सुश्रुत संहिता चौखम्बा — पृष्ठ 1201–1210

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1201–1210

पृष्ठ 1201

सुश्रुत संहिता चौखम्बा, पृष्ठ 1201 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३८ ] Digitized by Arjitaraama Foration Chennai and eGangotri पूरयेद्राजवृक्षादिकषायैश्चापि धावनम् ॥ २५ ॥

योन्यान्तु पूयस्राविण्यां शोधनद्रव्यसम्भृतैः ।

सगोमूत्रैः सलवणैः शोधनं हितमिष्यते ॥ २६ ॥

बृहतीफलकल्कस्य द्विहरिद्रायुतस्य च ।

कण्डूमतीमल्पस्पशीं पूरयेद् धूपयेत्तथा ॥ २७ ॥।

वत्तिं प्रदद्यात् कर्णिन्यां शोधनद्रव्यसम्भृताम् ।

प्रस्रंसिनीं घृताभ्यक्तां क्षीरस्विन्नां प्रवेशयेत् ॥ २८ ॥

पिधाय वेशवारेण ततो बन्धं समाचरेत् ।

प्रतिदोषं विदध्याच्च सुरारिष्टासवान् भिषक् ॥ २ ९ ॥

प्रातः प्रातर्निषेवेत रसोनादुद्धृतं रसम् ।

चीरमांसरसप्रायमाहारं विदधीत च ॥ ३० ॥

शुक्रार्त्तवादयो दोषाः स्तनरोगाश्च कीर्त्तिताः ।

क्लैव्यस्थानानि मूढस्य गर्भस्य विधिरेव च ॥ ३१ ॥

गर्भिणी प्रतिरोगेषु चिकित्सा चाप्युदाहृता । सर्वथा त प्रयुञ्जीत योनिव्यापत्सु बुद्धिमान् । १०४३ १ पूरयेद्, योनिमिति शेषः । राजवृक्षादिकषायैः = श्रारग्वधादिकाथै रित्यर्थः । २ शोधनद्रव्याणि मिश्रकोक्तानि ग्राह्याणि । ३ कफजयोनिरोगचिकित्सामाह - बृहतीति । ४ धूमनस्यकवलग्रहचिकि-त्सितोक्तेन व्रणधूपन विधिना धूपयेदित्यर्थः । ५ रसोनात् 33 लशुनात् । अस्योत्पत्ति-वर्णने– “ यदाऽमृतं वैनतेयो जहार सुरसत्तमात् । तदा ततोऽपतद्विन्दुः सरसः सोऽभ. बद् भुवि ॥ पञ्चभिश्च रसैर्युक्तो रसेनाम्लेन वर्जितः । तस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः ॥ ” इति रसोन संज्ञाकरणकारणमुक्तम् । ६ कौमारतन्त्रमुपसंहरवि - शुक्रेति । शुक्रार्तवादयो दोषाः शुक्रशोणितशुद्धिशा-रीरे, स्तनरोगाश्च विसर्पनाडोस्तनरोगनिदाने, तच्चिकित्सिते च सलक्षणचिकित्सिताः कीर्तिताः कथिताः । शुक्रार्तवादय इत्यत्र श्रादिशब्दाद् धात्रीस्तन्यदोषाश्च बोध्याः । ७ क्लैब्यस्थानानि = क्लैब्यकारणानि क्षीणबलीयवाजिकरणे, गर्भस्य मूढस्य कारणानि, विधिः = क्रिया चेति द्वयं मूडगर्भनिदाने तच्चिकित्सितेऽभिहितम् । ८ गर्भिण्या मासानुमासं प्रतिरोगेषु रक्तस्रावादिषु चिकित्सोदाहृता गर्भिणीव्याकरण-शारीरे । ९ तां = पूर्वोक्तां चिकित्साम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1202

सुश्रुत संहिता चौखम्बा, पृष्ठ 1202 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०४४ Digitized by Arya ऽनुश्रुतसंहितायां-mai and eGangotri [ अ ० ३ ९ अपप्रजातीरोगांश्च चिकित्सेदुत्तराद्भिषक् ॥ ३२ ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे योनिव्यापत्प्रतिषेधो नाम ( द्वादशोऽध्यायः, आदितः ) अष्टत्रिंशोऽध्यायः ॥ ३८ ॥

