सुश्रुत संहिता चौखम्बा — पृष्ठ 1211–1220
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1211–1220
पृष्ठ 1211
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ९ ] Digitized by Arya Samaj Foundation Chennai and eGangotri उत्तरतन्त्र दोषः स्वल्पोऽपि संवृद्धो देहिनामनिलेरितः ॥ ५१ ॥
सततान्येद्युष्कत्र्याख्यचातुर्थान् सप्रलेपकान् ।
कफस्थानविभागेन यथासंख्यं करोति हि ॥ ५२ ॥
अहोरात्रादहोरात्रात् स्थानात् स्थानं प्रपद्यते ।
ततश्चामाशयं प्राप्य दोषः कुर्य्याज्ज्वरं नृणाम् ॥ ५३ ॥
तेथा प्रलेपको ज्ञेयः शोषिणां प्राणनाशनः ।
दुश्चिकित्स्यतमो मन्दः सुकष्टो धातुशोषकृत् ॥ ५४ ॥
कफँस्थानेषु वा दोषस्तिष्ठन् द्वित्रिचतुर्षु वा । १०५३ वातप्रेरितः सन् सततान्ये शुष्कत्र्याख्य चातुर्थप्र लेप कान् कफस्थानानाम् श्रामाशयोरः-कण्ठशिरःसन्धीनां विभागेन यथासङ्ख्यं करोतीति सम्बन्धः । यथा – आमाशयस्थः सत ं प्रत्यहं वारद्वयं करोति, उरस्थः अन्येषुष्कं कण्ठस्थस्तृतीयकं, शिरस्थश्चतुर्थकं, सन्धिस्थः प्रलेपकं, सर्वेषु कफस्थानेषु व्यवस्थितो दोषः सन्ततं करोतीति । दोष इति एकवचनं दोषत्वसामान्यादिति बोद्धयम् । १ उरआदिस्थितो दोषो यथाऽन्येद्युष्कादीन् करोति तथा दर्शयति - अहोरात्रा-दिति । श्रहोरात्रादुरःस्थो दोष एकस्मिन् दिने श्रामाशयं प्राप्य अन्यस्मिन् दिने. ऽन्येद्युष्कं करोति, सतवारम्भकदोषापेक्षयाऽस्य व्यवहितत्वात् । कण्ठस्थितो दोष एकस्मिन् दिने हृदयमागच्छति, अन्यस्मिन् दिने श्रामाशयमागत्य तृतीयकं करोति तृतीयदिवसे, एवं शिरःस्थो दोषः कण्ठोर आमाशयान् त्रिभिर्दिनैः क्रमेण प्राप्य चतु · हि चातुर्थकं करोति, सन्धिस्थितो दोषो नित्यमेव प्रलेपकं करोति, सन्धयश्चामाश · येऽपि सन्तीति स सर्वदा भवति । २ प्रलेपकलक्षणमभिधत्ते - तथेति B ३ सन्निपातात्मकत्वाद् दुश्चिकित्स्यतम इत्यर्थः । मन्दः मन्दवेगः । ४ चतुर्थकादिविपर्ययज्वरलक्षणमाह – कफेति । कफस्थानयोर्द्वयोर्हृदयामाशययोस्तिष्ठन् दोषोऽन्येद्युष्कविपर्ययं करोति, अर्थादहोरात्रे पूर्वाह्लादीनामेककालं मुक्त्वा समस्तमहोरात्रं भवतीति विपर्ययः । श्रामाशयहृइयक-ण्ठस्थितेन तृतीयकविपर्ययः । तत्रैकस्मिन् दिने हृदयस्थो दोष आमाशयमागत्य तत्स्थे-न सह ज्वरयति, तद्दिने कण्ठस्थितश्च हृदयमायाति, अपरदिने सोडप्यामाशयमागत्य ज्वरयति, एवं दिनद्वये भूत्वा पश्चादेकदिनं न भवतीति तृतीयकविपर्ययः । आमाशय-हृदयकण्ठशिरःस्थेन दोषेण चतुर्थकविपर्ययः । तत्र यस्मिन् दिने हृदयस्थो दोष श्रामाशयमागत्य ज्वरयति तस्मिन्नेव कण्ठस्थो ' हृदयं शिरःस्थश्च कण्ठमायाति, अपर · दिने हृदयस्थ एवामाशयमागत्य ज्वरयति, एवं दिनत्रये भूत्वा पश्चादेकदिनं न भव-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1212
पाठ पढ़ें पाठ छिपाएँ
१०५४ Digitized by Arya सुश्रुतसंहितायां nal and eGangotri [ अ ० ३ ९. विपर्य्ययाख्यान् कुरुते विषमान् कृच्छ्रसाधनान् ॥ ५५ ॥
परो हेतुः स्वभावो वा विशमे कैश्चिदीरितः ।
तुश्चानुबन्धो हि प्रायशो विषमज्वरे ॥ ५६ ॥
वाताधिकत्वात् प्रवदन्ति तज्ज्ञास्तृतीयकञ्चापि चतुर्थकञ्च ।
