सुश्रुत संहिता चौखम्बा — पृष्ठ 1201–1210
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1201–1210
पृष्ठ 1201
पाठ पढ़ें पाठ छिपाएँ
अ ० ३८ ] Digitized by Arjitaraama Foration Chennai and eGangotri पूरयेद्राजवृक्षादिकषायैश्चापि धावनम् ॥ २५ ॥
योन्यान्तु पूयस्राविण्यां शोधनद्रव्यसम्भृतैः ।
सगोमूत्रैः सलवणैः शोधनं हितमिष्यते ॥ २६ ॥
बृहतीफलकल्कस्य द्विहरिद्रायुतस्य च ।
कण्डूमतीमल्पस्पशीं पूरयेद् धूपयेत्तथा ॥ २७ ॥।
वत्तिं प्रदद्यात् कर्णिन्यां शोधनद्रव्यसम्भृताम् ।
प्रस्रंसिनीं घृताभ्यक्तां क्षीरस्विन्नां प्रवेशयेत् ॥ २८ ॥
पिधाय वेशवारेण ततो बन्धं समाचरेत् ।
प्रतिदोषं विदध्याच्च सुरारिष्टासवान् भिषक् ॥ २ ९ ॥
प्रातः प्रातर्निषेवेत रसोनादुद्धृतं रसम् ।
चीरमांसरसप्रायमाहारं विदधीत च ॥ ३० ॥
शुक्रार्त्तवादयो दोषाः स्तनरोगाश्च कीर्त्तिताः ।
क्लैव्यस्थानानि मूढस्य गर्भस्य विधिरेव च ॥ ३१ ॥
गर्भिणी प्रतिरोगेषु चिकित्सा चाप्युदाहृता । सर्वथा त प्रयुञ्जीत योनिव्यापत्सु बुद्धिमान् । १०४३ १ पूरयेद्, योनिमिति शेषः । राजवृक्षादिकषायैः = श्रारग्वधादिकाथै रित्यर्थः । २ शोधनद्रव्याणि मिश्रकोक्तानि ग्राह्याणि । ३ कफजयोनिरोगचिकित्सामाह - बृहतीति । ४ धूमनस्यकवलग्रहचिकि-त्सितोक्तेन व्रणधूपन विधिना धूपयेदित्यर्थः । ५ रसोनात् 33 लशुनात् । अस्योत्पत्ति-वर्णने– “ यदाऽमृतं वैनतेयो जहार सुरसत्तमात् । तदा ततोऽपतद्विन्दुः सरसः सोऽभ. बद् भुवि ॥ पञ्चभिश्च रसैर्युक्तो रसेनाम्लेन वर्जितः । तस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः ॥ ” इति रसोन संज्ञाकरणकारणमुक्तम् । ६ कौमारतन्त्रमुपसंहरवि - शुक्रेति । शुक्रार्तवादयो दोषाः शुक्रशोणितशुद्धिशा-रीरे, स्तनरोगाश्च विसर्पनाडोस्तनरोगनिदाने, तच्चिकित्सिते च सलक्षणचिकित्सिताः कीर्तिताः कथिताः । शुक्रार्तवादय इत्यत्र श्रादिशब्दाद् धात्रीस्तन्यदोषाश्च बोध्याः । ७ क्लैब्यस्थानानि = क्लैब्यकारणानि क्षीणबलीयवाजिकरणे, गर्भस्य मूढस्य कारणानि, विधिः = क्रिया चेति द्वयं मूडगर्भनिदाने तच्चिकित्सितेऽभिहितम् । ८ गर्भिण्या मासानुमासं प्रतिरोगेषु रक्तस्रावादिषु चिकित्सोदाहृता गर्भिणीव्याकरण-शारीरे । ९ तां = पूर्वोक्तां चिकित्साम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1202
पाठ पढ़ें पाठ छिपाएँ
१०४४ Digitized by Arya ऽनुश्रुतसंहितायां-mai and eGangotri [ अ ० ३ ९ अपप्रजातीरोगांश्च चिकित्सेदुत्तराद्भिषक् ॥ ३२ ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे योनिव्यापत्प्रतिषेधो नाम ( द्वादशोऽध्यायः, आदितः ) अष्टत्रिंशोऽध्यायः ॥ ३८ ॥
एकोनचत्वारिंशत्तमोऽध्यायः ।
अथातो ज्वरप्रतिषेधं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
येनौमृतमपां मध्यादुद्धृतं पूर्वजन्मनि ।
यतोऽमरत्वं सम्प्राप्तास्त्रिदशास्त्रिदिवेश्वरात् ॥ ३ ॥
शिष्यास्तं देवमासीनं पप्रच्छुः सुश्रुतादयः ।
