सुश्रुत संहिता चौखम्बा — पृष्ठ 1221–1230

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1221–1230

पृष्ठ 1221

सुश्रुत संहिता चौखम्बा, पृष्ठ 1221 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ९ ] Digitized by Arya गुम्त रस hennai and eGangotri

उपद्रवाश्च श्वासाद्याः सम्भवन्त्यतिलङ्घनात् ।

दीपेनं कफविच्छेदि पित्तवातानुलोमनम् ॥ १०६ ॥

कफवातज्वरार्त्तभ्यो हितमुष्णाम्बु तृटूछिदम् ।

तद्धि मार्दवदोषस्रोतसां शीतमन्यथा ॥ १०७ ॥

सेव्यमानेन तोयेन ज्वरः शीतेन वर्द्धते ।

पित्तमद्यविषोत्थेषु शीतलं तिक्तकैः शृतम् ॥। १०८ ॥

गाङ्गेये नागरोशीर पर्पटोदीच्य चन्दनैः ।

दीपनी पाचनी लघ्वी ज्वरार्त्तानां ज्वरापहा ॥ १० ९ ॥

अन्नकाले हिता पेया यथास्वम्पीचनैः कृता ।

बहुदोषस्य मन्दाग्नेः सप्तरात्रात्परं ज्वरे ॥ ११० ॥

१०६३ यितलङ्घनस्य लक्षणमाह-- बलक्षय इति । तन्त्रान्तरे - " पर्व भेदोऽङ्गमर्दश्च कालः शोषो मुखस्य च । क्षुत्प्रणाशोऽरुचिस्तृष्णा दौर्बव्यं श्रोत्रनेत्रयोः ॥ मनसः सम्भ्रमोऽ-भीक्ष्णमूर्ध्ववातस्तमो हृदि । देहाग्निबलहानिश्च लङ्घनेऽतिकृते भवेत् ॥ ” इति । हीन. लङ्घनस्य लक्षणं तु- “ कफोत्क्लेशः सहृल्लासः ष्ठीवनं च मुहुर्मुहुः । कण्ठस्य हृदयाशु-द्विस्तन्द्रा स्याद्धीनलङ्घने ॥ ” इति तन्त्रान्तरोक्तं बोध्यम् । १ ज्वरेऽर्घावशिष्टोदकगुणं दर्शयति- दीपनमिति । २ उष्णोदकलक्षणमुक्तम्-" क्वाथ्यमानं तु निवेंगं निष्फेनं निर्मलं तथा । अर्थावशिष्टं यत्तोयं तदुष्णोदकमुच्यते ॥ " इति । " ज्वरकासकफश्वासपित्तवाताममेदसाम् । नाशन पाचनं चैव पथ्यमुष्णोदकं सदा " ॥ ऋतुभेदेन जलस्य पाकभेदमाह - " त्रिपादशेषं सलिलं ग्रीष्मे शरदि शस्यते । हिमेऽधं शेषं शिशिरे तथा वर्षावसन्तयोः ॥ ” इति । अन्ये तु - " निदाघे खर्धपादोनं पादहीनं तु शारदम् । शिशिरे च वसन्ते च हिमे चार्घावशेषितम् ॥ श्रष्टमांशावशेषं तु वारि वर्षासु शस्यते । इति केचिद् बुधाः प्राहुर्जेज्जटागमदर्शनात् ॥ ” इति । ३ शीतोदकगुणं वक्ति - शीतमिति । शीतम् = अक्कथितम्, अन्यथा = - उष्णो-- दकगुणविपरीत गुणम् । ४ शृतशीतजलगुणमाह - पित्तेति । तिक्तकैः = तिक्त • वर्गाभिहितैर्द्रव्येः । ५ गाङ्गेयं = मुस्तम्, नागरः = शुण्ठी, उशीरं = ' खस ' इति ख्यातम् । पर्पटः = ' पित्तपापड़ा ' इति प्रथते । उदीच्यं = बालकम् । गाङ्गेयादिकं कर्ष-मात्रमादाय प्रस्थपरिमिते जले क्वाथ्य अर्धावशिष्टं कर्तव्यम् । तदुक्तम् - " यदप्सु शृत-शीतासु षङ्गादि प्रयुज्यते । कर्षमात्रं ततो द्रव्यं साधयेत् प्रास्थिकेऽम्भसि । अर्धश्शृतं प्रयोक्तव्यं पाने पेयादिसंविधौ ॥ ” इति वङ्गसेनः । शार्ङ्गधरोऽपि - " क्षुण्णं द्रव्यं पलं साध्यं चतुःषष्टिपले जले । अर्धशिष्टं तु तद्देयं पाने पेयादिसंविधौ ॥ ” इति । ६ पा-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1222