एकोनचत्वारिंशत्तमोऽध्यायः ।

अथातो ज्वरप्रतिषेधं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

येनौमृतमपां मध्यादुद्धृतं पूर्वजन्मनि ।

यतोऽमरत्वं सम्प्राप्तास्त्रिदशास्त्रिदिवेश्वरात् ॥ ३ ॥

शिष्यास्तं देवमासीनं पप्रच्छुः सुश्रुतादयः ।

व्रणस्योपद्रवाः प्रोक्ताः ब्रणिनामप्यतः परम् ॥ ४ ॥

समासाद् व्यासतश्चैव ब्रूहि नो भिषजां वर! ।

उपद्रवेणं जुष्टस्य व्रणः कृच्छ्रेण सिध्यति ॥ ५ ॥

उपद्रवास्तु व्रणिनः कृच्छ्रसाध्याः प्रकीर्त्तिताः ।

प्रक्षीणबलमांसस्य शेषंधातुपरिक्षयात् ॥ ६ ॥

१ श्रपप्रजाताया श्रयथाकालमसुखं वा प्रसूताया ज्वरादिकान् रोगानित्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कौमारतन्त्रे सुधा ss ख्य टिप्पन्या-मष्टत्रिंशोऽध्यायः । एकोनचत्वारिंशोऽ ऽध्यायः । ( अथ कायचिकित्सातन्त्रम् । ) २ कायचिकित्सातन्त्रे बहुषूपद्रवेषु सत्सु ज्वरस्य रुद्रकोपाग्निसम्भूतत्वेन गरीय • स्त्वात् प्राक् ज्वरप्रतिषेधमधिकरोति - अथात इति । ज्वरश्च प्रतिषेधः चिकित्सा चेति ज्वरप्रतिषेधं व्याख्यास्यामः, प्रकर्षेण कथयिष्याम इत्यर्थः । ३ येन धन्वन्तरिणा पूर्वजन्मनि देवत्वे अपां मध्यादमृतमुद्धृतम् । त्रिदशाः यतो यस्मात् त्रिदिवेश्वराद् धन्वन्तरेरमृतत्वसम्प्राप्त्या श्रमरत्वं सम्प्राप्ता इति योज्यम् । 1 ४ व्रणस्योपद्रवा वेदनावर्णास्त्रावादयः प्रोक्ता व्रणास्रावविज्ञानीयादिष्वित्यर्थः । ५ उपद्रवेण = ज्वराद्युपद्रवेण, जुष्टस्य = युक्तपुरुषस्य । ६ शेषधातूनां मेदःप्रभृतीनां परिक्षयादित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1203

सुश्रुत संहिता चौखम्बा, पृष्ठ 1203 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ९ ] Digitized by Arya Sara Tai Chennai and eGangotri

तस्मादुपद्रवान् कृत्स्नान् ब्रूहि नः सचिकित्सितान् ।

सर्वकायचिकित्सासु ये दृष्टाः परमर्षिणा ॥ ७ ॥

तेषां तद्वचनं श्रुत्वा प्राब्रवीद्भिषजां वरः ।

ज्वरमादौ प्रवक्ष्यामि स रोगानीकैराट् स्मृतः ॥ ८ ॥

रुद्रकोपग्निसम्भूतः सर्वभूतप्रतापनः ।

तैस्तैर्नामभिरन्येषां सत्त्वानां परिकीर्त्यते ॥ ९ ॥

जन्मादौ निधने चैव प्रायो विशति देहिनम् ।

अतः सर्वविकाराणामयं राजा प्रकीर्त्तितः ॥ १० ॥

ऋते देवमनुष्येभ्यो नान्यो विषहते तु तम् ।

कर्मणा लभते यस्माद् देवत्वं मानुषादपि ॥। ११ ॥

पुनश्चैव च्युतः स्वर्गान्मानुष्यमनुवर्त्तते ।

तस्मात्ते देवभावेन सहन्ते मानुषा ज्वरम् ॥। १२ ॥

शेषाः सर्वे विपद्यन्ते तैय्र्य्यग्योना ज्वरादिताः ।

स्वेदावरोधः सन्तापः सर्वाङ्गग्रहणं तथा ॥ १३ ॥

१०४५ १ परमर्षिणा = धन्वन्तरिणा । २ रोगेषु ज्वरस्य प्राधान्यं दर्शयति - तेषामिति । तेषां = शिष्याणाम् । ३ रोगानीकस्य रोगसमूहस्य राट्र राजा । ४ दक्षाध्व-रध्वंसे कुपितस्य रुद्रस्य ललाटस्वेदजादग्नेः सम्भूतो रुद्रकोपाग्निसम्भूतः । तदुक्तं महाभारते शान्तिपर्वणि " ततस्तस्य सुरेशस्य क्रोधादमिततेजसः । ललाटात् प्रसृतो घोरः स्वेदविन्दुर्बभूव ह ॥ तस्मिन् पतितमात्रे तु स्वेदविन्दौ तदा भुवि । प्रादुर्बभूव सुमद्दानग्निः कालानलोपमः ॥ तत्र चाजायत तदा पुरुषः पुरुषर्षभ! । ज्वरो नामैष धर्मज्ञ! लोकेषु प्रचरिष्यति ॥ ” इति । ५ अन्येषां सवानां गजाश्वादीनां तैस्तैर्नामभिः पाकलाभितापादिभिः परिकी-र्त्यते । तदुक्तं पालकाप्यविरचिते हस्त्यायुर्वेदे महारोगस्थाने नवमाध्याये— “ पाकलः

