षेषु । भिन्ने कांस्ये कांस्यपात्रे उपभोक्तुं शीलं येषां तेषु भिन्न-कांस्योप भोजिषु । हिंसाऽऽत्मका वृत्तिरित्यर्थः । ९ ग्रहेोपसृष्टा जुष्टा ग्रहोप • -सृष्टाः । १० वैकल्यं = विकलता । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1197
पाठ पढ़ें पाठ छिपाएँ
+ अ ० ३८ ] उत्तरतन्त्रम् । Digitized by Arya Samaj Foundation Chennai and eGangotri स्कन्दग्रहोऽत्युप्रतमः सर्वेष्वेव यतः स्मृतः । १०३ ९ अन्यो वा सर्वरूपैस्तु न साध्यो ग्रह उच्यते ॥ २२ ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे ग्रहोत्पत्त्यध्यायो नाम ( एकादशोऽध्यायः, आदितः ) सप्तत्रिंशत्तमोऽध्यायः ॥ ३७ ॥
अष्टत्रिंशत्तमोऽध्यायः ।
अथोतो योनिव्यापत्प्रतिषेधं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
प्रवृद्धलिङ्ग पुरुषं यात्यर्थमुपसेवते ।
रूक्षदुर्बलबाला या तस्या वायुः प्रकुप्यति ॥ ३ ॥
स दुष्टो योनिमासाद्य योनिरोगाय कल्पते ।
त्रयाणामपि दोषाणां यथास्वं लक्षणेन तु ॥ ४ ॥
विंशतिर्व्यापदो योनेनिर्दिष्टा रोगसङ्ग्रहे ।
मिथ्याऽऽचारेण याः स्त्रीणां प्रदुष्टेनार्त्तवेन च ॥ ५ ॥
जायन्ते बीजदोषाच्च दैवाच्च शृणु ताः पृथक् । १ सर्वाणि रूपाणि लक्षणानि यत्र स सर्वरूपोऽन्यो वा ग्रहः साध्यो नोच्यते इत्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतकोमारतन्त्रे सुधाऽऽख्यटिप्पन्यां सप्तत्रिंशोऽध्यायः । अष्टत्रिंशत्तमोऽध्यायः । २ ग्रहोत्पत्त्यध्यायानन्तरं कौमारतन्त्रमुपसंहरन् कुमारजन्मविकारकारणाद् योनि व्यापत्प्रतिषेधमधिकरोति - अथात इति 1 । योनेर्व्यापदां रोगाणां प्रतिषेधो योनिव्याप-1 त्प्रतिषेधस्तम् । ३ योनिरोगनिदानमाह - प्रवृद्धेति । रूक्षदुर्बलबाला या स्त्री प्रवृद्ध-लिङ्गं पुरुषमत्यर्थमतिशयेनोपसेवते, तस्या वायुः प्रकुप्यति; स वायुर्दुष्टः प्रकुपितः सन् योनिमासाद्य योनिरोगाय कल्पते इति सम्बन्धः । ४ मिथ्याऽऽचारेण → श्रसम्यगा-हाराचारेण, चरधातोर्गतिभक्षणार्थत्वात् । तन्त्रान्तरे --- " मिथ्याऽऽहारविहाराभ्यां दुष्टै-र्दोषैः प्रदूषितात् । श्रार्तवाद बीजतश्चापि दैवाद्वा स्युर्भगे गदाः ॥ ” इति । प्रदुष्टेनार्त-वेन = वातादिदुष्टरजसेत्यर्थः । ५ बीजदोषात् = मातापित्रोरारम्भकबीजदोषात्, दे. वात् = प्राक्तनाघर्मवशात् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1198
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां -१०४० Digitized by Arya SamapFoundation Chennai and eGangotri [ अ ० ३८ उदावर्त्ता तथा वन्ध्या विप्लुता च परिप्लुता ॥ ६ ॥
वातला चेति वातोत्थाः, पित्तोत्था रुधिरक्षरा ।
वामिनी स्रंसिनी चापि पुत्रघ्नी पित्तला च या ॥ ७ ॥
अत्यानन्दा च या योनिः कर्णिनी चरणाद्वयम् ।
श्लेष्मला च कफाज्ज्ञेया षण्डौख्या फलिनी तथा ॥ ८ ॥
महती सूचिवक्त्रा च सर्वजेति त्रिदोषजा ।
सफेनिलमुदावर्त्ता रजः कृच्छ्रेण मुञ्चति ॥ ९ ॥
बन्ध्यां नैष्टार्त्तवां विद्याद्विप्लुतां नित्यवेदनाम् ।
परिप्लुतायां भवति ग्राम्यधर्मे रुजा भृशम् ॥ १० ॥
वातला कर्कशा स्तब्धा शूलनिस्तोदपीडिता ।
