सुश्रुत संहिता चौखम्बा — पृष्ठ 1211–1220

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1211–1220

पृष्ठ 1211

सुश्रुत संहिता चौखम्बा, पृष्ठ 1211 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ९ ] Digitized by Arya Samaj Foundation Chennai and eGangotri उत्तरतन्त्र दोषः स्वल्पोऽपि संवृद्धो देहिनामनिलेरितः ॥ ५१ ॥

सततान्येद्युष्कत्र्याख्यचातुर्थान् सप्रलेपकान् ।

कफस्थानविभागेन यथासंख्यं करोति हि ॥ ५२ ॥

अहोरात्रादहोरात्रात् स्थानात् स्थानं प्रपद्यते ।

ततश्चामाशयं प्राप्य दोषः कुर्य्याज्ज्वरं नृणाम् ॥ ५३ ॥

तेथा प्रलेपको ज्ञेयः शोषिणां प्राणनाशनः ।

दुश्चिकित्स्यतमो मन्दः सुकष्टो धातुशोषकृत् ॥ ५४ ॥

कफँस्थानेषु वा दोषस्तिष्ठन् द्वित्रिचतुर्षु वा । १०५३ वातप्रेरितः सन् सततान्ये शुष्कत्र्याख्य चातुर्थप्र लेप कान् कफस्थानानाम् श्रामाशयोरः-कण्ठशिरःसन्धीनां विभागेन यथासङ्ख्यं करोतीति सम्बन्धः । यथा – आमाशयस्थः सत ं प्रत्यहं वारद्वयं करोति, उरस्थः अन्येषुष्कं कण्ठस्थस्तृतीयकं, शिरस्थश्चतुर्थकं, सन्धिस्थः प्रलेपकं, सर्वेषु कफस्थानेषु व्यवस्थितो दोषः सन्ततं करोतीति । दोष इति एकवचनं दोषत्वसामान्यादिति बोद्धयम् । १ उरआदिस्थितो दोषो यथाऽन्येद्युष्कादीन् करोति तथा दर्शयति - अहोरात्रा-दिति । श्रहोरात्रादुरःस्थो दोष एकस्मिन् दिने श्रामाशयं प्राप्य अन्यस्मिन् दिने. ऽन्येद्युष्कं करोति, सतवारम्भकदोषापेक्षयाऽस्य व्यवहितत्वात् । कण्ठस्थितो दोष एकस्मिन् दिने हृदयमागच्छति, अन्यस्मिन् दिने श्रामाशयमागत्य तृतीयकं करोति तृतीयदिवसे, एवं शिरःस्थो दोषः कण्ठोर आमाशयान् त्रिभिर्दिनैः क्रमेण प्राप्य चतु · हि चातुर्थकं करोति, सन्धिस्थितो दोषो नित्यमेव प्रलेपकं करोति, सन्धयश्चामाश · येऽपि सन्तीति स सर्वदा भवति । २ प्रलेपकलक्षणमभिधत्ते - तथेति B ३ सन्निपातात्मकत्वाद् दुश्चिकित्स्यतम इत्यर्थः । मन्दः मन्दवेगः । ४ चतुर्थकादिविपर्ययज्वरलक्षणमाह – कफेति । कफस्थानयोर्द्वयोर्हृदयामाशययोस्तिष्ठन् दोषोऽन्येद्युष्कविपर्ययं करोति, अर्थादहोरात्रे पूर्वाह्लादीनामेककालं मुक्त्वा समस्तमहोरात्रं भवतीति विपर्ययः । श्रामाशयहृइयक-ण्ठस्थितेन तृतीयकविपर्ययः । तत्रैकस्मिन् दिने हृदयस्थो दोष आमाशयमागत्य तत्स्थे-न सह ज्वरयति, तद्दिने कण्ठस्थितश्च हृदयमायाति, अपरदिने सोडप्यामाशयमागत्य ज्वरयति, एवं दिनद्वये भूत्वा पश्चादेकदिनं न भवतीति तृतीयकविपर्ययः । आमाशय-हृदयकण्ठशिरःस्थेन दोषेण चतुर्थकविपर्ययः । तत्र यस्मिन् दिने हृदयस्थो दोष श्रामाशयमागत्य ज्वरयति तस्मिन्नेव कण्ठस्थो ' हृदयं शिरःस्थश्च कण्ठमायाति, अपर · दिने हृदयस्थ एवामाशयमागत्य ज्वरयति, एवं दिनत्रये भूत्वा पश्चादेकदिनं न भव-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1212

सुश्रुत संहिता चौखम्बा, पृष्ठ 1212 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०५४ Digitized by Arya सुश्रुतसंहितायां nal and eGangotri [ अ ० ३ ९. विपर्य्ययाख्यान् कुरुते विषमान् कृच्छ्रसाधनान् ॥ ५५ ॥