स तु नागानामभितापस्तु वाजिनाम् । गवामीश्वरसंज्ञश्च मानवानां ज्वरो मतः ॥

श्रजावीनां प्रलापाख्यः करभे चालसो भवेत् । हारिद्रो महिषाणां तु मृगरोगो मृगेषु च ॥ पक्षिणामभिवातस्तु मत्स्येष्विन्द्रमदो मतः । पक्षपातः पतङ्गानां व्याडेश्वक्षिकसं • शकः ॥ ” इति । अन्यत्र - " जलस्य नीलिका भूमेरूषरो वृक्षस्य कोटरः " इति । ६ विषद्दते = सोढुं शक्नोति । ७ विपद्यन्ते = म्रियन्ते इत्यर्थः 1 । ८ ज्वरस्वरूपं निरूपयति — स्वेदेति । स्वेदावरोधः = प्रस्वेदानिर्गमः, प्रस्वेदा. CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1204

सुश्रुत संहिता चौखम्बा, पृष्ठ 1204 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०४६ Digitized by Arya S सुश्रुतसंहितायां nnai and eGangotri [ अ ० ३ ९

विकारा युगपद्यस्मिन् ज्वरः स परिकीर्त्तितः ।

दोषैः पृथक् समस्तैश्च द्वन्द्वैरागन्तुरेव च ॥ १४ ॥

अनेककारणोत्पन्नः स्मृतस्त्वष्टविधो ज्वरः ।

दोषौः प्रकुपिताः स्वेषु कालेषु स्वैः प्रकोपणैः ॥ १५ ॥

व्याप्य देहमशेषेण ज्वरमापादयन्ति हि ।

दुष्टाः स्वहेतुभिर्दोषाः प्राप्यामाशयमूष्मणा ॥ १६ ॥

सहिता रसमागत्य रसस्वेदप्रवाहिणाम् ।

स्रोतसां मार्गमावृत्य मन्दीकृत्य हुताशनम् ॥ १७ ॥

निरस्य बहिरुष्माणं पक्तिस्थानाच्च केवलम् ।

शरीरं समभिव्याप्य स्वकालेषु ज्वरागमम् ॥ १८ ॥

जनयन्त्यथ वृद्धिं वा स्ववर्णञ्च त्वगादिषु ।

' मिथ्याऽतियुक्तैरपि च स्नेहाद्यैः कर्मभिर्नृणाम् ॥ १ ९ ॥

" विविधादभिघाताच्च रोगोत्थानात् प्रपाकतः । निर्गमे कारणमुक्तम्– “ रुणद्धि चाप्यपां धातून् यस्मात्तस्माज्ज्वरातुरः । भवत्यत्यु. ष्णगात्रश्च स्विद्यते न च सर्वशः ॥ ” इति । सन्तापः देहेन्द्रियमनसां तापः । तदुक्तं चरके— “ देहेन्द्रियमनस्तापी " इति । सर्वाङ्गग्रह = सर्वाङ्गवेदना । १ युगपत् = एककाले । “ ज्वरप्रत्यात्मिकं लिङ्गं सन्तापो देहमानसः । ज्वरेणाविशता भूतं न हि किञ्चिन्न तप्यते ॥ ” इति चरकोक्तं लक्षणम् । २ हेतुभेदाज्ज्वरभेान् दर्शयति-दोषैरिति । दोषैः पृथक् त्रयः — वातिकः, पैत्तिकः, श्लैष्मिकः, समस्तैर्दोषैरे कः सान्निपातिकः, द्वन्द्वजानयः - वातपैत्तिकः, वातश्लैष्मिकः, पित्तश्लैष्मिकः, आगन्तुज एकः । एवमष्टौ ज्वरा बोद्धव्याः । ३ ज्वरस्य सम्प्राप्तिं वकि- दोषा हति । स्वेषु कालेषु - वर्षाशरद्वसन्तेषु, स्वैः प्रकोपणैः = व्रणप्रश्नोक्तैर्बलवद्विग्रहादिक्रोधादिदिवास्वापादिभिः । ३ मापादयन्ति = जनयन्तीत्यर्थः । ५ " नाभिस्तनान्तरं जन्तोरामाशय इति स्मृतः " इत्यामाशयं प्राप्य, ऊष्मणा वह्नथूष्मणा धातूष्मणा दोषोष्मणा वा सहिता इति सम्बन्धः । ६ रसं = हृदयस्थम् । ७ हुताशनं = जठराग्निम् । ८ पक्तिस्थानात् = अग्निस्थानादि -त्यर्थः । केवलं = कृत्स्नम् । ९ वृद्धिमागतस्य स्ववर्णे यथास्ववर्णे त्वगादिषु नखत्व. नयनादिषु जनयन्ति । १० मिथ्याऽतियुक्तैः = प्रयथाविधियुक्तैरतियुक्तैश्च, स्नेहा. चैः = स्नेहस्वेदवमनविरेचनादिकैः कर्मभिः, ' नृणां ज्वरो दोषैः प्रवर्तते ' इत्यग्रेण सम्बन्धः । ११ विविधादभिघातात् = शस्त्रलोष्ट्र काष्ठादिप्रहारात्, रोगोत्थानात् = विद्रध्यादिरो-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1205

