सुश्रुत संहिता चौखम्बा — पृष्ठ 1221–1230
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1221–1230
पृष्ठ 1221
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ९ ] Digitized by Arya गुम्त रस hennai and eGangotri
उपद्रवाश्च श्वासाद्याः सम्भवन्त्यतिलङ्घनात् ।
दीपेनं कफविच्छेदि पित्तवातानुलोमनम् ॥ १०६ ॥
कफवातज्वरार्त्तभ्यो हितमुष्णाम्बु तृटूछिदम् ।
तद्धि मार्दवदोषस्रोतसां शीतमन्यथा ॥ १०७ ॥
सेव्यमानेन तोयेन ज्वरः शीतेन वर्द्धते ।
पित्तमद्यविषोत्थेषु शीतलं तिक्तकैः शृतम् ॥। १०८ ॥
गाङ्गेये नागरोशीर पर्पटोदीच्य चन्दनैः ।
दीपनी पाचनी लघ्वी ज्वरार्त्तानां ज्वरापहा ॥ १० ९ ॥
अन्नकाले हिता पेया यथास्वम्पीचनैः कृता ।
बहुदोषस्य मन्दाग्नेः सप्तरात्रात्परं ज्वरे ॥ ११० ॥
१०६३ यितलङ्घनस्य लक्षणमाह-- बलक्षय इति । तन्त्रान्तरे - " पर्व भेदोऽङ्गमर्दश्च कालः शोषो मुखस्य च । क्षुत्प्रणाशोऽरुचिस्तृष्णा दौर्बव्यं श्रोत्रनेत्रयोः ॥ मनसः सम्भ्रमोऽ-भीक्ष्णमूर्ध्ववातस्तमो हृदि । देहाग्निबलहानिश्च लङ्घनेऽतिकृते भवेत् ॥ ” इति । हीन. लङ्घनस्य लक्षणं तु- “ कफोत्क्लेशः सहृल्लासः ष्ठीवनं च मुहुर्मुहुः । कण्ठस्य हृदयाशु-द्विस्तन्द्रा स्याद्धीनलङ्घने ॥ ” इति तन्त्रान्तरोक्तं बोध्यम् । १ ज्वरेऽर्घावशिष्टोदकगुणं दर्शयति- दीपनमिति । २ उष्णोदकलक्षणमुक्तम्-" क्वाथ्यमानं तु निवेंगं निष्फेनं निर्मलं तथा । अर्थावशिष्टं यत्तोयं तदुष्णोदकमुच्यते ॥ " इति । " ज्वरकासकफश्वासपित्तवाताममेदसाम् । नाशन पाचनं चैव पथ्यमुष्णोदकं सदा " ॥ ऋतुभेदेन जलस्य पाकभेदमाह - " त्रिपादशेषं सलिलं ग्रीष्मे शरदि शस्यते । हिमेऽधं शेषं शिशिरे तथा वर्षावसन्तयोः ॥ ” इति । अन्ये तु - " निदाघे खर्धपादोनं पादहीनं तु शारदम् । शिशिरे च वसन्ते च हिमे चार्घावशेषितम् ॥ श्रष्टमांशावशेषं तु वारि वर्षासु शस्यते । इति केचिद् बुधाः प्राहुर्जेज्जटागमदर्शनात् ॥ ” इति । ३ शीतोदकगुणं वक्ति - शीतमिति । शीतम् = अक्कथितम्, अन्यथा = - उष्णो-- दकगुणविपरीत गुणम् । ४ शृतशीतजलगुणमाह - पित्तेति । तिक्तकैः = तिक्त • वर्गाभिहितैर्द्रव्येः । ५ गाङ्गेयं = मुस्तम्, नागरः = शुण्ठी, उशीरं = ' खस ' इति ख्यातम् । पर्पटः = ' पित्तपापड़ा ' इति प्रथते । उदीच्यं = बालकम् । गाङ्गेयादिकं कर्ष-मात्रमादाय प्रस्थपरिमिते जले क्वाथ्य अर्धावशिष्टं कर्तव्यम् । तदुक्तम् - " यदप्सु शृत-शीतासु षङ्गादि प्रयुज्यते । कर्षमात्रं ततो द्रव्यं साधयेत् प्रास्थिकेऽम्भसि । अर्धश्शृतं प्रयोक्तव्यं पाने पेयादिसंविधौ ॥ ” इति वङ्गसेनः । शार्ङ्गधरोऽपि - " क्षुण्णं द्रव्यं पलं साध्यं चतुःषष्टिपले जले । अर्धशिष्टं तु तद्देयं पाने पेयादिसंविधौ ॥ ” इति । ६ पा-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1222