व्रणस्योपद्रवाः प्रोक्ताः ब्रणिनामप्यतः परम् ॥ ४ ॥
समासाद् व्यासतश्चैव ब्रूहि नो भिषजां वर! ।
उपद्रवेणं जुष्टस्य व्रणः कृच्छ्रेण सिध्यति ॥ ५ ॥
उपद्रवास्तु व्रणिनः कृच्छ्रसाध्याः प्रकीर्त्तिताः ।
प्रक्षीणबलमांसस्य शेषंधातुपरिक्षयात् ॥ ६ ॥
१ श्रपप्रजाताया श्रयथाकालमसुखं वा प्रसूताया ज्वरादिकान् रोगानित्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कौमारतन्त्रे सुधा ss ख्य टिप्पन्या-मष्टत्रिंशोऽध्यायः । एकोनचत्वारिंशोऽ ऽध्यायः । ( अथ कायचिकित्सातन्त्रम् । ) २ कायचिकित्सातन्त्रे बहुषूपद्रवेषु सत्सु ज्वरस्य रुद्रकोपाग्निसम्भूतत्वेन गरीय • स्त्वात् प्राक् ज्वरप्रतिषेधमधिकरोति - अथात इति । ज्वरश्च प्रतिषेधः चिकित्सा चेति ज्वरप्रतिषेधं व्याख्यास्यामः, प्रकर्षेण कथयिष्याम इत्यर्थः । ३ येन धन्वन्तरिणा पूर्वजन्मनि देवत्वे अपां मध्यादमृतमुद्धृतम् । त्रिदशाः यतो यस्मात् त्रिदिवेश्वराद् धन्वन्तरेरमृतत्वसम्प्राप्त्या श्रमरत्वं सम्प्राप्ता इति योज्यम् । 1 ४ व्रणस्योपद्रवा वेदनावर्णास्त्रावादयः प्रोक्ता व्रणास्रावविज्ञानीयादिष्वित्यर्थः । ५ उपद्रवेण = ज्वराद्युपद्रवेण, जुष्टस्य = युक्तपुरुषस्य । ६ शेषधातूनां मेदःप्रभृतीनां परिक्षयादित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1203
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ९ ] Digitized by Arya Sara Tai Chennai and eGangotri
तस्मादुपद्रवान् कृत्स्नान् ब्रूहि नः सचिकित्सितान् ।
सर्वकायचिकित्सासु ये दृष्टाः परमर्षिणा ॥ ७ ॥
तेषां तद्वचनं श्रुत्वा प्राब्रवीद्भिषजां वरः ।
ज्वरमादौ प्रवक्ष्यामि स रोगानीकैराट् स्मृतः ॥ ८ ॥
रुद्रकोपग्निसम्भूतः सर्वभूतप्रतापनः ।
तैस्तैर्नामभिरन्येषां सत्त्वानां परिकीर्त्यते ॥ ९ ॥
जन्मादौ निधने चैव प्रायो विशति देहिनम् ।
अतः सर्वविकाराणामयं राजा प्रकीर्त्तितः ॥ १० ॥
ऋते देवमनुष्येभ्यो नान्यो विषहते तु तम् ।
कर्मणा लभते यस्माद् देवत्वं मानुषादपि ॥। ११ ॥
पुनश्चैव च्युतः स्वर्गान्मानुष्यमनुवर्त्तते ।
तस्मात्ते देवभावेन सहन्ते मानुषा ज्वरम् ॥। १२ ॥
शेषाः सर्वे विपद्यन्ते तैय्र्य्यग्योना ज्वरादिताः ।
स्वेदावरोधः सन्तापः सर्वाङ्गग्रहणं तथा ॥ १३ ॥
१०४५ १ परमर्षिणा = धन्वन्तरिणा । २ रोगेषु ज्वरस्य प्राधान्यं दर्शयति - तेषामिति । तेषां = शिष्याणाम् । ३ रोगानीकस्य रोगसमूहस्य राट्र राजा । ४ दक्षाध्व-रध्वंसे कुपितस्य रुद्रस्य ललाटस्वेदजादग्नेः सम्भूतो रुद्रकोपाग्निसम्भूतः । तदुक्तं महाभारते शान्तिपर्वणि " ततस्तस्य सुरेशस्य क्रोधादमिततेजसः । ललाटात् प्रसृतो घोरः स्वेदविन्दुर्बभूव ह ॥ तस्मिन् पतितमात्रे तु स्वेदविन्दौ तदा भुवि । प्रादुर्बभूव सुमद्दानग्निः कालानलोपमः ॥ तत्र चाजायत तदा पुरुषः पुरुषर्षभ! । ज्वरो नामैष धर्मज्ञ! लोकेषु प्रचरिष्यति ॥ ” इति । ५ अन्येषां सवानां गजाश्वादीनां तैस्तैर्नामभिः पाकलाभितापादिभिः परिकी-र्त्यते । तदुक्तं पालकाप्यविरचिते हस्त्यायुर्वेदे महारोगस्थाने नवमाध्याये— “ पाकलः
