सुश्रुत संहिता चौखम्बा — पृष्ठ 1191–1200

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1191–1200

पृष्ठ 1191

सुश्रुत संहिता चौखम्बा, पृष्ठ 1191 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३५ ] Digitized by Arya उत्तरतन्त्रम् । Foundation Chennai and eGangotri १०३३ जलाशयालया देवी पातु त्वां शीतपूतना ॥ ९ ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे शीतपूतनाप्रतिषेधो नाम ( अष्टमोऽध्यायः, आदितः ) चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥

पञ्चत्रिंशत्तमोऽध्यायः ।

अथोतो मुखमण्डिकाप्रतिषेधं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

कपित्थबिल्वक वांशीगन्धर्वहस्तकाः ।

कुबेराँक्षी च योज्याः स्युर्बालानां परिषेचने ॥ ३ ॥

स्वरसैभृङ्गवृक्षाणों तथाऽजहरिगन्धयोः ।

तैलं वसाञ्च संयोज्य पचेदभ्यञ्जने शिशोः ॥ ४ ॥

मधूलिकायां पयसि तुगाक्षीय गणे तथा ।

मंधुरे पञ्चमूले च कनीयसि घृतं पचेत् ॥ ५ ॥

मुद्गौदनाशया । १ जलाशय आलया निवासस्थानं वस्याः सा शीतपूतना देवी स्व बालं पातु रक्षतु । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कौमारतन्त्रे सुधाऽऽख्यटिप्पन्यां चतुस्त्रिशोऽध्यायः । पञ्चत्रिंशत्तमोऽध्यायः । २ शीतपूतनाप्रतिषेधानन्तरं नवग्रहाकृतिविज्ञानीयक्रमोक्तं मुखमण्डिकाप्रतिषेधम-विकरोति - अथात इति । ३ तर्कारी = श्ररणी, ' जया जयन्ती तर्कारी नादेयी वैज-यन्तिका ' इत्यमरः । वांशी = वंशलोचना, गन्धर्वस्य इस्त इव पत्रमस्येति गन्धर्वहस्तकः शुक्लैरण्ढः । ४ कुबेराक्षी पाटला । ५ वातदरबिल्वादिकानां भृङ्गाः पत्रभङ्गाः, तदुपयोगिका वृक्षा इति डल्हणः । ' भृङ्गं त्वक्पत्रं भृङ्गास्तु षिड्गधूम्याटमार्कवाः ' इति हैमः । भृङ्गवृक्षो भृङ्गराज इति सुश्रुतार्थसन्दीपनम् । श्रजइरिगन्धयोः = बस्तगन्धाऽ-श्वगन्धयोः । ६ मधूलिकायां = मूर्वायाम्, पयसि = गोदुग्धे, तुगाक्षीर्यो = वंशलोचनायाम् । ७ मधुरे == काकोल्यादिमधुरवर्ग, कनीयति पञ्चमूले = त्रिकण्टक बृहतीद्वय पृथक्पर्ण्यो CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1192

सुश्रुत संहिता चौखम्बा, पृष्ठ 1192 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०३४ by Arya Samaj F सुश्रुतसंहितायां reGangotri

• वचासरसः कुष्ठं सर्पिश्वोद्धूपनं हितम् ।

धारयेदपि जिह्वाश्च चेोषचीरल्लिसर्पजाः ॥ ६ ॥

॥ वकं चूर्णकं माल्यमञ्जनं पारदं तथा ।

मनःशिलाञ्चोपह हरेद्गोष्ठमध्ये बलिं तथा ७ ॥

पायसं सपुरोडाशं बल्यर्थमुपसंहरेत् ।

मन्त्रपूतौभिरद्भिश्च तत्रैव स्नपनं हितम् ॥ ८ ॥

अकृता रूपवती सुभगा कामरूपिणी । ६ गोष्ठमध्यालयरता पातु त्वां मुखमण्डिका ॥ ९ ॥

[ अ ० ३६ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे मुखमण्डिकाप्रतिषेधो नाम ( नवमोऽध्यायः, आदितः ) पञ्चत्रिंशत्तमोऽध्यायः ॥ ३५ ॥

पत्रिंशत्तमोऽध्यायः ।

अथातो नैगमेषप्रतिषेधं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

विदारिगन्धा चेति द्रव्यसङ्ग्रहणीयाध्यायोक्ते । १ सर्जरस: = स्वर्णचूडो नीलाङ्गः, ' नीलकण्ठ ' इति लोके । २ चाषः =