औपत्य के मद्यसमुद्भवे च हेतुं ज्वरे पित्तकृतं वदन्ति ॥ ५७ ॥
प्रलेपकं वातबलौसकञ्च कफाधिकत्वेन वदन्ति तज्ज्ञा: ।
मूर्च्छाऽनुबन्धा विषमज्वरा ये प्रायेण ते द्वन्द्वसमुत्थितास्तु ॥ ५८ ॥
त्वक्स्थौ श्लेष्मानिलो शीतमादौ जनयतो ज्वरे । तीति चतुर्थकविपर्यय इति श्रीकण्ठः । सततस्य तु विपर्ययो न भवति, एकस्मिन्नेव कफस्थाने स्थितेन दोषेण तत्करणाद् व्याधिस्वभावाद्वा । ' ककस्थानेषु वा दोष: ' इत्यत्र दोषशब्दस्य पृथग्द्वन्द्वसमस्तदोषत्वे तात्पर्यम् । १ विषमज्वराणामेकीयमतेन नियतैककालागमने हेतुमभिदधाति पर इति । परो भूतादिः, हेतुः कारणम्, स्वभावो वा विषमे विषमज्वरे हेतुः कैश्चिदीरितः । " निवृत्तः पुनरायाति विषमो नियते दिने । स्वभावं कारणं तत्र मन्यन्ते मुनिपुङ्गवाः ॥ ” इति तदुक्तिः । २ वस्तुतस्तु विषमज्वरे भूतादिर्हेतुरिति समर्थयति - मागन्तुरिति । श्रागन्तुः = भूतादिः, अनुबन्धः कारणम्, दोषोत्पादक इति यावत् । ' अनुबन्धस्तु बन्धे स्याद् दोषोत्पादे विनश्वरे ' इति मेदिनी । ३ विषमज्वराणामारम्भकदोषान्निर्दिशति - वातेति । तन्त्रान्तरे - " कफपित्तात् त्रिकग्राही पृष्ठाद् वातकफात्मकः । वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः ॥ ” इति, एवं – “ चतुर्थको दर्शयति स्वभावं द्विविधं ज्वरः । जङ्घाभ्यां श्लैष्मिकः पूर्व शिरसोऽनिलसम्भवाः । मध्यकायं तु गृह्णाति पूर्व यस्तु स पित्तजः । विषमज्वर एवा-न्यश्चतुर्थकविपर्ययः ॥ ” इति च तृतीयकचतुर्थकयोर्यद्यपि द्वन्द्वदोषसमुद्भवत्वमुक्तं, तथा-ऽपि स्वतन्त्रे पित्तश्लेष्मलिङ्गत्वेऽपि तयोर्वाताधिकत्वं ज्ञेयम् । ४ उपत्यका पर्वतासन्नभूमिस्तत्र भवे ज्वरे औपत्यके । ५ वातबलाहकस्तु शोथिनामेव भवति । तदुक्तम् - " नित्यं मन्दज्वरो रूक्षः शुनकस्तेन सीदति । स्तब्धाङ्गः श्लेष्मभूयिष्ठो नरो वातबला सकी । ' इति । वातबलासकोऽधुना ' बेरी बेरी ' इति पाश्चा • त्यभाषायां ख्यातः । ६ मूर्च्छाऽनुबन्धाः सततमूच्छत्पादका ये विषमज्वरास्ते प्रायेण द्वन्द्वसमुत्थिताः, एवं च ते दुश्चिकित्स्या इति योजनीयम् । ७ सन्ततादिज्वरे पूर्वं कस्यचिच्छीतं कस्यचिद्दाद इति तेषां द्वैविध्यं दर्शयति — त्ववस्थाविति । श्रयं भावः - यदा श्लेष्मानिलौ त्वचि कुपितौ भवतस्तदा ज्वरस्यादौ CC - 0. Gurukul Kangri Collection, Haridwar,
पृष्ठ 1213
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ९ ] Digitized by Aryaotion Chennai and eGangotri तयोः प्रशान्तयोः पित्तमन्ते दाहं करोति च ॥ ५ ९ ॥
करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च ।
प्रशान्ते कुरुतस्तस्मिंश्छीतमन्ते च तावेपि ॥ ६० ॥
द्वावेतौ दाहशीतादी ज्वरौ संसर्गजौ स्मृतौ ।
दाहपूर्वस्तयोः कष्टः कृच्छ्रसाध्यश्च स स्मृतः ॥ ६१ ॥
प्रसक्तचाभिघातोत्थश्चेतनाप्रभवस्तु यैः ।
रौत्र्यहोः षट्सु कालेषु कीर्त्तितेषु यथा पुरा ॥ ६२ ॥
प्रसह्य विषमोऽस्येति मानवं बहुधा ज्वरः । ६ स चापि विषमो देहं न कदाचिद् विमुञ्चति ॥ ६३ ॥
ग्लानिगौरव काश्येभ्यः स यस्मान्न प्रमुच्यते ।
वेगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते ॥ ६४ ॥