सुश्रुत संहिता चौखम्बा, पृष्ठ 1222 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०६४ Digitized by Arya Sam सुश्रुतसंहितायां ramdeGangotri [ अ ० ३ ९

लङ्घनाम्बुयवागूभिर्यदा दोषो न पच्यते ।

तदा तं मुखवैरस्य तृष्णारोचकनाशनैः ॥ १११ ॥

कषायैः पाचनैर्हयैर्ध्वरनैः समुपाचरेत् ।

पैञ्चमूलीकषायन्तु पाचनं पवनज्वरे ॥ ११२ ॥

सक्षौद्रं पैत्तिके मुस्तकटुकेन्द्रयवैः कृतम् ।

पिप्पल्यादिकषायन्तु कफजे परिपाचनम् ॥ ११३ ॥

द्वन्द्वजेषु तु संसृष्टं दद्यादथ विवर्जयेत् ।

पीताम्बुर्लङघतो भुक्तोऽजीर्णी क्षीणः पिपासितः ॥ ११४ ॥

( तीक्ष्णे ज्वरे गुरौ देहे विबद्धेषु मलेषु च । सामदोषं विजानीयाज्ज्वरं पक्कमतोऽन्यथा ॥ )

मृदौ ज्वरे लौ देहे प्रचलेषु मलेषु च ।

पक्कं दोषं विजानीयाज्ज्वरे देयं तदौषधम् ॥ ११५ ॥

दोषप्रकृतिवैकृत्यादेकेषां पक्वलक्षणम् ।

हृदयोद्वेष्टनं तन्द्रा लालास्रुतिररोचकः ॥ ११६ ॥

दोषार्प्रवृत्तिरालस्यं विबन्धो बहुमूत्रता ।

गुरुदरत्वमस्वेदो न पक्तिः शकृतोऽरतिः ॥ ११७ ॥

चनंः — बक्ष्यमाणैः पञ्चमूलीप्रभृतिभिः पाचनैरित्यर्थः । १ कषायैः = काथैः । २ प्रतिदोषं तांस्तान् पाचनकषायान्निर्दिशति – पञ्चेति । पश्चमूली = महती पञ्चमूली । ३ पिप्पल्यादिर्गणो द्रव्य सङ्ग्रहणीयाध्यायोक्तः । ४ संसृष्टं - मिश्र कषायमित्यर्थः । येषां पाचनमहितं तानाइ – - अ । विवर्जयेत् ' पाचनम् ' इति अथेति शेषः । ५ पक्वज्वरलक्षणमाइ — मृदाविति । मृदौ = स्वल्पीभूते, प्रचलेषु = स्वमा. र्गसवारिषु, मलेषु = वातपित्तकफमूत्रपुरीषेषु । ६ तदौषधं = वक्ष्यमाणशमनशोधना-ख्यमौषधमित्यर्थः । ७ एकीयमतं निर्दिशति — दोषेति । दोषाणां दुष्टवातपित्तकफानां प्रकृतिः ज्वर-स्य तदुपद्रवाणां चोत्पादनं, तस्या वैकृत्यं वैपरीत्यं तस्माद् दोषप्रकृतिवैकृत्याद्, दोष-पाकज्ञानमित्यर्थः । ८ सामान्यमामज्वरलक्षणमाचष्टे - हृदयोद्वेष्टनमिति । हृदयो-द्वेष्टनं = हृदयस्यामोटनमिव । ९ दोषाप्रवृत्तिः = वातादिदोषाणां निश्चलता, श्राल-स्यम् = अलसरवम्, विबन्धः = विड्वातयोर प्रवृत्तिः । १० अरतिः = अनवस्थितचि ० CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1223

सुश्रुत संहिता चौखम्बा, पृष्ठ 1223 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

उत्तरतन्त्रम् । Digitized by Arya Samaj Foundation Chennai and eGangotri अ ० ३ ९ ] १०६५