सुश्रुत संहिता चौखम्बा, पृष्ठ 1205 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ९ ] Digitized by Arya उम्र Chennai and eGangotri १०४७ श्रमात्क्षयादजीर्णाच्च विपात्साम्यर्त्तपर्य्ययात् ॥ २० ॥

ओषेधीपुष्पगन्धाच्च शोकान्नक्षत्रपीडया ।

अभिचाराभिशापाभ्यां मनोभूताभिशङ्कया ॥ २१ ॥

स्त्रीणामपप्रजातानां प्रजातानां तथाऽहितैः ।

स्तन्यावतरणे चैव ज्वरो दोषैः प्रवर्त्तते ॥। २२ ॥

६ तैर्वेगवद्भिर्बहुधा समुद्भ्रान्तैर्विमार्गगैः ।

विक्षिप्यमाणोऽन्तरग्निभवत्याशु बहिश्चरः ॥ २३ ॥

रुणद्धि चाप्यपां धातुं यस्मात्तस्माज्ज्वरातुरः ।

भवत्यत्युष्णगात्रश्च ज्वरितस्तेन चोच्यते ॥ २४ ॥

श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः ।

इच्छाद्वेषौ मुहुश्चापि शीतवातातपादिषु ॥ २५ ॥

गोत्थानात् । १ सात्म्यर्तुपर्ययात् = साख्यविपर्ययाद् ऋतुविपर्यांयाच्चेत्यर्थः । श्री. २ षधीपुष्पगन्धात् = विषौषधीपुष्पगन्धात, नक्षत्रपीडया जन्मादिनक्षत्रे ग्रहविशेषाव-स्थानपीडया । ३ अभिचारो मारणोच्चाटनादिरूपस्तन्त्राथर्ववेदप्रसिद्धः कर्मविशेषः, अभिशापो द्विजगुरुसिद्धप्रभृतिभिरनिष्टाशंसनं, ताभ्यामभिचाराभिशापाभ्याम्, मनो-भूवाभिशङ्कया, अत्र मनःशब्देन विकारित्वेनोपदिष्टाः कामादयो बोध्याः, ' कामजे चित्तविभ्रंशः ' इत्याद्युक्तेः । भूतशब्देन देवादिग्रहाः, श्रभिशङ्काशब्देन अभिषङ्गः । तेन मनोऽभिषङ्गेण कामाद्यभिषङ्गेण, भूताभिषङ्गेण देवादिग्रहाभिषङ्गेणेत्यर्थः । ४ अपप्रजातानाम् = श्रयथाकालमसुखं वा प्रसूतानाम्, प्रजातानां = यथाकालं क्लेशरहितंप्रसूतानाम् । ५ स्तन्यावतरणे = दुग्धस्य प्रथममुन्मुखीभवने, स्तन्यव-दानां धमनीनां विकाशित्वेन परिणमननिमित्ताद् वेदनाविशेषादिति भावः । ६ ज्वरे गात्रौष्ण्ये हेतुं प्रतिपादयति - तैरिति । तैर्दोषैः वेगवद्भिः प्रसरणशीलैः समुद्भ्रान्तैः सम्यगुद्वेगकरैः विमार्गगैविकृतत्वात्तिर्यग्गतैः, विक्षिप्यमाणः इतस्ततः प्रेर्यमाणोऽन्तरग्निराशु रोमकूपैर्बहिश्चरो भवति । ७ अपां धातुं – स्वेदमित्यर्थः । यस्माद् बहिर्निःसृतोऽन्तरग्निरपां धातुं रुणद्धि, तस्मादत्युष्णगात्रो भवति, तेनात्युष्ण-गात्रत्वेन हेतुना ज्वरातुरो ज्वरितश्चोच्यते इति योजना | ८ ज्वरपूवरूपमाख्याति — श्रम इति । श्रमः = व्यापारं विनैव, अरतिः == अनव-स्थितचित्तता, " स्वामीष्टवस्वलाभेन चेतसो याऽनवस्थितिः । अरतिः सा " इति । ' विवर्णत्वं = म्लानगात्रत्वम्, वैरस्यं = मुखस्याप्रकृतरसता, नयनप्लवः = = अश्रुपूर्णन-यनत्वम्, तदुक्तं चरके - " आलस्यं नयने सास्रे " इति । ९ आदिशब्दादम्बुज्वलन -CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1206

सुश्रुत संहिता चौखम्बा, पृष्ठ 1206 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०४८ Digitized by Arya ऽसुश्रुतसंहितायां --nai and eGangotri [ अ ० ३ ९