नन्दनः पुष्टिवर्धनः । हेमतुण्डो मणिग्रीवः स्वस्तिकश्चापराजितः ॥

' राल ' इति ख्यातः । ' अशोकश्च विशोकश्च श्रष्टौ चाषस्य नामानि चाषं दृष्ट्वा तु यः पठेत् । अर्थसिद्धिर्भवेत्तस्य मिष्टमन्नं वराङ्गना ॥ ” इति । चीरलिः = ' चील ' इति प्रथते । ३ वर्णकः = रोचनिका, इरितालमित्यन्ये । चूर्णकम् = ‘ अवीर ’ इति बोध्यम्, अञ्जनं = रसाञ्जनम् । ४ गोष्ठमध्ये = गोशालामध्ये । ५ मन्त्रपूताभिः = गायव्यभिमन्त्रिताभिः । तत्रैव = गोष्ठमध्ये इत्यर्थः । ६ बालस्य रक्षामन्त्रं निर्दिशति - अलडकृतेति । अलङ्कृता = अलङ्कारयुक्ता, कामं यथेच्छं रूपमस्ति श्रस्या इति कामरूपिणी । ७ त्वां बालं पातु रक्षतु । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कौमारतन्त्रे सुधाऽऽख्यटिप्पन्यां पञ्चत्रिंशोऽध्यायः । षट्त्रिंशत्तमोऽध्यायः । = नवग्रहाकृतिविज्ञानीयक्रमागतं पारिशेष्यान्नैगमेषप्रतिषेधमधिकरोति - अथेति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1193

सुश्रुत संहिता चौखम्बा, पृष्ठ 1193 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३६ ] Digitized by Ary उक्त रक्तन्त्रि on Chennai and eGangotri १०३५

बिल्वाग्निमन्धपूतीकोः कार्याः स्युः परिषेचने ।

सुरा सबीजं धान्याम्लं परिषेफे च शस्यते ॥ ३ ॥

प्रियङ्गुसरे लाऽनन्ताशतपुष्पाकुटन्नटैः ।

पचेत्तैलं सगोमूत्रैर्दधिमस्त्वम्लकाञ्जिकैः ॥ ४ ॥

पञ्चमूलयका क्षीरे मधुरकेषु च ।

पचेद् घृतञ्च मेधावी खर्जूरीमस्तकेऽपि वा ॥ ५ ॥

वचां वयःस्थां गोमोमीं जटिलां चापि धारयेत् ।

उत्सादनं हितं चात्र स्कन्दापस्मारनाशनम् ॥ ६ ॥

सिद्धार्थ कवचाहिङ्गुकुष्ठचैवाक्षतैः सह ।

भल्लातकाजमोदाश्च हितमुद्धूपनं शिशोः ॥ ७ ॥

मर्कटोलूकगृध्राणां पुरीषाणि नवग्रहे ।

धूपः सुते जने कार्यो बालस्य हितमिच्छता ॥ ८ ॥

तिलतण्डुलकं माल्यं भक्ष्यांश्च विविधानपि ।

कुमारपितृमेषाय वृक्षमूले निवेदयेत् ॥ ९ ॥

अधस्ताद्वटवृक्षस्य स्नॅपनं चोपदिश्यते ।

बलिं " न्यग्रोधवृक्षेषु तिथौ षष्ठ्यां निवेदयेत् ॥ १० ॥

११ अजाननश्चलाक्षिभ्रूः कामरूपी महायशाः । मेषाननोऽयं ग्रह इति ग्रहोत्पत्त्यध्याये वक्ष्यते । १ पूतीकः = = नक्तमालः । २ सरला = शुक्ला त्रिवृत्, अनन्ता - उत्पलसारिवा, शतपुष्पा = ' सौंफ ' इति ख्याता | कुटन्नटं = तगरम्, श्योनाक इत्यन्ये । दधिमस्त्वम्ल काञ्जिकैः गोमूत्रैश्च प्रत्येकं समं तैलं प्रिय-ङ्ग्वादिकल्कं तैलचतुर्थीशं प्रक्षिप्य पचेत् । ३ पञ्चमूलद्वयक्काथे दशमूलक्काथे त्रिगुणे, क्षीरे घृतसमे मधुरकेषु काकोल्यादिषु ख-र्जूरी मस्तके खर्जूरीमज्जनि वा पानार्थं घृतं पचेदित्यर्थः । तत्र काकोल्यादिकल्कः स्नै · इचतुर्थांशः, खर्जूरीमज्जा वा चतुर्थांशः । ४ वयःस्था = गुडूची, दरीत कोति सुश्रुतार्थस. न्दीपनम् । गोलोमी = श्वेतदूर्वा, जटिला = जटामांसी ॥५ उत्सादनमुद्वर्तनं, वचाहि-जुयुतं स्कन्दापस्मारनाशनं । द्वितमत्रनैगमेषग्रहजुष्टेऽस्तीत्यर्थः । ६ सिद्धार्थकः = श्वेतसर्षपः, अक्षतैः = यवैरित्यर्थः । ७ सुप्ते जने - श्रर्द्धरात्रे । ८ क्षीरवृक्षमूले इत्यर्थः । ९ गायत्र्यभिमन्त्रितजलेन स्नपनमित्यर्थः । १० बलि = " तिलतण्डुलकं माल्यं इरितालं मनःशिला ” इति शकुनीप्रतिषेधोक्तम् । ११ बालस्य रक्षामन्त्रं दर्शयति— CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1194