स्वापः स्तम्भो गुरुत्वञ्च गात्राणां वह्निमार्दवम् ।

मुखस्याशुद्धिरग्लानिः प्रसङ्गी बलवान् ज्वरः ॥ ११८ ॥

लिङ्गैरे भावजानीयाज्ज्वरमामं विचक्षणः ।

सप्ते रात्रात्परं केचिन्मन्यन्ते देयमौषधम् ॥ ११ ९ ॥

दशरात्रात्परं केचिद्दातव्यमिति निश्चिताः ।

पैत्तिके वा ज्वरे देयमल्पकालसमुत्थिते ॥ १२० ॥

चिरज्वरितस्यापि देयं स्याद्दोषपाकतः ।

भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम् ॥ १२१ ॥

शोधनं, शमनीयन्तु करोति विषमज्वरम् ।

च्यवमानं ज्वरोत्क्लिष्टमुपेक्षेत मलं सदा ॥। १२२ ॥

त्तता । १ प्रसङ्गी CHO संसक्तः । निरामज्वरलक्षणं तु - " क्षुरक्षामत्वं लघुखं च गात्रा-णां ज्वरमार्दवम् । दोषप्रकृतिरुत्साहो निरामज्वरलक्षणम् ॥ ” इति । दोषप्रकृतिर्दोषाणां मार्गसवार इति तदर्थः । २ ज्वरे परमतेन श्रदानकालमाह - सप्तेति । सप्तरात्रात्परम् = = अष्टमेऽहनी · त्यर्थः । केचित् = चरकादयः, यथा - " ज्वरितं वडहेऽतीते लध्वन्नप्रतिभोजितम् । पाचकं नामनीयं वा कषायं पाययेत्तु तम् ॥ ” इति । ज्वरितं षढहे लङ्घनेन व्यतीते सप्तमेऽहनि लध्वन्नं दत्त्वा, अष्टमे दिने कषायं पाययेदिति तदर्थः । “ गुडूचीपिप्पली-मूलनागरैः पाचनं श्रुतम् । वातज्वरे तथा पेयं कालिङ्गं सप्तमेऽहनि ॥ ” इति शार्ङ्ग-घरः । अपि च-- " पाययेदातुरं साममौषधं सप्तमे दिने । शमनेनाथवा दृष्ट्वा निराम तमुपाचरेव ॥ ” इति तन्त्रान्तरम् । अपि च - " वातिके सप्तरात्रेण दशरात्रेण पेत्तिके । श्लैष्मिके द्वादशाहेन ज्वरे युञ्जीत भेषजम् ॥ ” इति । एवं सति कषायदाने सप्तमाष्टम-दिवसयोर्विकल्पः । तत्रापि वयोबलाग्निदोषदेशकालोचितं कुर्यादिति भावमिश्रः । ३ यदा पित्तज्वरोऽल्पदोषश्च सप्ताहादर्वागपि शीघ्रं पाकमाप्नुयात्तदा भेषजं देयमिति स्वमतमाह— पैत्तिक इति । अल्पकालसमुत्थिते पैत्तिके ज्वरे दोषपाकतो दोषपाकं दृष्ट्वा भैषज्यं देयं, न तु तत्र दशरात्रापेक्षा; तथा अचिरज्वरितस्यापि पैत्ति · केतरनवज्वरयुक्तस्यापि दोषपाकं दृष्ट्वा भैषज्यं देयमित्यर्थः । ४ श्रमज्वरे श्रौषधदाने दोषमाह - भेषजमिति । हि शोधनं भेषजमामदोषस्य पुरुषस्य भूयो ज्वरं ज्वलयति दीपयति, शमनीयं भेषजं तु विषमज्वरं करोतीत्यर्थः । तन्त्रान्तरेऽपि — " दोषा वृद्धाः कषायेण स्तम्भितास्तरुणज्वरे । स्तभ्यन्ते न विपच्यन्ते कुर्वन्ति विषमज्वरम् ॥ ” इति । ५ उपेक्षेत = प्रतीकारं प्रत्युदासीत, मलं = वातादिकम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1224

सुश्रुत संहिता चौखम्बा, पृष्ठ 1224 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०६६Digitized by Arya Samaj Fo सुश्रुतसंहितायां sangotri [ अ ० ३ ९