धात्वन्तरस्थो लीनत्वान्न सौक्ष्म्यादुपलभ्यते ।
अल्पदोषेन्धन: ' क्षीणः क्षीणेन्धन इवानलः ॥ ६५ ॥
२०५५ त्वचि शीतं जनयतः । श्रर्थाज्ज्वरे आदौ पूर्वं कफवातौ त्वक्स्थौ सन्तौ शीतमुत्पादयतः, तयोः श्लेष्मानिलयोः प्रशान्तयोः स्वकालापगमात् प्रत्यनीकप्राप्त्या च प्रशान्तवेगयोः सतोरन्ते पित्तं दाहं करोति । तथा तेनैव प्रकारेण आदौ पित्तं खक्स्थं सदतीव दाहं करोति, तस्मिन् पित्ते प्रशान्ते सति तौ श्लेष्मानिलौ अन्ते शीतं कुरुत इति । १ चकारान्मोहमूर्च्छादीन् करोति । २ अपिशब्दाद्वमथु तन्द्राऽऽदीन् कुरुतः । ३ द्वावेतौ दाहशीतादी संसर्गजौ सान्निपातिको कथितौ तयोर्दाहशीतपूर्वकयो -उर्ध्वरयोर्मध्ये दाहपूर्वकः कष्टोऽत्यन्त दुःखप्रदः कृच्छ्रसाध्यश्च स्मृतः । शीतपूर्वस्तु सुख-साध्यः, रोगशक्तेरचिन्त्यत्वात् । ४ यो ज्वरोऽभिघातोत्थः काष्ठलेोष्ठाद्यभिघातजः चेतनाप्रभवः कामादिजः स प्रसक्तः प्रकर्षेण सङ्गीत्यर्थः । ५ विषमज्वराणां स्वकालेषूद्गमं दर्शयति - रात्र्यहोरिति । षट्सु कालेषु = पूर्वाह्लादिषु, यथा = येन प्रकारेण, पुरा = व्रणप्रश्नाध्याये, कीर्तितेषु = कथितेषु । ६ विषमज्वराणामुपशान्तवेगानामपि देहेऽवस्थानं प्रतिपादयति - स चापीति । विषमः = विषमज्वरः । तन्त्रान्तरे विशेष: - " शिरसो गौरवं ग्लानिर्नातिश्रद्धा च भोजने । माधुर्यमथ वैरस्यं तिक्तस्त्रमथवा पुनः ॥ वक्त्रस्य जायते यस्मात् प्रवेगेऽपि गते सति । तस्मात्तु नियतो लीनशरीरे विषमज्वरः ॥ ” इति । ७ एकस्माद्धातोरन्यो धातुर्धाश्वन्तरं तत्र तिष्ठतीति धात्वन्तरस्थः, लीनत्वात् = एकदेशस्थितत्वात्, सौक्ष्म्यात् = अणुत्वात् । ८ क्षीण: = प्रत्पदोषरूपेन्धनत्वेन अल्पीभूतः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1214
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां... १०५६ Digitized by Arya Sama Foundation Chennai and eGangotri [ अ ० ३ ९
दोषोऽल्पोऽहितसम्भूतो ज्वरोत्सृष्टस्य वा पुनः ।
धातुमन्यतमं प्राप्य करोति विषमज्वरम् ॥ ६६ ॥
संततं रसरक्तस्थः सोऽन्येद्युः पिशिताश्रितः ।
मेदोगतस्तृतीयेऽह्नि त्वस्थिमज्जगतः पुनः ॥ ६७ ॥
कुर्याच्चातुर्थकं घोरमन्तकं रोगसङ्करम् ।
केचिंद् भूताभिषङ्गोत्थं ब्रुवते विषमज्वरम् ॥ ६८ ॥।
सप्ताहं वा दशाहं वा द्वादशाहमथापि वा ।
{ सन्तत्या योऽविसर्गी स्यात्सन्ततः स निगद्यते ॥ ६ ९ ॥
अहोरात्रे सततको द्वौ कौलावनुवर्त्तते । १ कायचिकित्साविदां मतेन विषमज्वरसम्प्राप्तिमाह - दोष इति । ज्वरोत्सृष्टस्य सहसा निवृत्तज्वरस्य पुंसोऽल्पो दोषः पुनरहितसम्भूतोऽहिताहाराचारादिसम्भूतः सन् अन्यतमं धातुं प्राप्य विषमज्वरं तृतीयादिकं करोति । विषमज्वरसामान्यलक्षणं भालु-किना पठितम् — “ यः स्यादनियतात् कालाच्छीतोष्णाभ्यां तथैव च । वेगतश्चापि विषमो ज्वरः स विषमः स्मृतः ॥ ” इति । २ विषमज्वराणामाश्रयभूतान् धातून् दर्शयति-- सततमिति । सततशब्दः सन्ततस्योपलक्षकः, तेन रसस्थः सन्ततं, रक्तस्थः सततं करोतीत्यर्थः । तदुक्तं चरके— “ रक्तघात्वाश्रयः प्रायो दोषः सततकं ज्वरम् " इति । ३ अन्तकं - यमसदृशम्, रोगसङ्करम् = अनेकरोगसङ्कुलम् । गम्भीरस्थानत्वाच्चिरक्लेशनत्वाच्च श्रन्यानपि रोगानावइतीति भावः । ४ एकीयमते विषमज्जरस्य भूताभिषङ्गजरवमभिधत्ते - केचिदिति । " भूताभिष-ङ्गादुद्वेगो हास्यरोदनकम्पनम् । केचिद् भूताभिषङ्गोत्थं ब्रुवते विषमज्वरम् ॥ ” इति भावमिश्रः । भूतानि देवग्रहादय:, तेषामभिषण आवेशस्तदुत्थं भूताभिषङ्गोत्थम् । ५ विषमज्वराणां लक्षणानि निर्दिशति - सप्ताहमिति । सप्ताहादीन् व्याप्य सन्तत्या नैरन्तर्येण अविसर्गोऽत्यागशीलः स ज्वरः सन्ततो निगद्यते । सप्ताहादिदिन-विकल्पा व्यवस्थिताः । तदुक्तम् - " वातिकः सप्तरात्रेण दशरात्रेण पैत्तिकः । श्लैष्मिको द्वादशाहेन ज्वरः पाकं प्रगच्छति ॥ ” इति 1 । श्रयं सुखसाध्यः । तदुक्तं तन्त्रान्तरे— “ सन्वतज्वर एवान्यः स्वल्पदुर्बलकारणः । एकदोषो द्विदोषो वा सुखसाध्यः प्रकी-faa: 11 " fa ६ कालाः षट् पूर्वाह्णेमध्याह्वापराहु प्रदोषार्धरात्रप्रत्यूषाः; तत्र पूर्वाह्नप्रदोषयोः कफस्य कालः, मध्याह्वार्धरात्रयोः पित्तस्य, अपराह्नप्रत्यूषयोर्वातस्य । पूर्वाह्लादीन CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1215
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ९ Digitized by Arya Sa स्तत्व dhennai and eGangotri अन्येद्युष्कस्त्वहोरात्रादेककालं प्रवर्त्तते ॥ ७० ॥
तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः ।
वनोदीर्यमाणाश्च हीयमाणाश्च सर्वतः ।
एकद्विदोषा मर्त्यानां तस्मिन्नेवोदितेऽहनि ॥ ७१ ॥
वेलां तामेव कुर्वन्ति ज्वरवेगो मुहुर्मुहुः ।
वातेनोद्भूयमानस्तु यथा पूर्खेत सागरः ॥ ७२ ॥
वातेनोदीरितास्तद्वहोषाः कुर्वन्ति वै ज्वरान् ।
यथा वेगागमे वेलां छादयित्वा महोदधेः ॥ ७३ ॥
वेगहानौ तदेवाम्भस्तत्रैवान्तर्निलीयते ।
दोषवे गोदये तद्वदुदीय्येंत ज्वरोऽस्य वै ॥ ७४ ॥
वेगहानौ प्रशाम्येत यथाम्भः सागरे तथा ।
विविधेनाभिघातेन ज्वरो यः सम्प्रवर्तते ॥ ७५ ॥
यथादोषप्रकोपन्तु तथा मन्येत तं ज्वरम् ।
श्यावस्थता विषकृते दाहातीसारहृद्ग्रहाः ॥ ७६ ॥
१०५७ षण्णां कालानां मध्ये कालो अर्थात् कालद्वयमनुवर्तते वेगं करोति स सततः, श्रह्नि एकक ( लं ) रात्रावेककालं वा, अह्नि द्रो कालो, रात्रौ द्वौ कालौ वा, पत्र दोषोत्कषाप • कर्षाभ्यामधिककालखं हीन कालस्वमपि ज्ञातव्यं, न तु नियम इतीशानः । श्रन्येद्युष्को ज्वर एककालमनुवर्तते वेगं करोति, अहोरात्रादन्यस्मिन्नहोरात्रे एककालमागच्छती -त्यर्थः। १ तृतीयकस्तृतीयेऽह्नि इत्यत्र ' एककालम् ' इति सम्बन्धनीयम्, एवं चतुर्थेऽह्नि चतुर्थक इत्यत्रापि तत् । २ विषमज्वराणां नियतकालागमने हेतुमभिदधाति -- वातेनेति । उदीर्यमाणाः = उत्कटीक्रियमाणाः, हीयमाणा = आकृष्यमाणाः । ३ तस्मिन्नेवोदितेऽहनि = पूर्वोक्ते विषमज्वराणां दिने । ४ तामेव वेलां पूर्वाह्नमध्याह्नापराह्नप्रदोषार्धरात्रप्रत्यूषा -त्मिकां ज्वरवेगे ज्वरवेगविषये कुर्वन्तीत्यर्थः । ५ उदीरिताः = उद्रिक्ताः, दोषाः-आमाशयगता वातपित्तश्लेष्माणः । ६ उदीर्येत = यथाबलमभिव्यजेत । ७ संशिल-ष्टावयवत्वेन पुनरामाशयानुसरणात् प्रशाम्येतेत्यर्थः । = विविधागन्तुज्वराणां लक्षणानि निरूपयति- विविधेनेति । विविधेन = शत्र • लोष्टमुष्टिलगुडाद्यनेकविधेन । ९ इयावः शुक्लानुविद्धकृष्णवर्णः, तद्वदास्यं मुखं यस्य, तस्य भावः श्यावास्यता, विषकृते = स्थावर विषभक्षणार्दिकृते, अतीसारः = स्थावर-६७ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1216