सुश्रुत संहिता चौखम्बा, पृष्ठ 1194 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०३ by Arya Samaj Found सुश्रुत संहितायां cangotri [ अ ० ३७ बालं बालेपिता देवो नैगमेषोऽभिरक्षतु ॥ ११ ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे नैगमेषप्रतिषेधो नाम ( दशमोऽध्यायः, आदितः ) षट्त्रिंशोऽध्यायः ॥ ३६ ॥

सप्तत्रिंशत्तमोऽध्यायः ।

अथातो ग्रहोत्पत्तिमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

नव स्कन्दादयः प्रोक्ता बालानां य इमे ग्रहाः ।

श्रीमन्तो दिव्यवपुषो नारीपुरुषविग्रहाः ॥ ३ ॥

एते गुहस्य रक्षार्थ कृत्तिकोमाऽग्निशूलिभिः ।

सृष्टाः शरवणस्थस्य रक्षितस्यात्मतेजसा ॥४ ॥

स्त्रीविग्रहा ग्रहा ये मयेरिताः । तु नानारूपा अजेति । श्रजाननः = मेषाननः । १ बालपिता बालस्य पिता देवो नैगमेषो बालम • भिरक्षतु सर्वतः पात्वित्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कौमारतन्त्रे सुधाऽख्यटिप्पन्यां षट्त्रिंशोऽध्यायः । सप्तत्रिंशत्तमोऽध्यायः । २ नवग्रहाकृतिविज्ञानीये ‘ उत्पत्ति कारणं चैव ' इत्युररीकृतत्वात् सम्प्रति ग्रहोप-त्यध्यायमधिकरोति — अथात इति । ग्रहाणां स्कन्दादीनामुत्पत्ति प्राप्तिमधिकृत्य कृतोऽध्यायो ग्रहोत्पत्तिस्तम् । तद्धितप्रत्ययस्य लुक् । ३ बालग्रहाणां नवानामुत्पत्ति वर्णयति - नवेति । ४ विग्रहः = शरीरम्, पुरुषशरीराः, स्त्रीशरीरा इत्यर्थः । तत्र स्कन्द – स्कन्दापस्मार - नैगमेषाः पुरुषशरीरधारिणः, अवशिष्टाः शकुनी - रेवती - पूतना-ऽन्धपूतना - शीतपूतना - मुखमण्डिका इति षट् स्त्रीशरीरधारिणो ग्रहाः । ५ कृत्तिकोमाऽग्निशुलिभिः श्रात्मतेजसा स्वशक्त्या रक्षितस्य शरवयस्थस्य ग्रहस्य रक्षार्थम् एते ग्रहाः सृष्टा इति सम्बन्धः । उमापदं गङ्गाया अप्युपलक्षणम्, अनन्तरं ‘ गङ्गोमाकृत्तिकानाम् ' इत्युक्तेः । शरवणे स्थितस्य गुद्दस्य कथा वामनपुराणे चतुःपञ्चा-शत्तमेऽध्याये ' दिव्ये शरवणे स्थितः ' इत्यादिनाऽनुसन्धेया । ६ मया = धन्वन्तरिणा । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1195

सुश्रुत संहिता चौखम्बा, पृष्ठ 1195 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३७ ] Digitized by Arya उ लागत tion Chennai and eGangotri १०३७ गङ्गोमाकृत्तिकानां ते ' भागा राजसतामसाः ॥ ५ ॥