प्रतिप्रवर्त्तमानञ्च साधयेदतिसारवत् ।

यदा कोष्ठानुगाः पक्का विबद्धाः स्रोतसां मलाः ॥ १२३ ॥

चिज्वरितस्यापि तदा दद्याद्विरेचनम् ।

पैो निर्हतो दोषो देहे तिष्ठन् महात्ययम् ॥ १२४ ॥

विषमं वा ज्वरं कुर्याद् बलव्यापदमेव च ।

तस्मान्निर्हरणं कार्यं दोषाणां वमनादिभिः ॥ १२५ ॥

प्रौक्कर्म वमनं चास्य कार्यमास्थापनं तथा ।

विरेचनं तथा कुर्याच्छिरसश्च विरेचनम् ॥। १२६ ॥

क्रमशः, बलिने देयं वमनं श्लैष्मिके ज्वरे ।

पित्तप्राये विरेकस्तु कार्यः प्रशिथिलाशये ॥ १२७ ॥

सरुजेऽनिलजे कार्य सोदावर्त्ते निरूहणम् ।

कटीपृष्ठप्रहार्त्तस्य दीप्ताग्नेरनुवासनम् ॥ १२८ ॥

शिरोगौरवशूलन्नमिन्द्रियप्रतिबोधनम् ।

कफाभिपन्ने शिरसि काय मूर्द्धविरेचनम् ॥ १२ ९ ॥

दुर्बलस्य समाध्मातमुदरं सरुजं दिहेत् । १ ज्वरे शोधनावस्थां दर्शयति - यदेति । कोष्ठानुगाः श्रामाशयादाववस्थिताः, स्रोतसां = तत्तत्कोष्ठाश्रितानाम् । २ विरेचनं = शोधनम् । ३ पक्कदोषोपेक्षणे दूषणं दर्शयति — पक्व इति । पक्कः = लङ्घनतिक्ताम्बुपानपेयाऽदिभिः, अनिर्हृतः = वम • नादिनाऽनुत्सृष्टः, महात्ययं = गम्भीरमिति कार्तिकः । महात्ययं विषमज्वरं चातुर्थिकं तस्यैव महात्ययत्वादिति गदाधरः । ४ बलव्यापदं = बलक्षयम् । ५ ज्वरे वमनादिक्रममुपदिशति - प्राक्कर्मेति । यद्यपि लङ्घनस्य प्राक्कर्मत्व-मुपदिष्टं, तथाऽन्यत्र वमनस्य प्राक्कर्मत्वमवस्थाविशेषाद् बोध्यम् । पित्ते ६ तुकारः वमनमपि सूचयति । तथा च तन्त्रान्तरम् - " उपस्थिते श्लेष्मपित्ते व्याधावामाशया-श्रये । वमनार्थं प्रयुञ्जीत भिषग्देइमदूषयन् ॥ ” इति । ७ सोदावर्ते । - स विबन्धे, " वातविण्मूत्र जम्भाऽश्रुक्षवोद्वारवमन्द्रियैः । व्याहन्यमाने रुदितैरुदावर्तो निरुच्यते ॥ ” इति तल्लक्षणं वक्ष्यति । निरूहणम् = श्रास्थापनम् । ८ ज्वरे आध्माने उदरलेपमुद्दिशति - दुर्बलस्येति । दिहेत् == लिम्पेदित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1225

सुश्रुत संहिता चौखम्बा, पृष्ठ 1225 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

" उत्तरतः अ ० ३ ९ ] Digitized by Arya Samaj Foundation Chennai and eGangotri दारुमवती कुष्टशताह्रा हिङ्गसैन्धवैः ॥ १३० ॥

अम्लैपिष्टैः सुखोष्णैश्च पवने तूर्ध्वमागते ।

रुद्रमूत्रपुरीषाय गुदे त्तिं निधापयेत् ॥ १३१ ॥

पिप्पलीपिप्पलीमूलयवानीचव्यसाधिम् ।

पाययेत यवागूं वा मारुताद्यनुलोमिनीम् ॥। १३२ ॥

शुद्धस्योभयतो यस्य ज्वरः शान्तिं न गच्छति ।

सशेषदोषरूक्षस्य तस्य तं सर्पिषा जयेत् ॥ १३३ ॥

कृशचैवाल्पदोषश्च शमनीयैरुपाचरेत् ।

उपवासैर्वलस्थन्तु ज्वरे सन्तर्पणोत्थिते ॥ १३४ ॥

क्लिन्नां यवागूं मन्दाग्निं तृषार्त्त पाययेन्नरम् ।

छर्दिदाहधर्मात मद्यपं लाजतर्पणम् ॥ १३५ ॥

सक्षौद्रमम्भसा पश्चाज्जीर्णे यूपरसौदनम् ।

उपवासश्रमकृते क्षीणे वाताधिके ज्वरे ॥ १३६ ॥

दीप्ताग्निं भोजयेत् प्राज्ञो नरं मांसरसौदनम् ।

मुद्यूषौदनश्चापि हितः कफसमुत्थिते ॥ १३७ ॥

स एव सिर्तया युक्तः शीतः पित्तज्वरे हितः ।

५० दाडिमा मलमुद्गानां यूषश्चानिलपैत्तिके ॥ १३८ ॥

ह्रस्वमूलकं यूषस्तु वातश्लेष्माधिके हितः ।

पटोलनिम्बयूषस्तु पथ्यः पित्तकफात्मके ॥ १३ ९ ॥

-२०६७ १ दारु = ३ देवदारु, हैमवती = वचा । २ काञ्जिकाद्यम्लपिष्टैरित्यर्थः । दारुहैमव-त्यादिभिः कृतां वर्तिमित्यर्थः । ४ षडङ्गपरिभाषाश्वतेन जलेन साधितामिति बोध्यम् । ५ उभयतः = वमनविरेचनादिना । ६ बक्ष्यमाणेन कल्याणकादिना सर्विषेत्यर्थः । ७ शोधनविधिमभिधाय संशमनविधिमभिदधाति - कृशमिति । ८ उपवासैः = अनशनैः, उपवासैरिति बहुवचनं दशविधमपि लङ्घनं यथा ss वस्थं योज्यमिति सूचयति । तथा च चरकः– “ चतुष्प्रकारा संशुद्धिः पिपासामारुतातपौ । पाचन ( न्युपवासश्च व्यायामश्चेति लङ्घनम् ॥ ” इति । चतुष्प्रकारा संशुद्धिर्वमन विरेचननिरूइब स्तिशिरो-विरेचनानि, अत्र लङ्घनं कर्षणमिति तदर्थः । ९ सितया = शर्करया । १० द्वन्द्वज-ज्वराणां पथ्यं दर्शयति - दाडिमेति । ११ ह्रस्वमूलको । बालमूलकस्तस्य यूषः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1226