जृम्भाऽङ्ग ' र्दो गुरुता रोमहर्षोऽरुचिस्तमः ।

अहर्षश्च शीतञ्च भवत्युत्पत्स्यति ज्वरे ॥ २६ ॥

सामान्यतो, विशेषात्तु जृम्भाऽत्यर्थं समीरणात् ।

पित्तान्नयनयोर्दाहः, कफान्नान्नाभिनन्दनम् ॥ २७ ॥

सर्वलिङ्गसमवायः सर्वदोषप्रकोपजे ।

द्वयोर्द्वयोस्तु रूपेण संसृष्टं द्वन्द्वजं विदुः ॥ २८ ॥

वेपथुविषमो वेगः कण्ठौष्ठपरिशोषणम् ।

निद्रानाशः क्षुतः स्तम्भो गात्राणां रौक्ष्यमेव च ॥ २ ९ ॥

शिरोहृद्गात्ररुग्वक्त्रवैरस्यं बद्धविकता ।

जम्भाऽऽध्मानं तथा शूलं भवत्यनिलजे ज्वरे ॥। ३० ॥

वेर्गस्तीक्ष्णोऽतिसारश्च निद्राऽल्पत्वं तथा वमिः ।

कण्ठौष्ठमुखनासानां पाकः स्वेदश्च जायते ॥ ३१ ॥

प्रलापः कटुता वक्त्रे मूर्च्छा दाहो मदस्तृषा ।

पोतविण्मूत्रनेत्रत्वं पैत्तिके भ्रम एव च ॥ ३२ ॥

योरप्यनिश्चितेच्छाद्वेषयोर्ग्रहणम् । तथा च चरकः - " ज्वलनात पवाखम्बु भक्तिद्वेषाव • निश्चितौ ” इति । १ अङ्गमदः = श्रङ्गमोटनम् । २ प्रप्रहर्षः = प्रोत्यभावः, उत्प-रस्यति ज्वरे = भविष्यति ज्वरे । ३ नान्नाभिनन्दनं = नान्नाभिलाषः । ४ वातज्वरलक्षणमाचष्टे — वेपथुरिति 1 । वेपथः = कम्पः, विषमो वेगः = कदाचि-ज्ज्वरस्य प्रवृत्तिर्वृद्धिर्वा । ५ क्षुतः छिक्कायाः स्तम्भोऽनिर्गमः । वाग्भटेऽपि— “ इर्षो रोमाञ्चदन्तेषु वेपथुः क्षवथोर्ग्रहः । भ्रमः प्रलापो घर्मेच्छा विलापश्चानिलज्वरे ॥ ” इति । । ६ शिरसि हृदि गात्रेषु रुक् पोडा, वक्त्रवैरस्यंमुखविरसता, बद्धविट्कता = बद्धमलता । ७ श्रध्मानलक्षणम् - " साटोप मत्युग्ररुजमाध्मातमुदरं भृशम् । श्रधमान-मिति जानीयाद् घोरं वातनिरोधजम् ॥ ” इति वातव्याधिनिदानेऽभिहितम् । चरकनि. दानोक्तानि वातज्वरस्यान्यान्यपि लक्षणानि प्रदश्यन्ते - " भवन्ति विविधा वातवेदनाः पादसृप्तता । पिण्डिकोद्वेष्टनं कर्णस्वनो वक्त्रकषायता ॥ ऊरुदाहो हनुस्तम्भो विश्लेषः सन्धिजानुनोः । शुष्ककासो वमिर्लो मदन्तहर्षः श्रमभ्रमौ ॥ श्ररुणं नेत्रमूत्रादितृट् पला-पोष्णकामिताः । " इति । ८ पित्तज्वरलक्षणं ब्रवीति - वेग इति । वेगस्तीक्ष्णः = तीव्रवेगः । ९ कटु-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1207

सुश्रुत संहिता चौखम्बा, पृष्ठ 1207 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ९ ] Digitized by Aryss तरतन्त्र मू tich Chennai and eGangotri

गौरं वं शीतमुत्क्लेशो रोमहर्षोऽतिनिद्रता ।

स्रोतोरोधो ' रुगल्पत्वं प्रसेको मधुरास्यता ॥ ३३ ॥

नात्युष्णगात्रता छर्दिरङ्गसादोऽविपाकैता । १०४ ९ प्रतिश्यायोऽरुचिः कासः कफजेऽक्ष्णोश्च शुक्लता ॥ ३४ ॥