पाठ पढ़ें पाठ छिपाएँ
१०६४ Digitized by Arya Sam सुश्रुतसंहितायां ramdeGangotri [ अ ० ३ ९
लङ्घनाम्बुयवागूभिर्यदा दोषो न पच्यते ।
तदा तं मुखवैरस्य तृष्णारोचकनाशनैः ॥ १११ ॥
कषायैः पाचनैर्हयैर्ध्वरनैः समुपाचरेत् ।
पैञ्चमूलीकषायन्तु पाचनं पवनज्वरे ॥ ११२ ॥
सक्षौद्रं पैत्तिके मुस्तकटुकेन्द्रयवैः कृतम् ।
पिप्पल्यादिकषायन्तु कफजे परिपाचनम् ॥ ११३ ॥
द्वन्द्वजेषु तु संसृष्टं दद्यादथ विवर्जयेत् ।
पीताम्बुर्लङघतो भुक्तोऽजीर्णी क्षीणः पिपासितः ॥ ११४ ॥
( तीक्ष्णे ज्वरे गुरौ देहे विबद्धेषु मलेषु च । सामदोषं विजानीयाज्ज्वरं पक्कमतोऽन्यथा ॥ )
मृदौ ज्वरे लौ देहे प्रचलेषु मलेषु च ।
पक्कं दोषं विजानीयाज्ज्वरे देयं तदौषधम् ॥ ११५ ॥
दोषप्रकृतिवैकृत्यादेकेषां पक्वलक्षणम् ।
हृदयोद्वेष्टनं तन्द्रा लालास्रुतिररोचकः ॥ ११६ ॥
दोषार्प्रवृत्तिरालस्यं विबन्धो बहुमूत्रता ।
गुरुदरत्वमस्वेदो न पक्तिः शकृतोऽरतिः ॥ ११७ ॥
चनंः — बक्ष्यमाणैः पञ्चमूलीप्रभृतिभिः पाचनैरित्यर्थः । १ कषायैः = काथैः । २ प्रतिदोषं तांस्तान् पाचनकषायान्निर्दिशति – पञ्चेति । पश्चमूली = महती पञ्चमूली । ३ पिप्पल्यादिर्गणो द्रव्य सङ्ग्रहणीयाध्यायोक्तः । ४ संसृष्टं - मिश्र कषायमित्यर्थः । येषां पाचनमहितं तानाइ – - अ । विवर्जयेत् ' पाचनम् ' इति अथेति शेषः । ५ पक्वज्वरलक्षणमाइ — मृदाविति । मृदौ = स्वल्पीभूते, प्रचलेषु = स्वमा. र्गसवारिषु, मलेषु = वातपित्तकफमूत्रपुरीषेषु । ६ तदौषधं = वक्ष्यमाणशमनशोधना-ख्यमौषधमित्यर्थः । ७ एकीयमतं निर्दिशति — दोषेति । दोषाणां दुष्टवातपित्तकफानां प्रकृतिः ज्वर-स्य तदुपद्रवाणां चोत्पादनं, तस्या वैकृत्यं वैपरीत्यं तस्माद् दोषप्रकृतिवैकृत्याद्, दोष-पाकज्ञानमित्यर्थः । ८ सामान्यमामज्वरलक्षणमाचष्टे - हृदयोद्वेष्टनमिति । हृदयो-द्वेष्टनं = हृदयस्यामोटनमिव । ९ दोषाप्रवृत्तिः = वातादिदोषाणां निश्चलता, श्राल-स्यम् = अलसरवम्, विबन्धः = विड्वातयोर प्रवृत्तिः । १० अरतिः = अनवस्थितचि ० CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1223
पाठ पढ़ें पाठ छिपाएँ
उत्तरतन्त्रम् । Digitized by Arya Samaj Foundation Chennai and eGangotri अ ० ३ ९ ] १०६५
स्वापः स्तम्भो गुरुत्वञ्च गात्राणां वह्निमार्दवम् ।
मुखस्याशुद्धिरग्लानिः प्रसङ्गी बलवान् ज्वरः ॥ ११८ ॥
लिङ्गैरे भावजानीयाज्ज्वरमामं विचक्षणः ।
सप्ते रात्रात्परं केचिन्मन्यन्ते देयमौषधम् ॥ ११ ९ ॥
दशरात्रात्परं केचिद्दातव्यमिति निश्चिताः ।
पैत्तिके वा ज्वरे देयमल्पकालसमुत्थिते ॥ १२० ॥
चिरज्वरितस्यापि देयं स्याद्दोषपाकतः ।
भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम् ॥ १२१ ॥
शोधनं, शमनीयन्तु करोति विषमज्वरम् ।
च्यवमानं ज्वरोत्क्लिष्टमुपेक्षेत मलं सदा ॥। १२२ ॥