सुश्रुत संहिता चौखम्बा, पृष्ठ 1226 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०६८ Digitized by Arya Samaj F सुश्रुतसंहितायां angotri [ अ ० ३ ९

दाहच्छादयुतं क्षामं निरन्नं तृष्णयाऽर्दितम् ।

सिताक्षौद्रयुतं लाजत'णं पाययेत च ॥ १४० ॥

कफपित्तपरीतस्य ग्रीष्मेऽसृक्पित्तिनस्तथा ।

मद्यनित्यस्य न हिता यवागूस्तमुपाचरेत् ॥ १४१ ॥

यूपैरम्लैरनम्लैर्वा जाङ्गलैश्व रसैहितैः ।

मद्यं पुराणं मन्दाग्नेर्यवान्नोपहितं हितम् ॥ १४२ ॥

संव्योषं वितरेत्तकं कफारोचकपीडिते ।

" कृशोऽल्पदोषो दीनश्च नरो जीर्णज्वरादितः ॥ १४३ ॥

विबद्धः सृष्टदोषैश्च रूक्षः पित्तानिलज्वरी ।

पिपासाऽऽर्त्तः सदाहो वा पयसा स सुखी भवेत् ॥ १४४ ॥

तदेव तरुणे पीतं विषवद्धन्ति मानवम् ।

सर्वज्वरेषु सुर्लघु मात्रावद्भोजनं हितम् ॥ १४५ ॥

वेगापाये ऽन्यथा तद्धि ज्वरवेगाभिवर्द्धनम् ।

ज्वरितो ' ' हितमश्नीयाद्यद्यप्यस्यारुचिर्भवेत् ॥ १४६ ॥

अन्नकाले ' भुञ्जानः क्षीयते म्रियतेऽथवा ।

स क्षीणः कृच्छ्रतां याति यात्यसाध्यत्वमेव च ॥ १४७ ॥

येषां यवागूः । श्रहिता तानभि • १ क्षामं = क्षीणम्, निरन्नम् = प्रकृत भोजनम् । २ धत्ते - कफेति । श्रसृक्पित्तिनः = रक्तपित्तिन इत्यर्थः । ३ ४ सव्योषं = त्रिकटुयुक्तम्, वितरेत् = दद्यादित्यर्थः । ५ ज्वरे कृश इति । कृशः = क्षीणः, दीनः = क्लिष्टचित्तः । ७ पयसा = क्षीरेणेत्यर्थः । पुराणं == सम्यक् पक्कम् । क्षीरप्रयोगमुपदिशति -६ सृष्टदोषः = च्युतदोषः । ८ तरुणज्वरे पयः पीतं सद् यत्करोति तद्दर्शयति - तदेवेति । तदेव = पयः, तरुणे = तरुणज्वरे । ९ पुराणरक्तशाल्यादिकं सुलध्वित्यर्थः । मात्रावत् = अल्पम् । १० वेगापाये = ज्वरवेगक्षये । ११ जीर्णज्वरितस्यारुचावपि हितभोजनमुपदिशति-ज्वरित इति । हि ं कल्पनाविशेषेण रुच्यं कृत्वा श्रश्नीयादित्यर्थः । तदुक्तम्– “ सात · त्यात् स्वाद्वभावाच्च पथ्यं द्वेष्यखमागतम् । कल्पनाविधिभिस्तैस्तैः प्रियत्वं गययेत् पुनः ॥ ” इति । १२ हि यस्मादन्नकाले प्रभुञ्जानः क्षीयते अथवा म्रियते । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1227

सुश्रुत संहिता चौखम्बा, पृष्ठ 1227 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ९ ] Digitized by Arya Samaj Foundation Chennai and eGangotri " उत्तरतन्त्रम् " " " "

तस्माद्रक्षेद्वलं पुंसां बले सति हि जीवितम् ।

गुव्यभिष्यन्द्यकाले च ज्वरी नाद्यात्कथञ्चन ॥ १४८ ॥

न तु तस्याहितं भुक्तमायुषे वा सुखाय वा । २०६ ९ सततं विषमं वाऽपि क्षीणस्य सुचिरोत्थितम् ॥ १४ ९ ॥