स तु नागानामभितापस्तु वाजिनाम् । गवामीश्वरसंज्ञश्च मानवानां ज्वरो मतः ॥
श्रजावीनां प्रलापाख्यः करभे चालसो भवेत् । हारिद्रो महिषाणां तु मृगरोगो मृगेषु च ॥ पक्षिणामभिवातस्तु मत्स्येष्विन्द्रमदो मतः । पक्षपातः पतङ्गानां व्याडेश्वक्षिकसं • शकः ॥ ” इति । अन्यत्र - " जलस्य नीलिका भूमेरूषरो वृक्षस्य कोटरः " इति । ६ विषद्दते = सोढुं शक्नोति । ७ विपद्यन्ते = म्रियन्ते इत्यर्थः 1 । ८ ज्वरस्वरूपं निरूपयति — स्वेदेति । स्वेदावरोधः = प्रस्वेदानिर्गमः, प्रस्वेदा. CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1204
पाठ पढ़ें पाठ छिपाएँ
१०४६ Digitized by Arya S सुश्रुतसंहितायां nnai and eGangotri [ अ ० ३ ९
विकारा युगपद्यस्मिन् ज्वरः स परिकीर्त्तितः ।
दोषैः पृथक् समस्तैश्च द्वन्द्वैरागन्तुरेव च ॥ १४ ॥
अनेककारणोत्पन्नः स्मृतस्त्वष्टविधो ज्वरः ।
दोषौः प्रकुपिताः स्वेषु कालेषु स्वैः प्रकोपणैः ॥ १५ ॥
व्याप्य देहमशेषेण ज्वरमापादयन्ति हि ।
दुष्टाः स्वहेतुभिर्दोषाः प्राप्यामाशयमूष्मणा ॥ १६ ॥
सहिता रसमागत्य रसस्वेदप्रवाहिणाम् ।
स्रोतसां मार्गमावृत्य मन्दीकृत्य हुताशनम् ॥ १७ ॥
निरस्य बहिरुष्माणं पक्तिस्थानाच्च केवलम् ।
शरीरं समभिव्याप्य स्वकालेषु ज्वरागमम् ॥ १८ ॥
जनयन्त्यथ वृद्धिं वा स्ववर्णञ्च त्वगादिषु ।
' मिथ्याऽतियुक्तैरपि च स्नेहाद्यैः कर्मभिर्नृणाम् ॥ १ ९ ॥
" विविधादभिघाताच्च रोगोत्थानात् प्रपाकतः । निर्गमे कारणमुक्तम्– “ रुणद्धि चाप्यपां धातून् यस्मात्तस्माज्ज्वरातुरः । भवत्यत्यु. ष्णगात्रश्च स्विद्यते न च सर्वशः ॥ ” इति । सन्तापः देहेन्द्रियमनसां तापः । तदुक्तं चरके— “ देहेन्द्रियमनस्तापी " इति । सर्वाङ्गग्रह = सर्वाङ्गवेदना । १ युगपत् = एककाले । “ ज्वरप्रत्यात्मिकं लिङ्गं सन्तापो देहमानसः । ज्वरेणाविशता भूतं न हि किञ्चिन्न तप्यते ॥ ” इति चरकोक्तं लक्षणम् । २ हेतुभेदाज्ज्वरभेान् दर्शयति-दोषैरिति । दोषैः पृथक् त्रयः — वातिकः, पैत्तिकः, श्लैष्मिकः, समस्तैर्दोषैरे कः सान्निपातिकः, द्वन्द्वजानयः - वातपैत्तिकः, वातश्लैष्मिकः, पित्तश्लैष्मिकः, आगन्तुज एकः । एवमष्टौ ज्वरा बोद्धव्याः । ३ ज्वरस्य सम्प्राप्तिं वकि- दोषा हति । स्वेषु कालेषु - वर्षाशरद्वसन्तेषु, स्वैः प्रकोपणैः = व्रणप्रश्नोक्तैर्बलवद्विग्रहादिक्रोधादिदिवास्वापादिभिः । ३ मापादयन्ति = जनयन्तीत्यर्थः । ५ " नाभिस्तनान्तरं जन्तोरामाशय इति स्मृतः " इत्यामाशयं प्राप्य, ऊष्मणा वह्नथूष्मणा धातूष्मणा दोषोष्मणा वा सहिता इति सम्बन्धः । ६ रसं = हृदयस्थम् । ७ हुताशनं = जठराग्निम् । ८ पक्तिस्थानात् = अग्निस्थानादि -त्यर्थः । केवलं = कृत्स्नम् । ९ वृद्धिमागतस्य स्ववर्णे यथास्ववर्णे त्वगादिषु नखत्व. नयनादिषु जनयन्ति । १० मिथ्याऽतियुक्तैः = प्रयथाविधियुक्तैरतियुक्तैश्च, स्नेहा. चैः = स्नेहस्वेदवमनविरेचनादिकैः कर्मभिः, ' नृणां ज्वरो दोषैः प्रवर्तते ' इत्यग्रेण सम्बन्धः । ११ विविधादभिघातात् = शस्त्रलोष्ट्र काष्ठादिप्रहारात्, रोगोत्थानात् = विद्रध्यादिरो-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1205