नैगमेषस्तु पार्वत्या सृष्टो मेषाननो ग्रहः ।

कुमारेधारी देवस्य गुहस्यात्मसमः सखा ॥ ६ ॥

स्कन्दापस्मारसंज्ञो यः सोऽग्निनाऽग्निसमद्युतिः ।

स च स्कन्दसखा नाम विशाख इति चोच्यते ॥ ७ ॥

स्कन्दः सृष्टो भगवता देवेन त्रिपुरारिणौ ।

बिभर्ति चापरां संज्ञां कुमार इति स ग्रहः ॥। ८ ॥

बाललीलाधरो योऽयं देवो रुद्राग्निसम्भवः ।

मिथ्याऽऽचारेषु भगवान् स्वयं नैष प्रवर्त्तते ॥ ९ ॥

कुर्मारः स्कन्दसामान्यादत्र केचिदपण्डिताः ।

गृह्णातीत्यल्पविज्ञाना ब्रुवते देहचिन्तकाः ॥ १० ॥

ततो भगवति स्कन्दे सुरसेनापती कृते ।

उपतस्थुग्रहाः सर्वे दीप्तशक्तिधरं गुहम् ॥ ११ ॥

ऊचुः प्राञ्जलयश्चैनं वृत्तिं नः संविधत्स्व वै ।

तेषामर्थे " ततः स्कन्दः शिवं देवमचोदयत् ॥ १२ ॥

१ ते = स्त्रीविग्रहाः, भागाः = अंशाः, राजसतामसाः = रजस्तमोमयभूयिष्ठा इत्य • र्थः । पुरुषविग्रहा ग्रहास्तु रजस्तमोमयाः, न तु तेषु तयोर्भयिष्ठत्वम् । २ कुमारधारी = कुमारपालयिता । ३ सः स्कन्दापस्मारोऽग्निना सृष्ट इत्यर्थः । ४ त्रिपुरारिणा शूलिना, शिवेनेति यावत् । ५ मिथ्या आचारा येषां ते तेषु मिथ्याऽऽचारेषु बालावेशात्मकेषु पापाचारेष्वित्यर्थः । स्वयमेष भगवान् कार्तिकेयो न प्रवर्तते, किन्तु तद्रक्षकाः स्कन्दस्कन्दापस्मारादय एव प्रवर्तन्ते । ६ ये तु स्कन्दग्रहस्य स्कन्द इति कुमार इति च कार्तिकेयसमानं नामधेयं दृष्ट्वा भगवान् कार्तिकेय एव बालेषु प्रवर्तते इत्याहुस्तान् प्रति कथयति — कुमार इति । कुमारः कार्तिकेयः स्कन्दसामान्यात् स्कन्दग्रइनामतुल्यत्वाद् बालं गृह्णातीति केचिदप-ण्डिता देहचिन्तका ब्रुवते, तेऽल्पविज्ञाना श्रज्ञा इत्यर्थः । ७ सुराणां सेनायाः पतौ स्वामिनि सुरसेनापतौ स्कन्दे कृते सति । ८ उपतस्थुः = वृत्तीच्छया श्रागता इत्यर्थः ' वृत्तिर्वर्तनजीवने । ९ नः = श्रस्माकम्, वृत्ति = वर्तनम् जीविकोपायम्, इत्यमरः । संविधत्स्व = कुरु । १० दतः = ग्रहकर्तृकवृत्तिप्रार्थनाऽनन्तरम्, देवं शिवम् श्रचोदयत् प्रार्थयामास । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1196

सुश्रुत संहिता चौखम्बा, पृष्ठ 1196 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०३८ Digitized by Arya Samajसुश्रुतसंहितायां ndec deGangotri [ अ ० ३७