ज्वरं सँम्भोजनैः पथ्यैर्लघुभिः समुपाचरेत् ।

मुद्गान्मसूरांश्चकान् कुलत्थान् समकुष्टकान् ॥ १५० ॥

आहारकाले यूषार्थ ज्वरिताय प्रदापयेत् ।

पटोलपत्र वार्ताकं कैठिल्लं पापचैलिकम् ॥ १५१ ॥

कर्कोटकं पर्पटकं गोजिह्वां बालमूलकम् ।

पत्रं गुडूच्याः शाकार्थे ज्वरितानां प्रदापयेत् ॥ १२२ ॥

लावान् कपिञ्जलानेखान् पृषताञ्छरभाञ्छशान् ।

कालपुच्छीन् कुरङ्गांश्च तथैव मृगमातृकान् ॥ १५३ ॥

मांसार्थे मांससाम्यानां ज्वरितानां प्रदापयेत् ।

" सारस क्रौञ्च शिखिन: कुक्कुटांस्तित्तिरांस्तथा ॥ १५४ ॥

१ श्रमिष्यन्दि = दोषधातुमलस्रोतसां क्लेदप्राप्ति जननम्, कथञ्चन = एकत्रा-रमपि। २ अ तुकारो यस्मादर्थे । यस्मादहितं गुर्वादिकं भुक्तं भोजनं तस्य ज्वरितस्य श्रायुषे सुखाय वा न भवतीति शेषः । ३ विषमं = सततान्येद्युष्कादिकम् । ४ सम्भोजनैः = यथेष्टभोजनैरित्यर्थः । ५, ज्वरे आहारोपयोगीनि द्रव्याणि निर्दिशति - मुद्रानिति । समकुष्ठकान् = वन मुद्गसहितान् । ६ कठिल्लं = पुनर्नवाशाकम्, ' कठिल्लकस्तु पर्णासे वर्षाभूकार-वेल्लयोः ' इति विश्वः । पापचैलिकं = पाठाशाकम् । ७ कर्कोटकं = ' खेखसा ' इति ख्यातत्त्य शाकम्, पर्पटकं = ' पित्तपापड़ा ' इति ख्यातस्य शाकम्, गोजिह्वा = वनगो-जीशाकम्, बालमूलकं = लघुमूलकशाकम् । ८ कपिञ्जलः = गौरतित्तिरिः, एषः = कृष्णमृगः, पृषतः = शुभ्रबिन्दुमान् मृगविशेषः, शरभः = श्रष्टापद उष्ट्रप्रमाणो महाशृङ्गः पृष्ठगतचतुष्पादः काश्मीरे प्रसिद्धः, अस्य लक्षणं महाभारते – ' अष्टपादूर्ध्वनयन ऊर्ध्व. पादचतुष्टयः । सिंहं हन्तुं समायाति शरभो वनगोचरः ॥ ' इति । ९ कालपुच्छः = यथाश्रुतो मृगविशेषः, कुरङ्गः - ईषत्ताम्रो बृहद्धरिणरचतुःशृङ्ग • इचतुरगतिः, ‘ चतुरङ्ग ' इति लोके । मृगमात्रिकः = क्षुद्रमृगः । १० परमतेन सारसा-दीनामप्रशस्तत्वमाह – सारसेति । सारसः = रक्तचन्चुः पक्षिविशेषः क्रौञ्चः = ' करा-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1228

सुश्रुत संहिता चौखम्बा, पृष्ठ 1228 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१८७० Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-[ अ ० ३ ९

गुरूष्णत्वान्न शंसन्ति ज्वरे केचिच्चिकित्सकाः ।

ज्वरितानां प्रकोपन्तु यदा याति समीरणः ॥ १५५ ॥

तदैतेऽपि हि शस्यन्ते मात्राकालोपपादिताः ।

परिषेकावगाहांश्च स्नेहान् संशोधनानि च ॥ १५६ ॥

( स्नानाभ्यङ्गदिवास्वप्नशीतव्यायामयोषितः । ) कषायगुरुरुक्षारिण क्रोधादीनि तथैव च ॥ १५७ ॥