चतसृष्वपि चाद्यासु भवन्त्यनिलवेदनाः ॥ ११ ॥
र्संदाहं प्रक्षरत्यस्रं यस्यां सा लोहितक्षरा ।
सवातमुद्गिरेद्वीजं " वामिनी रजसा युतम् ॥ १२ ॥
१ दोषभेदेन योनिरोग संख्यामाख्याति - उदावर्तेति । २ चरणाद्वयम् अचरणा. प्रतिचरणा चेति द्वितयम् । ३ षण्डाख्या = षण्डी । ४ वातजपञ्चयोनिरोगाणां लक्षणानि निर्दिशति — सफेनिलेति । सा योनिः फेनिलं फेनवदार्तवं मुञ्चति । ऊर्ध्व-मावतै: समन्ताद्वर्तनं वायोर्यत्र सोदावर्ता । उदावर्ताऽऽदीनां विशेषलक्षणमुक्तं चरके | तत्रोदावर्तालक्षणम्– “ वेगोदावर्तनाद्योनिमुदावर्तयतेऽनिलः । सा रुगार्ता रजः कृच्छे -गोदावृत्तं विमुञ्चति ॥ आर्तवे सा विमुक्ते तु तरक्षणं लभते सुखम् । रजसो गणना-दूर्ध्वं ज्ञेयोदावर्तिनी बुधैः ॥ ” इति । श्रन्यासां लक्षणादिकं तत एवावसेयम् । ५ नष्टमार्तंबं यस्यां सा तो नष्टार्तवाम्, नित्यवेदनां = वातजनिततोदा दिनाना-वेदनायुक्ताम् ६ परि सर्वतो वातविकारेण प्लुतश्वात् परिप्लुता सन्ज्ञा बोध्या । ग्राम्यधर्मे = मैथुने । ७ वातलया सह इति पञ्च वातजयोनिव्यापदः । वातलायाः पृथगभिधानं वातलायां विशेषेण वातवेदनाप्रादुर्भावार्थम् । ८ श्रधासु = उदावर्ता -वन्ध्या - विप्लुता - परिप्लुतासु, अनिलवेदनाः - तोदायः । ९ पित्तजपञ्चयोनिरोगाणां लक्षणान्याह - सदाहमिति । श्रस्रम् = आर्तवम् । १० बीजं = शुक्रम्, शुद्धमपि वमेदित्यर्थः 1 । चरके - " षडहात् सप्तरात्राद्वा शुक्रं गर्भा-शयं गतम् । सरुगं नीरुजं बाऽपि या स्रवेत् सा तु वामिनी ॥ ” इति योन्याः शुक्र-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1199
पाठ पढ़ें पाठ छिपाएँ
० ३८ ] Digitized by A ल सरुव Foliation Chennai and eGangotri १०४१
प्रस्रंसिनी स्यन्दते तु क्षोभिता दुःप्रसूश्च या ।
स्थितं स्थितं हन्ति गर्भं पुत्रघ्नी रक्तसंस्रवात् ॥ १३ ॥
अत्यर्थं पित्तला योनिर्दाहपाकज्वरान्विता ।
चतसृष्वपि चौद्यासु पित्तलिङ्गोच्छु यो भवेत् ॥ १४ ॥
अत्यानंदा न सन्तोषं ग्राम्यधर्मेण गच्छति ।
कर्णिन्यां कर्णिको योनौ श्लेष्मासृग्भ्यां प्रजायते ॥ १५ ॥
मैथुनेऽचरणा पूर्व पुरुषादतिरिच्यैते ।
बहुः श्चातिचरणादन्या बीजं न विन्दति ॥ १६ ॥
श्लेष्मला पिच्छिला योनिः कण्डूयुक्ताऽतिशीतला ।
चतसृष्वपि चाद्यसु श्लेष्मलिङ्गोच्छ्रितिर्भवेत् ॥ १७ ॥
4 ' अनावस्तना पण्डी खरस्पर्शा च मैथुने ।
४४' अतिकाय गृहीतायास्तरुण्याः फलिनी भवेत् ॥ १८ ॥
विवृताऽतिमहायोनिः सूचीवक्त्राऽतिसंवृता १२ । वमनसमयमाह । १ क्षोभिता = विमर्दिता, दुःखेन प्रसूयत इति दुःप्रस्ः या योनिः सा प्रसंसिनीति योज्यम् । २ दाहपाकेत्याद्युपलक्षणम्, तेन नीलपीतासितार्तवा च भवति । तदुक्तम् - " व्यापल्लवणक ट्वम्ल क्षाराद्यैः पित्तजा भवेत् । दाहपाकज्वरो. या नीलपीतासितार्तवा ॥ ” इति । ३ श्राद्यासु == रुधिरक्षरा - वामिनो -प्रसंसिनी-पुत्रघ्नीषु, पित्तलिङ्गोच्छ्रयः = प्रोषचोषादिपित्त लिङ्गोच्छ्रयः । ४ इलेष्मजपञ्चयोनिरोगाणां लक्षणानि दर्शयति - सत्यानन्देति । ग्राम्यधर्मेण = मैथुनेन । ५ कर्णिका = कमलबीजकोशा कृति मांसकन्दी । ६ यत्र योनौ मैथुने मैथुनकाले पुरुषात् पुरुषबीजात् पूर्वमतिरिच्यते निर्गम्यते, स्त्रीबीजमिति शेषः । साऽच-रणा । ७ बहुशोऽतिचरणाद् मैथुनातिचरणाद् श्रन्या प्रतिचरणा बीजं गर्भाङ्कुर • जननं न विदन्ति न प्राप्नोति । ८ अतिशीतलेत्युपलक्षणम् 9 तेन वेदनाऽऽदिकमपि बोध्यम् । तथा च तन्त्रान्तरम् - " कफोऽभिष्यन्दिभिवृद्धो योनि चेद् दूषयेत् स्त्रियः । स कुर्यात् पिच्छिलां शीतां कण्डूग्रस्तां सवेदनाम् ॥ ” इति । ९ आद्यासु 1 अत्यानन्दा-कर्णिन्यचरण ऽतिचरणासु । १० सान्निपातिकपञ्चयोनिरोगाणां लक्षणानि निरूपयति - अनार्तवेति । ' श्रना-तवाऽस्तनी ' इति पाठान्तरम् । ११ श्रतिकायेन महामेइन पुरुषेण गृहीताया सङ्गताया इत्यर्थः। १२ अतिशयेन सुचीवत् सङ्कीर्णमुखी प्रतिसंवृता । ६६ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1200
पाठ पढ़ें पाठ छिपाएँ
१०४२ Digitized by Arya s सुश्रुतसंहितायां Foundation Chennai and eGangotri [ अ ० ३८ सर्वलिङ्गसमुत्थाना सर्वदोषप्रकोपजा ॥ १ ९ ॥
चतसृष्वपि चाद्यासु सर्वलिङ्गोच्छ्रितिर्भवेत् ।
पञ्चासाध्या भवन्तीमा योनयः सर्वदोषजाः ॥ २० ॥
प्रतिदोषन्तु साध्यासु स्नेहादिक्रम इष्यते ।
दद्यादुत्तरबस्तींश्च विशेषेण यथोदितान् ॥ २१ ॥
कर्कशां शीतलां स्तब्धामल्पस्पर्शाच मैथुने ।
कुम्भीरवेदैरुपचरेत् सानूपौदकसंयुतैः ॥ २२ ॥
मधुरौषधसंयुक्तान् वेशवारांश्च योनिषु ।
निक्षिपेद्धारयेच्चापि पिचुतैलमतन्द्रितः ॥ २३ ॥
धावनानि च पथ्यानि कुर्वीतापूरणानि च ।
ओषचोषान्वितासूक्तं कुर्याच्छीतं विधिं भिषक् ॥ २४ ॥
दुर्गन्धां पिच्छिलां चापि चूर्णैः पञ्चकषायजैः । १ सर्वदोषलिङ्गानां समुत्थानं यत्र सा सर्वलिङ्ग समुत्थाना । षण्डी - फलिनी - महती - सूचीवक्त्रासु । २ श्राद्यासु ३ वातजयोनिरोगचिकित्सां । वक्ति - प्रतिदोषमिति । साध्यासु योनिव्यापत्सु प्रतिदोषं यः स्नेद्दादिक्रमः स इष्यते इति योजना | “ तासु योनिषु चाद्यासु स्नेहादि-क्रम इष्यते । बस्त्यभ्यङ्गपरीषेकप्रलेप पिचुधारणम् ॥ ” इति भावमिश्रः । ४ यथोदि-तान् = वातादिभेदेन यथोक्तानित्यर्थः । ५ कुम्भीरवेदैरुपचरेत् = आनूपौदकमांस • वातन्नद्रव्यक्काथपूर्ण कुम्भीं कृत्वा भूमौ निखन्य तदुपरि शय्यां संस्थाप्य अग्नि. सन्तप्तलौहपाषाणगुडकान् काथे निक्षिप्य तदुत्थितैर्बाष्पस्वेदेर्योनिप्रदेशमात्रगामिभिरुप · चरेदिति डल्द्दण:। “ मृदुभिः पञ्चभिर्नारों स्निग्धस्विन्नामुपाचरेत् । सर्वतः सुविशुद्धायाः शेषं कर्म विधीयते ॥ वातव्याधिहरं कर्म वातार्तानां सदा हितम् । औौदकानूपजैर्मासैः क्षीरैः सतिलतण्डुलैः ॥ सवातघ्नौषधैर्नाडी कुम्भीस्वेदैरुपाचरेत् । श्रक्तां लवणतैलेन साश्मप्रस्तरसङ्करैः ॥ स्विन्नां कोष्णाम्बुसिक्ताङ्ग वातघ्नैर्भोजयेद्रसैः । " इति चरकः । ६ पिचु = ' फाहा ' इति लोके । ७ धावनानि = प्रक्षालनानि, पथ्यानि = वातघ्नौ-षघसाधितानीत्यर्थः । ] ८ पित्तजयोनिरोग चिकित्सामाचष्टे - ओषेति । शीतं विधि = रक्तपित्तहरत्रि-धानमित्यर्थः । “ कारयेद्रक्तपित्तघ्नं शीतं पित्तकृतासु च " इति चरकः । ९ पश्च-कषायजैश्चूर्णैः = न्यग्रोधोदुम्बराश्वत्थप्लक्षपारिषचूर्णैः । CC - 0. Gurukul Kangri Collection, Haridwar