ततो ग्रहांस्तानुवाच भगवान् भगनेत्रहृत् ।

तिर्यग्योनिं मानुषञ्च दैवञ्च त्रितयं जगत् ॥ १३ ॥

परस्परोपकारेण वर्त्तते धार्य्यतेऽपि च ।

देवा मनुष्यान् प्रीणन्ति तैय्र्य्यग्योनींस्तथैव च ॥ १४ ॥

वर्त्तमानैर्यथाकालं शीतवर्षोष्णमारुतैः ।

इज्याऽखलिनमस्कारजपहोमत्रतादिभिः ॥ १५ ॥

राः सम्यक् प्रयुक्तैश्च प्रीणन्ति त्रिदिवेश्वरान् ।

भागधेयं विभक्तञ्च " शेषं किञ्चिन्न विद्यते ॥ १६ ॥

तद् युष्माकं शुभा वृत्तिर्बालेष्वेव भविष्यति ।

कुलेषु येषु नेज्यन्ते देवाः पितर एव च ॥ १७ ॥

ब्राह्मणाः साधवश्चैव गुरवोऽतिथयस्तथा ।

निवृत्ताचारशौचेषु परपाकोपजीविषु ॥ १८ ॥

उत्सन्नबलिभिक्षेषु भिन्नकांस्योपभोजिषु ।

गृहेषु तेषु ये बालास्तान् गृह्णीध्वमशङ्किताः ॥ १ ९ ॥

तत्र वो विपुला ' वृत्तिः पूजा चैव भविष्यति ।

एवं ग्रहाः समुत्पन्ना बालान् गृह्णन्ति चाप्यतः ॥ २० ॥

ग्रहो सृष्टा बालास्तु दुश्चिकित्स्यतमा मताः ।

वैकल्यं ॰ मरणं चापि ध्रुवं स्कन्दग्रहे मतम् ॥ २१ ॥

१ भगनेत्रहृत् = भगनयनहारी, शिव इत्यर्थः । २ परस्परोपकारेण == अन्योन्यो पकारेण, यथा तिर्यग्योनयो गवादयः क्षेत्रकर्षणादिना मनुष्यानुपकुर्वन्ति, मनुष्याश्च माषादिदानेन तिर्यग्योनीनुपकुर्वन्ति । ३ देवमानुषयोः परस्परमुपकारं दर्शयन् प्राक् मानुषेषु देवोपकारमाइ – देवा इति I । तैर्यग्योनीन् = पशुपक्षियोनीन्। ४ देवेषु मानुषोपकारं निरूपयति-नरा इति । सम्यक्प्रयुक्तैः = वेदोक्तविधानेन सम्यक्साधितैरित्यर्थः । ५ शेषम. विभक्तं किञ्जिद् भागधेयम् अंशसमूहो न विद्यते । ६ यतो यूयं बालरक्षार्थं सृष्टास्तत्तस्मात्कारणादित्यर्थः । ७ उरसन्ने बलिभिक्षे येषु तेषु उत्सन्नबलिभिक्षेषु । भिन्ने कांस्ये कांस्यपात्रे उपभोक्तुं शीलं येषां तेषु भिन्न-कांस्योप भोजिषु । हिंसाऽऽत्मका वृत्तिरित्यर्थः । ९ ग्रहेोपसृष्टा जुष्टा ग्रहोप • -सृष्टाः । १० वैकल्यं = विकलता । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1197

सुश्रुत संहिता चौखम्बा, पृष्ठ 1197 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

+ अ ० ३८ ] उत्तरतन्त्रम् । Digitized by Arya Samaj Foundation Chennai and eGangotri स्कन्दग्रहोऽत्युप्रतमः सर्वेष्वेव यतः स्मृतः । १०३ ९ अन्यो वा सर्वरूपैस्तु न साध्यो ग्रह उच्यते ॥ २२ ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे ग्रहोत्पत्त्यध्यायो नाम ( एकादशोऽध्यायः, आदितः ) सप्तत्रिंशत्तमोऽध्यायः ॥ ३७ ॥