पाठ पढ़ें पाठ छिपाएँ
२०५८ Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३ ९
अभक्तरुक् पिपासा च तोदो मूर्च्छा बलक्षयः ।
ओ * धीगन्धजे मूर्च्छा शिरोरुक् वमथुः क्षवः ॥ ७७ ॥
कामजे चित्तविभ्रंशस्तन्द्राऽऽलस्य मरोचकः ।
हृदये वेदना चास्य गात्रञ्च परिशुष्यति ॥ ७८ ॥
भयात् प्रलापः शोकाच्च भवेत कोपाच्च वेपथुः ।
अभिचाराभिशापाभ्यां मोहस्तृष्णा च जायते ॥ ७ ९ ॥
भूताभिषङ्गादुद्वेगहास्य कम्पनरोदनम् ।
श्रमक्षयाभिघातेभ्यो देहिनां कुपितोऽनिलः ॥ ८० ॥।
पूरयित्वाऽखिलं देहं ज्वरमापादयेद् भृशम् ।
रोगाणान्तु समुत्थानाद्विदाहागन्तुतस्तथा ॥ ८१ ॥
ज्वरोऽपरः सम्भवति तैस्तैरन्यैश्च हेतुभिः ।
दोषाणां स तु लिङ्गानि कदाचिन्नातिवर्त्तते ॥। ८२ ॥
गुरुता हृदयोत्क्लेशः सदनं छर्द्यरोचकौ ।
रसस्थे तु ज्वरे लिङ्गं " दैन्यं चास्योपजायते ॥ ८३ ॥
विषस्याधोगतत्वादिति भावः । १ श्रोषधीगन्धजे = तीव्रौषधीगन्धघ्राणजे । २ का मजे = अभिमतकामिन्याद्यप्राप्तिनिमित्ते, चित्तविभ्रंशः = भ्रमादिः । तदुक्तं वाग्भटे-“ कामाद् भ्रमोऽरतिर्दाहो हीनिद्राधीधृतिक्षयः । ध्याननिःश्वासबहुलं लिङ्गं कामज्वरे स्मृतम् ॥ ” इति । ३ भयशोककोपाभिषङ्गज्वरमाह - भयादिति । प्रलापः = असम्बद्धभाषणम् । ४ अभिचारो मन्त्रादिभिर्मारण प्रयोगः, अभिशापो ब्रह्मर्षिगुरु सिद्धादीनामभिशपनं, ताभ्यामभिचाराभिशापाभ्याम् । तृष्णा चेति चकारेण दाहादिकः समुच्चीयते । तदुक्तं वाग्भटे— “ तत्राभिचारिकैर्मन्त्र हूयमानस्य तप्यते । पूर्वं चेतस्ततो देहस्ततो विस्फोट. तृभ्रमैः । सदाद्दमूच्लैर्ग्रस्तस्य प्रत्यहं वर्धते ज्वरः ॥ ” इति । ५ भूतानां देवादिप्रहाणामभि समन्ततो भावेन सङ्गः सम्बन्धो भूताभिषङ्गस्त-स्मात् । " कामशोकभयाद्वायुः, क्रोधात्पित्तं, त्रयो मलाः । भूताभिषङ्गात् कुप्यन्ति भूत-सामान्यलक्षणाः ॥ ” इति माघवकरः । ६ पूरयित्वा = व्याप्येत्यर्थः । ७ तैस्तैर · रन्यैश्च हेतुभिः = विद्रध्यादिसमुत्थानात्प्रागुकेरन्यैश्च ज्वरकारिभिः कारणैरित्यर्थः । ८ धातुगतज्वराणां लक्षणानि वक्ति - गुरुतेति । गुरुता = गात्राणां गौरवम्, हृदयोत्क्लेशः = हृदयस्थितदोष स्योपस्थितवमनत्वमित्र, सदनम् = अङ्गग्लानिः । ९ दै-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1217
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ९ ] Digitized by Arya Hol Chennai and eGangotri
रक्तनिष्ठोवनं दाहः स्वेदश्छर्दनविभ्रमौ ।
प्रलापः पिटिका तृष्णा रक्तप्राप्ते ज्वरे तृणाम् ॥ ८४ ॥
पिण्डेिकोद्वेष्टनं तृष्णा सृष्टमूत्रपुरीषता । २०५ ९ ऊष्मान्तर्दाहविक्षेपौ ग्लानिः स्यान्मांसगे ज्वरे ॥ ८५ ॥
भृशं स्वेदस्तृषा मूर्च्छा प्रलापश्छर्दिरेव च ।
दौर्गन्ध्यारोचको ग्लानिर्वेदःस्थे चासहिष्णुता ॥ ८६ ॥
भेदोऽऽस्थनों कुञ्चनं श्वासो विरेकश्छर्दिरेव च ।