परो हेतुः स्वभावो वा विशमे कैश्चिदीरितः ।

तुश्चानुबन्धो हि प्रायशो विषमज्वरे ॥ ५६ ॥

वाताधिकत्वात् प्रवदन्ति तज्ज्ञास्तृतीयकञ्चापि चतुर्थकञ्च ।

औपत्य के मद्यसमुद्भवे च हेतुं ज्वरे पित्तकृतं वदन्ति ॥ ५७ ॥

प्रलेपकं वातबलौसकञ्च कफाधिकत्वेन वदन्ति तज्ज्ञा: ।

मूर्च्छाऽनुबन्धा विषमज्वरा ये प्रायेण ते द्वन्द्वसमुत्थितास्तु ॥ ५८ ॥

त्वक्स्थौ श्लेष्मानिलो शीतमादौ जनयतो ज्वरे । तीति चतुर्थकविपर्यय इति श्रीकण्ठः । सततस्य तु विपर्ययो न भवति, एकस्मिन्नेव कफस्थाने स्थितेन दोषेण तत्करणाद् व्याधिस्वभावाद्वा । ' ककस्थानेषु वा दोष: ' इत्यत्र दोषशब्दस्य पृथग्द्वन्द्वसमस्तदोषत्वे तात्पर्यम् । १ विषमज्वराणामेकीयमतेन नियतैककालागमने हेतुमभिदधाति पर इति । परो भूतादिः, हेतुः कारणम्, स्वभावो वा विषमे विषमज्वरे हेतुः कैश्चिदीरितः । " निवृत्तः पुनरायाति विषमो नियते दिने । स्वभावं कारणं तत्र मन्यन्ते मुनिपुङ्गवाः ॥ ” इति तदुक्तिः । २ वस्तुतस्तु विषमज्वरे भूतादिर्हेतुरिति समर्थयति - मागन्तुरिति । श्रागन्तुः = भूतादिः, अनुबन्धः कारणम्, दोषोत्पादक इति यावत् । ' अनुबन्धस्तु बन्धे स्याद् दोषोत्पादे विनश्वरे ' इति मेदिनी । ३ विषमज्वराणामारम्भकदोषान्निर्दिशति - वातेति । तन्त्रान्तरे - " कफपित्तात् त्रिकग्राही पृष्ठाद् वातकफात्मकः । वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः ॥ ” इति, एवं – “ चतुर्थको दर्शयति स्वभावं द्विविधं ज्वरः । जङ्घाभ्यां श्लैष्मिकः पूर्व शिरसोऽनिलसम्भवाः । मध्यकायं तु गृह्णाति पूर्व यस्तु स पित्तजः । विषमज्वर एवा-न्यश्चतुर्थकविपर्ययः ॥ ” इति च तृतीयकचतुर्थकयोर्यद्यपि द्वन्द्वदोषसमुद्भवत्वमुक्तं, तथा-ऽपि स्वतन्त्रे पित्तश्लेष्मलिङ्गत्वेऽपि तयोर्वाताधिकत्वं ज्ञेयम् । ४ उपत्यका पर्वतासन्नभूमिस्तत्र भवे ज्वरे औपत्यके । ५ वातबलाहकस्तु शोथिनामेव भवति । तदुक्तम् - " नित्यं मन्दज्वरो रूक्षः शुनकस्तेन सीदति । स्तब्धाङ्गः श्लेष्मभूयिष्ठो नरो वातबला सकी । ' इति । वातबलासकोऽधुना ' बेरी बेरी ' इति पाश्चा • त्यभाषायां ख्यातः । ६ मूर्च्छाऽनुबन्धाः सततमूच्छत्पादका ये विषमज्वरास्ते प्रायेण द्वन्द्वसमुत्थिताः, एवं च ते दुश्चिकित्स्या इति योजनीयम् । ७ सन्ततादिज्वरे पूर्वं कस्यचिच्छीतं कस्यचिद्दाद इति तेषां द्वैविध्यं दर्शयति — त्ववस्थाविति । श्रयं भावः - यदा श्लेष्मानिलौ त्वचि कुपितौ भवतस्तदा ज्वरस्यादौ CC - 0. Gurukul Kangri Collection, Haridwar,

पृष्ठ 1213

सुश्रुत संहिता चौखम्बा, पृष्ठ 1213 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ९ ] Digitized by Aryaotion Chennai and eGangotri तयोः प्रशान्तयोः पित्तमन्ते दाहं करोति च ॥ ५ ९ ॥

करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च ।

प्रशान्ते कुरुतस्तस्मिंश्छीतमन्ते च तावेपि ॥ ६० ॥

द्वावेतौ दाहशीतादी ज्वरौ संसर्गजौ स्मृतौ ।

दाहपूर्वस्तयोः कष्टः कृच्छ्रसाध्यश्च स स्मृतः ॥ ६१ ॥

प्रसक्तचाभिघातोत्थश्चेतनाप्रभवस्तु यैः ।

रौत्र्यहोः षट्सु कालेषु कीर्त्तितेषु यथा पुरा ॥ ६२ ॥

प्रसह्य विषमोऽस्येति मानवं बहुधा ज्वरः । ६ स चापि विषमो देहं न कदाचिद् विमुञ्चति ॥ ६३ ॥