निद्रानाशो भ्रमः श्वासस्तन्द्रा सुप्ताङ्गताऽरुचिः ।

तृष्णा मोहो मदः स्तम्भो दाहः शीतं हृदि व्यथा ॥ ३५ ॥

पक्तिश्चिरेण दोषाणामुन्मादः श्यावदन्तता ।

रसना परुषा कृष्णा सन्धिमूर्द्धास्थिजा रुजः ॥ ३६ ॥

निर्भुग्ने कलुषे नेत्रे कर्णौ शब्दरुगन्वितौ ।

प्रलापः स्रोतसां पाकः कूजनं चेतनाच्युतिः ॥ ३७ ॥

स्वेदमूत्रपुरीषाणामल्पशः सुचिरात् स्रुतिः ।

सर्वजे सर्वलिङ्गानि " विशेषञ्चात्र मे शृणु ॥ ३८ ॥

नात्युष्णशीतो ११ ऽल्पसंज्ञो भ्रान्तप्रेक्षी हतस्वरः । ता वक्त्रे = मुखतिक्तत्वम् । १ कफज्वरलक्षणमभिदधाति - गौरवमिति । गौरवं = गुरुगात्रता, शीतं = शीताविर्भावः, उत्क्लेशः = श्लेष्मनिष्ठीवनमिव, रोमहर्षः = रोमाञ्चः, प्रतिनिद्रता = निद्राऽऽधिक्यम् । २ स्रोतोरोधः = रसवाहिनां स्रोतसां रोधः, प्रसेकः = लालास्रावः । ३ श्रविपाकता = अन्नाविपाकः । ४ चकारोऽनुक्तसमुच्चयार्थः । तथा च— “ हृल्लासश्छर्दनं कासः स्तम्भः श्वैत्यं त्वगादिषु । श्रङ्गेषु शीतपिटिकास्त-न्द्रोदर्दः कफोद्भवे ॥ ” इति । उदर्दस्तु - " शीतपानीय संस्पर्शाच्छीतकाले विशेषतः । वयथुः शिशिरातनामुदर्दः कफसम्भवः ॥ ” इति । ५ सान्निपातिकज्वरलक्षणमभिधत्ते – निद्रेति । तन्द्रा - " इन्द्रियार्थेष्वसंवित्तिर्गौ-रवं जृम्भणं क्लमः । निद्राऽऽर्तंस्येव यस्येहा तस्य तन्द्रां विनिर्दिशेत् ॥ ” इति । सुप्ता-ङ्गवा = गात्राणां स्पर्शाज्ञता । ६ सन्धिरुजा, मूर्धरुजा, अस्थिरुजा चेत्यर्थः । ७ नेत्रे कथम्भूते - निर्भुग्ने कुटिले, कलुषे सास्रत्वादिना श्रविले । कर्णौ कथम्भूतौ- 1-: शब्दरुग-न्वितौ शब्दान्वितौ चेत्यर्थः । ८ स्रोतसां = मुखनासादिरन्ध्राणां पाकः कूजनं = कण्ठेऽव्यक्तशब्दोत्थानम्, चेतनाच्युतिः = चित्तनाशः । ९ स्रुतिः = निःसृतिरित्यर्थः । सन्निपातस्य अन्यान्यपि लक्षणानि तन्त्रान्तरतोऽवसेयानि १० अभिन्यासादिसंज्ञाभिः सन्निपातज्वरं चतुर्द्धा भिनत्ति - विशेषमिति । विशेषं = भेदम्, अत्र = सन्निपातज्वरे । ११ नात्युष्णशीतः = साधारणाङ्गस्पर्शः, CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1208

सुश्रुत संहिता चौखम्बा, पृष्ठ 1208 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०५० Digitized by Arya Sama सुश्रुतसंहितायां and Gangotri खरजिह्नः शुष्ककण्ठः वेदविण्मूत्रवर्जितः ॥ ३ ९ ॥

सास्रो निर्भुग्नहृदयो भक्तद्वेषी हतप्रभः ।

श्वसन् निपतितः शेते प्रलापोपद्रवायुतः ॥ ४० ।

तेभिन्यासमित्या हुई तौजसमथापरे । [ अ ० ३ ९ सन्निपातज्वरं कृच्छ्रमसाध्यमपरे विदुः । ४१ ॥