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ९ ] Digitized by Arya उम्र Chennai and eGangotri १०४७ श्रमात्क्षयादजीर्णाच्च विपात्साम्यर्त्तपर्य्ययात् ॥ २० ॥
ओषेधीपुष्पगन्धाच्च शोकान्नक्षत्रपीडया ।
अभिचाराभिशापाभ्यां मनोभूताभिशङ्कया ॥ २१ ॥
स्त्रीणामपप्रजातानां प्रजातानां तथाऽहितैः ।
स्तन्यावतरणे चैव ज्वरो दोषैः प्रवर्त्तते ॥। २२ ॥
६ तैर्वेगवद्भिर्बहुधा समुद्भ्रान्तैर्विमार्गगैः ।
विक्षिप्यमाणोऽन्तरग्निभवत्याशु बहिश्चरः ॥ २३ ॥
रुणद्धि चाप्यपां धातुं यस्मात्तस्माज्ज्वरातुरः ।
भवत्यत्युष्णगात्रश्च ज्वरितस्तेन चोच्यते ॥ २४ ॥
श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः ।
इच्छाद्वेषौ मुहुश्चापि शीतवातातपादिषु ॥ २५ ॥
गोत्थानात् । १ सात्म्यर्तुपर्ययात् = साख्यविपर्ययाद् ऋतुविपर्यांयाच्चेत्यर्थः । श्री. २ षधीपुष्पगन्धात् = विषौषधीपुष्पगन्धात, नक्षत्रपीडया जन्मादिनक्षत्रे ग्रहविशेषाव-स्थानपीडया । ३ अभिचारो मारणोच्चाटनादिरूपस्तन्त्राथर्ववेदप्रसिद्धः कर्मविशेषः, अभिशापो द्विजगुरुसिद्धप्रभृतिभिरनिष्टाशंसनं, ताभ्यामभिचाराभिशापाभ्याम्, मनो-भूवाभिशङ्कया, अत्र मनःशब्देन विकारित्वेनोपदिष्टाः कामादयो बोध्याः, ' कामजे चित्तविभ्रंशः ' इत्याद्युक्तेः । भूतशब्देन देवादिग्रहाः, श्रभिशङ्काशब्देन अभिषङ्गः । तेन मनोऽभिषङ्गेण कामाद्यभिषङ्गेण, भूताभिषङ्गेण देवादिग्रहाभिषङ्गेणेत्यर्थः । ४ अपप्रजातानाम् = श्रयथाकालमसुखं वा प्रसूतानाम्, प्रजातानां = यथाकालं क्लेशरहितंप्रसूतानाम् । ५ स्तन्यावतरणे = दुग्धस्य प्रथममुन्मुखीभवने, स्तन्यव-दानां धमनीनां विकाशित्वेन परिणमननिमित्ताद् वेदनाविशेषादिति भावः । ६ ज्वरे गात्रौष्ण्ये हेतुं प्रतिपादयति - तैरिति । तैर्दोषैः वेगवद्भिः प्रसरणशीलैः समुद्भ्रान्तैः सम्यगुद्वेगकरैः विमार्गगैविकृतत्वात्तिर्यग्गतैः, विक्षिप्यमाणः इतस्ततः प्रेर्यमाणोऽन्तरग्निराशु रोमकूपैर्बहिश्चरो भवति । ७ अपां धातुं – स्वेदमित्यर्थः । यस्माद् बहिर्निःसृतोऽन्तरग्निरपां धातुं रुणद्धि, तस्मादत्युष्णगात्रो भवति, तेनात्युष्ण-गात्रत्वेन हेतुना ज्वरातुरो ज्वरितश्चोच्यते इति योजना | ८ ज्वरपूवरूपमाख्याति — श्रम इति । श्रमः = व्यापारं विनैव, अरतिः == अनव-स्थितचित्तता, " स्वामीष्टवस्वलाभेन चेतसो याऽनवस्थितिः । अरतिः सा " इति । ' विवर्णत्वं = म्लानगात्रत्वम्, वैरस्यं = मुखस्याप्रकृतरसता, नयनप्लवः = = अश्रुपूर्णन-यनत्वम्, तदुक्तं चरके - " आलस्यं नयने सास्रे " इति । ९ आदिशब्दादम्बुज्वलन -CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1206
पाठ पढ़ें पाठ छिपाएँ
१०४८ Digitized by Arya ऽसुश्रुतसंहितायां --nai and eGangotri [ अ ० ३ ९