ग्लानिगौरव काश्येभ्यः स यस्मान्न प्रमुच्यते ।

वेगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते ॥ ६४ ॥

धात्वन्तरस्थो लीनत्वान्न सौक्ष्म्यादुपलभ्यते ।

अल्पदोषेन्धन: ' क्षीणः क्षीणेन्धन इवानलः ॥ ६५ ॥

२०५५ त्वचि शीतं जनयतः । श्रर्थाज्ज्वरे आदौ पूर्वं कफवातौ त्वक्स्थौ सन्तौ शीतमुत्पादयतः, तयोः श्लेष्मानिलयोः प्रशान्तयोः स्वकालापगमात् प्रत्यनीकप्राप्त्या च प्रशान्तवेगयोः सतोरन्ते पित्तं दाहं करोति । तथा तेनैव प्रकारेण आदौ पित्तं खक्स्थं सदतीव दाहं करोति, तस्मिन् पित्ते प्रशान्ते सति तौ श्लेष्मानिलौ अन्ते शीतं कुरुत इति । १ चकारान्मोहमूर्च्छादीन् करोति । २ अपिशब्दाद्वमथु तन्द्राऽऽदीन् कुरुतः । ३ द्वावेतौ दाहशीतादी संसर्गजौ सान्निपातिको कथितौ तयोर्दाहशीतपूर्वकयो -उर्ध्वरयोर्मध्ये दाहपूर्वकः कष्टोऽत्यन्त दुःखप्रदः कृच्छ्रसाध्यश्च स्मृतः । शीतपूर्वस्तु सुख-साध्यः, रोगशक्तेरचिन्त्यत्वात् । ४ यो ज्वरोऽभिघातोत्थः काष्ठलेोष्ठाद्यभिघातजः चेतनाप्रभवः कामादिजः स प्रसक्तः प्रकर्षेण सङ्गीत्यर्थः । ५ विषमज्वराणां स्वकालेषूद्गमं दर्शयति - रात्र्यहोरिति । षट्सु कालेषु = पूर्वाह्लादिषु, यथा = येन प्रकारेण, पुरा = व्रणप्रश्नाध्याये, कीर्तितेषु = कथितेषु । ६ विषमज्वराणामुपशान्तवेगानामपि देहेऽवस्थानं प्रतिपादयति - स चापीति । विषमः = विषमज्वरः । तन्त्रान्तरे विशेष: - " शिरसो गौरवं ग्लानिर्नातिश्रद्धा च भोजने । माधुर्यमथ वैरस्यं तिक्तस्त्रमथवा पुनः ॥ वक्त्रस्य जायते यस्मात् प्रवेगेऽपि गते सति । तस्मात्तु नियतो लीनशरीरे विषमज्वरः ॥ ” इति । ७ एकस्माद्धातोरन्यो धातुर्धाश्वन्तरं तत्र तिष्ठतीति धात्वन्तरस्थः, लीनत्वात् = एकदेशस्थितत्वात्, सौक्ष्म्यात् = अणुत्वात् । ८ क्षीण: = प्रत्पदोषरूपेन्धनत्वेन अल्पीभूतः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1214

सुश्रुत संहिता चौखम्बा, पृष्ठ 1214 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां... १०५६ Digitized by Arya Sama Foundation Chennai and eGangotri [ अ ० ३ ९