त्तता । १ प्रसङ्गी CHO संसक्तः । निरामज्वरलक्षणं तु - " क्षुरक्षामत्वं लघुखं च गात्रा-णां ज्वरमार्दवम् । दोषप्रकृतिरुत्साहो निरामज्वरलक्षणम् ॥ ” इति । दोषप्रकृतिर्दोषाणां मार्गसवार इति तदर्थः । २ ज्वरे परमतेन श्रदानकालमाह - सप्तेति । सप्तरात्रात्परम् = = अष्टमेऽहनी · त्यर्थः । केचित् = चरकादयः, यथा - " ज्वरितं वडहेऽतीते लध्वन्नप्रतिभोजितम् । पाचकं नामनीयं वा कषायं पाययेत्तु तम् ॥ ” इति । ज्वरितं षढहे लङ्घनेन व्यतीते सप्तमेऽहनि लध्वन्नं दत्त्वा, अष्टमे दिने कषायं पाययेदिति तदर्थः । “ गुडूचीपिप्पली-मूलनागरैः पाचनं श्रुतम् । वातज्वरे तथा पेयं कालिङ्गं सप्तमेऽहनि ॥ ” इति शार्ङ्ग-घरः । अपि च-- " पाययेदातुरं साममौषधं सप्तमे दिने । शमनेनाथवा दृष्ट्वा निराम तमुपाचरेव ॥ ” इति तन्त्रान्तरम् । अपि च - " वातिके सप्तरात्रेण दशरात्रेण पेत्तिके । श्लैष्मिके द्वादशाहेन ज्वरे युञ्जीत भेषजम् ॥ ” इति । एवं सति कषायदाने सप्तमाष्टम-दिवसयोर्विकल्पः । तत्रापि वयोबलाग्निदोषदेशकालोचितं कुर्यादिति भावमिश्रः । ३ यदा पित्तज्वरोऽल्पदोषश्च सप्ताहादर्वागपि शीघ्रं पाकमाप्नुयात्तदा भेषजं देयमिति स्वमतमाह— पैत्तिक इति । अल्पकालसमुत्थिते पैत्तिके ज्वरे दोषपाकतो दोषपाकं दृष्ट्वा भैषज्यं देयं, न तु तत्र दशरात्रापेक्षा; तथा अचिरज्वरितस्यापि पैत्ति · केतरनवज्वरयुक्तस्यापि दोषपाकं दृष्ट्वा भैषज्यं देयमित्यर्थः । ४ श्रमज्वरे श्रौषधदाने दोषमाह - भेषजमिति । हि शोधनं भेषजमामदोषस्य पुरुषस्य भूयो ज्वरं ज्वलयति दीपयति, शमनीयं भेषजं तु विषमज्वरं करोतीत्यर्थः । तन्त्रान्तरेऽपि — " दोषा वृद्धाः कषायेण स्तम्भितास्तरुणज्वरे । स्तभ्यन्ते न विपच्यन्ते कुर्वन्ति विषमज्वरम् ॥ ” इति । ५ उपेक्षेत = प्रतीकारं प्रत्युदासीत, मलं = वातादिकम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1224
पाठ पढ़ें पाठ छिपाएँ
१०६६Digitized by Arya Samaj Fo सुश्रुतसंहितायां sangotri [ अ ० ३ ९
प्रतिप्रवर्त्तमानञ्च साधयेदतिसारवत् ।
यदा कोष्ठानुगाः पक्का विबद्धाः स्रोतसां मलाः ॥ १२३ ॥
चिज्वरितस्यापि तदा दद्याद्विरेचनम् ।
पैो निर्हतो दोषो देहे तिष्ठन् महात्ययम् ॥ १२४ ॥
विषमं वा ज्वरं कुर्याद् बलव्यापदमेव च ।
तस्मान्निर्हरणं कार्यं दोषाणां वमनादिभिः ॥ १२५ ॥
प्रौक्कर्म वमनं चास्य कार्यमास्थापनं तथा ।
विरेचनं तथा कुर्याच्छिरसश्च विरेचनम् ॥। १२६ ॥
क्रमशः, बलिने देयं वमनं श्लैष्मिके ज्वरे ।
पित्तप्राये विरेकस्तु कार्यः प्रशिथिलाशये ॥ १२७ ॥
सरुजेऽनिलजे कार्य सोदावर्त्ते निरूहणम् ।
कटीपृष्ठप्रहार्त्तस्य दीप्ताग्नेरनुवासनम् ॥ १२८ ॥
शिरोगौरवशूलन्नमिन्द्रियप्रतिबोधनम् ।
कफाभिपन्ने शिरसि काय मूर्द्धविरेचनम् ॥ १२ ९ ॥