विक्षेपणं च गात्राणामेतदस्थिगते ज्वरे ॥ ८७ ॥
तमःप्रवेशनं हिक्का कास: शैत्यं वमिस्तथा ।
अन्तो महाश्वासो मर्मच्छेदच मज्जगे ।
मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे ॥। ८८ ॥
शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः ।
दग्ध्वेन्धनं यथा वह्निर्धातून हत्वा यथा विषम् ॥ ८ ९ ॥
= प्रव-न्यं = क्लान्तचित्तत्वम् श्रस्य = प्राणिनः । १ पिण्डिका जान्वधो जङ्घामांसपिण्डः, तस्या उद्वेष्टनं दण्डादिना पीढनेनेव वेदना पिण्डिको द्वेष्टनम् । सृष्टमूत्रपुरीषता = र्तमान मूत्रपुरीषता I । २ ऊष्माऽन्तः = अन्तर्दाह इत्यर्थः । विक्षेपः = हस्तादिचालनम् । ३ प्रलापः श्रसम्बद्धभाषणम् । ४ असहिष्णुता = क्रोधनम् । ५ भेदो s. | स्थ्नां = भङ्गवरपीडेत्यर्थः । कुञ्चनम् = प्रस्थनां सङ्कोचः । कुञ्चनमित्यत्र ' कूजनम् ' इति पाठे अस्फुटध्वनिरित्यर्थः । ६ तमःप्रवेशनम् = श्रन्धकारप्रविष्टस्येवा संवित्तिः । ७ श्वासप्रतिषेधे महाश्वासलक्षणं वक्ष्यति - " विसज्ञः पार्श्वशूलार्तः शुष्ककण्ठोऽति-घोषवान् । संरब्धनेत्रस्त्वायम्य यः श्वस्यात् स महान् स्मृतः ॥ ” इति । मर्मणो हृद • यस्य छेद ह्रव छेदो मर्मच्छेदः । परपदार्थेषु प्रयुज्यमानाः शब्दा इवान्तरेणापि इव इत्यर्थं गमयन्ति, यथा श्रग्निर्माणवकः । ८ शुक्रं च तत्स्थानं चेति शुक्रस्थानं तद्गते शुक्रस्थानगते अर्थाद् रसादिधातु • गतज्वरेषु मध्ये शुकस्थानगते मरणं प्राप्नुयादिति योजनीयम् । न तु शुक्रस्य स्थानं शुक्रस्थानम्, शुक्रस्य सर्वदेहगत्वेन नियतस्थानासम्भवादिति कार्तिकः । तदुक्तं शारी-रस्थाने— “ यथा पयसि सर्पिस्तु गुडश्चेक्षुरसे यथा । शरीरेषु तथा नृणां शुक्रं विद्या-द्भिषग्वरः ॥ ” इति । ९ शुक्रगतो ज्वरोऽपरव्यापाराभावाद्देह्घातेनैवोपशाम्यतीति दर्शयति- दग्ध्वेति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1218
पाठ पढ़ें पाठ छिपाएँ
१०६० Digitized by Arya Sama tion Chennai and eGangotri [ अ ० ३ ९
कृतकृत्यो व्रजेच्छान्ति देहं हत्वा तथा ज्वरः ।
वातपित्तकफोत्थानां ज्वराणां लक्षणं यथ ॥ ९ ० ॥
तथा तेषां भिषग्याद्रसादिष्वपि बुद्धिमान् ।
समस्तैः सन्निपातेन धातुस्थमपि निर्दिशेत् ॥ ९ १ ॥
द्वन्द्वजं द्वन्द्वजैरेव दोषैश्चापि वदेत्कृतम् ।
गंम्भीरस्तु ज्वरो ज्ञेयो ह्यन्तर्दाहेन तृष्णया ॥ ९ २ ॥
श्राद्धत्वेन चात्यर्थं श्वासकासोद्गमेन च ।
हतप्रभेन्द्रियं क्षीणमरोचकनिपीडितम् ॥ ९ ३ ॥
गंम्भीरतीक्ष्णवेगात ज्वरितं परिवर्जयेत् । दग्ध्वा = भस्मीकृत्येत्यर्थः । १ यथा येन प्रकारेण वातपित्तकफोत्थानां ज्वराणां लक्षणं, तथा तेनैव प्रकारेण तेषां वातादिज्वराणां रसादिषु सप्तसु धातुष्वपि गतानां लक्षणं बुद्धिमान् भिषग् ब्रूयादिति सम्बन्धः । २ द्वन्द्वजैः द्विदोषजनितैरित्यर्थः । ३ ज्वराणां साध्यासाध्यलक्षणमाह – गम्भीरस्त्विति । गम्भीरः अन्तर्वेगः । य एव ज्वरश्चरकेऽन्तर्वेगः, स एव सुश्रुते गम्भीरः पठितः । तदुक्तम् - " न्तर्दाहोऽधिका तृष्णा प्रलापः श्वसनं भ्रमः । सन्ध्यस्थिशूलम स्वेदो दोषवचविनिग्रहः । अन्तवेंगस्य लिङ्गानि कष्टसाध्यत्वमेव च ॥ ” इति । बहिर्वेगस्य लिङ्गानि तु – “ सन्तापो ह्यधिको बाह्यस्तृष्णादीनां च मार्दवम् । बहिर्वेगस्य लिङ्गानि सुखसाध्यत्वमेव च ॥ " इति । ४ श्रनद्धत्वेन = बिबद्ध मलत्वेन । ५ गम्भीरज्वरस्य असाध्यत्वं निर्दिशति - हतेति । हतप्रभाणि हतशक्तीनि स्वविषयाग्राहीणि चक्षुरादीनि यस्य स तथा, अथवा हता प्रभा दीप्तिरिन्द्रियाणि च यस्य स तथा । ६ गम्भीर उक्तलक्षणः, तीक्ष्णवेगोऽतिदुःसह वेगस्ताभ्यामार्त पीडितम् । एषामसाध्यलक्षणानामुपलक्षणत्वात्तन्त्रान्तरोक्तान्यन्यान्यपि लक्षणानि ज्ञातव्यानि । तद्यथा- “ प्रेतैः सह पिबेन्मद्यं स्वप्ने यः कृष्यते शुना । सुघोरं ज्वरमासाद्य स जीवम. पसृज्यते ॥ ज्वरः पौर्वाह्निको यस्य शुष्ककासश्च दारुणः । बलमांसविहीनस्य यथा प्रेतस्तथैव सः ॥ ज्वरो यस्यापराद्धे तु श्लेष्मकासश्च दारुणः । बलमांसविहीनस्य यथा प्रेतस्तथैव सः ॥ सहसा ज्वरसन्तापस्तृष्णा मूर्च्छा बलक्षयः । विश्लेषणं च सन्धीनां मुमूर्षोरुपजायते । गोसर्गे वदनाद्यस्य स्वेदः प्रच्यवते भृशम् । लेपज्वरोप-सृष्टस्य दुर्लभं तस्य जीवितम् ॥ मृत्युश्च तस्मिन् बहुपिच्छिलत्वाच्छीतस्य जन्तोः परितः सरत्वात् । स्वेदो ललाटे हिमवन्नरस्य शीतार्दितस्यैति सुपिच्छिलश्च ॥ कण्ठे स्थितो यस्य न याति वक्षो नूनं यमस्यैति गृहं स मत्यंः ॥ सुतस्वेदो ललाटाद्यः श्लथ-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1219
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ९ ] Digitized by Arya snd स्तन्यकू ( Chennai and eGangotri हीनमध्याधिकैर्दोषैस्त्रिसप्तद्वादशाहिकः ॥ ९ ४ ॥
ज्वरवेगो भवेत्तीम्रो यथापुव सुखक्रियः ।
कालो ह्येष यमश्चैव नियतिर्मृत्युरेव च ॥ ९ ५ ॥
तस्मिन् व्यपगते देहाज्जन्मेह पुनरुच्यते ।
इति ज्वराः समाख्याताः कर्मेदानीं प्रवक्ष्यते ॥ ९ ६ ॥
ज्वरस्य पूर्वरूपेषु वर्तमानेषु बुद्धिमान् ।
पाययेत घृतं स्वच्छं ततः स लभते सुखम् ॥ ९ ७ ॥
विधिर्मात जेष्वेष, पैत्तिकेषु विरेचनम् ।
मृदु, प्रच्छर्दनं तद्वरकफजेषु विधीयते ॥ ९ ८ ॥
सर्वे द्विदोषजेपूक्तं यथादोपं विकल्पयेत् ।
" नयोऽशोध्यश्च संयोज्यो लङ्घनादिना ॥ ९९ ॥
रूपप्राग्रूपयोर्विद्याज्ञानत्वं वह्निधूमवत ।
प्रव्यक्तरूपेषु " हितमेकान्तेनापतर्पणम् ॥ १०० ॥
१०६१ सन्धानबन्धनः । मुझेदुत्थाप्यमानस्तु स स्थूलोऽपि न जीवति ॥ यस्य स्वेदोऽतिबहुलः पिच्छिलो याति सर्वतः । रोगिणः शीतगात्रस्य तदा मरणमादिशेत् ॥ ” इति । १ यथापूर्व द्वादशाहिकती दणवेगात् साप्ताहिकः, साप्ताहिकतीदणवेगात् त्र्या-हिकः, सुखक्रियः = सुचिकित्स्य इत्यर्थः । २ कर्म = चिकित्सा । ३ ज्वरपूर्वरूपे चिकित्सां दर्शयति-- ज्वरस्येति । निरामवातज नितज्वरस्येत्यर्थः । ४ स्वच्छं = केवलं, द्रव्यान्तरयोगरहितमिति यावत् । ५ मारुतजेषु = श्रमक्षयादिकुपितवातज्वर-पूर्वरूपेषु, न तु आमाशयानुपूण्यत्पन्नेषु सामवातज्वरपूर्वरूपेषु । पैत्तिकेषु = पित्त • ज्वरपूर्वरूपेषु । ६ तद्वत = मृदु, कफजेषु = कफज्वरपूर्वरूपेषु । ७ सर्वेषु सन्निपात-ज्वरपूर्वरूपेषु, द्विदोषजेषु द्वन्द्वजज्वरपूर्वरूपेष्वित्यर्थः । उक्तं = सर्पिःपानादिकम्, विक • ल्पयेत् = यथादोषमवधारयेत् । ८ ' विवर्जयेत् स्नेहमानम् ' इति स्नेहोपयौगिक चिकित्सितोक्तविधिना स्नेहादिभिः परिहर्तव्यान् प्रति वक्ति - अस्नेहनीय इति । अस्नेहनीयः = अजोणीं तरुणज्वरी-त्यादिकः, अशोध्यः = वमनविरेचनायोग्यः । ९ नानाखं पृथक्त्वम्, वह्निधूमवत्— यथा धूमनिमित्तकारणीभूतो वह्निर्घुमतो भिद्यते, तथैव रूपनिमित्तकारणीभूतं प्राग्रूप मिति भावः । “ तदेव व्यक्ततां यातं रूपमित्यभिधीयते ” इति तन्त्रान्तरम् । १० दोषे CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1220
पाठ पढ़ें पाठ छिपाएँ
[ अ ० ३ ९ १०६२ Digitized by Arya Samaj सुश्रुतसंहितायां nangotri
आमाशयस्थे दोषे तु ' सोत्क्लेशे वमनं परम् ।
आद्धस्तिमितैर्दोषैर्यावन्तं कालमातुरः ॥ १०१ ॥
कुर्य्यादनशनं तावत्ततः संसर्गमाचरेत् ।
नँ लङ्ङ्घयेन्मारुतजे क्षयजे मानसे तथा ॥ १०२ ॥
अध्यावापि ये पूर्वं द्विन्त्रणीये प्रकीर्त्तिताः ।
अनवस्थितदोषाग्नेर्लङ्घनं दोषपाचनम् ॥ १०३ ॥
ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारकम् ।
सृष्टमारुतविण्मूत्रं क्षुत्पिपासाऽसहं लघुम् ॥ १०४ ॥
प्रसन्नात्मेन्द्रियं क्षामं नरं विद्यात् सुलङ्घितम् ।
बलक्षयस्तृषाशोपस्तन्द्रानिद्राभ्रम क्लमाः ॥ १०५ ॥
आमाशयस्थे सति प्रव्यक्तरूपेषु ज्वरेष्वित्यथः । अपतर्पणम् = उपवासः । हल्लासलालाप्रसेकादिना सहिते दोषे सोत्क्लेशे । १ ] उत्क्लेशे २ लड्ङ्घनं कियन्तं कालं कार्यमित्युपदिशति - आनद्ध इति । यावन्तं कालमा-तुरः स्तिमितैरचलैर्दोषैरानद्धो बद्धः, तावत् कालमनशनं कुर्यात्; ततः संसर्ग पेयादि • सम्बन्धमाचरेदित्यर्थः । दोषपाकसमयमाइ - " वातः पचति सप्ताहात् पित्तं तु दश-भिर्दिनैः । श्लेष्मा द्वादशभिर्घत्रैः पच्यते वदतां वर ॥ लङ्घनं लङ्घनोयस्तु कुर्याद्दो · षानुरूपतः । त्रिरात्रमेकरात्रं वाऽहोरात्रमथवा ज्वरे ॥ निर्वातसेवनात् स्वेदाल्लङ्घना-दुष्णवारिणः । पानादामज्वरे क्षीणे पश्चादौषधमाचरेत् ॥ ” इति । ' ज्वरादौ लङ्घनं प्रोक्तं ज्वरमध्ये तु पाचनम् । ज्वरान्ते भेषजं दद्याज्ज्जरमुक्ते विरेचनम् ॥ त्रिविधं त्रिविधे दोषे तत्समीक्ष्य प्रयोजयेत् । दोषेऽल्पे लड्ङ्घनं पथ्यं मध्ये लङ्घनपाचनम् । प्रभूते शोधनं तच्च मूलादुन्मूलयेन्मलान् ॥ ” इति । ३ लङ्घनानन् ज्वरिणो दर्शयति - नेति । क्षयजे = धातुक्षयजे, यमज्वरे वा, मानसे = कामक्रोधादिजे । ४ द्वित्रणीये " न कार्य गर्भिणोवृद्धबालदुर्बल भीरुभिः " इति श्रध्याः प्रकीर्तिताः । ५ ज्वरे लङ्घनगुणानाख्याति - अनवस्थितेति । अनः वस्थितः स्वस्थानादितस्ततो गतो दोषोऽग्निश्च यस्य तस्य अनवस्थितदोषाग्नेर्ध्वरिण इत्यर्थः। ६ काङ्क्षा = अन्नाभिलाषः, रुचिः = मुखोपनीतस्याहारस्य रसनेन्द्रियस्याभि-लाषा, ' रुचिः स्त्री दीप्ति शोभायामभीष्टार्थाभिलाषयोः ' इति मेदिनी । ७ सम्यग्लङ्घितलक्षणं ब्रवीति - सृष्टेति । तन्त्रान्तरे – “ वातमूत्रपुरीषाणां विसर्गे गात्रलाघवे । हृदयोद्गारकण्ठास्य शुद्धौ तन्द्राक्लमे गते ॥ स्वेदै जाते रुचौ चापि क्षुत्पिपासासहोदये । कृतं लङ्घनमादेश्यं निर्व्यथे चान्तरात्मनि ॥ ” इति । श्रतिश CC - 0. Gurukul Kangri Collection, Haridwar