दोषोऽल्पोऽहितसम्भूतो ज्वरोत्सृष्टस्य वा पुनः ।

धातुमन्यतमं प्राप्य करोति विषमज्वरम् ॥ ६६ ॥

संततं रसरक्तस्थः सोऽन्येद्युः पिशिताश्रितः ।

मेदोगतस्तृतीयेऽह्नि त्वस्थिमज्जगतः पुनः ॥ ६७ ॥

कुर्याच्चातुर्थकं घोरमन्तकं रोगसङ्करम् ।

केचिंद् भूताभिषङ्गोत्थं ब्रुवते विषमज्वरम् ॥ ६८ ॥।

सप्ताहं वा दशाहं वा द्वादशाहमथापि वा ।

{ सन्तत्या योऽविसर्गी स्यात्सन्ततः स निगद्यते ॥ ६ ९ ॥

अहोरात्रे सततको द्वौ कौलावनुवर्त्तते । १ कायचिकित्साविदां मतेन विषमज्वरसम्प्राप्तिमाह - दोष इति । ज्वरोत्सृष्टस्य सहसा निवृत्तज्वरस्य पुंसोऽल्पो दोषः पुनरहितसम्भूतोऽहिताहाराचारादिसम्भूतः सन् अन्यतमं धातुं प्राप्य विषमज्वरं तृतीयादिकं करोति । विषमज्वरसामान्यलक्षणं भालु-किना पठितम् — “ यः स्यादनियतात् कालाच्छीतोष्णाभ्यां तथैव च । वेगतश्चापि विषमो ज्वरः स विषमः स्मृतः ॥ ” इति । २ विषमज्वराणामाश्रयभूतान् धातून् दर्शयति-- सततमिति । सततशब्दः सन्ततस्योपलक्षकः, तेन रसस्थः सन्ततं, रक्तस्थः सततं करोतीत्यर्थः । तदुक्तं चरके— “ रक्तघात्वाश्रयः प्रायो दोषः सततकं ज्वरम् " इति । ३ अन्तकं - यमसदृशम्, रोगसङ्करम् = अनेकरोगसङ्कुलम् । गम्भीरस्थानत्वाच्चिरक्लेशनत्वाच्च श्रन्यानपि रोगानावइतीति भावः । ४ एकीयमते विषमज्जरस्य भूताभिषङ्गजरवमभिधत्ते - केचिदिति । " भूताभिष-ङ्गादुद्वेगो हास्यरोदनकम्पनम् । केचिद् भूताभिषङ्गोत्थं ब्रुवते विषमज्वरम् ॥ ” इति भावमिश्रः । भूतानि देवग्रहादय:, तेषामभिषण आवेशस्तदुत्थं भूताभिषङ्गोत्थम् । ५ विषमज्वराणां लक्षणानि निर्दिशति - सप्ताहमिति । सप्ताहादीन् व्याप्य सन्तत्या नैरन्तर्येण अविसर्गोऽत्यागशीलः स ज्वरः सन्ततो निगद्यते । सप्ताहादिदिन-विकल्पा व्यवस्थिताः । तदुक्तम् - " वातिकः सप्तरात्रेण दशरात्रेण पैत्तिकः । श्लैष्मिको द्वादशाहेन ज्वरः पाकं प्रगच्छति ॥ ” इति 1 । श्रयं सुखसाध्यः । तदुक्तं तन्त्रान्तरे— “ सन्वतज्वर एवान्यः स्वल्पदुर्बलकारणः । एकदोषो द्विदोषो वा सुखसाध्यः प्रकी-faa: 11 " fa ६ कालाः षट् पूर्वाह्णेमध्याह्वापराहु प्रदोषार्धरात्रप्रत्यूषाः; तत्र पूर्वाह्नप्रदोषयोः कफस्य कालः, मध्याह्वार्धरात्रयोः पित्तस्य, अपराह्नप्रत्यूषयोर्वातस्य । पूर्वाह्लादीन CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1215

सुश्रुत संहिता चौखम्बा, पृष्ठ 1215 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ९ Digitized by Arya Sa स्तत्व dhennai and eGangotri अन्येद्युष्कस्त्वहोरात्रादेककालं प्रवर्त्तते ॥ ७० ॥

तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः ।

वनोदीर्यमाणाश्च हीयमाणाश्च सर्वतः ।

एकद्विदोषा मर्त्यानां तस्मिन्नेवोदितेऽहनि ॥ ७१ ॥

वेलां तामेव कुर्वन्ति ज्वरवेगो मुहुर्मुहुः ।

वातेनोद्भूयमानस्तु यथा पूर्खेत सागरः ॥ ७२ ॥

वातेनोदीरितास्तद्वहोषाः कुर्वन्ति वै ज्वरान् ।

यथा वेगागमे वेलां छादयित्वा महोदधेः ॥ ७३ ॥

वेगहानौ तदेवाम्भस्तत्रैवान्तर्निलीयते ।

दोषवे गोदये तद्वदुदीय्येंत ज्वरोऽस्य वै ॥ ७४ ॥

वेगहानौ प्रशाम्येत यथाम्भः सागरे तथा ।

विविधेनाभिघातेन ज्वरो यः सम्प्रवर्तते ॥ ७५ ॥

यथादोषप्रकोपन्तु तथा मन्येत तं ज्वरम् ।

श्यावस्थता विषकृते दाहातीसारहृद्ग्रहाः ॥ ७६ ॥

१०५७ षण्णां कालानां मध्ये कालो अर्थात् कालद्वयमनुवर्तते वेगं करोति स सततः, श्रह्नि एकक ( लं ) रात्रावेककालं वा, अह्नि द्रो कालो, रात्रौ द्वौ कालौ वा, पत्र दोषोत्कषाप • कर्षाभ्यामधिककालखं हीन कालस्वमपि ज्ञातव्यं, न तु नियम इतीशानः । श्रन्येद्युष्को ज्वर एककालमनुवर्तते वेगं करोति, अहोरात्रादन्यस्मिन्नहोरात्रे एककालमागच्छती -त्यर्थः। १ तृतीयकस्तृतीयेऽह्नि इत्यत्र ' एककालम् ' इति सम्बन्धनीयम्, एवं चतुर्थेऽह्नि चतुर्थक इत्यत्रापि तत् । २ विषमज्वराणां नियतकालागमने हेतुमभिदधाति -- वातेनेति । उदीर्यमाणाः = उत्कटीक्रियमाणाः, हीयमाणा = आकृष्यमाणाः । ३ तस्मिन्नेवोदितेऽहनि = पूर्वोक्ते विषमज्वराणां दिने । ४ तामेव वेलां पूर्वाह्नमध्याह्नापराह्नप्रदोषार्धरात्रप्रत्यूषा -त्मिकां ज्वरवेगे ज्वरवेगविषये कुर्वन्तीत्यर्थः । ५ उदीरिताः = उद्रिक्ताः, दोषाः-आमाशयगता वातपित्तश्लेष्माणः । ६ उदीर्येत = यथाबलमभिव्यजेत । ७ संशिल-ष्टावयवत्वेन पुनरामाशयानुसरणात् प्रशाम्येतेत्यर्थः । = विविधागन्तुज्वराणां लक्षणानि निरूपयति- विविधेनेति । विविधेन = शत्र • लोष्टमुष्टिलगुडाद्यनेकविधेन । ९ इयावः शुक्लानुविद्धकृष्णवर्णः, तद्वदास्यं मुखं यस्य, तस्य भावः श्यावास्यता, विषकृते = स्थावर विषभक्षणार्दिकृते, अतीसारः = स्थावर-६७ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1216