दुर्बलस्य समाध्मातमुदरं सरुजं दिहेत् । १ ज्वरे शोधनावस्थां दर्शयति - यदेति । कोष्ठानुगाः श्रामाशयादाववस्थिताः, स्रोतसां = तत्तत्कोष्ठाश्रितानाम् । २ विरेचनं = शोधनम् । ३ पक्कदोषोपेक्षणे दूषणं दर्शयति — पक्व इति । पक्कः = लङ्घनतिक्ताम्बुपानपेयाऽदिभिः, अनिर्हृतः = वम • नादिनाऽनुत्सृष्टः, महात्ययं = गम्भीरमिति कार्तिकः । महात्ययं विषमज्वरं चातुर्थिकं तस्यैव महात्ययत्वादिति गदाधरः । ४ बलव्यापदं = बलक्षयम् । ५ ज्वरे वमनादिक्रममुपदिशति - प्राक्कर्मेति । यद्यपि लङ्घनस्य प्राक्कर्मत्व-मुपदिष्टं, तथाऽन्यत्र वमनस्य प्राक्कर्मत्वमवस्थाविशेषाद् बोध्यम् । पित्ते ६ तुकारः वमनमपि सूचयति । तथा च तन्त्रान्तरम् - " उपस्थिते श्लेष्मपित्ते व्याधावामाशया-श्रये । वमनार्थं प्रयुञ्जीत भिषग्देइमदूषयन् ॥ ” इति । ७ सोदावर्ते । - स विबन्धे, " वातविण्मूत्र जम्भाऽश्रुक्षवोद्वारवमन्द्रियैः । व्याहन्यमाने रुदितैरुदावर्तो निरुच्यते ॥ ” इति तल्लक्षणं वक्ष्यति । निरूहणम् = श्रास्थापनम् । ८ ज्वरे आध्माने उदरलेपमुद्दिशति - दुर्बलस्येति । दिहेत् == लिम्पेदित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1225
पाठ पढ़ें पाठ छिपाएँ
" उत्तरतः अ ० ३ ९ ] Digitized by Arya Samaj Foundation Chennai and eGangotri दारुमवती कुष्टशताह्रा हिङ्गसैन्धवैः ॥ १३० ॥
अम्लैपिष्टैः सुखोष्णैश्च पवने तूर्ध्वमागते ।
रुद्रमूत्रपुरीषाय गुदे त्तिं निधापयेत् ॥ १३१ ॥
पिप्पलीपिप्पलीमूलयवानीचव्यसाधिम् ।
पाययेत यवागूं वा मारुताद्यनुलोमिनीम् ॥। १३२ ॥
शुद्धस्योभयतो यस्य ज्वरः शान्तिं न गच्छति ।
सशेषदोषरूक्षस्य तस्य तं सर्पिषा जयेत् ॥ १३३ ॥
कृशचैवाल्पदोषश्च शमनीयैरुपाचरेत् ।
उपवासैर्वलस्थन्तु ज्वरे सन्तर्पणोत्थिते ॥ १३४ ॥
क्लिन्नां यवागूं मन्दाग्निं तृषार्त्त पाययेन्नरम् ।
छर्दिदाहधर्मात मद्यपं लाजतर्पणम् ॥ १३५ ॥
सक्षौद्रमम्भसा पश्चाज्जीर्णे यूपरसौदनम् ।
उपवासश्रमकृते क्षीणे वाताधिके ज्वरे ॥ १३६ ॥
दीप्ताग्निं भोजयेत् प्राज्ञो नरं मांसरसौदनम् ।
मुद्यूषौदनश्चापि हितः कफसमुत्थिते ॥ १३७ ॥
स एव सिर्तया युक्तः शीतः पित्तज्वरे हितः ।
५० दाडिमा मलमुद्गानां यूषश्चानिलपैत्तिके ॥ १३८ ॥
ह्रस्वमूलकं यूषस्तु वातश्लेष्माधिके हितः ।
पटोलनिम्बयूषस्तु पथ्यः पित्तकफात्मके ॥ १३ ९ ॥
-२०६७ १ दारु = ३ देवदारु, हैमवती = वचा । २ काञ्जिकाद्यम्लपिष्टैरित्यर्थः । दारुहैमव-त्यादिभिः कृतां वर्तिमित्यर्थः । ४ षडङ्गपरिभाषाश्वतेन जलेन साधितामिति बोध्यम् । ५ उभयतः = वमनविरेचनादिना । ६ बक्ष्यमाणेन कल्याणकादिना सर्विषेत्यर्थः । ७ शोधनविधिमभिधाय संशमनविधिमभिदधाति - कृशमिति । ८ उपवासैः = अनशनैः, उपवासैरिति बहुवचनं दशविधमपि लङ्घनं यथा ss वस्थं योज्यमिति सूचयति । तथा च चरकः– “ चतुष्प्रकारा संशुद्धिः पिपासामारुतातपौ । पाचन ( न्युपवासश्च व्यायामश्चेति लङ्घनम् ॥ ” इति । चतुष्प्रकारा संशुद्धिर्वमन विरेचननिरूइब स्तिशिरो-विरेचनानि, अत्र लङ्घनं कर्षणमिति तदर्थः । ९ सितया = शर्करया । १० द्वन्द्वज-ज्वराणां पथ्यं दर्शयति - दाडिमेति । ११ ह्रस्वमूलको । बालमूलकस्तस्य यूषः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1226