सारवन्ति च भोज्यानि वर्जयेत्तरुणज्वरी ।

तथैव नवधान्यादिं वर्जयेच्च समासतः ॥ १५८ ॥

अनवस्थितदोषाग्नेरेभिः सन्धुक्षितो ज्वरः ।

गम्भीरतीक्ष्णवेगत्वं यात्यसाध्यत्वमेव च ॥ १५ ९ ॥

शीततोय दिवास्वप्नक्रोधव्यायामयोषितः ।

न सेवेत ज्वरोत्सृष्टो यावन्न बलवान् भवेत् ॥ १६० ॥

मुक्तस्यापि ज्वरेणाशु दुर्बलस्याहितैर्ज्वरः ।

प्रत्यापन्नो दहेद देहं शुष्कं वृक्षमिवानलः ॥ १६१ ॥

तस्मात्कार्यः परीहारो ज्वरमुक्तैविरिक्तवत् ।

यावन्न प्रकृतिस्थः स्याद् दोषतः प्राणतस्तथा ॥ १६२ ॥

ज्वरे ' ' प्रमोहो भवति स्वल्पैरप्यवचेष्टितैः ।

निषण्णां भोजयेत्तस्मान्मूत्रोच्चारौ च कारयेत् ॥ १६३ ॥

अरोचके गात्रसादे वैवर्येऽङ्गमलादिषु । कुल ' इति ख्यातो बकभेदः, शिखी = मयूरः । १ स्वमतेन श्रभिदधाति - ज्वरिता-नामिति 1 २ एते = सारसादयः । ३ ज्वरे वर्जनीयानि दर्शयति - परिषेकेति । श्रवगादः = नद्यादौ निमज्य स्ना • नम् । ४ स्निग्धानि अभिष्यन्दीनि च सारवन्ति वस्तू नीत्यर्थः । ५ नवधान्यादि-वर्गो व्रणितोपासनीये तक्रान्तो द्रष्टव्यः । ६ अनवस्थितदोषाग्नेः = नवज्वरिणः, एभिः = परिषेकादिभिः । ७ अहितैः = परिषेकादिभिरित्यर्थः । ८ प्रत्यापन्नः = प्रत्यावृत्तः, दहेत् = विनाशयेत् । ९ परीहारः - परिषेकादीनां परित्यागः । १० ज्वरे श्रायासनिषेधार्थमुपदिशति-त - ज्वर इति । ज्वरे ज्वरकशिते पुरुषे स्वल्प. रपि श्रवचेष्टितेरुत्थानादिव्यापारैः प्रमोहो मूर्च्छा भवति, तस्मात् निषण्णं शय्यायामु. CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1229

सुश्रुत संहिता चौखम्बा, पृष्ठ 1229 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ९ ] Digitized by Arya saalin Chennai and eGangotri २०७१ शान्तज्वरोऽपि शोध्यः स्यादनुबन्धभयान्नरः ॥ १६४ ॥

न जातु स्नापयेत् प्राज्ञः सहेसा ज्वरकर्शितम् ।

तेन सन्दूषितो ह्यस्य पुनरेव भवेज्ज्वरः ॥ १६५ ॥

चिकित्सेच्च ज्वरान् सर्वान्निमित्तानां विपर्य्ययैः ।

श्रमक्षयाभिघातोत्थे मूलव्याधिमुपाचरेत् ॥ १६६ ॥

स्त्रीणामपप्रजातानां स्तन्यावतरणे च यः ।

तत्र संशमनं कुर्य्याद्यथादोषं विधानवित् ॥ १६७ ॥

अतः संशमनीयानि कषायाणि निबोध मे ।

सर्वज्वरेषु देयानि यानि वैद्येन जानता ॥ १६८ ॥

पिप्पलीसारिवाद्राक्षाशतपुष्पाह रेणुभिः । ६ कृतः कषायः सगुडो हन्याच्छ्वसनजं ज्वरम् ॥। १६ ९ ॥ १ अनुबन्ध-३ तेन: पविष्टमेव भोजयेत् । चकाराद् निषण्णमेव मूत्रोच्चारौ । कारयेदित्यर्थः । भयात् ज्वरस्य पुनरावृत्तिशङ्कया । २ सहसा = • बलप्राप्तेः प्राक् । स्नानेनेत्यर्थः । ४ सङ्क्षेपतः सर्वज्वरचिकित्सितमभिधत्ते - चिकित्सेच्चेति । निमित्तानां वि-पर्ययैः = कारणानां विपरीतैः, यथा - सन्तर्पणोत्थे ज्वरे अपतर्पणम्, अपतर्पणोत्थे च सन्तर्पणमिति । ५ “ श्रमक्षयाभिघातेभ्यो देहिनां कुपितोऽनिलः । पूरयित्वाऽखिलं देहं ज्वरमापादयेद् भृशम् ॥ ” इति प्रागुक्तस्मरणाद् मूलव्याधि मूलदोषं वायुमुपाचरे. दिस्यर्थः । ६ यः ज्वरः । ७ विधानविद् वैद्यो यथा दोषं दोषप्रकोपानुसारेण तत्र ज्वरे संशमनं पाचनमपि कुर्यात् कारयेदित्यर्थः । ८ मे मत्सकाशात्, निबोध जानीहि । ९ तत्र वातज्वरे संशमनकषायानाख्याति - पिप्पलीति | सारिखा = उत्प-लसारिवा, शतपुष्पा = ' सौंफ ' इति ख्याता । हरेणुः = रेणुका, निर्गुण्डीबीजमिति यावत् । पिप्पल्यादिद्रव्यपलं षोडशपलप्रमाणे पानीये सङ्काथ्य चतुर्भागावशिष्टं पलच-तुष्टयमादाय कर्षप्रमाणं गुढं मेलयित्वा पानेन श्वसनजं वातजं ज्वरमेष कषायो नाश-यतीति बोध्यम् । “ भेषजात् षोडशगुणं जलं, क्वाथ्ये पलं मतम् । चतुर्भागावशेषं तु पेयमेवं सुखार्थिना ॥ ” इति तद्विधिरुक्तः । एतत् पलमानमुत्तमादिभेदेन बोध्यम् । तदुक्तम्— “ उत्तमस्य पलं मानं त्रिभिः कर्षैश्च मध्यमे । जघन्यस्य पलार्थी च स्नेह-क्वाथौषधेषु च ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1230