निद्रोपेतँमभिन्यासं क्षीणमेनं हतौजसम् ।

संन्यस्तगात्रं संन्यासं विद्यात्सर्वात्मके ज्वरे ॥ ४२ ॥

ओजो विस्रंसते यस्य पित्तानिलसमुच्छ्रयात् ।

स गात्रस्तम्भशीताभ्यां शयनेप्सुरचेतनः ॥ ४३ ॥

भ्रान्तप्रेक्षी = सर्ववस्त्वयथार्थदशीं । १ निपतितः = शय्यायां नियतं पतितः, शेते = निद्राति, प्रलाप एवोपद्रवः प्रलापोपद्रवस्तेन श्रायुतोऽत्यर्थयुक्तः । २ तं = सन्निपातमित्यर्थः । ३ सन्निपातस्य असाध्यत्वं तु - " दोषे विबद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः I श्रसाध्यः सोऽन्यथा कृच्छ्रो भवेद्वैकल्यदोऽपि वा ” इति विबद्ध दोषत्वादिना सम्पूर्णलक्षणत्वे एव बोध्यम् । भालुकिः— " मृत्युना सह योद्धव्यं सन्निपातं चिकित्सता । यस्तु तत्र भवेज्जेता स जेताऽऽमय सङ्कुले || सन्निपातार्णवे मग्नं योऽभ्युद्धरति मानवम् । कस्तेन न कृतो धर्मः को वा पूजां न सोऽईति ॥ ” इति । ४ परमतं निरस्यन् स्वमतं दर्शयति - निद्रोपेतमिति । सर्वात्मके ज्वरे निद्रो-पेतमभिन्यासं विद्यादित्यग्रेण सम्बन्धः । एवं क्षीणं सन्तं हतौजसं विद्यात्, संन्यस्त. गात्रं संन्यासं विद्यात् । ५. विस्रंसते - बहिर्निर्गच्छति । ६ शयनेप्सुः स्वपितु-मिच्छुः, श्रचेतनः = निःसंज्ञः । यद्यपि तन्त्रान्तरे त्रयोदशसन्निपाताः प्रकृतावुक्ताः । यथा— हीनमध्याधिकक्रमेण षट्, द्वयुल्बणेन त्रयः, एकोल्बणेन त्रयः, समत्वेनेक इति; तथाऽपि सुश्रुत इह दोषोत्कर्षापकर्षतारतम्येन घात्वाद्यावरणभेदेन च सन्निपातभेदाना-मानन्त्यात् पृथक् पृथग् लक्षणं नोक्तवान् । सन्निपातज्वरविशेषाणां त्रयोदशनामान्त-राण्याह तन्त्रान्तरे- “ शीताङ्गस्त्रिमलोद्भवज्वरगणे तन्द्री प्रलापी ततो, रक्तष्ठोवयिता च तत्र गणितः सम्भुग्ननेत्रस्तथा । साभिन्यासकजिह्वकश्च कथितः प्राक्सन्धिगोऽथान्तको, रुग्दाहः सहचित्तविभ्रम इद्द द्वौ कर्णकण्ठग्रहौ ॥ ” इति । श्रन्यग्रन्थोक्तत्रयोदश-सन्निपातानां कुम्भीपाकादिनामान्याह – “ कुम्भीपाकः प्रोर्णुनावः प्रलापी ह्यन्तर्दाहो दण्डपातोऽन्तकश्च । एणीदाहश्वाथ दारिद्रसंज्ञो भेदा एते सन्निपातज्वरस्य ॥ श्रजघो-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1209

सुश्रुत संहिता चौखम्बा, पृष्ठ 1209 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

20 अ ० ३ ९ ] Digitized by Arya ङ सभ्रात्र Chennai and eGangotri १०११

अपि जाग्रत् स्वपन् जन्तुस्तन्द्रालुश्च प्रलापवान् ।

संहृष्टरोमा स्ताङ्ग मन्दसन्तापवेदनः ॥ ४४ ॥

ओजोनिरोधजं तस्य जानीयात् कुशलो भिषक् ।

सप्तमे दिवसे प्राप्ते दशमे द्वादशेऽपि वा ॥ ४५ ॥

पुनर्घारितरो भूत्वा प्रशमं याति हन्ति वा ।

द्विदोषोच्छ्रायलिङ्गास्तु द्वन्द्वजास्त्रिविधाः स्मृताः ॥। ४३ ॥

तृष्णा मूर्च्छा भ्रमो दाहः स्वप्ननाशः शिरोरुजा । बभूतहासौ यन्त्रापीडश्च संन्यासः । संशोषी च विशेषास्तस्यैवोक्लात्रयोदशान्यत्र ॥ ” इति: । एतेषां लक्षणान्यन्यत्र द्रष्टव्यानि । १ सन्निपातज्वरस्य मोक्षवधयोर्मर्यादां दर्शयति - सप्तम इति । वाताधिकः सन्निपातज्वरः सप्तमे, पित्ताधिको दशमे, इलेष्माधिको द्वादशे मलपाकाद्विमु-चति, धातुपाकाद्धन्ति । तदुक्तम् -- - " पित्तकफानिलवृद्धया दशदिवसद्वादशाह. सप्ताहात् । हन्ति विमुञ्चति वाऽपि त्रिदोषजो वातुमलपाकात ॥ ” इति । तन्त्रान्तरे धातुपाकलक्षणम् -- “ सम्बाध्यमानो हृदि नाभिदेशे गात्रेषु वा पाकरुजाऽ-न्वितेषु । पक्वेषु वा तेषु रुजा ज्वरार्तः स धातुपाकी कथितो भिषग्भिः ॥ ” इति । अपरं च -- " नाभेरूर्ध्वं हृदोऽधस्तात् पीडिते वेद् व्यथा भवेत् । धातोः पाकं विजानी. यादन्यथा तु मलस्य च ॥ ” इति । " सप्तमी द्विगुणा या तु नवम्येकादशी तथा । एषा त्रिदोषमर्यादा मोक्षाय च वधाय च ॥ " इति भालुकिप्रोक्ता सन्निपातज्वरस्य मोक्षव-योर्मर्यादाऽपि बोध्या । २ अथ विकृतिविषम समवेतान् द्वन्द्वजज्वरान् दर्शयन् वातपित्तज्वरलक्षणमभि दधाति -- तृष्णेति । तृष्णाद्याः शिरोरुजान्ताः सुगमाः । द्वन्द्वजेषु सान्निपातिकेषु च कानिचिल्लक्षणानि विकृतिविषम समवायारब्धानि भवन्ति, कानिचित्प्रकृतिसमसम-वायारब्धानि भवन्ति । दोषाणामेव लक्षणानि दृश्यन्ते प्रकृतिसमसमवायारब्धानि, विपरीतानि तु विकृतिविषमसमवायारब्धानि । प्रकृतिसमसमवायो यथा -- कफपित्तजे लिप्ततिक्तास्यत्वम् । विकृतिविषमसमवायो यथा - वातपित्तयोलंक्षणेषु अरुचिरोमहर्षों, -इमौ तु विकृत्यारब्धौ दृश्येते । वातश्लेष्मणोर्लक्षणेषु सन्तापो नास्ति, सान्निपातिक-ज्वरलक्षणे दृश्यते, सोऽपि विकृत्यारब्धः । शिरसो लोठनं वातपित्तश्लेष्मणां लक्षणेषु न दृश्यते । सान्निपातिकज्वरलक्षणे दृश्यते, तदपि विकृत्यारण्यम् । एवं द्वन्द्वजसन्नि-पातजेषु सर्वेष्वपि रोगेषु बोद्धव्यम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1210