पाठ पढ़ें पाठ छिपाएँ
१०६८ Digitized by Arya Samaj F सुश्रुतसंहितायां angotri [ अ ० ३ ९
दाहच्छादयुतं क्षामं निरन्नं तृष्णयाऽर्दितम् ।
सिताक्षौद्रयुतं लाजत'णं पाययेत च ॥ १४० ॥
कफपित्तपरीतस्य ग्रीष्मेऽसृक्पित्तिनस्तथा ।
मद्यनित्यस्य न हिता यवागूस्तमुपाचरेत् ॥ १४१ ॥
यूपैरम्लैरनम्लैर्वा जाङ्गलैश्व रसैहितैः ।
मद्यं पुराणं मन्दाग्नेर्यवान्नोपहितं हितम् ॥ १४२ ॥
संव्योषं वितरेत्तकं कफारोचकपीडिते ।
" कृशोऽल्पदोषो दीनश्च नरो जीर्णज्वरादितः ॥ १४३ ॥
विबद्धः सृष्टदोषैश्च रूक्षः पित्तानिलज्वरी ।
पिपासाऽऽर्त्तः सदाहो वा पयसा स सुखी भवेत् ॥ १४४ ॥
तदेव तरुणे पीतं विषवद्धन्ति मानवम् ।
सर्वज्वरेषु सुर्लघु मात्रावद्भोजनं हितम् ॥ १४५ ॥
वेगापाये ऽन्यथा तद्धि ज्वरवेगाभिवर्द्धनम् ।
ज्वरितो ' ' हितमश्नीयाद्यद्यप्यस्यारुचिर्भवेत् ॥ १४६ ॥
अन्नकाले ' भुञ्जानः क्षीयते म्रियतेऽथवा ।
स क्षीणः कृच्छ्रतां याति यात्यसाध्यत्वमेव च ॥ १४७ ॥
येषां यवागूः । श्रहिता तानभि • १ क्षामं = क्षीणम्, निरन्नम् = प्रकृत भोजनम् । २ धत्ते - कफेति । श्रसृक्पित्तिनः = रक्तपित्तिन इत्यर्थः । ३ ४ सव्योषं = त्रिकटुयुक्तम्, वितरेत् = दद्यादित्यर्थः । ५ ज्वरे कृश इति । कृशः = क्षीणः, दीनः = क्लिष्टचित्तः । ७ पयसा = क्षीरेणेत्यर्थः । पुराणं == सम्यक् पक्कम् । क्षीरप्रयोगमुपदिशति -६ सृष्टदोषः = च्युतदोषः । ८ तरुणज्वरे पयः पीतं सद् यत्करोति तद्दर्शयति - तदेवेति । तदेव = पयः, तरुणे = तरुणज्वरे । ९ पुराणरक्तशाल्यादिकं सुलध्वित्यर्थः । मात्रावत् = अल्पम् । १० वेगापाये = ज्वरवेगक्षये । ११ जीर्णज्वरितस्यारुचावपि हितभोजनमुपदिशति-ज्वरित इति । हि ं कल्पनाविशेषेण रुच्यं कृत्वा श्रश्नीयादित्यर्थः । तदुक्तम्– “ सात · त्यात् स्वाद्वभावाच्च पथ्यं द्वेष्यखमागतम् । कल्पनाविधिभिस्तैस्तैः प्रियत्वं गययेत् पुनः ॥ ” इति । १२ हि यस्मादन्नकाले प्रभुञ्जानः क्षीयते अथवा म्रियते । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1227
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ९ ] Digitized by Arya Samaj Foundation Chennai and eGangotri " उत्तरतन्त्रम् " " " "
तस्माद्रक्षेद्वलं पुंसां बले सति हि जीवितम् ।
गुव्यभिष्यन्द्यकाले च ज्वरी नाद्यात्कथञ्चन ॥ १४८ ॥
न तु तस्याहितं भुक्तमायुषे वा सुखाय वा । २०६ ९ सततं विषमं वाऽपि क्षीणस्य सुचिरोत्थितम् ॥ १४ ९ ॥
ज्वरं सँम्भोजनैः पथ्यैर्लघुभिः समुपाचरेत् ।
मुद्गान्मसूरांश्चकान् कुलत्थान् समकुष्टकान् ॥ १५० ॥