सुश्रुत संहिता चौखम्बा, पृष्ठ 1230 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०७२ Digitized by Arya Samaj / सुश्रुतसंहितायां Gangotri

तं शीतकषायं वा गुडूच्याः पेयमेव तु ।

बलादर्भश्वदंष्ट्राणां कषायं पादशेषितम् ॥ १७० ॥

शर्कराघृतसंयुक्तं पिबेद्वातज्वरापहम् ।

शतपुष्पावचाकुष्ठदेवदारुहरेणुकाः ॥ १७५

कुस्तुम्बुरुणि नलदं मुस्तं चैवाप्सु साधयेत् । [ अ ० ३ ९ क्षौद्रेण सितया चापि युक्तः क्वाथोऽनिलाधिके ॥ १७२ ॥

द्राक्षागुडूचीकामर्थ्य त्रायमाणाः ससारिवाः ।

निःक्वाथ्य सगुडं क्वाथं पिबेद्वातकृते ज्वरे ॥ १७३ ॥

गुडूच्याः खरसो ग्राह्यः शतावर्य्याश्च तत्समः ।

निहन्यात्सगुडः पीतः सद्योऽनिलकृतं ज्वरम् ॥। १७४ ॥

घृताभ्यङ्गस्वेदले पानवस्थासु च योजयेत् ।

· श्रीपर्णीचन्दनोशीरपरूषकमधूकजः ॥ १७१ ॥

१ शृतं = पूर्वोक्तविधिना काथीकृतम्, अत्र विशेषः - " दिवा मृतं पयो रात्रौ गुरुतामधिगच्छति । रात्रौ शृतं दिवा पीतं गुरुत्व मधिगच्छति ॥ तत्तु पर्युषितं वह्निगु-णोत्सृष्टं त्रिदोषकृत् । गुर्वम्लपाकं विष्टम्भि सर्वरोगेषु निन्दितम् ॥ श्रुतशीतं पुनस्तप्तं तोयं विषसमं भवेत् । निर्यंहोऽपि तथा शीतः पुनस्तप्तो विषोपमः ॥ ” इति । शीतक-षायलक्षणम्– “ क्षुण्णं द्रव्यपलं सम्यक् षड्भिर्जलपलैः प्लुतम् । शर्वरीमुषितः स स्याद्धिमः शीतकषायकः ॥ ” इति । अपि च - " द्रव्यादापोत्थितात्तोये प्रतप्ते संस्थि-तान्निशि । कषायो योऽभिनिर्याति स शीतः समुदाहृतः ॥ ” इति । २ श्वदंष्टा = गोक्षुरकः । ३ शर्कराघृताभ्यां कर्षप्रमाणाभ्यां संयुक्तम्, एवमग्रेऽपि अनुपाने कर्ष-प्रमाणमुन्नैयम् । ४ कुस्तुम्बुरु = धन्याकम्, नलदम् = उशीरम् । ५ काश्मर्यं = गम्भारीफलम्, त्रायमाणा = त्रायन्ती, ' वार्षिकं त्रायमाणा स्यात् त्रायन्ती बलभद्रिका ' इति । ६ अव • स्थासु = रूक्षत्वशीतानुसङ्गित्वादिषु यथा रूक्षत्वे पुराणघृताभ्यङ्गः, शीतानुसङ्गित्वे स्वेदलेपौ । “ दाहकृत्तेजसा युक्तः शीतकृत् सोमसंश्रयात् " इति वाग्भटोक्त्या पित्तश्ले-थ्मानुसङ्गित्वेन दाइशीते जाते यथा योग्यं शीतोष्णान् लेपान् प्रयोजयेदित्याद्यूह्यम् । ७ पित्तज्वरे संशमनमुपदिशति - श्रीपर्णीति । श्रीपण परूषकयोः फलं ग्राह्यं मधुकस्य तु पुष्पम् । श्रीपर्णी - गम्भारी, परूषकः = ' फालसा ' इति ख्यातः । चन्दनं = रक्तचन्दनम्, यत उक्तम् – “ कषायलेपयोः प्रायो युज्यते रक्तचन्दनम् " इति । CC - 0. Gurukul Kangri Collection, Haridwar