जृम्भाऽङ्ग ' र्दो गुरुता रोमहर्षोऽरुचिस्तमः ।
अहर्षश्च शीतञ्च भवत्युत्पत्स्यति ज्वरे ॥ २६ ॥
सामान्यतो, विशेषात्तु जृम्भाऽत्यर्थं समीरणात् ।
पित्तान्नयनयोर्दाहः, कफान्नान्नाभिनन्दनम् ॥ २७ ॥
सर्वलिङ्गसमवायः सर्वदोषप्रकोपजे ।
द्वयोर्द्वयोस्तु रूपेण संसृष्टं द्वन्द्वजं विदुः ॥ २८ ॥
वेपथुविषमो वेगः कण्ठौष्ठपरिशोषणम् ।
निद्रानाशः क्षुतः स्तम्भो गात्राणां रौक्ष्यमेव च ॥ २ ९ ॥
शिरोहृद्गात्ररुग्वक्त्रवैरस्यं बद्धविकता ।
जम्भाऽऽध्मानं तथा शूलं भवत्यनिलजे ज्वरे ॥। ३० ॥
वेर्गस्तीक्ष्णोऽतिसारश्च निद्राऽल्पत्वं तथा वमिः ।
कण्ठौष्ठमुखनासानां पाकः स्वेदश्च जायते ॥ ३१ ॥
प्रलापः कटुता वक्त्रे मूर्च्छा दाहो मदस्तृषा ।
पोतविण्मूत्रनेत्रत्वं पैत्तिके भ्रम एव च ॥ ३२ ॥
योरप्यनिश्चितेच्छाद्वेषयोर्ग्रहणम् । तथा च चरकः - " ज्वलनात पवाखम्बु भक्तिद्वेषाव • निश्चितौ ” इति । १ अङ्गमदः = श्रङ्गमोटनम् । २ प्रप्रहर्षः = प्रोत्यभावः, उत्प-रस्यति ज्वरे = भविष्यति ज्वरे । ३ नान्नाभिनन्दनं = नान्नाभिलाषः । ४ वातज्वरलक्षणमाचष्टे — वेपथुरिति 1 । वेपथः = कम्पः, विषमो वेगः = कदाचि-ज्ज्वरस्य प्रवृत्तिर्वृद्धिर्वा । ५ क्षुतः छिक्कायाः स्तम्भोऽनिर्गमः । वाग्भटेऽपि— “ इर्षो रोमाञ्चदन्तेषु वेपथुः क्षवथोर्ग्रहः । भ्रमः प्रलापो घर्मेच्छा विलापश्चानिलज्वरे ॥ ” इति । । ६ शिरसि हृदि गात्रेषु रुक् पोडा, वक्त्रवैरस्यंमुखविरसता, बद्धविट्कता = बद्धमलता । ७ श्रध्मानलक्षणम् - " साटोप मत्युग्ररुजमाध्मातमुदरं भृशम् । श्रधमान-मिति जानीयाद् घोरं वातनिरोधजम् ॥ ” इति वातव्याधिनिदानेऽभिहितम् । चरकनि. दानोक्तानि वातज्वरस्यान्यान्यपि लक्षणानि प्रदश्यन्ते - " भवन्ति विविधा वातवेदनाः पादसृप्तता । पिण्डिकोद्वेष्टनं कर्णस्वनो वक्त्रकषायता ॥ ऊरुदाहो हनुस्तम्भो विश्लेषः सन्धिजानुनोः । शुष्ककासो वमिर्लो मदन्तहर्षः श्रमभ्रमौ ॥ श्ररुणं नेत्रमूत्रादितृट् पला-पोष्णकामिताः । " इति । ८ पित्तज्वरलक्षणं ब्रवीति - वेग इति । वेगस्तीक्ष्णः = तीव्रवेगः । ९ कटु-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1207
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ९ ] Digitized by Aryss तरतन्त्र मू tich Chennai and eGangotri
गौरं वं शीतमुत्क्लेशो रोमहर्षोऽतिनिद्रता ।
स्रोतोरोधो ' रुगल्पत्वं प्रसेको मधुरास्यता ॥ ३३ ॥
नात्युष्णगात्रता छर्दिरङ्गसादोऽविपाकैता । १०४ ९ प्रतिश्यायोऽरुचिः कासः कफजेऽक्ष्णोश्च शुक्लता ॥ ३४ ॥
निद्रानाशो भ्रमः श्वासस्तन्द्रा सुप्ताङ्गताऽरुचिः ।
तृष्णा मोहो मदः स्तम्भो दाहः शीतं हृदि व्यथा ॥ ३५ ॥
पक्तिश्चिरेण दोषाणामुन्मादः श्यावदन्तता ।
रसना परुषा कृष्णा सन्धिमूर्द्धास्थिजा रुजः ॥ ३६ ॥
निर्भुग्ने कलुषे नेत्रे कर्णौ शब्दरुगन्वितौ ।
प्रलापः स्रोतसां पाकः कूजनं चेतनाच्युतिः ॥ ३७ ॥
स्वेदमूत्रपुरीषाणामल्पशः सुचिरात् स्रुतिः ।
सर्वजे सर्वलिङ्गानि " विशेषञ्चात्र मे शृणु ॥ ३८ ॥