सुश्रुत संहिता चौखम्बा, पृष्ठ 1216 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२०५८ Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३ ९

अभक्तरुक् पिपासा च तोदो मूर्च्छा बलक्षयः ।

ओ * धीगन्धजे मूर्च्छा शिरोरुक् वमथुः क्षवः ॥ ७७ ॥

कामजे चित्तविभ्रंशस्तन्द्राऽऽलस्य मरोचकः ।

हृदये वेदना चास्य गात्रञ्च परिशुष्यति ॥ ७८ ॥

भयात् प्रलापः शोकाच्च भवेत कोपाच्च वेपथुः ।

अभिचाराभिशापाभ्यां मोहस्तृष्णा च जायते ॥ ७ ९ ॥

भूताभिषङ्गादुद्वेगहास्य कम्पनरोदनम् ।

श्रमक्षयाभिघातेभ्यो देहिनां कुपितोऽनिलः ॥ ८० ॥।

पूरयित्वाऽखिलं देहं ज्वरमापादयेद् भृशम् ।

रोगाणान्तु समुत्थानाद्विदाहागन्तुतस्तथा ॥ ८१ ॥

ज्वरोऽपरः सम्भवति तैस्तैरन्यैश्च हेतुभिः ।

दोषाणां स तु लिङ्गानि कदाचिन्नातिवर्त्तते ॥। ८२ ॥

गुरुता हृदयोत्क्लेशः सदनं छर्द्यरोचकौ ।

रसस्थे तु ज्वरे लिङ्गं " दैन्यं चास्योपजायते ॥ ८३ ॥

विषस्याधोगतत्वादिति भावः । १ श्रोषधीगन्धजे = तीव्रौषधीगन्धघ्राणजे । २ का मजे = अभिमतकामिन्याद्यप्राप्तिनिमित्ते, चित्तविभ्रंशः = भ्रमादिः । तदुक्तं वाग्भटे-“ कामाद् भ्रमोऽरतिर्दाहो हीनिद्राधीधृतिक्षयः । ध्याननिःश्वासबहुलं लिङ्गं कामज्वरे स्मृतम् ॥ ” इति । ३ भयशोककोपाभिषङ्गज्वरमाह - भयादिति । प्रलापः = असम्बद्धभाषणम् । ४ अभिचारो मन्त्रादिभिर्मारण प्रयोगः, अभिशापो ब्रह्मर्षिगुरु सिद्धादीनामभिशपनं, ताभ्यामभिचाराभिशापाभ्याम् । तृष्णा चेति चकारेण दाहादिकः समुच्चीयते । तदुक्तं वाग्भटे— “ तत्राभिचारिकैर्मन्त्र हूयमानस्य तप्यते । पूर्वं चेतस्ततो देहस्ततो विस्फोट. तृभ्रमैः । सदाद्दमूच्लैर्ग्रस्तस्य प्रत्यहं वर्धते ज्वरः ॥ ” इति । ५ भूतानां देवादिप्रहाणामभि समन्ततो भावेन सङ्गः सम्बन्धो भूताभिषङ्गस्त-स्मात् । " कामशोकभयाद्वायुः, क्रोधात्पित्तं, त्रयो मलाः । भूताभिषङ्गात् कुप्यन्ति भूत-सामान्यलक्षणाः ॥ ” इति माघवकरः । ६ पूरयित्वा = व्याप्येत्यर्थः । ७ तैस्तैर · रन्यैश्च हेतुभिः = विद्रध्यादिसमुत्थानात्प्रागुकेरन्यैश्च ज्वरकारिभिः कारणैरित्यर्थः । ८ धातुगतज्वराणां लक्षणानि वक्ति - गुरुतेति । गुरुता = गात्राणां गौरवम्, हृदयोत्क्लेशः = हृदयस्थितदोष स्योपस्थितवमनत्वमित्र, सदनम् = अङ्गग्लानिः । ९ दै-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1217

सुश्रुत संहिता चौखम्बा, पृष्ठ 1217 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ९ ] Digitized by Arya Hol Chennai and eGangotri

रक्तनिष्ठोवनं दाहः स्वेदश्छर्दनविभ्रमौ ।

प्रलापः पिटिका तृष्णा रक्तप्राप्ते ज्वरे तृणाम् ॥ ८४ ॥

पिण्डेिकोद्वेष्टनं तृष्णा सृष्टमूत्रपुरीषता । २०५ ९ ऊष्मान्तर्दाहविक्षेपौ ग्लानिः स्यान्मांसगे ज्वरे ॥ ८५ ॥