आहारकाले यूषार्थ ज्वरिताय प्रदापयेत् ।
पटोलपत्र वार्ताकं कैठिल्लं पापचैलिकम् ॥ १५१ ॥
कर्कोटकं पर्पटकं गोजिह्वां बालमूलकम् ।
पत्रं गुडूच्याः शाकार्थे ज्वरितानां प्रदापयेत् ॥ १२२ ॥
लावान् कपिञ्जलानेखान् पृषताञ्छरभाञ्छशान् ।
कालपुच्छीन् कुरङ्गांश्च तथैव मृगमातृकान् ॥ १५३ ॥
मांसार्थे मांससाम्यानां ज्वरितानां प्रदापयेत् ।
" सारस क्रौञ्च शिखिन: कुक्कुटांस्तित्तिरांस्तथा ॥ १५४ ॥
१ श्रमिष्यन्दि = दोषधातुमलस्रोतसां क्लेदप्राप्ति जननम्, कथञ्चन = एकत्रा-रमपि। २ अ तुकारो यस्मादर्थे । यस्मादहितं गुर्वादिकं भुक्तं भोजनं तस्य ज्वरितस्य श्रायुषे सुखाय वा न भवतीति शेषः । ३ विषमं = सततान्येद्युष्कादिकम् । ४ सम्भोजनैः = यथेष्टभोजनैरित्यर्थः । ५, ज्वरे आहारोपयोगीनि द्रव्याणि निर्दिशति - मुद्रानिति । समकुष्ठकान् = वन मुद्गसहितान् । ६ कठिल्लं = पुनर्नवाशाकम्, ' कठिल्लकस्तु पर्णासे वर्षाभूकार-वेल्लयोः ' इति विश्वः । पापचैलिकं = पाठाशाकम् । ७ कर्कोटकं = ' खेखसा ' इति ख्यातत्त्य शाकम्, पर्पटकं = ' पित्तपापड़ा ' इति ख्यातस्य शाकम्, गोजिह्वा = वनगो-जीशाकम्, बालमूलकं = लघुमूलकशाकम् । ८ कपिञ्जलः = गौरतित्तिरिः, एषः = कृष्णमृगः, पृषतः = शुभ्रबिन्दुमान् मृगविशेषः, शरभः = श्रष्टापद उष्ट्रप्रमाणो महाशृङ्गः पृष्ठगतचतुष्पादः काश्मीरे प्रसिद्धः, अस्य लक्षणं महाभारते – ' अष्टपादूर्ध्वनयन ऊर्ध्व. पादचतुष्टयः । सिंहं हन्तुं समायाति शरभो वनगोचरः ॥ ' इति । ९ कालपुच्छः = यथाश्रुतो मृगविशेषः, कुरङ्गः - ईषत्ताम्रो बृहद्धरिणरचतुःशृङ्ग • इचतुरगतिः, ‘ चतुरङ्ग ' इति लोके । मृगमात्रिकः = क्षुद्रमृगः । १० परमतेन सारसा-दीनामप्रशस्तत्वमाह – सारसेति । सारसः = रक्तचन्चुः पक्षिविशेषः क्रौञ्चः = ' करा-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1228
पाठ पढ़ें पाठ छिपाएँ
१८७० Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-[ अ ० ३ ९
गुरूष्णत्वान्न शंसन्ति ज्वरे केचिच्चिकित्सकाः ।
ज्वरितानां प्रकोपन्तु यदा याति समीरणः ॥ १५५ ॥
तदैतेऽपि हि शस्यन्ते मात्राकालोपपादिताः ।
परिषेकावगाहांश्च स्नेहान् संशोधनानि च ॥ १५६ ॥
( स्नानाभ्यङ्गदिवास्वप्नशीतव्यायामयोषितः । ) कषायगुरुरुक्षारिण क्रोधादीनि तथैव च ॥ १५७ ॥
सारवन्ति च भोज्यानि वर्जयेत्तरुणज्वरी ।
तथैव नवधान्यादिं वर्जयेच्च समासतः ॥ १५८ ॥
अनवस्थितदोषाग्नेरेभिः सन्धुक्षितो ज्वरः ।
गम्भीरतीक्ष्णवेगत्वं यात्यसाध्यत्वमेव च ॥ १५ ९ ॥
शीततोय दिवास्वप्नक्रोधव्यायामयोषितः ।
न सेवेत ज्वरोत्सृष्टो यावन्न बलवान् भवेत् ॥ १६० ॥
मुक्तस्यापि ज्वरेणाशु दुर्बलस्याहितैर्ज्वरः ।
प्रत्यापन्नो दहेद देहं शुष्कं वृक्षमिवानलः ॥ १६१ ॥
तस्मात्कार्यः परीहारो ज्वरमुक्तैविरिक्तवत् ।
यावन्न प्रकृतिस्थः स्याद् दोषतः प्राणतस्तथा ॥ १६२ ॥