अष्टत्रिंशत्तमोऽध्यायः ।

अथोतो योनिव्यापत्प्रतिषेधं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

प्रवृद्धलिङ्ग पुरुषं यात्यर्थमुपसेवते ।

रूक्षदुर्बलबाला या तस्या वायुः प्रकुप्यति ॥ ३ ॥

स दुष्टो योनिमासाद्य योनिरोगाय कल्पते ।

त्रयाणामपि दोषाणां यथास्वं लक्षणेन तु ॥ ४ ॥

विंशतिर्व्यापदो योनेनिर्दिष्टा रोगसङ्ग्रहे ।

मिथ्याऽऽचारेण याः स्त्रीणां प्रदुष्टेनार्त्तवेन च ॥ ५ ॥

जायन्ते बीजदोषाच्च दैवाच्च शृणु ताः पृथक् । १ सर्वाणि रूपाणि लक्षणानि यत्र स सर्वरूपोऽन्यो वा ग्रहः साध्यो नोच्यते इत्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतकोमारतन्त्रे सुधाऽऽख्यटिप्पन्यां सप्तत्रिंशोऽध्यायः । अष्टत्रिंशत्तमोऽध्यायः । २ ग्रहोत्पत्त्यध्यायानन्तरं कौमारतन्त्रमुपसंहरन् कुमारजन्मविकारकारणाद् योनि व्यापत्प्रतिषेधमधिकरोति - अथात इति 1 । योनेर्व्यापदां रोगाणां प्रतिषेधो योनिव्याप-1 त्प्रतिषेधस्तम् । ३ योनिरोगनिदानमाह - प्रवृद्धेति । रूक्षदुर्बलबाला या स्त्री प्रवृद्ध-लिङ्गं पुरुषमत्यर्थमतिशयेनोपसेवते, तस्या वायुः प्रकुप्यति; स वायुर्दुष्टः प्रकुपितः सन् योनिमासाद्य योनिरोगाय कल्पते इति सम्बन्धः । ४ मिथ्याऽऽचारेण → श्रसम्यगा-हाराचारेण, चरधातोर्गतिभक्षणार्थत्वात् । तन्त्रान्तरे --- " मिथ्याऽऽहारविहाराभ्यां दुष्टै-र्दोषैः प्रदूषितात् । श्रार्तवाद बीजतश्चापि दैवाद्वा स्युर्भगे गदाः ॥ ” इति । प्रदुष्टेनार्त-वेन = वातादिदुष्टरजसेत्यर्थः । ५ बीजदोषात् = मातापित्रोरारम्भकबीजदोषात्, दे. वात् = प्राक्तनाघर्मवशात् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1198

सुश्रुत संहिता चौखम्बा, पृष्ठ 1198 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां -१०४० Digitized by Arya SamapFoundation Chennai and eGangotri [ अ ० ३८ उदावर्त्ता तथा वन्ध्या विप्लुता च परिप्लुता ॥ ६ ॥

वातला चेति वातोत्थाः, पित्तोत्था रुधिरक्षरा ।

वामिनी स्रंसिनी चापि पुत्रघ्नी पित्तला च या ॥ ७ ॥

अत्यानन्दा च या योनिः कर्णिनी चरणाद्वयम् ।

श्लेष्मला च कफाज्ज्ञेया षण्डौख्या फलिनी तथा ॥ ८ ॥

महती सूचिवक्त्रा च सर्वजेति त्रिदोषजा ।

सफेनिलमुदावर्त्ता रजः कृच्छ्रेण मुञ्चति ॥ ९ ॥

बन्ध्यां नैष्टार्त्तवां विद्याद्विप्लुतां नित्यवेदनाम् ।

परिप्लुतायां भवति ग्राम्यधर्मे रुजा भृशम् ॥ १० ॥

वातला कर्कशा स्तब्धा शूलनिस्तोदपीडिता ।

चतसृष्वपि चाद्यासु भवन्त्यनिलवेदनाः ॥ ११ ॥

र्संदाहं प्रक्षरत्यस्रं यस्यां सा लोहितक्षरा ।

सवातमुद्गिरेद्वीजं " वामिनी रजसा युतम् ॥ १२ ॥

१ दोषभेदेन योनिरोग संख्यामाख्याति - उदावर्तेति । २ चरणाद्वयम् अचरणा. प्रतिचरणा चेति द्वितयम् । ३ षण्डाख्या = षण्डी । ४ वातजपञ्चयोनिरोगाणां लक्षणानि निर्दिशति — सफेनिलेति । सा योनिः फेनिलं फेनवदार्तवं मुञ्चति । ऊर्ध्व-मावतै: समन्ताद्वर्तनं वायोर्यत्र सोदावर्ता । उदावर्ताऽऽदीनां विशेषलक्षणमुक्तं चरके | तत्रोदावर्तालक्षणम्– “ वेगोदावर्तनाद्योनिमुदावर्तयतेऽनिलः । सा रुगार्ता रजः कृच्छे -गोदावृत्तं विमुञ्चति ॥ आर्तवे सा विमुक्ते तु तरक्षणं लभते सुखम् । रजसो गणना-दूर्ध्वं ज्ञेयोदावर्तिनी बुधैः ॥ ” इति । श्रन्यासां लक्षणादिकं तत एवावसेयम् । ५ नष्टमार्तंबं यस्यां सा तो नष्टार्तवाम्, नित्यवेदनां = वातजनिततोदा दिनाना-वेदनायुक्ताम् ६ परि सर्वतो वातविकारेण प्लुतश्वात् परिप्लुता सन्ज्ञा बोध्या । ग्राम्यधर्मे = मैथुने । ७ वातलया सह इति पञ्च वातजयोनिव्यापदः । वातलायाः पृथगभिधानं वातलायां विशेषेण वातवेदनाप्रादुर्भावार्थम् । ८ श्रधासु = उदावर्ता -वन्ध्या - विप्लुता - परिप्लुतासु, अनिलवेदनाः - तोदायः । ९ पित्तजपञ्चयोनिरोगाणां लक्षणान्याह - सदाहमिति । श्रस्रम् = आर्तवम् । १० बीजं = शुक्रम्, शुद्धमपि वमेदित्यर्थः 1 । चरके - " षडहात् सप्तरात्राद्वा शुक्रं गर्भा-शयं गतम् । सरुगं नीरुजं बाऽपि या स्रवेत् सा तु वामिनी ॥ ” इति योन्याः शुक्र-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1199