भृशं स्वेदस्तृषा मूर्च्छा प्रलापश्छर्दिरेव च ।

दौर्गन्ध्यारोचको ग्लानिर्वेदःस्थे चासहिष्णुता ॥ ८६ ॥

भेदोऽऽस्थनों कुञ्चनं श्वासो विरेकश्छर्दिरेव च ।

विक्षेपणं च गात्राणामेतदस्थिगते ज्वरे ॥ ८७ ॥

तमःप्रवेशनं हिक्का कास: शैत्यं वमिस्तथा ।

अन्तो महाश्वासो मर्मच्छेदच मज्जगे ।

मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे ॥। ८८ ॥

शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः ।

दग्ध्वेन्धनं यथा वह्निर्धातून हत्वा यथा विषम् ॥ ८ ९ ॥

= प्रव-न्यं = क्लान्तचित्तत्वम् श्रस्य = प्राणिनः । १ पिण्डिका जान्वधो जङ्घामांसपिण्डः, तस्या उद्वेष्टनं दण्डादिना पीढनेनेव वेदना पिण्डिको द्वेष्टनम् । सृष्टमूत्रपुरीषता = र्तमान मूत्रपुरीषता I । २ ऊष्माऽन्तः = अन्तर्दाह इत्यर्थः । विक्षेपः = हस्तादिचालनम् । ३ प्रलापः श्रसम्बद्धभाषणम् । ४ असहिष्णुता = क्रोधनम् । ५ भेदो s. | स्थ्नां = भङ्गवरपीडेत्यर्थः । कुञ्चनम् = प्रस्थनां सङ्कोचः । कुञ्चनमित्यत्र ' कूजनम् ' इति पाठे अस्फुटध्वनिरित्यर्थः । ६ तमःप्रवेशनम् = श्रन्धकारप्रविष्टस्येवा संवित्तिः । ७ श्वासप्रतिषेधे महाश्वासलक्षणं वक्ष्यति - " विसज्ञः पार्श्वशूलार्तः शुष्ककण्ठोऽति-घोषवान् । संरब्धनेत्रस्त्वायम्य यः श्वस्यात् स महान् स्मृतः ॥ ” इति । मर्मणो हृद • यस्य छेद ह्रव छेदो मर्मच्छेदः । परपदार्थेषु प्रयुज्यमानाः शब्दा इवान्तरेणापि इव इत्यर्थं गमयन्ति, यथा श्रग्निर्माणवकः । ८ शुक्रं च तत्स्थानं चेति शुक्रस्थानं तद्गते शुक्रस्थानगते अर्थाद् रसादिधातु • गतज्वरेषु मध्ये शुकस्थानगते मरणं प्राप्नुयादिति योजनीयम् । न तु शुक्रस्य स्थानं शुक्रस्थानम्, शुक्रस्य सर्वदेहगत्वेन नियतस्थानासम्भवादिति कार्तिकः । तदुक्तं शारी-रस्थाने— “ यथा पयसि सर्पिस्तु गुडश्चेक्षुरसे यथा । शरीरेषु तथा नृणां शुक्रं विद्या-द्भिषग्वरः ॥ ” इति । ९ शुक्रगतो ज्वरोऽपरव्यापाराभावाद्देह्घातेनैवोपशाम्यतीति दर्शयति- दग्ध्वेति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1218

सुश्रुत संहिता चौखम्बा, पृष्ठ 1218 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०६० Digitized by Arya Sama tion Chennai and eGangotri [ अ ० ३ ९