नात्युष्णशीतो ११ ऽल्पसंज्ञो भ्रान्तप्रेक्षी हतस्वरः । ता वक्त्रे = मुखतिक्तत्वम् । १ कफज्वरलक्षणमभिदधाति - गौरवमिति । गौरवं = गुरुगात्रता, शीतं = शीताविर्भावः, उत्क्लेशः = श्लेष्मनिष्ठीवनमिव, रोमहर्षः = रोमाञ्चः, प्रतिनिद्रता = निद्राऽऽधिक्यम् । २ स्रोतोरोधः = रसवाहिनां स्रोतसां रोधः, प्रसेकः = लालास्रावः । ३ श्रविपाकता = अन्नाविपाकः । ४ चकारोऽनुक्तसमुच्चयार्थः । तथा च— “ हृल्लासश्छर्दनं कासः स्तम्भः श्वैत्यं त्वगादिषु । श्रङ्गेषु शीतपिटिकास्त-न्द्रोदर्दः कफोद्भवे ॥ ” इति । उदर्दस्तु - " शीतपानीय संस्पर्शाच्छीतकाले विशेषतः । वयथुः शिशिरातनामुदर्दः कफसम्भवः ॥ ” इति । ५ सान्निपातिकज्वरलक्षणमभिधत्ते – निद्रेति । तन्द्रा - " इन्द्रियार्थेष्वसंवित्तिर्गौ-रवं जृम्भणं क्लमः । निद्राऽऽर्तंस्येव यस्येहा तस्य तन्द्रां विनिर्दिशेत् ॥ ” इति । सुप्ता-ङ्गवा = गात्राणां स्पर्शाज्ञता । ६ सन्धिरुजा, मूर्धरुजा, अस्थिरुजा चेत्यर्थः । ७ नेत्रे कथम्भूते - निर्भुग्ने कुटिले, कलुषे सास्रत्वादिना श्रविले । कर्णौ कथम्भूतौ- 1-: शब्दरुग-न्वितौ शब्दान्वितौ चेत्यर्थः । ८ स्रोतसां = मुखनासादिरन्ध्राणां पाकः कूजनं = कण्ठेऽव्यक्तशब्दोत्थानम्, चेतनाच्युतिः = चित्तनाशः । ९ स्रुतिः = निःसृतिरित्यर्थः । सन्निपातस्य अन्यान्यपि लक्षणानि तन्त्रान्तरतोऽवसेयानि १० अभिन्यासादिसंज्ञाभिः सन्निपातज्वरं चतुर्द्धा भिनत्ति - विशेषमिति । विशेषं = भेदम्, अत्र = सन्निपातज्वरे । ११ नात्युष्णशीतः = साधारणाङ्गस्पर्शः, CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1208
पाठ पढ़ें पाठ छिपाएँ
१०५० Digitized by Arya Sama सुश्रुतसंहितायां and Gangotri खरजिह्नः शुष्ककण्ठः वेदविण्मूत्रवर्जितः ॥ ३ ९ ॥
सास्रो निर्भुग्नहृदयो भक्तद्वेषी हतप्रभः ।
श्वसन् निपतितः शेते प्रलापोपद्रवायुतः ॥ ४० ।
तेभिन्यासमित्या हुई तौजसमथापरे । [ अ ० ३ ९ सन्निपातज्वरं कृच्छ्रमसाध्यमपरे विदुः । ४१ ॥
निद्रोपेतँमभिन्यासं क्षीणमेनं हतौजसम् ।
संन्यस्तगात्रं संन्यासं विद्यात्सर्वात्मके ज्वरे ॥ ४२ ॥
ओजो विस्रंसते यस्य पित्तानिलसमुच्छ्रयात् ।
स गात्रस्तम्भशीताभ्यां शयनेप्सुरचेतनः ॥ ४३ ॥
भ्रान्तप्रेक्षी = सर्ववस्त्वयथार्थदशीं । १ निपतितः = शय्यायां नियतं पतितः, शेते = निद्राति, प्रलाप एवोपद्रवः प्रलापोपद्रवस्तेन श्रायुतोऽत्यर्थयुक्तः । २ तं = सन्निपातमित्यर्थः । ३ सन्निपातस्य असाध्यत्वं तु - " दोषे विबद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः I श्रसाध्यः सोऽन्यथा कृच्छ्रो भवेद्वैकल्यदोऽपि वा ” इति विबद्ध दोषत्वादिना सम्पूर्णलक्षणत्वे एव बोध्यम् । भालुकिः— " मृत्युना सह योद्धव्यं सन्निपातं चिकित्सता । यस्तु तत्र भवेज्जेता स जेताऽऽमय सङ्कुले || सन्निपातार्णवे मग्नं योऽभ्युद्धरति मानवम् । कस्तेन न कृतो धर्मः को वा पूजां न सोऽईति ॥ ” इति । ४ परमतं निरस्यन् स्वमतं दर्शयति - निद्रोपेतमिति । सर्वात्मके ज्वरे निद्रो-पेतमभिन्यासं विद्यादित्यग्रेण सम्बन्धः । एवं क्षीणं सन्तं हतौजसं विद्यात्, संन्यस्त. गात्रं संन्यासं विद्यात् । ५. विस्रंसते - बहिर्निर्गच्छति । ६ शयनेप्सुः स्वपितु-मिच्छुः, श्रचेतनः = निःसंज्ञः । यद्यपि तन्त्रान्तरे त्रयोदशसन्निपाताः प्रकृतावुक्ताः । यथा— हीनमध्याधिकक्रमेण षट्, द्वयुल्बणेन त्रयः, एकोल्बणेन त्रयः, समत्वेनेक इति; तथाऽपि सुश्रुत इह दोषोत्कर्षापकर्षतारतम्येन घात्वाद्यावरणभेदेन च सन्निपातभेदाना-मानन्त्यात् पृथक् पृथग् लक्षणं नोक्तवान् । सन्निपातज्वरविशेषाणां त्रयोदशनामान्त-राण्याह तन्त्रान्तरे- “ शीताङ्गस्त्रिमलोद्भवज्वरगणे तन्द्री प्रलापी ततो, रक्तष्ठोवयिता च तत्र गणितः सम्भुग्ननेत्रस्तथा । साभिन्यासकजिह्वकश्च कथितः प्राक्सन्धिगोऽथान्तको, रुग्दाहः सहचित्तविभ्रम इद्द द्वौ कर्णकण्ठग्रहौ ॥ ” इति । श्रन्यग्रन्थोक्तत्रयोदश-सन्निपातानां कुम्भीपाकादिनामान्याह – “ कुम्भीपाकः प्रोर्णुनावः प्रलापी ह्यन्तर्दाहो दण्डपातोऽन्तकश्च । एणीदाहश्वाथ दारिद्रसंज्ञो भेदा एते सन्निपातज्वरस्य ॥ श्रजघो-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1209
पाठ पढ़ें पाठ छिपाएँ
20 अ ० ३ ९ ] Digitized by Arya ङ सभ्रात्र Chennai and eGangotri १०११
अपि जाग्रत् स्वपन् जन्तुस्तन्द्रालुश्च प्रलापवान् ।
संहृष्टरोमा स्ताङ्ग मन्दसन्तापवेदनः ॥ ४४ ॥
ओजोनिरोधजं तस्य जानीयात् कुशलो भिषक् ।
सप्तमे दिवसे प्राप्ते दशमे द्वादशेऽपि वा ॥ ४५ ॥
पुनर्घारितरो भूत्वा प्रशमं याति हन्ति वा ।
द्विदोषोच्छ्रायलिङ्गास्तु द्वन्द्वजास्त्रिविधाः स्मृताः ॥। ४३ ॥
तृष्णा मूर्च्छा भ्रमो दाहः स्वप्ननाशः शिरोरुजा । बभूतहासौ यन्त्रापीडश्च संन्यासः । संशोषी च विशेषास्तस्यैवोक्लात्रयोदशान्यत्र ॥ ” इति: । एतेषां लक्षणान्यन्यत्र द्रष्टव्यानि । १ सन्निपातज्वरस्य मोक्षवधयोर्मर्यादां दर्शयति - सप्तम इति । वाताधिकः सन्निपातज्वरः सप्तमे, पित्ताधिको दशमे, इलेष्माधिको द्वादशे मलपाकाद्विमु-चति, धातुपाकाद्धन्ति । तदुक्तम् -- - " पित्तकफानिलवृद्धया दशदिवसद्वादशाह. सप्ताहात् । हन्ति विमुञ्चति वाऽपि त्रिदोषजो वातुमलपाकात ॥ ” इति । तन्त्रान्तरे धातुपाकलक्षणम् -- “ सम्बाध्यमानो हृदि नाभिदेशे गात्रेषु वा पाकरुजाऽ-न्वितेषु । पक्वेषु वा तेषु रुजा ज्वरार्तः स धातुपाकी कथितो भिषग्भिः ॥ ” इति । अपरं च -- " नाभेरूर्ध्वं हृदोऽधस्तात् पीडिते वेद् व्यथा भवेत् । धातोः पाकं विजानी. यादन्यथा तु मलस्य च ॥ ” इति । " सप्तमी द्विगुणा या तु नवम्येकादशी तथा । एषा त्रिदोषमर्यादा मोक्षाय च वधाय च ॥ " इति भालुकिप्रोक्ता सन्निपातज्वरस्य मोक्षव-योर्मर्यादाऽपि बोध्या । २ अथ विकृतिविषम समवेतान् द्वन्द्वजज्वरान् दर्शयन् वातपित्तज्वरलक्षणमभि दधाति -- तृष्णेति । तृष्णाद्याः शिरोरुजान्ताः सुगमाः । द्वन्द्वजेषु सान्निपातिकेषु च कानिचिल्लक्षणानि विकृतिविषम समवायारब्धानि भवन्ति, कानिचित्प्रकृतिसमसम-वायारब्धानि भवन्ति । दोषाणामेव लक्षणानि दृश्यन्ते प्रकृतिसमसमवायारब्धानि, विपरीतानि तु विकृतिविषमसमवायारब्धानि । प्रकृतिसमसमवायो यथा -- कफपित्तजे लिप्ततिक्तास्यत्वम् । विकृतिविषमसमवायो यथा - वातपित्तयोलंक्षणेषु अरुचिरोमहर्षों, -इमौ तु विकृत्यारब्धौ दृश्येते । वातश्लेष्मणोर्लक्षणेषु सन्तापो नास्ति, सान्निपातिक-ज्वरलक्षणे दृश्यते, सोऽपि विकृत्यारब्धः । शिरसो लोठनं वातपित्तश्लेष्मणां लक्षणेषु न दृश्यते । सान्निपातिकज्वरलक्षणे दृश्यते, तदपि विकृत्यारण्यम् । एवं द्वन्द्वजसन्नि-पातजेषु सर्वेष्वपि रोगेषु बोद्धव्यम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1210
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां १०५२ Digitized by Arya Samaj Foundation Chennai and eGangotri अ ० ३ ९ ] कण्ठाम्यैशोषो वमथू रोमहर्षोऽरुचिस्तथा ॥ ४७ ॥
पर्वभेदैश्च जृम्भा च दातपित्तज्वराकृतिः ।
स्तैमित्यं पर्वणां भेदो निद्रा गौरवमेव च ॥ ४८ ॥
शिरोग्रहः प्रतिश्यायः कासः स्वेदप्रवर्तनम् ।
सन्तापो मध्यवेगैश्च वातश्लेष्मज्वराकृतिः ॥ ४ ९ ॥
लितिक्तास्यता तन्द्रा मोह: कासोऽरुचिस्तृषा ।
मुहुर्दाहो मुहुः शीतं श्लेष्मपित्तज्वराकृतिः ॥ ५० ॥
( जृम्भाऽऽध्मानमदोत्कम्पपर्वभेदपरिक्षयाः ।
तृट्प्रलापाभितापाः स्युर्ज्वरे मारुतपैत्तिके ॥ १ ॥
शूलकासकफोत्क्लेशशीतवेपथुपीनसाः ।
गौरवारुचिविष्टम्भा वातश्लेष्मसमुद्भवे ॥ २ ॥
शीतदाहारुचिस्तम्भस्वेदमोहमदभ्रमाः । कासाङ्गस्रादहृल्लासा भवन्ति कफपैत्तिके ॥ ३ ॥ )
कृशानां ज्वरमुक्तानां मिथ्याऽऽहारविहारिणाम् । १ कण्ठास्यशोषौ = कण्ठशोषो मुखशोषश्चेत्यर्थः । वमथुः = छर्दिभेदः, रोमहर्षः -रोमाञ्चः । २ पर्वभेदः = पर्वाणि भिद्यन्त इव सन्धिषु व्यथा । ३ वातश्लेष्मज्वरलक्षणमुद्दिशति - स्तैमित्यमिति । स्तैमित्यं = निश्चलत्वं ज्वरितस्य, पर्वणां भेदः = ग्रन्थिस्फुटनम् । ४ स्वेदप्रवर्तनं = कारणं विनैव स्वेदस्य प्रवृत्तिः । “ शिरोग्रहः स्वेदभवश्च कासो ज्वरस्य लिङ्गं कफवातजस्य " इति हारीतः । इदमपि लक्षणं विकृतिविषमसमवायारब्धम् । सन्तापोऽपि विकृतिविषमसमवायारब्धः । ५ मध्यवेगः = नातितीक्ष्णो नातिमृदुरित्यर्थः । ६ श्लेष्मपित्तज्वरलक्षणमभिदधाति - लिप्तेति । श्लेष्मणा लिप्तं च पित्तेनः तिक्तं च आस्यं मुखं यस्य तस्य भावो लिप्ततिक्तास्यता, लिप्तास्यता तिक्तास्यता चेत्यर्थः । तन्द्रा = निद्रावत् क्लान्तिः, तन्द्रालक्षणम् - " इन्द्रियार्थेष्वसंवित्तिगौरवं जृम्भणं क्लमः । निद्राऽऽर्तस्येव यस्येद्दा तस्य तन्द्रां विनिर्दिशेत् ॥ ” इति । मोहः = मूर्च्छा । “ तथा स्तम्भश्च संस्वेदः कफपित्तप्रवर्तनम् ” इति चरकोक्तानि लक्षणान्यपि बोद्धव्यानि । ७ विषमज्वरसम्प्राप्तिमाह- कृशानामिति । कृशानां मिथ्याऽऽहारविहारिण ज्वरमुक्तानां देहिनां दोष: स्वल्पोऽपि पुनर्मिथ्याऽऽद्दारविहाराभ्यां संवृद्धोऽनिलेरितो. CC - 0. Gurukul Kangri Collection, Haridwar