सुश्रुत संहिता चौखम्बा, पृष्ठ 1199 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

० ३८ ] Digitized by A ल सरुव Foliation Chennai and eGangotri १०४१

प्रस्रंसिनी स्यन्दते तु क्षोभिता दुःप्रसूश्च या ।

स्थितं स्थितं हन्ति गर्भं पुत्रघ्नी रक्तसंस्रवात् ॥ १३ ॥

अत्यर्थं पित्तला योनिर्दाहपाकज्वरान्विता ।

चतसृष्वपि चौद्यासु पित्तलिङ्गोच्छु यो भवेत् ॥ १४ ॥

अत्यानंदा न सन्तोषं ग्राम्यधर्मेण गच्छति ।

कर्णिन्यां कर्णिको योनौ श्लेष्मासृग्भ्यां प्रजायते ॥ १५ ॥

मैथुनेऽचरणा पूर्व पुरुषादतिरिच्यैते ।

बहुः श्चातिचरणादन्या बीजं न विन्दति ॥ १६ ॥

श्लेष्मला पिच्छिला योनिः कण्डूयुक्ताऽतिशीतला ।

चतसृष्वपि चाद्यसु श्लेष्मलिङ्गोच्छ्रितिर्भवेत् ॥ १७ ॥

4 ' अनावस्तना पण्डी खरस्पर्शा च मैथुने ।

४४' अतिकाय गृहीतायास्तरुण्याः फलिनी भवेत् ॥ १८ ॥

विवृताऽतिमहायोनिः सूचीवक्त्राऽतिसंवृता १२ । वमनसमयमाह । १ क्षोभिता = विमर्दिता, दुःखेन प्रसूयत इति दुःप्रस्ः या योनिः सा प्रसंसिनीति योज्यम् । २ दाहपाकेत्याद्युपलक्षणम्, तेन नीलपीतासितार्तवा च भवति । तदुक्तम् - " व्यापल्लवणक ट्वम्ल क्षाराद्यैः पित्तजा भवेत् । दाहपाकज्वरो. या नीलपीतासितार्तवा ॥ ” इति । ३ श्राद्यासु == रुधिरक्षरा - वामिनो -प्रसंसिनी-पुत्रघ्नीषु, पित्तलिङ्गोच्छ्रयः = प्रोषचोषादिपित्त लिङ्गोच्छ्रयः । ४ इलेष्मजपञ्चयोनिरोगाणां लक्षणानि दर्शयति - सत्यानन्देति । ग्राम्यधर्मेण = मैथुनेन । ५ कर्णिका = कमलबीजकोशा कृति मांसकन्दी । ६ यत्र योनौ मैथुने मैथुनकाले पुरुषात् पुरुषबीजात् पूर्वमतिरिच्यते निर्गम्यते, स्त्रीबीजमिति शेषः । साऽच-रणा । ७ बहुशोऽतिचरणाद् मैथुनातिचरणाद् श्रन्या प्रतिचरणा बीजं गर्भाङ्कुर • जननं न विदन्ति न प्राप्नोति । ८ अतिशीतलेत्युपलक्षणम् 9 तेन वेदनाऽऽदिकमपि बोध्यम् । तथा च तन्त्रान्तरम् - " कफोऽभिष्यन्दिभिवृद्धो योनि चेद् दूषयेत् स्त्रियः । स कुर्यात् पिच्छिलां शीतां कण्डूग्रस्तां सवेदनाम् ॥ ” इति । ९ आद्यासु 1 अत्यानन्दा-कर्णिन्यचरण ऽतिचरणासु । १० सान्निपातिकपञ्चयोनिरोगाणां लक्षणानि निरूपयति - अनार्तवेति । ' श्रना-तवाऽस्तनी ' इति पाठान्तरम् । ११ श्रतिकायेन महामेइन पुरुषेण गृहीताया सङ्गताया इत्यर्थः। १२ अतिशयेन सुचीवत् सङ्कीर्णमुखी प्रतिसंवृता । ६६ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1200