कृतकृत्यो व्रजेच्छान्ति देहं हत्वा तथा ज्वरः ।

वातपित्तकफोत्थानां ज्वराणां लक्षणं यथ ॥ ९ ० ॥

तथा तेषां भिषग्याद्रसादिष्वपि बुद्धिमान् ।

समस्तैः सन्निपातेन धातुस्थमपि निर्दिशेत् ॥ ९ १ ॥

द्वन्द्वजं द्वन्द्वजैरेव दोषैश्चापि वदेत्कृतम् ।

गंम्भीरस्तु ज्वरो ज्ञेयो ह्यन्तर्दाहेन तृष्णया ॥ ९ २ ॥

श्राद्धत्वेन चात्यर्थं श्वासकासोद्गमेन च ।

हतप्रभेन्द्रियं क्षीणमरोचकनिपीडितम् ॥ ९ ३ ॥

गंम्भीरतीक्ष्णवेगात ज्वरितं परिवर्जयेत् । दग्ध्वा = भस्मीकृत्येत्यर्थः । १ यथा येन प्रकारेण वातपित्तकफोत्थानां ज्वराणां लक्षणं, तथा तेनैव प्रकारेण तेषां वातादिज्वराणां रसादिषु सप्तसु धातुष्वपि गतानां लक्षणं बुद्धिमान् भिषग् ब्रूयादिति सम्बन्धः । २ द्वन्द्वजैः द्विदोषजनितैरित्यर्थः । ३ ज्वराणां साध्यासाध्यलक्षणमाह – गम्भीरस्त्विति । गम्भीरः अन्तर्वेगः । य एव ज्वरश्चरकेऽन्तर्वेगः, स एव सुश्रुते गम्भीरः पठितः । तदुक्तम् - " न्तर्दाहोऽधिका तृष्णा प्रलापः श्वसनं भ्रमः । सन्ध्यस्थिशूलम स्वेदो दोषवचविनिग्रहः । अन्तवेंगस्य लिङ्गानि कष्टसाध्यत्वमेव च ॥ ” इति । बहिर्वेगस्य लिङ्गानि तु – “ सन्तापो ह्यधिको बाह्यस्तृष्णादीनां च मार्दवम् । बहिर्वेगस्य लिङ्गानि सुखसाध्यत्वमेव च ॥ " इति । ४ श्रनद्धत्वेन = बिबद्ध मलत्वेन । ५ गम्भीरज्वरस्य असाध्यत्वं निर्दिशति - हतेति । हतप्रभाणि हतशक्तीनि स्वविषयाग्राहीणि चक्षुरादीनि यस्य स तथा, अथवा हता प्रभा दीप्तिरिन्द्रियाणि च यस्य स तथा । ६ गम्भीर उक्तलक्षणः, तीक्ष्णवेगोऽतिदुःसह वेगस्ताभ्यामार्त पीडितम् । एषामसाध्यलक्षणानामुपलक्षणत्वात्तन्त्रान्तरोक्तान्यन्यान्यपि लक्षणानि ज्ञातव्यानि । तद्यथा- “ प्रेतैः सह पिबेन्मद्यं स्वप्ने यः कृष्यते शुना । सुघोरं ज्वरमासाद्य स जीवम. पसृज्यते ॥ ज्वरः पौर्वाह्निको यस्य शुष्ककासश्च दारुणः । बलमांसविहीनस्य यथा प्रेतस्तथैव सः ॥ ज्वरो यस्यापराद्धे तु श्लेष्मकासश्च दारुणः । बलमांसविहीनस्य यथा प्रेतस्तथैव सः ॥ सहसा ज्वरसन्तापस्तृष्णा मूर्च्छा बलक्षयः । विश्लेषणं च सन्धीनां मुमूर्षोरुपजायते । गोसर्गे वदनाद्यस्य स्वेदः प्रच्यवते भृशम् । लेपज्वरोप-सृष्टस्य दुर्लभं तस्य जीवितम् ॥ मृत्युश्च तस्मिन् बहुपिच्छिलत्वाच्छीतस्य जन्तोः परितः सरत्वात् । स्वेदो ललाटे हिमवन्नरस्य शीतार्दितस्यैति सुपिच्छिलश्च ॥ कण्ठे स्थितो यस्य न याति वक्षो नूनं यमस्यैति गृहं स मत्यंः ॥ सुतस्वेदो ललाटाद्यः श्लथ-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1219

सुश्रुत संहिता चौखम्बा, पृष्ठ 1219 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ९ ] Digitized by Arya snd स्तन्यकू ( Chennai and eGangotri हीनमध्याधिकैर्दोषैस्त्रिसप्तद्वादशाहिकः ॥ ९ ४ ॥

ज्वरवेगो भवेत्तीम्रो यथापुव सुखक्रियः ।

कालो ह्येष यमश्चैव नियतिर्मृत्युरेव च ॥ ९ ५ ॥

तस्मिन् व्यपगते देहाज्जन्मेह पुनरुच्यते ।

इति ज्वराः समाख्याताः कर्मेदानीं प्रवक्ष्यते ॥ ९ ६ ॥

ज्वरस्य पूर्वरूपेषु वर्तमानेषु बुद्धिमान् ।

पाययेत घृतं स्वच्छं ततः स लभते सुखम् ॥ ९ ७ ॥

विधिर्मात जेष्वेष, पैत्तिकेषु विरेचनम् ।

मृदु, प्रच्छर्दनं तद्वरकफजेषु विधीयते ॥ ९ ८ ॥

सर्वे द्विदोषजेपूक्तं यथादोपं विकल्पयेत् ।

" नयोऽशोध्यश्च संयोज्यो लङ्घनादिना ॥ ९९ ॥

रूपप्राग्रूपयोर्विद्याज्ञानत्वं वह्निधूमवत ।

प्रव्यक्तरूपेषु " हितमेकान्तेनापतर्पणम् ॥ १०० ॥

१०६१ सन्धानबन्धनः । मुझेदुत्थाप्यमानस्तु स स्थूलोऽपि न जीवति ॥ यस्य स्वेदोऽतिबहुलः पिच्छिलो याति सर्वतः । रोगिणः शीतगात्रस्य तदा मरणमादिशेत् ॥ ” इति । १ यथापूर्व द्वादशाहिकती दणवेगात् साप्ताहिकः, साप्ताहिकतीदणवेगात् त्र्या-हिकः, सुखक्रियः = सुचिकित्स्य इत्यर्थः । २ कर्म = चिकित्सा । ३ ज्वरपूर्वरूपे चिकित्सां दर्शयति-- ज्वरस्येति । निरामवातज नितज्वरस्येत्यर्थः । ४ स्वच्छं = केवलं, द्रव्यान्तरयोगरहितमिति यावत् । ५ मारुतजेषु = श्रमक्षयादिकुपितवातज्वर-पूर्वरूपेषु, न तु आमाशयानुपूण्यत्पन्नेषु सामवातज्वरपूर्वरूपेषु । पैत्तिकेषु = पित्त • ज्वरपूर्वरूपेषु । ६ तद्वत = मृदु, कफजेषु = कफज्वरपूर्वरूपेषु । ७ सर्वेषु सन्निपात-ज्वरपूर्वरूपेषु, द्विदोषजेषु द्वन्द्वजज्वरपूर्वरूपेष्वित्यर्थः । उक्तं = सर्पिःपानादिकम्, विक • ल्पयेत् = यथादोषमवधारयेत् । ८ ' विवर्जयेत् स्नेहमानम् ' इति स्नेहोपयौगिक चिकित्सितोक्तविधिना स्नेहादिभिः परिहर्तव्यान् प्रति वक्ति - अस्नेहनीय इति । अस्नेहनीयः = अजोणीं तरुणज्वरी-त्यादिकः, अशोध्यः = वमनविरेचनायोग्यः । ९ नानाखं पृथक्त्वम्, वह्निधूमवत्— यथा धूमनिमित्तकारणीभूतो वह्निर्घुमतो भिद्यते, तथैव रूपनिमित्तकारणीभूतं प्राग्रूप मिति भावः । “ तदेव व्यक्ततां यातं रूपमित्यभिधीयते ” इति तन्त्रान्तरम् । १० दोषे CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1220