ज्वरे ' ' प्रमोहो भवति स्वल्पैरप्यवचेष्टितैः ।
निषण्णां भोजयेत्तस्मान्मूत्रोच्चारौ च कारयेत् ॥ १६३ ॥
अरोचके गात्रसादे वैवर्येऽङ्गमलादिषु । कुल ' इति ख्यातो बकभेदः, शिखी = मयूरः । १ स्वमतेन श्रभिदधाति - ज्वरिता-नामिति 1 २ एते = सारसादयः । ३ ज्वरे वर्जनीयानि दर्शयति - परिषेकेति । श्रवगादः = नद्यादौ निमज्य स्ना • नम् । ४ स्निग्धानि अभिष्यन्दीनि च सारवन्ति वस्तू नीत्यर्थः । ५ नवधान्यादि-वर्गो व्रणितोपासनीये तक्रान्तो द्रष्टव्यः । ६ अनवस्थितदोषाग्नेः = नवज्वरिणः, एभिः = परिषेकादिभिः । ७ अहितैः = परिषेकादिभिरित्यर्थः । ८ प्रत्यापन्नः = प्रत्यावृत्तः, दहेत् = विनाशयेत् । ९ परीहारः - परिषेकादीनां परित्यागः । १० ज्वरे श्रायासनिषेधार्थमुपदिशति-त - ज्वर इति । ज्वरे ज्वरकशिते पुरुषे स्वल्प. रपि श्रवचेष्टितेरुत्थानादिव्यापारैः प्रमोहो मूर्च्छा भवति, तस्मात् निषण्णं शय्यायामु. CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1229
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ९ ] Digitized by Arya saalin Chennai and eGangotri २०७१ शान्तज्वरोऽपि शोध्यः स्यादनुबन्धभयान्नरः ॥ १६४ ॥
न जातु स्नापयेत् प्राज्ञः सहेसा ज्वरकर्शितम् ।
तेन सन्दूषितो ह्यस्य पुनरेव भवेज्ज्वरः ॥ १६५ ॥
चिकित्सेच्च ज्वरान् सर्वान्निमित्तानां विपर्य्ययैः ।
श्रमक्षयाभिघातोत्थे मूलव्याधिमुपाचरेत् ॥ १६६ ॥
स्त्रीणामपप्रजातानां स्तन्यावतरणे च यः ।
तत्र संशमनं कुर्य्याद्यथादोषं विधानवित् ॥ १६७ ॥
अतः संशमनीयानि कषायाणि निबोध मे ।
सर्वज्वरेषु देयानि यानि वैद्येन जानता ॥ १६८ ॥
पिप्पलीसारिवाद्राक्षाशतपुष्पाह रेणुभिः । ६ कृतः कषायः सगुडो हन्याच्छ्वसनजं ज्वरम् ॥। १६ ९ ॥ १ अनुबन्ध-३ तेन: पविष्टमेव भोजयेत् । चकाराद् निषण्णमेव मूत्रोच्चारौ । कारयेदित्यर्थः । भयात् ज्वरस्य पुनरावृत्तिशङ्कया । २ सहसा = • बलप्राप्तेः प्राक् । स्नानेनेत्यर्थः । ४ सङ्क्षेपतः सर्वज्वरचिकित्सितमभिधत्ते - चिकित्सेच्चेति । निमित्तानां वि-पर्ययैः = कारणानां विपरीतैः, यथा - सन्तर्पणोत्थे ज्वरे अपतर्पणम्, अपतर्पणोत्थे च सन्तर्पणमिति । ५ “ श्रमक्षयाभिघातेभ्यो देहिनां कुपितोऽनिलः । पूरयित्वाऽखिलं देहं ज्वरमापादयेद् भृशम् ॥ ” इति प्रागुक्तस्मरणाद् मूलव्याधि मूलदोषं वायुमुपाचरे. दिस्यर्थः । ६ यः ज्वरः । ७ विधानविद् वैद्यो यथा दोषं दोषप्रकोपानुसारेण तत्र ज्वरे संशमनं पाचनमपि कुर्यात् कारयेदित्यर्थः । ८ मे मत्सकाशात्, निबोध जानीहि । ९ तत्र वातज्वरे संशमनकषायानाख्याति - पिप्पलीति | सारिखा = उत्प-लसारिवा, शतपुष्पा = ' सौंफ ' इति ख्याता । हरेणुः = रेणुका, निर्गुण्डीबीजमिति यावत् । पिप्पल्यादिद्रव्यपलं षोडशपलप्रमाणे पानीये सङ्काथ्य चतुर्भागावशिष्टं पलच-तुष्टयमादाय कर्षप्रमाणं गुढं मेलयित्वा पानेन श्वसनजं वातजं ज्वरमेष कषायो नाश-यतीति बोध्यम् । “ भेषजात् षोडशगुणं जलं, क्वाथ्ये पलं मतम् । चतुर्भागावशेषं तु पेयमेवं सुखार्थिना ॥ ” इति तद्विधिरुक्तः । एतत् पलमानमुत्तमादिभेदेन बोध्यम् । तदुक्तम्— “ उत्तमस्य पलं मानं त्रिभिः कर्षैश्च मध्यमे । जघन्यस्य पलार्थी च स्नेह-क्वाथौषधेषु च ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1230
पाठ पढ़ें पाठ छिपाएँ
१०७२ Digitized by Arya Samaj / सुश्रुतसंहितायां Gangotri
तं शीतकषायं वा गुडूच्याः पेयमेव तु ।
बलादर्भश्वदंष्ट्राणां कषायं पादशेषितम् ॥ १७० ॥
शर्कराघृतसंयुक्तं पिबेद्वातज्वरापहम् ।
शतपुष्पावचाकुष्ठदेवदारुहरेणुकाः ॥ १७५
कुस्तुम्बुरुणि नलदं मुस्तं चैवाप्सु साधयेत् । [ अ ० ३ ९ क्षौद्रेण सितया चापि युक्तः क्वाथोऽनिलाधिके ॥ १७२ ॥
द्राक्षागुडूचीकामर्थ्य त्रायमाणाः ससारिवाः ।
निःक्वाथ्य सगुडं क्वाथं पिबेद्वातकृते ज्वरे ॥ १७३ ॥
गुडूच्याः खरसो ग्राह्यः शतावर्य्याश्च तत्समः ।
निहन्यात्सगुडः पीतः सद्योऽनिलकृतं ज्वरम् ॥। १७४ ॥
घृताभ्यङ्गस्वेदले पानवस्थासु च योजयेत् ।
· श्रीपर्णीचन्दनोशीरपरूषकमधूकजः ॥ १७१ ॥
१ शृतं = पूर्वोक्तविधिना काथीकृतम्, अत्र विशेषः - " दिवा मृतं पयो रात्रौ गुरुतामधिगच्छति । रात्रौ शृतं दिवा पीतं गुरुत्व मधिगच्छति ॥ तत्तु पर्युषितं वह्निगु-णोत्सृष्टं त्रिदोषकृत् । गुर्वम्लपाकं विष्टम्भि सर्वरोगेषु निन्दितम् ॥ श्रुतशीतं पुनस्तप्तं तोयं विषसमं भवेत् । निर्यंहोऽपि तथा शीतः पुनस्तप्तो विषोपमः ॥ ” इति । शीतक-षायलक्षणम्– “ क्षुण्णं द्रव्यपलं सम्यक् षड्भिर्जलपलैः प्लुतम् । शर्वरीमुषितः स स्याद्धिमः शीतकषायकः ॥ ” इति । अपि च - " द्रव्यादापोत्थितात्तोये प्रतप्ते संस्थि-तान्निशि । कषायो योऽभिनिर्याति स शीतः समुदाहृतः ॥ ” इति । २ श्वदंष्टा = गोक्षुरकः । ३ शर्कराघृताभ्यां कर्षप्रमाणाभ्यां संयुक्तम्, एवमग्रेऽपि अनुपाने कर्ष-प्रमाणमुन्नैयम् । ४ कुस्तुम्बुरु = धन्याकम्, नलदम् = उशीरम् । ५ काश्मर्यं = गम्भारीफलम्, त्रायमाणा = त्रायन्ती, ' वार्षिकं त्रायमाणा स्यात् त्रायन्ती बलभद्रिका ' इति । ६ अव • स्थासु = रूक्षत्वशीतानुसङ्गित्वादिषु यथा रूक्षत्वे पुराणघृताभ्यङ्गः, शीतानुसङ्गित्वे स्वेदलेपौ । “ दाहकृत्तेजसा युक्तः शीतकृत् सोमसंश्रयात् " इति वाग्भटोक्त्या पित्तश्ले-थ्मानुसङ्गित्वेन दाइशीते जाते यथा योग्यं शीतोष्णान् लेपान् प्रयोजयेदित्याद्यूह्यम् । ७ पित्तज्वरे संशमनमुपदिशति - श्रीपर्णीति । श्रीपण परूषकयोः फलं ग्राह्यं मधुकस्य तु पुष्पम् । श्रीपर्णी - गम्भारी, परूषकः = ' फालसा ' इति ख्यातः । चन्दनं = रक्तचन्दनम्, यत उक्तम् – “ कषायलेपयोः प्रायो युज्यते रक्तचन्दनम् " इति । CC - 0. Gurukul Kangri Collection, Haridwar