सुश्रुत संहिता चौखम्बा, पृष्ठ 1200 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०४२ Digitized by Arya s सुश्रुतसंहितायां Foundation Chennai and eGangotri [ अ ० ३८ सर्वलिङ्गसमुत्थाना सर्वदोषप्रकोपजा ॥ १ ९ ॥

चतसृष्वपि चाद्यासु सर्वलिङ्गोच्छ्रितिर्भवेत् ।

पञ्चासाध्या भवन्तीमा योनयः सर्वदोषजाः ॥ २० ॥

प्रतिदोषन्तु साध्यासु स्नेहादिक्रम इष्यते ।

दद्यादुत्तरबस्तींश्च विशेषेण यथोदितान् ॥ २१ ॥

कर्कशां शीतलां स्तब्धामल्पस्पर्शाच मैथुने ।

कुम्भीरवेदैरुपचरेत् सानूपौदकसंयुतैः ॥ २२ ॥

मधुरौषधसंयुक्तान् वेशवारांश्च योनिषु ।

निक्षिपेद्धारयेच्चापि पिचुतैलमतन्द्रितः ॥ २३ ॥

धावनानि च पथ्यानि कुर्वीतापूरणानि च ।

ओषचोषान्वितासूक्तं कुर्याच्छीतं विधिं भिषक् ॥ २४ ॥

दुर्गन्धां पिच्छिलां चापि चूर्णैः पञ्चकषायजैः । १ सर्वदोषलिङ्गानां समुत्थानं यत्र सा सर्वलिङ्ग समुत्थाना । षण्डी - फलिनी - महती - सूचीवक्त्रासु । २ श्राद्यासु ३ वातजयोनिरोगचिकित्सां । वक्ति - प्रतिदोषमिति । साध्यासु योनिव्यापत्सु प्रतिदोषं यः स्नेद्दादिक्रमः स इष्यते इति योजना | “ तासु योनिषु चाद्यासु स्नेहादि-क्रम इष्यते । बस्त्यभ्यङ्गपरीषेकप्रलेप पिचुधारणम् ॥ ” इति भावमिश्रः । ४ यथोदि-तान् = वातादिभेदेन यथोक्तानित्यर्थः । ५ कुम्भीरवेदैरुपचरेत् = आनूपौदकमांस • वातन्नद्रव्यक्काथपूर्ण कुम्भीं कृत्वा भूमौ निखन्य तदुपरि शय्यां संस्थाप्य अग्नि. सन्तप्तलौहपाषाणगुडकान् काथे निक्षिप्य तदुत्थितैर्बाष्पस्वेदेर्योनिप्रदेशमात्रगामिभिरुप · चरेदिति डल्द्दण:। “ मृदुभिः पञ्चभिर्नारों स्निग्धस्विन्नामुपाचरेत् । सर्वतः सुविशुद्धायाः शेषं कर्म विधीयते ॥ वातव्याधिहरं कर्म वातार्तानां सदा हितम् । औौदकानूपजैर्मासैः क्षीरैः सतिलतण्डुलैः ॥ सवातघ्नौषधैर्नाडी कुम्भीस्वेदैरुपाचरेत् । श्रक्तां लवणतैलेन साश्मप्रस्तरसङ्करैः ॥ स्विन्नां कोष्णाम्बुसिक्ताङ्ग वातघ्नैर्भोजयेद्रसैः । " इति चरकः । ६ पिचु = ' फाहा ' इति लोके । ७ धावनानि = प्रक्षालनानि, पथ्यानि = वातघ्नौ-षघसाधितानीत्यर्थः । ] ८ पित्तजयोनिरोग चिकित्सामाचष्टे - ओषेति । शीतं विधि = रक्तपित्तहरत्रि-धानमित्यर्थः । “ कारयेद्रक्तपित्तघ्नं शीतं पित्तकृतासु च " इति चरकः । ९ पश्च-कषायजैश्चूर्णैः = न्यग्रोधोदुम्बराश्वत्थप्लक्षपारिषचूर्णैः । CC - 0. Gurukul Kangri Collection, Haridwar