सुश्रुत संहिता चौखम्बा, पृष्ठ 1220 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

[ अ ० ३ ९ १०६२ Digitized by Arya Samaj सुश्रुतसंहितायां nangotri

आमाशयस्थे दोषे तु ' सोत्क्लेशे वमनं परम् ।

आद्धस्तिमितैर्दोषैर्यावन्तं कालमातुरः ॥ १०१ ॥

कुर्य्यादनशनं तावत्ततः संसर्गमाचरेत् ।

नँ लङ्ङ्घयेन्मारुतजे क्षयजे मानसे तथा ॥ १०२ ॥

अध्यावापि ये पूर्वं द्विन्त्रणीये प्रकीर्त्तिताः ।

अनवस्थितदोषाग्नेर्लङ्घनं दोषपाचनम् ॥ १०३ ॥

ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारकम् ।

सृष्टमारुतविण्मूत्रं क्षुत्पिपासाऽसहं लघुम् ॥ १०४ ॥

प्रसन्नात्मेन्द्रियं क्षामं नरं विद्यात् सुलङ्घितम् ।

बलक्षयस्तृषाशोपस्तन्द्रानिद्राभ्रम क्लमाः ॥ १०५ ॥

आमाशयस्थे सति प्रव्यक्तरूपेषु ज्वरेष्वित्यथः । अपतर्पणम् = उपवासः । हल्लासलालाप्रसेकादिना सहिते दोषे सोत्क्लेशे । १ ] उत्क्लेशे २ लड्ङ्घनं कियन्तं कालं कार्यमित्युपदिशति - आनद्ध इति । यावन्तं कालमा-तुरः स्तिमितैरचलैर्दोषैरानद्धो बद्धः, तावत् कालमनशनं कुर्यात्; ततः संसर्ग पेयादि • सम्बन्धमाचरेदित्यर्थः । दोषपाकसमयमाइ - " वातः पचति सप्ताहात् पित्तं तु दश-भिर्दिनैः । श्लेष्मा द्वादशभिर्घत्रैः पच्यते वदतां वर ॥ लङ्घनं लङ्घनोयस्तु कुर्याद्दो · षानुरूपतः । त्रिरात्रमेकरात्रं वाऽहोरात्रमथवा ज्वरे ॥ निर्वातसेवनात् स्वेदाल्लङ्घना-दुष्णवारिणः । पानादामज्वरे क्षीणे पश्चादौषधमाचरेत् ॥ ” इति । ' ज्वरादौ लङ्घनं प्रोक्तं ज्वरमध्ये तु पाचनम् । ज्वरान्ते भेषजं दद्याज्ज्जरमुक्ते विरेचनम् ॥ त्रिविधं त्रिविधे दोषे तत्समीक्ष्य प्रयोजयेत् । दोषेऽल्पे लड्ङ्घनं पथ्यं मध्ये लङ्घनपाचनम् । प्रभूते शोधनं तच्च मूलादुन्मूलयेन्मलान् ॥ ” इति । ३ लङ्घनानन् ज्वरिणो दर्शयति - नेति । क्षयजे = धातुक्षयजे, यमज्वरे वा, मानसे = कामक्रोधादिजे । ४ द्वित्रणीये " न कार्य गर्भिणोवृद्धबालदुर्बल भीरुभिः " इति श्रध्याः प्रकीर्तिताः । ५ ज्वरे लङ्घनगुणानाख्याति - अनवस्थितेति । अनः वस्थितः स्वस्थानादितस्ततो गतो दोषोऽग्निश्च यस्य तस्य अनवस्थितदोषाग्नेर्ध्वरिण इत्यर्थः। ६ काङ्क्षा = अन्नाभिलाषः, रुचिः = मुखोपनीतस्याहारस्य रसनेन्द्रियस्याभि-लाषा, ' रुचिः स्त्री दीप्ति शोभायामभीष्टार्थाभिलाषयोः ' इति मेदिनी । ७ सम्यग्लङ्घितलक्षणं ब्रवीति - सृष्टेति । तन्त्रान्तरे – “ वातमूत्रपुरीषाणां विसर्गे गात्रलाघवे । हृदयोद्गारकण्ठास्य शुद्धौ तन्द्राक्लमे गते ॥ स्वेदै जाते रुचौ चापि क्षुत्पिपासासहोदये । कृतं लङ्घनमादेश्यं निर्व्यथे चान्तरात्मनि ॥ ” इति । श्रतिश CC - 0. Gurukul Kangri Collection, Haridwar