सुश्रुत संहिता चौखम्बा, पृष्ठ 1210 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां १०५२ Digitized by Arya Samaj Foundation Chennai and eGangotri अ ० ३ ९ ] कण्ठाम्यैशोषो वमथू रोमहर्षोऽरुचिस्तथा ॥ ४७ ॥

पर्वभेदैश्च जृम्भा च दातपित्तज्वराकृतिः ।

स्तैमित्यं पर्वणां भेदो निद्रा गौरवमेव च ॥ ४८ ॥

शिरोग्रहः प्रतिश्यायः कासः स्वेदप्रवर्तनम् ।

सन्तापो मध्यवेगैश्च वातश्लेष्मज्वराकृतिः ॥ ४ ९ ॥

लितिक्तास्यता तन्द्रा मोह: कासोऽरुचिस्तृषा ।

मुहुर्दाहो मुहुः शीतं श्लेष्मपित्तज्वराकृतिः ॥ ५० ॥

( जृम्भाऽऽध्मानमदोत्कम्पपर्वभेदपरिक्षयाः ।

तृट्प्रलापाभितापाः स्युर्ज्वरे मारुतपैत्तिके ॥ १ ॥

शूलकासकफोत्क्लेशशीतवेपथुपीनसाः ।

गौरवारुचिविष्टम्भा वातश्लेष्मसमुद्भवे ॥ २ ॥

शीतदाहारुचिस्तम्भस्वेदमोहमदभ्रमाः । कासाङ्गस्रादहृल्लासा भवन्ति कफपैत्तिके ॥ ३ ॥ )

कृशानां ज्वरमुक्तानां मिथ्याऽऽहारविहारिणाम् । १ कण्ठास्यशोषौ = कण्ठशोषो मुखशोषश्चेत्यर्थः । वमथुः = छर्दिभेदः, रोमहर्षः -रोमाञ्चः । २ पर्वभेदः = पर्वाणि भिद्यन्त इव सन्धिषु व्यथा । ३ वातश्लेष्मज्वरलक्षणमुद्दिशति - स्तैमित्यमिति । स्तैमित्यं = निश्चलत्वं ज्वरितस्य, पर्वणां भेदः = ग्रन्थिस्फुटनम् । ४ स्वेदप्रवर्तनं = कारणं विनैव स्वेदस्य प्रवृत्तिः । “ शिरोग्रहः स्वेदभवश्च कासो ज्वरस्य लिङ्गं कफवातजस्य " इति हारीतः । इदमपि लक्षणं विकृतिविषमसमवायारब्धम् । सन्तापोऽपि विकृतिविषमसमवायारब्धः । ५ मध्यवेगः = नातितीक्ष्णो नातिमृदुरित्यर्थः । ६ श्लेष्मपित्तज्वरलक्षणमभिदधाति - लिप्तेति । श्लेष्मणा लिप्तं च पित्तेनः तिक्तं च आस्यं मुखं यस्य तस्य भावो लिप्ततिक्तास्यता, लिप्तास्यता तिक्तास्यता चेत्यर्थः । तन्द्रा = निद्रावत् क्लान्तिः, तन्द्रालक्षणम् - " इन्द्रियार्थेष्वसंवित्तिगौरवं जृम्भणं क्लमः । निद्राऽऽर्तस्येव यस्येद्दा तस्य तन्द्रां विनिर्दिशेत् ॥ ” इति । मोहः = मूर्च्छा । “ तथा स्तम्भश्च संस्वेदः कफपित्तप्रवर्तनम् ” इति चरकोक्तानि लक्षणान्यपि बोद्धव्यानि । ७ विषमज्वरसम्प्राप्तिमाह- कृशानामिति । कृशानां मिथ्याऽऽहारविहारिण ज्वरमुक्तानां देहिनां दोष: स्वल्पोऽपि पुनर्मिथ्याऽऽद्दारविहाराभ्यां संवृद्धोऽनिलेरितो. CC - 0. Gurukul Kangri Collection, Haridwar